[[220]]
चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसन्निकृष्टसंयोगहेतुराकुञ्च- नम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् ।
आलोक व्याख्या
चलनात्मकमिति । ‘चलति’ इतिप्रतीतिसिद्धक्रियात्वरूपजाति- मत्त्वं कर्मणो लक्षणम् इत्यर्थः । चलने जाते, पूर्वदेशाद्वस्तुनो विभागः । तेन पूर्वसंयोगनाशः । तत उत्तरदेशसंयोगोत्पत्तिरिति क्रमोऽवर्जनीयः ।
अतः सर्वापि क्रिया क्षणचतुष्टयमात्रावस्थायिनी ॥ अधिककालानुवृत्तिव्यवहारस्तु क्रियान्तरोत्पत्तिवशादिति ज्ञेयम् ॥