[[276]]
रूपम्
चक्षुर्मात्रग्राह्यो गुणो रूपम् ।
एवं नवद्रव्याणां निरूपणेन द्रव्यनिरूपणस्य समाप्त्या, अनन्तरं यथाक्रमं गुणनिरूपणे कर्तव्ये सति, प्रथमनिर्दिष्टं रूपं लक्षयति - चक्षु- रित्यादि । चक्षुरेव चक्षुर्मात्रम् । चक्षुमत्रिण ग्राह्यः चक्षुर्मात्रग्राह्यः ।877
चक्षुमत्रिण ग्राह्य इत्यस्य लोके ‘चक्षुरिन्द्रियजन्यप्रत्यक्षविषयः चक्षुर्भिन्नेन्द्रिय- जन्यप्रत्यक्षाविषयः’ इति बोधोऽनुभवसिद्धः । शाब्दबोधोऽप्येतदनुगुण एव वर्णनीयः । तथा हि एवकारस्य भेदवान्, अभावञ्चार्थः । चक्षुः पदस्य चक्षुरिन्द्रियमर्थः । तृतीयाया जन्यत्वमर्थः । चक्षुश्शब्दार्थस्य तृतीयार्थजन्यत्वे स्वनिष्ठजनकतानिरूपितत्वसम्बन्धेनान्वयः । जन्यताया आश्रयतासम्बन्धेन ग्रहधात्वर्थे प्रत्यक्षेऽन्वयः । ण्यत्प्रत्ययस्य विषयतावान् अर्थः । धात्वर्थस्य प्रत्यक्षस्य निरूपितत्वसम्बन्धेन विषयत्वेऽन्वयः । विषयतावतोऽभेदसम्बन्धेन विशेष्ये रूपेऽन्वयः । तथा च चक्षुरिन्द्रियनिष्ठजनकता-निरूपितजन्यता- श्रयप्रत्यक्षनिरूपितविषयतावदभिन्नम् इति बोधः । मात्रपदेन च चक्षुरिन्द्रियनिष्ठप्रतियोगितानिरूपकभेदवन्निष्ठजनकतानिरूपित-
जन्यताश्रयप्रत्यक्षनिरूपितविषयताभाववदभिन्नमिति बोध्यते । अथवा एतद्दृष्ट्या तु व्युत्पत्तिवैचित्र्याच्छाब्दबोधो वर्णनीयः । चक्षुः पदस्य स्वनिष्ठप्रतियोगितानिरूपकत्वसम्बन्धेन मात्रपदार्थैकदेशे भेदेऽन्वयः । तथा च चक्षुरिन्द्रियनिष्ठप्रतियोगितानिरूपकभेदवानर्थः । भेदवतः स्वनिष्ठजनकता- निरूपितत्वसम्बन्धेन तृतीयार्थे जन्यत्वेऽन्वयः । तथा च चक्षुरिन्द्रियनिष्ठ- प्रतियोगितानिरूपकभेदवन्निष्ठजनकतानिरूपिताजन्यता इत्यासीत् । जन्यताया आश्रयतासम्बन्धेन ग्रहधात्वर्थप्रत्यक्षे, धात्वर्थस्य च निरूपितत्वसम्बन्धेन ण्यत्प्रत्ययार्थैकदेशविषयतायाञ्चान्वयः । ण्यत्प्रत्ययार्थविषयतायाः स्वनिष्ठप्रतियोगितानिरूपकत्वसम्बन्धेन मात्रपदार्थैकदेशेऽभावेऽन्वयः । विषयत्वाभाववतोऽभेदसम्बन्धेन रूपेऽन्वयः । तथा च मात्रपदसमभिव्याहारेण चक्षुरिन्द्रियनिष्ठप्रतियोगितानिरूपकभेदवदिन्द्रियनिष्ठजनकतानिरूपित- जन्यताश्रयप्रत्यक्षनिरूपितविषयत्वाभाववदभिन्नमिति बोधः । एवञ्च चक्षुरिन्द्रियजन्यप्रत्यक्षविषयः, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयो गुणो
[[78]]
[[1]]
रूपमिति सङ्ग्रहेण निष्कृष्टः शाब्दबोधः । सर्वमिदं लोकानुभवस्वारस्यानुरोधेन व्युत्पत्तिवैचित्र्यान्निर्वाह्यम् ॥
चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे सति, चक्षुर्भिन्नेन्द्रियजन्य- प्रत्यक्षाविषयत्वे सति गुणत्वं रूपस्य लक्षणम् । चक्षुरिन्द्रियजन्यं यत् प्रत्यक्षम्, ‘अयं नीलः’ इत्यादिप्रत्यक्षम् । तद्विषयत्वं नैल्यादौ रूपे वर्तते । एवं चक्षुर्भिन्नं यदिन्द्रियं त्वगादीन्द्रियम् । तज्जन्यं प्रत्यक्षम् - ‘अयं शीतः’ इत्यादिप्रत्यक्षम् । तदविषयत्वं च रूपे वर्तते, गुणत्वं च वर्तत इति लक्षणसमन्वयः । गुणत्वमात्रोक्तौ रसादावतिव्याप्तिः । तदर्थं चक्षुरिन्द्रिय- जन्यप्रत्यक्षविषयत्वं विशेषणम् । रसे चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वा- भावान्नातिव्याप्तिः। एतावन्मात्रोक्तौ घटादावतिव्याप्तिः, तस्य चक्षुरिन्द्रिय- जन्यप्रत्यक्षविषयत्वात् । अतो गुणपदम् । घटादेर्द्रव्यत्वेन गुणत्वाभावा- न्नातिव्याप्तिः । चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वमात्रोक्तौ सङ्ख्यादौ चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वस्य गुणत्वस्य च सत्त्वादतिव्याप्तिः । अतश्चक्षु- र्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वमुक्तम् । सङ्ख्यादौ चक्षुर्भिन्नत्वगिन्द्रियजन्यप्रत्यक्ष- विषयत्वस्यैव सत्त्वेनाविषयत्वाभावान्नातिव्याप्तिः । चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षा- विषयत्वे सति गुणत्वमात्रोक्तौ, गुरुत्वस्यातीन्द्रियत्वेन केनापीन्द्रियेणाग्राह्यत्वात्, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वस्य गुणत्वस्य च सत्त्वेन गुरुत्वादावतिव्याप्तिः । अतश्चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वविशेषणम् । गुरुत्वस्यातीन्द्रियत्वेन चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वस्य तत्राभावान्नातिव्याप्तिः । गुणत्वानुपादाने, ‘येनेन्द्रियेण यद्वस्तु गृह्यते, तेनैवेन्द्रियेण तन्निष्ठा जातिस्तदभावश्च गृह्यते’ इति न्यायात् रूपत्वजातौ रूपाभावे च चक्षुरिन्द्रियजन्य- प्रत्यक्षविषयत्वस्य, चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वस्य च सत्त्वादतिव्याप्तिः । अतो गुणत्वम् । रूपत्वस्य जातित्वेन तत्र, रूपाभावे च गुणत्वाभावान्ना- तिव्याप्तिः ॥
[[1]]
[[079]]
। नन्वेवमपि प्रभाघटसंयोगेऽतिव्याप्तिः, तस्य घटद्वयसंयोगवत् त्वगिन्द्रियग्राह्यत्वाभावात्, चक्षुरिन्द्रियग्राह्यत्वात् गुणत्वाच्चेति चेत् न । गुणपदस्य विशेषगुणपरत्वेन, संयोगस्य सामान्यगुणत्वेनातिव्याप्त्यभावात्। न चैवं सति गुरुत्वस्य सामान्यगुणत्वेनानेनैव वारणे चक्षुरिन्द्रियग्राह्यत्वदलं विफलमिति शङ्क्यम्, अतीन्द्रियेऽदृष्टेऽतिव्याप्तिपरिहारेण सार्थक्यात् । अदृष्टस्य चक्षुर्भिन्नेन्द्रियाग्राह्यत्वात् विशेषगुणत्वाच्च । अथैवमपि परमाणुगतरूपस्यातीन्द्रियत्वेन चक्षुरिन्द्रियग्राह्यत्वाभावात् अव्याप्तिरिति चेत्, न । चक्षुरिन्द्रियग्राह्यगुणवृत्तिजातिमत्त्वस्य विवक्षणेन रूपत्वजातिमादायाव्याप्तेः परिहारात् । एवं गुणत्वजातिमादायादृष्टादावतिव्याप्तिपरिहाराय गुणत्वव्याप्य- जातिमत्त्वमपि विवक्षणीयम् । गुणत्वव्याप्यशुकृत्वादिजातिमादायाव्याप्ति- परिहाराय गुणत्वसाक्षाद्व्याप्यजातिमत्त्वमपि विवक्षणीयम् । नन्वेवं तर्हि रूपत्वरूपाभावयोस्तादृशजातिमत्त्वाभावादतिव्याप्त्यप्रसक्त्या गुणपदं व्यर्थमिति चेत्, न । सूर्यादिगतसङ्ख्यादेश्चक्षुरिन्द्रियमात्रग्राह्यत्वात् तादृशगुणगतैकत्वत्वा- दिजातिमादायातिव्याप्तिपरिहारार्थं तस्यावश्यकत्वात् । एवमपि मनसो ज्ञानसामान्यं प्रति कारणत्वात् चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षविषयत्वमेव रूपे वर्तते, न त्वविषयत्वमित्यसम्भवपरिहारायेन्द्रियपदं बहिरिन्द्रियपरं वक्तव्यमित्यादिक मूह्यम् । तथा च चक्षुरिन्द्रियजन्यप्रत्यक्षविषयगुणत्वसाक्षाद्व्याप्यजाति- मत्त्वे सति, चक्षुभिन्नवाह्येन्द्रिय-जन्यप्रत्यक्षाविषयत्वे सति विशेष- गुणत्वं रूपस्य लक्षणमिति ॥
एवमपि ‘सुरभि चन्दनम्’ इत्यादिप्रत्यये चक्षुरिन्द्रियजन्ये सौरभ्यस्यापि ज्ञानलक्षणप्रत्यासत्या (अलौकिकसन्निकर्षेण) भानात्तत्रातिव्याप्तिवारणाय चक्षुरिन्द्रियजन्यप्रत्यक्षनिरूपितलौकिकविषयताश्रयत्वपर्यन्तं विवक्षणीय- मित्यादिकमप्यूह्यम् ॥
[[80]]
तच्च शुक्लनीलपीतरक्तहरितकपिशचित्रभेदात्सप्तविधम् । पृथिवी- जलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुकं जले । भास्वरशुकं तेजसि ।
रसः
रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषाय- तिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव ।
चित्ररूपं तु नानारूपैस्तन्तुभिरारब्धस्य पटादेः प्रत्यक्षत्वार्थम् । नानारूपाणि नानातन्तुनिष्ठानि । पटस्तु तन्तुजन्यस्तन्तुभ्योऽतिरिक्तोऽवयवी त्युच्यते । अवयवी चैकः । तत्र रूपाभावे पटप्रत्यक्षमेव न स्यात् । चाक्षुषप्रत्यक्षं प्रति रूपस्य कारणत्वात् । अतः पटेऽतिरिक्तं रूपमङ्गीकार्यमित्यतिरिक्तचित्ररूपसिद्धिः । यद्यपि इन्द्रधनुषि दृश्यमानानि रूपाण्येव वास्तवरूपाणि, न तु शुकादीनीति केचिद्वदन्ति । परन्तु सर्वव्यवहाराणामनुभवरूपम् ऐन्द्रियकं ज्ञानमेव मूलम् । अयमेव विषयोऽस्य शास्त्रस्य ॥
J
ननु ‘नीलं नभः’ इति प्रतीत्याकाशस्यापि रूपं गुण इति पृथिवीजलतेजोमात्रवृत्तित्वं रूपस्य कथमिति चेत् न । अतिदूरप्रदेशे चक्षुरिन्द्रियाप्रसरणौपाधिकस्तादृशः प्रत्ययः । अन्यथा सन्निहितेऽप्याकाशे तादृशप्रतीतिप्रसङ्गः । ग्रीष्मर्ती हठाद्बहिः प्रदेशाद्वहं प्रविष्टानां किल गृहान्तः कृष्णरूपदर्शनं चक्षुरिन्द्रियप्रसरणाभावप्रयुक्तं दृष्टमिति यत्किञ्चिदेतत् ॥
रसं लक्षयति- रसनेत्यादि । रसनेन ग्राह्यः = रसनग्राह्यः । ‘रसनेन’ इत्यत्र रसनपदस्य रसनेन्द्रियमर्थः । तृतीयाया जनकत्वमर्थः । प्रकृत्यर्थस्य रसनेन्द्रियस्य तृतीयार्थजनकतायाम् आधेयतासम्बन्धेनान्वयः । तथा च रसनेन्द्रियनिष्ठजनकता । ‘ग्राह्यः’ इत्यत्र ग्रहधातोः प्रत्यक्षमर्थः । ‘ण्यत्’ प्रत्ययस्य विषयतावानर्थः । प्रकृत्यर्थस्य प्रत्यक्षस्य निरूपितत्व-
[[81]]
आलोक- व्याख्या
सम्बन्धेन विषयतायामन्वयः । तृतीयार्थजनकताया ग्रहधात्वर्थैकदेशे प्रत्यक्षे निरूपकत्वसम्बन्धेनान्वयः । अथवा तृतीयाया जन्यत्वमर्थः । प्रकृत्यर्थस्य स्वनिष्ठजनकतानिरूपितत्वसम्बन्धेन जन्यतायामन्वयः । जन्यतायाश्चाश्रयता- सम्बन्धेन प्रत्यक्षेऽन्वयः । तथा च रसनेन्द्रियनिष्ठ जनकतानिरूपक (जनकतानिरूपितजन्यताश्रय) प्रत्यक्षनिरूपितविषयताश्रयाभिन्नो गुणत्ववदभिन्नो रस इति बोधः । लक्षणं तु – ‘रसनेन्द्रियनिष्ठजनकता- निरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयताश्रयत्वे सति गुणत्वम्’ । लक्षणस्यास्य मधुरादिरसे समन्वयः । रसनेन्द्रियनिष्ठजनकतानिरूपित- जन्यताश्रयप्रत्यक्षं किम् ? इति चेत् ‘इदमाम्रफलं मधुरम्’ इत्याकारक- प्रत्यक्षम् । तादृशप्रत्यक्षनिरूपितविषयत्वं रसे वर्तते । एवं गुणत्वमपि तत्र वर्तत इति लक्षणसमन्वयः । रसनग्राह्यत्वमात्रोक्तौ रसत्वे (जातौ) अतिव्याप्तिः । ‘येनेन्द्रियेण या व्यक्तिर्गृह्यते तन्निष्ठा जातिस्तदभावश्च तेनैवेन्द्रियेण गृह्यते’ इति नियमेन रसनेन्द्रियेण रसत्वमपि गृह्यत इति तत्रातिव्याप्तिः । अतो गुणत्वपदोपादानम् । रसत्वं न गुणः, किन्तु जातिरिति नातिव्याप्तिः ॥
नन्वेवं सत्यपि लक्षणस्यास्य जलपरमाणुगतरसेऽव्याप्तिर्दुष्परिहरा । तथाहि -जलपरमाणूनामतीन्द्रियत्वात् तद्गतो रसोऽप्यतीन्द्रियः । अतो रसनेन्द्रिय- निष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्वं तत्र नास्तीति अव्याप्तिरिति चेत् न । जातिघटितलक्षणपरिष्कारात् । तथा च लक्षणम्
रसनेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावद्वृत्ति- जातिमत्वम् । एवञ्च नाव्याप्तिः । तथाहि - रसनेन्द्रियनिष्ठजनकता- निरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् आम्ररसः । तद्वृत्तिर्या जातिरिति चेत् ? रसत्वजातिः । तादृशजातिमत्त्वं जलपरमाणुगतरसादावपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः ॥
नन्वेवं सत्यपि लक्षणस्यास्य पुना रूपादावतिव्याप्तिर्दुष्परिहरा ।
[[8]]
[[82]]
पृथिवी
तथाहि
रसनेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावद्वृत्तिर्या
जातिरिति चेत् ? यथा रसत्वजातिस्तथा गुणत्वजातिरपि भवति । तादृशजातिमत्त्वं रूपादावपि वर्तत इति तत्रातिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् - रसनेन्द्रियनिष्ठजनकता- निरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वव्याप्यजाति- मत्त्वम् । एवञ्च नातिव्याप्तिः । तथाहि - रसनेन्द्रियनिष्ठजनकतानिरूपित- जन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् रसः । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति । स्वस्य स्वव्याप्यत्वाभावात् । अतस्तद्व्याप्या जातिः रसत्वजातिरेव भवति । तादृशजातिमत्त्वं रस एव वर्तते, न तु रूपादाविति नातिव्याप्तिः ॥
नन्वेवमप्यस्य लक्षणस्य पुनः मधुररसादावव्याप्तिर्दुष्परिहरा । तथाहि रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्ववान् आम्लादिरसः । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत्, यथा रसत्वजातिर्भवति तथाम्लत्वजातिरपि । तादृशाम्लत्वजातिमत्वं मधुररसे नास्तीति अव्याप्तिरिति चेत् - न । गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात् । तथा च लक्षणम् - रसनेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयता- वद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् । एवञ्च नाव्याप्तिः । तथाहि रसनेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् रसः । तद्वृत्तिर्या गुणत्व - साक्षाद्व्याप्या जातिरिति चेत् ? अम्लत्वजातिर्न भवति । तस्य गुणत्वव्याप्यव्याप्यत्वात् । गुणत्वसाक्षाद्व्याप्या रसत्वजातिः । तद्व्याप्या अम्लत्वजातिः । अत अम्लत्वस्य साक्षाद्व्याप्यत्वाभावात् सा जातिर्न स्वीकर्तुं शक्यते । किन्तु रसत्वमेव । तादृशजातिमत्वं मधुरादावपि वर्तत इति नाव्याप्तिः । ननु तर्हि गुणत्वं किमर्थम् ? तादृशजातिमत्त्वस्य रसत्वे
[[83]]
गन्धः
घ्राणग्राह्यो गुणो गन्धः । स द्विविधः । सुरभिरसुरभिश्चेति । पृथिवीमात्रवृत्तिः ।
रसाभावे चासम्भवादिति चेत्, न, तात्पर्यग्राहकं तदिति भावनीयम् ॥
निर्मलकावेरीजलादौ विलक्षणं माधुर्यमनुभवसिद्धम् । न च तत् तिक्तलवणाद्यभावमात्ररूपम्, तर्हि गुडेऽपि माधुर्यं न स्यात् । दृश्यते वैलक्षण्यमिति चेदत्रापि समानम् ॥
गन्धं लक्षयति - घ्राणेति । घ्राणेन ग्राह्य इति घ्राणग्राह्यः । ’ घ्राणेन’ इत्यत्र घ्राणपदस्य घ्राणेन्द्रियमर्थः । तृतीयाया जनकत्वं जन्यत्वं वार्थः । प्रकृत्यर्थस्य घ्राणेन्द्रियस्य तृतीयार्थजनकतायाम् आधेयतासम्बन्धेनान्वय इत्यादिकं पूर्ववदेव । ‘ग्राह्यः’ इत्यत्र ग्रहधातोः प्रत्यक्षमर्थः । ण्यत्प्रत्ययस्य विषयत्वाश्रयोऽर्थः । प्रकृत्यर्थस्य ग्रहधातोः ण्यत्प्रत्ययार्थविषयतायां निरूपितत्वसम्बन्धेनान्वयः । तथा च प्रत्यक्षनिरूपितविषयताश्रयः । तृतीयार्थजनकताया ग्रहधात्वर्थे प्रत्यक्षे निरूपकतासम्बन्धेन अथवा स्वनिरूपितजन्यताश्रयत्वसम्बन्धेनान्वयः । तथा चाखण्डबोधः घ्राणेन्द्रियनिष्ठजनकतानिरूपक (जनकतानिरूपितजन्यताश्रय) प्रत्यक्ष- निरूपितविषयताश्रयो (विषयतावदभिन्नः) गुणाभिन्नो गन्ध इति । लक्षणं तु— घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपित- विषयताश्रयत्वे सति गुणत्वम् । घ्राणेन्द्रियनिष्ठजनकतानिरूपित- जन्यताश्रयप्रत्यक्षं किम् ? इति चेत् ‘अयं सुरभिगन्न्धः’ इत्याकारकप्रत्यक्षम् । तादृशप्रत्यक्षनिरूपितविषयता केति चेत् ? ‘सुरभिगन्धः’ इति प्रतीतिसिद्धा प्रत्यक्षनिरूपिता विषयता । तादृशविषयत्वं सुरभिगन्धे वर्तत इति, एवं गुणत्वमपि वर्तत इति लक्षणसमन्वयः । ‘गुणत्व’ मात्रोक्तौ रूपादावतिव्याप्तिः । अतो घ्राणेन्द्रियग्राह्यत्वमिति दलोपादानम् । तथा च रूपादीनां गुणत्वे
84 आलोक-व्याख्या
सत्यपि घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयत्वं तत्र नास्ति, किन्तु चक्षुरिन्द्रियग्राह्यप्रत्यक्षविषयत्वं वर्तत इति तत्र लक्षणासमन्वयात् नातिव्याप्तिः । घ्राणेन्द्रियग्राह्यत्वमात्रोक्तौ गन्धत्वेऽतिव्याप्तिर्दुर्वारा । तत्र ‘येनेन्द्रियेण या व्यक्तिर्गृह्यते तेनेन्द्रियेण तन्निष्ठा जातिस्तदभावश्च गृह्यते’ इति नियमेन घ्राणेन्द्रियग्राह्यत्वम् (घ्राणेन्द्रियनिष्ठजनकता- निरूपकप्रत्यक्षविषयत्वम्) गन्धत्वेऽपि वर्तत इति तत्रातिव्याप्तिः । तन्निवारणार्थं ‘गुण’ इतिपदमुपात्तम् । गन्धत्वं न गुणः किन्तु जातिरिति नातिव्याप्तिः ॥
नन्वेवं सत्यपि पृथिवीपरमाणुगतगन्धेऽव्याप्तिर्दुष्परिहरा । कथमिति चेत् ? परमाणूनामतीन्द्रियत्वात् तद्गतो गन्धोऽप्यतीन्द्रियः । अतो घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयत्वं तत्र नास्तीति लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न । जातिघटितलक्षणपरिष्कारात् । तथा च लक्षणम् ’ घ्राणेन्द्रियनिष्ठजनकता-निरूपितजन्यताश्रय- प्रत्यक्षनिरूपितविषयतावद्वृत्तिजातिमत्त्वम्’ । तथा च नाव्याप्तिः । घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् गन्धः । तद्वृत्तिः का जातिरिति चेत् ? गन्धत्वजातिः । तादृशजातिमत्त्वं पृथिवीपरमाणुगत - गन्धेऽपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः ॥
नन्वेवं सत्यपि रूपादावतिव्याप्तिर्दुर्वारा । तथाहि - घ्राणेन्द्रियनिष्ठ- जनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् गन्धः । तद्वृत्तिर्जातिः केति चेत् यथा गन्धत्वं तथा गुणत्वजातिरपि भवति । तादृशजातिमत्त्वं रूपादावपि वर्तत इति रूपादावतिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् घ्राणेन्द्रियनिष्ठजनकतानिरूपक- प्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति । एवञ्च नातिव्याप्तिः । तथाहि— घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्ष-
स्पर्शः
[[85]]
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ।
निरूपितविषयतावान् गन्धः । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् गुणत्वजातिर्न भवति । स्वस्य स्वव्याप्यत्वाभावात् । अतो गुणत्वव्याप्या जातिर्गन्धत्वजातिः । तादृशजातिमत्त्वं गन्ध एव वर्तते, न तु रूपादाविति नातिव्याप्तिः ॥
नन्वेवमपि लक्षणस्यास्य ‘असुरभिगन्धे’ अव्याप्तिर्दुष्परिहरा । तथाहि- घ्राणेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् सुरभिगन्धः । तद्वृत्तिर्या गुणत्वव्याप्यजातिरिति चेत्, यथा गन्धत्वजातिः, तथा सुरभित्वजातिरपि भवति । तादृशञ्जातिमत्त्वमसुरभिगन्धे नास्तीति पुनरव्याप्तिरिति चेत्, न । गुणत्वव्याप्ये ‘साक्षात्’ पदस्य निवेशनात् । तथा च लक्षणम् घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयता- वद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् । एवञ्च नाव्याप्तिः । तथाहि घ्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्ष
यतावान् गन्धः । तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् सुरभित्वजातेर्ग्रहणं कर्तुं न शक्यते । तस्य गुणत्वव्याप्यव्याप्यत्वात् । किन्तु गुणत्वव्याप्या गन्धत्वजातिः । तद्व्याप्यत्वमसुरभित्वजातावपि वर्तते । तादृशजातेर्गुणत्वसाक्षाद्व्याप्यत्वं नास्ति । अतस्तन्न स्वीकर्तुं शक्यते । तादृशसाक्षाद्व्याप्यजातिर्गन्धत्वमेव । तादृशगन्धत्वजातिमत्त्वमसुरभिगन्धेऽपि वर्तत इति लक्षणसमन्वयात् नाव्याप्तिः । अत्र गुणपदप्रयोजनादिकं पूर्ववत् । जलवाय्वादौ गन्धप्रतीतिः पार्थिवभागसम्बन्धौपाधिकीति पूर्वमेवोक्तम् ॥
स्पर्शं लक्षयति- त्वगिन्द्रियमात्रेत्यादि । त्वक्शब्दस्य चर्मण्यपि प्रयोगबाहुल्यात् इन्द्रियपदम् । त्वगिन्द्रियमेव त्वगिन्द्रियमात्रम् तेन ग्राह्य इति विग्रहः । त्वगिन्द्रियेण इत्यत्र प्रकृतेस्त्वगिन्द्रियमर्थः । तृतीयाया जन्यत्वमर्थः । रूपलक्षणवदेव व्युत्पत्तिवैचित्र्यात्, मात्रपदस्य भेदवान्,
86 आलोक-व्याख्या
अभावश्चार्थः । त्वगिन्द्रियस्य तृतीयार्थजन्यत्वे, मात्रपदार्थैकदेशभेदे चान्वयः । प्रकृत्यर्थस्य, त्वग्भिन्नेन्द्रियस्य च मात्रपदार्थैकदेशे स्वनिष्ठजनकतानिरूपितत्व- सम्बन्धेन तृतीयार्थजन्यत्वेऽन्वयः । त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यता, त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यता इत्यासीत् । जन्यत्वस्याश्रयतासम्बन्धेन ग्रहधात्वर्थप्रत्यक्षेऽन्वयः । ण्यत्प्रत्ययस्य विषयतावानर्थः । ग्रहधात्वर्थप्रत्यक्षस्य निरूपितत्वसम्बन्धेन ण्यत्प्रत्ययार्थैकदेशविषयतायामन्वयः । विषयतावत- श्वाभेदसम्बन्धेन प्रधानविशेष्ये स्पर्शेऽन्वयः । एवं त्वग्भिन्नेन्द्रियनिष्ठजनकता- निरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयत्वस्य मात्रपदार्थैकदेशान्तरेऽभावेऽन्वयः ।
तथा च त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपित- विषयताश्रयाभिन्नः, त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय- प्रत्यक्षनिरूपितविषयत्वाभावाश्रयाभिन्नो गुणाभिन्नः स्पर्शः इति
शाब्दबोधः ॥
त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सति त्वग्भिन्नेन्द्रियजन्य- प्रत्यक्षाविषयत्वे सति गुणत्वं स्पर्शस्य लक्षणम् । ‘अयं शीतः ’ इत्यादिप्रत्यक्षविषये शीतस्पर्शे त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वस्य, त्वग्भिन्नचक्षुरादीन्द्रियजन्यप्रत्यक्षाविषयत्वस्य गुणत्वस्य च सत्त्वालक्षणसमन्वयः । गुणत्वमात्रोक्तौ रूपादावतिव्याप्तिः । तदर्थं त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वम्। रूपस्य त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वाभावान्नातिव्याप्तिः । तावन्मात्रोक्तौ चक्षुरिन्द्रयवत् त्वगिन्द्रियस्यापि द्रव्यग्राहकत्वात् घटादावतिव्याप्तिः । अतो गुणत्वमुक्तम्। घटस्य द्रव्यत्वेन तत्र गुणत्वस्याभावान्नातिव्याप्तिः । त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वमात्रोक्तौ घटादावतिव्याप्त्यभावेऽपि सङ्ख्यादौ त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वस्य गुणत्वस्य च सत्त्वात् अतिव्याप्तिः । तदर्थं त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वमुक्तम् । सङ्ख्यादेस्त्वग्भिन्नचक्षुरिन्द्रिय-87
जन्यप्रत्यक्षविषयत्वात्, तादृशप्रत्यक्षाविषयत्वाभावात् नातिव्याप्तिः । त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वमात्रोक्तौ गुरुत्वादेरतीन्द्रियत्वेन त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वसत्त्वादतिव्याप्तिः । अतस्त्व- गिन्द्रियजन्यप्रत्यक्षविषयत्वम् । गुरुत्वादेरतीन्द्रियत्वेन त्वगिन्द्रियजन्यप्रत्यक्ष- विषयत्वस्याभावान्नातिव्याप्तिः । गुणत्वानुपादाने ‘येनेन्द्रियेण यद्गुह्यते’ इत्यादिन्यायेन स्पर्शत्वस्पर्शाभावयोरतिव्याप्तिः । अतो गुणत्वम् । स्पर्शत्वे स्पर्शाभावे च गुणत्वाभावान्नातिव्याप्तिः ॥
अथैवमप्यन्धकारे घटपटसंयोगस्य चक्षुषाऽग्रहणात् त्वगिन्द्रियेणैव ग्रहणात् त्वगिन्द्रियग्राह्यत्वे सति त्वग्भिन्नेन्द्रियाग्राह्यत्वे सति गुणत्वसत्त्वादतिव्याप्तिरिति चेत्; न गुणपदस्य विशेषगुणपरत्वेन, संयोगस्य सामान्यगुणत्वेनातिव्याप्तेः परिहारात् । नन्वेवं सति गुरुत्वस्य सामान्यगुणत्वेन विशेषगुणत्वविशेषणेनैवातिव्याप्तिपरिहारात् त्वगिन्द्रियग्राह्यत्वविशेषणं व्यर्थमितिचेत्, न, अदृष्टस्यातीन्द्रियत्वेन त्वग्भिन्नेन्द्रियाग्राह्यत्वात् विशेष- गुणत्वात्, तत्रातिव्याप्तिपरिहाराय तद्विशेषणस्यावश्यकत्वा । अथैवं परमाणुगतस्पर्शस्यातीन्द्रियत्वेन त्वगिन्द्रियग्राह्यत्वाभावादव्य रेति चेत्, न, त्वगिन्द्रियग्राह्यवृत्तिजातिमत्त्वस्य विवक्षणेन परमाणुस्पशे त्वगिन्द्रिय- ग्राह्यस्पर्शादिवृत्तिस्पर्शत्वजातिमत्त्वस्य सत्त्वेनाव्याप्तेः परिहारात् । तादृशस्पर्शवृत्तिगुणत्वजातिमादाय पुना रूपादावतिव्याप्तिवारणाय, गुणत्वव्याप्यजातिमत्त्वम्; शीतत्वादिकमादायाव्याप्तिपरिहाराय गुणत्वसाक्षा- द्व्याप्यजातिमत्त्वमपि पूर्ववत् विवक्षणीयम् ॥
नन्वेवं सति स्पर्शत्वस्पर्शाभावयोः तादृशजातिमत्त्वाभावेनाति- व्याप्तिवारणात् गुणपदं व्यर्थमिति चेत्, न । त्वगिन्द्रियमात्रग्राह्ये उष्णजलगतोष्ण- स्पर्शवत्तेजस्संयोगगतसंयोगत्वजातिमादाय संयोगादावतिव्याप्तिपरिहाराय
[[88]]
स त्रिविधः । शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाखोः ।
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यम् । अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ।
सङ्ख्या
एकत्वादिव्यवहारहेतुः सङ्ख्या । नवद्रव्यवृत्तिः ।
विशेषणगुणार्थकगुणपदस्यावश्यकत्वात् । एवमिन्द्रियपदं बाह्येन्द्रियपरं वक्तव्यम् । मनसो ज्ञानसामान्यकारणत्वात् स्पर्शप्रत्यक्षस्य त्वग्भिन्नमनोजन्यत्वेनाव्याप्त्यापत्तेः। तथा च त्वगिन्द्रियजन्यप्रत्यक्षविषयवृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वे सति, त्वग्भिन्नवाह्येन्द्रियजन्यप्रत्यक्षाविषयत्वे सति, विशेषगुणत्वं स्पर्शस्य लक्षणमिति बोध्यम् ॥
अनुष्णाशीतेति नामान्तरालाभादुक्तम् । नाप्युष्णं, नापि शीतमित्यर्थः । तथा च चित्ररूपतुल्यमिदम् । अत एव चित्रस्पर्श इत्यपि वक्तुं शक्यम् । चक्षुरिन्द्रियवत् त्वगिन्द्रियस्यापि द्रव्यग्राहकत्वात्, अवयविद्रव्ये चित्ररूपवत् चित्रस्पर्शोऽप्यावश्यकः । घ्राणश्रोत्ररसनानां द्रव्याग्राहकत्वान्न चित्रगन्धा- दीनामावश्यकता ॥
रूपरसगन्धस्पर्शानां साधारणाकारानाह रूपादिचतुष्टयमित्यादिना । पाकजमिति । पृथिव्यामेव विजातीयतेजस्संयोगाख्यः पाकः, न त्वन्यत्र । नित्यगतम् परमाणुवृत्ति । रूपादीति यथासम्भवं ग्राह्यम् । जलादिपरमाणुरूपस्य नित्यत्वात् पृथिवीपरमाणुगतरूपादावेव नित्यानित्यविभागः । अनित्यपृथिव्यादिचतुष्टयवृत्तिरूपादीनां त्वनित्यत्वमेव ।
सङ्ख्यां निरूपयति एकत्वादीति । ‘एकम्, द्वे, त्रीणि’ इत्यादिगणना- व्यवहारस्यासाधारणकारणं सङ्ख्येत्यर्थः । अतश्च लक्षणमपि गणनाव्यवहारा- साधारणकारणत्वं वक्तुमुचितम् । परार्धेति । चतुर्मुखस्यायुः ‘परा’ (सङ्ख्या)
[[89]]
इत्युच्यते । तस्यार्धभागो गतः । द्वितीयो भागस्सम्प्रति चलतीति पौराणिकी प्रक्रिया । मनुष्यस्य गणनाशक्तेस्तदुपरिगन्तुमसम्भवात् ‘परार्धपर्यन्ता’ इत्युक्तम् । अतश्च ‘एकपरार्धम्, द्विपरार्धम्, त्रिपरार्धम्’ इति गणयितुं न शक्यते, ‘परार्ध’ पदस्यानन्तपर्यायत्वात् । ‘एकमनन्तम् ’ ’ द्वे अनन्ते’ ‘त्रीण्यनन्तानि’ इत्येवं न हि व्यवहर्तुं शक्यम्, अनन्तत्वविरोधादेव ॥
एकत्वादीनां व्यवहार एकत्वादिव्यवहारः । एकत्वादिव्यवहारस्य हेतुः एकत्वादिव्यवहारहेतुरिति विग्रहः । एकत्वादीनामित्यत्र एकत्वपद- स्यैकत्वमर्थः । षष्ठ्या विषयत्वमर्थः । प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । तथा च - एकत्वादिनिष्ठविषयता । व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः । षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकत्वसम्बन्धेनान्वयः । तथा च एकत्वादिनिष्ठविषयतानिरूपक (विषयतानिरूपितविषयिताश्रय) ज्ञानजनक- शब्दप्रयोगः । व्यवहारस्य हेतुरित्यत्र षष्ठ्याः कार्यत्वमर्थः । प्रकृत्यर्थस्य व्यवहारपदार्थज्ञानजनकशब्दप्रयोगस्य षष्ठ्यर्थ-कार्यतायामाधेयतास धेनान्वयः । तथा च एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनक- शब्दप्रयोगनिष्ठ ना इति । हेतुरित्यस्य कारणतावतीत्यर्थः । षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशकार तायां निरूपितत्वसम्बन्धेनान्वयः । कारणतावत्याश्चाभेदसम्बन्धेन सङ्ख्यायामन्वयः । तथा चाखण्डबोधः - एकत्वादिनिष्ठविषयतानिरूपक (विषयतानिरूपित- विषयिताश्रय) ज्ञानजनकशव्दप्रयोगनिष्ठकार्यतानिरूपितकारणता- वदभिन्ना सङ्ख्या । लक्षणं तु एकत्वादिनिष्ठविषयतानिरूप- कज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वम् । अस्य लक्षणस्य एकत्वादिसङ्ख्यायां समन्वयः । एकत्वादिनिष्ठविषयतानिरूपकज्ञान- जनकशब्दप्रयोगः कः ? इति चेत्, ‘अयमेकः’ इत्याकारकज्ञान- जनकशब्दप्रयोगः । तादृशशब्दप्रयोगनिष्ठा कार्यता, सङ्ख्याव्यवहारे विषयभूत-
[[90]]
आलोक- व्याख्या
सङ्ख्यायाः कारणत्वात् । तादृशकार्यतानिरूपितकारणत्वमेकत्वादिसङ्ख्यायां वर्तत इति लक्षणसमन्वयः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य कालादावतिव्याप्तिर्दुष्परिहरा । ‘कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वम्’ इति नियमानुरोधात् एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? ‘अयमेकः’ इत्याकारकज्ञानजनकशब्दप्रयोगनिष्ठा कार्यता । तादृशकार्यता- निरूपितकारणत्वं सङ्ख्यायां यथा, तथा कालेऽपि वर्तत इत्यलक्ष्ये लक्षणप्रसरणात् अतिव्याप्तिरिति चेत्, न । कार्यतानिरूपतकारणतायाम् असाधारणपदनिवेशनात्। तथा च लक्षणम् एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशव्द- प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम् । एवञ्च नातिव्याप्तिः । तथाहि कारणत्वं द्विविधं वर्तते । साधारणकारणत्वमेकम् । अन्यच्च विशेष (असाधारण) कारणत्वम् । यद्यपि एकत्वादिनिष्ठविषयतानिरूपकज्ञान- जनकशब्दप्रयोगनिष्ठकार्यतानिरूपितसामान्यकारणत्वं कालेश्वरादृष्टादीनां वर्तते, किन्तु सा कारणता साधारणकारणता । न तु विशेष (असाधारण) कारणता । ‘अयमेकः’ इत्याकारकैकत्वव्यवहारं प्रति विषयविधया सङ्ख्याया एवासाधारण- कारणत्वं वर्तते । सङ्ख्यामन्तरा ‘अयमेकः’ इत्याकारकैकत्वव्यवहार एव न स्यात् । अतो विषयविधया तत्र सङ्ख्याया एवासाधारणकारणत्वात्, कालेश्वरादीनां विशेषकारणत्वाभावात् तत्र नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य यादृशसङ्ख्यया ‘अयमेकः ’ इत्यादिव्यवहार एव न जातः, तादृशपरमाण्वादिगतसङ्ख्यायामेकत्वादि- निष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं नास्तीति तत्र लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न । लक्षणस्य जातिघटिततया परिष्कारात् । एकत्वादिव्यवहारजनकयोग्यताया एव लक्षणत्वात् । योग्यता
[[91]]
नाम कारणतावच्छेदकधर्मोऽथवा जातिः । अयमंश उत्तरलक्षणेष्वपि समानः । तथा च लक्षणम् ‘एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनक- शब्दप्रयोगनिष्ठ कार्यतानिरूपितासाधारणकारणतावद्वृत्ति (कारणतावच्छेदक) जातिमत्त्वम्’ । तथा च नाव्याप्तिः । तथाहि एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपिता- साधारणकारणतावती यत्र अस्माकं परिचितवस्तुगतसङ्ख्यायाः व्यवहारः दृश्यते तादृशवस्तुगतसङ्ख्या । तद्वृत्तिः या जातिरिति चेत्, सङ्ख्यात्वरूपा जातिः । तादृशजातिमत्त्वं अपरिचितवस्तुगतसङ्ख्यायामपि वर्तते इति लक्षणस्य समन्वयात् नाव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः रूपादावतिव्याप्तिर्दुष्परिहरा । तथाहि - एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता- निरूपितासाधारणकारणतावती एकत्वादिसङ्ख्या । त जातिरिति चेत्, यथा सङ्ख्यात्वं तथा गुणत्वमपि । तादृशजातिमत्त्वं दावपि वर्तत इत्यलक्ष्ये लक्षणसमन्वयात् अतिव्याप्तिरिति चेत्, न । जातौ ‘गुणत्वव्याप्यत्व’ स्य निवेशनात् । तथा च लक्षणम् – एकत्वादिनिष्ठविषयतानिरूपकज्ञान- जनकशव्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्ति- गुणत्वव्याप्यजातिमत्त्वम् । एवञ्च नातिव्याप्तिः । तथाहि एकत्वनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावती एकत्वादिसङ्ख्या । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत्, गुणत्वजातिर्न भवति, स्वस्य स्वव्याप्यत्वाभावात् । अतः सा जातिः स्वीकर्तुं न शक्यते । अतस्तद्व्याप्या जातिरिति चेत् ? सङ्ख्यात्वजातिरेव स्वीकार्या । तादृशजातिमत्त्वं तु सङ्ख्यायामेव वर्तते; न तु रूपादाविति तत्र नातिव्याप्तिः । ।
नन्वेवं सति लक्षणस्यास्य द्वित्वादिसङ्ख्यायामव्याप्तिर्दुरुद्धरा ।
[[92]]
एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव ।
परिमाणम्
मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति । तच्चतुर्विधम् । अणु महद्दीर्घं ह्रस्वं चेति ।
आलोक- व्याख्या•
तथाहि - एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता- निरूपितासाधारणकारणतावती एकत्वरूपा सङ्ख्या । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? एकत्वत्वरूपा जातिरपि । तादृशजातिमत्त्वं द्वित्वरूपसङ्ख्यायां नास्तीति अव्याप्तिरिति चेत्, न । गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात् । तथा च लक्षणम् - एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनक-
।
शव्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्व- साक्षाद्व्याप्यजातिमत्त्वम् । एवञ्च नाव्याप्तिः । तथाहि एकत्वादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपिता- साधारणकारणतावती एकत्वरूपा सङ्ख्या । तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? एकत्वत्वजातिर्न स्वीकर्तुं शक्यते । एकत्वत्वस्य गुणत्वसाक्षाद्व्याप्यत्वाभावात्, गुणत्वव्याप्यव्याप्यत्वात् । गुणत्वव्याप्या सङ्ख्यात्वजातिः । तद्व्याप्या एकत्वत्वजातिः । अत एकत्वत्वजातिः स्वीकर्तुं न शक्यते । गुणत्वसाक्षाद्व्याप्या जातिस्तु सङ्ख्यात्वजातिरेव । तादृशसङ्ख्यात्वजातिमत्त्वं तु द्वित्वादिरूपसङ्ख्यास्वपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः । सम्पूर्ण लक्षणम् एकत्वादिनिष्ठविषयतानिरूपक- (विषयतानिरूपितविषयिताश्रय) ज्ञानजनकशव्दप्रयोगनिष्ठकार्यता-
निरूपितासाधारणकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति ॥
परिमाणं निरूपयति - मानेति । मानस्य व्यवहारो मानव्यवहारः ।
असाधारणं च तत् कारणम् इत्यसाधारणकारणम् । मानव्यवहारस्या-
[[93]]
आलोक- व्याख्या
साधारणकारणं मानव्यवहारासाधारणकारणम् । ‘मानस्य’ इत्यत्र मानपदस्य परिमाणमर्थः । षष्ठ्या विषयत्वमर्थः । प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थविषयतायामन्वयः । तथा च परिमाणनिष्ठविषयता । व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः । षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकत्व (स्वनिरूपितविषयिताश्रयत्व) सम्बन्धेनान्वयः । तथा च परिमाणनिष्ठ- विषयतानिरूपक (निरूपितविषयिताश्रय) ज्ञानजनकशब्दप्रयोग इति खण्डबोधः । व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः । ‘व्यवहारस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः । प्रकृत्यर्थस्य व्यवहारस्य (ज्ञानजनकशब्दप्रयोगस्य) षष्ठ्यर्थकार्यतायाम् आधेयतासम्बन्धेनान्वयः । तथा च ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता । असाधारणकारणम् इत्यस्य असाधारणकारणतावत् अर्थः । षष्ठ्यर्थकार्यताया हेतुपदार्थैकदेशासाधारणकारणतायां निरूपितत्वसम्बन्धेनान्वयः । असाधारणकारणतावतश्चाभेदसम्बन्धेन परिमाणेऽन्वयः । तथा चाखण्डबोधः परिमाणनिष्ठविषयतानिरूपक (विषयतानिरूपितविषयिताश्रय)
ज्ञानजनकशव्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावदभिन्नं परिमाणम् । लक्षणं तु - परिमाणनिष्ठविषयतानिरूपकज्ञानजनक- शब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम् । अस्य लक्षणस्य महत्त्वाल्पत्वादिरूपपरिमाणेषु समन्वयः । तथा च माननिष्ठविषयतानिरूपकं ज्ञानं किमिति चेत् ‘अयं महान्’ इत्याकारकं ज्ञानम् । तादृशज्ञानजनक- शब्दप्रयोगश्चेत् ‘अयं महान्’ इत्याकारकशब्दप्रयोगः । तादृशशब्दप्रयोगनिष्ठा कार्यता । तादृशकार्यतानिरूपितासाधारणकारणत्वं महदादिपरिमाणे वर्तत इति लक्षणसमन्वयः । लक्षणे प्रथमत एवासाधारणदलनिवेशनात् कालादावतिव्याप्तिर्न भवति । कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वेन, असाधारणकारणत्वाभावात् ।
नन्वेवं सत्यप्यस्य लक्षणस्य यत्रास्माकमत्यन्तापरिचितवस्तु-
[[94]]
गतपरिमाणस्य व्यवहार एव नाभूत्, तत्र परिमाणे ‘महान् वृक्षः ’ इत्यादिव्यवहारस्याभावात्, परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्र- योगनिष्ठकार्यतानिरूपितासाधारणकारणत्वं नास्तीति लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न । जातिघटिततया लक्षणपरिष्कारात् । तथा च लक्षणम् - परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोग-
निष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम् । एवञ्च
नाव्याप्तिः । तथाहि - परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठ- कार्यतानिरूपितासाधारणकारणतावत् यत्रास्माकं परिचितं ‘महान्’ इत्याकारकमहत्त्वपरिमाणविषयकस्थलं, तत् स्वीकर्तव्यम् । तद्वृत्तिर्या जातिरिति चेत् ? परिमाणत्वजातिः । तादृशजातिमत्त्वं त्वत्यन्तापरिचितपरिमाणेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः ॥
तथाहि
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः रूपादावतिव्याप्तिर्दुष्परिहरा । परिमाणनिष्ठविषयतानिरूपितविषयिताश्रयज्ञानजनकशब्द- प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परिमाणम् । तद्वृत्तिर्या जातिरिति चेत् ? यथा परिमाणत्वजातिस्तथा गुणत्वजातिरपि भवति । तादृशजातिमत्त्वं रूपेऽपि वर्तत इति अतिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् परिमाणनिष्ठविषयतानिरूपक- ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणता- वद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् । एवञ्च नातिव्याप्तिः । तथाहि परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपिता- साधारणकारणतावत् परिमाणम् । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति । स्वस्य स्वव्याप्यत्वाभावात् । अतो गुणत्वव्याप्या जातिः परिमाणत्वजातिरेव भवति । तादृशजातिमत्त्वं परिमाण एव वर्तते, न
[[95]]
तु रूपादाविति नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य ह्रस्वत्वरूपपरिमाणेऽव्याप्तिर्दुरुद्धरा । तथाहि - परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता- निरूपितासाधारणकारणतावत् महत्त्वपरिमाणम् । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् महत्त्वत्वजातिः । तादृशजातिमत्त्वं ह्रस्वत्वरूपपरिमाणे नास्तीति अव्याप्तिरिति चेत् न । गुणत्वसाक्षाद्व्याप्येति निवेशनात् । तथा च लक्षणम् - परिमाणनिष्ठविषयतानिरूपकज्ञानजनकशव्द- प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वसाक्षाद्वया- प्यजातिमत्त्वम् । एवञ्च नाव्याप्तिः । तथाहि परिमाणनिष्ठविषयतानिरूपक- ज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परिमाणम् । तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? महत्त्वत्वजातिर्न भवति । तस्या गुणत्वव्याप्यव्याप्यत्वात् । स्वम् - गुणत्वम् । स्वव्याप्या जातिः- परिमाणत्वरूपा जातिः । तद्व्याप्यत्वं महत्त्वे वर्तते । अतो महत्त्वत्त्वादीनां गुणत्वसाक्षाद्व्याप्यत्वाभावात् सा जातिः स्वीकर्तुं न शक्यते । अतो गुणत्वसाक्षाद्व्याप्या जातिस्तु परिमाणत्वमेव । तादृशजातिमत्त्वं ह्रस्वत्वादिपरिमाणेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः ॥
मूलेऽण्वादिपदमणुत्वादिपरं ज्ञेयम् । अणुत्वमिति सूक्ष्मपरिमाणं परमाणौ विश्राम्यति । महत्त्वमिति स्थूलपरिमाणं गगनादौ विभौ विश्राम्यति । दीर्घत्वमिति दण्डादौ, ह्रस्वत्वमिति तद्विपरीते । द्व्यणुकं ह्रस्वतमम् । ‘महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम्’ (ब्र.सू.२-२-१०) इत्यत्र वैशेषिकम- तानुवादे परिमण्डलपदेन परमाणुः, ह्रस्वपदेन द्व्यणुकम्, महत्पदेन त्र्यणुकम्, दीर्घपदेन परमाण्वपेक्षया द्व्यणुकं चाभिहितं द्रष्टव्यम् ॥
पृथक्त्वं निरूपयति - पृथगित्यादि । पृथगिति व्यवहारः पृथग्व्यवहारः ।
[[96]]
पृथग्व्यहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति ।
असाधारणं च तत् कारणम् असाधारणकारणम् । पृथग्व्यवहारस्यासाधारणकारणं पृथग्व्यवहारासाधारणकारणम् । ‘पृथक्’ इति शब्दो यदि प्रकारवाची, तदा पृथक्पदस्य पृथक्त्वमर्थः । पृथग् इति शब्देऽव्ययत्वेन लुप्तायाः षष्ठ्या विषयत्वमर्थः । प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । तथा च पृथक्त्वनिष्ठा विषयता इत्यासीत् । व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः । विषयताया निरूपकतासम्बन्धेन व्यवहारपदार्थैकदेशज्ञानेऽन्वयः । तथा च पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोग इति बोधः । ‘व्यवहारस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः । प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता इत्यासीत् । असाधारणकारणं नाम असाधारणकारणतावत् इत्यर्थः । षष्ठ्यर्थकार्यताया असाधारणकारण- पदार्थैकदेशेऽसाधारणकारणतायां निरूपितत्वसम्बन्धेनान्वयः । असाधारणकारणतावतोऽभेदसम्बन्धेन पृथक्त्वेऽन्वयः । तथा चाखण्डबोधः पृथक्त्वनिष्ठविषयतानिरूपक (निरूपितविषयिताश्रय) ज्ञानजनकशब्द- प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावदभिन्नं पृथक्त्वम् इति ।
लक्षणं तु - पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोग- निष्ठकार्यतानिरूपितासाधारणकारणत्वम् इति । लक्षणस्यास्य ‘अयं घटः, तस्मात् पृथक्’ इत्यत्र पृथक्त्वे समन्वयः । तथा हि- पृथक्त्वनिष्ठविषयता केति चेत् ? ‘अयं घटः, तस्मात् पृथक्’ इत्याकारकव्यवहारविषयपृथक्त्वनिष्ठा विषयता । तादृशविषयतानिरूपकं ज्ञानं किमिति चेत् ? पृथगिति ज्ञानम् । तादृशज्ञानजनकशब्दप्रयोगनिष्ठा कार्यता केति चेत् ? ‘अयं घटः, तस्मात् पृथक्’ इति व्यवहारनिष्ठा कार्यता । तन्निरूपितासाधारणकारणता पृथक्त्वे वर्तत इति लक्षणसमन्वयः । लक्षणे कारणतायाम् ‘असाधारणम्’ इत्या-97
कारकविशेषणस्य विद्यमानत्वात् कालादौ नातिव्याप्तिः । तेषां (कालादीनाम् )
असाधारणकारणत्वाभावात् ॥
नास्तीति
नन्वेवं सत्यप्यस्य लक्षणस्य अपरिचितस्थले यत्रास्माकम् ‘अयं, तस्मात् पृथक्’ इत्याकारकव्यवहार एव न जातः, तत्र पृथक्त्वनिष्ठ- विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणत्वं अव्याप्तिरिति चेत् न । जातिघटितलक्षणपरिष्कारात् । तथा च लक्षणम्
‘पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोगनिष्ठकार्यता- निरूपितासाधारणकारणता वद्वृत्तिजातिमत्त्वम्’ । तथा च नाव्याप्तिः ।
तथाहि
पृथक्त्वनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता- निरूपितासाधारणकारणतावदित्यनेन यत्रास्माकमत्यन्तपरिचितस्थले ‘अयं घटः, तस्मात् पृथक्’ इति पृथक्त्वव्यवहार उत्पन्नः, तादृशपरिचितपृथक्त्वस्थलं स्वीकर्तव्यम् । तद्वृत्तिर्या जातिरिति चेत् ? पृथक्त्वत्वजातिः । तादृशजातिमत्त्वमत्यन्तापरिचितपृथक्त्वेऽपि वर्तत इति लक्षणसमन्वयान्ना-
व्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः रूपादावतिव्याप्तिर्दुर्वारा । तथाहि पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपिता- साधारणकारणतावत् पृथक्त्वम् । तद्वृत्तिर्या जातिरिति चेत् ? यथा पृथक्त्वत्वजातिः, तथा गुणत्वजातिरपि । तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् - पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोग- निष्ठकार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति । एवञ्च नातिव्याप्तिः । पृथक्त्वनिष्ठविषयतानिरूपकज्ञानजनकशब्द- प्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणतावत् पृथक्त्वम् । तद्वृत्तिर्या
[[9]]
[[98]]
संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः । यवृत्ति ।
आलोक- व्याख्या
गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति । स्वस्य स्वव्याप्यत्वाभावात्। गुणत्वव्याप्या जातिस्तु पृथक्त्वत्वजातिरेव भवति । तादृशजातिमत्त्वस्य रूपादावभावान्नातिव्याप्तिः । अत्र प्रयोजनाभावात् साक्षाद्व्याप्यत्वं न निवेशनीयम् ॥
पृथक्त्वम् अन्योन्याभावप्रयोजकम्, अतस्तेनास्य न चारितार्थ्यप्रश्नः । ‘नीलो घटः ’ ‘नीलः पटः’ इत्यादिप्रतीत्या रूपादिगुणानां भेदो हि घटपटाद्याश्रयभेदादेवेति सर्वानुभवसिद्धम् । घटपटभेदस्तु घटत्वपटत्वरूप- जातिभेदादेवेति च सिद्धम् । घटयोर्द्वयोः, पटयोर्वा द्वयोः परिदृश्यमानो भेदः कथमभूदिति प्रश्ने, तत्तदवयवभेदादिति चानुभवसिद्धम्। ‘अयं घटः, एतत्कपालद्वयजन्यत्वात्, तत्कपालद्वयजन्यतद्घटात् भिन्नोऽभूत्’ इति खलूत्तरं वक्तव्यम् । ततश्चावयविभेदोऽवयवभेदाधीन इति द्व्यणुकपर्यन्तं वक्तुं शक्यम्
“इदं द्व्यणुकम्, तद्द्द्व्यणुकभिन्नम्, एतत्परमाणुद्वयजन्यत्वात्’ इति । अयं परमाणुस्तत्परमाणुभिन्नः कुतोऽभूदिति प्रश्ने तु, परमाणूनां निरवयवत्वात् अवयवभेदान्न वक्तुं शक्यो भेदस्तयोः । रूपादिभेदाद्भेदकथनेऽन्योन्याश्रयः । परमाणुभेदे सिद्धे रूपादिभेदसिद्धिः, रूपादिभेदे सिद्धे परमाणुभेदसिद्धिरिति । अतः परमाणुभेदसाधको विशेष एव । एवञ्च विशेषवशात् परमाण्वोः प्रत्येकीभाव इति, विशेषः, पृथक्त्वम्, भेदः इति भेदव्यवहारविकासक्रमः । अतो विशेषोऽन्यः, पृथक्त्वमन्यत्, अन्योन्याभावश्चान्य एव ॥
संयोगं निरूपयति - संयुक्तेति । संयुक्तस्य व्यवहारः संयुक्तव्यवहारः । संयुक्तव्यवहारस्य हेतुः संयुक्तव्यवहारहेतुः । संयुक्तपदस्य भावप्रधानत्वात् संयोगोऽर्थः । षष्ठ्या विषयत्वमर्थः । प्रकृत्यर्थस्य संयोगस्य षष्ठ्यर्थविषयता- यामाधेयतासम्बन्धेनान्वयः । तथा च संयोगनिष्ठा विषयता । व्यवहारो नाम
10.99
ज्ञानजनकशब्दप्रयोगः । षष्ठ्यर्थविषयताया ज्ञानजनकशब्दप्रयोगैकदेशे ज्ञाने निरूपकत्वसम्बन्धेनान्वयः । तथा च संयोगनिष्ठविषयतानिरूपकज्ञान- जनकशब्दप्रयोगः । ‘व्यवहारस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः । प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः । तथा च व्यवहार(ज्ञानजनकशब्दप्रयोग ) निष्ठकार्यता । हेतुरित्यस्य कारणतावान् अर्थः । षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः । कारणतावतश्चाभेदसम्बन्धेन विशेष्ये संयोगेऽन्वयः । तथा च संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता- निरूपितकारणतावदभिन्नः संयोग इति बोधः । लक्षणं तु संयोगनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोगनिष्ठकार्यता-
निरूपितकारणत्वम् । संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः कः ? इति चेत् ‘इमौ संयुक्तौ’ इत्याकारकज्ञानजनकशब्दप्रयोगः । तादृशशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं संयोगे वर्तत इति
लक्षणसमन्वयः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य कालादावतिव्याप्तिर्दुष्परिहरा । तथाहि- कालेश्वरादृष्टादीनां कार्यसामान्यं प्रति कारणत्वात्, संयोगनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं कालादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न । कारणतायामसाधारणदलनिवेशनात् । तथा च लक्षणम् - संयोगनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोगनिष्ठ- कार्यतानिरूपितासाधारणकारणत्वम् । तथा च नातिव्याप्तिः । तथाहि
कारणत्वं द्विविधं वर्तते । एकं साधारणकारणत्वम्, अन्यत् असाधारणकारणत्वम् इति । संयोगनिष्ठविषयतानिरूपकज्ञानजनक- शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्वं यद्यपि कालेश्वरादृष्टादीनां वर्तते,
कसग्रहः।
100 आलोक-व्याख्या
किन्तु सा कारणता साधारणकारणता । न त्वसाधारणकारणता । ‘इमौ घटौ संयुक्तौ’ इत्याकारकसंयुक्तव्यवहारं प्रति तु विषयविधयाऽसाधारणकारणत्वं संयोगस्यैव वर्तते । संयोगमन्तरा ‘इमौ द्वौ संयुक्तौ’ इत्याकारकव्यवहार एव नोत्पद्यते । अतो विषयविधया तत्र संयोगस्यैव कारणत्वात्, कालेश्वरादीनां तथाविधकारणत्वाभावात् तत्र नातिव्याप्तिः ॥
ननु यत्रात्यन्तापरिचितवस्तुनिष्ठसंयोगस्य व्यवहार एव कस्यापि नोत्पन्नः, तादृशस्थले संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोग- निष्ठकार्यतानिरूपितासाधारणकारणत्वं नास्तीति अस्य लक्षणस्याव्याप्तिरिति चेत्, न । लक्षणस्यास्य जातिघटितत्वेन परिष्कारात् । तथा च लक्षणम् - संयोगनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोगनिष्ठकार्यता-
निरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम् । एवञ्च नाव्याप्तिः । तथाहि
- संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपिता- साधारणकारणतावान् इत्यनेन, अस्माकं यत्रात्यन्तपरिचितसंयोगस्थले ‘इमौ घटौ संयुक्तौ’ इत्याकारको यो व्यवहार उत्पद्यते, तादृशस्थलीयसंयोगः स्वीकर्तव्यः । तद्वृत्तिर्या जातिरिति चेत् ? संयोगत्वजातिः । तादृशजातिमत्त्वं त्वत्यन्तापरिचितसंयोगेऽपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा । तथाहि संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपिता- साधारणकारणतावान् संयोगः । तद्वृत्तिर्या जातिरिति चेत् ? यथा संयोगत्वजातिस्तथा गुणत्वजातिरपि भवति । तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् - संयोगनिष्ठविषयतानिरूपकज्ञानजनकशव्द- प्रयोगनिष्ठ कार्यतानिरूपितासाधारणकारणतावद्वृत्तिगुण-
50 101
आलोक- व्याख्या
ि
संयोग-
त्वव्याप्यजातिमत्त्वम् । एवञ्च नातिव्याप्तिः । तथाहि निष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारण- कारणतावान् संयोगः । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवितुमर्हति । स्वस्य स्वव्याप्यत्वाभावात् । अतस्तादृशगुणत्वव्याप्या जातिः संयोगत्वजातिरेव भवति । तादृशजाते रूपादावभावात् नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य ‘नोदनाख्य’ संयोगेऽव्याप्तिर्दुष्परिहरा । तथाहि - संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता- निरूपतासाधारणकारणतावान् अभिघाताख्यसंयोगः । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? यथा संयोगत्वजातिः, तथा अभिघातत्वजातिरपि वर्तते । तादृशजातिमत्त्वं नोदनाख्यसंयोगे नास्तीत्यव्याप्तिरिति चेत्, न । गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात् । तथा च लक्षणम् संयोगनिष्ठविषयता- निरूपकज्ञानजनकशव्दप्रयोगनिष्ठकार्यतानिरूपितासाधारण-
कारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् । एवञ्च नाव्याप्तिः । तथाहि - संयोगनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यता- निरूपितासाधारणकारणतावान् संयोगः । तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जाति- रिति चेत् ? अभिघातत्वजातिर्न स्वीकर्तुं शक्यते । तस्या गुणत्वसाक्षाद्व्याप्यत्वा- भावात् । सा जातिर्गुणत्वव्याप्यव्याप्या । स्वम् - गुणत्वम् । तद्व्याप्या संयोगत्वजातिः । तद्व्याप्यत्वमभिघातत्वरूपजातौ वर्तत इत्यतः साक्षाद्व्याप्या संयोगत्वरूपा जातिः । तादृशजातिमत्त्वं नोदनाख्यसंयोगेऽपि वर्तत इति नाव्याप्तिः ॥
संयोगः - अभिघातः, नोदनम् इति द्विविधः । शब्दहेतुः संयोगः - अभिघातः । शब्दाहेतुस्संयोगः- नोदनम् । संयोगस्सर्वोऽप्यनित्य एव । संयोगस्य क्रियाजन्यत्वात् विभुषु क्रियाया असम्भवात्, संयोगोऽपि न
[[102]]
संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ।
आलोक- व्याख्या
भवति । ननु विभूनां सर्वगतत्वात् आकाशकालदिगात्मनामेकदेशावच्छेदेनावस्थान- स्यावर्जनीयत्वात्, अवयवावयविभावरहितद्रव्ययोस्संयोगस्यैव सम्भवात्, विभुद्वयसंयोगो दुर्वार इति चेन्न । संयोगस्य क्रियाजन्यत्वात् विभुद्वयस्य क्रियाया अभावेन संयोगासम्भवात् । अन्ततः स्वरूपमेव तत्र सम्बन्धः । अत्र वक्तव्यमधिकं विभागनिरूपणान्ते द्रष्टव्यम् ॥
विभागं निरूपयति - संयोगेत्यादि । संयोगस्य नाशकः- संयोगनाशकः । नाशयतीति नाशकः । ‘संयोगस्य’ इत्यत्र संयोगपदस्य संयोगोऽर्थः । षष्ठ्याः प्रतियोगित्वमर्थः । प्रकृत्यर्थस्य संयोगस्याधेयतासम्बन्धेन षष्ठ्यर्थप्रतियोगितायामन्वयः । तथा च संयोगनिष्ठप्रतियोगिता । नाशक इत्यस्य नाशहेतुः - ध्वंसनिष्ठकार्यतानिरूपितकारणतावान् अर्थः । षष्ठ्यर्थ प्रतियोगिताया नाशक इत्यत्र एकदेशे नाशे (ध्वंसे) निरूपकतासम्बन्धेनान्वयः । तथा च संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठ- कार्यतानिरूपितकारणतावान् इति बोधः । कारणतावतोऽभेदसम्बन्धेन विभागेऽन्वयः । तथा च– संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठका- र्यतानिरूपितकारणतावदभिन्नो गुणाभिन्नो विभाग इति अखण्डबोधः । लक्षणं तु - संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यता- निरूपितकारणत्वे सति गुणत्वम् ।
यत्र कुत्रचित् चलनात्मिका क्रिया यदा जायते, तदा क्रमेण क्रिया, विभागः, पूर्वसंयोगनाशः, उत्तरसंयोगोत्पत्तिश्चेति कार्याणि नियमेन भवन्ति । ततः पञ्चमक्षणे क्रियानाशः। यौ द्वौ घटौ संयुक्तौ तत्र तयोर्मध्येऽन्यतरस्मिन् चलनरूपक्रियायां जातायां, तया क्रियया प्रथमं घटद्वयविभागो भवति । ततः प्राक्तनघटद्वयसंयोगनाशो भवति । ततो विभक्तस्य घटस्याऽऽकाश-
एवं च
[[103]]
आलोक- व्याख्या
देशान्तरेण संयोगो जायते । तत्र प्राक्तनघटद्वयसंयोगनाशं प्रति तत्पूर्वं जातो विभाग एव कारणम् । अतो विभागः संयोगनाशं प्रति कारणमित्युच्यते । ‘इमौ द्वौ घटौ विभक्तौ’ इत्यत्र विभागे लक्षणसमन्वयः । संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यता का ? इति चेत् ‘इमौ द्वौ विभक्तौ’ इत्याकारकप्रतीतिसिद्धा द्वयोः संयोगध्वंसनिष्ठा कार्यता । तादृशसंयोगध्वंसनिष्ठकार्यतानिरूपितकारणत्वं विभागे वर्तते, तत्र गुणत्वञ्च वर्तत इति लक्षणसमन्वयः । ‘गुणत्व’ मात्रोक्तौ रूपादावतिव्याप्तिः । अतः ‘संयोगनाशक’ इति दलम् । ‘संयोगनाशकत्व’ मात्रोक्तौ कालादावतिव्याप्तिः । अतो गुणपदम् । अथैवमपि कार्यसामान्यकारणेऽदृष्टेऽतिव्याप्तिः, धर्माधर्मरूपादृष्टस्य गुणत्वादिति चेत्, न गुणपदस्य सामान्यगुणपरत्वात् । अदृष्टस्य च विशेषगुणत्वात् ॥
नन्वेवं सत्यप्यस्य लक्षणस्य ‘हिमवद्विन्ध्यौ विभक्तौ’ इत्याकारक- व्यवहारविषये विभागेऽव्याप्तिर्दुष्परिहरा । तत्र संयोगनिष्ठप्रतियोगिता- निरूपकध्वंसनिष्ठकार्यतानिरूपितकारणत्वस्याभावात् लक्षणस्याव्याप्तिरिति चेत्, न । तत्र विभागव्यवहारस्यैवाप्रामाणिकत्वात् । यद्याग्रहः, तर्हि लक्षणस्य जातिघटितपरिष्कारात् । तथा च लक्षणम् – संयोगनिष्ठप्रतियोगिता- निरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावद्वृत्तिजातिमत्त्वम् इति । तथा च नाव्याप्तिः । तथाहि यत्रास्माकं विभागव्यवहार उपलभ्यते, तादृशपरिचितस्थलं स्वीकर्तव्यम् । तत्र संयोगनिष्ठप्रतियोगितानिरूपक- ध्वंसनिष्ठकार्यतानिरूपितकारणतावान् विभागः । तद्वृत्तिर्या जातिरिति चेत् ? विभागत्वजातिः । तादृशजातिमत्त्वमुक्तस्थलेऽपि वर्तत इति लक्षण- समन्वयान्नाव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा । तथाहि
[[60104]]
संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावान् विभागः । तद्वृत्तिर्या जातिरिति चेत् ? यथा विभागत्वजातिः, तथा गुणत्वजातिरपि भवति । तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारण- तावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति । एवञ्च नातिव्याप्तिः । तथाहि संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठकार्यतानिरूपितकारणतावान् विभागः । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति । किन्तु विभागत्वजातिरेव भवति । तादृशजातिमत्त्वं विभाग एव वर्तते, न तु रूपादाविति नातिव्याप्तिः ॥ अत्र लक्षणे प्रयोजनाभावात् गुणत्वसाक्षाद्व्याप्यत्व- निवेशनावश्यकता नास्ति अथवा संयोगनिष्ठप्रतियोगितानिरूपकध्वंसनिष्ठ- कार्यतानिरूपितकारणतायामसाधारणपदविशेषणेऽदृष्टस्य साधारणकारणत्वा- नातिव्याप्तिः । तर्हि गुणपदं किमर्थमिति चेत् ? तत् स्वरूपकीर्तनम्, न लक्षणे निवेश्यम् ॥
संयोगविभागौ परस्परसापेक्षौ । अत एवान्यतरेणान्यतरस्य चारितार्थ्यं न सम्भवति । प्रत्येकं घटपटौ यदा पश्यति, तदा ‘इमौ संयुक्तौ’ इति बुद्धिर्न भवति, उभयोर्मेलने तु भवति । पूर्वबुद्ध्यपेक्षयोत्तरबुद्धौ अधिको विषयः टिप्पणी
संयोगः त्रिविधः १. अन्यतरकर्मजः २. उभयकर्मजः ३. संयोगजश्चेति । १. आद्यस्तावत् यदा कश्चन पक्षी वृक्षादिषु तिष्ठति तदा पक्षिमात्रस्य क्रियया वृक्षपक्षिणोः संयोगो जायते । संयुक्तयोरुभयोर्मध्येऽन्यतरस्यैव क्रियया जायमानत्वात् अन्यतरकर्मजोऽयं संयोगः । २. द्वितीयस्तु यदा मल्लयोः मेषयोर्वा युद्धं भवति तदा युगपदेव मल्लद्वये मेषद्वये वा विद्यमानाभ्यां क्रियाभ्यां संयोगो जायते । अतोऽयं संयोगः उभयकर्मज इत्युच्यते । ३. तृतीयस्तु यदा अस्माकं शरीरावयवस्य हस्तादेः
60 105
कः ? घटपटौ तूभयत्र समानौ । अत उत्तरज्ञाने विषयाधिक्यमावश्यकम् । स एव संयोग उच्यते । अन्तरालाभावमात्रं न संयोगः, अभावमात्रेण बुद्धेर्विषयाधिक्यनिर्वाहासम्भवात् । बुद्धिः किल सविषया नियमेन, निर्विषयाया बुद्धेः कुत्राप्यदर्शनात् । अभावालम्बना तु बुद्धिर्न विलक्षणव्यवहारनिर्वाहक्षमा, सुषुप्तावपि व्यवहारविजृम्भणप्रसङ्गात् । ननु कं भीषयसि ? निरन्तरालौ घटौ पश्यन् ‘इमौ संयुक्तौ’ इति व्यवहरति । तत्र स्त एव घटपटौ विषयौ । ततश्च सविषयैव बुद्धिः, न निर्विषया । अत एव न सुषुप्त्यविशेषप्रसङ्गः इति चेत्, न पुनरपि बालिशतामेव प्रकटयसि त्वम् । संयोगाभाव एव विभागः कुतो न स्यात् ? अस्तु तथैव अन्यतर एवालमिति चेत्, उक्तमेवात्रोत्तरमपि विनिगमकाभावान्नान्यतरचारितार्थ्यमिति ॥
किं बहुना ! औषधयोगादौ हि प्रत्येकमदृष्टा अतिशया विचित्र-
टिप्पणी
पुस्तकादिभिः सह संयोगो जायते, ततः पुनः अवयविनोऽखण्डस्य शरीरस्यापि पुस्तकादिभिः सह संयोगो जायते । अयं तु शरीराद्यवयविसंयोगः, हस्ताद्यवयवसंयोगात् भिन्न एव । कुतः ? इति चेत्, सिद्धान्ते अवयवावयविनोर्भेदस्वीकारात् । अत्र यः द्वितीयः शरीराद्यवयविपुस्तकसंयोगः, स प्राक्तनहस्ताद्यवयवपुस्तकसंयोगाज्जायते, न तु क्रियया । शरीरादौ अवयविनि क्रियाभावेऽपि शरीरपुस्तकसंयोगस्य दृष्टत्वात् । अतोऽयं संयोगः संयोगजसंयोग इत्युच्यते ॥
एवमेव विभागोऽपि त्रिविधः- १. अन्यतरकर्मजः २. उभयकर्मजः ३. विभागजश्चेति । १. अत्रापि वृक्षपक्षिणोः संयोगानन्तरं पक्षिमात्रस्य क्रियया जायमानो विभागः = अन्यतरकर्मजः विभाग इत्युच्यते । २. यदा मल्लयोः मेषयोर्वा युगपद् संयोगानन्तरं युगपदेव विभागो जायते, तदा द्वयोः विद्यमानक्रियाभ्यां विभागस्य जातत्वात् उभयकर्मज इत्युच्यते । ३. तृतीयः = विभागजः विभागस्तु द्विविधः । (क) कारणाकारणविभागजन्यः विभाग एकः । (ख) कारणमात्रविभागजन्यः विभागश्चापरः । अनयोर्मध्ये (क) प्रथमः- हस्तपुस्तकसंयोगानन्तरं क्रियया यदा
[[1]]
[[106]]
कार्यकरा दृष्टाः । हरिद्राचूर्णसंयोगाद्रक्तरूपोत्पत्तिर्दृश्यते । किण्वादिभ्यो मादकशक्तिस्तु प्रसिद्धैव । जगदेवेदं प्रकृतिपुरुषसंयोगमूलकमामनन्ति । इदं सर्वं केवलमभावमूलकमिति को वा स्वाधीनमतिर्वदेत् ? । तर्ह्यस्तु संयोगोऽतिरिक्तः, मास्तु विभागोऽतिरिक्त इति चेत्, उपक्रान्तं सङ्गीतकं पुनरपि । संश्लेषवत् विश्लेषोऽपि बहुविधकार्यकारी दृश्यते । किं बहुना
टिप्पणी
।
हस्तपुस्तकयोः विभागो जायते, तदा शरीरादपि पुस्तकस्य विभागो जायते । अयं शरीरपुस्तकयोः विभागः, हस्तपुस्तकविभागाद् भिन्न एव । अत्र अवयविभूतस्य शरीरस्य कारणम् अवयवः हस्तः, पुस्तकं तु शरीरस्य नावयवः, अत एव तद्दृष्ट्या अकारणं च । एवञ्चात्र शरीरकारणीभूतहस्तस्य तदकारणीभूतस्य पुस्तकस्य च विभागात् जातः विभाग एव कारणाकारणविभागजन्यः (कार्याकार्य) विभाग इत्यु- च्यते । (ख) द्वितीयस्तु — कारणमात्रविभागजन्यः विभागः । यदा घटकारणीभूतयोः कपालयोः क्रिया जायते, तदा प्रथमं तादृशकारणमात्रविद्यमानक्रियया घटारम्भकसंयोगनाशकः कपालद्वयविभाग उत्पद्यते । तस्मात् विभागाद् घटारम्भकसंयोगनाशो भवति । ततः घटासमवायिकारणस्य कपालद्वयसंयोगस्य नाशात् घटनाशो भवति । तत्रादौ जातेन विभागेन कपालस्य प्राक्तनदेशावच्छिन्नाकाशादपि विभागो जायते । अयं च कपालाकाशविभागो घटकारणीभूतकपालद्वयमात्रविभागाद् जन्यः । अत एव कारणमात्रविभागजन्यः विभाग इत्युच्यते ॥
अत्रायं प्रश्नः
प्रथमं तावत् कपालयोः क्रिया जायते, ततः कपालद्वयविभागः, ततः घटारम्भककपालद्वयसंयोगनाशः, ततः घटनाशः । अत्र कपालद्वयविभागात् कपालाकाशविभागः, ततः कपालाकाशसंयोगनाशः, ततः उत्तरदेशसंयोगः, तदनन्तरमेव क्रियानाश इति क्रमः । अत्र द्वितीयक्षणे जातेन कपालद्वयविभागेन कपालाकाशविभागो जायत इत्युक्तम् । तत् कुतः ? यया क्रियया प्रथमः कपालद्वयविभागो जायते तयैव कपालाकाशविभागोऽपि जायत इति वक्तुं न शक्यते वा ? लोकेऽस्माकम् अनुभवोऽपि कपालद्वयविभागकाले एव कपालाकाश- विभागोऽपि जात इव भवति ॥107
प्रकृतिपुरुषसंयोगात् सृष्टिः, विश्लेषाच्चापवर्ग इति तत्त्वविदः । अतो विश्लेषरूपो विभागोऽप्यतिरिक्त आवश्यक एव । ननु प्रकृतिपुरुषयोरुभयोरपि विभुत्वात् कथं विश्लेषसम्भवः ? हन्त ! शास्त्रान्तरकथेयम् । ‘मन एव मनुष्याणां टिप्पणी
अस्याः समाधानम् – घटारम्भककपालद्वयसंयोगस्य नाशिका या क्रिया, सैव तदनारम्भककपालाकाशसंयोगस्य नाशिका न भवेत् । कुतः ? इति चेत्, या क्रिया घटारम्भककपालद्वयसंयोगनाशकं विभागं जनयति, सैव यदि घटानारम्भककपालाकाश- संयोगनाशकं विभागमपि जनयेत्, तर्हि एकैव क्रिया कार्यारम्भकसंयोगतदनार- म्भकसंयोगनाशकविभागस्य जनिकेति स्वीकारे विकसत्कमलकुड्मलभङ्गप्रसङ्गः । कथमिति चेत् ? कमलस्यावस्थाद्वयं वर्तते, एका कुड्मलावस्था, अन्या कुसुमावस्था । कुड्मलं विकसितं चेत्, कुसुमं भवति । कुड्मलस्य विकांसो नाम कुड्मलदलानाम् अग्रदेशावच्छेदेन चलनम् । अनया हि चलनरूपक्रियया दलानामग्रदेशावच्छेदन प्राक्तनदेशावच्छिन्नाकाशाद् विभागो जायते । तदैव कमलं विकसतीत्युच्यते । एवञ्च दलेऽग्रदेशावच्छेदेनोत्पन्नक्रियया केवलम् दलानाम् प्राक्तनदेशावच्छिन्नाकाशाद् कमलानारम्भकसंयोगनाशकविभागो जायते, यदि इयमेव कमलानारम्भकसंयोगनाशकविभागजनिका क्रिया कमलारम्भकसंयोगनाशकं विभागमपि जनयेत्, तर्हि तेन विभागेन कमलारम्भकसंयोग- नाशो भवेत्, ततश्च वृन्तदलसंयोगस्यासमवायिकारणस्य नाशेन कमलस्यापि नाशो भवेत् । एवं कमलसमवायिकारणदलवृन्तदलसंयोगस्य नाशे विकसत्कमलस्यापि नाशः स्यात् । तस्मात् सुष्ठुक्तम् - विकसत्कमलकुड्मलभङ्गप्रसङ्ग इति ॥
वस्तुतस्तु - वृन्तदलसंयोगः कमलारम्भकसंयोगः । तत्रैव दलानामग्रदेशा- वच्छेदेन विद्यमानो दलाकाशसंयोगो दलाने जायमानक्रियाजन्यविभागेन नश्यति । दलानां कमलावयवत्वेन समवायिकारणत्वेऽपि, आकाशस्य कारणत्वाभावात् कारणाकारणविभागः स भवति । क्रियायास्तत्तत्प्रदेशेनापि भेदस्यावश्यकत्वात्, दलानामग्रे जायमाना क्रिया, दलवृन्तसंयोगं न नाशयेत् इत्युपपादनं वरम् ॥
परत्वापरत्वे
[[108]]
परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादि- चतुष्टयमनोवृत्तिनी । ते द्विविधे । दिकृते कालकृते चेति । दूरस्थे दिक्कतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ।
आलोक- व्याख्या
कारणं वन्धमोक्षयोः’ इति न श्रुतम् ? प्रकृतिपुरुषसंयोगविभागौ तन्मूलकावित्याद्यन्यत्र विस्तरः । परस्पराभावरूपयोर्विनिगमकाभावे नान्यतरेणान्यतरस्य चारितार्थ्यमिति संयोगविभागावावश्यकौ ॥
परत्वापरत्वे निरूपयति- परापरेत्यादि । परं चापरं चेति परापरे । परापरयोर्व्यवहारः परापरव्यवहारः । न साधारणे असाधारणे । असाधारणे च ते कारणे असाधारणकारणे । परापरव्यवहारयोरसाधारणकारणे परापरव्यवहारासाधारणकारणे । परापरयोरित्यत्र परापरपदयोः परत्वमपरत्वं चार्थः । षष्ठ्या विषयत्वमर्थः । प्रकृत्यर्थस्याधेयतासम्बन्धेन षष्ठ्यर्थविषयता- यामन्वयः । तथा च परत्वापरत्वनिष्ठविषयता । व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः । षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकता (स्वनिरूपितविषयिताश्रयत्व) सम्बन्धेनान्वयः । तथा च परत्वापरत्वनिष्ठविषयता- निरूपक (निरूपितविषयिताश्रयत्व) ज्ञानजनकशब्दप्रयोग इति बोधः । ‘व्यवहारस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः । प्रकृत्यर्थस्य व्यवहारार्थस्य ज्ञानजनकशब्दप्रयोगस्य षष्ठ्यर्थकार्यतायामाधेयतासम्बन्धेनान्वयः । तथा च ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता । असाधारणकारणे इत्यस्य असाधारणकारणतावती इत्यर्थः । षष्ठ्यर्थकार्यताया निरूपितत्वसम्बन्धेना- साधारणकारणपदार्थैकदेशेऽसाधारणकारणतायामन्वयः । कारणताव- तोश्चाभेदसम्बन्धेन परत्वापरत्वयोरन्वयः । तथा च - परत्वापरत्वनिष्ठ- विषयतानिरूपक (निरूपितविषयिताश्रयत्व) ज्ञानजनकशव्दप्रयोगनिष्ठ-
[[109]]
आलोक- व्याख्या
कार्यतानिरूपितासाधारणकारणतावदभिन्ने परत्वापरत्वे इति बोधः ।
लक्षणं तु - परत्वनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोगनिष्ठ- कार्यतानिरूपितासाधारणकारणत्वं परत्वम् इति । लक्षणस्यास्य ‘अयम् अस्मात् परः’ इत्यत्र समन्वयः । परत्वनिष्ठविषयता का ? इति चेत् ‘अयम् अस्मात् परः’ इत्याकारकपरत्वनिष्ठविषयता । व्यवहारे व्यवहर्तव्यस्य विषयत्वात्, ‘अयम् अस्मात् पर इत्याकारकव्यवहारे परत्वं विषयः, परत्वं विना तादृशव्यवहारानुपपत्तेः । अतस्तादृशपरत्वनिष्ठविषयतानिरूपकं ज्ञानम् ‘अयम् अस्मात् पर इत्याकारकम् । तादृशज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? ‘अयम् अस्मात् पर इत्याकारकव्यवहारनिष्ठा कार्यता । तन्निरूपितासाधारणकारणत्वं व्यवहारे व्यवहर्तव्यस्य कारणत्वात् परत्वे वर्तत इति लक्षणसमन्वयः ॥
अत्र परत्वापरत्वयोर्लक्षणे कारणत्वेऽसाधारणपदस्य प्रथममेव निवेश- नात् कालादावतिव्याप्तिरूपदोषो नास्ति । कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वात्, असाधारणकारणत्वाभावात् ॥ नन्वेवं सत्यप्यस्य लक्षणस्य यत्रास्माकमपरिचितवस्तुनि परत्वव्यवहार एव नोत्पन्नस्तादृशस्थले परत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणत्व- स्याभावात् अव्याप्तिरिति चेत्, न । जातिघटितलक्षणपरिष्कारात् । तथा च लक्षणम् - परत्वनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोगनिष्ठ-
कार्यतानिरूपितासाधारणकारणतावद्वृत्तिजातिमत्त्वम् इति । एवञ्च नाव्याप्तिः । तथाहि - यत्रास्माकम् ‘अयं अस्मात् पर इति व्यवहार उपलभ्यते, तादृशपरत्वं स्वीकार्यम् । तद्वृत्तिर्या जातिरिति चेत् ? परत्वत्वजातिः । तादृशजातिमत्त्वमपरिचितस्थलीयपरत्वेऽपि वर्तत इति नाव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिः । परत्वनिष्ठ-
[[110]]
विषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत् परत्वम् । तद्वृत्तिर्या जातिरिति चेत् ? यथा परत्वत्वजातिः, तद्वत् गुणत्वजातिरपि भवति । तादृशजातिमत्त्वं तु रूपादावपि वर्तत इति अतिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् परत्वनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोगनिष्ठकार्यता- निरूपितासाधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति । एवञ्च नातिव्याप्तिः । तथाहि - परत्वनिष्ठविषयतानिरूपकव्यवहारनिष्ठकार्यता- निरूपितासाधारणकारणतावत् परत्वम् । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति । स्वस्य स्वव्याप्यत्वाभावात् । अतो गुणत्वव्याप्या जातिश्चेत् ? परत्वत्वजातिरेव । तादृशजातिमत्त्वं तु रूपादौ नास्तीति नातिव्याप्तिः । अत्रापि प्रयोजनाभावात् गुणत्वसाक्षाद्व्याप्यत्वं न निवेशनीयम् ॥
एवम् अपरत्वनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोगनिष्ठ- कार्यतानिरूपितासाधारणकारणत्वम् इति अपरत्वस्य लक्षणम् । लक्षणस्यास्य ‘अयम् अस्मादपरः’ इत्यत्र समन्वयः । अपरत्वनिष्ठविषयता का ? इति चेत् ‘अयम् अस्मादपरः’ इत्याकारकापरत्वनिष्ठविषयता । व्यवहारे व्यवहर्तव्यस्य विषयत्वात् ‘अयम् अस्मात् अपर इत्याकारकव्यवहारे अपरत्वं विषयः । अपरत्वं विना तादृशव्यवहारानुपपत्तेः । अतस्तादृशापरत्व- निष्ठविषयतानिरूपकं ज्ञानम् ‘अयम् अस्मात् अपर इत्याकारकम् । तादृशज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? अयम् अस्मात् अपरः’ इत्याकारकव्यवहारनिष्ठा कार्यता । तन्निरूपितासाधारणकारणत्वं व्यवहारे व्यवहर्तव्यस्य कारणत्वात् अपरत्वे वर्तत इति लक्षणसमन्वयः ॥
अत्र परत्वापरत्वयोर्लक्षणे कारणत्वेऽसाधारणपदस्य प्रथममेव निवेशनात् कालादावतिव्याप्तिरूपदोषो नास्ति । कालादीनां कार्यसामान्यं प्रति
[[111]]
। आलोक-व्याख्या
साधारणकारणत्वात्, असाधारणकारणत्वाभावात् ॥
POTTS
नन्वेवं सति यत्रास्माकमपरिचितवस्तुनि अपरत्वव्यवहार एव नोत्पन्नस्तादृशस्थले अपरत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठका- र्यतानिरूपितकारणत्वस्याभावात् अव्याप्तिरिति चेत्, न । अत्रापि जातिघटितलक्षणपरिष्कारात् । तथा च लक्षणम् - अपरत्वनिष्ठ- विषयतानिरूपकज्ञानजनकशव्दप्रयोगनिष्ठकार्यतानिरूपितासाधारण- कारणतावद्वृत्तिजातिमत्त्वम् इति । एवञ्च नाव्याप्तिः । तथाहि यत्रास्माकम् ‘अयमस्मात् अपरः’ इति व्यवहार उपलभ्यते, तादृशापरत्वं स्वीकार्यम् । तद्वृत्तिर्या जातिरिति चेत् ? अपरत्वत्वजातिः । तादृशजातिमत्त्व - मपरिचितस्थलीयापरत्वेऽपि वर्तत इति नाव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिः । अपरत्वनिष्ठ- विषयतानिरूपकव्यवहारनिष्ठकार्यतानिरूपितासाधारणकारणतावत् अपरत्वम्। तद्वृत्तिर्या जातिरिति चेत् ? यथा अपरत्वत्वजातिः, तद्वत् गुणत्वजातिरपि भवति । तादृशजातिमत्त्वं तु रूपादावपि वर्तत इति अतिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् अपरत्वनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपिता- साधारणकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति । एवञ्च नातिव्याप्तिः । तथाहि - अपरत्वनिष्ठविषयतानिरूपकव्यवहारनिष्ठकार्यता- निरूपितासाधारणकारणतावत् अपरत्वम् । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति । स्वस्य स्वव्याप्यत्वाभावात् । अतो गुणत्वव्याप्या जातिश्चेत् ? अपरत्वत्वजातिरेव । तादृशजातिमत्त्वं तु रूपादौ नास्तीति नातिव्याप्तिः । अत्रापि प्रयोजनाभावात् गुणत्वसाक्षाद्व्याप्यत्वं न निवेशनीयम् । परत्वापरत्वयोर्नियमेन परस्परसापेक्षत्वादुभयोस्सहैव लक्षणमुक्तं मूलकारेण,
गुरुत्वम्
[[112]]
आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ।
अस्माभिस्तु छात्राणां व्युत्पत्त्यर्थं प्रत्येकं पृथक्कृत्योक्तम् ॥
यद्यपि परत्वापरत्व आपेक्षिके, तावता न बुद्धिविशेषविषयत्वरूपे ते । तथा सति सुखदुःखादीनामपि परस्परसापेक्षत्वादसिद्धिप्रसङ्गात् ॥
गुरुत्वं निरूपयति - आद्येत्यादि । आद्यं च तत्पतनं चाद्यपतनम्। न समवायिकारणम् असमवायिकारणम् । आद्यपतनस्यासमवायिकारणम् आद्यपतनासमवायिकारणम् । आद्यत्वं नाम प्रथमत्वम् । पतनं नाम पतनरूपा क्रिया । प्रकृत्यर्थस्याद्यत्वस्य पतनरूपक्रियायामभेदसम्बन्धेनान्वयः । तथा च - आद्याभिन्नपतनक्रिया । ‘आद्यपतनस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः । प्रकृत्यर्थस्याद्यपतनरूपक्रियाया आधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः । तथा च- आद्याभिन्नपतनक्रियानिष्ठकार्यता । असमवायिकारणं नाम असमवायिकारणतावत् । षष्ठ्यर्थकार्यताया असमवायिकारणपदार्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः । तथा चाखण्डबोधः - आद्याभिन्न- पतनक्रियानिष्ठकार्यतानिरूपितासमवायिकारणतावदभिन्नं गुरुत्वम्
इति । लक्षणम् तु आद्याभिन्नपतनरूपक्रियानिष्ठकार्यतानिरूपिता- समवायिकारणत्वम् इति । आद्यपतननिष्ठकार्यता केति चेत् ? ‘इदं फलं पतति’ इत्याकारकपतनक्रियानिष्ठकार्यता । तादृशकार्यता- निरूपितासमवायिकारणत्वं गुरुत्वे वर्तत इति लक्षणसमन्वयः । ‘पतनासमवायिकारणत्व’ मात्रोक्तौ वेगेऽतिव्याप्तिः, द्वितीयादिपतने वेगस्याप्य- समवायिकारणत्वात् । अतः ‘आद्ये ‘ति विशेषणम् । यद्यपि पतनरूपक्रियां प्रति वेगोऽप्यसमवायिकारणम्, अथाऽपि आद्यपतनरूपक्रियायां वेगस्या- भावेनासमवायिकारणत्वाभावात्, द्वितीयादिपतनरूपक्रियां प्रत्येवासम- वायिकारणत्वम् । अत आद्यपतनं प्रति तु गुरुत्वमेवासमवायिकारणम् इति
[[10]]
वेगे नातिव्याप्तिः ॥
113 आलोक- व्याख्या
HEPRI
अत्र ‘असमवायि’ पदाभावे कालादावतिव्याप्तिः । आद्यपतन- निष्ठकार्यतानिरूपितकारणत्वं कालादावपि कार्यसामान्यकारणत्वात् वर्तत इत्यतिव्याप्तिस्स्यात् । असमवायिपदनिवेशे तु कालस्य कार्यसामान्यं प्रति निमित्तकारणत्वेनासमवायिकारणत्वाभावान्नातिव्याप्तिः । नन्वेवं सत्यपि यादृशेन गुरुत्वेन पतनरूपं कार्यं न जातम्, तत्राद्यपतननिष्ठकार्यतानिरूपिता- समवायिकारणत्वस्याभावादव्याप्तिरिति चेत्, न । आद्यपतननिष्ठकार्यता- निरूपितासमवायिकारणतावद्वृत्तिजातिमत्त्वस्य लक्षणत्वात् । आद्यपतन- निष्ठकार्यतानिरूपितासमवायिकारणतावत्, येन गुरुत्वेन पतनं जातम्, तादृशं गुरुत्वम् । तद्वृत्तिर्जातिः - गुरुत्वत्वरूपा जातिः । तादृशजातिमत्त्वं यस्मात् पतनरूपं कार्यं न जातम्, तत्रापि वर्तत इति नाव्याप्तिः ॥
[[1]]
अथैवमपि रूपादावतिव्याप्तिः । आद्यपतननिष्ठकार्यतानिरूपितासम- वायिकारणतावत् गुरुत्वम् । तद्वृत्तिर्जातिः- गुणत्वजातिरपि भवति । तद्वत्त्वं रूपेऽपि वर्तत इति रूपेऽतिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्यापि विशेषणात् । तथा च आद्यपतननिष्ठकार्यतानिरूपितासमवायिकारणता- ववृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति लक्षणम् । एवञ्चाद्यपतन- निष्ठकार्यतानिरूपितासमवायिकारणतावत् गुरुत्वम् । तद्वृत्तिर्गुणत्वव्याप्या जातिः- गुणत्वं न भवति, स्वस्य स्वव्याप्यत्वाभावात् । किन्तु गुरुत्वत्वजातिरेव । तद्वत्त्वं गुरुत्व एव वर्तते, न तु रूपादाविति नातिव्याप्तिः । अत्रापि प्रयोजनाभावात् ‘साक्षात्’ इति विशेषणं न देयम् ॥
यद्यपि भूमेराकर्षणशक्तिरेव गुरुत्वमिति नव्यविज्ञानिनः; तथापि कार्यस्य सर्वत्र परस्परसापेक्षत्वावश्यम्भावात्, सर्वानपि पदार्थान् भूमिर्नाकर्षितुमलमिति व्यवस्थादर्शनात्, आकर्षकयोग्यतावत् आकृष्य-
द्रवत्वम्
[[114]]
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिवीजलतेजो-वृत्ति । तद् द्विविधम् । सांसिद्धिकं नैमित्तिकं चेति । सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ।
योग्यताऽप्यावश्यकीति सैव गुरुत्वमुच्यत इति भाव्यम्
द्रवत्वं निरूपयति आद्येत्यादि । द्रवति इति व्यवहारसिद्धं जलनिष्ठविलक्षणक्रियाहेतुभूतं द्रवत्वमित्यर्थः । आद्यं च तत् स्यन्दनं चेति आद्यस्यन्दनम् । न समवायिकारणम् असमवायिकारणम् । आद्यस्यन्दनस्या- समवायिकारणमिति आद्यस्यन्दनासमवायिकारणम् । आद्यं नाम प्रथमम् । स्यन्दनं नाम स्यन्दनरूपा क्रिया । आद्यार्थकस्य प्रथमस्य स्यन्दनरूपक्रिया- यामभेदसम्बन्धेनान्वयः । तथा च आद्याभिन्नस्यन्दनक्रिया । ‘आद्यस्यन्दनस्य’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः । प्रकृत्यर्थस्य आद्यस्यन्दनक्रियाया आधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः । तथा च आद्यस्यन्दननिष्ठ- कार्यता । ‘असमवायिकारणम्’ इत्यस्यासमवायिकारणतावदित्यर्थः । षष्ठ्यर्थकार्यताया असमवायिकारणपदार्थैकदेशेऽसमवायिकारणतायां निरू- पितत्वसम्बन्धेनान्वयः । कारणतावतश्चाभेदसम्बन्धेन द्रवत्वेऽन्वयः । तथा चाखण्डबोधः - आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणता- वदभिन्नं द्रवत्वम् इति । लक्षणं तु निरूपितासमवायिकारणत्वम् इति । आद्यस्यन्दननिष्ठकार्यता केति चेत् ? ‘आद्यजलं स्यन्दते’ इति प्रतीतिसिद्धा स्यन्दनक्रियानिष्ठा कार्यता । तादृशकार्यतानिरूपितासमवायिकारणत्वं द्रवत्वे वर्तत इति लक्षणसमन्वयः । ‘स्यन्दनासमवायिकारणम्’ इत्येतावन्मात्रोक्तौ वेगेऽतिव्याप्तिः । अतः ‘आद्य’ इति विशेषणम् । द्वितीयादिस्यन्दनक्रियां प्रति वेगोऽप्यसमवायिकारणम्,
आद्यस्यन्दननिष्ठकार्यता-
[[115]]
आद्यस्यन्दनं प्रति तु नासमवायिकारणम्, तदानीं वेगस्यानुत्पन्नत्वात् । अत आद्यस्यन्दननिष्ठकार्यतानिरूपितकारणत्वाभावात् वेगे नातिव्याप्तिः ॥
अत्र ‘असमवायि’ इति विशेषणाभावे, कालादावतिव्याप्तिर्दुर्वारा स्यात् । असमवायिपदनिवेशे तु कालेश्वरादृष्टादेः कार्यसामान्यं प्रति निमित्तकारणत्वेनासमवायिकारणत्वाभावान्नातिव्याप्तिः ॥
P
नन्वेवं सत्यपि येन द्रवत्वेन स्यन्दनमेव कदाचिदपि न जातम्, तत्र आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणत्वस्याभावादव्याप्तिरिति
चेत्,
न । आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावद्वृत्ति- जातिमत्त्वस्य लक्षणत्वात् । आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायि- कारणतावत्, येन द्रवत्वेन स्यन्दनं जातम्, तादृशद्रवत्वं भवति । तद्वृत्तिर्जातिर्द्रवत्वत्वरूपा जातिः । तादृशजातिमत्त्वं येन द्रवत्वेन स्यन्दनमेव न जातम्, तादृशेऽपि द्रवत्वे वर्तत इति नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुना रूपादावतिव्याप्तिर्दुर्वारा । तथाहि आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत् द्रवत्वम् । तद्वृत्तिर्या जातिरिति चेत् ? यथा द्रवत्वत्वजातिस्तथा गुणत्वजातिरपि भवति । तादृशजातिमत्त्वं रूपादावपि वर्तत इति तत्रातिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् - आद्यस्यन्दननिष्ठ- कार्यतानिरूपितासमवायिकारणतावद्वृत्तिगुणत्वव्याप्यजातिमत्त्वम् इति । एवञ्च नातिव्याप्तिः । तथाहि - आद्यस्यन्दननिष्ठकार्यतानिरूपितासम- वायिकारणतावत् द्रवत्वम् । तद्वृत्तिर्गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति । स्वस्य स्वव्याप्यत्वाभावात् । तादृशगुणत्वव्याप्या जातिस्तु द्रवत्वत्वमेव । तादृशजातिमत्त्वं द्रवत्व एव वर्तते नान्यत्र रूपादाविति नातिव्याप्तिः ॥
ਦੀਦਾਰ ਦੀ
[[116]]
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ।
नन्वेवं सत्यप्यस्य लक्षणस्य नैमित्तिकद्रवत्वेऽव्याप्तिर्दुर्वारा । तथाहि आद्यस्यन्दननिष्ठकार्यतानिरूपितासमवायिकारणतावत् सांसिद्धिकद्रवत्वम् । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? सांसिद्धिकत्वजातिरपि भवति । सांसिद्धकत्वस्य विलक्षणजातित्वात् । तादृशजातिमत्त्वं नैमित्तिकद्रवत्वे नास्तीति तत्र लक्षणासमन्वयात् अव्याप्तिरिति चेत्, न । गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात् । तथाच लक्षणम् - आद्यस्यन्दननिष्ठकार्यता- निरूपितासमवायिकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् । एवञ्च नाव्याप्तिः । तथाहि आद्यस्यन्दननिष्ठकार्यतानिरूपिता- समवायिकारणतावत् द्रवत्वम् । तद्वृत्तिर्या गुणत्वसाक्षाद्व्याप्या जातिरिति चेत् ? इदानीं सांसिद्धिकत्वजातिर्न भवति । तस्या गुणत्वव्याप्यव्याप्यत्वात्। गुणत्वसाक्षाद्व्याप्या जातिस्तु द्रवत्वत्वमेव । तादृशजातिमत्त्वं नैमित्तिकद्रवत्वेऽपि वर्तत इति नाव्याप्तिः । सम्पूर्ण लक्षणं तु आद्यस्यन्दननिष्ठकार्यता- निरूपितासमवायिकारणतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति । ।
स्नेहं निरूपयति - चूर्णादीति । नायमान्तरप्रीतिविशेषरूपः, तस्य चेतनगुणत्वात् । किन्तु चूर्णादीनां पिण्डीभावहेतुर्जलनिष्ठोऽतिशयविशेषः । चूर्णादीनां पिण्डीभावः चूर्णादिपिण्डीभावः । चूर्णादिपिण्डीभावस्य हेतुः- चूर्णादिपिण्डीभावहेतुः । चूर्णादीनाम् इत्यत्र आदिपदेन सक्तूनां ग्रहणं कर्तव्यम् । षष्ठ्याः समवेतत्वमर्थः । तथा च चूर्णादिसमवेत इति । पिण्डीभावो नाम धारणाकर्षणहेतुभूतविलक्षणसंयोगः । पिण्डीभावस्येत्यत्र षष्ठ्याः कार्यत्वमर्थः । प्रकृत्यर्थस्यााधेयतासम्बन्धेन षष्ठ्यर्थकार्यतायामन्वयः । तथा च धारणाकर्षणहेतु- भूतविलक्षणसंयोगनिष्ठकार्यता । हेतुरित्यस्य कारणतावान् अर्थः । षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः ।81 117
गुण इत्यस्य गुणत्ववान् अर्थः । तस्य चाभेदसम्बन्धेन गुणेऽन्वयः । तथा च चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता- निरूपितकारणतावदभिन्नो गुणाभिन्नः स्नेहः इति बोधः । लक्षणं तु चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता- निरूपितकारणत्वे सति गुणत्वम् इति । तथाहि - चूर्णादिसमवेत- धारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता केति चेत् ? ‘एते रेणवः पिण्डीभूताः’ इत्याकारकप्रतीतिसिद्धा कार्यता । तादृशकार्यतानिरूपितकारणत्वं गुणत्वं च स्नेहे वर्तत इति समन्वयः । चूर्णादिपिण्डीभावहेतुत्वमात्रोक्तौ कालादावतिव्याप्तिः स्यात् । कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वात् । अतश्चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता- निरूपितकारणत्वं कालादावपि वर्तत इत्यतिव्याप्तिः । तदर्थं गुणत्वम् । कालस्य द्रव्यत्वात् गुणत्वाभावात्, तत्र नातिव्याप्तिः । गुणत्वमात्रोक्तौ रूपादावतिव्याप्तिः । अतश्चूर्णादिपिण्डीभावहेतुत्वम् ॥
।
यद्यपि लक्षणे कार्यतानिरूपितकारणतायामसाधारणत्वपदनिवेशनेनापि कालादावतिव्याप्तिर्वारयितुं शक्यते, तथापि असाधारणदलनिवेशनेऽपि स्नेहसमवायिकारणे चूर्णादावेवातिव्याप्तिः । तथाहि - चूर्णादिसमवेतधारणा- कर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यता केति इति चेत् ? ‘एते चूर्णाः पिण्डीभूताः’ इत्याकारकप्रतीतिसिद्धा धारणाकर्षणसंयोगनिष्ठकार्यता । तादृशकार्यतानिरूपितासाधारणकारणत्वं यथा स्नेहे वर्तते तथा चूर्णादावपि वर्तते । चूर्णमपि तादृशपिण्डीभावेऽसाधारणहेतुरेव । चूर्णं विना पिण्डीभाव एव कथं घटेत । अतो लक्षणेऽसाधारणकारणत्वनिवेशेनापि, नातिव्याप्तेर्निस्तारो भवति । तदर्थं गुणपदं निवेशनीयमेव । प्रकृते चूर्णादीनां द्रव्यत्वात् गुणत्वाभावाच तत्र नातिव्याप्तिः ॥
[[118]]
नन्वेवं सत्यपि येन स्नेहेन पिण्डीभाव एव न जातः, तत्र चूर्णादिसमवेतसंयोगस्य कार्यस्यैवाभावात् तादृशकार्यतानिरूपितकारणत्वं स्नेहे नास्तीत्यव्याप्तिरिति चेत्, न । जातिघटितपरिष्कारात् । तथा च लक्षणम् - ‘चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोग- निष्ठकार्यतानिरूपितकारणतावद्वृत्तिजातिमत्त्वे सति गुणत्वम्’ इति। एवञ्च नाव्याप्तिः । तथाहि - चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोग- निष्ठकार्यतानिरूपितकारणतावान् येन स्नेहेन पिण्डीभावो जातः, तादृशः स्नेहः । तद्वृत्तिर्या जातिरिति चेत् ? स्नेहत्वजातिः । तादृशजातिमत्त्वं तु येन स्नेहेन पिण्डीभाव एव न जातः, तादृशस्त्रेहेऽपि वर्तत इति नाव्याप्तिः ॥ नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा । तथाहि चूर्णादिसमवेतधारणाकर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपित- कारणतावान् स्नेहः। तद्वृत्तिर्यथा स्नेहत्वजातिः, तथा गुणत्वजातिरपि भवति । तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् - चूर्णादिसमवेतधारणा- कर्षणहेतुभूतविलक्षणसंयोगनिष्ठकार्यतानिरूपितासाधारणकारणता- वद्वृत्तिगुणत्वव्याप्यजातिमत्त्वे सति गुणत्वम् इति । एवञ्च नाव्याप्तिः । तथाहि - चूर्णादिनिरूपितासाधारणकारणतावान् स्नेहः । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वजातिर्न भवति । स्वस्य स्वव्याप्यत्वाभावात् । किन्तु स्नेहत्वजातिरेव । तादृशजातिमत्त्वं रूपादौ नास्तीति नातिव्याप्तिः । अत्र साक्षात्पदस्यावश्यकता नास्ति, स्नेहस्यानेकविधत्वाभावात् । तादृशजातिपदेन स्नेहत्वस्यैव ग्राह्यत्वात्, तद्वत्त्वं कालादौ नास्तीति गुणत्वनिवेशनाभावेऽपि न हानिः ॥
शब्दः
[[05119]]
श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः ।
सद्विविधः । ध्वन्यात्मको वर्णात्मकश्चेति । ध्वन्यात्मको भेर्यादौ ।
वर्णात्मकः संस्कृतभाषादिरूपः ।
शब्द लक्षयति - श्रोत्रेति । श्रोत्रेण ग्राह्यः - श्रोत्रग्राह्यः । ‘श्रोत्रेण’ इत्यत्र तृतीयाया जनकत्वमर्थः । श्रोत्रपदस्य श्रोत्रेन्द्रियमर्थः । प्रकृत्यर्थस्य श्रोत्रेन्द्रियस्य तृतीयार्थजनकतायामाधेयतासम्बन्धेनान्वयः । तथा च श्रोत्रेन्द्रियनिष्ठजनकता । ग्राह्यं इत्यत्र ग्रहधातोः प्रत्यक्षमर्थः । ण्यत्प्रत्ययस्य विषयतावानर्थः । प्रकृत्यर्थस्य ग्रहधात्वर्थप्रत्यक्षस्य निरूपितत्वसम्बन्धेन ण्यत्प्रत्ययार्थैकदेशे विषयत्वेऽन्वयः । तथा च प्रत्यक्षनिरूपितविषयता । तृतीयार्थजनकताया ग्रहधात्वर्थप्रत्यक्षे निरूपकत्व (अथवा स्वनिरूपित- जन्यताश्रयत्व) सम्बन्धेनान्वयः । अथवा श्रोत्रेणेत्यत्र तृतीयाया जन्यत्वमर्थः । प्रकृत्यर्थस्य स्वनिष्ठजनकतानिरूपितत्वसम्बन्धेन जन्यतायामन्वयः । जन्यताया आश्रयतासम्बन्धेन प्रत्यक्षेऽन्वयः । विषयतावतश्चाभेदसम्बन्धेन शब्देऽन्वयः । तथा च श्रोत्रेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिरूपित- विषयतावदभिन्नो गुणाभिन्नः शब्दः इति बोधः । लक्षणं तु श्रोत्रेन्द्रियनिष्ठजनकतानिरूपक (जनकतानिरूपितजन्यताश्रय) प्रत्यक्ष- निरूपितविषयत्वे सति गुणत्वम् इति । श्रोत्रेन्द्रियनिष्ठजनकतानिरूपित- जन्यताश्रयप्रत्यक्षं किमिति चेत् ? ‘अयं शब्दः’ इत्याकारकं प्रत्यक्षम् । तादृशप्रत्यक्षनिरूपिता विषयता शब्दनिष्ठा विषयता । तथा च श्रोत्रेन्द्रियजन्य- प्रत्यक्षनिरूपितविषयताश्रयत्वं शब्दे वर्तते । एवं गुणत्वमपि शब्दे वर्तत इति लक्षणसमन्वयः । ‘गुणत्व’ मात्रोक्तौ रूपादावतिव्याप्तिः । अतः ‘श्रोत्रग्राह्यः ’ इति दलम् । ‘श्रोत्रग्राह्यत्व’ मात्रोक्तौ शब्दत्वे शब्दाभावे चातिव्याप्तिः, तदर्थं गुणपदम् । तथा च शब्दत्वस्य जातित्वात्, शब्दाभावस्य चाभावत्वादुभयत्र गुणत्वाभावात् तत्र नातिव्याप्तिः ॥
[[1]]
[[120]]
नन्वेवं सत्यप्यस्य लक्षणस्य यत्किञ्चित्प्रदेशावच्छिन्न आकाशे जातः शब्दः केनापि यदा न श्रूयते, तत्र श्रोत्रग्राह्यत्वं शब्दे नास्तीत्यव्याप्तिरिति चेत्, न, जातिघटितलक्षणपरिष्कारात् । तथा च लक्षणम् श्रोत्रेन्द्रियनिष्ठजनकतानिरूपक (जनकतानिरूपितजन्यताश्रय) प्रत्यक्ष- निरूपितविषयतावद्वृत्तिजातिमत्त्वे सति गुणत्त्वम् इति । एवञ्च नाव्याप्तिः । तथाहि - श्रोत्रेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् श्रोत्रेण गृहीतश्शब्दः । तद्वृत्तिर्या जातिरिति चेत् ? शब्दत्वजातिः । तादृश- जातिमत्त्वं तु यः शब्दः केनापि न गृहीतः, तादृशशब्देऽपि वर्तत एवं गुणत्वमपि वर्तत इति लक्षणसमन्वयान्नाव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य रूपादावतिव्याप्तिर्दुष्परिहरा । तथाहि ‘श्रोत्रेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् शब्दः । तद्वृत्तिर्या जातिरिति चेत् ? यथा शब्दत्वजातिस्तथा गुणत्वजातिरपि भवति । तादृशजातिमत्त्वं रूपादावपि वर्तत इत्यतिव्याप्तिरिति चेत्, न । जातौ गुणत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् - श्रोत्रेन्द्रियनिष्ठजनकता- निरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वव्याप्य जातिमत्त्वे सति गुणत्वम् इति । एवञ्च नातिव्याप्तिः । श्रोत्रेन्द्रियनिष्ठ- जनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् शब्दः । तद्वृत्तिर्या गुणत्वव्याप्या जातिरिति चेत् ? गुणत्वं न भवति, स्वस्य स्वव्याप्यत्वाभावात् । तादृशगुणत्वव्याप्या जातिस्तु शब्दत्वमेव भवति । तादृशजातिमत्त्वं शब्दमात्रे वर्तते रूपादौ नास्तीति नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य गकारादावव्याप्तिर्दुष्परिहरा । तथाहि ‘श्रोत्रेन्द्रियनिष्ठजनकतानिरूपकप्रत्यक्षनिरूपितविषयतावान् ककारः । तद्वृत्तिर्या गुणत्वव्याप्या जातिर्यथा शब्दत्वं, तथा कत्वादिकमपि । तादृशजातिमत्त्वं
[[121]]
गकारादिरूपवर्णादौ नास्तीत्यव्याप्तिरिति चेत्, न । गुणत्वव्याप्ये साक्षात्पदस्य निवेशनात् । सम्पूर्णं लक्षणं तु - श्रोत्रेन्द्रियनिष्ठजनकतानिरूपित- जन्यताश्रयप्रत्यक्षनिरूपितविषयतावद्वृत्तिगुणत्वसाक्षाद्व्याप्यजातिमत्त्वे सति गुणत्त्वम् । एवञ्च नाव्याप्तिः । तथाहि - श्रोत्रेन्द्रियनिष्ठजनकता- निरूपितजन्यताश्रयप्रत्यक्षनिरूपितविषयतावान् ककारः । तद्वृत्तिर्या गुणत्व- साक्षाद्व्याप्या जातिरिति चेत् ? कत्वादिरूपा जातिर्न स्वीकर्तुं शक्यते । तस्या गुणत्वसाक्षाद्व्याप्यत्वाभावात् । अतस्तादृशगुणत्वसाक्षाद्व्याप्यजातिस्तु शब्दत्वमेव भवति । तादृशं शब्दत्वं गकारादिरूपवर्णादावपि वर्तत इति नाव्याप्तिः ॥
नन्वेवं सति कालादौ तादृशशब्दत्वरूपजात्यभावादेव नातिव्याप्तिरिति गुणपदं व्यर्थमिति चेत्, निष्कृष्टलक्षणे मास्तु तत्पदम्, दोषाभावात् ॥
यद्यपि स्पर्शानन्तरं शब्दो निरूपणीयः, विशेषगुणत्वात्, तथापि शब्द आकाशमात्रविशेषगुणः, आकाशसाधक इति विशेषसत्त्वात्, तादृशगुणसङ्घाते आद्यतयास्य निरूपणम् । बुद्ध्यादिकं हि जीवसाधकं लिङ्गम्, शब्दोऽप्याकाशस्येत्येत्यत्र क्रमीकृता गुणा इति द्रष्टव्यम् ॥
ज्ञानम्
सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः । भात्रय
[[1122]]
आलोक-व्याख्या - सर्वप्रस्तुताव् ईक्षताम्।
[[123]]
सा द्विविधा स्मृतिरनुभवश्चेति । संस्कारमात्रजन्यं ज्ञानं स्मृतिः ।
अतो बुद्धिं विभजते - सा द्विविधेति । अनुभवानामनुगतलक्षणापेक्षया स्मृतेरनुगतलक्षणं सुवचम् । स्मृतेर्लक्षणे ज्ञाते तद्भिन्नज्ञानत्वेनानुभवानां लक्षणं सुवचमिति प्रथमं स्मृतेर्लक्षणं उक्तम् ॥
तत्र प्रथमोद्दिष्टायास्स्मृतेर्लक्षणमाह - संस्कारेत्यादि । संस्कार एव संस्कारमात्रम् । संस्कारमात्रेण जन्यम् - संस्कारमात्रजन्यमिति विग्रहः । मात्रपदस्य भिन्नः, अभावञ्चार्थः । तृतीयाया जनकत्वमर्थः । जन्यमित्यस्य जन्यतावदित्यर्थः । तृतीयार्थजनकताया आधेयतासम्बन्धेन संस्कारपदार्थेऽन्वयः । एवं संस्कारपदार्थस्य मात्रपदार्थैकदेशे भेदेऽपि स्वनिष्ठप्रतियोगितानिरूपकत्व- सम्बन्धेनान्वयः । भिन्नपदार्थस्यापि तृतीयार्थजनकतायाम् आधेयतासम्बन्धेनान्वयः । जनकतायाश्च निरूपितत्वसम्बन्धेन जन्यतायामन्वयः । एवं जन्यताया मात्रपदार्थान्तरेऽभावे च स्वनिष्ठप्रतियोगितानिरूपकत्वसम्बन्धेनान्वयः । तथा च संस्कारनिष्ठजनकतानिरूपितजन्यतावदभिन्नम्, संस्कारनिष्ठ- प्रतियोगितानिरूपकभेदवन्निष्ठजनकतानिरूपितजन्यत्वनिष्ठप्रति- योगितानिरूपकाभाववदभिन्नं ज्ञानं स्मृतिरिति बोधः ॥ संस्कारजन्यत्वे सति, संस्कारेतराजन्यत्वे सति ज्ञानत्वं स्मृतेर्लक्षणम् । ज्ञानत्वमात्रो-
[[124]]
तद्भिन्नं ज्ञानमनुभवः । स द्विविधः - यथार्थोऽयथार्थश्चेति ।
क्तावनुभवेऽतिव्याप्तिः । अतः संस्कारजन्यत्वम् । एतावन्मात्रोक्तौ ‘सोऽयं घटः’ इत्यादिप्रत्यभिज्ञाप्रत्यक्षे तत्तांशस्य (विशेषणांशस्य) संस्कार- जन्यत्वादतिव्याप्तिः । अतः संस्कारेतराजन्यत्वम् । प्रत्यभिज्ञाप्रत्यक्षस्य इदन्तांशे (विशेष्यांशे) संस्कारेतरेन्द्रियजन्यत्वात् संस्कारेतराजन्यत्वं नास्तीति नातिव्याप्तिः । संस्कारेतराजन्यत्वे सति ज्ञानत्वमात्रोक्तौ यद्यपि पूर्वोक्तरीत्या - नुभवे नातिव्याप्तिः, अनुभवस्य संस्कारेतरेन्द्रियादिजन्यत्वेन संस्कारेतराजन्यत्व- स्याभावात्; अथापीश्वरप्रत्यक्षस्य नित्यत्वेन जन्यत्वस्यैवाभावेन, संस्कारेत- राजन्यत्वं सुतरां वर्तत ज्ञानत्वं च वर्तत इत्यतिव्याप्तिः । अतः संस्कारजन्यत्व- मावश्यकम् । ईश्वरज्ञानस्य नित्यत्वेन संस्कारजन्यत्वाभावान्नातिव्याप्तिः । ‘ईश्वरस्य तु सर्वं प्रत्यक्षमेव, तस्य स्मृतिर्नास्ति । ज्ञानत्वानुपादाने संस्कारध्वंसेऽतिव्याप्तिः । अतो ज्ञानत्वम् । अथैवं मनसो ज्ञानसामान्यकारणत्वात् स्मृतिं प्रत्यपि कारणत्वेन संस्कारेतराजन्यत्वाभावादसम्भव इति चेत्, न । तद्दलस्य बाह्येन्द्रियजन्यत्वाभावतात्पर्यकत्वेन दोषाभावान्न काप्यनुपपत्तिः । तथा च संस्कारजन्यत्वे सति, वाह्येन्द्रियाजन्यत्वे सति ज्ञानत्वं स्मृते- र्लक्षणम् ॥
अनुभवस्य लक्षणमाह - तद्भिन्नमिति । तत्पदस्य स्मृतिरर्थः । तस्याः (स्मृतेः) भिन्नम् तद्भिन्नमिति विग्रहः । तस्याः’ इत्यत्र प्रकृत्याः स्मृतिरर्थः । पञ्चम्याः प्रतियोगित्वमर्थः । तत्र च प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । तथा च स्मृतिनिष्ठप्रतियोगिता इति । भिन्नमित्यस्य भेदवत् (अन्योन्याभाववत्) अर्थः । पञ्चम्यर्थप्रतियोगिताया भेदवत् इत्यत्रैकदेशे भेदे (अन्योन्याभावे) निरूपकत्वसम्बन्धेनान्वयः । भेदवतश्चाभेदसम्बन्धेनानुभवेऽन्वयः । तथा च स्मृतिनिष्ठप्रतियोगितानिरूपकान्योन्याभावाश्रयाभिन्नो ज्ञानत्वाश्रया-
[[125]]
तद्वति तत्प्रकारकानुभवो यथार्थः । सैव प्रमेत्युच्यते । यथा रजते इदं रजतम् इति ज्ञानम् ।
भिन्नोऽनुभवः इति बोधः । लक्षणं तु - स्मृतिनिष्ठप्रतियोगिता- निरूपकाऽन्योन्याभावाश्रयत्वे सति ज्ञानत्वम् इति । स्मृतिनिष्ठ- प्रतियोगितानिरूपकः भेदः क इति चेत् ? ‘अयं घटः’ इत्याकारक- प्रत्यक्षात्मकज्ञाने ‘स्मृतिर्न’ इति प्रतीतिसिद्धो भेदः । सः ‘अयं घटः ’ इत्याकारकप्रत्यक्षात्मकानुभवे वर्तते, ज्ञानत्वमपि वर्तत इति लक्षणसमन्वयः । ज्ञानत्वम् इत्येतावन्मात्रोक्तौ स्मृतावतिव्याप्तिः, स्मृतेरपि ज्ञानत्वात् । अतः ‘स्मृतिभिन्नम्’ इति पदमुपात्तम् । ‘स्मृतिभिन्नम्’ इत्येतावन्मात्रोक्तौ घण्टादावतिव्याप्तिः, तस्यापि स्मृतिभिन्नत्वात् । अतः ‘ज्ञानम्’ इत्युपात्तम् । घटस्य ज्ञानरूपत्वाभावात्, तत्र नातिव्याप्तिः ॥
यथार्थानुभवस्य लक्षणमाह - तद्वतीत्यादि । तत् अस्मिन् अस्तीति तद्वत् । तस्मिन् तद्वति । ’ अस्मिन्’ इत्यत्र इदंशब्दस्य विशेष्यभूतरजता- दिकमर्थः । सप्तम्या अधिकरणत्वमर्थः । प्रकृत्यर्थस्य रजतादेः सप्तम्यर्थाधि- करणतायामाधेयतासम्बन्धेनान्वयः । तथा च रजतादिनिष्ठाधिकरणता इति बोधः । ’ अस्ति’ इत्यत्र असधातोराधेयत्वमर्थः । ‘ति’ इत्याख्यात- स्याश्रयत्वमर्थः । ‘तत्’ पदेन प्रकारीभूतो धर्मो रजतत्वादिग्रह्यः । आख्यातार्था- श्रयताया- स्तत्पदार्थभूतप्रकारीभूतधर्मे (रजतत्वादौ) अन्वयः । तथा च ‘तद्वन्निष्ठा(रजतादिधर्मिनिष्ठा) धिकरणतानिरूपिताधेयताश्रयस्तद्धर्मः (रजतत्वादिधर्मः)’ इति बोधः ॥
‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले विग्रहवाक्यात् यादृशो विशेषणविशेष्यभावापन्नो वोघो जायते समासादिवृत्तिवाक्यात् तद्विपरीतविशेषणविशेष्यभावापन्नो वोघो जायते’ इति नियमानुरोधेन
feme
[[126]]
आलोक- व्याख्या
पूर्वं विशेषणभूतं रजतादिकम् इदानीं विशेष्यं भवति । पूर्वं विशेष्यभूतं रजत्वादिकम् इदानीं विशेषणं भवति । तथा चं ‘तन्निष्ठा (रजतत्वादिनिष्ठा) धेयतानिरूपिताधिकरणतावत् ( आश्रयो रजतादिकम् ) ’ इति ‘तद्वत्’ इत्याकारकपदस्य बोधः । तद्वति’ इत्यत्र सप्तम्या विशेष्यत्वमर्थः। प्रकृत्यर्थस्य तद्वतः (रजतत्त्ववतः रजतस्य) सप्तम्यर्थ- विशेष्यतायामाधेयतासम्बन्धेनान्वयः । तथा च तद्वन्निष्ठा (रजतत्वावच्छिन्न- रजतनिष्ठा) विशेष्यता इत्यासीत् । सप्तम्यर्थविशेष्यताया निरूपकत्वसम्बन्धेना- नुभवेऽन्वयः । तथा च तन्निष्ठा (रजतत्वनिष्ठा) धेयतानिरूपिता- धिकरणतावन्निष्ठ (रजतनिष्ठ) विशेष्यतानिरूपकोऽनुभवः इति ‘तद्वति’ इत्यस्य पदस्य बोधः ॥
तत्प्रकारक इत्यत्र ‘स प्रकारो यस्मिन्, तत्प्रकारक इति विग्रहः । बहुव्रीहिसमासान्त ‘क’ प्रत्ययः कर्मधारयसमासभ्रान्तिवारणार्थः । ‘यस्मिन्’ इत्यत्र ‘यत्’ शब्दस्यानुभवोऽर्थः । सप्तम्या विषयित्वम् (प्रकारित्वम्) अर्थः । प्रकृत्यर्थस्यानुभवस्य सप्तम्यर्थप्रकारितायमाधेयतासम्बन्धेनान्वयः । तथा च अनुभवनिष्ठ (तन्निष्ठ) प्रकारिता (विषयिता) इति बोधः । ‘प्रकारः इत्यस्य प्रकारतावान् अर्थः । सप्तम्यर्थविषयितायाः (प्रकारितायाः) प्रकार शब्दार्थैकदेशे प्रकारतायां निरूपितत्वसम्बन्धेनान्वयः । ‘तत्’ पदेन प्रकारीभूतो धर्मो (रजतत्वादिः) ग्राह्यः । तथा च अनुभवनिष्ठ- प्रकारितानिरूपितप्रकारतावान् ( प्रकारताश्रयः ) स ( रजतत्त्वम् ) इति विग्रहवाक्यबोधः । ‘अन्यपदार्थप्रधानसमासादिस्थले’ इत्यादिनियमेन समासे विशेषणविशेष्यभावः विपरिवर्तते । ‘तन्निष्ठ (रजतत्वनिष्ठ) प्रकारतानिरूपितप्रकारिता (विषयिता) श्रयाभिन्नोऽनुभवः इति खण्डबोधः । अखण्डबोधस्तु तन्निष्ठा (रजतत्वादिनिष्ठा) धेयतानिरूपिता-127
धिकरणतावन्निष्ठ (रजतादिनिष्ठ) विशेष्यतानिरूपकः, तन्निष्ठ (रजतत्वादिनिष्ठ) प्रकारतानिरूपितप्रकारिता (विषयिता) श्रयाभिन्नोऽ- नुभवो यथार्थः इति । लक्षणं तु तद्वन्निष्ठ (रजतत्वादिमन्निष्ठ) विशेष्यतानिरूपकत्वे सति, तन्निष्ठ(रजतत्वादिनिष्ठ) प्रकारता- निरूपकत्वे सति, अनुभवत्वम् इति । रजते ‘इदं रजतम्’ इत्यत्र प्रमायां विशेष्यता रजतनिष्ठा । प्रकारता रजतत्वनिष्ठा । ‘तद्वन्निष्ठविशेष्यता- निरूपकत्वम्’ इत्यत्र ‘तत्’ पदेन रजतत्वं ग्राह्यम् । तद्वत् - रजतम् । तन्निष्ठा विशेष्यता । तादृशविशेष्यतानिरूपकत्वं रजते ‘इदं रजतम्’ इत्याकारकज्ञाने वर्तते । एवं तन्निष्ठप्रकारतानिरूपकत्वम् इत्यत्र ‘तत्’ पदेन रजतत्वस्य ग्रहणात् रजतत्वनिष्ठ-प्रकारतानिरूपकत्वमपि रजते ‘इदं रजतम्’ इति ज्ञाने वर्तत इत्यतस्तद्वन्निष्ठविशेष्यता- निरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति, अनुभवत्त्वम् रजते ‘इदं रजतम्’ इत्याकारकयथार्थानुभवे वर्तत इति लक्षणसमन्वयः ॥
अस्मिन् लक्षणे ‘अनुभवत्वम्’ इत्येतावन्मात्रोक्तावयथार्थानुभवेऽति- व्याप्तिः । तस्यापि स्मृतिभिन्नत्वेनानुभवत्वाविशेषात् । अतः ‘तद्वन्निष्ठविशेष्यता- निरूपकत्वम्’ इति दलं निवेशनीयम् । तथा च लक्षणम् -‘तद्वन्निष्ठविशेष्यता- निरूपकत्वे सति, अनुभवत्वम् । एवञ्च नातिव्याप्तिः । यद्यप्ययथार्थानुभवेऽ- नुभवत्वं वर्तते, अथापि तद्वन्निष्ठविशेष्यतानिरूपकत्वं नास्ति । तथाहि शुक्तौ ‘इदं रजतम्’ इत्ययथार्थानुभवे ‘तत्’ पदेन प्रकारीभूतरजतत्वं ग्राह्यम् । तद्वत् - रजतत्ववद्रजतम् । तत्र रजतत्ववन्निष्ठ-विशेष्यतानिरूपकत्वं नास्ति । किन्तु रजतत्वाभाववच्छुक्तिनिष्ठविशेष्यतानिरूपकत्वमेव वर्तत इति नातिव्याप्तिः ॥
- ‘तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति, अनुभवत्वम्’ इत्येतावन्मात्रोक्तौ
[[128]]
शुक्तौ ‘इदं रजतम् ’ भ्रमेऽतिव्याप्तिस्तथैव स्यात् । ‘तत्’ पदस्य सर्वनामपदत्वेन, तेन शुक्तित्वस्य ग्रहणे तत् - शुक्तित्त्वम् । तद्वती- शुक्तित्ववती - शुक्तिः । तन्निष्ठा विशेष्यता । तन्निरूपकत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मकज्ञाने वर्तते । एवमनुभवत्वमपि वर्तत इत्यतिव्याप्तिः । अतः ‘तन्निष्ठप्रका- रतानिरूपकत्वम्’ । तथा च लक्षणम् तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् । एवञ्च नातिव्याप्तिः । तथाहि शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमस्थले ‘तत्’ पदेन शुक्तित्त्वस्य ग्रहणात् तद्वन्निष्ठविशेष्यतानिरूपकत्वम् उक्तभ्रमात्मकज्ञाने वर्तते, एवमनुभवत्वमपि वर्तते । किन्तु तत्र तन्निष्ठप्रकारतानिरूपकत्वं नास्ति । तथाहि ‘तत्’ पदेन शुक्तित्वस्यैव ग्रहणात्, तत् - शुक्तित्वम् । तन्निष्ठा प्रकारता - शुक्तित्वनिष्ठा प्रकारता । तन्निरूपकत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मकज्ञाने नास्ति । किन्तु रजतत्वनिष्ठप्रकारतानिरूपकत्वमेव वर्तत इति नातिव्याप्तिः ॥
‘तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्’ इत्येतावन्मात्रोक्तौ, पुनः शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मकज्ञानेऽतिव्याप्तिः स्यात् । तथाहि प्रकृते ‘तत्’ पदेन रजतत्वस्य ग्रहणात् तत् - रजतत्वम् । तन्निष्ठा प्रकारता - रजतत्वनिष्ठा प्रकारता । तादृशप्रकारतानिरूपकत्वे सति, अनुभवत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मकज्ञाने वर्तत इत्यतिव्याप्तिः । अतः ‘तद्वन्निष्ठविशेष्यतानिरूपकत्व’ रूपदलमप्यावश्यकम् । तथा च लक्षणम् तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् इति । तथा च नातिव्याप्तिः । तथाहि - यद्यपि शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमे तत्पदेन रजतत्वग्रहणात् ‘तन्निष्ठ(रजतत्वनिष्ठ) प्रकारतानिरूपकत्वे सति, अनुभवत्वम्’ वर्तते । परन्तु तत्र
[[11]]
यति
[[0129]]
तद्वन्निष्ठविशेष्यतानिरूपकत्वं नास्ति । तथाहि ‘तत्’ पदेन रजतत्वस्य ग्रहणात्, तत् - रजतत्वम् । तद्वत् - रजतम् । रजतत्व-वद्रजतनिष्ठविशेष्यता- निरूपकत्वं शुक्तौ ’ इदं रजतम्’ इत्याकारकभ्रमस्थले नास्ति । किन्तु तत्र (तदभाववन्निष्ठ) रजतत्वाभाववच्छुक्तिनिष्ठविशेष्यतानिरूपकत्वमेव वर्तत इति तत्र नातिव्याप्तिः ॥
‘अनुभवत्वम्’ इति दलाभावे केवलं ‘तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वम्’ यथार्थानुभवस्य लक्षणम् इत्येतावन्मात्रोक्तौ यथार्थानुभव-जन्यस्मृतावतिव्याप्तिः । तथाहि ‘अयं घटः’ इत्याकारकयथार्थानुभवजन्यायां स्मृतौ (घटविषयकस्मृतौ) ‘तत्’ पदेन घटत्वस्य ग्रहणात्, तत्- घटत्वम् । तद्वान् घटत्ववान् घटः । तन्निष्ठा विशेष्यता । तन्निरूपकत्वम् ‘अयं घटः’ इत्याकारिकायां स्मृतौ वर्तते । एवं ‘तत्’ पदेन घटत्वस्य ग्रहणात्, तत् - घटत्वम् । तन्निष्ठा प्रकारता इति चेत् ? घटत्वनिष्ठाप्रकारता । तन्निरूपकत्वं च ‘अयं घटः’ इत्याकारकस्मृतिरूपज्ञाने वर्तत इति तत्रातिव्याप्तिः । अतोऽनुभवत्वदलम् । एवञ्च नातिव्याप्तिः । तथाहि - यद्यपि ‘अयं घटः’ इत्याकारिकायां यथार्थस्मृतौ तद्वन्निष्ठ- विशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वं वर्तते, तथापि स्मृतिभिन्नत्वस्यैवानुभवत्वात्, स्मृतावनुभवत्वं नास्तीति नातिव्याप्तिः ॥
अथैवमपि शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमेऽतिव्याप्तिर्दुर्वारा । प्रथमतत्पदेन शुक्तित्वग्रहणे तद्वती शुक्तिः । तद्वन्निष्ठा - शुक्तित्ववन्निष्ठा विशेष्यता भवति । तादृशविशेष्यतानिरूपकत्वं ज्ञाने वर्तते । द्वितीयतत्पदेन रजतत्वग्रहणे रजतत्व-निष्ठप्रकारतानिरूपकत्वं च तद्ज्ञाने वर्तते । अनुभवत्वं च वर्तत इत्यतिव्याप्तिः । ननु ‘स राजा आगच्छति, तं पश्य’ इत्यादिप्रयोगात् ‘एकत्रोच्चरितयोस्तच्छव्दयोरेकार्थवोधकत्वमिति नियमात्, तत्पदद्वयेनापि
[[130]]
आलोक- व्याख्या
एक एव धर्मो ग्राह्यः । प्रथमतत्पदेन शुक्तित्वग्रहणेन शुक्तित्ववच्छुक्ति- निष्ठविशेष्यतानिरूपकत्वसत्त्वेऽपि, द्वितीयतत्पदेनापि शुक्तित्वस्यैव ग्राह्यत्वात् ‘तन्निष्ठप्रकारता’ इत्यनेन शुक्तित्वनिष्ठप्रकारतैव भवति । तत्र रजतत्वस्यैव प्रकारत्वात्, शुक्तित्वनिष्ठप्रकारतानिरूपकत्वं नास्तीति कथमतिव्याप्तिरिति चेत्; एवमपि रङ्गरजते दृष्ट्वा ‘इमे रजतरङ्गे’ इति समूहालम्बन- भ्रमेऽतिव्याप्तिर्दुर्वारा । नानाविशेषणविशेष्यकज्ञानं समूहालम्बनज्ञानमित्युच्यते। उक्तज्ञाने शुक्तिः रजतं चेति द्वयं विशेष्यम् । शुक्तित्वं रजतत्वं चेति द्वयमपि विशेषणम् । अतस्तत्र तत्पदेन रजतत्वग्रहणे रजतत्ववद्रजतनिष्ठा विशेष्यतापि वर्तते, रजतत्वनिष्ठप्रकारतापि वर्तते । एवं तत्पदेन रङ्गत्वग्रहणे रङ्गत्त्ववद्रङ्गनिष्ठापि विशेष्यता वर्तते, रङ्गत्वनिष्ठा प्रकारतापि वर्तत इति तद्वन्निष्ठविशेष्यतानिरूपकत्वं तन्निष्ठप्रकारतानिरूपकत्वमनुभवत्वं च वर्तत इत्यतिव्याप्तिः स्यादेवेति चेत् न । एकज्ञानीययोर्विशेष्यत्वप्रकारत्वयोः परस्परं निरूप्यनिरूपकभावस्य भानात्, तद्वन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता, तन्निरूपकत्वस्य ज्ञाने निवेशान्नातिव्याप्तिः । पूर्वं तु विशेष्यतानिरूपकत्वं प्रकारतायां न निविष्टम्, किन्तु ज्ञाने निविष्टम् । इदानीं तु प्रकारतायां निविष्टमिति विशेषः । एवञ्चोक्तसमूहालम्बनभ्रमे रङ्गनिष्ठापि विशेष्यता, रजतनिष्ठापि विशेष्यता, रङ्गत्वनिष्ठापि प्रकारता रजतत्वनिष्ठापि प्रकारता भवति । अतस्तद्वन्निष्ठविशेष्यतानिरूपकत्वम्, तन्निष्ठप्रकारतानिरूपकत्वं च ज्ञाने प्रत्येकं वर्तत इत्यतिव्याप्तिरुक्ता । इदानीं तूक्तज्ञाने तत्पदेन रङ्गत्वस्य स्वीकारे, तद्वत् - रङ्गत्ववत् रङ्गम् । तन्निष्ठविशेष्यतानिरूपिता तु प्रकारता रजतत्वे वर्तते, न रङ्गत्वे । अतस्तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठ- प्रकारताशालित्वमुक्तसमूहालम्बने नास्ति । तत्पदेन रजतत्वस्वीकारेऽपि, तद्वत् रजतम् । तन्निष्ठविशेष्यतानिरूपिता प्रकारता रङ्गत्व एव वर्तते, न तु
RE 131
तदभाववति तत्प्रकारकानुभवोऽयथार्थः । सैवाप्रमेत्युच्यते । ( स एव भ्रम इत्युच्यते ।) यथा शुक्तौ इदं रजतम् इति ज्ञानम् ।
रजतत्वे । अतस्तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वमुक्तसमूहा- लम्बने नास्तीति नातिव्याप्तिः ॥ तथा च तद्वन्निष्ठविशेष्यतानिरूपित- तन्निष्ठप्रकारताशालित्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम् ॥
अथैवमपि रङ्गरजते दृष्ट्वा ‘इमे रजते’ इति समूहालम्बन- भ्रमेऽतिव्याप्तिर्दुर्वारा । तत्र रङ्गे, रजते उभयत्रापि रजतत्वं रङ्गत्वं च प्रकारः । तत्पदेन रजतत्वस्वीकारे, तद्वत् रजतम् । तन्निष्ठविशेष्यतानिरूपिता रजतत्वनिष्ठा प्रकारता भवत्येव । अतस्तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारता- शालित्वसत्त्वादुक्तभ्रमेऽतिव्याप्तिर्दुवरिति चेत् न । तद्वन्निष्ठविशेष्यता- निरूपितत्वस्थाने तदभाववन्निष्ठविशेष्यत्वानिरूपितत्वस्य विवक्षणात् । तथा च तदभाववन्निष्ठविशेष्यत्वानिरूपिततन्निष्ठप्रकारताशालित्वे सत्यनुभवत्वं लक्षणम् । रजते ‘इदं रजतम्’ इति प्रमायां तत्पदेन रजतत्वग्रहणे । तदभावः रजतत्वाभावः । तद्वत् रङ्गम् । तन्निष्ठविशेष्यत्वानिरूपितत्वं रजतत्वनिष्ठप्रकारतायामस्तीति लक्षणसमन्वयः । एवञ्चोक्तसमूहालम्बनभ्रमे, रङ्गांशेऽपि रजतत्वस्य प्रकारतया भानात्, तत्पदेन रजतत्वस्य स्वीकारे, तदभाववत् - रजतत्वाभाववत् रङ्गं भवति । तादृशरङ्गनिष्ठविशेष्यतानिरूपितैव रजतत्वनिष्ठप्रकारता भवति, रजत इव रङ्गेऽपि रजतत्वस्यैव प्रकारतया भानात् । तथा च तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्व- मेवोक्तभ्रमे वर्तते, न तु तदभाववन्निष्ठविशेष्यत्वनिरूपिततन्निष्ठप्रकारता- शालित्वमिति नातिव्याप्तिः । एवञ्च तदभाववन्निष्ठविशेष्यत्वानिरूपित- तन्निष्ठप्रकारताशालित्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम् ॥
अयथार्थानुभवस्य लक्षणमाह - तदभाववतीत्यादि । तस्याभावः-
[[132]]
[[515]]
तदभावः। तदभावोऽस्मिन् अस्तीति तदभाववत् । तस्मिन् तदभाववति । ‘तस्य’ इत्यत्र तच्छब्दस्य प्रकारतया भासमानो धर्मोऽर्थः । षष्ठ्याः प्रतियोगित्वमर्थः । तत्र प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । तथा च तन्निष्ठप्रतियोगिता । षष्ठ्यर्थप्रतियोगिताया अभावे निरूपकतासम्बन्धेनान्वयः । तथा च तन्निष्ठप्रतियोगितानिरूपकाभावः । ’ अस्मिन्’ इत्यत्र इदं शब्दस्य विशेष्यतया भासमानपदार्थोऽर्थः । सप्तम्या अधिकरणत्वमर्थः । प्रकृत्यर्थस्य विशेष्यतया भासमानपदार्थस्याधेयतासम्बन्धेन सप्तम्यर्थाधिकरणतायामन्वयः । तथा च - विशेष्यतया भासमानपदार्थनिष्ठाधिकरणता । ‘अस्ति’ इत्यत्र असधातोराधेयत्वमर्थः । आख्यातस्याश्रयत्वमर्थः । आश्रयताया अभावेऽन्वयः । अधिकरणताया असधात्वर्थाधेयतायां निरूपितत्वसम्बन्धेनान्वयः । तथा च विशेष्यतया भासमानपदार्थनिष्ठाधिकरणतानिरूपिताधेयताश्रयः इति खण्डवाक्यबोधः । एवञ्च - विशेष्यतया भासमानपदार्थनिष्ठाधिकरणता- निरूपिताधेयताश्रयः प्रकारतया भासमानधर्मनिष्ठप्रतियोगितानिरूपकः अभावः इति तदभावोऽस्मिन् अस्तीति विग्रहवाक्याद् बोधः ॥
‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले’ इत्यादिपूर्वोक्तनियमेन पूर्वं विशेष्यभूतोऽभाव इदानीं विशेषणं भवति । एवं पूर्वं विशेषणभूतो विशेष्यतया भासमानः पदार्थ इदानीं विशेष्यो भवति । तथा च तन्निष्ठप्रतियोगिता- निरूपकाभावनिष्ठाधेयतानिरूपिताधिकरणताश्रयो विशेष्यतया भासमानः पदार्थः इति तदभाववान् इति समस्तवाक्याद् बोधः । ‘तदभाववति’ इत्यत्र सप्तम्या विशेष्यत्वमर्थः । प्रकृत्यर्थस्य - तदभाववतः सप्तम्यर्थविशेष्यतायामाधेयतासम्बन्धेनान्वयः । विशेष्यतायाः निरूपकत्व- सम्बन्धेनानुभवेऽन्वयः । तथा च ’ तदभाववति’ इत्यस्य तन्निष्ठ- प्रतियोगितानिरूपकाभावनिष्ठाधेयतानिरूपिताधिकरणतावन्निष्ठ- विशेष्यतानिरूपकः’ इति बोधः ॥
[[133]]
आलोक व्याख्या
‘तत्प्रकारकः’ इत्यत्र स प्रकारो यस्मिन् स इति तत्प्रकारकः । ‘यस्मिन्’ इत्यत्र यच्छब्दस्यानुभवोऽर्थः । सप्तम्याः प्रकारित्वमर्थः । तत्र च प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । तथा च - अनुभवनिष्ठप्रकारिता । ‘प्रकार’ इत्यस्य प्रकारतावान् अर्थः । सप्तम्यर्थप्रकारितायाः प्रकारतावान् इत्यस्यैकदेशे प्रकारतायां निरूपितत्वसम्बन्धेनान्वयः । ‘तत्’ शब्दस्य प्रकारीभूतो धर्मोऽर्थः । तथा च ’ अनुभवनिष्ठ-प्रकारितानिरूपितप्रकारतावदभिन्नः सः = प्रकारीभूतो धर्म इति विग्रहवाक्यबोधः ॥
[[1]]
‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले’ इति पूर्वोक्तनियमेन विशेषणविशेष्यभावव्यत्यासे कृते तन्निष्ठप्रकारतानिरूपितप्रकारिता- श्रयाभिन्नोऽनुभव इति समस्तवाक्याद् बोधः । आहत्य सम्पूर्णवाक्यस्या- खण्डबोधस्तु - ‘तन्निष्ठप्रतियोगितानिरूपकाभावनिष्ठाधेयतानिरूपिता- धिकरणतावन्निष्ठविशेष्यतानिरूपकाभिन्नः तन्निष्ठप्रकारतानिरूपित- प्रकारिताश्रयाभिन्नोऽनुभवः’ इति । लक्षणं तु - ‘तदभाववन्निष्ठविशेष्यता- निरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्’ इति । प्रकारतानिरूपितप्रकारिताश्रयः, प्रकारतानिरूपक इति द्वयं समानम् । शुक्तौ ‘इदं रजतम्’ इति भ्रमे लक्षणसमन्वयः । अत्र तत्पदेन रजतत्वं ग्राह्यम् । तदभावः=रजतत्वाभावः । रजतत्वाभाववती = शुक्तिः । तन्निष्ठा विशेष्यता । तन्निरूपकत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमे वर्तते । एवं ‘तन्निष्ठप्रकारतानिरूपकत्वम्’ इत्यत्र तत्पदेन रजतत्वस्य ग्रहणात् तन्निष्ठा प्रकारता=रजतत्वनिष्ठप्रकारता । तन्निरूपकत्वमपि शुक्तौ ‘इदं रजतम्’ इत्याकारकभ्रमात्मकानुभवे वर्तते । एवं स्मृतिभिन्नत्वात् अनुभवत्वमपि वर्तत इति तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वं शुक्तौ ‘इदं रजतम्’ इत्याकारकेऽयथार्थानुभवे वर्तत इति
लक्षणसमन्वयः ॥
[[134]]
केवलं ‘अनुभवत्व’ मात्रोक्तौ रजते ‘इदं रजतम्’ इत्याकारकयथा- र्थानुभवेऽतिव्याप्तिः । तस्याप्यनुभवत्वात् (स्मृतिभिन्नत्वात्) । अतः ‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वं’ इति विशेषणम् । तथा च नातिव्याप्तिः । तथाहि - रजते ‘इदं रजतम्’ इत्याकारकयथार्थानुभवे यद्यपि अनुभवत्वं वर्तते । तथाऽपि तत्र तदभाववन्निष्ठविशेष्यतानिरूपकत्वं नास्ति । प्रकृते चात्र तत् पदेन रजतत्वं ग्राह्यम् । तत् - रजतत्वम् । तद्वत्- रजतम् । तद्वन्निष्ठविशेष्यता रजतनिष्ठविशेष्यता । तादृशविशेष्यतानिरूपकत्वमेव वर्तते रजते ‘इदं रजतम्’ इत्याकारकज्ञाने, न तु तदभाववन्निष्ठ- विशेष्यतानिरूपकत्वमिति नातिव्याप्तिः ॥
‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति अनुभवत्वम्’ इत्येता- वन्मात्रोक्तौ ‘तन्निष्ठप्रकारतानिरूपकत्वम्’ इत्येतद्दलाभावे पुनः रजते ‘इदं रजतम्’ इत्याकारकयथार्थप्रमायामतिव्याप्तिर्दुष्परिहरा । तथाहि - अत्र तत् पदेन (तत्पदस्य सर्वनामत्वात् बुद्धिस्थपरामर्शे) शुक्तित्वस्य ग्रहणे तत्- शुक्तित्त्वम् । तदभावः शुक्तित्वाभावः । तदभाववत् = शुक्तित्वाभाववत् रजतम् । तन्निष्ठविशेष्यता शुक्तित्वाभाववद्रजतनिष्ठाविशेष्यता । तादृशविशेष्यतानिरूपकत्वे सति अनुभवत्वं रजते ‘इदं रजतम्’ इत्याकारकप्रमात्मकानुभवे वर्तत इति तत्रातिव्याप्तिः । अतः ‘तन्निष्ठप्रकारतानिरूपकत्वम्’ इत्युक्तम् । तथा च लक्षणम् तदभावव- न्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् इति । तथा च नातिव्याप्तिः । तथाहि यद्यपि रजते ‘इदं रजतम्’ इत्यत्र तत्पदेन शुक्तित्वग्रहणे तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति अनुभवत्वं वर्तते । तथाऽपि ‘एकत्रोच्चरितयोः सर्वनामशव्दयो- रेकार्थवोधकत्वम्’ इति नियमेन पूर्वं ‘तत्’ शब्देन शुक्तित्वस्य ग्रहणे
a 135
इदानीमपि शुक्तित्वमेव ग्राह्यम् । तथा च तत् - शुक्तित्वम् । तन्निष्ठप्रकारता- निरूपकत्वं रजते ‘इदं रजतम्’ इत्यत्र यथार्थज्ञाने नास्ति, किन्तु रजतत्वनिष्ठप्रकारतानिरूपकत्वमेवास्तीति तत्र नातिव्याप्तिः ॥
‘तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्’ इत्येतावन्मात्रोक्तौ ‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वम्’ इत्येतद्दलाभावे पुनः रजते ‘इदं रजतम्’ इत्यत्र यथार्थप्रमायामेवातिव्याप्तिर्दुष्परिहरा । तथाहि - ‘तत्’ पदेन रजतत्वस्य ग्रहणे तत् रजतत्वम् । तन्निष्ठप्रकारतानिरूपकत्वं रजते ‘इदं रजतम्’ इत्याकारिकायां यथार्थप्रमायां वर्तते । एवमनुभवत्वमपि वर्तत इति तत्राऽतिव्याप्तिः । अतः तदभाववन्निष्ठविशेष्यतानिरूपकत्वमुक्तम् । तथा च नातिव्याप्तिः । यद्यपि रजते ‘इदं रजतम्’ इत्याकारकयथार्थानुभवे रजतत्वनिष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम् वर्तते, तथाऽपि तत्र तदभाववन्निष्ठविशेष्यतानिरूपकत्वं नास्ति । ‘तत्’ पदेन रजतत्वस्य ग्रहणात्, तदभाववत् - रजतत्वाभाववत् रजतं न भवति । रजतत्वस्य रजते विद्यमानत्वात् । अतः तत्र तद्वन्निष्ठविशेष्यतानिरूपकत्वमेव वर्तते, न तु तदभाववन्निष्ठ- विशेष्यतानिरूपकत्वम् । तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति अनुभवत्वं तु शुक्तौ ’ इदं रजतम्’ इत्याकारकभ्रमात्मके स्मृतिभिन्नेऽयथार्थानुभव एव वर्तत इति तत्र नातिव्याप्तिः ॥
‘तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वम्’ अयथार्थानुभवस्य लक्षणम् इत्येतावन्मात्रोक्तौ ‘अनुभवत्व’ रूपपदस्या- निवेशेऽयथार्थस्मृतौ अतिव्याप्तिः । तथाहि शुक्तिं दृष्ट्वा ‘इदं रजतम्’ इत्यनुभवानन्तरं कदाचित् जायमाने तादृशस्मृतिरूपज्ञाने तदभाववन्निष्ठ- विशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वं वर्तत इति तत्रातिव्याप्तिः । अतः ‘अनुभवत्व’ रूपदलमपि उक्तम् । एवञ्च नातिव्याप्तिः यद्यपि
[[136]]
आलोक- व्याख्या
शुक्तौ ‘इदं रजतम्’ इत्याकारकायथार्थानुस्मृतौ तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वं वर्तते, किन्तु अनुभवत्वं नास्ति । स्मृतेरनुभवभिन्नत्वात् । अतो नातिव्याप्तिः ॥
निन्वेवं सत्यपि रङ्गरजते दृष्ट्वा ‘इमे रङ्गरजते’ इत्याकारकसमूहालम्बन-प्रमायामतिव्याप्तिर्दुर्वारा । अस्यां हि प्रमायां रङ्गम्, रजतं च विशेष्ये । रङ्गत्वम्, रजतत्वं च यथासङ्ख्यं विशेषणे । अत्र तत्पदेन रङ्गत्वस्य ग्रहणे, तदभावः= रङ्गत्वाभावः । तद्वत् रजतम् । तन्निष्ठविशेष्यता- निरूपकत्वं ज्ञाने वर्तते । एवं रङ्गत्वनिष्ठप्रकारतानिरूपकत्वं च वर्तते । अनुभवत्वं च वर्तत इत्यतिव्याप्तिः । एवं तत्पदेन रजतत्वस्वीकारेऽपि, तदभावः=रजतत्वाभावः । तद्वत् रङ्गम् । तन्निष्ठविशेष्यतानिरूपकत्वं ज्ञाने वर्तते । रजतत्वनिष्ठप्रकारतानिरूपकत्वं च वर्तते । अनुभवत्वं च वर्तत एवेत्यतिव्याप्तिरिति चेत्, न । प्रकारतानिरूपकत्वं विशेष्यतानिरूपकत्वं च साक्षात् ज्ञानेऽनिवेश्य, तदभाववन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठप्रकारता, तन्निरूपकत्वविवक्षणेनातिव्याप्तेः परिहारात् । तत्पदेन रङ्गत्वस्वीकारे, तदभाववत् रजतम् । तन्निष्ठविशेष्यतानिरूपिता प्रकारता रजतत्वनिष्ठैव भवति, नतु रङ्गत्वनिष्ठा भवति । रजते रजतत्वस्यैव विशेषणतया भानात् । एवं तत्पदेन रजतत्वस्वीकारे, तदभाववत् रङ्गम् । तत्र रङ्गे रङ्गत्वस्यैव विशेषणतया भानात् । रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपिता प्रकारता रङ्गत्वनिष्ठा भवति, न तु रजतत्वनिष्ठा । अतः ‘तदभाववन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता’ इत्यस्याभावात् तादृशप्रकारतानिरूपकत्वम् उक्तसमूहालम्बनप्रमायां नास्तीति नातिव्याप्तिः ॥
अस्मिन्नपि लक्षणे यथार्थानुभवलक्षण इव तदभाववन्निष्ठविशेष्यत्वा- वच्छिन्नतन्निष्ठप्रकारताशालित्वमेव विवक्षणीयम् इत्यादिविचारः समानः ॥137
एवमस्य भ्रमस्य तदभाववति तत्प्रकारकत्वादेव, भ्रमोऽयमन्यथा- ख्यातिरित्युच्यते । अनन्तरं ‘शुक्तिरेव रजततया मया गृहीता’ इत्युल्लेखात् अन्यथाख्यातिरेव स्वरसा । ‘इदम्’ इति पुरोवर्तिशुक्तिविषयकं ज्ञानं प्रत्यक्षम् । ‘रजतम्’ इति तु स्मृतिरूपमन्यत् ज्ञानमिति प्राचीनमीमांसकाः । एवं ज्ञानद्वयरूपं सदपीदं तथा न ज्ञायत इत्यस्या अख्यातिरिति नाम । परं तु उभयोर्भिन्नज्ञानत्वेन उभयोः परस्परं निरूप्यनिरूपकभावासम्भवात्, विशेषणविशेष्यभावोऽपि न स्यात् । दृश्यते च ‘इदं रजतम्’ इति ज्ञाने इदन्त्वावच्छिन्नविशेष्यतानिरूपिता रजतत्वनिष्ठा प्रकारता । अत इदमेकं विशिष्टं ज्ञानमित्यन्यथाख्यातिरेव साधीयसी ॥ *
टिप्पणी
- ननु कथमन्यथाख्यातिरेव साधीयसी ? शुक्तिं दृष्ट्वा रजतमिति ज्ञानं हि प्रत्यक्षम्। तथैव ‘रजतं पश्यामि’ इत्येवाभिलपन्ति सर्वेऽपि । प्रत्यक्षं चेन्द्रियसन्निकर्षजन्यम् सन्निकर्षश्च चक्षुस्संयुक्तसमवेतत्वरूपः। चक्षुस्संयुक्ते घटादौ समवेतं किल घटत्वादिकं चक्षुषा गृह्यत इति वस्तुस्थितिः । प्रकृते चक्षुस्संयोगः शुक्त्या सहैव वर्तते । तत्समवायस्तु शुक्तित्व एव स्यात्, न तु रजतत्वे । एवं सति कथं रजतत्वस्य भानम्। न च रजतत्वेन यदि सन्निकर्षः स्यात्तदा कथं स भ्रमो भवेत् ? अतोऽयं प्रश्नोऽसमञ्जस एवेति वाच्यम् । प्रश्नानभिज्ञो हि भवान् । पुरोवर्तिनि वस्तुनि विशेषणतया रजतत्वस्याभावेऽपि ‘रजतं पश्यामि’ इत्युल्लेखः कथं भवतीत्येव प्रश्नः । स उल्लेखः भ्रमरूप एवेति किलोच्यते । अतः को दोषः? यदि रजतत्वेन सन्निकर्षः स्यात् तर्हि कथं भ्रमो भवेदिति चेत्, पुनरभिप्रायानभिज्ञो भवान् । प्रत्यक्षकारणस्य इन्द्रियसन्निकर्षस्याभावेऽपि कथं प्रत्यक्षं भवेदित्येव प्रश्नः॥
अयि भोः ! मदाशयानभिज्ञस्त्वमेव देवानाम्प्रियः । यदि रजतत्वेन सन्निकर्षः स्यात्तर्हि कथं स भ्रमो भवेत् ? सन्निकर्षाभावेऽपि जायमानत्वादेव हि स भ्रम इत्युच्यते । सन्निकर्षो यदि वक्तव्यः, तर्हि तत्र वस्तुना भवितव्यम् । वस्त्वेव तत्र स्याच्चेत्, स
[[138]]
टिप्पणी
भ्रमः कथं भवेत्, अत एव तत्रासतो भानात्, असत्ख्यातिरेवेयमित्यपि हि केचिद्वदन्ति इति चेत्, असतः कथं ख्यातिरित्येव हि प्रश्नः । तथा सञ्ज्ञाकरणमात्रत्वात् कथं समस्यायाः परिहारः? इति चेत्, असुराणां प्रियस्त्वमेव मदाशयानभिज्ञः । ‘सन्निकर्षाभावेऽपि’ इत्युच्यते, ‘जायमानत्वेऽपि’ इत्यप्युच्यते । एवं वदता त्वया मेधाविना स्ववचनविरोधोऽपि नाज्ञायि । भ्रमोऽपि कार्यविशेष एव । कार्यं चेत् कारणं किञ्चित्स्यादेव । कारणाभावेऽपि कार्यं कथं स्यात् ? सैव खलु समस्या प्रकृतेति चेत् सत्यम् । समस्यैव कथं परिहर्तव्या? सावधानं श्रूयताम् । एवं पण्डितानां परस्पराशयापरिज्ञानादेव दर्शनप्रभेदा अप्यजायन्तेत्येव वस्तुस्थितिः । अतिस्थूले बाह्ये लौकिक एव विषये समस्यापरिहारमजानताम् अत्यन्तमान्तरे – ‘यस्यामतं तस्य मतम्, अविज्ञातं विजानताम् विज्ञातमविजानताम्’ इति वर्ण्यमानमतिगहनमान्तरमात्मतत्त्वं कियद्वा विवादविषयो भवेदित्यालोच्यताम् ॥
प्रकृते चानुभवमेव परिशीलयामः । रज्जुसर्पभ्रमो वा शुक्तिरजतभ्रमो वा कथं भवतीति विचिन्त्यताम् । पुरतो वर्तमानां रज्जुं, शुक्तिं वा प्रथमं पश्यति जनः । ततस्तत्रालोक्क्षयवशाद्वा यतः कुतश्चित्कारणतः तत्रत्योऽसाधारणधर्मः रज्जुत्वरूपः, शुक्तित्वरूपो वा न ग्रहीतुं शक्योऽभूत् । तदैव दीर्घत्वभास्वरशुकुरूपादिसाधारणधर्मज्ञानात्, पूर्वं कदाचिद् दृष्टं सर्प, रजतं वा स्मरतः पुरुषस्य एतदपि तदिति भ्रमो भवति । न ह्यज्ञातपूर्वसर्पस्य तादृशरजतस्य वा तादृशभ्रमसम्भवः । अतो विशेषणांशस्य सर्पत्वस्य, रजतत्वस्य वोपस्थापकसामग्री न सन्निकर्षरूपा, किन्तु स्मृतिरेव । चक्षुस्संयुक्तसमवायस्तु पुरोवर्तिवस्तुगते दैर्घ्यादिरूपे, भास्वरशुकादिरूपे वा साधारणधर्मे विश्राम्यति । तदतिरिक्तं सर्प, रजतं वा स्मर्तुं तदानीं कथं शक्यम् ? ननु यदि विशेषणांशः स्मृतिरूप एव चेत् ‘सर्पं पश्यामि’’ रजतं पश्यामि’ इत्याकारकोऽनुभवः कथमिति चेत्, विशेष्येण साधारणधर्मेण च साकं चक्षुस्सन्न्निकर्षस्य सत्त्वात् तथानुभवो भवति । यथा च प्रत्यभिज्ञायामंशतः पूर्वानुभवपूर्वकत्वेऽपि न स्मृतित्वम्, किन्तु प्रत्यक्षत्वमेव । यथा वा ‘सुरभि चन्दनम्’ इत्यादौ युगपदिन्द्रियद्वयव्यापारासम्भवात्, विशेष्यांशस्य चाक्षुषत्वेन तत्प्रभाववशाद्विशिष्टं ज्ञानं प्रत्यक्षमेव, तथैवात्रापि । अत एवात्र भ्रमस्थले ‘स्मृतिप्रमोषवादः’ इत्यख्यातिवादिनः ।
[[139]]
टिप्पणी
स्मृतिप्रमोषो नाम स्मृतित्वाग्रहणम्। अनुभवस्याभावरूपत्वासम्भवात्, न केवलं स्मृतित्वा- ग्रहणम्, किन्तु प्रत्यक्षत्वग्रहणमपीत्यन्यथाख्यातिवादिनः । अत एव ‘स्वारस्य- मन्यथाख्यातौ’ इत्यभियुक्ताः ॥
‘सुरभि चन्दनम्’ इत्यादौ तु सौरभं घ्राणेन्द्रियं गृह्णाति; चन्दनं चक्षुरिन्द्रियं गृह्णाति । क्षणभेदस्यातिसूक्ष्मत्वात् युगपद् ग्रहणमिति भाति । विशेषणविशेष्ययोरेके- न्द्रियग्राह्यत्वे न कश्चन केशः । भ्रमस्थले तु अविद्यमानेन कथं चक्षुस्सन्निकर्षः ? तदभावे च कथं ‘रजतं पश्यामि’ इत्युल्लेखः ? इति समस्या । वस्तुतः भास्वरशुकुरूपस्यैव रजतत्वबुद्धिप्रयोजकत्वेन, तस्य च तत्र सत्त्वेन, चक्षुस्संयुक्तसमवायरूपसन्निकर्षस्य सत्त्वे, तथा व्यवहारात् । तस्मात् सुसूक्ष्ममीक्षणेऽन्यथाख्यातिरेव स्वरसा ॥
अत्रेदं चिन्तनीयम् - विशेषणविशेष्योरेकेन्द्रियग्राह्यस्थले प्रमायां भ्रमे वा न कश्चन केशः। भिन्नेन्द्रियग्राह्यत्वे ‘सुरभि चन्दनम्’ इत्यादौ तु सौरभ्यस्य घ्राणेन्द्रियग्राह्यत्वात्, चन्दनस्य च चक्षुरिन्द्रियग्राह्यत्वात्, युगपदिन्द्रियद्वयप्रवृत्तेरसम्भवात्, ज्ञानलक्षणप्रत्यासत्त्यैव विशेषणभानमुपपादनीयम् । एवं सति ‘सोऽयम्’ इत्यादिप्रत्यभिज्ञायामपि, अतीतस्य तत्तांशस्य ज्ञानलक्षणविधयैव भानसम्भवात्, एतदेवात्यन्तं साधीयः । विरुद्धकालद्वयसम्बन्ध एकस्य कथमिति तु; कालस्याखण्डत्वेनैक्यात्, अतीतादिभेदस्योपाधिकत्वेन वस्तुस्थिरत्ववादिनां तावान् कालः घटादेरेक एव काल इति न विरोधगन्धोऽपि ‘अशोकचक्रवर्तिकाले’ इत्यादिव्यवहारे, यावान् कालः अशोकेन राज्यं शासितं तावान् काल एव बोध्यत इत्यवश्याभ्युपगन्तव्यत्वेन, न विरोधः । ‘सः’ इति भूततया निर्देशः, ‘अयम्’ इति वर्तमाननिर्देशश्चेतरवस्तूपाधिकतयाऽपि सङ्गच्छते । तत्तद्भटादिदृष्ट्या तु तावान् कालोऽखण्ड एक एवेति वस्तूनां स्थिरत्वसिद्धिः । प्रत्यभिज्ञायाः संस्कारसहकृतेन्द्रियजन्यत्वाङ्गीकारे, तस्या ग्रहणस्मरणात्मकत्वमेव वक्तव्यं भवेत् । तथा सति स्मरणस्य तद्धेतुभूतानुभवमुखनिरीक्षणेनैव प्रामाण्यस्योपपादनीयतया स्वतः प्रमाणत्वासम्भवेन कालद्वयसम्बन्धसिद्ध्या क्षणिकत्वसिद्धिदुराशाया अवकाशो भवेत् । अस्तु सत्यस्य तथात्वे कः प्रद्वेषः क्षणिकत्ववादिषु । तेन गृहधनकनकादिषु स्थिरत्वबुद्ध्या
[[140]]
यथार्थानुभवश्चतुर्विधः । प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।
आलोक- व्याख्या
यथार्थानुभवं विभजते - यथार्थेत्यादि । तत्करणम् यथार्थानु- भवकरणम्। करणवर्गे पठितस्य प्रत्यक्षपदस्य इन्द्रियमर्थः । कार्यवर्गे पठितस्य प्रत्यक्षस्य प्रत्यक्षज्ञानमर्थः । प्रत्यक्षात्मकानुभवे करणम् इन्द्रियम्, अनुमितौ
टिप्पणी
तेष्वभिमानस्य दुर्जयत्वमपि वारयितुं शक्यते । अन्ततः दीपज्वालायाम्, शरीरे च क्षणिकत्ववादस्यावर्जनीयत्वेन, तत्खण्डनं कथं कर्तुं शक्यमिति चेत्, सत्यम् - शरीरादिषु अभिमानादिनिवृत्त्यर्थं क्षणिकत्वोपदेशो वैदिकानामपीष्टः । ‘जन्ममृत्युजराव्याधि- दुःखदोषानुदर्शनम्’ (भ.गी. १३-८) इत्याद्युपदेशा विलसन्त्येव शतशः । परन्तु क्षणिकत्वस्य वस्तुतः दुर्निरूपत्वात्तैः प्रसाध्यमानं क्षणिकत्वमप्रामाणिकम्। अतो वैराग्योपदेशोऽपि यथा प्रामाणिको भवेत् तथा कर्तव्यः। केनापि कारणेनापि असत्यवादो न हितावह इति वस्तुस्थितिकथनमावश्यकम् । तत्रापि तत्त्वनिर्णयार्थमेव प्रवृत्ते शास्त्रेऽतिवादास्त्याज्या एव। लोके क्षणिकपदवत्, स्थिरपदस्यापि विषयो वक्तव्यः । एतद्दृष्ट्यैव वैदिकैः क्षणिकत्ववादो निरस्यत इति ज्ञेयम् ॥
एवञ्च प्रकृते ‘सोऽयम्’ इत्यादिप्रत्यभिज्ञायाः स्मृतिप्रत्यक्षसाङ्कर्यरूपतायां, तस्या अप्रामाण्यनिराकरणमावश्यकमिति तन्निराक्रियते । तत्र तत्तांशस्य कथं भानमिति प्रश्ने, साक्षात् संस्कारात्तद्भानापेक्षया संस्कारमूलकस्मृत्या तद्भानं स्वरसम् । न च तथाभानस्यालौकिकसन्निकर्षमूलत्वापेक्षया, लौकिकोपायैरेव तत्समर्थनं युक्ततरमिति भावनीयम्,कार्यकारणभावनिश्चयस्य त्रैकालिकवस्तुप्रतीतिमूलकत्वं ह्यावश्यकम्। वह्नेर्धूमं प्रति कारणत्वं हि न वर्तमानकालमात्रविषयकम्। अतः सामान्यलक्षणप्रत्यासत्तिरा- वश्यकी । एवं ‘सुरभि चन्दनम्’ इत्यादौ ज्ञानलक्षणाप्यावश्यकी । योगजधर्मस्तु जगत्प्रसिद्धः। अतोऽलौकिकसन्निकर्षोऽनिवार्यः । प्रसिद्धषड्विधसन्निकर्षविलक्षणमिति दृष्ट्यैवालौकिकपदप्रयोगः। प्रकृते ज्ञानलक्षणसन्निकर्षेणैव प्रत्यभिज्ञायां विशेषणभान- सम्भवान्न कश्चन केश इत्येव युक्ततरम् ॥
SP141
तत्करणमपि चतुर्विधम् - प्रत्यक्षानुमानोपमानशब्दभेदात् ।
असाधारणकारणं करणम् ।
करणम् अनुमानम्, उपमितौ करणम् उपमानम्, शाब्दबोधे करणं शब्द इति यथासङ्ख्यमन्वयः ।
करणस्य लक्षणमाह असाधारणेत्यादि । न साधारणम् असाधारणम् । असाधारणं च तत् कारणम् असाधारणकारणमिति प्राचीनप्रक्रियानुरोधेन । कालेश्वरादीनि साधारणकारणानि । तानि हि मध्ये व्यापारमन्तरा साक्षात्कारणानि । एवञ्चासाधारणकारणं नाम व्यापारद्वारा कारणमिति प्राचीनाशयः । न चैवं तर्हि चक्रभ्रमणमपि साधारणकारणं स्यात्, तेषां व्यापारान्तराभावादिति वाच्यम्; दण्डादीनां कारणत्वनिर्वाहार्थं किल मध्ये चक्रभ्रमणकल्पनम् । अतस्तस्य तेनैव सिद्धमसाधारणत्वम् । नैवं कालादाविति ॥
साधारणं च तत् कारणं साधारणकारणम् । न साधारणकारणं असाधारणकारणमिति नवीनमतानुरोधेन । प्राचीनप्रक्रियानुसारेण बोधः
असाधारणत्वं नाम व्यापारवत्त्वम् । व्यापारवत्कारणं करणमित्यर्थः । कारणं नाम कारणतावत् । व्यापारोऽस्मिन्नस्तीति व्यापारवत् । अस्येत्यत्र इदंशब्दस्य कारणमर्थः । सप्तम्या अधिकरणत्मर्थः । प्रकृत्यर्थस्याधेयता- सम्बन्धेनान्वयः । अस्धातोराधेयत्वमर्थः । आख्यातस्याश्रयत्वमर्थः । सप्तम्यर्थाधिकरणताया निरूपितत्वसम्बन्धेनाधेयतायामन्वयः । तथा च कारणनिष्ठाधिकरणतानिरूपिताधेयताश्रयो व्यापार इति विग्रह- वाक्यबोधः । व्यापारनिष्ठाधेयतानिरूपिताधिकरणतावत् कारणम् इति समासवाक्यबोधः । तथा च व्यापारविशिष्टमिति व्यापारवत्पदस्यार्थः । वैशिष्ट्यं च जनकत्वरूपम् । आधाराधेयभावोऽपि जनकतासम्बन्धेन । व्यापारजनकं कारणं करणमित्यर्थः ॥
IN 142
आलोक- व्याख्या
तज्जन्यत्वे सति तज्जन्यजनको व्यापारः । यथा दण्डश्चक्रभ्रमण- द्वारा घटं जनयति । अतो द्वारभूतं चक्रभ्रमणं व्यापार इत्युच्यते । दण्डजन्यत्वमात्रोक्तौ फले घटेऽतिव्याप्तिः । अतस्तज्जन्यजनकत्वम् । दण्डजन्यघटजनकत्वस्य घटेऽभावान्नातिव्याप्तिः । तज्जन्यजनकत्वमात्रोक्तौ करण एवातिव्याप्तिः । दण्डजन्यघटजनकत्वस्य दण्ड एव सत्त्वात् दण्डो व्यापारो भवेत् । अतस्तज्जन्यत्वम् । दण्डस्य दण्डजन्यत्वाभावान्नातिव्याप्तिः॥
व्यापारवत्त्वे सति कारणत्वं करणस्य लक्षणम् । अस्य लक्षणस्य दण्डरूपकरणे समन्वयः । तथा हि चक्रभ्रमणरूपव्यापार- निरूपितहेतुत्वं दण्डे वर्तत इति व्यापारवत्त्वं तत्र वर्तते । एवं घटं प्रति कारणत्वमपि वर्तत इति लक्षणसमन्वयः । केवलं ‘कारणत्व’ मात्रोक्तौ साधारणकारणे कालादावतिव्याप्तिः । अतः ‘व्यापारवत्त्वम्’ इत्युक्तम् । कालेश्वरादीनां कार्यसामान्यं प्रति साक्षात्कारणत्वम्, न तु सद्वारककारणत्वम्, तेन च तानि व्यापारवत्कारणानि न भवितुमर्हन्तीति नातिव्याप्तिः । केवलं ‘व्यापारवत्त्वम्’ इत्येतावन्मात्रोक्तौ फले (घटरूपफले) करणलक्षणस्यातिव्याप्तिः । घटरूपकार्येऽपि व्यापारजन्यत्वरूपस्य सम्बन्धस्य विद्यमानत्वात् व्यापारवत्त्वं फले (घटरूपकार्येऽपि) वर्तते इत्यतः ‘कारणत्वम्’ इति दलम् दत्तम् । तथा च नातिव्याप्तिः । घटरूपफलं न कारणं, किन्तु कार्यम् । अतो न कापि हानिः । एतत् प्राचीनप्रक्रियानुसारेण बोध्यम् ॥
नवीनप्रक्रियानुसारेण तु –साधारणकारणत्वं नाम कार्यत्वाव- च्छिन्नकार्यतानिरूपितकारणताश्रयत्वम् । असाधारणत्वं नाम कार्यत्व- व्याप्यधर्मावच्छिन्नकार्यता-निरूपितकारणताश्रयत्वम् । आश्रयत्वस्य चाभेदसम्बन्धेन करणे अन्वयः । तथा च कार्यत्वव्याप्य- धर्मावच्छिन्नकार्यतानिरूपितकारणताश्रयाभिन्नं करणम् इति शाब्दबोधः ।
[[143]]
आलोक- व्याख्या
लक्षणं तु - कार्यत्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम् । अस्य लक्षणस्य दण्डादौ समन्वयः । तथाहि - कार्यत्वव्याप्यधर्मावच्छिन्ना कार्यता केति चेत् ? घटत्वावच्छिन्ना कार्यता । तादृशकार्यतानिरूपितकारणत्वं दण्डरूपकरणे वर्तत इति समन्वयः ॥
ननु केवलं कार्यत्वावच्छिन्नकार्यतानिरूपितकारणत्वम् इति साधारण- कारणत्वमुच्यते चेत्, कालेश्वरादावतिव्याप्तिर्भवेत्, तेषामपि कार्यसामान्यं प्रति कारणत्वात् । तथाहि - कार्यत्वावच्छिन्ना कार्यता इति चेत् ? घटपटकुड्यादिनिष्ठकार्यता । सा कार्यता सर्वसाधारणी कार्यता । तन्निरूपितकारणत्वं तु कालादवपि वर्तत इत्यतिव्याप्तिरिति चेत्, न । अत्र घटनिष्ठकार्यता न कार्यत्वावच्छिन्ना किन्तु कार्यत्वव्याप्यघटत्वादिधर्मावच्छिन्ना। तथा च नातिव्याप्तिः । तथाहि घटे कार्यताद्वयं वर्तते । एका कार्यत्वावच्छिन्ना सर्वसाधारणी कार्यनिष्ठकार्यता । अन्या तु कार्यत्वव्याप्यघटत्वधर्मावच्छिन्ना विशेषकार्यता । अस्मिन् लक्षणे कार्यत्वव्याप्यघटत्वधर्मावच्छिन्नकार्यताया विवक्षितत्वात् कार्यत्वव्याप्यघटत्वादिधर्मावच्छिन्नकार्यता केति चेत् ? घटत्वावच्छिन्नघटनिष्ठा कार्यता । तादृशकार्यतानिरूपितकारणत्वं दण्डे एव वर्तते न तु कालादौ । कुत इति चेत् ? नवीनानां मते घटत्वावच्छिन्नघटकार्यं प्रति कालादीनां कारणत्वानङ्गीकारात्, कार्यत्वावच्छिन्नघटनिष्ठकार्यं प्रत्येव कालेश्वरादृष्टादीनां कारणत्वात् इति तत्र लक्षणासमन्वयान्नातिव्याप्तिरिति । ।
अर्वाचीनास्तु-फलाव्यवहितप्राक्क्षणावच्छिन्नं कारणं करणमित्याहुः । एतद्दृष्ट्या करणकारणपदार्थो विपरीतौ भवतः । ‘लिङ्ग- परामर्शोऽनुमानम्’ इत्येतदेतन्मतानुसारेण । इदं तु पाणिनिसूत्रादिविरुद्धम् । किन्तु व्यापारवत्कारणं करणमित्येव समीचीनम् ॥
कुर
कार्यनियतपूर्ववृत्ति कारणम् ।
[[144]]
व्यापकत्वम् । व्यापकत्वं नाम
कारणलक्षणमाह- कार्येत्यादि । नियतं च तत् पूर्ववृत्ति च नियतपूर्ववृत्ति । कार्यस्य नियतपूर्ववृत्ति कार्यनियतपूर्ववृत्तीति विग्रहः । कार्यस्य नियतं कार्यस्य पूर्ववृत्ति चेत्यर्थः । ‘कार्यस्य’ इत्यत्र षष्ठ्या निरूपितत्वमर्थः । नियतत्वं नाम
तदधिकरणवृत्त्य- त्यन्ताभावाप्रतियोगित्वम् । षष्ठ्यर्थनिरूपितत्वस्याश्रयतासम्बन्धेन अधिकरणतावदेकदेशेऽधिकरणतायामन्वयः । तथा च कार्यनिरूपिताधिकरणता- वद्वृत्त्यत्यन्ताभावाप्रतियोगित्वाश्रयः । आश्रयत्वस्याभेदसम्बन्धेन कारणेऽन्वयः । तथा च कार्यनिरूपिताधिकरणतावद्वृत्त्यत्यन्ताभावाप्रतियोगित्वाश्रयाभिन्नं कारणम् । एवं कार्यस्य पूर्ववृत्ति इत्यत्र षष्ठ्या निरूपितत्वमर्थः । पूर्ववृत्तित्वस्याश्रयतासम्बन्धेन कारणेऽन्वयः । तथा च
कार्यनिरूपित-
पूर्ववृत्तित्वाश्रयाभिन्नं कारणम् । तथा च आहत्य बोधः - ‘कार्यनिरूपितत्वाश्रया- धिकरणतावद्वृत्त्य (कार्याधिकरणवृत्त्य) त्यन्ताभावाप्रतियोग्यभिन्नं कार्यनिरूपितपूर्ववृत्त्यभिन्नं कारणम् इति । लक्षणं तु - कार्याधिकरण- वृत्त्यत्यन्ताभावाप्रतियोगित्वे सति कार्यपूर्ववृत्तित्वं कारणत्वम् । ‘घट प्रति दण्डः कारणम्’ इत्यत्र दण्डरूपकारणे समन्वयः । कार्याधिकरणम् (घटाधिकरणम्) घटोत्पत्तिदेशः । तद्वृत्तिर्योऽत्यन्ताभाव इति चेत् ? न हि दण्डाभावो भवितुमर्हति । किन्तु - पटाद्यभावः । तत्प्रतियोगि पटादिवस्तु । अप्रतियोगी दण्ड इति दण्डे घटाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वं वर्तते, एवं घटपूर्ववृत्तित्वमपि वर्तते । ‘कार्यपूर्ववृत्तित्वम्’ कारणत्वम् इत्येतावन्मात्रोक्तौ रासभादावतिव्याप्तिः । तस्याऽपि घटपूर्ववृत्तित्वमाकस्मिकतया वर्तते । अतः ‘कार्यनियतत्वम्’ इति विशेषणम् । यद्यपि रासभादौ कार्यपूर्ववृत्तित्वमस्ति, परन्तु कार्यनियतत्वं नास्ति । कुत इति चेत् ? अन्यत्र कुत्रचित् रासभाभावेऽपि
[[12]]
[[145]]
घटोत्पत्तेर्दर्शनात् तदधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वमेव भवति रासभादौ, अप्रतियोगित्वं न भवतीति तत्र नातिव्याप्तिः । केवलं कार्यनियतत्वमात्रोक्तौ घटे (कार्ये) अतिव्याप्तिः । कार्याधिकरणवृत्त्यत्यन्ताभाव इति चेत्, कार्याधिकरणे न हि घटात्यन्ताभावो भवितुमर्हति । घटाधिकरणे घटाभावः कथं स्यात् ? अतः पटाद्यभावः स्वीकार्यः । तत्प्रतियोगी पटः । अप्रतियोगी घटो भवत्येवेति घटरूपकार्य एव कारणलक्षणस्यातिव्याप्तिः । अतः कार्यपूर्ववृत्तित्वविशेषणम् । स्वस्य स्वपूर्ववृत्तित्वस्य विरुद्धत्वात् घटपूर्ववृत्तित्वं घटे नास्तीति नातिव्याप्तिः ॥*
टिप्पणी
अन्यथासिद्धिः – कार्यनियतपूर्ववृत्ति कारणमिति कारणलक्षणमुक्तम् । कार्यनियतत्वं च कार्यकारणयोरन्वयव्यतिरेकसहचारदर्शनादवसीयते । यत्सत्त्वे यत्सत्त्वम् – अन्वयसहचारः । यदभावे यदभाव इति व्यतिरेकसहचारः । यथा दण्डसत्त्वे घटसत्त्वम्, दण्डाभावे घटाभाव इति । परन्तु दण्डे सति तेन साकमेव दण्डगतरूप - दण्डत्वयोरपि सत्त्वेन अन्वयव्यतिरेकसहचारदर्शनस्य तयोरपि समानत्वात् घटकारणत्वापत्तिरित्याक्षेप इष्टाप- त्तिरिति न कोऽपि वदति । तत् कुतः ? इति विमर्शनीयम् ॥ एवं सति दण्डरूपसत्त्वे घटसत्त्वम्, दण्डरूपाभावे घटाभाव इति वा दण्डत्वसत्त्वे घटसत्त्वम्, दण्डत्वाभावे घटाभाव इति वा नियमं न कोऽपि हि वक्ति । तत् कुत इति
प्रष्टव्यम् । कारणेन सहाविनाभूतानां बहूनां पदार्थानामन्वयव्यतिरेकयोस्समानत्वेऽपि, कारणत्वं को वा जानाति अनुभवे वर्तमानो जनः ? अनुभवदूराणां केवलवाचाटानामेवेयमाशङ्का । स्तनन्धयोऽपि बुभुक्षाशमनं मात्रधीनं जानाति, तामुपसर्पति च । कार्यकारणभावमयो हि लोकस्सर्वं स्वयं ज्ञात्वा सदा प्रयतमानो दृश्यत एवेत्यन्यथासिद्धिशङ्का पुस्तक- पण्डितानामेव ॥ किञ्चान्ते अवश्यक प्तनियतपूर्ववृत्तिभिरेव कार्यसम्भवे तद्भिन्नं सर्वमन्यथासिद्धम् इत्येव पर्यवसानस्य प्रदर्शनेन तस्मिन् कारणत्वनिर्णायकस्य नियतपूर्ववृत्तित्वस्यैव प्रवेशनेऽन्योन्याश्रयादिश्च । अतः क्षोदक्षमविचारेण ज्ञायते— शब्दवर्धनपराणामनुभवरहितानामेवायमाडम्बरः ॥
कार्यं प्रागभावप्रतियोगि ।
क
[[146]]
आलोक- व्याख्या
व्यापारवत्कारणं करणमिति प्राचीनाः । असाधारणं कारणं करणमिति नव्याः । फलाव्यवहितप्राक्क्षणावच्छिन्नं कारणं करणमित्यत्यर्वाचीनाः । परन्तु ‘साधकतमं करणम्’ इति भगवान् पाणिनिः । अतिशयेन साधकं साधकतममिति सम्प्रतिपन्नम् । अतिशयः कः ? अस्योत्तरदानेऽत्यन्तं किश्यन्ति मेधाविनोऽपि । सप्तविधकारकेषु अन्यतमं तु करणकारकम् । तच्च तृतीयान्तपदवाच्यम् । ‘असिना छिनत्ति’ ‘चक्षुषा पश्यति’ ‘पद्भ्यां गच्छति’ इत्यादिव्यापाराविष्टं कारकं करणमिति प्राचीनमतमेव साधीयः । कारकाणां मध्ये तृतीयाप्रकृत्यर्थभूतमेव अस्यादिकमुद्यमनादिरूपकर्तृक्रिययाऽऽविष्टं भवतीति तदेव करणम्, नान्यत्काष्ठादिकम् । काष्ठादिकं तु कर्तृक्रियाजन्यफलशालित्वात् कर्म भवति । चैत्रः असिना काष्ठानि छिनत्ति इति खलु प्रयोगः । अतः त्रिविधकारणेषु यत् क्रियाविष्टम्, तदेव करणम् । अधिकमन्यत्र ॥
कार्यस्य लक्षणमाह
कार्यमित्यादि । प्रागभावस्य प्रतियोगि प्रागभाव- प्रतियोगि । ‘प्रागभावस्य’ इत्यत्र प्रकृतेः प्रागभावोऽर्थः । षष्ठ्या निरूपितत्वमर्थः । ’ प्रतियोगि’ इत्यस्य प्रतियोगितावत् अर्थः । षष्ठ्यर्थ- निरूपितत्वस्याश्रयतासम्बन्धेन प्रतियोगितावदेकदेशे प्रतियोगितायामन्वयः । तथा च प्रागभावनिरूपितत्वाश्रयप्रतियोगितावत्(प्रतियोगिताश्रयः) इत्यासीत् । आश्रयस्य चाभेदसम्बन्धेन कार्येऽन्वयः । तथा च प्रागभावनिरूपित- प्रतियोगितावदभिन्नं कार्यम् इति बोधः । लक्षणं तु - प्रागभावप्रतियोगि- त्वम् । लक्षणस्यास्य घटरूपकार्ये समन्वयः । यस्मिन् कार्ये समन्वयः कर्तव्यः, तस्य प्रागभावो ग्राह्यः । प्रकृते घटरूपकार्ये समन्वयस्य कर्तव्यत्वात् घटप्रागभावः स्वीकर्तव्यः । प्रागभावः घटप्रागभावः । तन्निरूपितप्रतियोगित्वं घटे वर्तत इति लक्षणसमन्वयः । केवलं ‘अभावप्रतियोगित्वम्’ इत्येतावन्मात्रोक्तौ8147
आलोक- व्याख्या
‘आलोक’ व्याख्यासहित.
नित्येऽप्याकाशे अतिव्याप्तिर्दुष्परिहरा । तथाहि प्रकृते ‘अभावः’ इत्यनेन अन्योऽन्याभावस्वीकारे ‘घटः आकाशो न’ इत्याकारकान्योऽन्याभावप्रतीतेः प्रामाणिकत्वात्, तत्प्रतियोगित्वमाकाशे भवति । किन्तु आकाशस्तु नित्यः । तस्य कार्यत्वापत्तिः । अतस्तत्राऽतिव्याप्तिः । अतः प्रागभावेत्युक्तम् । तेन चान्योन्याभावस्य स्वीकर्तुमशक्यत्वात् नातिव्याप्तिः । आकाशस्य नित्यत्वात्, तस्य प्रागभावाभावात् नातिव्याप्तिः ॥
कारणलक्षणस्य प्रदर्शितत्वात् कारणतानिरूपकं कार्यमिति वस्तु- स्थितिः । पूर्वमसत् कारकव्यापारैर्निष्पाद्यते इति सिद्धान्तात् । असत्कार्यवादिनो ह्येते । तद्दृष्ट्या प्रागभावप्रतियोगित्वं लक्षणमुक्तम् । नन्वसतः शशशृङ्गादेः उत्पत्त्यभावात्, कथं कार्यम- सदित्युच्यत इति चेत्, सतो वात्मादेरुत्पत्त्यभावात् सत्कार्यवादो वा कथम् ? वस्तुतस्तु - शशशृङ्गमिति न कश्चन पदार्थः । अतः सर्वथासतः शशशृङ्गादेरपि नोत्पत्तिः । सदा सत आत्मादेरपि उत्पत्ति- र्नास्ति । किन्तु, कदाचिदसतः कदाचित्सत्त्वमेव ज्ञापयति असत्कार्यवादस्य प्रामाणिकताम् । वस्तुतस्त्वारम्भवादिन एते । ‘कटं कर्तुमारभते’ ‘घटं कर्तुमारभते’ ‘पटं कर्तुमारभते’ इत्येव व्यवहारात् ‘आरम्भवादः’ इत्येवास्य नाम । इयमेवैतच्छास्त्रमर्यादा ॥*
टिप्पणी
- कार्यकारणभावस्थलं चतुर्विधं दृश्यते
19pay
(१) असत्कार्यवादः अथवा आरम्भवादः नैयायिकानाम् । (२) सत्कार्यवादः अथवा परिणामवादः साङ्ख्यानाम् ।
श
SIFIRIE TRIFTS
(३) सङ्घातवादः बौद्धानां - वैभाषिकाणां सौत्रान्तिकानाञ्च ।
(४) विवर्तवादः कार्यमिध्यात्ववादः बौद्धानाम्, निर्विशेषाद्वैतवादिनां शाङ्कराणां, शब्दविवर्तवादिनां वैयाकरणानां च । बौद्धेष्वपि योगाचाराः विज्ञानविर्तवादिनः,
[[148]]
कारणं त्रिविधम् - समवाय्यसमवायिनिमित्तभेदात् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः ।
समवायिकारणं लक्षयति - यत्समवेतमित्यादि । पटादिकं स्वावयवेषु तन्तुषु समवायसम्बन्धेनोत्पद्यते, अवयवावयविनोस्समवायात् । अतोऽत्र
टिप्पणी
माध्यमिकास्तु शून्यविवर्तवादिनः । कार्यकारणभाव एव नास्ति, अन्वयतो व्यतिरेकतश्च व्यभिचारात् इति सर्वापलापवादिनः, तदनुयायिनश्च । अतश्च असत्कार्यवादो द्विविधः पूर्वमसत्, अनन्तरं सदित्येकः । पूर्वमप्यसत्, अनन्तरमप्यसदिति द्वितीयः । आद्यो वैदिकानाम्, द्वितीयः सर्वापलापवादिनां बौद्धानाम् । वैदिकास्तु सर्वास्तित्ववादिनः । अत एव सत्कार्यवादिनः । न्यायशास्त्रस्य लोकाश्रयत्वात्, पुरुषप्रयत्नस्यास्ति लोके स्थानम् । जानाति, इच्छति, यतत इति खलु लौकिकक्रमः । अत एवैते आरम्भवादिनः । आरम्भः प्रयत्नः । कटं कर्तुमारभते, घटं कर्तुमारभते इति खलु व्यवहरन्ति लोके । एतावदेव क्षेत्रं न्यायशास्त्रस्य । बीजं वृक्षरूपेण परिणमते इति तत्र परिणामवाद एव । अलौकिकस्स विषय इति न तत् क्षेत्रं न्यायशास्त्रस्य । इतरवादास्तु तत्त्वमुक्ताकलापव्याख्यायां द्रष्टव्याः ॥ अन्वयव्यतिरेकव्यभिचारपरिहारादिकं मङ्गलवादोक्तन्यायेन ज्ञेयम् ॥
सारतस्तु मनुष्याणामशक्त्या दुर्निरूपत्वविचारोऽन्यः, वस्तुस्थिति- वादोऽन्यः । तावता कार्यकारणभाव एव नास्तीत्यादिकम् अहङ्कारादज्ञानाद्वा भवेत् । अन्यथा भोजनादावपि प्रवृत्तिर्न स्यात् । क्षुन्निवृत्तिसाधनत्वं ज्ञात्वा तु प्रतिदिनं भुङ्गे नरः । अत एवोक्तमभियुक्तैः कार्यकारणभावापलापे चार्वाका निराहारा प्रियेरन् इति त्रिकालसत्यम् ॥
विवर्तपरिणामवादयोः स्वरूपादिकं तत्त्वमुक्ताकलापव्याख्यायां सर्वङ्कषायां विस्तरेण प्रदर्शितम् । अधिकं सत्यसिद्धौ द्रष्टव्यम् ॥
[[149]]
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत्कारणम- समवायिकारणम् । यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटगत-
रूपस्य च ।
कार्यतावच्छेदकसम्बन्धः समवायः । तन्त्वादीनां कारणतावच्छेदकसम्बन्धस्तु तादात्म्यम् ।
कार्य-कारणयोर् एकाधिकरण-वृत्तित्वम् — सामानाधिकरण्यम् आवश्यकम् ।
अत एव व्यधिकरणयोः कार्यकारणभावः कुत्रापि न भवति । एवं पटगतरूपं प्रति पटः समवायिकारणम् । अत्र रूपं पटे समवायसम्बन्धेन जायते । पटश्च तादात्म्यसम्बन्धेन कारणम् । अतश्च समवायसंवन्धाव- च्छिन्नकार्यतानिरूपिततादात्म्यसंवन्धावच्छिन्नकारणत्वं समवायि-
कारणस्य लक्षणम् ॥
प्रथमदलमात्रोक्तौ वक्ष्यमाणेऽसमवायिकारणेऽतिव्याप्तिः । अतो द्वितीयदलम् । द्वितीयदलमात्रोक्तौ प्रत्यक्षज्ञानस्य निमित्तकारणभूते विषयेऽतिव्याप्तिः । विषयतासम्बन्धेन घटप्रत्यक्षं प्रति तादात्म्यसम्बन्धेन विषयीभूतघटस्य कारणत्वात् । अतः प्रथमदलम् ॥
असमवायिकारणं लक्षयति - कार्येणेत्यादि । कार्येण सहैक- स्मिन्नर्थे समवेतं सत् कारणमसवायिकारणमित्येकविधम् । कारणेन सहैकस्मिन्नर्थे समवेतं सत् कारणं द्वितीयमसमवायिकारणम् । आद्यं तन्तुसंयोगः पटस्य । द्वितीयं तन्तुरूपं पटरूपस्य । पटो हि तन्तुषु समवायसम्बन्धेन जायते । तन्तुसंयोगोऽपि तन्तुषु समवायसम्बन्धेन वर्तते, गुणगुणिनोस्समवायात् । तथा च समवायसंवन्धावच्छिन्नकार्यतानिरूपितसमवायसंवन्धाव- च्छिन्नकारणत्वं प्रथमासमवायिकारणस्य लक्षणम् । प्रथमदलमात्रोक्तौ समवायिकारणेऽतिव्याप्तिः स्पष्टा । एवं द्वितीयासमवायिकारणेऽप्यतिव्याप्तिः स्पष्टा । अतो द्वितीयदलम् । द्वितीयदलमात्रोक्तौ घटादिप्रत्यक्षनिमित्तकारणे
[[150]]
रूपादावतिव्याप्तिः । विषयतासम्बन्धेन घटप्रत्यक्षं प्रति समवायसम्बन्धेन रूपस्य कारणत्वात् । तदर्थं प्रथमदलम् ॥
जज्
कारणेन सहेत्यादि । द्वितीयासमवायिकारणम् । कारणेन स्वकार्य- समवायिकारणेनेत्यर्थः । यथा तन्तुरूपं पटरूपं प्रत्यसमवायिकारणम् । पटरूपं हि पटे समवायसम्बन्धेनोत्पद्यते । तन्तुरूपं च तत्र स्वसमवायि- समवेतत्वसम्बन्धेन वर्तते । स्वं तन्तुरूपम् । स्वसमवायिनस्तन्तवः, गुणगुणिनोस्समवायात् । तन्तुषु पटः समवायसम्बन्धेन वर्तते, अवयवावयविनोः समवायात् । अतश्च समवायसंवन्धावच्छिन्नकार्यतानिरूपित- स्वसमवायिसमवेतत्वसंवन्धावच्छिन्नकारणत्वं द्वितीयासमवायिकार- णत्वम् । प्रथमदलमात्रोक्तौ समवायिकारणेऽतिव्याप्तिः स्पष्टा । अतो द्वितीय- दलम् । द्वितीयदलमात्रोक्तौ विषयतासम्बन्धेन घटत्वादिप्रत्यक्षं प्रति निमित्त- कारणभूते रूपादावतिव्याप्तिः । स्वं रूपम् । स्वसमवायि घटः । तत्समवेतं घटत्वम् । अतो रूपं स्वसमवायिसमवेतत्त्वसम्बन्धेन घटत्वप्रत्यक्षं प्रति कारणमित्यतिव्याप्तिः । अतः प्रथमदलम् ॥
नन्वत्र स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नकार्यतानिरूपितसमवाय- सम्बन्धावच्छिन्नं कारणं द्वितीयासमवायिकारणमित्येव कथने का हानिः । स्वं पटरूपम्, स्वसमवायी पटः । तत्समवेताः तन्तवः । अत्रैव तन्तुरूपमपि समवायसम्बन्धेन वर्तत इति कारणं भवति । अतः सम्बन्धयोः वैपरीत्ये का हानिरिति चेत् - न । चित्रपटस्थले पटरूपं प्रति तन्तुरूपस्य कारणत्वानुपपत्तेः । नानारूपैस्तन्तुभिः चित्रपटो निर्मीयते । स्वं चित्रपटरूपम् । स्वसमवायी पटः । तत्समवेतत्वं नीलतन्तुषु वर्तते । तत्र रक्ततन्तुरूपस्य समवायसम्बन्धेनासत्त्वात् व्यभिचारापत्तिः । चित्रपटरूपं प्रति हि नीलतन्तवोऽपि कारणम्, रक्ततन्तवोऽपि कारणम् । अतः स्वसमवायिसमवेतत्वपदेन नीलतन्तुस्वीकारे, वा रक्त-
[[151]]
तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य । आलोक-व्याख्या
तन्तुस्वीकारे वा कार्याधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वात् रूपान्तरस्य व्यभिचारो दुष्परिहरः । अतः समवायसम्बन्धावच्छिन्नकार्यतानिरूपित- स्वसमवायिसमवेतत्व-सम्बन्धावच्छिन्नं कारणत्वमेव वक्तव्यम् । एवं सति तु समवायसम्बन्धेन चित्रपटरूपं चित्रपटे वर्तते । चित्रपटे तु नीलतन्तुरूपं रक्ततन्तुरूपमित्यादिरूपं सर्वं स्वसमवायिसमवेतत्वसम्बन्धेन वर्तते । स्वं नीलरूपं रक्तरूपमित्यादि । तत्समवेतास्तु नीलतन्तवः, रक्ततन्तव इत्यादयस्सर्वे तन्तवः । तत्समवेतश्चित्रपटः, तत्रैव चित्ररूपं समवायसम्बन्धेनोत्पद्यत इति कारणत्वनिर्वाहात् सम्बन्धविपर्यासो न कर्तुं शक्यः । ।
इत्यत्र निमित्तकारणं लक्षयति - तदुभयेत्यादि । समवायिकारणभिन्नम् असमवायिकारणभिन्नं कारणं निमित्तकारणमित्यर्थः । तुर्यां किल पटः संयोगसम्बन्धेनोत्पद्यते । अतः संयोगसम्बन्धावच्छिन्नपटत्वावच्छिन्न- कार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्ना कारणता तुर्यां वर्तते । अत्र कार्यतायाः संयोगसम्बन्धावच्छिन्नत्वात् तुर्याः समवाय्यसमवायिकारणत्वव्यावृत्तिः, उभयत्रापि कार्यतायाः समवायसम्बन्धावच्छिन्नत्वात् । अतः समवाय्यसमवायिकारणभिन्नं कारणमिति लक्षणसमन्वयः । अत्र यद्यपि घटनिमित्तकारणभूतदण्डादेः स्वगतरूपं प्रति समवायिकारणत्वात्, दण्डः समवायिकारणमपि भवतीति समवायिकारणभिन्नत्वाभावादसम्भवः । अथापि कार्यभेदात् कारणतापि भिद्यते। रूपनिरूपितसमवायिकारणता भिन्ना, घटनिरूपितनिमित्तकारणता च भिन्ना, निरूपकभेदात् निरूप्यभेदस्यावश्यकत्वात् । परस्परविरुद्धयोः पुत्रत्वपितृत्व- योर्निरूपकभेदेनैकत्र सत्त्वे विरोधाभावात् । अतश्च समवायिकारणताभिन्नत्वे सति असमवायिकारणताभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणम् । दलप्रयोजनं तु स्पष्टमेव ॥ pupile
[[152]]
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ।
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद् द्विविधम् - निर्विकल्पकं सविकल्पकं चेति । निष्प्रकारकं ज्ञानं निर्विकल्पकम् । सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति ।
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः ।
एवं कारणानां लक्षणेऽभिहिते, करणमेतदनन्तर्भूतमिति शङ्का मा भूदित्यर्थं करणस्वरूपं प्रदर्शयति तदेतदित्यादि । असाधारणमिति । कालेश्वरादृष्टादिकं मध्ये द्वारमन्तरा साक्षादेव सर्वकार्यकारणम् । अतोऽसाधारणत्वं व्यापारवत्त्वमेव, न तु प्राधान्यादिरूपम्, इत्यादिकमनुपदमेवोक्तम् ॥
निष्प्रकारकमिति । अत एवातीन्द्रियम्, शब्दानभिलप्यं च । विशिष्टबुद्धि प्रति विशेषणस्य कारणत्वमनुभवसिद्धम् । कारणत्वं च नियतपूर्ववृत्तित्वरूपम् । एवञ्च घटत्वविशिष्टघटज्ञानं प्रति पूर्वं घटत्वज्ञानमावश्यकम् । तदपि विशिष्टविषयकं भवेच्चेदनवस्था । अतो घटत्वमात्रविषयकं निर्विशेषणकम्, अत एव निष्प्रकारकं च तद्ज्ञानम् । अत एवातीन्द्रियञ्च ॥
सप्रकारकमित्यादि स्पष्टम् । डित्थ इति सञ्ज्ञा । ब्राह्मण इति जातिविशेषणकम् । श्याम इति गुणविशेषणकम् । पाचक इति क्रियाविशेष- णकम् । चत्वारिपदजातानि, सञ्ज्ञावाचीनि गुणवाचीनि, क्रियावाचीनि, जातिवाचीनि च । सञ्ज्ञापदान्येव द्रव्यवाचीनि, रूढानि, यदृच्छाशब्दानीति च कथ्यन्ते ॥
प्रत्यक्षज्ञानहेतुः - लौकिकप्रत्यक्षज्ञानहेतुरित्यर्थः । सन्निकर्षः- द्विविधः, लौकिकालौकिकभेदात् । प्रथमस्तु ग्रन्थकारेणैव उच्यते । द्वितीयस्तु अलौकिकसन्निकर्षः अनुपदमुच्यतेऽत्र व्याख्यायाम् ।
[[153]]
संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, सम- वायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति। चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षे संयुक्तसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्य- प्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतम् । तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः । कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात् । शब्दस्याकाशगुणत्वात् गुणगुणिनोः समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः । श्रोत्रसमवेते शब्दे शब्दत्वस्य समवा- यात् । अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, भूतलं घटाभाववत् इत्यत्र चक्षुः संयुक्तभूतले घटाभावस्य विशेषणत्वात् ।
संयोगस्सन्निकर्ष इति । इन्द्रियाणि हि भौतिकानि, अत एव द्रव्याणि । द्रव्ययोस्संयोगः । अतो घटादिद्रव्यप्रत्यक्षे संयोगस्सन्निकर्षः । इतरत् स्पष्टम् ॥
ननु श्रोत्रेन्द्रियेण दूर उत्पन्नश्शब्दः कथं गृह्यते । शब्दो हि गुणः । न हि तस्य गमनागमनसम्भवः । नापि श्रोत्रेन्द्रियं शब्दोत्पत्तिदेशं गच्छेत्, तस्याकाशत्वेन क्रियाभावादिति चेत्, न । दूर उत्पन्नः शब्दो वीचितरङ्गन्यायेन, अन्यं शब्दमुत्पाद्य नश्यति । सोऽप्यन्यमिति तरङ्गात्तरङ्गान्तरक्रमेण श्रोत्रप्रदेशे उत्पन्नः शब्दः श्रोत्रेण गृह्यते ॥
अभावेत्यादि । विशेषणभावः, विशेष्यभाव इति सन्निकर्षद्वयमिति केचित् । ‘भूतले घटाभावः’ इत्यत्र चक्षुस्संयुक्ते भूतले घटाभावस्य विशेष्यत्वात् विशेष्यत्वं सन्निकर्षः । ‘घटाभाववद् भूतलम्’ इत्यत्र चक्षुस्संयुक्तभूतलविशेषणत्वं
[[154]]
एवं सन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्, तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥
इति तर्कसङ्ग्रहे प्रत्यक्षपरिच्छेदः समाप्तः ॥
सन्निकर्ष इति वदन्ति । परन्तु अभावप्रत्यक्षं प्रति सन्निकर्षत्वादस्य, शाब्दबोधस्य शब्दप्रयोगाधीनत्वेन विशेषणविशेष्यभावपरिवर्तनेऽपि प्रत्यक्षे विशेषण- विशेष्यभावो न कदापि व्यत्यस्तो भवति । प्रत्यक्षस्य वस्तुजन्यत्वात् अतो विशेषणविशेष्यभाव एक एव सन्निकर्षः, आधाराधेयभाववत् इत्यपरे । चक्षुस्संयुक्ते भूतले विशेषणमभाव इति चक्षुस्संयुक्त-विशेषणतासन्निकर्ष एव विशेषणविशेष्यभाव इत्युच्यते । एवं घटे पटत्वाभावोऽपि चक्षुस्संयुक्तविशेषणता सन्निकर्षेण गृह्यते । घटत्वे पटत्वाभावस्तु चक्षुस्संयुक्तसमवेतविशेषणतया, नीलत्वे पीताभावः चक्षुस्संयुक्तसमवेत- समवेतविशेषणतया च गृह्यत इत्याद्यप्यूह्यम् ॥
एवमभावप्रत्यक्षस्य तत्तदिन्द्रियग्राह्यत्वप्रतिपादनेनानुपलब्धेः प्रमाणान्तरत्वं निरस्तम् । अभावप्रत्यक्षं प्रत्यनुपलब्धिरेव प्रमाणमिति भाट्टाः । परन्तु अधिकरणप्रत्यक्षं प्रति इन्द्रियस्यात्यन्तमावश्यकत्वेनानुपलब्धि- सहकृतेनेन्द्रियेणैवोक्तसन्निकर्षैरभावप्रत्यक्षे सम्भवति, अतिरिक्तप्रमाणाङ्गीकारे
गौरवम् ॥
समवायोऽपि विशेषणविशेष्यभावसन्निकर्षेण गृह्यत इति नवीनाः । परन्त्वेवं सति अनुमानेन समवायसाधन एव लाघवतर्कीवतारात् समवायस्य प्रत्यक्षत्वे तस्यैकत्वं नित्यत्वं च न स्यात् । सत्तया कार्यकारित्वमेव सम्बन्धत्वमिति समवायो न प्रत्यक्षः, अनुमेय एवेति प्राचीनाः ॥
[[155]]
-
इदं सर्वं लौकिकसन्निकर्षरूपम् । अलौकिकस्तु सन्निकर्षः सामान्य- लक्षणः, ज्ञानलक्षणः, योगजलक्षणश्चेति त्रिविधः । धूमत्वेन निखिलधूमानां वह्नित्वेन निखिलवह्नीनां च ज्ञानमन्तरा यत्र यत्र धूमस्तत्र वह्निरिति व्याप्तिग्रहणं न सम्भवेत् । धूमत्वेन निखिलधूमज्ञानं च सामान्यमुखेनैव, देशान्तरधूमानां टिप्पणी
-
सन्निकर्षो द्विविधः – लौकिकः, अलौकिकश्च । उक्तः षड्विधः सन्निकर्षः लौकिक उच्यते । एतद्विलक्षणसन्निकर्षः अलौकिक उच्यते । ‘यत्र यत्र वह्निः, तत्र तत्र धूमः’ इति वह्निधूमयोः कार्यकारणभावे, ‘यत्र यत्र धूमः तत्र वह्निः’ इति व्याप्यव्यापकभावग्रहणं च त्रैकालिकं दृष्टम् । षड्विधसन्निकर्षस्तु वर्तमानवस्तुष्वेव
• भवेत् । प्रत्यक्षं हि वर्तमानमात्रविषयकम् । कार्यकारणभावादिस्तु त्रैकालिकः । स कथं पुरोवर्तिवस्तुमात्रविषयको भवेत् । अतः पुरोवर्तिवस्तुगतसामान्यधर्ममादायैव सहचारादिदर्शनमुपपादयितव्यम् । एवं सामान्यमूलकं दर्शनम्, न पुरोऽवस्थितवस्तुमात्रे परिसमाप्तम् । धूमो हि सर्वदैव सर्वत्रैव वह्निजन्य एव । अतञ्चास्य सामान्यमूलकत्वात् सामान्यलक्षणा प्रत्त्यासत्तिरिति सञ्ज्ञा ।
एवं सुरभि कुसुमम्’ ‘शीतं शिलातलम् “मधुरा शर्करा’ इत्याद्यनुभवनिर्वाहार्थं ज्ञानलक्षणसन्निकर्ष आवश्यकः । उक्तानुभवेषु हि विशेष्यं कुसुमम्, शिलातलं च चक्षुरिन्द्रियजन्यम् । विशेषणं सौरभं घ्राणेन्द्रियजन्यम्, शैत्यं त्वगिन्द्रियजन्यम्, माधुर्यं च रसनेन्द्रियजन्यम् । युगपत् इन्द्रियद्वयप्रवृत्तेरसम्भवात्, विशेष्यग्रहणविशेषणग्रहणयोः सूक्ष्मः कालभेद आवश्यकः । युगपदिन्द्रियद्वयप्रवृत्तौ त्वगिन्द्रियस्य सर्वशरीरव्यापित्वेन, भूतलादिना संयोगस्य सदा वर्तमानत्वेन चक्षुरादिना रूपादिग्रहणकाले स्पर्शरूपोभयग्रहणमावश्यकं स्यात् । न हि तथानुभूयते । तत्र च कारणं मन एव । मनो यत्रावहितम्, तद्विषयकमेव ज्ञानं भवति । अत एव ‘युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्’ (न्या. सू. १-१-१६) इत्याह महर्षिः । एवञ्च ‘सुरभि कुसुमम्’ इत्यादौ
156 आलोक-व्याख्या
चक्षुस्संयोगसन्निकर्षाभावात् । अत इयं सामान्यलक्षणाप्रत्यासत्तिरित्युच्यते॥
एवं ‘सुरभि चन्दनम्’ इत्यादिप्रतीतौ विशेष्यविशेषणयोर्भिन्नेन्द्रि- ग्राह्यत्वेन, युगपदिन्द्रियद्वयस्य प्रवृत्तेरसम्भवात् विशेषणज्ञानं घ्राणेन्द्रियजन्यं प्रथमं भवति । ततश्चन्दनखण्डस्य चक्षुरिन्द्रियसंयोगे जाते, तत्र पूर्वगृहीतगन्धः स्मृतस्सन् विशेषणतया भासते । अत्र विशेषणभानं ज्ञानलक्षणा- सन्निकर्षवशाद्भवति ॥
योगजलक्षणा तु योगजसिद्धिरूपा, धर्म (पुण्य) विशेषरूपा । सा च योगिनां दूरवर्तिपदार्थप्रत्यक्षं प्रति अतीतानागतविषयकप्रत्यक्षं प्रति च हेतुः । एवमलौकिकसन्निकर्षजन्यं ज्ञानमलौकिकप्रत्यक्षमित्युच्यते । ज्ञानलक्षण- स्योपनीतभानपदेनाप्यस्ति व्यवहारः ॥
॥ इति प्रत्यक्षखण्डः ॥
टिप्पणी
कुसुमस्य परोक्षत्वे, घ्राणेन गन्धस्य ग्रहणं प्रथमम् । तेनाश्रयस्य कुसुमस्यानुमित्या गृहीतस्य तत्र विशेष्यतया भानम्। कुसुमस्य पुरत एव सत्त्वे, कुसुमस्य चक्षुषा ग्रहणं
। प्रथमम् । घ्राणेन्द्रियेण गृहीतस्य गन्धस्य कुसुमे विशेषणतया भानम् । ग्रहणं नाम घ्राणेन्द्रियजन्यं ज्ञानमित्यर्थः । सौरभस्य कुसुमे विशेषणत्वं तादृशज्ञानेन भवति । अस्य ज्ञानलक्षणाप्रत्त्यासत्तिरिति सञ्ज्ञा । प्रत्त्यासत्तिः सन्निकर्षः । ‘नीलो घटः’ इति ज्ञानं हि संयोग-संयुक्तसमवाय-संयुक्तसमवेतसमवायसन्निकर्षैर्जायते। एवमनेकसन्निकर्षैरेकज्ञानं यथा जायते, तथैव ‘सुरभिकुसुमम्’ इति ज्ञानमपि लौकिकालौकिकसन्निकर्षद्वयजन्यम् ।
एवम् अष्टाङ्गयोगाभ्यासवशात् जायमानोऽलौकिकः शक्तिविशेषः अतीन्द्रियाणां विषये ज्ञानं जनयति । स एव योगजसन्निकर्ष इत्युच्यते ।म
[[8157]]
नाह
॥ अथ अनुमानखण्डः ॥
अनुमितिकरणमनुमानम् ।
अथ अनुमानखण्डः
RETE HS
क्रमप्राप्तमनुमानं निरूपयति - अनुमितीत्यादि । अनुमितेः करणम् - अनुमितिकरणम् । करणम् करणतावत् असाधारणकारणतावदित्यर्थः । अनुमितेरित्यत्र षष्ठ्याः कार्यत्वमर्थः । तत्र च प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । कार्यताया निरूपितत्वसम्बन्धेन असाधारणकारणतायामन्वयः । तथा च अनुमितिनिष्ठकार्यतानिरूपितासाधारणकारणतावत् अनुमानम् - इति शाब्दबोधः । लक्षणं तु— अनुमितिनिष्ठकार्यतानिरूपिता- साधारणकारणतावत्त्वम् इति । अनुमितिनिष्ठा का कार्यतेति चेत् ? ‘पर्वतो वह्निमान्’ इत्याद्यनुमितिनिष्ठा कार्यता । तन्निरूपितासाधारणकारणता व्याप्तिज्ञाननिष्ठा कारणता ।
तादृशकारणतावत् व्याप्तिज्ञानं भवतीति व्याप्तिज्ञानमेवानुमानपदवाच्यमित्यर्थः । नव्यमते तु परामर्श एवानुमिति- करणम् । कार्यसामान्यं प्रति कालेश्वरादृष्टादेः कारणत्वात्, अनुमितिनिष्ठ- कार्यतानिरूपितकारणत्वं कालेश्वरादावस्तीत्यतिव्याप्तिः स्यादिति असाधारणेति विशेषणम् । तेषां साधारणकारणत्वान्नातिव्याप्तिः । व्यापारवत् कारणं करणमिति लक्षणे व्याप्तिज्ञानं परामर्शद्वारानुमितिं जनयतीति परमर्शो व्यापारः, तद्वत्करणं व्याप्तिज्ञानमिति समन्वयः ॥
[[158]]
परामर्शजन्यं ज्ञानमनुमितिः । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परा- मर्शः । यथा ‘वह्निव्याप्यधूमवानयं पर्वतः’ इति ज्ञानं परामर्शः । तज्जन्यं ‘पर्वतो वह्निमान्’ इति ज्ञानमनुमितिः ।
यत्र धूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः । आलोक-व्याख्या
अनुमितिर्नाम का ? अनुमानजन्यं ज्ञानमनुमितिकथन अन्योन्याश्रय इत्यतः - परामर्शजन्यं ज्ञानमनुमितिरित्युक्तम् । वस्तुतस्तु ‘अनुमिनोमि’ इत्यनुव्यवसायसिद्धो ज्ञानविशेषोऽनुमितिः । तत्करणं व्याप्तिज्ञानमनुमानम् ॥
परामर्शो नाम कः ? इत्यत्राह - व्याप्तीत्यादि । व्याप्त्या विशिष्टम् व्याप्तिविशिष्टम् । व्याप्तिविशिष्टस्य पक्षधर्मताज्ञानम् = पक्षवृत्तित्वज्ञानम् व्याप्तिविशिष्टपक्षधर्मताज्ञानम् । ‘पर्वतो वह्निमान्’ इत्यनुमिति प्रति ‘वह्निव्याप्यधूमवान् पर्वतः’ इति ज्ञानं कारणम् । वह्निव्याप्यः वह्निनिरूपितव्याप्तिविशिष्टः = धूमः । तस्य पक्षवृत्तित्वज्ञानम् वह्निव्याप्यधूमवान् पर्वत इति ज्ञानम् । तदेव परामर्शः ॥
अनुमितेः क्रम एवम् प्रथमं पर्वते धूमं दूरात्पश्यति । तदा ‘पर्वतो धूमवान्’ इति ज्ञानं जायते । इदमेव पक्षधर्मताज्ञानमित्युच्यते । एतस्मिन् ज्ञाने जाते, अनन्तरं, महानसादौ गृहीतां ‘यत्र धूमस्तत्र वह्निः’ इति व्याप्तिं स्मरति । ततः वह्निव्याप्यधूमवानिति परामर्शः । ततः ‘पर्वतो वह्निमान् ’ इत्यनुमितिः । ततश्च प्रथमं पक्षधर्मताज्ञानम् । ततः व्याप्तिस्मरणम् । ततः परामर्शः । ततः अनुमितिरिति क्रमः । अत्र व्याप्तिविशिष्टस्य हेतोः पक्षे वैशिष्ट्यावगाहित्वात् परामर्शो विशिष्टवैशिष्ट्यावगाहिज्ञानरूपो भवति ॥
व्याप्तिर्नाम केत्यत्राह यत्रेत्यादि । ‘साहचर्यनियमः’ इति व्याप्तेर्लक्षणम्। तदभिलापकं वाक्यम् ‘यत्र धूमस्तत्राग्निः’ इति ।
साहचर्यं सामानाधिकरण्यम् । तस्य नियमः अव्यभिचारः । कादाचित्कं साहचर्यं
[[00159]]
आलोक व्याख्या
न व्याप्तिः । सार्वकालिकं साहचर्यं ययोर्वर्तते, तत्र तयोस्साहचर्यनियमः नियतं साहचर्यं वा स्यात् । यथा वह्निधूमयोः । यत्र यत्र धूमः स्यात्, तत्र सर्वत्रापि वह्निरपि स्यात् । एतादृशं वह्निसाहचर्यं धूमे वर्तत इति वह्निव्याप्तिर्धूमे वर्तते । तेन च वह्निव्याप्यो धूमश्च भवति । एवमव्यभिचरितः सम्बन्धो ययोर्वर्तते, तत्र तयोर्व्याप्तिर्वर्तत एव । यत्र तु कादाचित्कं साहचर्यम्, तत्र तु न व्याप्तिः । यथा धनसुखयोः । लोके कश्चित् धनवान् सुखी दृष्ट इति ‘अयं सुखी, धनवत्त्वात्’ इति यदि ब्रूयात्, तदा व्यभिचारः स्यात् । धनमात्रं न हि सुखसाधनम्, धनवतो रोगपीडायां सुखाभावात् । किन्तु विवेक एव सुखसाधनम् । अतो ‘यत्र धनम्, तत्र सुखम्’ इति न व्याप्तिः । दुःखवत्यपि धनसत्त्वात् । अतोऽयं व्यभिचरितो हेतुः ॥
तथा च साहचर्यनियमो नाम अव्यभिचरितं साहचर्यम् । ततश्चाव्यभिचरितत्वमेव व्याप्तिः । अव्यभिचरितत्वं च व्यभिचाराभावः । व्यभिचारो नाम तदभाववत्यपि सत्त्वम् । यथा धूमवान् वह्नेः’ इत्युक्ते, धूमवति महानसादौ यद्यपि वह्निर्वर्तते । अथापि धूमाभाववति तड्डायः पिण्डेऽपि वर्तते । अतस्साहचर्यस्य नियमो नास्ति, धूमाभाववद्वृत्तित्वाद्वह्नेः । अयमेव व्यभिचार इत्युच्यते । ततश्च साध्याभाववद्वृत्तित्वं व्यभिचारः । साध्याभाववदवृत्तित्वमव्यभिचारः । इयमेव व्याप्तिरित्युच्यते ॥
‘वह्निमान् धूमात्’ इत्यादौ लक्षणसमन्वयः । अत्र साध्यो वह्निः । साध्याभावः - वह्न्यभावः । तद्वान् ह्रदादिः । तदवृत्तित्वं धूमे वर्तत इति । ‘धूमवान् वह्नेः’ इत्यादिव्यभिचारिणि साध्यो धूमः । साध्याभावो धूमाभावः । तद्वत् अयोगोलकमपि । तद्वृत्तित्वमेव हेतौ वह्नौ वर्तते, न त्ववृत्तित्वमिति नातिव्याप्तिः ॥
अत्र साध्याभावो नाम - साध्यनिष्ठप्रतियोगितानिरूपकोऽभावः ।
[[160]]
आलोक- व्याख्या
तत्र प्रतियोगितायां साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशनीयम् । अन्यथा ‘पर्वतो वह्निमान् धूमात्’ इत्यादिसद्धेतावव्याप्तिः । अत्र साध्यो वह्निः । तन्निष्ठप्रतियोगितानिरूपकोऽभावः ‘वह्निर्नास्ति’ इति प्रतीतिसिद्धोऽभावः । स च यद्यपि पर्वते न सम्भवति । परन्तु वह्नेः संयोगसम्बन्धेनैव पर्वतादौ सत्त्वात्, ‘समवायसम्बन्धेन पर्वते वह्निर्नास्ति’ इति प्रतीतेः प्रामाणिकत्वात् समवायसम्बन्धावच्छिन्नवह्निनिष्ठप्रतियोगितानिरूपको वह्न्यभावः पर्वते वर्तते। ततश्च साध्याभाववान्=वह्न्यभाववान् पर्वतः । तद्वृत्तित्वमेव हेतौ धूमे वर्तते, न त्ववृत्तित्वमित्यव्याप्तिरित्यतः, प्रतियोगितायां साध्यतावच्छेदक- सम्बन्धावच्छिन्नत्वस्य निवेशनेनाव्याप्तेः परिहारात् । येन सम्बन्धेन यत् साध्यते, स सम्बन्धः साध्यतावच्छेदकसम्बन्धः । तथा च साध्यतावच्छेदक- संवन्धावच्छिन्नसाध्यनिष्ठप्रतियोगिता- निरूपकाभाववदवृत्तित्वं व्याप्तिः इति लक्षणम् । पर्वते च वह्निः संयोगसम्बन्धेन साध्यत इति संयोगसम्बन्ध एव साध्यतावच्छेदकसम्बन्धः । संयोगसम्बन्धावच्छिन्नवह्निनिष्ठप्रतियोगिता- निरूपकाभावस्तु ‘संयोगेन वह्निर्नास्ति’ इति प्रतीतिसिद्धाभाव एव । स तु पर्वते न स्यात् संयोगेन वह्नेः पर्वते सत्त्वात् । किन्तु हृदादिरेव तादृशा- भाववान् । तदवृत्तित्वं च हेतौ धूमे वर्तत इति नाव्याप्तिः ॥
अथैवमपि पर्वते वह्नेः सत्त्वेऽपि ‘पर्वते संयोगसम्बन्धेन महानसीयवह्निर्नास्ति’ इति प्रतीतेः प्रामाणिकत्वात् संयोगसम्बन्धावच्छिन्नवह्नि- निष्ठप्रतियोगितानिरूपकोऽभावः महानसीयवह्न्यभावोऽपि । महानसीयवह्नेरपि वह्नित्वेन महानसीयवह्न्यभावोऽपि वह्न्यभाव एव । स तु पर्वते वर्तत एव । महानसीयवह्नेर्महानस एव सत्त्वात् पर्वतेऽसम्भवात् । तथा च संयोगसम्बन्धा- वच्छिन्नवह्निनिष्ठप्रतियोगितानिरूपकाभाववान् पर्वतः । तद्वृत्तित्त्वमेव हेतौ धूमे वर्तते, न त्ववृत्तित्वमित्यव्याप्तिरिति चेत्, न । प्रतियोगितायां
[[5161]]
आलोक- व्याख्या
साध्यतावच्छेदकधर्मावच्छिन्नत्वस्यापि निवेशनात् । येन धर्मेण यः साध्यः, स धर्मः साध्यतावच्छेदकधर्मः । प्रकृते च वह्निर्वह्नित्वरूपधर्मेणैव साध्यः, न तु महानसीयवह्नित्वेन रूपेण, महानसीयवह्नेः पर्वतेऽसम्भवात् । साध्यतावच्छेदकीभूतवह्नित्वावच्छिन्नप्रतियोगितानिरूपकस्त्वभावः ‘वह्निर्नास्ति’ इति प्रतीतिसिद्धाभाव एव । न तु महानसीयवह्न्यभावः । अस्य महानसीय- वह्नित्वावच्छिन्नत्वेन केवलवह्नित्वावच्छिन्नत्वाभावात् । वह्नित्वावच्छिन्नाभावस्तु पर्वते न सम्भवति, पर्वते वह्नेः संयोगसम्बन्धेन सत्त्वात् । अतः संयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगितानिरूपकाभाववान् ह्रदादिरेव । तदवृत्तित्त्वं धूमे वर्तत इति नाव्याप्तिः । तथा च लक्षणम् साध्यतावच्छेदकसंवन्धावच्छिन्नसाध्यतावच्छेदकधर्मावच्छिन्न- प्रतियोगितानिरूपकाभाववदवृत्तित्वं व्याप्तिरिति सम्पन्नम् ॥
नन्वेवमपि महानसीयवह्न्यभावीयप्रतियोगितायां महानसीयत्वस्य वह्नित्वस्य चावच्छेदकतया भानात् सा प्रतियोगिता वह्नित्वावच्छिन्नापि भवतीति महानसीयवह्न्यभावस्य वारणं न भवतीति तादृशाभाववान् पर्वतः । तद्वृत्तित्वमेव हेतौ धूमे वर्तत इत्यव्याप्तिस्तदवस्थैवेति चेत्, न । साध्याभावीयप्रतियोगितायां वैशिष्ट्यानवच्छिन्नत्वस्यापि विशेषणात् । तथा च साध्यतावच्छेदकसंवन्धावच्छिन्नवैशिष्ट्यानवच्छिन्नसाध्यताव-
च्छेदकावच्छिन्नप्रतियोगिताकाभाववदवृत्तित्वं व्याप्तिः । एवञ्च महानसीयवह्न्यभावप्रतियोगिताया महानसीयत्वविशिष्टवह्नित्वावच्छिन्नत्वेन वैशिष्ट्यावच्छिन्नत्वात्, वैशिष्ट्यानवच्छिन्नप्रतियोगिताकाभावो महानसीय- वह्न्यभावो न भवति, किन्तु शुद्धवह्न्यभाव एव । तद्वांश्च हृदादिरेव । न तु पर्वतः । तदवृत्तित्वं धूमे वर्तत इति नाव्याप्तिः ॥
अथैवमपि पर्वतो वह्निमान् धूमात् इत्यत्र अव्याप्तिर्दुर्वारैव । तथाहि
[[13]]
[[162]]
घटवत्यपि भूतले पटस्यासत्त्वे ‘घटोपटोभयमस्ति वा?’ इति प्रश्ने ‘घटपटोभयं नास्ति’ इत्येवोत्तरं वक्तव्यम् । एवं पर्वते वह्नेः सत्त्वेऽपि घटस्याभावेन एकसत्त्वेऽपि द्वयं नास्तीति प्रतीतेः प्रामाणिकत्वेन वह्निघटोभयं नास्तीति प्रतीत्या साध्यतावच्छेदकसम्बन्धावच्छिन्नवैशिष्ट्यानवच्छिन्नसाध्यतावच्छेदका- वच्छिन्नप्रतियोगिताकाभावो वह्निघटोभयाभावोऽपि भवति । तद्वान् पर्वतोऽपि तद्वृत्तित्वमेव धूमे हेतौ वर्तते । अवृत्तित्वं नास्तीत्यव्याप्तिः ॥
न च वह्निघटोभयाभावीयप्रतियोगिताया वह्नित्वघटत्वोभय- धर्मावच्छिन्नत्वेन केवलवह्नित्वावच्छिन्नाभावपदेनोभयाभावः स्वीकर्तुं न शक्य इति कथमव्याप्तिरिति वाच्यम्; उभयस्य प्रत्येकानतिरिक्तत्वेन वह्नित्वघटत्वोभयावच्छिन्नत्वे वह्नित्वावच्छिन्नत्वस्यानपायात्, तादृशवह्नित्वावच्छिन्नाभाव इत्यनेन वह्निघटोभयाभावः स्वीकर्तुं शक्य एवेति अव्याप्तिर्दुर्वारैव ॥
न च घटपटोभयाभावीया प्रतियोगिता वह्निघटोभयनिष्ठा । प्रतियोगितावच्छेदकता तु न केवलं वह्नित्वे घटत्वे च वर्तते, किन्तूभयत्वेऽपि । ‘वह्निघटोभयं नास्ति’ इत्येव प्रतीतेः । ‘वह्निघटौ न स्तः’ इति प्रतीतिरपि उभयविषयिण्येव, द्विवचनेनोभ योरपि क्रोडीकारात् । यथोभयाभावीय- प्रतियोगितावच्छेदकता घटत्वे पटत्व उभयत्वे चेति त्रिष्वपि वर्तते, उभयत्वस्य व्यासज्यवृत्तिधर्मत्वात् । लक्षणे व्यासज्यवृत्तिधर्मानवच्छिन्नत्वमपि निवेश्यते । एवञ्च साध्यतावच्छेदकसंवन्धावच्छिन्नवैशिष्ट्यव्यासज्यवृत्ति- धर्मानवच्छिन्न-साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाववदवृत्तित्वं व्याप्तिः । एवञ्च प्रकृते वह्निघटोभयाभावो न स्वीकर्तुं शक्यः । तदभावीयप्रतियोगिताया वह्नित्वघटत्वोभयावच्छिन्नत्वेन व्यासज्यवृत्ति- धर्मावच्छिन्नत्वेन, व्यासज्यवृत्तिधर्मानवच्छिन्नत्वाभावात् । किन्तु शुद्धवह्न्यभाव
[[8]]
[[163]]
एव स्वीकार्यः । तादृशाभाववांस्तु हृद एव । तदवृत्तित्वं हेतौ धूमे वर्तत इति नाव्याप्तिरिति वाच्यम् ; एवं सत्युभयसाध्यकसद्धेतावव्याप्तिर्दुर्वारा । तथाहि - नव द्रव्येषु रूपरसौ पृथिवीजलमात्रे वर्तेते । अतः ‘इदं रूपरसोभयवत्, पृथीवीजलान्यतरत्वात्’ इति वक्तुं शक्यते । यत्र यत्र पृथिवीजलान्यतरत्वम्, तत्र रूपरसोभयम्, यथा पृथिवी जलं चेत्यन्वयव्याप्तिः । एवं यत्र रूपरसोभयं नास्ति तेज आदौ, तत्र पृथिवीजलान्यतरत्वं नास्तीति व्यतिरेकव्याप्तिः । तथा चायमन्वयव्यतिरेकी सद्धेतुः । अत्र साध्यतावच्छेदक- सम्बन्धः समवायः । समवायसम्बन्धावच्छिन्नवैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्न- साध्यतावच्छेदकावच्छिन्नप्रतियोगिताकाभाव इत्यनेन रूपरसोभयाभावो न स्वीकर्तुं शक्यते । अस्योभयत्वरूपव्यासज्यवृत्तिधर्मावच्छिन्नत्वेन व्यासज्यवृत्ति- धर्मानवच्छिन्नप्रतियोगिताकत्वाभावात् । तथा च तत्र लक्षणसमन्वयासम्भवा- दव्याप्तिः । अतश्च व्यासज्यवृत्तिधर्मानवच्छिन्नत्वं साध्याभावीयप्रतियोगितायां निवेशयितुं न शक्यम् । अनिवेशे च ‘पर्वतो वह्निमान् धूमात्’ इत्यादौ वह्निघटोभयाभावमादाया-व्याप्तिर्दुवरिति सेयमुभयतः पाशा रज्जुरिति चेत्
अत्रोच्यते । साध्याभावनिरूपितप्रतियोगितावच्छेदकतायाः पर्याप्तर्निवेशेन
सर्वदोषपरिहारः । तथा च लक्षणम् - साध्यतावच्छेदकसंवन्धा- वच्छिन्नसाध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नप्रतियोगिताका- भाववदवृत्तित्वमिति । ‘वह्निमान् धूमात्’ इत्यादौ तादृशाभावो वह्नित्वावच्छिन्नाभाव एव । न तु महानसीयवह्नित्वावच्छिन्नाभावः । महानसीयवह्न्यभावप्रतियोगितावच्छेदकताया महानसीयत्वे वह्नित्वे चेत्युभयत्र पर्याप्तत्वेन केवलवह्नित्वेऽपर्याप्तत्वेन साध्यतावच्छेदकतापर्याप्त्यधिकरण- धर्मावच्छिन्नप्रतियोगिताकाभाव इत्यनेन महानसीयवह्न्यभावमादाय नाव्याप्तिः । न वा वह्निघटोभयाभावमादायाव्याप्तिः । वह्निघटोभयाभावीयप्रतियोगिता-
ह
[[164]]
वच्छेदकताया वह्नित्वे, घटत्वे, उभयत्वे चेति त्रिषु पर्याप्तत्वेन केवलवह्नित्वेपर्याप्तत्वाभावेन, साध्यतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्न- प्रतियोगिताकाभावो वह्निघटोभयाभावो न भवति, किन्तु ‘वह्निर्नास्ति’ इति प्रतीतिसिद्धाभाव एव । स च ह्रदादावेव सम्भवति । तत्र च धूमस्यावृत्तेर्नाव्याप्तिः ॥
नन्वेवमप्युभयस्य प्रत्येकानतिरिक्तत्वेन, प्रत्येकापर्याप्तस्य समुदाय- पर्याप्तत्वायोगात्, वह्निघटोभयाभावीयप्रतियोगितावच्छेदकता यदि वह्नित्वे, घटत्वे, उभयत्वे च पर्याप्ता, तर्हि वह्नित्वेऽपि पर्याप्तैवेति साध्यतावच्छेद- कतापर्याप्त्यधिकरणधर्मो वह्नित्वमपि । तदवच्छिन्नप्रतियोगिताकाभावो वह्निघटोभयाभावोऽपीति तद्व्यावृत्तेः कर्तुमशक्यत्वेन कथमव्याप्तेः परिहार इति चेत् ; न । साध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्न-
पर्याप्तावच्छेदकताकप्रतियोगिकाभावविवक्षणेनोभयाभावव्यावृत्तेः । तथाहि
घटवत्यपि भूतले, पटस्यासत्त्वे ‘घटपटोभयं नास्ति’ इति प्रतीतिः प्रामाणिकी, ‘घटो नास्ति’ इति प्रतीतिस्तु न प्रामाणिकीति सर्वसम्मतम् । अनयोः प्रतीत्योः किं वैलक्षण्यम्? घटाभावीयप्रतियोगितावच्छेदकता घटत्वमात्रे पर्याप्ता । घटपटोभयाभावीया प्रतियोगितावच्छेदकता च घटत्वे, पटत्वे, उभयत्वे चेति त्रिषु पर्याप्ता । उभयस्य प्रत्येकानतिरेकेण, त्रिषु पर्याप्तेति चेत्, प्रत्येकमपि पर्याप्तत्यप्यावश्यकमेव । अथापि घटत्वावच्छिन्नाभावस्य घटत्वपटत्वोभयत्वावच्छिन्नाभावस्य वैलक्षण्यमावश्यकम् । अत एवं वक्त- व्यम्। घटाभावीयप्रतियोगितावच्छेदकता घटत्वत्वावच्छिन्ने घटत्वे, तद्व्यक्तित्वावच्छिन्ने घटत्वे वा पर्याप्ता । घटपटोभयाभावीयप्रतियोगिता- वच्छेदकता तु घटत्वपटत्वोभयत्वरूपेषु त्रिष्वपि समं पर्याप्ता । अतोऽवच्छेदकतापर्याप्त्यनुयोगि त्रयम् । पर्याप्त्यनुयोगितावच्छेदकता तु
[[165]]
एतत्त्रितयानुगतं त्रित्वम्, त्रित्वावच्छिन्ने त्रयेऽवच्छेदकताया अविशेषेण वर्तमानत्वात् । अतश्चोभयाभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगिता- वच्छेदकधर्मो घटत्वपटत्वोभयत्वानुगतं त्रित्वम्, न तु घटत्वत्वम्, पटत्वत्वम्, उभयत्वत्वं वा, प्रतियोगितावच्छेदकतया अपि त्रिषु व्यासज्य वर्तमानत्वात् । ततश्च घटपटोभयाभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदक- त्रित्वावच्छिन्ने त्रयेऽवच्छेदकतायाः पर्याप्तिः । घटाभावीयप्रतियोगितावच्छेदकता- पर्याप्त्यनुयोगितावच्छेदकं तु घटत्वत्वमात्रम्, घटत्वगततद्व्यक्तित्वं वेति उभयोरभावयोर्वैलक्षण्यम् । एवञ्च प्रकृतेऽपि वह्न्यभाववह्निघटोभयाभावयोरपि वैलक्षण्यमिति, साध्याभावीयप्रतियोगितावच्छेदकतापर्याप्त्यनुयोगितावच्छेदक-
धर्मावच्छिन्नपर्याप्तावच्छेदकताकप्रतियोगिताकाभाव इत्यनेनोभयाभावो न स्वीकर्तुं शक्यः, किन्तु केवलवह्न्यभाव एवेति, तद्वान् ह्रदः, तदवृत्तित्वं धूमे वर्तत इति नाव्याप्तिः । तथा च साध्यतावच्छेदकसंवन्धावच्छिन्नसाध्यता- वच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्तावच्छेदकता- प्रतियोगिताकाभाववदवृत्तित्वं व्याप्तिरिति दिक् ॥
नन्वेवमपि ‘वह्निमान् धूमात्’ इत्यत्राव्याप्तिः । साध्यतावच्छेदकसंयोग- सम्बन्धावच्छिन्नसाध्यतावच्छेदकवह्नित्वधर्मावच्छिन्नप्रतियोगितानिरूपकाभावः ‘संयोगेन वह्निर्नास्ति’ इति प्रतीतिसिद्धाभावः । तद्वान् ह्रदादिरिव धूमावयवा अपि । धूमावयवेषु वह्नेरसत्त्वात् । अतः साध्याभाववान् धूमावयवः । तद्वृत्तित्वमेव धूमे हेतौ वर्तते, न त्ववृत्तित्वमित्यव्याप्तिरिति चेत्, न अवृत्तित्वप्रतियोगिभूतवृत्तितायां हेतुतावच्छेदकसंवन्धावच्छिन्नत्वस्यापि निवेशनीयत्वात् । तथा च संयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नप्रतियोगिता- निरूपकाभाववन्तो धूमावयवाः । तादृशधूमावयवनिरूपितहेतुतावच्छेदक- संयोगसम्बन्धावच्छिन्नवृत्तित्वाभावो धूमे वर्तत एव । धूमावयवेषु हि धूमः
[[20166]]
समवायसम्बन्धेनैव वर्तते, अवयवावयविनोः समवायात् । संयोगसम्बन्धेन तु न वर्तत एवेति संयोगसम्बन्धावच्छिन्नवृत्तित्वाभावो धूमे वर्तत इति नाव्याप्तिरिति । । नन्वेवमपि द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वात्’ इत्यादौ अव्याप्तिर्भवेदेव । तथाहि । सत्ताजातिर्द्रव्यगुणकर्मसु त्रिष्वेव वर्तते । गुणकर्मान्यत्वविशिष्टसत्ता तु द्रव्य एव स्यात् । गुणे कर्मणि च गुणकर्मान्यत्वरूपविशेषणस्यासम्भवेन गुणकर्मान्यत्वविशिष्टसत्ता गुणे कर्मणि च न स्यात्, किन्तु द्रव्य एव । तथा च यत्र गुणकर्मान्यत्वविशिष्टसत्ता तत्र द्रव्यत्वम्, यत्र च द्रव्यत्वं तत्र गुणकर्मान्यत्वविशिष्टसत्तेति समव्याप्त- स्सद्धेतुरयम् । अत्र साध्यतावच्छेदकं द्रव्यत्वम्, साध्यतावच्छेदकसम्बन्धञ्च समवायः । समवायसम्बन्धावच्छिन्न द्रव्यत्वत्वपर्याप्तावच्छेदकताकप्रतियोगिता- काभावो द्रव्यत्वाभावः । तद्वान् गुणः कर्म वा । तत्र गुणकर्मान्यत्वविशिष्टसत्ताया असम्भवात् तदवृत्तित्त्वं गुणकर्मान्यत्वविशिष्टसत्तायां हेतौ वर्तत इति समन्वयः कर्तव्यः । परन्तु विशिष्टशुद्धयोरनतिरेकात्, गुणकर्मान्यत्वविशिष्टसत्तायाः शुद्धसत्तायाश्चैकत्वेन साध्याभाववति गुणे सत्तायास्सत्त्वेन, यदि सत्तायां साध्याभाववद्वृत्तित्वमेव स्यात् न तु साध्याभाववदवृत्तित्वमित्यव्याप्तिरिति चेत्, न । अत्र केचित् - विशिष्टशुद्धयोरनतिरेके द्रव्यत्वाभाववति गुणे हेतोस्सत्त्वेन हेतोर्व्यभिचारित्वेन तस्यालक्ष्यत्वात्तत्र लक्षणासमन्वयस्य गुण- त्वात् । अतिरेके चाव्याप्तेरेवाप्रसक्तेर्यत्किञ्चिदेतदित्याहुः । अन् द्रव्यगुणकर्मसु विद्यमानायाः सत्ताया एकत्वेनाखण्डत्वात् किञ्चिद्विशेषण- योजनमात्रेण सखण्डत्वासम्भवात् विशिष्टरूपेण भेदेऽपि स्वरूपत ऐक्यमप्यनिवार्यमिति । लक्षणमपि साध्याभाववन्निरूपितहेतु- तावच्छेदकसंवन्धावच्छिन्न-वृत्तितानवच्छेदकधर्मवत्त्वं व्याप्तिरिति परिष्करणान्नाव्याप्तिः । एवञ्च प्रकृते साध्यतावच्छेदकेत्याद्यभाववान् गुणः ।‘आलोक’ व्याख्यासहितः
80 167
तन्निरूपितसमवायसम्बन्धावच्छिन्नवृत्तितायामवच्छेदकं सत्तात्वम् । अनवच्छेदकं तु गुणकर्मान्यत्वविशिष्टसत्तात्त्वम्, गुणे गुणान्यत्वरूपविशेषणाभावेन गुणः गुणकर्मान्यत्वविशिष्टसत्तावान्’ इति प्रतीतेरसम्भवात् ।
तथा च निष्कृष्टं लक्षणम् - साध्यतावच्छेदकसंवन्धावच्छिन्न- साध्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्नपर्याप्ता- वच्छेदकताकप्रतियोगिताकाभाववन्निरूपितहेतुतावच्छेदकसंवन्धा- वच्छिन्नवृत्तितानवच्छेदकधर्मवत्त्वं व्याप्तिः ॥ अधिकं त्वत्रोत्तर- ग्रन्थेभ्योऽवगन्तव्यम् ॥
ननु ‘इदं वाच्यम्, ज्ञेयत्वात्’ इत्यादिकेवलान्वयिस्थले साध्यस्य वाच्यत्वस्य सर्वत्र वर्तमानत्वात् तदभावाप्रसिद्ध्या अव्याप्तिरिति चेत्, न । टिप्पणी
*नन्वेवमपि ‘एतद्वृक्षः कपिसंयोगी, एतद्वृक्षत्वात्’ इत्यादौ एतद् वृक्षत्वाधिकरणे एतद्वृक्षे मूले कपिसंयोगाभावस्य सत्त्वात् हेतोः एतद्वृक्षत्वस्य साध्याभाववद्वृत्तित्वात् व्यभिचारित्वापत्तिः । अतः व्यभिचारिलक्षणे साध्याभावे प्रतियोगि वैयधिकरण्यं विशेषणं देयम् । अत एव व्याप्तिलक्षणेऽपि व्यभिचाराभावरूपत्वाद् व्याप्तेः प्रतियोगिव्यधिकरणसाध्याभाववदवृत्तित्वमेव लक्षणं वक्तव्यमिति चेत् -
अत्रेदं चिन्त्यताम् – कपेः प्रायो वृक्षाग्रेवर्तमानत्वेऽपि, ‘वृक्षे कपिरस्ति न वा ? ’ इति प्रश्ने ‘कपिरस्ति’ इत्येवोत्तरं वक्तव्यम् । कपेस्सत्त्वेऽपि, कपिसंयोगस्याव्याप्यवृत्तित्वात्, ‘मूले कपिसंयोगो नास्ति’ इत्येव प्रामाणिकं किलेति चेत्, ‘वृक्षेऽस्ति न वा’ इति प्रश्ने ‘मूले’ इत्यादि संयोज्योत्तरमपृष्टोत्तरमेव । भेदस्य व्याप्यवृत्तित्वम्, अभावस्त्वव्याप्यवृत्तिः इत्यादिकं तु कुकल्पनामात्रम् । प्रत्युत अत्यन्ताभावस्तु प्रतियोगिमत्यपि वर्तत इत्येव तत्त्वम् । अत एव ‘घटवत्यपि देशे घटात्यन्ताभावबुद्धिः कुतो नोत्पद्यते?’ इत्याशङ्कय, ‘घटाभावकालीनभूतलस्वरूपस्यैव सम्बन्धत्वान्न घटात्यन्ताभावबुद्धिः’ इत्याद्युत्तरं सङ्गच्छते। एवञ्च संयोगस्याव्याप्यवृत्तित्वेऽपि वृक्षे कपिसंयोगोऽस्ति, न वा ? इति प्रश्ने ‘अस्ति’
[[168]]
साध्यादिभेदेन व्याप्तेर्भेदात्, तत्स्थलानुसारेण लक्षणान्तरकरणात् अस्य लक्षणस्य केवलान्वयिव्यतिरिक्तस्थले निर्दुष्टत्वान्न परित्यागावश्यकतेति प्राचीनाः । इदानीमेव व्याप्तेरव्यभिचरितत्वं च सङ्गच्छते । अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् ॥
सर्वानुगता व्याप्तिस्तु हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगि-साध्य-सामानाधिकरण्यम् ।
‘वह्निमान् धूमात्’ इत्य्-आदौ - हेतुः धूमः ।
तद्-अधिकरणं पर्वतादिः ।
तद्-वृत्तिर् अत्यन्ताभावः - घटाद्यभावः । तत्प्रतियोगी घटः । अप्रतियोगी साध्यो वह्निः । तत्सामानाधिकरण्यं हेतौ धूमे वर्तत इति लक्षणसमन्वयः । ‘धूमवान् वह्नेः’ इत्यादौ व्यभिचारिणि, हेतुर्वह्निः । तदधिकरणम् अयोगोलकमपि । तद्वृत्तिर्धूमाभावोऽपि । तत्प्रतियोगी साध्यो धूमः, न त्वप्रतियोगीति नातिव्याप्तिः । इदं वाच्यम् ज्ञेयत्वादित्यादौ । हेतुः ज्ञेयत्वम् । तदधिकरणं घटादिः । तद्वृत्तिर्वाच्यत्वाभावो न भवति, वाच्यत्वस्य सत्त्वात्, किन्तु पटत्वाद्यभावः । तत्प्रतियोगी पटत्वादिः । अप्रतियोगि साध्यं वाच्यत्वम् । तत्सामानाधिकरण्यं हेतौ ज्ञेयत्वे वर्तत इति लक्षणसमन्वयः। परिष्कारादिकं कुशलमतिभिरभ्यूह्यम् ॥
टिप्पणी
[[1]]
इत्येवोत्तरं प्रमाणिकम् । अन्यथा गृहे चात्र वर्तमाने सति ‘चैत्रो गृहे न वर्तते, किन्तु गृहैकदेशे क्वचित्कोणे वर्तते’ इत्येवोत्तरं वक्तव्यं भवेत् । न हि चैत्रेण गृहे सर्वत्र व्याप्य स्थातुं शक्यम् । अतो ‘गृहे वर्तते, न वा’ इति प्रश्ने ‘वर्तते’ इत्येव प्रामाणिकम् ऋजूत्तरं वक्तव्यम् । अतश्च प्रतियोगिवैयधिकरण्यनिवेशादिकम् ऋजुमतीनां दृष्ट्या न देयमेवा अत एव च भ्रमलक्षणे ‘तदभाववति’ इत्यत्र ‘प्रतियोगिव्यधिकरणतदभाववति’ इत्यादिपरिष्करणमपि दत्तोत्तरम् । वस्तुतस्तु अभावपदप्रयोगोऽपि शास्त्र एव, न तु लोके। लोके त ‘नास्ति’ इत्येव प्रयोगः । अधिकमभावविचारे द्रष्टव्यम् ॥
तु
[[0169]]
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ।
अनुमानं द्विविधम् । स्वार्थं परार्थं चेति ।
स्वार्थं स्वानुमितिहेतुः । तथा हि- स्वयमेव भूयोदर्शनेन यत्र धूमस्तत्राग्निरिति महानसादौ धूमे व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्राग्निरिति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमान् इति अनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् ।
आलोक- व्याख्या
परामर्शघटकस्य व्याप्तेः स्वरूपमभिधाय तद्घटकस्य पक्षधर्मत्वस्य स्वरूपमाह - व्याप्यस्येत्यादि । व्याप्यः = व्याप्त्याश्रयो हेतुः । तस्य पक्षे वर्तमानत्वमेव पक्षधर्मतापदार्थः । हेतोः पक्षवृत्तित्वज्ञानं पक्षधर्मताज्ञानमित्युच्यते । पक्षनिरूपितं वृत्तित्त्वम् = पक्षवृत्तित्त्वम् । तच हेतुनिष्ठम् । ‘पर्वतो धूमवान्’ इति ज्ञानं पक्षधर्मताज्ञानम् । अत्र हि पर्वतो विशेष्यः, धूमो विशेषणम् । विशेषणम् = धर्मः । विशेष्यो = धर्मी । धूमपर्वतयोर्विशेषणविशेष्यभावे पर्वतनिरूपितं धर्मत्वम् = वृत्तित्वम् विशेषणत्वं धूमे वर्तते । ‘यत्र धूमः, तत्र वह्निः’ इति व्याप्तिः । तत्र धूमो व्याप्यः, व्यापको वह्निः । वह्निनिरूपिता व्याप्तिर्धूमे वर्तते । अतो व्याप्यो धूमः । तस्य पर्वतवृत्तित्वज्ञानं पक्षधर्मताज्ञानमित्युच्यते । एवञ्च व्याप्तिविशिष्टस्य हेतोः पक्षधर्मताज्ञानं परामर्श इति परामर्शस्वरूपमुक्तं भवति ॥
अनुमानं विभजते - अनुमानं द्विविधमिति । स्वार्थम्, परार्थमिति सञ्ज्ञा । सैव तयोर्वैलक्षण्यं वक्तीत्यभिप्रायः । एतदुपपादयति - तथाहीत्यादिना । प्रथमं महानसादौ वह्निधूमयोर्व्याप्तिग्रहणम् । अनन्तरं कदाचिद्यदा पर्वतादौ
[[0170]]
यत्तु स्वयमेव धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुङ्कतत्परार्थानुमानम् । यथा पर्वतो वह्निमान् धूमवत्त्वात्, यो यो धूमवान् सोऽग्निमान् यथा महानसः, तथा चायम्, तस्मात्तथा इति । अनेन वाक्येन प्रतिपादिताल्लिङ्गात् परोऽप्यग्निं प्रतिपद्यते। प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वह्निमान् इति प्रतिज्ञा । धूमवत्त्वात् इति हेतुः । यो यो धूमवान् सोऽग्निमान् यथा महानस इत्युदाहरणम् । तथा चायं इत्युपनयः । तस्मात्तथेति निगमनम् ।
धूमं पश्यति, तदा ‘धूमवान् पर्वतः’ इति ज्ञानं जायते । इदमेव पक्षधर्मताज्ञानमित्युच्यते । ततः पूर्वं महानसादौ गृहीतां व्याप्तिं स्मरति । इदं व्याप्तिस्मरणमेवानुमानमिति प्राचीनाः । ततस्तादृशव्याप्तिविशिष्टस्य धूमादेः पर्वतवृत्तित्वज्ञानात् ‘वह्निव्याप्यधूमवान् पर्वतः’ इत्याकारकं ज्ञानं जायते । अयमेव ‘परामर्शः’ अथवा ‘लिङ्गपरामर्शः । इत्युच्यते । इदमेव अनुमानपदवाच्यमिति नवीनाः । ततो व्याप्येन धूमेन व्यापकस्य वह्न्यादेर्निश्चयः पर्वते जायते ‘पर्वतो वह्निमान्’ इति । इयमेवानुमितिरित्युच्यते । इदमेव ‘स्वार्थानुमानम्’ इत्युच्यते । ‘अनुमीयत अनेनेत्यनुमानम्’ इति करणार्थकप्रत्यये तु ज्ञानकरणमर्थः । अस्यानुमानस्य स्वानुभवरूपत्वात् ‘स्वार्थानुमानम्’ इति
व्यवहारः ॥
परार्थानुमानं निरूपयति यत्त्वित्यादिना । कश्चित् स्वानुभवक्रमेण परस्य पुरुषस्यापि तादृशानुमित्युत्पिपादयिषया वाक्यानि प्रयुङ्क्ते । तानि वाक्यानि श्रृण्वन् परोऽपि तत्फलतया पदार्थनिर्णयं करोति । अत्र तादृशवाक्यप्रयोग एव मूलम् । अतस्तानि वाक्यानि ‘परार्थानुमानम्’ इत्युच्यन्ते । अत्रानुमानपदं
OF 171
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् । तस्माल्लिङ्गपरामर्शोऽनुमानम् ।
करणार्थकम् । तानि च वाक्यानि ‘न्यायः’ इत्युच्यन्ते । तानि च पञ्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनसञ्ज्ञकानि ‘न्यायावयवाः’ इत्यप्युच्यन्ते । ‘पर्वतो वह्निमान्’ इति प्रतिज्ञा । ‘धूमात्’ इति हेतुः । ‘यो धूमवान् स वह्निमान्, यथा महानसम्’ इति व्याप्तिप्रतिपादकं वाक्यम् उदाहरणम् । ‘तथा चायम्’ (‘वह्निव्याप्यधूमवांश्चायम्’) इति परामर्शानुकरणवाक्यम् उपनयः । ‘तस्मात्तथा’ इति चेत्- ‘पर्वतस्य वह्निव्याप्यधूमवत्त्वात् पर्वतो वह्निमान्’ इत्युपसंहाररूपं वाक्यं निगमनम् । एतत्पञ्चावयववाक्यसमुदाय एव न्यायः इत्युच्यते । प्रतिज्ञादयः प्रत्येकम् ‘अवयवाः’ अथवा ‘न्यायावयवाः ’ इत्युच्यन्ते । एतत्पञ्चावयववाक्यश्रवणात् श्रोतुर्मानसः ‘वह्निव्याप्यधूमवान् पर्वतः’ इति परामर्शो जायते । ततः ‘पर्वतो वह्निमान्’ इति निश्चयऽनुमितिरूपो जायते । परस्यानुमिति प्रति हेतुत्वात् एतानि पञ्चवाक्यानि ‘परार्थानुमानम्’ इत्युच्यन्ते । विशिष्य वादिप्रतिवादिनोः परस्परमभिमतार्थस्य प्रतिपादनाय वादरूपे जल्परूपे वा वाक्यार्थेऽस्य परमार्थानुमानस्य प्रधानोपयोगः ॥
स्वार्थानुमितीति । स्वार्थं सम्पन्ना अनुमितिः स्वार्थानुमितिः । परार्थं सम्पन्ना अनुमितिः परार्थानुमितिः । उभयोरपि लिङ्गपरामर्श एवानुमित्यव्यवहितपूर्वक्षणे वर्तत इति लिङ्गपरामर्श एवानुमितिकरण- मनुमानपदवाच्यमिति नवीनाः । पञ्चावयववाक्यानां परार्थानुमानपदवाच्यत्वं तु अनुमितिहेतुभूतमानसलिङ्गमर्शजनकत्वात्पारिभाषिकम् । पूर्वमेव करणलक्षणेऽयमर्थो विचारितो द्रष्टव्यः ॥
अन्वयव्याप्तिः ‘साध्याभाववदवृत्तित्वम्’ इति पूर्वमेवोक्तम् ।
[[172]]
व्यतिरेकव्याप्तिस्तु ‘साध्याभावव्यापकीभूताभावप्रतियोगित्वम्’ । ‘वह्निमान् धूमात्’ इत्यादौ साध्यः वह्निः । तदभावः = वह्न्यभावः । तद्व्यापकीभूतोऽभावः = धूमाभावः । तत्प्रतियोगित्वं धूमे वर्तत इति लक्षणसमन्वयः । ‘यत्र साध्याभावः = वह्न्यभावः, तत्र हेत्वभावः = धूमाभावः, यथा हृदः’ इति व्यतिरेकव्याप्त्यभिलापकः शब्दः । तथा च हेतुसाध्ययोः व्याप्तिरन्वयव्याप्तिः, साध्याभावहेत्वभावयोर्व्याप्तिः व्यतिरेकव्याप्तिरिति निष्कर्षः ॥ लिङ्गम् गमको हेतुः । तत् लिङ्गम् त्रिविधम् । व्याप्तिविशिष्टं हि धूमादिकं वह्न्यादिगमकम्, न केवलं धूमादीति सूचनाय हेतुपदं विहाय लिङ्गपदमुक्तम् । हेतुविशेषणस्य व्याप्तेः त्रिविधत्वात् लिङ्गं त्रिविधमित्युक्तम् । कुत्रचित् हेतावन्वयव्याप्तिः, व्यतिरेकव्याप्तिश्चेति द्वयमपि विशेषणतया भासते । अतस्तादृशं लिङ्गमन्वयव्यतिरेकीत्युच्यते । यत्र हेतावन्वयव्याप्तिमात्रं वर्तते तल्लिङ्गं केवलान्वयीत्युच्यते । यत्र हेतौ व्यतिरेकव्याप्तिमात्रं विशेषणतया भासते तत् लिङ्गं केवलव्यतिरेकि । दृष्टान्तः ‘पर्वतो वह्निमान् धूमात्’ इत्यत्र ‘यत्र धूमः, तत्र वह्निः यथा महानसं इत्यन्वयव्याप्तिः । ‘यत्र वह्निर्नास्ति, तत्र धूमोऽपि नास्ति, यथा महाह्रद’ इति व्यतिरेकव्याप्तिः । एवं धूमे लिङ्गे द्वयमप्यस्तीति धूमोऽन्वयव्यतिरेकिलिङ्गम् । इदं स्वार्थानुमाने । परार्थानुमाने त्वन्वयव्याप्तिक्रमः ‘पर्वतो वह्निमान्’ इति प्रतिज्ञा । ‘धूमात्’ इति हेतुः । ‘यत्र धूमस्तत्र वह्निः, यथा महानसम्’ इत्युदाहरणम् । ‘वह्निव्याप्यधूमवांश्चायम्’ इत्युपनयः । वह्निव्याप्यधूमवत्त्वात् पर्वतो वह्निमान् इति निगमनम् । परार्थानुमाने व्यतिरेकव्याप्तिक्रमः ‘पर्वतो वह्निमान्’ इति प्रतिज्ञा । ‘धूमात्’ इति हेतुः । यो न वह्निमान् स न धूमवान्, यथा महाह्रदः’ इत्युदाहरणम्। ‘वह्न्यभावव्यापकीभूतस्य धूमाभावस्याभाववानयम्’ इति वा, ‘वह्न्यभावव्याप- कधूमाभाववान्नायम्’ इति वोपनयः । ‘वह्न्यभावव्यापकधूमाभावस्याभावात्,
[[173]]
लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवल- व्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि। यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निः यथा महानसः इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृदः इति व्यतिरेकव्याप्तिः । अन्वयमात्रव्याप्तिकं केवलान्वयि। यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् इति । अत्र प्रमेयत्वाभिधेयत्वयो- र्व्यतिरेकव्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम् । न चेयं तथा । तस्मान्न तथेति ।
न वह्न्यभाववानयम्’ इति निगमनम् । ‘न वह्न्यभाववानयम्’ इति चेत् वह्निमत्त्व एव पर्यवसानम्, वह्न्यभावाभावस्य वह्निरूपत्वात् । एवमेव सर्वत्र अन्वयव्यतिरेकव्याप्त्युपपादनं द्रष्टव्यम् ॥
‘घटोऽभिधेयः, प्रमेयत्वात्’ इत्यत्र यत्र यत्र प्रमेयत्वम्, तत्र तत्राभिधेयत्वम्’ इति स्वार्थानुमानेऽन्वयव्याप्तिः । अभिधेयत्वप्रमेयत्वयोः केवलान्वयित्वेनाभावाप्रसिद्ध्या व्यतिरेकव्याप्तिर्नास्ति । परार्थानुमाने ‘घटः अभिधेयः’ इति प्रतिज्ञा ‘प्रमेयत्वात्’ इति हेतुः । प्रमेयत्वं यत्र तत्राभिधेयत्वम्, यथा पटे’ इत्युपनयः । ‘अभिधेयत्वव्याप्यप्रमेयत्ववांश्चायं घटः’ इत्युपनयः । ‘अभिधेयत्वव्याप्यप्रमेयत्ववत्त्वात् अभिधेयत्ववांश्चायं घटः’ इति निगमनम् ॥
केवलव्यतिरेकिणं दर्शयति - यथा पृथिवीत्यादि । पृथिव्या गन्धवत्त्वं लक्षणमुक्तम् । लक्षणं चेतरवैलक्षण्यसाधकम् । पृथिवी इतरेभ्यः जलादिभ्यो भिद्यते । अतः सा इतरेभ्यो भिन्ना = विलक्षणा भवति ।
[[174]]
अत्र यद्गन्धवत्तदितरभिन्नम् इत्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ।
कुतः ? गन्धवत्त्वात् इति हेतुः । तथा च ‘पृथिवी जलादिभिन्ना, गन्धवत्त्वात्’ इति प्रयोगः कर्तव्यः । अत्र ‘यत्र यत्र गन्धवत्त्वम्, तत्र जलादिभेदः’ इत्यन्वयव्याप्तिर्न सम्भवति । गन्धवत्याः पृथिव्याः पक्षत्वात् । अन्यत्र कुत्रापि गन्धाभावात् हेतुसाध्ययोर्व्याप्तिः अन्वयव्याप्तिर्न सम्भवति ।
किन्तु ‘यत्र साध्याभावः, तत्र हेत्वभावः’ इति व्यतिरेकव्याप्तिरेव भवति । अत्र साध्यो जलादिभेदः । साध्याभावः = जलादिभेदाभावः । हेतुः गन्धवत्त्वम् । हेत्वभावः = गन्धवत्त्वाभावः । यत्र जलादिभेदाभावः, जलादौ
। वर्तते, तत्र गन्धवत्त्वाभावोऽपि वर्तत इति व्यतिरेकव्याप्तिः ॥
व्यतिरेकव्याप्त्यनुगुणान् पञ्चावयवान् प्रदर्शयति - यथेत्यादि । ‘पृथिवी जलादिभिन्ना’ इति प्रतिज्ञा । ‘गन्धवत्त्वात्’ इति हेतुः । ‘यत्र जलादिभेदाभावः, तत्र गन्धवत्त्वाभावः, यथा जलादिकम्’ इत्युदाहरणम् । ’ न चेयं पृथिवी जलादिभेदाभाव व्यापकगन्धाभाववती, अपि तु गन्धवती’ इत्युपनयः । ‘जलादिभेदाभावव्यापकगन्धाभाव-स्याभावात् जलादिभेदाभाववती न, किन्तु जलादिभेदवत्येव’ इति निगमनम् ॥
ननु कुतोऽन्वयव्याप्तिर्नास्ति ? यत्र गन्धवत्त्वम्, तत्र पृथिव्यां जलादिभेदो वर्तत एव किलेत्यत्राह - अत्रेत्यादि । पृथिवीमात्रस्य - सर्वपृथिव्याः तथा च कृत्स्नपृथिव्याः पक्षत्वात्, सपक्षस्याभावात् अन्वयदृष्टान्तो नास्ति, ‘पर्वतो वह्निमान् धूमात्’ इत्यादौ महानसादिवत् । अतोऽन्वयव्याप्तेरभावात् केवलव्यतिरेकि ॥
‘पक्षधर्मता’ इत्यत्र पक्षो नाम कः ? इति प्रश्ने, पक्षस्य वक्तव्यत्वात्,
तत्प्रसङ्गादन्वयव्याप्तिव्यतिरेकव्याप्त्युपयोगितया सपक्षविपक्षयोरप्यवश्यं
[[175]]
सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ।
ज्ञेयत्वात्तेषां लक्षणान्याह - सन्दिग्धेत्यादि । सन्दिग्धं च तत् साध्यं च सन्दिग्धसाध्यम् । सन्दिग्धसाध्यम् अस्मिन्नस्तीति सन्दिग्धसाध्यवान् इति विग्रहः । सन्दिग्धमित्यत्र सम्पूर्वकदिहधातोः संशयोऽर्थः । क्तप्रत्ययस्य विषयतावानर्थः । प्रकृते प्रकारतावान् इत्यर्थः । प्रकारतावतञ्चाभेदसम्बन्धेन साध्येऽन्वयः । तथा च संशयनिरूपितप्रकारतावदभिन्नसाध्य- निष्ठाधेयतानिरूपिताधिकरणतावान् पक्ष इत्यर्थः । साध्यनिष्ठा- धेयतानिरूपिताधिकरणत्वं प्रकृते सन्देहविशेष्यत्वे पर्यवस्यति । तथा च साध्यनिष्ठप्रकारतानिरूपकसंशयनिरूपितविशेष्यताश्रयः पक्ष इति शाब्दबोधः । साध्यप्रकारकसन्देहविशेष्यत्वं पक्षत्वमिति लक्षणम् । वह्निमपेक्षमाण आरण्यकः कश्चित् ‘पार्श्वस्थः पर्वतो वह्निमान् न वा’ इति सन्देग्धि । यदा तत्र धूमं पश्यति, तदा ‘पर्वतो धूमवान्’ इति पक्षधर्मताज्ञानं जायते । अनन्तरं व्याप्तिं स्मरति । अनन्तरं वह्निव्याप्यधूमवानयं पर्वतः’ इति परामर्शः । ततः ‘पर्वतो वह्निमान्’ इत्यनुमितिः । अत्र प्रथमं ‘पर्वतो वह्निमान्, न वा’ इति संशयस्य जननात्, तत्र संशये साध्यस्य वह्नेः प्रकारत्वात्, पर्वतस्य च विशेष्यत्वात् साध्यप्रकारकसन्देहविशेष्यत्वादुक्तानुमितौ पर्वतः पक्ष इत्युच्यते ॥
नव्यास्तु अपवरके स्थितस्य घनगर्जनश्रवणे सति ‘गगनं मेघवत्, घनशव्दवत्त्वात्’ इत्यनुमानं हठाज्जायते । अत्र पूर्वं ‘गगनं मेघवन्न वा ? ’ इति संशयस्याभावात् अनुमितिर्न स्यात् । अतः साध्यनिश्चयाभावमात्रं पक्षता । ‘साध्यसंशयः पक्षता’ इति तूत्सर्गमात्रम् । पूर्वं निश्चये सति अनुमितेरप्रसरात्, साध्यनिञ्चस्यानुमितिं प्रति प्रतिबन्धकत्वात्, प्रतिबन्धकाभावस्य कार्यसामान्यं प्रति कारणत्वात् साध्यनिश्चयाभाव एव पक्षता । यत्र पूर्वं साध्यनिश्चयो नास्ति, स पक्ष इत्युच्यते । साध्यनिश्चय एव साध्यसिद्धिरित्युच्यत
[[176]]
निश्चितसाध्यवान् सपक्षः । यथा तत्रैव महानसः । निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाह्रदः ।
आलोक- व्याख्या
इति । साध्यनिश्चयाभाव एव - ‘सिद्ध्यभावः पक्षता’ इति सङ्क्षेपेणोच्यते । परन्त्वत्राप्यस्ति केशः । उत्कटेच्छेतरसर्वकार्यं प्रति प्रतिबन्धिकेति सर्वसम्मतम्। सर्वकार्यं प्रतीति चेत् प्रतिबन्धकं प्रत्यपीच्छा प्रतिबन्धिका । एवञ्च सिद्धिरूपप्रतिबन्धकसत्त्वेऽपि ‘पर्वते वह्निमनुमिनुयाम् = अनुमानेन साधयेयम्’ इतीच्छायां सत्यां तु पर्वते वह्न्यनुमितिर्भवत्येव । तदा सिद्ध्यभावरूपपक्षताया अभावेऽप्यनुमितिः । कथमिति चेत्, इच्छाविरहकाल एव सिद्धिः सिषाधयिषाविरहविशिष्टसिद्धिरेव प्रतिबन्धिका । साधयितुमिच्छा सिषाधयिषा प्रकृते अनुमितीच्छा । सिषाधयिषाविरहविशिष्टसिद्धेः प्रतिबन्धकत्वे, प्रतिबन्धकाभावस्य कार्यसामान्यकारणत्वात् सिषाधयिषाविरहविशिष्ट- सिद्ध्यभावोऽनुमितिं प्रति कारणम् । स एव पक्षतेत्युच्यते । घनगर्जितेन मेघानुमानस्थलेऽपि एतादृशसिद्ध्यभावरूपपक्षताऽस्त्येव । यत्र साध्यसंशयानन्तरमनुमितिः, तत्रापि पूर्वं साध्यसंशयस्यैव सत्त्वेन, सिद्धेरभावात् उक्तसिद्ध्यभावरूपपक्षताऽक्षतैवेति कुत्रापि नानुपपत्तिः ॥*
विस्तारः (द्रष्टुं नोद्यम्)
टिप्पणी ॥
* साध्य-निश्चयः अनुमितिं प्रति प्रतिबन्धक इत्य् उक्तम् ।
साध्य-निश्चयो द्वि-विधः -
सामानाधिकरण्येन, अवच्छेदकावच्छेदेन च।
पुरो-वृत्ति–पर्वत-मात्रे वह्नि-साधने
सामानाधिकरण्येन साध्य-निश्चयो भवति ।
“धूमवान् पर्वतः सर्वोऽपि वह्निमान् भवेद् एवे"ति साधने
पर्वतत्वावच्छेदेन वह्नि-साधनात्,
इयम् अवच्छेदकावच्छेदेनानुमितिर् इत्य् उच्यते । +++(5)+++
‘कुसुमं पृथिवी, गन्धवत्त्वात्’
इत्य्-आदिर् अप्य् अवच्छेदकावच्छेदेनानुमितिः ।
एवं सिद्धिर् अपि
अवच्छेदकावच्छेदेन सिद्धिः,
सामानाधिकरण्येन सिद्धिर्
इति द्वि-विधा ।
पक्षतावच्छेदकावच्छेदेन सिद्धिर् एव
अवच्छेदकावच्छेदेन सिद्धिर् इत्य् उच्यते ।
पक्षतावच्छेद-विशिष्टे यत्र कुत्रचित् सिद्धिः,
पक्षतावच्छेदक-सामानाधिकरण्येन साध्य-सिद्धाव् अपि
पक्षताऽवच्छेदकावच्छेदेनानुमितेर् अविरोधात्,
+++(तत्र)+++ सामानाधिकरण्येन साध्यसिद्धिः =
‘पुरो-वर्ति-पर्वतो वह्निमान्’ इति सिद्धिः
‘पुरो-वर्ति-पर्वतो वह्निमान्’ इत्यनुमितिं प्रत्य् एव प्रतिबन्धिका +++(सिद्ध-साधनेन)+++।
ततश् चोभय-विध-सिद्धिः
सामानाधिकरण्येनानुमितिं प्रति प्रतिबन्धिका +++(सिद्ध-साधनेन)+++।
अवच्छेदकावच्छेदेनानुमितिं प्रति, अवच्छेदकावच्छेदेन साध्य-सिद्धिर् एव प्रतिबन्धिका +++(सिद्ध-साधनेन)+++।
एवं ‘पर्वतो धूमवान्’ इति पक्षधर्मताज्ञानानन्तरमेव व्याप्तिस्मरणादिक्रमेणानुमितिर् जायते । तदा पर्वतप्रत्यक्षहेतोः पर्वतचक्षुस्संयोगस्यापि सत्त्वेन, पर्वतप्रत्यक्षं जायेत वा, वह्न्यनुमितिर्जायेत वा ? इति प्रश्ने वह्न्यनुमितिरेव जायते, न तु पर्वत प्रत्यक्षमित्येवानुभवः । अतः भिन्ने विषये अनुमितिसामग्र्येव प्रबला, न तु प्रत्यक्ष- सामग्री । समाने विषये तु प्रत्यक्षसामग्र्येव प्रबला । एवमनङ्गीकारे कुत्राप्यनुमितिरेव न स्यात् । सर्वत्र चक्षुस्सन्निकर्षरूपसामग्र्यास्सत्त्वेन अन्ततः त्वक्संयोगरूपसामग्र्याः भूप्रदेशादिप्रत्यक्षसामग्र्यास्सत्त्वेन, कुत्रापि अन्यज्ञानमेव न स्यात् । कुत्रापि ज्ञानद्वयं युगपन्न सम्भवति । ‘युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम्’ इति हि सूत्रम् । बाह्येन्द्रियापेक्षया मनसः प्रबलत्वात्, येनेन्द्रियेण मनस्संयुक्तं भवति तदिन्द्रियप्रत्यक्षमेव जायेत । इदमेव मनसोऽवधानमित्युच्यते। ‘अवहितमना नासम्, अतो न ज्ञातम्’ इत्याद्यनुभवदर्शनात् अत एव पुण्याहादिकर्मप्रयोगकाले “स्वामिनोऽवहितमनसो भवत” “अवहितमनसः स्मः” इति प्रश्नप्रतिवचनादिकं दृश्यते। अतस्समाने विषये प्रत्यक्षसामग्री प्रबला, भिन्ने विषये तु परोक्षसामग्री प्रबला इति नियम आवश्यकः । अयं नियमः शाब्दबोधस्थलेऽपि
[[14]]
निश्चित टिप्पणी
समानः। अत एव ‘परोक्ष’ पदम् । परं तु इच्छायाः सर्वकार्यं प्रति उत्तेजकत्वात्, तत्तदिच्छायाःइतरसर्वकार्यं प्रति प्रतिबन्धकत्वात् इतरेच्छाविरहः सर्वत्रावश्यकः । एतत्प्रतिबन्धकत्वमेव ‘कामिनीजिज्ञासादिवत्’ स्वातन्त्र्येण प्रतिबन्धकत्वमुच्यते । अत एव तद्वत्ताबुद्धिं प्रति तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयः, ज्ञानविशिष्टज्ञानत्वावच्छिन्ना स्वातन्त्र्येणान्यविषयिणी इच्छा च इति ज्ञानस्थले प्रतिबन्धकत्वं चतुर्विधम्; मणिमन्त्रौषधादीनां तु वस्तूत्पत्तिस्थले प्रतिबन्धकत्वमिति विशेषोऽवगन्तव्यः । ज्ञानमपि हि किञ्चिद्वस्तु, अतो ज्ञानोत्पत्तिं प्रत्यपि एषां प्रतिबन्धकत्वमावश्यकमित्येतत्तु उत्सर्गरूपो वर्तेतैव । अत एव प्राचीने काले जल्परूपकथासु जयपराजयप्रधानासु मन्त्रबलेन वाग्बन्धादिकथाः श्रूयन्ते स्म । अयमंशः मुकुन्दमालास्तोत्रेऽति प्राचीने ‘भक्तापायभुजङ्गगारुडमणिः ’ ‘जिह्वे! श्रीकृष्णमन्त्रम्’ ‘व्यामोहप्रशमौषधम्–श्रीकृष्णादिव्यौषधम्’ इत्यादि दृश्यते। जैनबौद्धादयः मन्त्रादिसिद्धिबलात् वैदिकान् वादे जित्वा स्वमतप्रचारं कुर्वन्त आसन्; आल्वार् (विष्णुभक्ताः) शिवभक्ताश्चावतीर्य तान् दैवबलात् जित्वा पुनः वैदिकमतं स्थापयामासुः इत्यादिकं (क्रैस्त पञ्चमशताब्देरारभ्याष्टमशताब्दि पर्यन्तकाले) चरित्रं दृश्यत इत्यादिकं ‘सत्यसिद्धौ’ विस्तरेण प्रतिपादितम् ॥
पक्षलक्षणानन्तरं सुगमं सपक्षादिलक्षणमिति, तदाह - निश्चितेत्यादि ।
[[177]]
निश्चितसाध्यवानित्यादिकं पूर्ववदेव ज्ञेयम् । तथा च साध्यप्रकारक- निश्चयविशेष्यत्वं सपक्षत्वम् । एवमेव साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षस्य लक्षणमिति स्पष्टम्। ‘वह्निमान् धूमात्’ इत्यत्र पर्वतः पक्षः, महानसादिः सपक्षः, महाह्रदादिर्विपक्षः ॥
टिप्पणी
[[178]]
एवं अनुमितिः साङ्गा निरूपिता ।
अनुमितिर् यथार्थानुभव-विशेषः ।
तस्या हेतुः व्याप्ति-ज्ञानम्,
व्याप्ति-विशिष्ट–पक्ष-धर्मता-ज्ञान-रूप-परामर्शो वा ।
तत्र
व्याप्तिर् नाम का ?
पक्षत्वं नाम किम् ?
स-पक्षत्वम्, वि-पक्षत्वम् च किम् ?
इत्य्-आदिकं सर्वं निरूपितम् ।
प्रत्यक्षे प्रमा-भ्रम-विभागो यथा
तथा ऽनुमिताव् अपि प्रमा-भ्रम-विभागो वर्तते ।
प्रत्यक्षे तत्-कारणानाम् इन्द्रियादीनां दोषाद्
भ्रमो भवति ।
तथैवानुमितौ तद्-धेतु-भूत–व्याप्ति–पक्ष-धर्मतादि- वैकल्य-रूप-दोषाद्
भ्रमो भवति ।
व्याप्ति–पक्ष-धर्मतादि-विशिष्टत्वं सद्-धेतूनां लक्षणं चेत्,
व्याप्ति–पक्ष-धर्मताद्य्-अन्य-तम–शून्यत्वं दुष्ट-हेतूनां स्वरूपम् ।
[[179]]
सव्यभिचार-विरुद्ध–सत्-प्रतिपक्षासिद्ध-बाधिताः पञ्च हेत्वाभासाः ।
यथा ‘पर्वतो वह्निमान्, धूमात्’ इत्यत्र धूमः सद्-धेतुः,
तथा ‘पर्वतो धूमवान् वह्नेः’ इत्यत्र
वह्निर् दुष्टो हेतुः ।
‘यत्र धूमस् तत्र वह्निः’
इति वह्नि-धूमयोर् नियतं साहचर्यं वर्तते ।
धूम-वह्नयोस् तु न तथा साहचर्यं नियतम्,
तप्तायोगोलके वह्नेस् सत्त्वेऽपि
धूमस्यादर्शनात् ।
एवम् अन्येऽपि हेतु-दोषास् सन्ति ।
अतस् सद्धेतु-निरूपणानन्तरम् अ-सद्-धेतवो ऽप्य् अवश्यं निरूपयितव्याः ।
असद्धेतव एव हेत्वाभासा इत्य् उच्यन्ते ॥
[[7719]]
तान् सङ्कलय्य विभज्य प्रदर्शयति - स-व्यभिचारेत्यादि ।
हेतुवद् आभासन्त इति हेत्वाभासा
इति हेत्व्-आभास-पदम् अत्र दुष्ट-हेतु-परम्,
यतः स-व्यभिचारादि-पदं दोष-विशिष्ट-परम् ।
‘हेतोराभासाः’ इति व्युत्पत्त्या तु हेत्व्-आभास-पदं हेतु-दोष-परम् ॥
व्याप्ति-पक्ष-धर्मताद्य्-अन्यतम-शून्यत्वं
दुष्ट-हेतूनां लक्षणम् ।
निष्कृष्टं लक्षणं तु—
अनुमिति–तत्-करणान्यतर-प्रतिबन्धक–
यथार्थज्ञान-विषयत्वम् +++(वक्ष्यमाण-रीत्या)+++।
‘ह्रदो वह्निमान्’ इति बाध-स्थले
अनुमिति–तत्-करणान्यतर-प्रतिबन्धकं यत् यथार्थ-ज्ञानम् इति चेत् ?
‘वह्न्य्–अ-भाववान् ह्रदः’ इत्य्-आकारकं ज्ञानम् ।
तद्वत्ता-बुद्धिं प्रति
तद्-अभाववत्ता-निश्चयस्य प्रतिबन्धकत्वात्
‘ह्रदो वह्निमान्’ इत्य् अनुमितिं प्रति
‘ह्रदः वह्न्य्-अभाववान्’ इति निश्चयस्य प्रतिबन्धकत्वम् ।
तच् च यथार्थज्ञानम्।
तद्-विषयत्वं वह्न्य्-अ-भाववद्-ध्रदे वर्तत
इति वह्न्य्-अ-भाववद्-ध्रदो बाधः ।
तादृश-बाधितार्थ-साधकतया
‘धूमात्’ इति हेतोः प्रयोगात्
हेतुस् तत्र बाधित इत्य् उच्यते । ‘धूमवान् वह्नेः’ इत्यत्र तु साध्यो धूमः । तदभाववान् तप्तायः पिण्डः, तद्वृत्तित्वं हेतौ वह्नौ वर्तत इत्ययं हेतुर्व्यभिचारीत्युच्यते, एतज्ज्ञानं च व्याप्तिज्ञानं प्रत्येव प्रतिबन्धकम् । ‘साध्याभाववदवृत्तिर्हेतुः’ इति व्याप्तिज्ञानं प्रति प्रतिबन्धकम्, न तु अनुमितिं प्रति प्रतिबन्धकम् । तदर्थं लक्षणे तत्करणप्रतिबन्धकत्वनिवेशः । ‘पर्वतो वह्निमान् धूमात्’ इत्यादावपि ‘वह्न्यभाववद्वृत्तिर्धूमः’ इत्याकारकभ्रमात्मकज्ञाने जाते, व्याप्तेः प्रतिबन्धात्,
[[180]]
साधारणा-
सव्यभिचारोऽनैकान्तिकः । स त्रिविधः साधारणानुपसंहारिभेदात् । तत्र साध्याभाववद्वृत्तिः साधारणः । यथा पर्वतो वह्निमान् प्रमेयत्वात् । अत्र प्रमेयत्वस्य वह्न्यभाववति हृदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः । यथा शब्दो नित्यः शब्दत्वात् । अत्र शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्यावृत्तं शब्दमात्रवृत्ति ।
अनुमितिकरणप्रतिबन्धकत्वं जातमिति, भ्रमात्मकज्ञानमादाय हेतोर्दुष्टत्वा- पत्तिरित्यतो यथार्थपदं ज्ञाने विशेषणम् । ‘वह्न्यभाववद्वृत्तिर्धूमः’ इति ज्ञानस्य भ्रमत्वात् तदादाय धूमस्य न दुष्टत्वसम्भवः । बहु विजृम्भितं नव्यतर्कपण्डितैरत्र।
तत्त्वन्यत्र ॥
पञ्चधाविभक्तेषु दुष्टहेतुष्वाद्यं लक्षयति- सव्यभिचारोऽनैकान्तिक इति । ‘धूमवान् वह्नेः’ इति प्रयोगे कृते हि, हेतुर्वह्निः धूमवति महानसादौ वर्तते, धूमाभाववति तप्तायःपिण्डेऽपि वर्तते । अतोऽयं हेतुर्धूमधूमाभाव- साधारणः । तेनान्यतरकोटिनिर्णयो न सम्भवति । अतोऽयं दोषोऽनैकान्तिक इति साधारणादीनां त्रयाणामनुगतं सामान्यलक्षणम् । एकान्तिकः अन्यतरकोटिनिर्णयावसानः । तद्विपरीतोऽनैकान्तिकः । विचारस्यान्तो हि निश्चयः । निश्चये जाते न हि विचारो वर्धेत ॥
साध्याभाववद्वृत्तित्वं प्रथमस्य साधारणस्य लक्षणम् । ‘पर्वतो वह्निमान्, प्रमेयत्वात्’ इत्यत्र, साध्यो वह्निः । तदभावः वह्न्यभावः । तद्वान् ह्रदादिः । तद्वृत्तित्वं प्रमेयत्वे हेतौ वर्तते । अतः प्रमेयत्वहेतुः साधारणः । सव्यभिचारपदस्य साधारणादित्रयसाधारणत्वेऽप्ययमेव ‘व्यभिचारी’ इति बहुलं व्यपदिश्यते ॥
द्वितीयमसाधारणं लक्षयति - सर्वेत्यादि । सर्वेभ्यस्सपक्षेभ्यः,
$81181
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वमनित्यं
प्रमेयत्वात् । अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति । साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कार्यत्वात् (कृतकत्वात्) घटवत्। (अत्र कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ।)
सर्वेभ्यो विपक्षेभ्यश्च व्यावृत्तः - सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारण इत्युच्यते । हेतोस्सपक्षवृत्तित्वे एवान्वयव्याप्तिर्ग्रहीतुं शक्यते । विपक्षव्यावृत्तत्वं तु सद्धेतोर्गुणः । अथापि पक्षमात्रवृत्तित्वबोधनार्थम्, तेनासाधारण्यसञ्ज्ञाया औचित्यार्थं च तदुक्तम् । अतश्च सर्वसपक्षव्यावृत्तत्वमात्रं लक्षणं बोध्यम् ॥
I
अनुपसंहारी - अन्वयेत्यादि । अन्वयदृष्टान्तोऽपि नास्ति, व्यतिरेक- दृष्टान्तोऽपि नास्ति यत्र, सोऽनुपसंहारी । यथा ‘सर्वम् अनित्यम्, प्रमेयत्वात्’ इत्यत्र सर्वस्यापि पक्षत्वात्, सपक्षविपक्षौ कथं स्याताम् । असाधारणे सपक्षविपक्षौ स्तः, परन्तु हेतुस्तेभ्यो व्यावृत्तः । अत्र तु सपक्षविपक्षावेव न स्तः । एतत्सूचनाय वा पूर्वं विपक्षोऽपि कोडीकृतः । अतश्च व्याप्तिग्रहणस्थलमेव नास्ति ॥
विरुद्धः - साध्याभावव्याप्तः । वस्तुतः साध्यव्याप्यो हेतुः स्यात् । एतद्विरुद्धतयात्र हेतुः साध्याभावव्याप्तः प्रकृते इति विरुद्धो हेतुरिति सञ्ज्ञा । ‘शब्दः नित्यः, कार्यत्वात्’ इत्यत्र कार्यत्वं हि साध्यस्य नित्यत्वस्या- भावेनानित्यत्वेन व्याप्तम् - यत्र यत्र कार्यत्वम्, तत्र सर्वत्रानित्यत्वमिति व्याप्तिः । यद्यप्यत्र साध्याभाववद्वृत्तित्वं हेतोर्वर्तत इति व्यभिचारदोषोऽप्यस्ति, अथापि ‘दुष्टसङ्करेऽपि दोषासङ्करः’ इति न्यायात् दोषौ एकत्र भवतः । लोके मूर्खः कश्चित् चौर्यं कृत्वा तदाच्छादानार्थम् असत्यं वक्ति । तत्र
18 182
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वात्, शब्दोऽनित्यः कार्यत्वात्
।
एकस्मिन् पुरुषे चौर्यमेको दोषः, असत्यवदनमपरो दोष इति एकस्मिन्नेव दोष-द्वयप्रसक्तावपि दोषयोर्भेदो वर्तत एव । पुरुषैक्यमात्रात् दोषैक्यम्, पापैक्यं वा न भवति । तद्वत् एकस्मिन्नेव हेतौ दोषद्वयसम्भवेऽपि दोषैक्यं कदापि न भवतीत्युक्तन्यायस्यार्थः । विरुद्धहेतुप्रयोगे साध्याभावसाधके हेतुः, भ्रान्त्या साध्यसाधकतयोपन्यस्त इति वादिनोऽज्ञानातिशयो ज्ञाप्यते । । यस्येत्यादि । प्रतिपक्षः - प्रतिपक्षसाधको हेतुः । तेन सहितो यः स सप्रतिपक्षः, सत्प्रतिपक्ष इति वा कथ्यते । सन् प्रतिपक्षो यत्रेति बहुव्रीहिः । वादिप्रतिवादिनोश्चर्यायाः ‘कथा’ इति सञ्ज्ञा । तत्र वादी स्वपक्षसाधनाय ‘शब्दो नित्यः, श्रावणत्वात्, शब्दत्ववत्’ इति प्रयुङ्क्ते । श्रावणत्वं नाम श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयत्वम् । यत्र श्रावणत्वं वर्तते, तत्र नित्यत्वं वर्तते, यथा शब्दत्वे । ‘येनेन्द्रियेण’ इत्यादिन्यायेन शब्दः श्रोत्रेन्द्रियेण गृह्यते चेत्, शब्दत्वमपि श्रोत्रेण गृह्यत इति व्याप्तिरस्ति । एवं वादिना परार्थानुमाने प्रदर्शिते, प्रतिवादिना उक्तहेतोरप्रयोजकत्वं प्रदर्शनीयम् । अथवा प्रतिप्रयोगो वा कर्तव्यः । नो चेत् वादिनो जयः स्यात् । प्रतिप्रयोगश्चैवम् ‘शब्दोऽनित्यः, कार्यत्वात्, घटवत्’ इति । यत्र यत्र कार्यत्वम्, तत्र सर्वत्रानित्यत्वमिति व्याप्तिरस्ति । एवं पञ्चावयववाक्ये प्रयुक्ते परस्याप्यनुमितिर्भवति ‘शब्दोऽनित्यः’ इति । अत्र हेतावप्रयोजक- त्वेऽप्रदर्शितेऽनुमानद्वयमपि परस्परं प्रतिहतं सत्साध्यसाधकं न भवति । वादिनोः कस्यापि जयो न भवति । अत्र प्रथमो हेतुः सत्प्रतिपक्षदोषयुक्तः ‘सप्रतिपक्षितः’ इत्युच्यते । एतादृशकथायां परार्थानुमानस्य प्रयोगः सार्थकः । ।
[[183]]
असिद्धस्त्रिविधः - आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्ध- श्चेति । आश्रयासिद्धो यथा - गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्द-माश्रयः । स च नास्त्येव ।
असिद्ध इति । पक्षहेत्वादीनां स्वरूपस्यैवासिद्धया व्याप्तेरप्य- सम्भवादेषामसिद्ध इति नाम । आश्रयः पक्षः । स एव यत्राप्रसिद्धः, स आश्रयासिद्धः । गगनवृत्तित्वविशिष्टं ह्यरविन्दमप्रसिद्धम् । अप्रसिद्धपक्षक- त्वाद्धेतुरप्यसिद्ध इत्युच्यते । एवमेव ‘काञ्चनमयपर्वतो वह्निमान् धूमात्’ इत्युक्ते पर्वते काञ्चनमयत्वाप्रसिद्ध्याऽऽश्रयासिद्धो हेतुः । तथा च पक्षतावच्छेदकाभाववत्पक्ष आश्रयासिद्ध इति लक्षणम् । पक्षे यत् विशेषणम्, तत् पक्षतावच्छेदकमित्युच्यते । गगनसम्बन्धः, काञ्चनमयत्वं चोक्तस्थले पक्षतावच्छेदकम् । यद्यप्यरविन्दत्वम्, पर्वतत्वञ्च धर्मितावच्छेदकविधया पक्षे विशेषणत्वात् पक्षतावच्छेदकमेव । तच्च विशेष्येऽरविन्दे, पर्वते च वर्तते, अथापि विशेषणान्तरस्य गगनसम्बन्धस्य, काञ्चनमयत्वस्य च विशेष्येऽभावात्, विशिष्टस्यैव पक्षत्वादप्रसिद्धिर्भवत्येवेति दोष एव ॥
यद्यपि चाक्षुषत्वं गगनारविन्दवन्नाप्रसिद्धम्, दृष्टान्ते रूप एव प्रसिद्धत्वात्, परन्तु हेतोः पक्षवृत्तित्वं प्रधानं स्वरूपम् । तच चाक्षुषत्वे नास्ति । अतो हेतुस्वरूपस्यासिद्ध्या स्वरूपासिद्धिरित्युच्यते । ‘पर्वतो वह्निमान् काञ्चनमयधूमात्’ इत्यादिप्रयोगे तु हेत्वसिद्धिर्दोषः । हेतुतावच्छेदकाभावावान् हेतुः हेत्वसिद्धः । हेत्वसिद्धिस्तु स्वरूपासिद्धेरन्यो दोषः । एवम् ‘पर्वतः काञ्चनमयवह्निमान् धूमात्’ इति प्रयोगे ‘साध्यतावच्छेदकाभाववत्साध्यम्’ साध्याप्रसिद्धिरिति दोषोऽपि ज्ञेयः । अनयोस्सुज्ञत्वात्पृथगनुक्तिः ॥
[[184]]
स्वरूपासिद्धो यथा - शब्दो गुणः चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् । सोपाधिको हेतुर्व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधिः । साध्य- समानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साधवन्नि- ष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । (यथा) पर्वतो धूमवान् वह्नेः इत्यत्र आर्द्रेन्धनसंयोग उपाधिः । यत्र धूमः तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता । यत्र वह्निः तत्रार्द्रेन्धनसंयोग नास्ति, अयोगोलक आर्द्रेन्धनसंयोगाभावात् । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वा- द्वह्निमत्त्वं व्याप्यत्वासिद्धम् ।
सोपाधिकः उपाधिसहितः । तादृशो हेतुः व्याप्यत्वासिद्धः इत्युच्यते । व्याप्यः = व्याप्त्याश्रयः । व्याप्यत्वं व्याप्तिः । व्याप्तेरसिद्धिरित्यर्थः । उपाधेर्लक्षणम् - साध्येत्यादि । साध्याधिकरणवृत्त्यत्त्यन्ताभावाप्रतियोगित्वम् = साध्यव्यापकत्वम् । साधनाधिकरणवृत्त्यत्त्यन्ताभावप्रतियोगित्वम् = साधनाव्यापकत्वम् । यथा ‘पर्वतो धूमवान् वह्नेः’ इति प्रयोगे आर्द्रेन्धनसंयोगः
संयोगसम्बन्धेनार्द्रेन्धनम् उपाधिः । अत्र साध्यः धूमः । तदधिकरणं महानसादिः । तत्र वर्तते योऽत्यन्ताभाव इति चेत्, आर्द्रेन्धन-संयोगाभावो न भवति । महानसे नियमेनार्द्रेन्धनसंयोगस्य सत्त्वात् । वह्नेरार्द्रेन्धनसंयोगे सत्येव धूमस्योत्पत्तेः । किन्तु जलाद्यभाव एव । तत्प्रतियोगि जलादिकम्, अप्रतियोगी आर्द्रेन्धनसंयोग इति साध्यव्यापकत्वम् । एवम् साधनं वह्निः । तदधिकरणं तप्तायः पिण्डोऽपि । तत्र वर्तते योऽत्यन्ताभाव इति चेत्, तप्तायः पिण्डे धूमासम्भवात् वह्नेरार्द्रेन्धनसंयोगे सत्येव धूमोत्पत्तेः ।
TISTS
081 185
अतस्तप्तायः पिण्डे वर्तमानोऽभावः = आर्द्रेन्धन-संयोगाभावः । तत्प्रतियोगी = आर्द्रेन्धनसंयोग इति साधनाव्यापकत्वमपि वर्तते । अतो वह्निना धूमसाधने आर्द्रेन्धनसंयोग उपाधिः । महानसे आर्द्रेन्धनसंयोगस्य प्रत्यक्षप्रतिपन्नत्वात् वह्निसंयोगरहितस्य तस्य धूमहेतुत्वाभावात् आर्द्रेन्धनसंयोग उपाधिरित्युक्तः । एवञ्च धूमेन यथा वह्निस्साध्यते, तथा वह्निनापि धूमस्साधयितुं शक्य इति भ्रान्त्या ‘धूमवान् वह्नेः’ इति प्रयोगे कृते, आर्द्रेन्धनसंयुक्तवह्नेरेव धूमजनकत्वात् आर्द्रेन्धनसंयोगे विद्यमाना धूमव्याप्तिस्तत्सन्निहिते वह्नौ गृहीता भ्रान्त्या ॥
यथा जपाकुसुमसम्बन्धात् ‘लोहितः स्फटिकः’ इति प्रतीतिः स्फटिकसंयुक्त-जपाकुसुमगतलौहित्यस्य स्फटिके भानात् औपाधिकी, तथैवात्रापि आर्द्रेन्धनसंयोगे विद्यमाना धूमव्याप्तिरार्द्रेन्धनसंयोगविशिष्टे वह्नौ भासत इति आर्द्रेन्धनसंयोग उपाधिः । स्वस्मिन् वर्तमानं विशेषं स्वसन्निहिते वस्तुन्यारोपयितुं समर्थं वस्तूपाधिरित्युच्यते । यत्र यत्रोपाधिसहितं वस्तु वर्तते, तत्र सर्वत्र तद्वस्तुनि तद्व्यवहारो लोके प्रसिद्धः । तप्तायः पिण्डो दहति । तत्र दाहकत्वं वह्नेर्धर्मः, न केवलमयसः । अयसा संयुक्तो वह्निर्दहति न त्वयः । वह्निगतं दाहकत्वं स्वसंयुक्तेऽयसि आरोपितम् । अतोऽयसो दाहकत्वमौपाधिकम् । अत एव ‘अयो दहति’ इति शब्दप्रयोग औपचारिकः । प्रतीतिस्त्वौपाधिकी । इदं सर्वं बुद्धिपूर्वकत्वे । अबुद्धिपूर्वकत्वे तु प्रतीतिर्भ्रान्तिरेव । शब्दप्रयोगोऽपि भ्रान्तिमूलकः ॥
एवञ्च उप अधीयतेऽनेन (स्वस्मिन् विद्यमानं विशेषं स्वसन्निहिते येनाधीयते) इति व्युत्पत्त्या उपाधिः इति पदं निष्पन्नम् । जपाकुसुमं हि स्वसन्निहिते स्फटिके स्वगुणं रक्तरूपमादधत् ‘लोहितः स्फटिकः’ इति व्यवहारहेतुर्भवति । वह्निर्हि स्वसंयुक्तेऽयसि स्वगुणं दाहकत्वमादधत् ‘अयो दहति’ इति व्यवहारहेतुर्भवति । एवमार्द्रेन्धनसंयोगः स्वस्मिन् विद्यमानां
28 186
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निरनुष्णः पदार्थत्वात् । अत्रानुष्णत्वं साध्यम्, तदभाव उष्णत्वं त्वाचप्रत्यक्षेण गृह्यत इति बोध्यम् ।
BIPE TH
इति तर्कसङ्ग्रहे अनुमानपरिच्छेदः ।
धूमव्याप्तिं आर्द्रेन्धनसंयुक्ते वह्नौ भासयति । अतो धूमव्याप्तिर्वह्नौ वर्तत इति भ्रान्त्या प्रयुङ्गे ‘धूमवान् वह्नेः’ इति । तथा च साध्यव्यापकत्वे सति साधनाव्यापकत्वं तदनुगुणमुपाधेर्लक्षणमुक्तम् । साध्यव्यापकत्वमात्रस्य लक्षणत्वे ‘वह्निमान् धूमात्’ इत्यादावालोकवत्त्वमुपाधिः स्यात् । यत्र यत्र वह्निः, तत्रालोको वर्तत इति साध्यव्यापकत्वात् । तदर्थं साधनाव्यापकत्वमुक्तम् । एवं सति आलोकवत्त्वस्य धूमव्यापकत्वात् साधनाव्यापकत्वाभावान्न तस्योपाधित्वम् । साधनाव्यापकत्वमात्रोक्तौ - ‘शब्दोऽनित्यः, कार्यत्वात्’ इत्यत्र अश्रावणत्वमुपाधिः स्यात् । ‘यत्र यत्र कार्यत्वम्, तत्र सर्वत्र अश्रावणत्वम्’ इति व्याप्तेरभावात् । पक्षे शब्दे कार्यत्वसत्त्वेऽपि अश्रावणत्वस्याभावेन साधनाव्यापकत्वसत्त्वात् । साध्यव्यापकत्वनिवेशे तु ‘यत्र यत्रानित्यत्वम्, तत्र सर्वत्राश्रावणत्वम्’ इति साध्यव्यापकत्वस्यापि अश्रावणत्वेऽभावान्नोपा- धित्वम् । एतादृशोपाधिविशिष्टो हेतुस्सोपाधिकत्वात् व्याप्यत्वासिद्ध इत्युच्यते ॥
बाधितं निरूपयति - यस्येत्यादि । अत्र वाक्ये ‘पक्षे’ इति पूरणीयम् । यस्य हेतोः, सम्बन्धसामान्ये षष्ठी, साध्यस्याभावः पक्षे प्रमाणान्तरेण प्रत्यक्षादिना निश्चितः, स हेतुर्बाधित इत्युच्यते । तथा च साध्याभाववत्पक्षकत्वं वाधः इति बाधदोषस्य लक्षणम् । तादृशपक्षकत्वात् उक्त हेतुर्बाधित इत्युच्यते । यथा ‘हृदो वह्निमान्’ इत्यत्र वह्न्यभाववदो बाधः । ह्रदे वह्न्यभावः प्रत्यक्षसिद्धः ॥88 187
‘आलोक’व्याख्यासहितः
एवं दुष्टहेतूनां स्वरूपेऽवगते, एभिरनुमितिर्न भवति, साक्षाद्वा परम्परया वानुमितेः प्रतिबन्धात् । तद्वत्ताबुद्धिं प्रति तदभाववत्तानिश्चयः, तदभावव्याप्यवत्तानिश्चयश्च प्रतिबन्धकः । ‘भूतलं घटाभाववत्’ इति निश्चयः ‘भूतलं घटवत्’ इति निश्चयं प्रति प्रतिबन्धकः । ‘ह्रदो वह्न्यभाववान्’ इति निश्चये जाते ‘हदो वह्निमान् इति ज्ञानं न हि भवितुं शक्यम् । एवम् ‘वह्न्यभावव्याप्यजलवान् ह्रदः । इति ज्ञाने सत्यपि ह्रदो वह्निमान्’ इति ज्ञानं न भवति । जले विद्यमाने कथं वह्निस्स्यात् । अतस्तद्वत्ताबुद्धि प्रति तदभाववत्तानिश्चयः, तदभावव्याप्यवत्तानिश्चयश्चेति द्वयं साक्षादेव प्रतिबन्धकम् । एवम् ‘जलवान् ह्रदः’ इति निश्चयोऽपि वह्न्यभावव्याप्यं जलम्’ इति ज्ञानकालिको वह्निमत्ताबुद्धि प्रति प्रतिबन्धकः । तदभावव्याप्यवत्तानिश्चयस्तु एकं ज्ञानम् । इदं तु ज्ञानविशिष्टं भिन्नं ज्ञानम् । ज्ञानविशिष्टज्ञानत्वेन इदं ज्ञानद्वयं प्रतिबन्धकमित्युच्यते । निष्कर्षस्तु तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयोऽपि तद्वत्ताबुद्धिं प्रतिबन्धकः’ इति । तदभावः - वह्न्यभावः । तदवच्छेदकतया गृहीतो धर्मः ‘जलवत्त्वम्’ । ‘वह्न्यभावव्याप्यं जलम्’ इति एकं ज्ञानम्, ‘जलवान् ह्रदः’ इत्यपरं ज्ञानम् । अत्र जलवत्त्वं वह्न्यभावव्याप्यतया गृहीतम् । अतस्तदभावावच्छेदकतया गृहीतधर्मवत्ता- निश्चयोऽपि तद्वत्ताबुद्धिं प्रति प्रतिबन्धकः ॥
एवं मणिमन्त्रादिन्यायेन प्रतिबन्धकत्वमपि अतिरिक्तमङ्गीकार्यम् । मणिसहितेन वह्निना दाहो न जायते । मणेः सत्तैव दाहं प्रति प्रतिबन्धिका । एवं मन्त्रविशेषोऽपि । आदिना ओषधिविशेषो विवक्षितः । एते हि कार्यं प्रति साक्षादेव प्रतिबन्धकाः । तद्वत्ताज्ञानमप्येकं कार्यम् । एतत्प्रति तदन्यविषयिण्युत्कटेच्छापि प्रतिबन्धिकैव । ’ वह्निव्याप्यधूमवानयं पर्वतः ’ ॥ इति परामर्शसमकालमन्यविषयिणी उत्कटेच्छा यदि भवेत्, तदा ‘पर्वतो
[[188]]
वह्निमान्’ इत्यनुमितिर्न स्यात् । इदमेव प्रतिबन्धकम् ‘कामिनीजिज्ञासा- दिवत्स्वातन्त्र्येण प्रतिबन्धकम्’ इत्युच्यते । तरुणस्य हि पुरुषस्य कामिनीविषयिणी तीव्रेच्छा - दिदृक्षादिरूपा यदि भवेत्, तदा सा तीव्रेच्छा इतरकार्यप्रतिबन्धिका यतः, तत एवानुमितिं प्रत्यपि प्रतिबन्धिका । तथा च तद्वत्ताबुद्धिं प्रति १) तदभाववत्तानिश्चयः २) तदभावव्याप्यवत्तानिश्चयः ३) तदभावावच्छेदकतया गृहीतधर्मवत्तानिश्चयः ४) स्वातन्त्र्येण चेति प्रतिबन्धकत्वं चतुर्विधम् । आद्यं त्रयं ज्ञानरूपम् । अन्तिमं तु न ज्ञानरूपम् । किन्तु वस्तुरूपम् । अत एवेदं चतुर्थं ‘स्वातन्त्र्येण प्रतिबन्धकम्’, ‘मणि- मन्त्रादिन्यायेन प्रतिबन्धकम्’, ‘कामिनीजिज्ञासादिवत्प्रतिबन्धकम्’ इत्यादिशब्दैर्व्यवह्रियते । प्रतिबध्यं तु ज्ञानं संशयरूपं निश्चयरूपं च । अत एव प्रतिबध्यकोटौ ‘ज्ञान’ पदम्, ‘बुद्धि’ पदमेव वा प्रयोज्यम् । प्रतिबन्धककोटौ तु ‘निश्चय’ पदमेव प्रयोज्यमित्यत्यन्तमवधेयम् ॥
प्रकृते - सव्यभिचारेषु आद्यं साध्याभाववद्वृत्तित्वरूपसाधारणदोष- ज्ञानम्, साध्याभाववदवृत्तित्वरूपव्याप्तिज्ञानं प्रति प्रतिबन्धकत्वात् अनुमिति- तत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वाद्धेत्वाभासत्वम् । असाधारण्यं तु हेतोः पक्षमात्रवृत्तित्वरूपम् । तद्ज्ञानं व्याप्तिज्ञानं प्रति प्रतिबन्धकम् । सपक्षसत्त्वेऽपि हेतुस्तत्र न वर्तत इति व्याप्तिग्रहासम्भवात् । अनुपसंहारी तु, सर्वस्यापि पक्षत्वात्, सपक्षविपक्षयोरभावात्, अन्वयव्याप्तिर्वा व्यतिरेकव्याप्तिर्वा ग्रहीतुं न शक्यत एवेति व्याप्तिग्रहणासम्भवाद्दुष्टः ॥
विरुद्धो हेतुः, साध्याभावव्याप्तत्वज्ञानात् साध्यव्याप्तिविघटक इति व्याप्तिज्ञानप्रतिबन्धकः । अथवा साध्याभावव्याप्यवत्तानिश्चयविधयानुमिति- प्रतिबन्धको वा ? सत्प्रतिपक्षितो हेतुस्तु साध्याभावव्याप्यत्वात्, तद्वत्ताबुद्धि प्रति तदभावव्याप्यवत्तानिश्चयविधया साक्षादेव साध्यवत्ताबुद्धिं प्रति प्रतिबन्धकः ।
[[189]]
परन्तु हेतुप्रतिहेतुद्वयसत्त्वात् परस्परं तत्तदभावव्याप्यवत्ताबुद्ध्योः प्रतिबन्धकत्वा- दनुमितिप्रतिबन्धकः ॥ असिद्धौ - आश्रयासिद्धिस्तु पक्षस्यैवाप्रसिद्ध्या पक्षे साध्यवत्तानिश्चयासम्भवात्परपरयानुमितिप्रतिबन्धः । एवमेव साध्याप्रसिद्धिहेत्वप्रसिद्ध्योरपि ज्ञेयम् । स्वरूपासिद्धेस्तु पक्षे
हेतुमत्ताज्ञानरूपपक्षधर्मताज्ञानविघटकत्वात्परामर्शप्रतिबन्धः
फलम् ॥
व्याप्यत्वासिद्धेस्तु - सोपाधिकत्वात्, प्राचीनमते अनौपाधिक- सम्बन्धरूपत्वाद्व्याप्तेः साक्षाद्व्याप्तिज्ञानप्रतिबन्धः फलम् । नवीनमते तु बाधोन्नायकतया साक्षादनुमितिप्रतिबन्धः फलम् । उन्नायकत्वं नामानुमापकत्वम् अनुमितिजनकत्वम् । अथवा व्यभिचारोन्नायकतया व्याप्तिज्ञानप्रतिबन्धः फलम् । ‘हेतुः साध्यव्यभिचारी, साध्यव्यापकोपाधिव्यभिचारित्वात्, यो यद्व्यापकव्यभिचारी, स तद्व्यभिचारी । यथा घटत्वव्यापकपृथिवीत्वव्यभिचारि जलत्वं घटत्वव्यभिचारि’ इति सामान्यव्याप्तिः । अथवा ‘धूमवान् वह्नेः ’ इत्यादिस्थले वह्निः धूमव्यभिचारी, धूमव्यापकार्द्रेन्धनसंयोग-व्यभिचारित्वात्, यो यद्व्यापकव्यभिचारी, स तद्व्यभिचारी, यथा घटत्वव्यापकपृथिवीत्व- व्यभिचारि जलत्वं घटत्वव्यभिचारि इति विशेषव्याप्तिः । बाधोन्नायकत्वं नाम तदभावसाध्यकानुमितिजनकत्वम् । यथा ‘धूमवान् वह्नेः’ इत्यादौ ‘अयोगोळकं धूमाभाववत्, धूमव्यापकार्द्रेन्धनसंयोगाभावात्, यत् यद्व्यापका- भाववत्, तत् तदभाववत्, यथा घटत्वव्यापकपृथिवीत्वाभाववत् जलं घटत्वाभाववत्’ इत्यनुमानं बोध्यम् । एवञ्च हेतोर्दुष्टत्वज्ञाने जाते, तादृशहेतोरनुपादेयत्वनिश्चयः, अदुष्टहेतोरुपादेयत्वनिश्चयश्च भवतीति हेत्वाभासज्ञानमपि विवेकहेतुतया तत्त्वज्ञानोपयोगीति मन्तव्यम् ॥
॥ इत्यनुमानखण्डः ॥
[[190]]
अथोपमानखण्डः
उपमितिकरणमुपमानम् । सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । तथा हि- कश्चिद्गवयशब्दार्थमजानन् कुतश्चिदारण्यकपुरुषात् गोसदृशो गवयः इति श्रुत्वा वनं गतो गोसदृशपिण्डं पश्यन् वाक्यार्थं स्मरति । तदनन्तरमयं गवयपदवाच्यः इत्युपमितिरुत्पद्यते ।
इति तर्कसङ्ग्रहे उपमानपरिच्छेदः समाप्तः ।
अथोपमानखण्डः
क्रमप्राप्तमुपमानं निरूपयति - उपमितीति । उपमितेः करणम् उपमितिकरणम् । करणं नाम करणतावत् = असाधारणकारणतावदित्यर्थः। उपमितेरित्यत्र षष्ठ्याः कार्यत्वमर्थः । तत्र च प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । कार्यतायाश्च निरूपितत्वसम्बन्धेन असाधारणकारणतायामन्वयः । तथा च उपमितिनिष्ठकार्यतानिरूपितासाधारणकारणतावत् उपमानम् - इति शाब्दबोधः । लक्षणं तु— उपमितिनिष्ठकार्यतानिरूपितासाधारण- कारणतावत्त्वम् इति ॥
उपमितिर्नाम केत्यत्र - सञ्ज्ञेत्यादि । गोसदृशस्यारण्यकप्राणिनः ‘गवयः’ इति सञ्ज्ञा । सञ्ज्ञी तु प्राणिविशेषः । ‘गवयपदं गोसदृशप्राणिवाचकम्’ इत्यर्थनिर्णयः - गवयपदवाच्यनिर्णय उपमितिशब्दार्थः । स च निर्णयः शब्दार्थयोर्वाच्यवाचकभावसम्बन्धज्ञानमूलक इति वाच्यवाचकभावसम्बन्धज्ञानम्
[[191]]
- सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानम् उपमानपदार्थो नवीनमते । एतच्च सम्बन्धज्ञानं गोगवययोः सादृश्यज्ञानमूलकम् । प्राचीनमते एतदेवोपमानपदार्थः । सञ्ज्ञासञ्ज्ञिसम्बन्धिज्ञानं मध्ये व्यापारः, अनुमितौ परामर्श इव । एवञ्चोपमानं शक्तिग्राहकं प्रमाणमवगन्तव्यम् । अत एव शब्दप्रमाणात्पूर्वं परिगणितम् । तत्प्रकारं वर्णयति - तथा हीत्यादिना ॥
नन्वेवं शक्तिग्राहकस्याप्युपमानस्य वस्तुग्राहकप्रमाणानां प्रत्यक्षादीनां मध्ये गणनं कथमिति चेत्, सत्यम् । लोकातीतवस्तुवाचकानां वैदिकानामिन्द्रादिपदानां शक्तिग्रह उपमानादेव वक्तव्यः । एवं परोक्षाणां परदेशानां प्रतिदिनं क्रियमाणो व्यवहारादिरुपमानमूलक एव । यथा भोजनस्य तृप्तिसाधनत्वज्ञानमनुमानरूपमप्यतिपरिचयात् प्रत्यक्षसदृशं भवत्येवमुपमान- मपि । अतो वेदप्रामाण्यहेतुत्वात्, दैनन्दिनव्यवहाराणां बहूनां प्रामाण्य- निर्वाहार्थमुपमानस्यैवाश्रयणीयतयांशतो वस्तुग्राहकत्वमप्यस्त्युपमानस्य । नो चेत्प्रायस्सर्वैर्मुकैर्भवितव्यमिति मत्वा उपमानमपि स्वतन्त्रं प्रमाणं परिगणित- मिति मन्तव्यम् ॥
अंशतः पारतन्त्र्यं तु प्रत्यक्षादेरप्यनिवार्यम् । सर्वप्रमाणमूर्धन्यमपि ऐन्द्रियकं प्रत्यक्षप्रमाणमालोकादिसापेक्षमेव । तावता प्रत्यक्षं स्वविषये स्वतन्त्रमित्येव सर्वसम्मतम् । एवं शब्दानुमानयोरपि प्रत्यक्षोपजीव्य- त्वस्यानिवार्यत्वेपि स्वविषये स्वातन्त्र्यमवर्जनीयमेव । एवमेवोपमानमपि केवलशक्तिग्राहकप्रमाणमिति स्थितेऽपि पारलौकिकानां स्वर्गापवर्गादिविष- याणां शब्दैकसमधिगम्यत्वेन तद्विषयकव्यवहारः स्वतन्त्र इव भाति विदुषाम् । अत्रत्यमर्यादाया अतिसूक्ष्माया अपरिचयादेव उच्चावचाः वादविवादाः वर्धन्त इत्यपि न तिरोहितं विदुषाम् । अतः अक्षपादोक्तिरत्यन्तसाधीयसीति प्रामाणिकैर्मन्तव्यम् ॥
॥ इत्युपमानखण्डः ॥
[[192]]
अथ शब्दखण्डः
[[५]]
आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं तु
पदसमूहः ।
अथ शब्दखण्डः
आप्तस्य
क्रमप्राप्तं शब्दप्रमाणं निरूपयति - आप्तेत्यादि । वाक्यम् आप्तवाक्यम् । सम्बन्धसामान्ये षष्ठी । स च प्रकृते तदुच्चरितत्वरूपः । तथाच आप्तोच्चरितत्वे सति वाक्यत्वं शव्दप्रमाणलक्षणम् । अनेन जातं च प्रमात्मकं ज्ञानं शाब्दबोध इत्युच्यते । यद्यपि वञ्चकवाक्यजन्यं ज्ञानं भ्रमः स्यात्, परन्तु ‘यथार्थानुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्। तत्करणमपि चतुर्विधम् - प्रत्यक्षानुमानोपमानशब्दभेदात्’ इत्येवोक्तेः, यथार्थानुभवस्यैवायं विभागः । अतश्चाप्तोच्चरितवाक्यमेव शाब्दप्रमितेः करणभूतः शब्द इत्यनाप्तवाक्यस्य प्रमाकरणत्वमेव नास्तीति नातिव्याप्तिः ।
आप्तो नाम कः ? यथार्थवक्तेति । ‘आप्तो यथादृष्टार्थवक्ता’ इत्यपि दृश्यते । स्वेन यथा दृष्टं तथैव वदेच्चेदाप्त इति । परं तु तदीयदर्शने यदि भ्रान्तिस्स्यात्तदा का गतिः ? इति प्रश्नो भवति । तदानीं तस्य विप्रलम्भकत्वाभावेऽपि आप्तत्वं कथं स्यात्, वस्तुस्थित्या तेनान्यथाकथनादिति चेत्, अत एव ‘यथादृष्टार्थवक्ता’ इति परित्यज्य ‘यथार्थवक्ता’ इत्युक्तम् । यत्र स्वयम्भ्रान्तोऽपि तदजानन्नेव सत्यं मत्वा वक्ति, तदा स नाप्तः, नापि
[[15]]
[[0193]]
शक्तं पदम् ।
अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्ङ्केतः शक्तिः ।
विप्रलम्भकः, तस्य विप्रलिप्साया अभावात् नापि यथार्थवक्ता, किन्तु यथादृष्टार्थवक्ता । अत एव शब्दव्यवहारे महान् भारो वर्तते, श्रोतुरपि भारोऽनिवार्यः । प्रामाण्यं प्रति यथार्थवक्तृत्वमेव हेतुः ॥
पदसमूह
आप्तलक्षणमुक्तम् । वाक्यं नाम किम् ? इत्यत्राह इति । तर्हि पदं नाम किम्? इत्यत्र - शक्तं पदमिति । शक्तिविशिष्टोऽ- कारादिवर्णसमुदायः पदमित्यर्थः ॥
ननु नैयायिकैः शक्तेरतिरिक्ताया अनङ्गीकारात् ‘शक्तम्’ इति कथ- मुच्यते ? इत्यत्र अस्मादित्यादि । ईश्वरसङ्केतः शक्तिरिति *शक्तेः स्वरूपम् । ‘अस्मात् पदादयमर्थो वोद्धव्यः’ इति ईश्वरसङ्केतस्याभिलापकः = प्रदर्शकः शब्दः । लोके हि गवादिशब्दाः सर्वदेशकालेषु सर्वेषामपि सास्त्रादिमत्प्राणिविशेषबोधजनका दृश्यन्ते । कथमेवमविसंवादेन शब्दप्रयोगः,
टिप्पणी
- शक्तिग्राहकप्रमाणानि - कस्य पदस्य कुत्र शक्तिः ? इति कथं ज्ञायते इति चेत् — ईश्वरेच्छैव तत्र नियामिकेत्युक्तं किलेति चेत्, ईश्वरेच्छां सामान्यजनाः कथं जानीयुरिति चेत् – सत्यम् - परिगणितानि शक्तिग्राहकान्येवम्-
शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यात् व्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥ इति । अस्यार्थः- शक्तिग्रहं व्याकरणोपमानादिभिः वृद्धाः प्रवदन्तीत्यन्वयः । शक्तिर्नाम प्रकृते पदानां बोधनसामर्थ्यम् ।
१) व्याकरणात् शक्तिग्रहः धातुप्रकृतिप्रत्ययानां भवति । यथा भू सत्तायाम् इत्यादिना भ्वादिधातूनां सत्ताद्यर्थे शक्तिर्ज्ञायते । एवं घटम् इत्यादौ द्वितीयाविभक्त्यादीनां कर्मत्वाद्यर्थे शक्तिरित्यपि कर्मणि द्वितीया इत्यादिव्याकरणात् ज्ञायते ।
[[194]]
आलोक- व्याख्या
शाब्दबोधश्च ? पूर्वपूर्वपुरुषाणां परम्परया तथा प्रयोगवशादिति चेत्, प्रथमप्रयोगः कस्येति वक्तव्यम् । ‘गावो वा एतत्सत्रमासत’ इत्यादिषु वैदिकप्रयोग एव प्रथमप्रयोग इति चेत्, वेदस्येश्वरोपदेशरूपत्वात्, ईश्वर एवैतादृश- बोधजनकेच्छया एतानि पदानि प्रयुक्तवानिति ज्ञायते । यथा गुणवृद्ध्यादिसञ्ज्ञाः पाणिनिना तत्तदर्थबोधेच्छया सङ्केतिता इदानीमपि तथैव प्रयुज्यन्ते । ततश्च ‘गुणवृद्ध्यादिपदं तत्तदर्थबोधजनकं भवतु’ इति पाणिनीच्छापूर्वकं यथा,
टिप्पणी
२) उपमानाच्छक्तिग्रहप्रकारश्चोपमानखण्डे प्रादर्शि ।
३) कोशः नामलिङ्गानुशासनादिः । पुलोमजा शचीन्द्राणी इत्यादिकोशात् पुलोमजादिपदानाम् इन्द्रपत्न्यादौ शक्तिर्ज्ञायते । इन्द्रादिपदानां तु वस्तुत उपमानादेव शक्तिरित्यादिकं लोकादेव ज्ञायते । यथा वा एतल्लोके राजानोऽधिपतयः, तथेन्द्रादयोपीत्येव
वक्तव्यम् ॥
४) आप्तवाक्यम् शक्तिग्रहः ॥
५) व्यवहारः-
हानोपादानादिः । गामानय, गां नय इत्यादि वृद्धवाक्यं शृण्वन् पार्श्वस्थो बालः, गवानयनादिकर्मणि प्रवृत्तं तत्पुत्रम्, गवानयनादिकं च पश्यन्, तत्तत्पदानामावापोद्वापादिकं च जानन् तत्तत्पदानां तत्तदर्थे शक्तिं जानाति । बाला ह्यतिसूक्ष्ममतयः, सदा कुतूहलिनः, जिज्ञासापरायणास्सहजत एव । अत एव बाल्ये पदानां आनयनादिकार्यान्वित एव शक्तिग्रहात्, कार्यान्वित एव शक्तिरिति केचित् । चैत्रः कीदृशः ? चैत्रस्सुन्दरः इत्यादौ कार्यविशेषाभावेऽपि चैत्रादिपदानां व्यक्तिविशेषबोधजनकत्वदर्शनात्, कायावतेऽपि शक्तिरस्त्येवेति लोकव्यवहार निर्वहणचतुरा नैय्यायिकाः ॥
आप्तानां मित्रादीनां वाक्यादपि पाकशासनादिपदानामिन्द्रादौ
६) वाक्यस्य शेषात् वाक्यशेषादित्यर्थः । यथा गामानय इत्यादौ गोपदस्य वृषभसाधारणस्य गोपदस्य, अद्य भूकर्षणं कर्तव्यम् इति समनन्तरमेव वाक्ये प्रयुक्ते
[[195]]
आलोक व्याख्या
तथैव गवादिपदान्यपि तदुच्चारयितुरीश्वरस्येच्छया तत्तदर्थबोधनसमर्थानि भव- न्तीति ‘अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरेच्छैव शक्तिपदार्थः । नातिरिक्ता शक्तिः ॥
ननु नदीवृद्ध्यादिपदेषु पाणिनीच्छाया एव दर्शनादीश्वरेच्छाया अदर्शनात्कथं तत्पदानां बोधकत्वं जातमिति चेत्, ‘ईश्वरस्स्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ॥’ इति दर्शनात् ‘तेन विना तृणाग्रमपि न चलति’ इति न्यायात्, पाणिनिना सञ्ज्ञाकरणमपीश्वरेच्छाधीनमेवेति परम्परयेश्वरेच्छा तत्रापि वर्तत इति न दोषः । अत ईश्वरेच्छैव शक्तिः ॥
I
टिप्पणी
वृषभे शक्तिग्रहः लोके । वेदे तु यवमयश्चरुर्भवति इति वाक्ये यवः क इति संशये, तद्वाक्यशेषभूतात् अथान्या ओषधयो म्लायन्ते, अथैते मोदमानास्तिष्ठन्ते इति वाक्यात् दीर्घशूकविशिष्टे धान्ये शक्तिग्रहः । शूकपदस्य तु शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे इत्यादिकोशात् धान्यानामग्रे वर्तमानः कण्टकतुल्योऽवयवः ॥
७) विवृतिः - विवरणम् । तदा तदा व्याख्याकारादिभिः लक्षणादिमुखेन क्रियमाणं विवरणं प्रसिद्धम् । आप्तवाक्यं तु पर्यायपदादिशब्दः । विवृतिस्तु - प्रश्नोपप्रश्नादिपूर्वकं शब्दार्थनिश्चयहेतुः ॥
८) सान्निध्यात्सिद्धपदस्य = प्रसिद्धपदसान्निध्यमित्यर्थः । बहुपदघटिते वाक्ये एकपदं विनेतरेषां सर्वेषां शक्तिग्रहे सति तदेकपदस्येतरपदसमभिव्याहारवशाच्छक्तिग्रहो भवति । यथा शृणु, सहकारतरौ मधुरं पिको रौति इति सन्निहितपुरुषोक्ते वाक्ये पिकपदव्यतिरिक्तानामर्थे ज्ञाते, तद्वशात् पिकपदस्य पक्षिविशेषे शक्तिग्रहो भवति । एवमौचित्यवशात्सर्वं ज्ञेयम् ॥
[[198]]
टिप्पणी
कर्त्राख्याते बोधः । कर्माख्याते तु ‘चैत्रेण तण्डुलः पच्यते’ इत्यादौ ‘चैत्रसमवेत- कृतिजन्यविक याश्रयः तण्डुलः’ इति, प्रथमान्तमुख्यविशेष्यक एव शाब्दबोधः । ‘चैत्रेण सुप्यते’ इत्यादिभावाख्यातस्थले तु ‘चैत्रकर्तृकः = चैत्रसमवेतकृतिजन्यः स्वापः ’ इति धात्वर्थमुख्यविशेष्यकबोधः । भावाख्यातातिरिक्तस्थले तु प्रथमान्तमुख्यविशेष्यक एव शाब्दबोध इति सङ्क्षेपः । अधिकं व्युत्पत्तिवादादौ । (प्रकृते तर्कसङ्ग्रहे लक्षणवाक्यानां शाब्दबोधप्रक्रियायाः अध्ययेननेतरत्सर्वं सुगमम् ॥)
[[1]]
अथ समासस्थले शाव्दवोधप्रक्रिया सङ्ग्रहेण प्रदर्श्यते विग्रहवाक्य- समस्तवाक्ययोस्समानविषयकत्वमुत्सर्गः । यथा ‘नीलोत्पलम्’ इति समस्तपदम् । ‘नीलमुत्पलम्’ इति व्यस्तप्रयोगः । ‘नीलं च तत् उत्पलं च’ इति कर्मधारयः । ‘नीलाभिन्नम् उत्पल’मित्युभयत्रापि शाब्दबोधः । अत एव कर्मधारये न लक्षणा । एवं ‘रामलक्षणौ’ इतीतरेतरद्वन्द्वेऽपि न लक्षणा । ‘रामश्च लक्ष्मणश्चेति’ विग्रहः । अत्रापि रामस्य लक्ष्मणस्य च बोधः । समासेऽपि तावानेव बोध इति नवीनाः ॥ ‘इदमप्रौढमतीनाम् बालानामालोचनम्, न प्रौढमतीनाम् । ‘समुच्चयान्वा- चयेतरेतरयोगसमाहाराश्चार्था’ इति किलाह महर्षिः इत्येकाक्षरस्याव्ययार्थश्चतुर्विधो वर्तते लोकानुभव एव । तेषु समुच्चयान्वचययोर्न समासः, असमर्थत्वात् । इतरेतरयोगसमा- हारयोरेव समासः इत्यादिकं सरलमतिभिः न ज्ञातुं शक्यम् । इतरेतरयोगो नाम परस्परसौहार्दरूपं मिलनम् । अतोऽर्थस्वारस्यसत्त्वात् सोऽपि समासस्यार्थः । ‘यथेन्द्र- शत्रुः स्वरतोऽपराधात्’ इति वर्ण्यमानायामपि संस्कृतौ सूक्ष्मभावतराङ्गाणां स्थानं स्पष्टं प्रदर्शनमावश्यकम्, येन शब्दश्रवणेनैवान्तरङ्गाशयः स्पष्टं ज्ञातुं शक्येत । अधिक- मन्यत्र । एवञ्चार्थभेदस्य सत्त्वात् सोऽपि तत्र विवक्षित एव । ततश्चेतरेतरयोगद्वन्द्वेऽपि उत्तरपदे विलक्षणसंयोगविशिष्टे लक्षणा आवश्यकी । नो चेत्, समहारेऽपि लक्षणा न स्यात् ॥
I
बहुव्रीहिसमासेऽन्यपदार्थस्य प्राधान्यात् लक्षणाऽनिवार्या । ‘पीतम् अम्बरं यस्य’, पीताम्बरो हरिः । अत्र विग्रहवाक्ये अम्बरपदमेव प्रमथमान्तत्वात् विशेष्यम् ।DC199
एवैतादृशशङ्का युज्यते । एतन्मते हि शक्तिः स्वरूपयोग्यतैव । परन्तु शब्दे द्विविधा सा । एका शब्दसाक्षात्कारहेतुभूता, अन्या तु अर्थबोधहेतुभूता । आद्या तु श्रोत्रेण शब्दग्रहणेनैव कृतकृत्या । अनस्मिन् विषये तु उक्तमत्रेश्वरेच्छायास्तस्यास्तथा व्यवस्थितत्वादिति नानुपपत्तिः ॥
ननु गवादिपदसमूह एव चेत् वाक्यम्, तर्हि ‘गौरश्वः पुरुषो हस्ती’ इत्यादिपदसमूहादपि कश्चन बोधः स्यात् । भवत्येव तत्र गवाद्यर्थानां बोध इति चेत्, नायं बोधः । किन्त्वर्थस्य स्मरणमात्रम् । शाब्दबोधो नाम शब्दजन्यः परस्परान्वितार्थविषयको यथार्थानुभवः । चतुर्विधयथार्थानुभवेषु हि ‘शाब्दः ’ इति विभागः प्रादर्शि । ‘गौरश्वः’ इत्यादिवाक्याच्छाब्दबोधो न
टिप्पणी
यच्छब्दार्थः हरिः । ‘यस्य हरेः अम्बरं पीतरूपवत्, सः हरिः पीताम्बर’ इति खलु वाक्यस्यार्थो वक्तव्यः । एवञ्च ‘यत् सम्बन्धी अम्बरं पीतरूपवदभिन्नम्’ इति विग्रहवाक्यात् बोधः । समासवाक्यात्तु ‘पीतरूपविशिष्टाभिन्नाम्बरसम्बन्धी हरिरि’ ति बोधः । एवं समासघटकपदार्थापेक्षया बाह्यस्यार्थस्य प्राधान्यात् इतरसमासापेक्षया बहुव्रीहिर्जघन्य इत्युच्यते । गत्यन्तराभाव एव स आश्रयणीय इति भावः ॥
‘माता च पिता च पितरौ’ इत्यादिविरूपैकशेषसमासे पितृपदस्य मातापित्रोः लक्षणेति स्पष्टमेव । इदं विरूपैकशेषसमासे । ‘घटश्च घटश्च घटौ’, ‘घटश्च घटश्च घटश्च घटाः’ इत्यादि सरूपैकशेषे तु विभक्तयैव घटद्वयस्य, बहूनां घटानां च बोधात् न लक्षणा आवश्यकी ॥
‘उपकुम्भम्’, ‘अर्धपिप्पली’ त्यादौ उत्तरपदे कुम्भपदे, पिप्पलीपदे च कुम्भसमीपे, पिप्पल्यर्धे च लक्षणा, पूर्वपदं तात्पर्यग्राहकमात्रम् । एवं च समासे कुत्रापि न शक्तिः । अत एव न लक्षणापि, शक्यसम्बन्धस्याभावात् । वाक्ये शक्तिर्नास्ति, लक्षणा तु वर्तत इति अर्थवादवाक्यानां प्राशस्त्ये लक्षणायाः वक्तव्यत्वादिति मीमांसकाः । उभयम-
प्यस्तीति वैय्याकरणा इत्याद्यन्यत्र विस्तरः ।
[[200]]
आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः ।
पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा । अर्थाबाधो योग्यता ।
भवितुमर्हति, किन्तु विशकलितपदार्थस्मृतिरेव । एवम् ‘अग्निना सिञ्चति’ इति वाक्ये श्रुतेऽपि शाब्दबोधो न जायते, बाधितार्थकत्वात् । एवं प्रातः घटपदमुक्त्वा सायम् ‘आनय’ इति पदप्रयोगेऽपि शाब्दबोधो न भवति, पदानामत्यन्तं व्यवधानात् । एवं कोशादावपि पदानामर्थोपस्थितिमात्रं भवति । एषु स्थलेषु वाक्ये श्रुतेऽपि शाब्दबोधः कुतो न जायते ? इति शङ्कायाम्, तेषु स्थलेषु शाब्दबोधानुत्पत्तेः कारणान्याह - आकाङ्क्षत्यादिना । एवञ्चोक्त- स्थलेषु पदज्ञाने सत्यपि, सत्यपि च शक्तिज्ञाने आकाङ्क्षाद्यन्यतमकारणाभावान्न शाब्दबोधः । सकलकारणंसन्निधाने सत्येव कार्योदयसम्भवात् । ‘गौरश्वः पुरुषो हस्ती’ इत्यत्र तेषां पदानां परस्परमाकाङ्क्षाया अभावान्न शाब्दबोधः । यथा ‘भूतले घटः’ इत्युक्ते घटभूतलयोराधाराधेयभावात् आधारस्याधेयाकाङ्क्षा, आधेयस्याधाराकाङ्क्षा च वर्तते, तथा न हि गोपदार्थस्याश्वपदार्थस्य च परस्परमाकाङ्क्षा काचिद्वर्तते । अत आकाङ्क्षाभावान्न शाब्दबोधः । अत एव कोशान्न शाब्दबोधः, परस्परमाकाङ्क्षाभावात् ॥
आकाङ्क्षायाः स्वरूपमाह - पदस्येत्यादि । पदस्य कस्यचित्पदस्य पदान्तरम् - अन्यत् समीपस्थं पदम्, तद्व्यतिरेकस्तदप्रयोगः । तत्प्रयुक्तम्- तन्निबन्धनम् तत्पदे सति बोधः, तदभावे च न बोध इत्येवंरूपम्, अन्वयाननुभावकत्वम् - परस्परान्वयविशिष्टविषयकशाब्दबोधाजनकत्वं यदा भवति, तदा तयोः पदयोराकाङ्क्षा । यथा क्रियापदे श्रुते, कर्त्राकाङ्क्षा, कर्तृवाचकपदे प्रयुक्ते, क्रियाकाङ्क्षा च भवति । तद्वाचकपदाभावे च शाब्दबोधो न भवति । एवं सकर्मकधातुश्रवणे कर्माकाङ्क्षा, विशेष्यविशेषणवाचकपदादीनां परस्परमाकाङ्क्षादि च ज्ञेयम् ॥
योग्यता - अर्थाबाधः । प्रयुक्तशब्दश्रवणेनोपस्थितानामर्थानां
S 201
या पदानामविलम्बेनोच्चारणं सन्निधिः ।
आकाङ्क्षादिरहितं वाक्यं न प्रमाणम् । यथा गौरश्वः पुरुषो
हस्ती इति वाक्यं न प्रमाणम्, आकाङ्क्षाविरहात् ।
अग्निना सिञ्चतीति वाक्यं न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्नि- ध्याभावात् । लोके
परस्परबाधाभावः । परस्परबाधे सति बोधो न जायते । अत एव ‘वह्निना सिञ्चति’ इति वाक्ये श्रुते वह्नेः सेचनसाधनत्वं प्रतीयते । तच्च बाधितम् । जलं हि सेचनसाधनम् । अतः सेचनस्य वह्निकरणकत्वस्य च बाधात् योग्यताया अभावात्तेन वाक्येन शाब्दबोधो न भवति ॥
सन्निधिः
पदानामविलम्बेनोच्चारणमावश्यकम् । तदभावादेव, प्रातः ‘गाम्’ इत्युच्चार्य, सायम् आनय’ इत्युक्ते तयोरन्वयबोधो न भवति । तयोः पदयोस्सान्निध्याभावात् ॥
एवं वक्तुरिच्छारूपं तात्पर्यज्ञानमपि शाब्दबोधे कारणम् ‘सैन्धवमानय’ इति वाक्ये श्रुते, सैन्धवपदस्य अश्वः, लवणं द्वयमप्यर्थः । केनाभिप्रायेणायं शब्दःप्रयुक्तः ? इति जिज्ञासायाम्, प्रकरणादिवशाद्वक्तुरिच्छां ज्ञात्वा तदनुगुणमर्थं निर्धारयति । भोजनप्रकरणं चेत् सैन्धवपदस्य लवण- मर्थः । प्रयाणप्रकरणं चेत् तत्पदस्याश्वोऽर्थ इति । इदं च तात्पर्यज्ञानं नानार्थकपदस्थल एव कारणम्, न तु सर्वत्र । ‘घटमानय’ इत्यादौ हि घट- पदस्यार्थान्तराभावादिति केचिन्मन्यन्ते । परन्तु पदानां शक्तिर्हि घटत्वादिरूपसामान्यधर्मावच्छिन्ने घटसामान्ये । न तु एकस्मिन् घटे, घटान्तरविषयकशाब्दबोधानुत्पत्तिप्रसङ्गात् । एवं घटसामान्ये शक्त्योपस्थापिते - घटविशेषनिश्चयस्तु वक्तुरिच्छानुरोधेनैव । अतस्सर्वत्रैव शाब्दबोधे तात्पर्यज्ञानं
[[202]]
वाक्यं द्विविधं वैदिकं लौकिकं चेति । वैदिकमीश्वरोक्तत्वात् सर्वमपि प्रमाणम् । लौकिकं त्वाप्तवाक्यं
प्रमाणम् । अन्यदप्रमाणम्
कारणमित्येव युक्तम् । न हि ‘घटमानय’ इत्युक्ते घटव्यक्तिनिश्चयः तत्तात्पर्यज्ञानमन्तरा सम्भवी ॥
ननु पदानां शक्तिः किं जातौ ? उत व्यक्तौ ? यदि व्यक्तौ शक्तिः, तर्हि शक्तिग्रहणवेलायां गोपदस्य एकस्यामेव गवि शक्तिग्रहणात्, अन्यगोविषयकबोधो न स्यात् । अतो जातावेव शक्तिः । ‘गामानय’ इत्युक्ते गोः आनयनान्वयासम्भवादन्वयानुपपत्त्या व्यक्तिबोध इति मीमांसकाः । परन्तु ‘गौरस्ति’ इत्यत्र तथानुपपत्तेरभावात् व्यक्तिबोधो न स्यात् । गोपदश्रवणसमनन्तरमेव गोत्वविशिष्टबोधानुभवात्, जातौ तद्व्यञ्जकाकृतौ, जात्याश्रयव्यक्तौ चेति त्रिष्वपि शक्तिरिति तार्किकाः ॥
ननु तर्हि ‘गङ्गायां घोषः’ इति वाक्यात् कथं बोधः ? गङ्गापदस्य हि नदी अर्थः । घोषः = आभीरपल्ली । सा कथं गङ्गायां स्यात् ? एवं ‘राजवीथ्यां गृहं वर्तते’ इत्यत्र वीथीपदस्य सञ्चारमार्गोऽर्थः । सञ्चारमार्गे गृहं कथं स्यात् ? इति चेत्, न । एतादृशस्थले लक्षणया बोधात् । लक्षणया गङ्गापदस्य गङ्गातीरमर्थः, वीथीपदस्य वीथीपार्श्वभागोऽर्थः । लक्षणा नाम शक्यार्थसंवन्धः । गङ्गापदस्य शक्यार्थः गङ्गानदी, तत्सम्बन्धस्तीरे वर्तते। एवं वीथीपदस्य वीथीमार्गोऽर्थः । तत्सम्बन्धः तत्पार्श्वभागस्य वर्तत इति बोधो भवति । ततश्च शक्तिलक्षणान्यतरसम्बन्धः शाब्दबोधहेतुः । शक्तिः, लक्षणा च वृत्तिपदेनोतच्येते ॥
वाक्यं विभजते - वाक्यमिति । ईश्वरोच्चरितत्वादिति । तात्पर्यज्ञानस्य शाब्दबोधं प्रति कारणतया, तात्पर्यस्य च वक्तुरिच्छारूपत्वात्,
[[203]]
वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ।
इति तर्कसङ्ग्रहे शब्दपरिच्छेदः समाप्तः ॥
आलोक- व्याख्या
वेदवाक्यजन्यबोधे तद्वक्त्रभावे शाब्दबोधो न स्यात् । अतो वेद ईश्वरेणैवों- पदिष्टः । तर्हि ‘वेदोऽपौरुषेयः’ इति प्रसिद्धिः कथमिति चेत्, मानवबुद्धिमूलक- त्वाभावाद्वेदस्य, लोके शब्दानां सर्वेषां मानवबुद्धिमूलकत्वात्, वेदस्य मनुष्यकृतत्वाभावात् तथा व्यवहारः । अत एव ‘श्रुतिस्स्मृतिर्ममैवाज्ञा’ इत्यादीश्वरवचनमपि सङ्गच्छते । निगमयति- वाक्येत्यादि ॥
ननु ईश्वरेच्छामूलकपाणिन्यादिसङ्केततः प्रकृतिप्रत्ययानां शक्तिग्रहो भवेत् । तयोरन्वयः केन सङ्केत्यते ? ‘घटमानय’ इत्युक्ते घटपदस्य घटोऽर्थः । द्वितीयायाः कर्मत्वमर्थः । कर्मत्वस्य घटवृत्तित्वं कथं ग्राह्यम् ? प्रकृतिप्रत्ययातिरिक्तस्तयोर्मध्ये न हि कश्चन शब्दः श्रूयते । प्रत्यक्षे तु घटभूतलयोः, रूपघटयोर्वा आधाराधेयभावश्चक्षुषैव दृश्यते । आधेयता किं सम्बन्धावच्छिन्नेति निर्णयस्तु शास्त्रात् । न ह्येवं शब्दानुमानस्थले सम्बन्धः साक्षाद्वर्तते । न हि व्याप्तिज्ञानमन्तरा धूमदर्शनमात्रात् वह्न्यनुमितिर्भवेत् । न वा शक्तिज्ञानमन्तरा पदात् पदार्थबोधो भवेत्, पदजन्यपदार्थोपस्थितेश्शाब्दबोधं प्रति कारणत्वात् । अतः प्रकृतिप्रत्ययार्थयोस्सम्बन्धः केन बोध्यते, तद्वाचकशब्दादर्शनादिति चेत्; न तत्तत्समभिव्याहारवशादेव सम्बन्धो बोध्यते, न तु शक्त्या । अतश्च घटपदशक्त्या घटरूपार्थो बोध्यते । द्वितीयया च कर्मत्वं बोध्यते । तयोराधाराधेयभावस्तु, घटपदोत्तरम् अम्प्रत्ययश्रवणात्, परस्पराकाङ्क्षायोग्यतादिवशात् भासते । एवं कर्मत्वस्यानयनस्य च सम्बन्धो निरूपकत्वरूपस्तादृशादौचित्यादेव भासते । एवं शाब्दबोधस्यौचित्यमूलकत्वादेव कदाचिदन्योद्देशेन प्रयुक्तात् शब्दात् समीचीनशाब्दबोधाजननेनार्थभ्रान्त्या वादविवादा अपि दृश्यन्ते । अनुमितिस्थले
J
[[204]]
आलोक- व्याख्या
सम्बन्धो यथाविनाभावः, न तथास्ति तादृशः शब्दार्थयोरविनाभावः, कस्याप्यननुभवात् । एवञ्च प्रथमं प्रकृतिप्रत्ययाद्यैरर्थोपस्थितिः तत्तच्छक्त्या । अनन्तरमाकाङ्क्षाद्यौचित्यवशात् सम्बन्धग्रहणम् । अयमेवाभिहितान्वयवादः, पदैरभिहितानामर्थानाम् अनन्तरमन्वयभानात् । तथा च प्रकारतया विशेष्यतया वार्थवोधं प्रत्येव पदजन्यपदार्थोपस्थितिः कारणम्, न त्वन्वयोपस्थिति प्रत्यपि । सर्वेषामनुभवोऽप्येवमेवेति सिद्धान्तिनः ॥
की
प्राभाकरास्तु– अन्वयांशेऽपि पदानामस्त्येव शक्तिग्रहः । अतश्च घटपदस्य कर्मत्वान्वितघट एव शक्तिः । अम्प्रत्ययस्यापि घटान्वितकर्मत्व एव शक्तिः । एवं कर्मत्वस्यानयनान्वयस्यापि भानात्, आनयनान्विते कर्मत्व एव अम्प्रत्ययस्य शक्तिः । एवमानयनपदस्यापि कर्मत्वान्वित एवानयने शक्तिरिति बहुधा वर्णयन्तः किश्यन्ति स्वयम्, केशयन्ति चेतरान् । परस्परमन्वितानामेवार्थानां पदैर्बोधनात् अयमेवान्विताभिधानवाद इत्युच्यते । एवं सति हि कस्य पदस्य केन साकं समभिव्याहार इत्यनिमयात् कस्यापि पदस्य शक्तिग्रह एव न स्यात् । ‘घटमानय’ ‘पटमानय’ ‘गामानय’ इत्यादिसमभिव्याहारा ह्यनन्ताः । एवं घटमानय, घटं नय, घटं पश्य इत्येवंरूपाः क्रियापदसमभिव्याहारा अप्यनन्ताः । घटपदस्य आनयनान्वितघटे, नयनान्वितघटे, दर्शनान्वितघटे च शक्तिः । एवम् अम्प्रत्ययस्य घटान्वितकर्मत्वे, पटान्वितकर्मत्वे, गवान्वितकर्मत्वे च शक्तिरिति अतिगौरवम् । पदार्थानां पुनः पुनः भानात्पौनरुक्त्यमित्याद्यनन्ता दोषाः । अत औचित्यमूलकमेवान्वय- भानमिति युक्तः पन्थाः ॥
इति शव्दखण्डः
कक
एवम् - ‘यथार्थानुभवञ्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात्’ इति विभक्तस्य यथार्थानुभवस्य विचारस्समाप्तः । अथ प्रप्रथमम् स च
[[80205]]
एवं यथार्थानुभवो निरूपितः । अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् । एकस्मिन्धर्मिणि विरुद्धनानाधर्म- वैशिष्ट्यज्ञानं संशयः । यथा स्थाणुर्वा पुरुषो वा इति ।
आलोक- व्याख्या
द्विविधो यथार्थः, अयथार्थश्चेति विभक्तयोर्मध्ये, अथायथार्थानुभवनिरूप- णोपोद्घाततया तस्य सङ्गत्यर्थमाह - एवमित्यादि ।
प्रथमोद्दिष्टं संशयं निरूपयति - एकस्मिन्नित्यादि । विरुद्धाश्च ते नानाधर्माश्च विरुद्धनानाधर्माः । ते प्रकारा यत्र तत् विरुद्धनानाधर्मप्र- कारकम् । ‘एकस्मिन्’ इति धर्मिविशेषणम् । ‘धर्मिणि’ इत्यत्र सप्तम्या विशेष्यत्वमर्थः । प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । विरुद्धत्वं परस्परासमानाधिकरणत्वम् । ततश्च विरुद्धनानाधर्मप्रकारकं नाम परस्परासमानाधिकरणनानाधर्मनिष्ठप्रकारतानिरूपकम् इत्यर्थः । ततश्च- एकधर्मिनिष्ठविशेष्यता- निरूपकम्, परस्परविरुद्धनानाधर्मनिष्ठ- प्रकारतानिरूपकं च ज्ञानं संशय इत्यर्थः । । एवञ्च एकधर्मावच्छिन्न- विशेष्यतानिरूपकत्वे सति, परस्परविरुद्धनानाधर्मावच्छिन्न- प्रकारताशालित्वे सति ज्ञानत्वं संशयलक्षणम् । ज्ञानत्वमात्रोक्तौ विपर्यये प्रमायाञ्चातिव्याप्तिः, तयोरपि ज्ञानत्वात् । अतो नानाधर्मप्रकारकत्वं विशेषणम् । शुक्तौ ‘इदं रजतम्’ इति विपर्यये रजतत्वमात्रप्रकारकत्वात् नानाधर्मप्रकारकत्वाभावात् नातिव्याप्तिः । एवमपि ‘भूतलं घटवत् पटवच’ इति समुच्चयात्मकज्ञाने, ‘भूतलं घटपटवत्’ इति समूहालम्बनज्ञाने च एकस्मिन् धर्मिणि नानाधर्मप्रकारकत्वादतिव्याप्तिरित्यतः विरुद्धेति । समुच्चये समूहालम्बने च विरोधस्याभानान्नातिव्याप्तिः ॥
ननु संशयस्यायथार्थानुभवावान्तरविभागरूपत्वात्, तदभाववति तत्प्रकारकत्वरूपसामान्यलक्षणस्य जागरूकत्वे प्रमात्मकसमुच्चये समूहालम्बने
[[20206]]
मिथ्याज्ञानं विपर्ययः । यथा शुक्ताविदं रजतम् इति ।
व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा यदि वह्निर्न स्यात्
तर्हि धूमोऽपि न स्यात् इति ।
वा कथमतिव्याप्तिप्रसक्तिरिति चेत्, न । शुक्तौ ‘इदमेकं रजतम्’ इति भ्रमे एकत्वरजतत्वरूपनानाधर्मप्रकारकत्वस्य सत्त्वात् विपर्ययेऽतिव्याप्तिः । अतो विरुद्धत्वविशेषणम् । एकत्वरजतत्वयोर्विरोधाभावाद्व्यावृत्तिः । एवमपि अतिव्याप्तिर्दुर्वारैव, रङ्गे रजतत्वावगाहित्वेनायथार्थत्वापरित्यागात् ‘रङ्गरजते दृष्ट्वा ‘इमे रजतरङ्गे’ इति भ्रमे विरुद्धनानाधर्मप्रकारकत्वसत्त्वात् अतिव्याप्तिवारणाय ‘एकस्मिन् धर्मिणि’ इति । तत्र ‘इमे’ इति नानाधर्मिकत्वान्नातिव्याप्तिः ॥
मिथ्येत्यादि । एतल्लक्षणं च पूर्वमेवोक्तम्- ‘तदभाववति तत्प्रकार- कानुभव इति । ननु तत् अप्रमाया लक्षणम् । अप्रमैव मिथ्याज्ञानमुच्यते । स एव चायथार्थानुभवः । अयं च त्रिविध उक्तः - संशयविपर्ययतर्कभेदादिति । तदभाववति तत्प्रकारकत्वं त्रयाणामपि सामान्यं लक्षणम् । एवं चेत् विपर्ययस्य लक्षणं संशये तर्फे चातिव्याप्तं किलेति चेत्, सत्यम् । संशयतर्कभिन्नत्वे सति तदभाववति तत्प्रकारकत्वं विपर्ययस्य लक्षणमिति विशेषलक्षणं वक्तव्यमिति न कश्चन दोषः । ननु तर्हि विपर्ययो निश्चयरूपः । निश्चयत्वं च संशयान्यज्ञानत्वम् । एवञ्चान्योन्याश्रयः संशयान्यज्ञानत्वं विपर्ययत्वम्, विपर्ययान्यज्ञानत्वं संशयत्वमितीति चेत्, प्रमाया अपि निश्चयरूपत्वात् विपर्ययत्वनिश्चयत्वयोः पर्यायत्वाभावान्न दोषः अथवा निश्चिनोमीति अनुभवसिद्धजातिमत्त्वमेव निश्चयत्वम् । अथवा ‘तदभाववद्विशेष्यकत्वे सति परस्परविरुद्धधर्माप्रकारकानुभवो विपर्यय इति नान्योन्याश्रयः ॥
तर्कस्य लक्षणम् - व्याप्येत्यादि । व्याप्यस्यारोपेण व्यापक-
[[0207]]
आलोक- व्याख्या की
स्यारोपणं तर्कः । यथा ‘पर्वतो वह्निमान् धूमात्’ इति प्रयुक्ते, कश्चित् पृच्छति ‘धूमस्य सत्त्वमात्रेण, वह्निसत्त्वं कथं निश्चीयते’ इति । एवं प्रश्नस्याप्रयोजकशङ्केति सञ्ज्ञा । ‘हेतुरस्तु साध्यं मास्तु’ इति शङ्काप्रयोजकशङ्का । हेतोः सत्त्वं साध्यस्य सत्त्वे न प्रयोजकम्, यदि साध्यं विनापि हेतुः स्यात्पक्षे इति शङ्काया आशयः । तस्योत्तरं वक्ति - ‘यदि साध्यं न स्यात्, तर्हि हेतुरपि न स्यात्’ इति । प्रकृते ‘यदि वह्निर्न स्यात्, तर्हि धूमोऽपि न स्यात्’ इति । जगति यत्र कुत्रापि वह्न्यभावेऽपि धूमो दृष्टः किम् ? अतो वह्न्यभावे धूमोऽपि न स्यादेव । ‘धूमो यतो दृश्यते, तर्हि वह्निरपि स्यादेव, न तु वह्न्यभावः’ इति प्रदर्शनेन प्रकृतहेतोः अप्रयोजकत्वशङ्का= साध्यासाधकत्वशङ्का निवर्तते । अतोऽप्रयोजकशङ्कानिवारकस्तर्क इत्युच्यते । पर्वते वह्नेर्धूमस्य च सत्त्वात् ‘यदि वह्निर्न स्यात्’ इति कल्पयित्वा वक्तव्यम् । एतादृशकल्पनात्मकं ज्ञानम् ‘आरोपः’ इत्युच्यते । एवं ‘धूमोऽपि न स्यात्’ इत्यारोप एव । धूमस्य सत्त्वेन तथा वक्तुमशक्यात्। एतदारोपसूचनार्थमेव ‘स्यात्’ इत्युच्यते । अत्र वह्न्यभावो व्याप्यः, धूमाभावो व्यापकः । आक्षेप्ता पृच्छति - ‘धूमोऽस्तु’ इति । अतस्तस्य पर्वते धूमाभावो नेष्टः । प्रतिवक्ता वदति, ‘यदि पर्वते धूम एव स्यात्, न तु धूमाभावः, तर्हि तत्र वह्निरेव स्यात्, न तु वह्न्यभावः । अत्र वह्न्यभाव एवाक्षेप्तुरिष्टः । तत उच्यते ‘यदि वह्न्यभावः स्यात्, तर्हि धूमाभाव एव स्यात्, न तु धूमः’ इति । अतो यदि व्याप्यो वह्न्यभावः स्यात्, तर्हि व्यापको धूमाभाव एव स्यात् । ‘यत्र वह्न्यभावस्तत्र धूमाभावः ’ इति व्याप्तेः सत्त्वात् । अतश्च यदि धूमः स्यात्, तर्हि वह्निरप्यावश्यक इति प्रदर्शनमेव तर्कस्य कृत्यम् । आरोपो नाम, वस्तुतस्तथाऽभावेऽपि तथात्वकल्पनम् । बाधकालिकमिच्छाजन्यमिदं ज्ञानम् ’ आहार्यम्’
TO 208
स्मृतिरपि द्विविधा । यथार्थाऽयथार्था चेति । प्रमाजन्या यथार्था । अप्रमाजन्या अयथार्था ।
‘उपनीतभानम्’ इत्यप्युच्यते । अत एव वह्न्यभावस्य बाधज्ञाने सत्यपि, इच्छया बलात्कारेणोत्पाद्यते एतादृशं ज्ञानम् । एतादृशस्थले तदभाववत्तानिश्चये सत्यपि तद्वत्ताबुद्धिरुत्पद्यते । अत एव प्रतिबध्यप्रतिबन्धकभावकोटा- वुभयत्रानाहार्यत्वविशेषणम्। आहार्यज्ञानं तु न कुत्रापि प्रतिबन्धकम्, प्रतिबध्यं वा । प्रतिबन्धककोटौ ‘अनाहार्य’ पदं स्पष्टम् । प्रतिबध्यकोटौ तु ‘लौकिकसन्निकर्षाजन्य’ पदमेतदर्थकम् । बलात्कारेणाह्रियमाणत्वात्, तत् आहार्यज्ञानं न लौकिकसन्निकर्षजन्यम् । अधिकमन्यत्र ॥
एवं ‘ज्ञानं द्विविधम् — स्मृतिः, अनुभवश्च’ इति विभक्तयोः मध्येऽनुभवस्यैव स्मृतिं प्रति कारणत्वात् प्रथममनुभवविचारं परिसमाप्य, स्मृतौ वक्तव्यं वक्ति - स्मृतिरपीत्यादि । एवञ्च स्मृतेः प्रमात्वमप्रमात्वं वा तद्धेतुभूतज्ञानाधीनमिति, स्मृतावेतद्विभागो न मुख्यः । स्मृतौ प्रमात्वस्याङ्गीकारे, तद्धेतुभूतस्य संस्कारस्य प्रमाकरणत्वप्राप्त्या प्रमाणत्वं स्यात् । न चास्तु का हानिरिति वाच्यम्, तर्हि अयथार्थस्मृतेरपि प्रमाणजन्यत्वात्, प्रमात्वापत्तिः । अस्तु तर्हि संस्कारेऽपि विभाग इति वाच्यम्, करणे तथा विभागासम्भवात् । न हीन्द्रियादौ तथा विभागो वक्तुं शक्यते । इन्द्रियं हि प्रमाकरणम्, न तु अप्रमाकरणम् । तर्हि शुक्तौ ‘इदं रजतम्’ इति ज्ञानमिन्द्रियमन्तरापि स्यादिति चेत्, ‘इदम्’ इत्यंशस्येन्द्रियान्वयव्यतिरेकानुविधानात् तावत्येवेन्द्रियव्यापार- स्योपरमः । ‘रजतम्’ इत्यंशस्तु ज्ञानलक्षणारूपालौकिकसन्निकर्षवशा- द्भवतीत्यादिकमन्यत्र द्रष्टव्यम् । आहत्यातीन्द्रिये संस्कारे द्वैविध्यस्याभावात्, तज्जन्यस्मृतावपि द्वैविध्यं तद्धेतुभूतानुभवाधीनम् इति, विभागप्रदर्शनं16
स्वरूपकीर्तनमात्रम् ॥
[[01]]
[[209]]
इत्येवं बुद्धिर्निरूपिता । प्रमात्वमप्रमात्वं वा किं स्वतोग्राह्यम्, उत परतः ? इति संशये प्रमात्वं स्वतः, अप्रमात्वं तु परत इति पूर्वोत्तरमीमांसकौ । उभयमपि स्वत इति साङ्ख्याः । अप्रमात्वं स्वतः, प्रमात्वं तु परत इति वौद्धाः । उभयमपि परत इति सिद्धान्तिनः । तत्राप्रामाण्यमेव स्वत इत्यप्रामाणिकेभ्यो रोचेत । प्रामाण्यं स्वतश्चेदनन्तरम् ‘ममोत्पन्नं ज्ञानं प्रमा, न वा’ ? इति संशयो न स्यात् । उभयोः स्वतस्त्वमनुभवविरुद्धम्, अप्रयोजकं च । अत उभयं परत इति सिद्धान्त एव शोभनः ॥
ज्ञानं कथं गृह्यते ? इत्यत्रैव विवादे शोभमाने, ज्ञानस्यावान्तरविभागे प्रमायां प्रमात्वं कथं स्वयं गृह्येत ? ज्ञानं स्वप्रकाशम् इति उभौ मीमांसकौ । अनुव्यवसायगम्यमिति सिद्धान्तिनः, मीमांसकैकदेशी मिश्रश्च । नित्यानुमेयमिति भट्टः । एवं सति प्रमात्वं स्वत इति शपथः कथम्? प्रथमं हि विषय एव गृह्यते, अनन्तरं तु ज्ञानम्, तदनन्तरं च प्रमात्वम् । न हि प्रमात्वं जातिः, येन सहैव गृह्यते । किन्तु तद्वति तत्प्रकारकत्वम् । तच्च प्रवृत्तिसार्थक्ये सति निश्चीयत इति सर्वेषामप्यनुभवः । ‘ममोत्पन्नं ज्ञानम् प्रमा, सफलप्रवृत्तिजनकत्वात्’ इत्यनुमानेन खलु प्रामाण्यम् = प्रमात्वं गृह्यते । अतश्च विषयग्राहकसामग्री ज्ञानम्, ज्ञानग्राहकसामग्री अनुव्यवसायः, प्रामाण्यग्राहकसामग्री तु उक्तानुमानम् । एवञ्च विषयग्रहणसमये विषयिणोऽग्रहणवत्, विषयिग्रहणसमये तद्गतप्रामाण्यमपि न गृह्येतेत्येव युक्तम्।
टिप्पणी
प्रामाण्यवादः ज्ञानानां प्रामाण्यं स्वतः ? उत परतः ? इत्यत्र बहु विप्रतिपद्यन्ते विपश्चितः । ननु भोः ! किमर्थमेवं किश्यन्ति विपश्चित्तमाः ? यत् येन
20210 टिप्पणी
गृह्यते, तन्निष्ठा जातिरपि तेनैव गृह्यते इति प्रसिद्धो नियमः । ज्ञानं हि मनोजन्येनानुव्यवसायेन गृह्यते । ज्ञानत्ववत् प्रमात्वमपि गृह्येतेति कः केश इति चेत्; ज्ञानत्वं ज्ञान-पदशक्यतावच्छेदकतयैव सिद्ध्येत् । प्रमात्वं तु न तथा वक्तुं शक्यम् । ममोत्पन्नं ज्ञानं प्रमा, न वा ? इति संशयस्तु सर्वेषां कदाचित् दृश्यते । प्रमात्वं यदि गृहीतम् ? तर्हि कथं संशयः ? प्रमात्वं हि तद्वति तत्प्रकारत्वं, नाखण्डः कश्चित् धर्मः । तत्तु प्रथमं न गृह्येतैवेति युक्तो विचारः । तत्र -
(१) प्रामाण्यं स्वतः, अप्रामाण्यं परत इति वैदिकाः । (२) अप्रामाण्यं स्वतः, प्रामाण्यं तु परत इति बौद्धाः । (३) उभयमपि परत इति नैयायिकाः ।
(४) उभयमपि स्वत इति साङ्ख्याः ।
वैदिकानां वादस्तु वेदप्रामाण्यसंरक्षणसम्भ्रमादिति स्पष्टम् । अत एव विचारक्षेत्रे नागच्छति । तर्काप्रतिष्ठानात् (ब.सू. २-१-११) इति हि वैदिकाः । मानवास्तु बुद्धिजीविन इति प्रसिद्धम् । बौद्धास्तु विकल्पानामप्रामाण्यम्, स्वलक्षणज्ञानमेव प्रमाणमिति मन्वानाः तथात्यभिनिविष्टाः । इदं च लोकानुभवविरुद्धत्वादेवौदासीन्यमर्हति । साङ्ख्यैस्तु अन्तःकरणवृत्तिरेवार्थरूपेण परिणमत इत्यङ्गीकारात्, ज्ञानं स्वांशे प्रमाणमेव सर्वेषाम् । भ्रमस्थलेऽपि ‘मम ज्ञानमेव नोत्पन्नम्’ इत्यनुभवति सर्वोऽपि । अतः स्वांशे तत् स्वतः प्रमाणमेव सर्वेषाम् । अत इदमपि न विचारार्हम् । एवं हि प्रमाभ्रमविभागोऽपि न स्यात् । एवं सति स्वपक्षपरपक्षविभागोऽपि न स्यात् । अतञ्च परिशेषात् न्यायनय एव विचारार्हः ॥
THR
वस्तुतस्त्वयं विचारो वेदप्रामाण्यस्योदर्करूप इत्येवं मन्यन्ते । वेदा हि वैदिकानां परमं प्रमाणम् । न हि तत्प्रामाण्ये कश्चिद्वैदिकः कदापि संशेते । मातापितृसहस्रेभ्योऽपि हिततमा वेदा इति महात्मानोऽद्यापि घोषयन्त्येव । तदेतदसहमाना मध्यकालिकबौद्धा एव वेदप्रामाण्यापहारायैव ज्ञानानामप्रामाण्यमेवौत्सर्गिकमाशेरते । तदिदं ‘स्वस्य नेत्रद्वयनाशेऽपि तवैकमेव वा नेत्रं नश्यतु’ इत्याशंसातुल्यमेव । न ह्येतावतापि वेदा न हि नष्टाः, न वा क्षीणाः । न हि चक्षुषो निमीलनेन ललाटन्तपो जगच्चक्षुः नश्यति । अतोऽवैदिकानामिमं श्रद्धामूलकं वादमुपेक्ष्य वस्तुतत्त्वं विचारयामः ॥
T
ar
[[211]]
टिप्पणी
को वा मतिमान् स्वस्योत्पन्नं ज्ञानमप्रमेति जानन् कुत्रचित्प्रवर्तेत । अतश्च ज्ञानाना- मप्रामाण्यं स्वतश्चेत् जगत्सर्वं निष्क्रियं सम्पद्येत । एवमेव प्रामाण्यस्य स्वतस्त्वे उत्तरकाले संशयविचारादिकमर्थहीनं स्यात् । दाढय तथेति चेत्, स्वतः प्रामाण्यं सङ्केतमात्रं स्यात् । वस्तुतस्तु स्वतः प्रामाण्यवादो वेददृष्ट्यैव, वेदप्रामाण्यस्य प्रश्नानर्हत्वा- द्वैदिकानाम् ।
ननु स्वतः प्रामाण्यस्योत्सर्गत्वाभावे मानवानां प्रतिदिनं दृश्यमाना असङ्ख्याकाः प्रयत्नाः कथं स्युरिति चेत्, न, अप्रामाण्यज्ञानाभावमात्रादेव तदुपपत्तेः, तथैव दर्शनाच्च । व्यवहारे तु वक्तृपुरुषे आप्तत्वज्ञानादेव प्रवर्तन्ते सर्वेऽपीति सर्वानुभवसिद्धम् । अतञ्च ममोत्पन्नं ज्ञानं प्रमा, सफलप्रवृत्तिजनकत्वात् इत्यनुमानादेव प्रामाण्यं गृह्यत इत्येव स्वरसम् । वेदस्य नित्यसर्वज्ञेश्वरोपदिष्टत्वादेव निर्दुष्टत्वम् । पुरुषबुद्धिमूलक- त्वाभावादेवापौरुषेयत्वम् । अत एव भ्रमप्रमादविप्रलम्भाद्यसम्भवोऽपि सिद्धः ॥
एवञ्च ‘व्यवहारे न्यायनयः’ इत्येव प्रामाणिकम् । एतदर्थमेवायमवतीर्णो विद्यास्थानेषु परिगणित इत्यादिकं न्यायमञ्जर्यां विस्तरेण द्रष्टव्यम् । अत एव ‘व्यवहारे भट्टनयः’ इति सङ्केतमात्रं ज्ञेयम् । भट्टोऽपि हि तार्किकमीमांसकः, न तु शुद्धमीमांसकः ।
ज्ञानानां प्रामाण्यं स्वतो वा परतो वेति विचार्यते । ‘स्वतः’ इत्यस्यार्थः कः ?
‘परतः’ इत्यस्यार्थः कः ? । अत्रापि विभागो वर्तते
प्रामाण्यं स्वत एवोत्पद्यते वा,
परत एवोत्पद्यते वा ? इति प्रामाण्योत्पत्तौ विकल्पः । प्रामाण्यज्ञप्तिः प्रामाण्यनिश्चयः स्वतो वा? परतो वा ? इति ज्ञप्तौ विकल्पः । घटादयः खलु बाह्याः पदार्थाः चक्षुरादिभिः गृह्यन्ते । अत्र ग्रहधातोः ज्ञानमर्थः । इदं च ज्ञानं व्यवसाय इत्युच्यते । एवम् उत्पन्नं ज्ञानम् अनन्तरं मनसा गृह्यते । अस्य ‘अनुव्यवसायः इत्यर्थः । व्यवसायमनुजातः- अनुव्यवसायः । तेन ज्ञाने गृह्यमाणे तद्गतं प्रामाण्यम् अप्रामाण्यं वा केन गृह्यते? स्वत एव गृह्यते इति केचन । यदि स्वतः, तर्हि अनन्तरं ‘ममोत्पन्नं ज्ञानं प्रमा, न वा ? ’ इति संशयो न स्यात् । संशयदर्शनात् प्रामाण्यं न स्वतः; किन्तु परत इति नैयायिकाः ।
[[212]]
टिप्पणी
पदार्थाः खलु सामान्यविशेषस्वरूपाः । अतस्तेषां सामग्र्यामपि सामान्यसामग्र्यः, विशेषसामग्र्य इति भिद्यन्ते । यथा पटसामान्यसामग्री तन्तवः । पटविशेषस्य पीतपटस्य तु पीततन्तवः । एवं ज्ञानसामान्यसामग्री आत्ममनस्संयोगादिरूपा । ज्ञानविशेषस्य प्रत्यक्षादेः इन्द्रियादिरूपा सामग्री भिद्यते । एवं ज्ञानविशेषरूपः प्रमा, भ्रमश्च । अतश्च ज्ञानसामान्यसामग्र्यतिरिक्ता प्रमाभ्रमसामग्री का ? इति विचार एव उत्पत्तिविचारः कथ्यते । उत्पन्नस्य प्रमात्मकज्ञानस्य प्रमात्वम्, प्रामाण्यं कथं गृह्यत इति विचारो ज्ञप्तिविचार इति कथ्यते ।
अत्र ‘स्वतः’ ‘परतः’ इत्यस्य कोऽर्थः ? अत्रापि प्रामाण्यं ज्ञाने कथमुत्पद्यते ? किं स्वतः ? उत परतः ? एवं प्रामाण्यस्योत्पत्तौ प्रमाण्यस्य ग्रहणे च विकल्पः । एवं ज्ञाने प्रामाण्यं स्वत एवोत्पद्यते स्वत एव गृह्यते च इति स्वतस्त्ववादः । परत एवोत्पद्यते इति, परत एव = अनुमानादेव गृह्यत च इति परतस्त्ववादः । अतश्च प्रामाण्यं ज्ञानग्राहकसामग्रीजन्यमिति उत्पत्तौ स्वतस्त्वम्, ज्ञानग्राहकसामग्रीग्राह्यत्वमेव ज्ञप्तौ स्वतस्त्वम् ।
ननु ! यदि ज्ञानग्राहकसामग्रीग्राह्यत्वमेव प्रामाण्ये स्वतस्त्वम्, प्राभाकरमतेऽपि अप्रामाण्यस्य परत एव ग्रहणाङ्गीकारात्, ‘इदं ज्ञानम् अप्रमा, विफलप्रवृत्तिजनकत्वात्’ इत्यप्रामाण्यग्राहकानुमितिसामग्र्या पक्षभूते ज्ञाने अप्रामाण्यस्यैव ग्रहणात् कथं प्रामाण्यं ज्ञानग्राहकसामग्रीग्राह्यम् ? इति चेत्, ‘तदप्रामाण्याग्राहक’ इति ज्ञानग्राहकसामग्र्यां विशेषणेन व्यभिचाराभावात् । उक्तानुमितिसामग्र्या अनुमितौ प्रामाण्यग्रहणेऽपि पक्षभूते ज्ञानेऽप्रमाण्यग्रहणेन व्यावृत्तेः। तच्छब्दस्य यस्मिन् विषयिणि अनुमित्यात्मिके प्रामाण्यं स्वतो गृह्यते, सोऽर्थः । पक्षभूतज्ञान एव तत्सामग्र्या अप्रामाण्यं गृह्यते, अनुमितौ तु प्रामाण्यमेव गृह्यते ।
ननु नैयायिकमते ‘इदं ज्ञानं प्रमा सफलप्रवृत्तिजनकत्वात्’ इत्याकारानुमिति- सामग्र्या (पक्षविधया) ज्ञानग्राहकत्वात्, प्रामाण्यग्राहकत्वाच्च, ज्ञानग्राहकसामग्रीग्राह्यत्वरूपं स्वतस्त्वं वर्तत इति अपसिद्धान्त इति चेत् न, ज्ञानग्राहकसामग्र्यां यावत्त्वस्य
[[213]]
टिप्पणी
विशेषणेनादोषात् । यावत्त्वं च साकल्यरूपम् । तादृशसकलसामग्रीग्राह्यत्वमर्थः । उक्तप्रामाण्यग्राहकसामग्र्या, पक्षविधया ज्ञानग्राहकत्वेऽपि, ज्ञानग्राहकसकलसाम- ग्र्यन्तर्गतया ‘अहं घटज्ञानवान्’ इत्याद्यनुव्यवसायसायमग्र्या प्रामाण्याग्रहणान्न काप्यनुपपत्तिः । तथा च तदप्रामाण्याग्राहकज्ञानग्राहकयावत्सामग्रीग्राह्यत्वं स्वतस्त्वम्, तदभाव एव परस्त्वम् ॥
ज्ञानग्राहिका च सामग्री प्राभाकरमते, ज्ञानोत्पत्तिहेतुभूता स्वप्रकाशसामग्री । तयैव प्रामाण्यस्य ग्रहणात्, ज्ञानग्राहकसामग्रीग्राह्यत्वरूपं स्वतस्त्वं सङ्गच्छते ॥
भाट्टमते च, ज्ञानं न स्वप्रकाशम्, किन्तु ज्ञाततालिङ्गकानुमानगम्यम् ‘अहं घटज्ञानवान्, घटविषयज्ञाततायाः’ इत्यनुमानमेव ज्ञाने प्रमाणम् । तथा तदप्रामाण्या- ग्राहिकया ज्ञानग्राहिकया च तादृशानुमितिसामग्र्या प्रामाण्यस्यापि ग्रहणात्, प्रामाण्यस्य स्वतस्त्वं सङ्गच्छते ॥
मिश्रमते च नैयायिकमतवदेव ज्ञानं न स्वप्रकाशम्, न वा भाट्टवत् अनुमित्या ग्राह्यम्, हेतुज्ञानादीनामुपपादयितुमशक्यत्वात्। किन्तु, ज्ञानम् अनुव्यवसायेनैव गृह्यते । परं तु प्रामाण्यस्याप्यनुव्यवसायेनैव ग्रहणात् ज्ञानग्राहकसामग्रीग्राह्यत्वरूपं स्वतस्त्वं सिद्धम् ॥
सिद्धान्ते- ज्ञानसामग्री अन्या, ज्ञानग्राहकसामग्री अन्या, प्रामाण्यग्राहकसामग्री चान्येति परतस्त्वसिद्धिः ॥
यदा चक्षुस्संयोगादिना ‘अयं घटः’ इत्यादिज्ञानं जायते, तदा घटमात्रमेव तेन ज्ञानेन गृह्यते, न तु घटज्ञानम् । ज्ञानं ह्यान्तरम्, घटस्तु बाह्यः । उभयविषये व्यापारद्वयस्य युगपदसम्भवात्, प्रथमं जायमानं ज्ञानं घटमात्रविषकम्, विषयस्य च बाह्यत्वात्, विषयाभिमुखत्वमेव ज्ञानस्य स्वरसम् । ज्ञानं त्वान्तरमनन्तरम् अनुव्यवसायेनैव गृह्यते । अनेनैव, युगपद्विषयस्य विषयिणञ्चाग्रहणात्, ज्ञानानां स्वप्रकाशत्वमपि गतम्, किन्तु अनुव्यवसायेनैव ज्ञानं गृह्यते । विषयस्य घटादेः ग्रहणम्, विषयिणो ज्ञानस्य ग्रहणम् इति ग्रहणद्वयासम्भवात् अननुभवाच्च, उभयोः प्रत्येकमेव ग्रहणम् । एवं
[[214]]
टिप्पणी
विषयविषयिणोर्युगपदग्रहणादेव, प्रामाण्यस्यापि प्रत्येकमेव ग्रहणम् । स्वतोग्रहणेऽनन्तरं प्रामाण्यसंशयतद्विचारादेरसम्भवात् । अतः सफलप्रवृत्तिजनकत्वानुमानेनैव प्रामाण्य-
ग्रहणम् ॥
ननूत्पन्ने ज्ञाने प्रामाण्यनिश्चयाभावे, कथं प्रवृत्तिर्भवेत् ? प्रवर्तन्ते च पुरुषास्सर्वे । अतः प्रामाण्यनिश्चयः प्रथममावश्यकः । अत एव प्रामाण्यं स्वत इत्येव वक्तव्यमिति चेत्, प्रवृत्तेः साफल्ये सत्येव प्रामाण्यनिश्चयसम्भवात् पूर्वं तदसम्भवात् प्रामाण्यनिश्चयः प्रवृत्तिं प्रति न हेतुः । किन्तु अप्रामाण्यनिश्चयाभाव एव । प्रामाण्यसंशये सत्यपि ‘पश्यामः’ इति धैर्येणापि कदाचित् प्रवृत्तिर्भवति । परन्तु, साध्यस्य फलस्य, प्रवृत्त्या जायमानस्य केशस्य च तुलनं कृत्वा विवेकिनः प्रवर्तन्ते । अत एवाविचार्यप्रवर्तनं बाल्यमित्युच्यते ।
गुरुलाघवमर्थानाम्, आरम्भं कर्मणाम्, फलम् ।
दोषं वा यो न जानाति स वाल इति होच्यते’ ॥ इति बाललक्षणमुच्यते वाल्मीकिना (वा.रा.अयो. ६३ - ७) । बहुवित्तव्यवसायसाध्ये महायज्ञादौ तु वेदप्रामाण्ये दृढनिश्चयादेव प्रवृत्तिः । अतो वेदानां स्वतः प्रामाण्यमनिवार्यमिति मीमांसकाः । परन्तु वेदस्य शब्दरूपत्वात्, शब्दप्रामाण्यस्य वक्तृपुरुषे आप्तत्वज्ञानाधीनत्वात्, वेद ईश्वरप्रोक्त इति नैय्यायिकाः। ‘मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्’ (न्या.सू.२- १-६९) इत्यक्षपादः । ईश्वरस्य कुत्रापि स्खलनं न स्यादित्यर्थः । तर्हि तत्पक्षं कथं खण्डयन्तीतर इति चेत्, ‘न हि निन्दां निन्द्यं निन्दितुं प्रवृत्ता, किन्तु प्रकृतं प्रशंसितुम्’ इति न्यायादेवेदं स्वमतप्रशंसार्थमिति ग्राह्यम् । कथमन्यथा
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ (म.भा.)
इति व्यासवचनं,
पुराणतर्कमीमांसा धर्मशास्त्राङ्गमिश्रिताः ।
ए
1ST FIR FEFIERY HE 1ST
वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ (या.शि.) इति याज्ञवल्क्यवचनं
[[17]]
सुखम् दुःखम्
[[215]]
सर्वेषामनुकूलतया वेदनीयं सुखम् ।
प्रतिकूलतया वेदनीयं दुःखम् ।
युगपद्ग्रहणद्वयस्याननुभवात् । अनन्तरं संशयदर्शनाच प्रामाण्यमप्रामाण्यं च परत इत्येव स्वरसम् ॥
सर्वेषामित्यादि । अनुकूलत्वं स्वत इष्टत्वम् । एतच्चान्येच्छान- धीनेच्छाविषयत्वम् । ‘सुखं मे भूयात्’ इति हि सर्वोऽपि अपेक्षते । अपेक्षैवेच्छा । सुखसाधनेष्वपि धनादाविच्छायास्सत्त्वात् इच्छाविषयत्वमात्रोक्तौ धनादावतिव्याप्तिः । अतोऽन्येच्छा-नधीनेच्छाविषयत्वमुक्तम् । सुखसाधनत्वादेव धनादाविच्छा, न तु स्वतो धने । ततश्चान्येच्छाधीनेच्छाविषयत्वमेव, न त्वन्येच्छानधीनेच्छाविषयत्वम् । अतश्च सर्वेषाम्’ इति पदमेतदर्थसूचकम्, न तु लक्षणे निवेश्यम्, प्रयोजनाभावात् । ननु लुब्धा धनं स्वतः पुरुषार्थं मन्यन्ते । अतस्तत्रातिव्याप्तिरिति चेत्, तत्रापि लुब्धानां धनदर्शनेन, स्मरणेन वान्तस्सुखं भवतीति, धनज्ञानमेव सुखम्, न तु धनमिति न दोषः । अत एवार्थस्यापि पुरुषार्थेषु गणना । ननु तर्हि सुखमनुकूलज्ञानमेवेति ज्ञानेऽन्तर्भाव्यमिति चेत्, न सुखेऽपि ‘वेदनीयम्’ इति वेद्यत्वांशसत्त्वात्, ज्ञानसामान्यस्य पुरुषार्थत्वासम्भवात्, सुखस्य तु पुरुषार्थत्वादतिरिक्तत्वस्यावश्यकत्वात् । न
टिप्पणी
वा? । अतश्च प्रामाण्यं ज्ञप्तौ सफलप्रवृत्तिजनकत्वेन हेतुना, अप्रामाण्यं ज्ञप्तौ च विफलप्रवृत्तिजनकत्वेन हेतुनेति परत एवोभयमपि । एवमेव प्रामाण्यस्योत्पत्तावपि स्वतस्त्वपरतस्त्वविचारो वर्तते । ज्ञानोत्पत्तिसामग्र्यैव प्रामाण्यमपि सहैवोत्पद्यते इति स्वतस्त्ववादिनः । किन्तु एवं सति अप्रमात्वस्यापि स्वतस्त्वप्रसङ्गात्, गुणकृता प्रमात्वोत्पत्तिः,दोषकृता चाप्रमात्वोत्पत्तिरित्येव सुवचम् । अस्य विस्तरो न्यायकुसुमाञ्जलौ द्वितीयस्तबके ॥
इच्छा क्रोधः कृतिः धर्मः
[[21216]]
इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः । *विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्यस्त्वधर्मः ।
आलोक- व्याख्या
च मुमुक्षूणां सुखस्य त्याज्यत्वोक्तेः, तद्दृष्ट्यानुकूलत्वं मुक्तिसुखेऽतिव्याप्तमिति वाच्यम्, वैषयिकसुखस्यैव तेषां त्याज्यत्वोक्तेः, आत्मसुखस्य तेषामुपा- देयत्वात् । सुखस्यैव तत्तद्व्यक्तिभेदेन भिन्नत्वात्, तत्तद्व्यक्तिदृष्ट्यैव सुखलक्षणस्य वक्तव्यत्वान्न दोषः । एवमेव ‘प्रतिकूलतया वेदनीयं दुःखम्’ इत्यत्रापि सर्वेषामिति वर्तते । इतरत् सुखवदेव ज्ञेयम् ॥
केचित्तु सुखत्वदुःखत्वादिकं जातिविशेष इति तत्तज्जातिमत्त्वमेव सुखादीनां लक्षणमिति लाघवाद्वदन्ति । परन्तु तदा ‘वृद्धस्य तरुणी विषम्’ इति न्यायात्, एकस्य सुखमन्यस्य दुःखं न स्यात्, जातिसाङ्कर्य- प्रसङ्गात् । न हि घटोऽन्यं प्रति अघटः स्यादित्यादिकमन्यत्र द्रष्टव्यम् ॥
इच्छा काम इति व्याख्यानम् । अपेक्षितत्वप्रकारकज्ञानजन्यः, आत्मनः प्रयत्नं प्रति हेतुरिच्छा । ‘जानाति, इच्छति, यतते’ इति हि क्रमः । क्रोधो द्वेष इति स्थूलदृष्ट्या । इच्छायाः प्रतिघाते कोपः, ततो द्वेष इति क्रमः । प्रतिकूलत्वज्ञानजन्य आत्मगुणो द्वेषः । एव प्रयत्नोऽपि आत्मगुणः, प्रवृत्तिहेतुः । लोके प्रवृत्तेः क्रियात्वात्, आत्मनि विभौ क्रियाया असम्भवात्, शरीरादिप्रवृत्तिहेतुभूतो गुणविशेषः प्रयत्नः । बुद्धीच्छाद्वेषप्रयत्नाः सविषयका गुणाः ॥
विहितेत्यादि । आत्मगतो गुणविशेषो धर्मः । एवमधर्मोऽपि । कालान्तरभावि-सुखदुःखहेतुतया एतौ गुणौ सिद्धौ । यागादिक्रियायाः टिप्पणी
- विध्यर्थः - लिङ्लोट्तव्यप्रत्ययैर्विधिरभिधीयत इति सर्वविदितम् । विधेरर्थः कः ? गामानय इत्युक्ते हि कश्चित् कञ्चित् गवानयनरूपे कार्ये प्रेरयतीति प्रतीतेः प्रेरणैव विध्यर्थ इति स्पष्टम् । अथापि शास्त्रकारा बहुधा विप्रतिपद्यन्ते । नियोगों
[[217]]
टिप्पणी
लिडर्थ इति जरन्मीमांसकाः । कार्यमेव लिडर्थ इति प्राभाकराः । भावनैवेति भाट्टाः । अपूर्वमिति नवीनाः । कृतिसाध्यत्वमेव स इति केचित् । इष्टसाधनत्वमेव स इत्यन्ये ॥
इदमत्रावधेयम् — लोके स्वरसतया प्रतीयमानेष्वप्यर्थेषु एते पण्डिताः किश्यन्ति, केशयन्ति चेति कुतः ? इत्येव तटस्थाः जिज्ञासन्ते । तत्रेदमेवात्र मूलम् । एकैकशास्त्र (दर्शन) स्य प्रत्येकं क्षेत्रं भिन्नमेव । न्यायशास्त्रस्य क्षेत्रं लौकिकक्षेत्रमेव । अत एव न्यायसूत्रभाष्ययोरीश्वरानुमानादिकं न प्रदर्शितम् । अत एव प्रत्यक्षलक्षणमपि इन्द्रियार्थसन्निकर्षोत्पन्नम् इति विशेषितम्, ईश्वरप्रत्यक्षस्य लक्ष्यत्वमेव नास्तीत्येव गौतमस्याशयः । अत एव प्राचीने काले न्यायदर्शनस्य लोकायतम् इत्येव सञ्ज्ञाऽऽसीदित्यादिकमन्यत्र प्रदर्शितम् ॥
एवञ्च नानविधंसंस्कारवतां चेतनानां बुद्धिभेदस्यानिवार्यतया, तत्तत्कक्ष्यानुरोधेन बुद्धेस्समन्वयस्य सम्पादनीयतया, शास्त्राणां कक्ष्या अपि भिद्येरन् । मूलस्तु एकतत्त्ववादः, तत्त्वद्वयवादः, त्रितत्त्ववाद इति त्रिविधं शास्त्रम् । एकतत्त्वत्वादो बौद्धानाम् । अद्वयवादी इति खलु बुद्धं निर्दिशति अमरसिंहः । निर्विशेषजीवतत्त्वमेकमङ्गीकृत्यैव सर्वं निर्वोढुं शक्यमिति सोऽमन्यत । तद्वदेव तत्स्थाने निर्विशेषब्रह्मैक्यवादोऽपि अनन्तरं प्रवृत्तः सर्वसमन्वयार्थमित्यपि प्रसिद्धम् । एवं साङ्ख्याः, मीमांसकाश्च प्रकृतिपुरुषरूपतत्त्वद्वयवादिन इति प्रसिद्धमेव । सविशेषब्रह्मवादिनो वैदिकास्तु प्रकृतिः, जीवः, ईश्वरश्चेति तत्त्वत्रयवादिनः । भोक्ता भोग्यं प्ररितारं च मत्वा इति हि तत्त्वत्रयं वदति श्वेताश्वेतरश्रुतिः । इदं सर्वं साधककक्ष्याभेदेनैव । तत्तत्कक्ष्यायां तत्तत्सत्यमेवेत्यादिकं तत्त्वमुक्ताकलापव्याख्यायां सर्वङ्कषायां सत्यसिद्धौ च विस्तरेण प्रतिपादितम् ॥ प्रकृते न्यायशास्त्रं वैदिकं त्रितत्त्ववादमेवाङ्गीकरोति । वेदोपाङ्गत्वेन परिगणितञ्च । अत एवेश्वरकृतो वेद इति वदति । अत एव चेश्वरप्रेरणैव लिडर्थ इत्यङ्गीकरोति । बलवदनिष्टाननुबन्धित्वकृतिसाध्यत्वज्ञानादिकं प्रेरणायाः पोषकतयोपकरोतीत्येव तत्त्वम् । अधिकमन्यत्र ॥
[[17]]
बुद्धीच्छा-प्रयत्न-भेदाः, संस्कारः
[[218]]
बुद्ध्यादयोऽष्टावात्ममात्रगुणाः । बुद्धीच्छाप्रयत्ना नित्या
‘अनित्याश्च । नित्या ईश्वरस्य । अनित्या जीवस्य ।
संस्कारस्त्रिविधः । वेगो भावना स्थितस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः ।
अनुभवजन्या स्मृतिहेतुर्भावना ।
आलोक- व्याख्या
THE
:ख-
क्षणिकत्वात्, स्वर्गादिसुखहेतुत्वस्य शास्त्रसिद्धत्वादेतन्निर्वाहाय मध्ये द्वारतया कल्प्यमानो धर्मः । एवं गोहत्यादीनां कालान्तरे नरकादिदुः कारणत्वनिर्वाहार्थमधर्मश्वावश्यकः । विहितत्वनिषिद्धत्वे शास्त्राधीने । एतावुभावेवादृष्टपदवाच्यौ कार्यसामान्यकारणभूतौ ॥
ईश्वरस्य द्वेषादिगुणाभावात् ज्ञानेच्छायत्नेष्वेव नित्यानित्यविभागः । एतत् त्रयव्यतिरिक्तास्तु जीवगता अनित्या एव ॥
वेगः । ‘आद्यपतनासमवायिकारणं गुरुत्वम्’ इति पूर्वमुक्ते लक्षणे, द्वितीयादिपतने वेगस्यापि कारणत्वं प्रदर्शितम् । अतश्च गुरुत्वादिभिन्नत्वे सति द्वितीयादिपतनासमवायिकारणत्वं वेगस्य लक्षणं ज्ञेयम् ॥
भावनाख्यं संस्कारं निरूपयति अनुभवेत्यादि । अनुभवजन्यत्वे
टिप्पणी
सर्वं न्याय्यं युक्तिमत्त्वात् विदुषां किमशोभनम् इति वदन् भगवान् शुकः - केवलकलहप्रियाणामविदुषां पण्डितानां तु नैकमपि शास्त्रं मुक्तये कल्पते — इत्युद्घोषयति । एवं तर्हि निर्णय एव कुत्रापि न शक्य इति तु न, मन्तव्यम् मानवबुद्धीनां परस्परमत्यन्तविलक्षणत्वात्, तत्तत्कक्ष्यानुगुणमेव निर्णयः । अत एवोक्तम्— यो विद्यया यया युक्तस्तस्य सा दैवतं परम् ।
सैव पूज्यार्चनीया च सैव तस्योपकारिणी ॥
इत्येव परमं रहस्यम् अशक्तानामाप्तवाक्यमेव परमं प्रमाणम् । इत्याद्यन्यत्र विस्तरः ।219
आत्ममात्रवृत्तिः ।
अन्यथाकृतस्य पुनस्तादवस्थ्यापादकः स्थितस्थापकः । कटादिपृथिवीमात्रवृत्तिः ।
आलोक व्याख्या
सति स्मृतिहेतुत्वं भावनाया लक्षणम् । अनुभवजन्यत्वमात्रोक्तौ अनुभवध्वंसेऽतिव्याप्तिः । अतः स्मृतिहेतुत्वम् । स्मृतिहेतुत्वमात्रो - क्तावात्मन्यतिव्याप्तिः, आत्मनस्समवायिकारणत्वात् । अतोऽनुभवजन्यत्व- मुक्तम् । आत्मनो नित्यत्वान्नातिव्याप्तिः । ननु तर्हि जन्यत्वमात्रमलम्, तावतैवात्मनि अतिव्याप्तेः परिहारादिति चेत्, न
तदा कार्यसामान्यं प्रत्यदृष्टस्य कारणत्वात्, तस्य च जन्यत्वस्य ‘विहितकर्मजन्यः ’ ‘निषिद्धकर्मजन्यः’ इत्यनुपदमुक्तत्वात्, अदृष्टपदवाच्यधर्माधर्मयोरतिव्याप्तिः । अतोऽनुभवजन्यत्वमावश्यकम् ॥
आत्ममात्रेति । जीवात्ममात्रवृत्तिरित्यर्थः । परमात्मा तु सदा सर्वं प्रत्यक्षत एव पश्यतीति, तस्य स्मृतिर्नास्ति । विस्तरस्त्वन्यत्र ॥
ननु पूर्वम् ‘संस्कारमात्रजन्यं ज्ञानं स्मृतिः’ इति स्मृतेर्लक्षणमुक्तम् । इदानीं तु अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाख्यसंस्कारस्य लक्षणमुच्यते । एवं सति स्मृतिस्संस्कारजन्या, भावनाख्यसंस्कारस्तु स्मृतिहेतुरित्यन्योन्या- श्रयदोष इति चेत्, न । अनुभवजन्यत्वे सति संस्कारत्वजातिमत्त्वमेव वा लघुलक्षणं बोध्यम् । इतरत्सर्वं स्वरूपकथनम् । संस्कारत्वजातिश्च स्मृतिजनकतावच्छेदकतया द्रव्यत्वादिवत्सिद्ध्यतीति युक्तम् ॥
अनुभवजन्या स्मृतिहेतुः’ इत्यनेन भावनाख्यसंस्कारस्या- नुभवस्मृत्योर्मध्यवर्तित्वमुक्तं भवति । स्मृति प्रति पूर्वानुभवः कारणमिति सर्वसम्प्रतिपन्नम् । न तावन्मात्रम्, अनुभवस्मृत्योः समानविषयत्वमपि सम्प्रति-
पन्नम् । तावतानुभूतस्य सर्वस्यापि स्मरणनियमादर्शनात् अनुभवान- धिकविषयत्वमेव समानविषयकत्वम् । अत्र च कारणमनुभवतारतम्यमेव । अत्रापि कारणं तत्तत्पुरुषबुद्धितारतम्यमेव । इदमेव ग्रहणधारणसामर्थ्यमि- त्युच्यते । ग्रहणं तादात्विकम् । धारणं संस्कारा-नुवृत्तिः । संस्कारानुवृत्तावपि कदाचित् स्मरणाभावोऽदृष्टाधीनः । अदृष्टमेव संस्कारोद्बोधकम् । एवं स्मृत्यनुभवयोर्मध्यवर्तित्वकथनात् संस्कारस्य द्वारत्वं सिद्ध्यति । क्षणिकानां क्रियारूपयागादीनां कालान्तरभाविस्वर्गादिकारणत्वनिर्वाहार्थं मध्ये धर्माधर्मयोः कल्पनवदेवाशुतरविनाशिनामनुभवानामपि स्मृतिकारणत्व-निर्वाहार्थं मध्ये संस्कारकल्पना । ननु तर्हि उद्बोधकतयाभिमतधर्माधर्मावेव मध्ये द्वारमास्ताम्, किमर्थमधिकगुणकल्पनेति चेत्, न । धर्माधर्मयोः फलनाश्यत्वात्, सकृत्स्मरणजननेनैव धर्माधर्मरूपसंस्कारक्षयापत्त्या पुनः कालान्तरे तत्स्मरणानुपपत्तेः । न च स्मृत्यैव पुनस्संस्कारान्तरोत्पत्त्या निर्वाहसम्भवः । संस्कारस्यानुभवजन्यत्वनियमभङ्गप्रसङ्गात् । न चेष्टापत्तिः, पुनः पुनः स्मरणेन पूर्वसंस्कारस्यैव दाढर्यानुभवस्य वेदाध्ययनादावनुभवसिद्धत्वात् । पूर्वतनसंस्कारा- नुवृत्तेः स्पष्टमनुभवाच्च । अतो धर्माधर्माभ्यां नान्यथासिद्धिस्संस्कारस्येति संस्कारोऽत्यन्तमावश्यकः ॥