पृथिवी
तत्र गन्धवती पृथिवी । सा द्विविधा नित्या अनित्या चेति । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रिय- विषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणम् । तच्च नासाग्रवर्ति । विषयो मृत्पाषाणादिः ।
एवं पदार्थान् विभज्य, विभक्तानां यथाक्रमं लक्षणं परीक्षां च प्रदर्शयति । तत्र आद्ये द्रव्ये आद्यां पृथिवीं लक्षयति – गन्धवतीति । गुणवत्त्वं क्रियावत्त्वं वा द्रव्यसामान्यलक्षणमित्युच्यते । परन्तु क्रियायास्सार्वत्रिकत्वाभावात् आकाशादिविभुषु क्रियाया असम्भवात्, तदपेक्षया गुणवत्त्वं लक्षणं वरम्, द्रव्येषु नियमेन कस्यचिद्गुणस्य सत्त्वात् । सङ्ख्यापरिमाणपृथक्त्वसंयोगविभागानां नवद्रव्यसामान्यगुणत्वात् । ननु उत्पन्नं द्रव्यं क्षणं निर्गुणं निष्क्रियं च तिष्ठति इति नियमेनाद्यक्षणावच्छिन्ने घटे रूपादेरभावेन जातिघटितपरिष्कार- स्यावश्यकत्वे, क्रियावत्त्वलक्षणस्यापि जातिघटितपरिष्कारान्न दोष इति चेत्, सत्यम्, कालदिगात्मादिकं द्रव्यं तु सर्वथा क्रियाशून्यं भवति । गुणशून्यं तु आद्यक्षणावच्छिन्नघटादिमात्रम्, न त्वन्यत् । तदपि न प्रत्यक्षसिद्धम् द्रव्यगुणयोः, द्रव्यक्रिययोश्च कार्यकारणभावव्यवस्थार्थं युक्तिमात्रेण सिद्धमिति विशेषः । अतः क्रियावत्त्वापेक्षया गुणवत्त्वमेव द्रव्यलक्षणमुचितम् ॥
गन्धवतीत्यादि ।
द्रव्येषु प्रथमोद्दिष्टायाः पृथिव्या लक्षणमाह गन्धोऽस्याम् अस्तीति गन्धवती । ‘अस्याम्’ इत्यत्रेदम्शब्दस्य पृथिवीरूपोऽर्थः । सप्तम्या अधिकरणत्वमर्थः । प्रकृत्यर्थस्य पृथिव्याः सप्तम्यर्थाधिकरण- तायामाधेयता (निष्ठत्व) सम्बन्धेनान्वयः । तथा च पृथिवीनिष्ठाधिकरणता । ‘अस्ति’ इत्यत्र ‘अस’ धातोराधेयत्वमर्थः । ‘ति’ इत्याख्यातस्य आश्रयत्वमर्थः । सप्तम्यर्थाधिकरणताया ‘अस’ धात्वर्थाधेयतायां निरूपितत्वसम्बन्धेनान्वयः । आश्रयतायाश्च गन्धे अन्वयः । तथा च पृथिवीनिष्ठाधिकरणता- निरूपिताधेयताश्रयो गन्धः इति विग्रहवाक्यार्थबोधः ॥
[[28]]
-आलोक- व्याख्या
‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले विग्रहवाक्यात् यादृश- विशेषणविशेष्यभावापन्नो वोधो जायते, समासादिवृत्तिवाक्यात् तद्विपरीतविशेषणविशेष्यभावापन्नो वोधो जायते’ इति नियमानुरोधेन पूर्वं विशेष्यभूतो गन्धः, गन्धवतीति तद्धितवृत्तौ विशेषणं भवति । पूर्वं विशेषणीभूता पृथिवी चेदानीं विशेष्या भवति । तथा च गन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयः पृथिवी इति शाब्दबोधः । गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्या लक्षणम् । अस्य लक्षणस्य सुरभिकुसुमादिरूपपृथिव्यां समन्वयः । गन्धनिष्ठाधेयता का इति चेत् सौरभ्यनिष्ठाधेयता । तन्निरूपिताधिकरणता कुसुमरूपपृथिव्यां वर्तते इति
लक्षणसमन्वयः ॥
अव्याप्तिः, अतिव्याप्तिः, असम्भवश्चेति लक्षणस्य त्रयो दोषा भवन्ति । तत्र (१) लक्ष्यैकदेशावृत्तित्वमव्याप्तिः । यथा गोः कपिलरूपवत्त्वं यदि लक्षणमुच्यते, तदा लक्ष्यैकदेशे श्वेतगवि कपिलरूपाभावादव्याप्तिः । (२) लक्ष्यवृत्तित्वे सति अलक्ष्येऽपि लक्षणस्य सत्त्वमतिव्याप्तिः । यथा गोः शृङ्गित्वं यदि लक्षणमुच्यते । तदा लक्ष्येषु गोषु सर्वेषु शृङ्गित्वसत्त्वेऽपि, अलक्ष्ये महिष्यादावपि शृङ्गित्वसत्त्वादतिव्याप्तिः । (३) असम्भवो नाम लक्ष्येषु कुत्राप्यसत्त्वम् । यथा गोः एकशफवत्त्वं लक्षणमुच्यते चेत्, लक्ष्यभूतेषु गोषु कुत्रापि एकशफवत्त्वाभावादसम्भवः । एतादृशदूषणत्रयरहितधर्म एव लक्षणमित्युच्यते । यथा गोः सास्त्रादिमत्त्वम् । अत्रोक्तदोषत्रयरहितत्त्व- मस्ति । असाधारणधर्मो लक्षणम् । अथवा लक्ष्यतावच्छेदकसमनियतधर्मो लक्षणम् । यथा यत्र यत्र गोत्वम्, तत्र सास्नादिमत्त्वम्, यत्र यत्र सास्त्रादिमत्त्वम्, तत्र गोत्वमिति लक्ष्यतावच्छेदकगोत्वसमनियतत्त्वं सास्त्रादिमत्त्वे वर्तत इति तत् गोर्लक्षणम् । एवमत्रापि गन्धवत्त्वं पृथिव्या लक्षणम् ॥
[[29]]
आलोक- व्याख्या
ननूक्तपृथिवीलक्षणस्य कालेऽतिव्याप्तिर्दुर्वारा । तथाहि — कालस्य सर्वाधारत्वात् ‘इदानीं गन्धः’ इति प्रतीतेः प्रामाणिकत्वात् गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं कालेऽपि वर्तते इति कालेऽतिव्याप्तिः । एवं जलादावप्यतिव्याप्तिर्दुष्परिहरा । तथाहि— ‘सुरभि जलम्’ इति प्रतीतेः प्रसिद्धत्वात् गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं जलेऽपि वर्तत इत्यतिव्याप्तिरिति चेत्, न । गन्धनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात् । तथा च लक्षणम् – समवायसम्बन्धावच्छिन्न- गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वम् इति । एवञ्च नातिव्याप्तिः । तथाहि– गन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं यद्यपि काले वर्तते, किन्तु गन्धनिष्ठाधेयता तत्र कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना । गुणगुणिनोः समवायात्; गन्धस्य च पृथिवीगुणत्वात् । गन्धो न कालस्य गुणः । कालस्य सर्वाधारताप्रयोजकसम्बन्धः कालिक एव । अतः समवायसम्बन्धावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यामेव वर्तते । न तु काल इति काले नातिव्याप्तिः ॥
।
एवं जलेऽपि नातिव्याप्तिः । तथाहि समवायसम्बन्धा- वच्छिन्नगन्धनिष्ठा-धेयतानिरूपिताधिकरणत्वं पृथिव्यामेव वर्तते, न तु जले। जले दृश्यमाना गन्धनिष्ठाधेयता तु न समवायसम्बन्धावच्छिन्ना । अपि तु
तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना । स्वम्- गन्धः । तत्समवायिनी कुसुमादिरूपा पृथिवी । तत्संयोगो जले वर्तत इति तादृशगन्धविशिष्ट - पृथिवीभागस्य सम्बन्धादेव जले गन्धोपलब्धिः । अतः स्वसमवायिसंयुक्तत्व- सम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वं जले वर्तते, न तु समवायसम्बन्धा- वच्छिन्नाधेयतानिरूपिताधिकरणत्वम् । अतोऽलक्ष्ये जलादौ लक्षणासमन्वयात् नातिव्याप्तिः ॥
[[30]]
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः जलादावतिव्याप्तिर्दुष्परिहरा । तथाहि– गन्धः कश्चन गुणः । अतस्तत्र गुणत्वरूपो धर्मोऽपि वर्तते । तथा च गन्धनिष्ठाधेयता गुणत्वावच्छिन्नाऽपि भवति । सा त्वाधेयता चतुर्विंशतिगुणसाधारणी एका । अतस्तादृशसमवायसम्बन्धा- वच्छिन्नगन्धनिष्ठाधेयता केति चेत् चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता । अतः समवायसम्बन्धावच्छिन्नगुणत्वावच्छिन्नगन्धनिष्ठाधेयता यथा गन्धे, तथा रसेऽपि वर्तते । तादृशाधेयतानिरूपिताधिकरणत्वं तु जलेऽपि वर्तते । जले रसस्य गुणस्य सत्वादिति पुनः जलेऽतिव्याप्तिरिति चेत्, न । गन्धनिष्ठाधेयतायां गन्धत्वावच्छिन्नत्वस्यापि निवेशनात् । तथा च लक्षणम्– समवायसम्वन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिता- धिकरणत्वम् । एवञ्च नातिव्याप्तिः । तथाहि– समवायसम्बन्धावच्छिन्न- गन्धत्वावच्छिन्नगन्धनिष्ठाधेयता केति चेत्, गन्धे आधेयता द्वयं वर्तते । एका चतुर्विंशतिगुणसाधारणी गुणत्वावच्छिन्ना गन्धनिष्ठाधेयता । एवं गन्धत्वावच्छिन्नगन्धनिष्ठाधेयताऽपि चान्या वर्तते । तत्र गुणत्वावच्छिन्न- गन्धनिष्ठाधेयतायाः स्वीकारे तु ‘गुणवती’ इति प्रतीतिसिद्धाधेयता भवति । लक्षणे तु ‘गन्धवती’ इति प्रतीतिसिद्धा गन्धत्वावच्छिन्ना गन्धमात्रनिष्ठाधेयता निविष्टा । तादृशसमवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयता केति चेत् ‘गन्धवती’ इति प्रतीतिसिद्धाधेयता, न तु ‘गुणवती’ इति प्रतीतिसिद्धा । तादृशाधेयतानिरूपिताधिकरणत्वं तु पृथिव्यामेव वर्तते, न तु जलादाविति नातिव्याप्तिः ॥
न
नन्वेवं सत्यप्यस्य लक्षणस्याद्यक्षणावच्छेदेन घटेऽव्याप्तिर्दुष्परिहरा । यद्यपि घटः पृथिवी । तथाऽपि तत्राद्यक्षणावच्छेदेन गन्धाभावो वर्तते । ’ उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति’ इति नियमात्
[[31]]
घटे
उत्पत्तिकालावच्छेदेन घटे गन्धो नास्तीति समवायसम्बन्धावच्छिन्न- गन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणत्वमाद्यक्षणावच्छिन्ने नास्तीत्यव्याप्तिरिति चेत् ; न । जातिघटिततया लक्षणस्य परिष्कारात् । तथा च लक्षणम् समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न- गन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वम् । एवञ्च नाव्याप्तिः । तथाहि यत्र घटे गन्धोऽस्माभिर्गृह्यते, तादृशघटस्य स्वीकारात् समवायसम्बन्धाव- च्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावान् द्वितीया- दिक्षणाद्यवच्छिन्नो घटः । तद्वृत्तिर्या जातिरिति चेत् पृथिवीत्वजातिः । तादृशजातिमत्त्वमाद्यक्षणावच्छिन्ने घटेऽपि वर्तते, पृथिवीत्वजातेस्तु नित्यत्वात् इत्याद्यक्षणावच्छिन्नेऽपि घटे लक्षणसमन्वयात् नाव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः जलादावतिव्याप्तिर्दुष्परिहरा । तथाहि — समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयता- निरूपिताधिकरणतावान् द्वितीयादिक्षणावच्छिन्नो घटः । तद्वृत्तिर्या जातिरिति चेत्, यथा पृथिवीत्वजातिस्तथा द्रव्यत्वजातिरपि भवति । द्रव्यत्वजातेः स्वीकारे तादृशजातिमत्त्वं जलेऽपि वर्तते, ‘जलं द्रव्यम्’ इति प्रतीतेः सत्त्वात् । अत अतिव्याप्तिरिति चेत्, न । लक्षणे द्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षणात् । तथा च लक्षणम् च्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम् इति।
एवञ्च नातिव्याप्तिः । तथाहि
समवायसम्वन्धावच्छिन्नगन्धत्वाव-
समवायसम्बन्धावच्छिन्न- गन्धत्वावच्छिन्न- गन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्या जातिः केति चेत् ? द्रव्यत्वजातिर्न भवति । व्याप्यत्वं हि न्यूनदेशवृत्तित्त्वम् । अतः स्वस्य स्वव्याप्यत्वाभावात्, तादृशद्रव्यत्वव्याप्याजातिः केति चेत् ? पृथिवीत्वजातिरेव । तादृशजातिमत्त्वं घटादावेव वर्तते न तु जलादाविति नातिव्याप्तिः ॥
;
[[32]]
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पटादावव्याप्तिः दुस्त्यजा । तथाहि— समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपितधिकरणतावान् घटः । तद्वृत्तिर्द्रव्यत्वव्याप्या का जातिरिति चेत्, यथा पृथिवीत्वं भवति, तद्वत् घटत्वमपि भवति, तस्यापि द्रव्यत्वन्यूनदेशवृत्तित्वात् । तादृशजातिमत्त्वं तु घट एव वर्तते न तु पटादावित्यव्याप्तिरिति चेत् ; ना लक्षणे द्रव्यत्वव्याप्येत्यत्र ‘द्रव्यत्वसाक्षाद्व्याप्य’ इति निवेशनात् । तथा च लक्षणम्- -‘समवायसम्वन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयता- निरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्’ इति । द्रव्यत्वसाक्षाद्व्याप्यत्वं नाम द्रव्यत्वव्याप्यत्वे सति द्रव्यत्वव्याप्याव्याप्यत्वम् । एवञ्च नाव्याप्तिः । तथाहि– समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्न- गन्धनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः । तद्वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्या जातिरिति चेत् पृथिवीत्वजातिरेव भवति, न तु घटत्वजातिः । सा जातिस्तु द्रव्यत्वव्याप्यपृथिवीत्वापेक्षयापि व्याप्या । अतो द्रव्यत्वसाक्षाद्व्याप्यजातिपदेन घटत्वं स्वीकर्तुं न शक्यते । तस्य द्रव्यत्वव्याप्यपृथिवीत्वव्याप्यत्वात् द्रव्यत्वसाक्षाद्व्याप्यत्वाभावात्, साक्षाद्व्याप्यजातिस्तु पृथिवीत्वजातिरेव । तादृशजातिमत्त्वं पटादावपि वर्तते इति नाव्याप्तिः । तथा च समवायसम्वन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिता-
धिकरणतावद्वत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति निष्कृष्टलक्षणमिति
दिक् ॥
नन्वेवं सति पृथिवीत्वजातिमत्त्वं पृथिव्या लक्षणमित्येवोच्यताम् । किमर्थमेतावान् श्रम इति चेत् ? पृथिवीत्वजातेः परिचयार्थमेव तथा कथनात् । एवं ज्ञानवैशद्यर्थं च तथोक्तम् । इदमुत्तरलक्षणेष्वपि समानम् ॥
ननु गन्धवत्त्वं पृथिव्या लक्षणं चेत् पृथिवी नाम गन्धवती भवत्येव ।
[[33]]
तथा च पृथिवीपदस्य गन्धवद्वाचकत्वात्, ‘गन्धवती गन्धवती’ इत्युक्तं भवतीति कथं शाब्दबोध इति चेत्, न, पृथिवीपदं हि जातिवाचकम् । न हि गन्धवत्पदपृथिवीपदे समानार्थके । गन्धवत्पदं हि गुणपुरस्कारेण पृथिवीमभिधत्ते, पृथिवीपदं हि पृथिवीत्वजातिपुरस्कारेण पृथिवीमभिधत्ते । पृथिवीपदप्रवृत्तिनिमित्तं पृथिवीत्वजातिः । गन्धवत्पदप्रवृत्तिनिमित्तं गन्धो गुण इति ते पदे न पर्याय इति न कश्चन दोषः ॥
टिप्पणी
- पृथिवीत्वजातिः – पृथिवीत्वजातिर्नाम का ? तत्तत्पदेषु त्वपदयोजनया, सा जातिर्भवतीति प्रायो मन्यन्ते, तदा हि भूतत्वमूर्तत्वादिकमपि जातिः स्यात्। महर्षिस्तु ‘समानप्रसवात्मिका जातिः ’ ( न्या. सू. २-२-७०) इत्युक्तवान् । अश्वादश्व एव जायते, न त्वन्यः । गजात् गज एव। एवं यस्मात् स्वजातीयमेव स्वमुत्पादयति, तस्य कारणभूतं तत्त्वमेव जातिरित्युच्यते । आम्रबीजात् आम्रवृक्ष एव जायते, न तु अश्वत्थवृक्षः । एवमश्वादश्व एव जायते, न तु गर्दभः । तथैव मनुष्यात् मनुष्य एव जायते, न त्वन्यः । अतः सुष्ठुक्तम् समानप्रसवात्मिका जातिः इति । यद्यपि भाष्ये ‘समानबुद्धिप्रसवात्मिका’ इति विवरणं दृश्यते । तत्त्वानुषङ्गिकं अनुगतबुद्धिहेतुत्वं वदति । अनुगतबुद्धिस्तु उपाधिभिरपि भवितुमर्हति । तदपेक्षया समानजातीयप्रसवहेतुरेव जातिरित्येव स्वरसम् । छान्दोग्ये (६-१२) वटबीजदृष्टान्तेनेदं प्रदर्शितं द्रष्टव्यम् । जातिसाङ्कर्यस्य दोषत्वं चैतादृशजातीनां साङ्कर्य एवाभिमतम्, न तूपाधीनाम् । अत एव भूतत्वमूर्तत्वयोर्जातित्वं निराकृतम्, पृथिव्यादिचतुष्टय उभयसमावेशात् ।
एवं साङ्कर्यं प्रकृतिरेव न सहत इत्ययमप्यंशोऽवधेयः । अत एव ‘स्वगर्भोऽश्वतरीमिव’ इति श्रीमद्रामायणोक्तिरपि साङ्कर्यं प्रतिषेधति । वडवायां गर्दभाज्जाता अश्वतरीत्युच्यते । सा यदा गर्भिणी भवति, तदा तेन गर्भेण हता भवति । अतः साङ्कर्यं प्रकृतिरेव (Nature) नानुमनुते । एतत्तत्त्वमितोऽपि बहुविचारार्हम्। ग्रन्थबाहुल्यभीत्या विरम्यते ।
अत एव साङ्कर्यस्य जातिबाधकत्वे प्रमाणं नास्तीत्यादि नवीनानां साहसमपि धर्मविरुद्धमित्याद्यन्यत्र विस्तरः । प्रकृतमनुसरामः । पृथिवीत्वं कथं जातिर्भवति ?
[[5]]
[[34]]
आलोक- व्याख्या
सा- पृथिवी, द्विविधा — द्विप्रकारा । परमाणुरूपा— परमाणु- स्वरूपा*।
टिप्पणी
‘समानप्रसवात्मिका’ इत्यस्यात्र कोऽर्थ इति चेत्, वस्तुतः पृथिवीत्वजातिः न प्रत्यक्षसिद्धा। ‘आकृतिर्जातिलिङ्गाख्या’ (न्या. सू. २-२-६९) इति हि पारमर्षं सूत्रम्। लोकेऽपि हि कुशला जना अवयवसन्निवेशविशेषं सूक्ष्मं ज्ञात्वैव जातिं निश्चिन्वन्ति । जगति दृश्यमानाया विशालायाः पृथिव्याः, पार्थिवानां घटपटादीनां वा न ह्याकारसाम्यादिकं वक्तुं शक्यम् । अत एव गन्धसमवायिकारणतावच्छेदकतयैव पृथिवीत्वं साधयन्ति कुशलाः। गन्धस्य हि पृथिव्येव समवायिकारणम् । अतश्च ‘पृथिवीनिष्ठा गन्धसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात्, या या कारणता, सा किञ्चिद्धर्मावच्छिन्ना’ इति ह्यनुमानं द्रष्टव्यम्। एवमनुमानात् पृथिवीत्वसिद्धौ ‘सिद्ध्यतो धर्मस्य नित्यत्वे एकत्वे जातित्वे च लाघवम्’ इति लाघवतर्कवशादेव पृथिवीत्वजातिसिद्धिः। एवमप्त्वादावपि ज्ञेयम् ॥
- जालसूर्यमरीचिस्थं यत्सूक्ष्मं दृश्यते रजः ।
तस्य षष्ठस्तु यो भागः परमाणुः स कीर्तितः ॥
इत्युक्तं परमाणुस्वरूपम् । नन्वेतादृशपरमाणुसत्त्वे किं प्रमाणम् ? न हि तत्प्रत्यक्षेणैव सिद्धम्, तथानङ्गीकारात् । कुतोऽनङ्गीकार इति चेत्, अत्यन्तसूक्ष्माणां क्रिमिकीटादीनां चक्षुषाग्रहणेन प्रत्यक्षे महत्त्वस्य कारणत्वमावश्यकम् । परमाणोर्महत्त्व, ततोऽपि सूक्ष्मा रजःकणा अप्यङ्गीकार्याः । अस्तु तर्हि तादृशा रजःकणाः, अत एव षष्ठतमो भागः परमाणुः इत्यपि न साधीय इति चेत् ? न तस्याणुद्वयजन्यत्वे, तत् दीर्घाकारं दृश्येत, वर्तुलं च न स्यात् । अतस्तस्य वर्तुलत्वान्यथानुपपत्या द्वणुकत्रयजन्यत्वमावश्यकम् । तथा च जालसूर्यमरीचिस्थं रजः महत्, चाक्षुषत्वात् इत्यनुमानेन, तस्य सावयवत्वसिद्धौ, तदपि सावयवम्, महदारम्भकत्वात् इत्यनुमानेन तस्याप्यवयवसिद्धिः । तस्याणुद्वयजन्यत्वेऽचतुरस्रत्वं स्यात् चक्षुर्ग्राह्यस्यावयविनः । अतो महत्परिमाणकं त्र्यणुकं परमाणुषट्कजन्यमिति निश्चीयते । अत एव अणु,
[[35]]
टिप्पणी
महत्, ह्रस्वम्, दीर्घम् इति परिमाणं चतुर्धा विभक्तम् । महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् इति बादरायणसूत्रेऽस्यानुवादोऽपि दृश्यते । अतश्च परमाणुद्वयेन द्वणुकोत्पत्तिः । द्व्यणुकद्वयेन त्र्यणुकोत्पत्तौ, तचतुरस्रं स्यादिति द्वणुकायेण जातमवयवि त्र्यणुकमिति युज्यते । ततश्च चाक्षुषत्वात् त्र्यणुकस्य महत्त्वावश्यकत्वे, चक्षुषा दृश्येषु स एवात्यन्तं सूक्ष्मः स्यादिति व्यवहारे त्र्यणुकमेवाणुरुच्यते । एवं परिमाणस्य तारतम्यदर्शनात् अणु, अणुतरम्, अणुतमम् इति त्र्यणुकद्वणुकपरमाणूनां सिद्धिः । परमाणोरपि सावयवत्वेऽनवस्थाप्रसङ्गः । न चेष्टापत्तिः, तर्हि सर्षपपर्वतयोरुभयो- रप्यनन्तावयघटितत्वात्, तयोस्तारतम्यं दुरुपपादं स्यात् । अवयवधारायाः कुत्रचिद्विश्रान्तौ सत्यां तु, सर्षपोऽल्पावयवजन्यः, पर्वतस्तु अधिकावयवजन्य इति तारतम्यं सूप- पादम् । अतोऽवयवधाराया यत्र विश्रान्तिः स एव परमाणुरित्युच्यत इति परमाणुसिद्धिः, ततो द्वणुकम्, ततश्च त्र्यणुकम् इति परम्परासिद्धिः । एवम् अणुः, अणुतरः, अणुतमः इति अन्तिमावयवस्य परमाणुसञ्ज्ञा । एतस्य निरवयवाच्च नित्यत्वसिद्धिः, अवयवजन्यत्वाभावात् । जन्यत्वस्यानित्यत्वव्याप्तत्वात् इदमनित्यम्, जन्यत्वात् इति हि प्रसिद्धम् । ननु तर्हि जन्यस्य ध्वंसस्यापि विनाशप्रसङ्गः । न चेष्टापत्तिः, घटध्वंसस्य नाशे घटस्य पुनरुद्भवप्रसङ्गात् । दुःखध्वंसरूपस्य मोक्षस्यापि नाशप्रसङ्गात्, मोक्षः परमपुरुषार्थो न स्यात् । ननु महाप्रलये सर्वनाशात् परमाणूनामपि नाशावश्यकत्वे, कथं तेषां नित्यत्वमिति चेत्; कार्यवर्गस्यैव प्रलये नाशात् परमाणूनां नित्यत्वेन कार्यत्वाभावात् तदा परमाणूनामनाशात् । तर्हि प्रलये एकमेवाद्वितीयम् इति परमात्ममात्रस्य सत्त्वश्रुतेः कथं परमाणूनां तदा सत्त्वमिति चेत्, तर्हि प्रलये जीवात्मनामपि नाशापत्तिः । इष्टमेव तदिति चेत्; स्वनाशायैव स्वस्य प्रवृत्तिः स्यादिति को वा मतिमान् स्वनाशाय यतते इत्यलमनया शास्त्रान्तरकथया । अतः परमाणवो नित्या एवेत्येतच्छ्रास्त्रमर्यादा ज्ञेया ।
परस्परं तु शास्त्राणां साङ्ङ्कर्यं नैव भावयेत् । अर्धप्रज्ञैस्तथा सर्वं कृतं सीमातिलङ्घनात् ॥
[[36]]
आलोक- व्याख्या
कार्यरूपा - कार्यस्वरूपा (अवयवरूपा)* । पदार्थानां साधर्म्य- वैधर्म्यतत्त्वज्ञानस्य शरीरेन्द्रियाद्यतिरिक्तात्मज्ञानोपयोगित्वाभिप्रायेण तदनुगुणं पृथिवीं विभजते - पुनरित्यादि । एवमेव जलादिलक्षणेऽपि । विषयो नामोपभोगसाधनम् । उपभोगो नाम सुखदुःखानुभवः ॥
टिप्पणी
*अवयवातिरिक्तावयवसाधनम् - अवयवजन्यत्वात्, अवयविरूपा पृथिवी अनित्या= कार्यरूपा । ननु अवयवातिरिक्तावयविसत्त्वे किं मानम् ? न च तर्हि अवयवधारायाः परमाणौ विश्रान्त्या, तेषामतीन्द्रियत्वात्, तदतिरिक्तावयव्यनङ्गीकारे अवयविनोऽपि अतीन्द्रियत्वापत्त्या घटादेरप्रत्यक्षत्वं स्यादिति शङ्कयम्, प्रत्येकं परमाणूनामप्रत्यक्षत्वेऽपि तत्सङ्घातरूपस्य घटादेः प्रत्यक्षत्वे विरोधाभावात् । एकस्य केशस्याप्रत्यक्षत्वेऽपि तत्समुदायस्य प्रत्यक्षत्ववदुपपत्तेरिति चेत्, न, केशस्यैकस्यापि नातीन्द्रियत्वम् । तस्याप्रत्यक्षत्वं दूरत्वादिदोषप्रयुक्तम्, न त्वतीन्द्रियत्वं केशस्य, समीपे तस्य प्रत्यक्षत्वात् । प्रकृते तु न तथा परमाणूनामतीन्द्रियत्वात्, तत्सङ्घातस्याप्यप्रत्यक्षत्वात् । ननु तर्हि भवतां मतेऽतीन्द्रियैरवयवैर्जन्योऽवयवी त्र्यणुकः कथमैन्द्रियको भवेदिति चेत्, न अवयवापेक्षयावयविनामत्यन्तभेदात् । एकत्र प्रत्यक्षत्वाप्रत्यक्षयोरभावात् । परमाणौ महत्त्वाभावान्न प्रत्यक्षत्वम् । त्र्यणुके तु महत्त्वात् प्रत्यक्षत्वम् । नन्वेवं सति चक्षुरिन्द्रियरूपतेजसि महत्त्वसत्त्वेऽपि कथमप्रत्यक्षत्वमिति चेत् ? तत्रत्यरूपस्यानुद्भूतत्वात् । द्रव्यप्रत्यक्षे उद्भूतरूपसमानाधिकरणमहत्त्वस्यैव कारणत्वात् । चक्षुरादौ महत्त्वे सत्यपि उद्भूतरूपाभावात् न प्रत्यक्षत्वम् । परमाणौ तूद्भूतरूपसत्त्वेऽपि महत्त्वाभावान्न प्रत्यक्षत्वमिति विवेकः । परमाणुगतरूपस्योद्भूतत्वे किं प्रमाणमिति चत् ? तज्जन्ये त्र्यणुकादौ रूपस्योद्भूतत्वदर्शनमेव प्रमाणम् ।
उद्भूतत्वं च प्रत्यक्षत्वप्रयोजकधर्मविशेषः, न तु जातिविशेषः । उद्भूतत्वस्य जातित्वे, साङ्कर्यप्रसङ्गः । उद्भूतत्वं विहाय रूपत्वम् अनुद्भूतरूपे । रूपत्वं विहाय उद्भूतत्वमुद्भूतस्पर्शादौ । उद्भूतत्वरूपत्वयोः समावेश उद्भूतरूपे ॥37
आपः
शीतस्पर्शवत्य आपः ।
आलोक- व्याख्या
अपां लक्षणमाह - शीतस्पर्शवत्य इति । अपशब्दो नित्यं बहु- वचनान्तः । शीतस्पर्श आसु अस्तीति शीतस्पर्शवत्यः । ’ आसु’ इत्यत्र ‘इदं’ शब्दस्य जलमर्थः । सप्तम्या अधिकरणत्वमर्थः । प्रकृत्यर्थस्य जलस्य सप्तम्यर्थाधिकरणतायामाधेयतासम्बन्धेनान्वयः । तथा च जलनिष्ठाधिकरणता ।
टिप्पणी
ननु परमाणुगतरूपस्यानुद्भूतत्वे का हानिरिति चेत्, त्र्यणुकरूपस्यानुद्भूतत्वप्रसङ्ग एव हानिः । न च परमाणौ महत्त्वाभावेऽपि त्र्यणुके महत्त्ववद्, रूपेऽपि तथात्वमस्तु काममिति शङ्कयम्, परमाणौ महत्त्वाभावमात्रेणैव तदप्रत्यक्षत्वोपपत्तौ परमाणुरूपस्यापि अनुद्भूतत्वे प्रमाणाभावात् ॥
J
ननु राशि - सेना-वनादौ अतिरिक्तावयविनोऽनङ्गीकारेणैव एकत्वव्यवहारस्य निर्वाहात् किमर्थमतिरिक्तोऽवयव्यङ्गीक्रियत इति चेत्, न तत्स्थले एकत्वव्यवहारस्य गौणत्वात् । तथैव घटादावप्यस्तु इति चेत्, न यत्र कुत्रचित् मुख्यस्य एकत्वस्य सिद्धावेवान्यत्र गौणत्वसम्भवात् । आकाशादावेकत्वं तु न प्रत्यक्षसिद्धम् । अन्यत्र कुत्र सिद्धमेकत्वम् ? । कुत्रचित् सिद्धावेव अन्यत्रौपचारिकं तदुपपादयितुं शक्यम् । अतोऽतिरिक्तोऽवयवी अङ्गीकार्य एव ॥
अपि च
• पुरोवर्तिघटादिना सह चक्षुस्संयोगो घटैकदेशेन किल वर्तते । तर्हि प्रत्यक्षं घटैकदेशविषयकमेव स्यात्, न तु घटविषयकम् अतिरिक्तस्य घटाख्यस्यावयविनोऽभावात् । अतिरिक्तावयव्यङ्गीकारे तु चक्षुस्संयोगो घटेन सह जात एव । संयोगस्याव्याप्यवृत्तित्वस्वभावात् तस्य कात्स्र्त्स्न्येन ग्रहणं कदापि कथमपि केनापि कर्तुं न शक्यम् । बाल्यात्प्रभृत्यसकृत्तादृशपदार्थानामनुभवेन बुद्धौ तादृशावयविनो गृहीतत्वेन तद्दृष्टान्तेनैव बुद्धिः कार्यं करोति । यथा मनुजेन स्वपृष्ठभागस्य कदाप्यदृष्टत्वेऽपि तद्विषयकानुभव एव तद्ज्ञानं सदापादयति, बुद्धौ मुद्रितत्वात्, तद्वदेव प्रकृतेऽपि । अतोऽतिरिक्तावयवी अवश्यमङ्गीकार्यः ॥
[[38]]
आलोक- व्याख्या सफार
‘अस्ति’ इत्यत्र असधातोराधेयत्वमर्थः । आख्यातस्याश्रयत्वमर्थः । सप्तम्यर्थाधिकरणताया निरूपितत्वसम्बन्धेन ‘अस्’ धात्वर्थाधेयतायामन्वयः। आश्रयत्वस्य शीतस्पर्शेऽन्वयः । तथा च जलनिष्ठाधिकरणता- निरूपिताधेयताश्रयः शीतस्पर्श इति विग्रहवाक्यबोधः ॥
‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले’ इत्यादिपूर्वोक्तनियमानुरोधेन शीतस्पर्शवत्य इति तद्धितवृत्तौ पूर्वं विशेषणभूतं जलम् इदानीं विशेष्यं भवति । पूर्वं विशेष्यभूतः शीतस्पर्श इदानीं विशेषणं भवति । तथा च- शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयो जलमिति बोधः । शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जलस्य लक्षणम् । अस्य लक्षणस्य कासारादिजले समन्वयः । शीतस्पर्शनिष्ठाधेयता केति चेत्, ‘शीतं कासारजलम्’ इति प्रतीतिसिद्धा शीतस्पर्शनिष्ठाधेयता । तादृशाधेयतानिरूपिताधिकरणत्वं कासारादिजले वर्तत इति लक्षणसमन्वयः ॥
नन्वेवं सति एतल्लक्षणस्य कालादावतिव्याप्तिः । कालस्य सर्वाधारत्वात् ‘इदानीं शीतं जलम्’ इति प्रतीतेः प्रामाणिकत्वात् शीतस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वं कालेऽपि वर्तत इत्यतिव्याट्टिः । एवं पृथिव्यामप्यतिव्याप्तिः । कथमिति चेत् - ‘शीतं शिलातलम्’ इति प्रतीतेः हेमन्तादावनुभवसिद्धत्वात् शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं शिलातलरूपपृथिव्यां वर्तत इत्यलक्ष्ये लक्षणस्य सत्त्वात् अतिव्याप्तिरिति चेत्, न । शीतस्पर्शनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात् । तथा च लक्षणम्- ‘समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकर णत्वम्’ इति । एवञ्च नातिव्याप्तिः । तथाहि– शीतस्पर्शनिष्ठाधेयता-निरूपिताधिकरणत्वं यद्यपि काले वर्तते । किन्तु तत्र शीतस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना । कुत इति चेत् ? गुणगुणिनोः समवायात्,
[[39]]
आलोक- व्याख्या
शीतस्पर्शो जलस्य गुणः, न तु कालस्य । कालस्य सर्वाधारताप्रयोजकसम्बन्धः कालिकसम्बन्धः । अतस्तत्र शीतस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना। न तु समवायसम्बन्धावच्छिन्ना । समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वं तु जल एव वर्तते, न तु काल इति काले नातिव्याप्तिः । ।
एवं पृथिव्यामपि नातिव्याप्तिः । कथमिति चेत् ? समवाय- सम्बन्धावच्छिन्ना शीतस्पर्शनिष्ठाधेयता का ? इत्युक्तौ ‘शीतं जलम्’ इति प्रतीतिसिद्धाधेयतैव । न तु ‘शीतं शिलातलम्’ इति प्रतीतिसिद्धाधेयता । समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जल एव वर्तते । न तु शिलातलरूपपृथिव्याम् । शिलातलरूपपृथिवीनिरूपिता शीतस्पर्शनिष्ठाधेयता तु न समवायसम्बन्धावच्छिन्ना; किन्तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना । स्वः शीतस्पर्शः । स्वसमवायि जलम् । तत्संयोगः शिलातलरूपपृथिव्यां वर्तते । शीतस्पर्शविशिष्ट- हिमादिसम्बन्धादेव पृथिव्यां शीतस्पर्शोपलब्धिः । अतः स्वसमवायिसंयुक्तत्व- सम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यां वर्तते ।
न तु समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम् । समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तु जल
एव वर्तत इति नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यामतिव्याप्तिः । तथाहि- शीतस्पर्शः कश्चन गुणः । अतस्तत्र गुणत्वरूपा जातिरपि वर्तते । तथा च शीतस्पर्शनिष्ठाधेयता गुणत्वावच्छिन्नापि भवति । साऽऽधेयता तु चतुर्विंशतिगुणसाधारणी एकाऽखण्डा समवायसम्बन्धावच्छिन्ना । अतः समवायसम्बन्धावच्छिन्नशीतस्पर्शनिष्ठगुणत्वावच्छिन्नाधेयता केति चेत् चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयतापि । तादृशाधेयता यथा शीतस्पर्शे
[[40]]
वर्तते तथा गन्धेऽपि वर्तते । तादृशाधेयतानिरूपिताधिकरणत्वं तु पृथिव्यामपि वर्तत इति पृथिव्यां पुनरतिव्याप्तिरिति चेत् न । शीतस्पर्शनिष्ठाधेयतायां शीतस्पर्शत्त्वावच्छिन्नत्वस्य निवेशनात् । तथा च लक्षणम् – समवायसम्वन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वम् इति । एवञ्च नातिव्याप्तिः । तथाहि — समवाय- सम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता केति चेत् ? ‘शीतं जलम्’ इति प्रतीतिसिद्धा शीतस्पर्शनिष्ठाधेयतैव भवति । कुतः ? इति चेत्, शीतस्पर्श आधेयताद्वयं वर्तते । एका चतुर्विंशतिगुणसाधारणी ‘गुणवत् जलम्’ इति प्रतीतिसिद्धा गुणत्वावच्छिन्ना शीतस्पर्शनिष्ठाधेयता । एवं शीतस्पर्शत्वावच्छिन्ना ‘शीतं जलम्’ इति प्रतीतिसिद्धा शीतस्पर्शमात्र- निष्ठान्याऽप्याधेयता वर्तते । तत्र गुणत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतायाः स्वीकारे तु ‘गुणवदिति प्रतीतिसिद्धाधेयता भवतीत्यतिव्याप्तिः । लक्षणे ‘शीतं जलम्’ इति प्रतीतिसिद्धा शीतस्पर्शनिष्ठाधेयता निविष्टा । अतः समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता केति चेत् ? ‘शीतं जलम्’ इति प्रतीतिसिद्धैवाधेयता भवति, न तु ‘गुणवती’ इति प्रतीतिसिद्धाधेयता । अतः समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्न- शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जल एव वर्तते, नान्यत्र कुत्राऽपीति पृथिव्यां नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्योत्पत्तिकालावच्छेदेन जलेऽव्याप्ति- दुष्परिहरा । ’ उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठतीति नियमात् उत्पत्तिकालावच्छेदेन जले शीतस्पर्शाभावात् समवायसम्बन्धाव- च्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तत्र नास्तीति लक्षणस्यासमन्वयात् अव्याप्तिरिति चेत्, न । जातिघटितलक्षणस्य विवक्षणात्।
[[41]]
तथा च लक्षणम् - समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्न- शीतस्पर्श - निष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्वम्’ इति। एवञ्च नाव्याप्तिः । तथाहि यत्रास्माभिः शीतस्पर्श उपलभ्यते, तादृशद्वितीयादिक्षणावच्छिन्नजलस्य स्वीकारात्, तद्वृत्तिर्जातिः - जलत्वजातिः । तादृशजातिमत्त्वमाद्यक्षणावच्छिन्ने जलेऽपि वर्तते । जलत्वजातेर्नित्यत्वात् । अतो लक्षणसमन्वयान्नाव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यामेवातिव्याप्तिर्दुष्परिहरा । तथाहि - समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता- निरूपिताधिकरणतावत् कासारजलम् । तद्वृत्तिः का जातिरिति चेत् ? यथा जलत्वजातिस्तथा द्रव्यत्वजातिरपि भवति । तादृशजातिमत्त्वं पृथिव्यामपि वर्तत इति तत्रातिव्याप्तिरिति चेत् - न । जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात् । तथा च लक्षणम् – ‘समवायसम्वन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्न
शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजाति- मत्त्वम्’ इति । एवञ्च नातिव्याप्तिः । समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वाव- च्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्या का जातिरिति चेत् ? द्रव्यत्वजातिर्न भवति, स्वस्य स्वव्याप्यत्वाभावात् । अतो द्रव्यत्वव्याप्या जातिस्तु जलत्वजातिरेव । तादृशजातिमत्त्वं तु कासारादिजल एव वर्तते,
तु न तु पृथिव्यामिति नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनरव्याप्तिर्दुष्परिहरा । तथाहि समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयता- निरूपिताधिकरणतावान् कासारादिः । तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? यथा जलत्वजातिस्तथा कासारत्वजातिरपि । तादृशजातिमत्त्वं कासारजल एव वर्तते, न तु समुद्रजल इति लक्ष्यैकदेशे समुद्रजले
[[42]]
ताश्च द्विविधाः । नित्या अनित्याश्चेति । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधाः शरीरेन्द्रिय-विषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनम् । तच्च जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ।
लक्षणस्यासमन्वयात् अव्याप्तिरिति चेत् न । द्रव्यत्वव्याप्येत्यत्र ‘साक्षात् ’ पदस्य विशेषणात् । तथा च लक्षणम् - ‘समवायसम्वन्धावच्छिन्न- शीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणता- इति । एवञ्च नाव्याप्तिः ।
वद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्’
साक्षात्त्वं नाम स्वव्याप्यत्वे सति स्वव्याप्याव्याप्यत्वम् । एवं च नाव्याप्तिः । तथा हि- समवायसम्बन्धावच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठा- धेयतानिरूपिताधिकरणतावान् कासारः । तद्वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्या जातिरिति चेत् ? कासारत्वजातिर्न भवति । सा जातिस्तु द्रव्यत्वव्याप्यव्याप्या । द्रव्यत्वव्याप्या जलत्वजातिः । तद्व्याप्या कासारत्वजातिः । द्रव्यत्वसाक्षाद्व्याप्या जातिस्तु जलत्वजातिरेव भवति । न तु कासारत्वजातिः । तस्या द्रव्यत्वसाक्षाद्व्याप्यत्वाभावात् । अतः समवायसम्बन्धावच्छिन्न- शीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरणताव- द्वृत्तिद्रव्यत्वसाक्षाद्व्याप्या जातिः जलत्वजातिरेव । तादृशजातिमत्त्वं समुद्रजलेऽपि वर्तत इति नाव्याप्तिः । तथा च - समवायसम्वन्धा- वच्छिन्नशीतस्पर्शत्वावच्छिन्नशीतस्पर्शनिष्ठाधेयतानिरू पिताधिकरणता- वद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् अपां लक्षणम् । । एवं सति जलत्वजातिमत्त्वमेव अपां लक्षणं कुतो नोक्तम् ? इत्यादिकं पृथिवीलक्षण इव ज्ञेयम् । सा द्विविधेत्यादिकं पूर्ववत् । जिह्वाग्रं नाम जिह्वाया उपरिभागः । ।
तेजः
[[43]] [[1]]
उष्णस्पर्शवत्तेजः । तद्द्द्विविधम् । नित्यमनित्यं चेति । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधम् । शरीरे- न्द्रियविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः । तच्च कृष्णताराग्रवर्ति । विषयश्चतुर्विधः । भौमदिव्यौदर्याकरजभेदात् । भौमं वह्न्यादि । दिव्यमबिन्धनं विद्युदादि । भुक्तस्य परिणाम- हेतुरौदर्यम् । आकरजं सुवर्णादि ।
तेजसो लक्षणमाह - उष्णस्पर्शवदिति । उष्णस्पर्शोऽस्मिन् अस्तीति उष्णस्पर्शवत् इति विग्रहः । अस्मिन् इत्यत्र ’ इदं शब्दस्य तेजोऽर्थः । सप्तम्या अधिकरणत्वमर्थः । प्रकृत्यर्थस्य सप्तम्यर्थाधिकरणता- यामाधेयतासम्बन्धेनान्वयः । तथा च तेजोनिष्ठाधिकरणता । ’ अस्ति’ इत्यत्र असधातोराधेयत्वमर्थः । आख्यातस्याश्रयत्वमर्थः । सप्तम्यर्थाधिकरणताया असधात्वर्थाधेयतायां निरूपितत्वसम्बन्धेनान्वयः । आश्रयत्वस्य चोष्णस्पर्श अन्वयः । तथा च तेजोनिष्ठाधिकरणतानिरूपिताधेयताश्रय उष्णस्पर्श इति शाब्दबोधः । ’ अन्यपदार्थप्रधानसमासादिवृत्तिस्थले’ इत्यादिनियमानुरोधेन पूर्वं विशेष्यभूत उष्णस्पर्शः, उष्णस्पर्शवत् इति तद्धितवृत्तौ विशेषणं भवति । पूर्वं विशेषणभूतं तेज इदानीं विशेष्यं भवति । तथा च उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयस्तेजः इति उष्णस्पर्शवत् इति वाक्याद् बोधः । उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं तेजसो लक्षणम् । उष्णस्पर्शनिष्ठाधेयता केति चेत् ? ‘उष्णो वह्निः’ इति प्रतीतिसिद्धाधेयता । तन्निरूपिताधिकरणत्वं वह्निरूपतेजसि वर्तत इति
लक्षणसमन्वयः ॥
।
नन्वेवं सत्यप्यस्य लक्षणस्य कालेऽतिव्याप्तिर्दुष्परिहरा । ‘कालस्य सर्वाधारत्वात्’ ‘इदानीमुष्णस्पर्शः’ इति प्रतीतेः प्रामाणिकत्वात् उष्णस्पर्शनिष्ठा-
[[44]]
धेयतानिरूपिताधिकरणत्वम् कालेऽपि वर्तत इति कालेऽतिव्याप्तिः । एवं जलेऽप्यतिव्याप्तिः । तथाहि - ‘उष्णं जलम्’ इत्यनुभवस्य विद्यमानत्वात् उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं जलेऽपि वर्तत इति जलादाव- तिव्याप्तिरिति चेत्, न । उष्णस्पर्शनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य विशेषणात् । तथा च लक्षणम् ‘समवायसम्वन्धावच्छिन्नोष्ण- स्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्’ इति । एवञ्च नातिव्याप्तिः । तथाहि यद्यपि काले ‘इदानीं उष्णस्पर्शः’ इति प्रतीतिसत्त्वात् उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं वर्तते । किन्तु सा उष्णस्पर्शनिष्ठा- धेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना । कुत इति चेत् ? गुणगुणिनोः समवायात्, उष्णस्पर्शस्य तेजोगुणत्वात् । उष्णस्पर्शो न कालस्य गुणः । सर्वाधारत्वप्रयोजकः कालिकसम्बन्धः । अतस्तत्र उष्णस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना । समवायसम्बन्धावच्छिन्नोष्णस्पर्शनिष्ठाधेयता तु ‘उष्णो वह्निः’ इति प्रतीतिसिद्धैवाधेयता । तादृशाधेयतानिरूपिताधिकरणत्वं तु तेजस्येव वर्तते, नान्यत्र कुत्रापीति कालादौ नातिव्याप्तिः । एवं जलेऽपि नातिव्याप्तिः । कथमिति चेत् ? जले विद्यमानोष्णस्पर्शनिष्ठाधेयता तु न समवाय- सम्बन्धावच्छिन्ना, किन्तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना । कुत इति चेत् ? उष्णस्पर्शविशिष्टतेजोभागसम्बन्धादेव जल उष्णस्पर्शस्योपलब्धिः । तथा च स्वम् - उष्णस्पर्शः, स्वसमवायि- तेजः । तत्संयोगो जले वर्तत इति तादृशसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणत्वं जले वर्तते, न तु समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वमित्यतो जले नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुष्परिहरा ।
[[45]]
आलोक- व्याख्या
तथाहि - उष्णस्पर्शः कश्चन गुणः । तथा च— उष्णस्पर्शनिष्ठाधेयता गुणत्वावच्छिन्नाऽपि भवति । एषाधेयता तु चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता । तादृशाधेयता यथा उष्णस्पर्शे वर्तते, तथैव गन्धेऽपि वर्तते । अतः समवायसम्बन्धावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं पृथिव्यामपि वर्तत इति पुनः पृथिव्यामतिव्याप्तिरिति चेत्, न । उष्णस्पर्शनिष्ठाधेयतायामुष्णस्पर्शत्वावच्छिन्नत्वस्यापि विशेषणात् । तथा
च लक्षणम् - समवायसम्वन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्ण- स्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम् इति । एवञ्च नातिव्याप्तिः । तथाहि उष्णस्पर्शे आधेयताद्वयं वर्तते । एका गुणत्वावच्छिन्नोष्णस्पर्शनिष्ठा चतुर्विंशतिगुणसाधारणी आधेयता । अपरा च उष्णस्पर्शत्वावच्छिन्नोष्ण- स्पर्शमात्रनिष्ठाधेयता । तत्र गुणत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतायाः स्वीकारे तु ‘गुणवत्’ इति प्रतीतिसिद्धाधेयता भवति । लक्षणे तु ‘उष्णस्पर्शवत्’ इति प्रतीतिसिद्धोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शमात्रनिष्ठाधेयता निविष्टा । अतः समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता केति चेत् ? ‘उष्णस्पर्शवत्’ इति प्रतीतिसिद्धाधेयतैव, न तु ‘गुणवत्’ इति प्रतीतिसिद्धा- धेयता । तादृशाधेयतानिरूपिताधिकरणत्वं तु तेजस्येव, न तु पृथिव्यादाविति नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्योत्पत्तिकालावच्छेदेन दीपादा- वव्याप्तिर्दुष्परिहरा । ’ उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति’ इति नियमानुरोधेनाद्यक्षणावच्छिन्ने दीपादौ तेजस्युष्णस्पर्शाभावात् समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता- निरूपिताधिकरणत्वम् उत्पत्तिकालिकदीपादौ नास्तीत्यव्याप्तिरिति चेत् - न। जातिघटिततया लक्षणपरिष्कारात् । तथा च लक्षणम् – समवायसम्वन्धा-
[[746]]
वच्छिन्नोष्णस्पर्शत्वावच्छिन्नाधेयतानिरूपिताधिकरणतावद्वृत्ति- जातिमत्त्वम् इति । एवञ्च नाव्याप्तिः । तथाहि– समवायसम्बन्धावच्छिन्नोष्ण- स्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान्
द्वितीयादि- क्षणावच्छिन्नो दीपादिः । तद्वृत्तिर्या जातिरिति चेत्, तेजस्त्वजातिः । तादृशजातिमत्त्वम् आद्यक्षणावच्छिन्ने दीपेऽपि वर्तते, ‘तेजस्त्वजातेर्नित्यत्वात्’ इति नाव्याप्तिः । ।
‘समवाय-
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुष्परिहरा । तथाहि समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता- निरूपिताधिकरणतावान् वह्निः । तद्वृत्तिर्या जातिरिति चेत् ? यथा तेजस्त्वं तथा द्रव्यत्वमपि । तादृशजातिमत्त्वं पृथिव्यामपि वर्तत इति चेत्, न । जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात् । तथा च लक्षणम् सम्वन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता- निरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्’ इति । एवञ्च नातिव्याप्तिः । तथाहि समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्ण- स्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् वह्निः । तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? द्रव्यत्वजातिर्न भवति । ‘स्वस्य स्वव्याप्यत्वाभावात्’ । तादृशजातिमत्त्वं तेजस्येव वर्तते, न तु पृथिव्यादाविति तत्र नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः सुवर्णादौ तेजस्यव्याप्तिर्दुष्परिहरा । तथाहि -समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता- निरूपिताधिकरणतावान् दीपः । तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? यथा तेजस्त्वजातिर्भवति, तद्वत् दीपत्वजातिरपि भवति । तादृशजातिमत्त्वं सूर्यादिरूपतेजसि नास्तीति अव्याप्तिरिति चेत्, न । द्रव्यत्वव्याप्ये ‘साक्षात् ’ पदस्य विशेषणात् । तथा च लक्षणम्– ‘समवायसम्वन्धा-47
वायुः
रूपरहितस्पर्शवान् वायुः ।
वच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरण-
तावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्’ इति ॥
एवञ्च नाव्याप्तिः । तथाहि साक्षात्त्वं नाम स्वव्याप्यत्वे सति स्वव्याप्याव्याप्यत्वम् । स्वम् द्रव्यत्वम्, तद्व्याप्यत्वं तेजस्त्वे वर्तते । तद्व्याप्यत्वं दीपत्वे इति । अतः समवायसम्बन्धावच्छिन्नोष्णस्पर्शत्वाव- च्छिन्नोष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावत् तेजः । तद्वृत्तिर्या द्रव्यत्वसाक्षाद्व्याप्या जातिरिति चेत् ? तेजस्त्वजातिरेव भवति । दीपत्वजातिस्तु न द्रव्यत्वसाक्षाद्व्याप्या । किन्तु द्रव्यत्वव्याप्यव्याप्या । अतस्तादृशाधिकरणता- वद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिश्चेत् तेजस्त्वजातिः । तादृशजातिमत्त्वं सुवर्णादावपि वर्तत इति नाव्याप्तिः । तथा च सम्पूर्णतेजो लक्षणम् ‘समवायसम्वन्धावच्छिन्नोष्णस्पर्शत्वावच्छिन्नोष्णस्पर्शनिष्ठाधेयता- निरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम्’ इति ॥ तर्हि तेजस्त्वजातिमत्त्वमेव लक्षणमस्तु इत्येतत्तु पूर्ववदेव समाधेयम् ॥
भौमम् - दार्वादीन्धनप्रभवम् । दिव्यम् - आकाशावच्छिन्ने मेघमण्डले जातम्, अत एव - अबिन्धनम्, न त्वप्राकृतम् । अप्राकृतम् तु दिव्यं शुद्धम् आत्मादिकमेव । उदरे भवम् औदर्यम् - जाठराग्निः । आकरः खनिः । तत्र जातम् । भास्वररूपस्य तेजोगुणत्वात् सुवर्णे लेशतो भास्वररूपदर्शनेन तैजसत्वम् ॥
वायोर्लक्षणमाह रूपरहितेत्यादि । ‘रूपरहितस्पर्शवान्’ इति कर्मधारयः व्यस्तं पदं वा । स्पर्शोऽस्मिन् अस्तीति स्पर्शवान् इति विग्रहः । ‘अस्मिन्’ इत्यत्र इदंशब्दस्य वायुरर्थः । सप्तम्या अधिकरणत्वमर्थः । प्रकृत्यर्थस्याधेयतासम्बन्धेन सप्तम्यर्थाधिकरणतायामन्वयः । तथा च
[[48]]
वायुनिष्ठाधिकरणता इत्यासीत् । ‘अस्ती’ त्यत्र ‘अस्’ धातोराधेयत्वमर्थः । सप्तम्यर्थाधिकरणताया असधात्वर्थाधेतायां निरूपितत्वसम्बन्धेनान्वयः । आख्यातस्याश्रयत्वमर्थः । आश्रयत्वस्य स्पर्शेऽन्वयः । तथा च ‘वायुनिष्ठाधिकरणतानिरूपिताधेयताश्रयः स्पर्शः’ इति विग्रहवाक्यबोधः । ‘अन्यपदार्थप्रधानसमासादिवृत्तिस्थले विग्रहवाक्यात्’ इत्यादि- पूर्वोक्तनियमेन पूर्व विशेषणभूतो वायुः, स्पर्शवान् इति तद्धितवृत्तिस्थले विशेष्यो भवति । पूर्वं विशेष्यभूतः स्पर्श इदानीं विशेषणं भवति । तथा च ‘स्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयो वायुः’ इति स्पर्शवान् इति वाक्याद् बोधः ॥
‘रूपरहितः’ इत्यत्र ‘रूपेण रहितः’ इति तृतीयातत्पुरुषः । ‘रूपेण’ इत्यत्र प्रकृते रूपमर्थः । तृतीयायाः प्रतियोगित्वमर्थः । प्रकृत्यर्थस्य तृतीयार्थप्रतियोगितायामाधेयतासम्बन्धेनान्वयः । तथा च ‘रूपनिष्ठा प्रतियोगिता’ इत्यासीत् । ‘रहितः’ इत्यत्र रहधातोरत्यन्ताभावोऽर्थः । तदुत्तरवर्ति’क्त’- प्रत्ययस्याश्रयत्वमर्थः । तृतीयार्थप्रतियोगिताया रहधात्वर्थात्यन्ताभावे निरूपकतासम्बन्धेनान्वयः । तथा च रूपनिष्ठप्रतियोगितानिरूपका- भावाश्रय इति रूपेण रहितः’ इति व्यस्तप्रयोगाद् बोधः । ‘रूपरहितः ’ इति तत्पुरुषसमासे तु ‘रूप’ इति पूर्वपदस्य रूपनिष्ठप्रतियोगितानिरूपके लक्षणा । अभावेन सहाभेदसम्बन्धेनान्वय इति विशेषः । एवञ्चाहत्य ‘रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शनिष्ठाधेयता- निरूपिताधिकरणताश्रयो वायुः’ इति अखण्डबोधः ॥ ‘रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शनिष्ठाधेयता- निरूपिता- धिकरणत्वं वायोर्लक्षणम् । लक्षणस्यास्य लक्ष्ये वायौ समन्वयः । तथाहि स्पर्शनिष्ठाधेयता का ? इति चेत् ‘स्पर्शवान् वायुः’ इति
[[49]]
प्रतीतिसिद्धाधेयता । तादृशाधेयतानिरूपिताधिकरणत्वं वायौ वर्तते । एवं वायौ रूपाभावात् रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वमपि वर्तत इति लक्षणसमन्वयः । तत्र स्पर्शवत्त्वमात्रोक्तौ पृथिव्यादौ स्पर्शस्य सत्त्वादतिव्याप्तिः । अतो रूपरहितत्वमुक्तम् । पृथिव्यां रूपस्य सत्त्वेन रूपरहितत्त्व- स्याभावान्नातिव्याप्तिः । रूपरहितत्वमात्रोक्तावाकाशादौ रूपाभावात् अतिव्याप्तिः । अतः स्पर्शवत्त्वमुक्तम् । आकाशादौ स्पर्शस्याभावात् नातिव्याप्तिः ॥
[[6]]
नन्वेवं सत्यप्यस्य लक्षणस्य कालेऽतिव्याप्तिर्दुर्वारा । तथाहि— कालस्य सर्वाधारत्वात् ‘इदानीं स्पर्शः’ इति प्रतीतेः प्रामाणिकत्वात् । स्पर्शनिष्ठाधेयता का ? इति चेत् ‘इदानीं स्पर्शः’ इति प्रतीतिसिद्धाधेयता । तादृशाधेयतानिरूपिताधिकरणत्वं कालेऽपि वर्तते, एवं रूपरहितत्वमपि वर्तत इत्यतिव्याप्तिरिति चेत्, न । स्पर्शनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात् । तथा च लक्षणम् ‘रूपनिष्ठप्रतियोगितानिरूपकाभावा- श्रयत्वे सति समवायसम्वन्धावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिता- धिकरणत्वम्’ । एवञ्च नातिव्याप्तिः । तथाहि— यद्यपि काले रूपनिष्ठाप्रति- योगितानिरूपकाभावाश्रयत्वे सति, स्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं वर्तते, तथापि तादृशाधेयता कालिकसम्बन्धावच्छिन्ना । न तु समवायसम्बन्धा- वच्छिन्ना । कुत इति चेत् ? गुणगुणिनोः समवायात्, स्पर्शस्य वायोर्गुणत्वात् । स्पर्शो न कालस्य गुणः । कालनिष्ठाधिकरणतानिरूपितस्पर्शनिष्ठाधेयता कालिकसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना । अतश्च समवायसम्बन्धावच्छिन्नस्पर्शनिष्ठाधेयता-निरूपिताधिकरणत्वं तु वायावेव वर्तते, न तु काल इति नातिव्याप्तिः ॥
नन्वेवं सत्यपि पुनरस्य लक्षणस्य कालादावतिव्याप्तिर्दुरुद्धरा ।
[[50]]
आलोक- व्याख्या
तथाहि— स्पर्शः कश्चन गुणः । तत्र वर्तमाना समवायसम्बन्धावच्छिन्नाधेयता केति चेत् ? ’ गुणवान्’ इति प्रतीतिसिद्धा गुणत्वावच्छिन्नाधेयताऽपि भवति । तादृशाधेयता यथा स्पर्शे वर्तते तथा सङ्ख्यादावपि वर्तते, चतुर्विंशतिगुण- साधारणी एकैवाखण्डाधेयता इत्युक्तत्वात् । समवायसम्बन्धावच्छिन्न- गुणत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वं कालेऽपि वर्तते । ‘एकः कालः’ इति कालस्य एकत्वसङ्ख्याधारत्वात् । तत्र रूपरहितत्वस्यापि सत्त्वात् कालेऽतिव्याप्तिरिति चेत्, न । स्पर्शनिष्ठाधेयतायां स्पर्शत्वावच्छिन्न- त्वस्यापि निवेशनात् । तथा च लक्षणम् ‘रूपनिष्ठप्रतियोगिता- निरूपकाभावश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्न- स्पर्शनिष्ठाधेयतानिरूपिताधिकरणत्वम्’ इति ॥ एवञ्च नातिव्याप्तिः । रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वं यद्यपि कालेऽस्ति । परन्तु समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयता केति चेत् ? स्पर्शे किलाधेयताद्वयं वर्तते । एका ‘गुणवान्’ इति प्रतीतिसिद्धा चतुर्विंशतिगुणसाधारणी स्पर्शनिष्ठाधेयता । एवं ‘स्पर्शवान्’ इति प्रतीतिसिद्धा स्पर्शत्वावच्छिन्नस्पर्शमात्रनिष्ठाधेयताप्यन्या वर्तते । तत्र गुणत्वावच्छिन्न- स्पर्शनिष्ठाधेयतायाः स्वीकारे तु ‘गुणवान्’ इति प्रतीतिसिद्धाधेयता भवति । लक्षणे तु स्पर्शत्वावच्छिन्नत्वस्य निवेशनात् समवायसम्बन्धावच्छिन्नस्पर्श- त्वावच्छिन्नस्पर्शनिष्ठाधेयता केति चेत् ? ‘स्पर्शवान्’ इति प्रतीतिसिद्धस्पर्शमात्र- निष्ठाधेयतैव भवति, न तु ‘गुणवान्’ इति प्रतीतिसिद्धाधेयता । तादृशाधेयता- निरूपिताधिकरणत्वं तु वायावेव वर्तते, न तु काल इति नातिव्याप्तिः ॥
तथाहि
नन्वेवमपि ’ उत्पन्नं द्रव्यम्’ इत्यादिन्यायात् उत्पत्तिक्षणावच्छिन्ने वायौ स्पर्शस्याभावात् समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठा- धेयतानिरूपिताधिकरणत्वस्याभावादव्याड्डिरिति चेत्, न । ‘रूपनिष्ठ-
[[51]]
प्रतियोगितानिरूपकाभावश्रयत्वे सति समवायसम्बन्धावच्छिन्नस्पर्श- वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणता वत्तिजातिमत्वस्यैव
लक्षणत्वात् । तथा च समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्न-स्पर्शनिष्ठाधे- यतानिरूपिताधिकरणतावान् वायुः, तद्वृत्तिर्जातिः- वायुत्वरूपा जातिः, तादृशजातिमत्त्वमुत्पत्तिक्षणावच्छिन्ने वायावपि वर्तते, जातेर्नित्यत्वात् । अतो नाव्याप्तिः ॥
अथैवमपि आकाशादावतिव्याप्तिः, समवायसम्बन्धावच्छिन्न- स्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावान् वायुः, तद्वृत्तिर्जातिः केति चेत् ? द्रव्यत्वजातिरपि वायौ द्रव्यत्वसत्त्वात् । तद्वत्त्वमाकाशादौ वर्तते, रूपाभावोऽपि वर्तत इत्यतिव्याप्तिरिति चेत्, न । जातौ द्रव्यत्वव्याप्यत्वस्य विशेषणात् । तथा च लक्षणम्— ‘रूपनिष्ठप्रतियोगितानिरूपकाभावश्रयत्वे सति समवायसम्वन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयता-
T
निरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं पर्यवसन्नम् । एवं
सति समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिता- धिकरणतावद्वृत्तिद्रव्यत्वव्याप्या जातिर्वायुत्वजातिरेव, न तु द्रव्यत्वजातिः । स्वस्य स्वव्याप्यत्वाभावात् । वायुत्वजातेराकाशादावभावान्नातिव्याप्तिः ॥ नन्वेवमपि तादृशद्रव्यत्वव्याप्यजातिपदेन प्राणत्वजातेः स्वीकारे, तादृशजातिमत्त्वमितरवायुषु नास्तीत्यव्याप्तिरिति चेन्न द्रव्यत्वसाक्षा- द्व्याप्यजातिमत्त्वविवक्षणात् । तथा च लक्षणम् — ‘रूपनिष्ठ- प्रतियोगिता- निरूपकाभावश्रयत्वे सति समवायसम्वन्धावच्छिन्नस्पर्शत्वावच्छिन्न-
स्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्- व्याप्यजातिमत्त्वम् इति । तथा च प्राणत्वं तु द्रव्यत्वव्याप्यव्याप्यजातिः, न तु द्रव्यत्वसाक्षाद्व्याप्या जातिः । तादृशी तु वायुत्वजातिरेवेति नाव्याप्तिः ॥
काठ
[[52]]
नन्वेवं सत्यप्यस्य लक्षणस्य पुनः पृथिव्यादावतिव्याप्तिर्दुर्वारा । तथाहि–यद्यपि पृथिव्यां समवायसम्बन्धेन रूपस्य विद्यमानत्वेऽपि संयोग- सम्बन्धेन रूपस्याभावात् रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति
समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणता- वद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वमपि वर्तत इति लक्षणस्य पृथिव्या- मतिव्याप्तिरिति चेत्, न । रूपनिष्ठप्रतियोगितायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात् । तथा च लक्षणम् - समवायसम्वन्धावच्छिन्नरूपनिष्ठ- प्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्वन्धावच्छिन्नस्पर्श- त्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यजातिमत्त्वम् । एवञ्च नातिव्याप्तिः । तथाहि समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियेगिता केति चेत् ? ‘वायौ रूपं नास्ति’ इति प्रतीतिसिद्धा प्रतियोगिता । पृथिव्यां समवायसम्बन्धावच्छिन्नरूपनिष्ठ- प्रतियोगितानिरूपकाभावाश्रयत्वं नास्ति । समवायेन तत्र रूपस्य विद्यमान- त्वात् । किन्तु तत्र विद्यमाना प्रतियोगिता संयोगसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना । पृथिव्याम् ‘संयोगेन रूपं नास्ति’ इति प्रतीतेः सम्भवेऽपि ‘रूपं नास्ति’ इति प्रतीतेरसम्भवात् । अतः समवायसम्ब- न्धावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति समवायसम्बन्धाव-
च्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यजातिमत्त्वं तु वायावेव वर्तत इति पृथिव्यां नातिव्याप्तिः ॥
नन्वेवं सत्यपि पुनः पृथिव्यामतिव्याप्तिर्दुष्परिहरा । तथाहि–पृथिव्यां सप्तविधरूपं वर्तते । नीलरूपं पीतरूपं रक्तरूपमित्यादि । अतस्तादृशनीलरूपविशिष्टस्य घटस्य स्वीकारे तत्र पीतरूपात्यन्ताभावो वर्तते । पीतघटे नीलात्यन्ताभावो वर्तते । समवायसम्बन्धेनैव पीतघटे
[[53]]
नीलात्यन्ताभावो वर्तते । अतः समवायसम्बन्धावच्छिन्नरूपनिष्ठप्रतियोगिता केति चेत् ? पीतघटे नीलरूपं नास्तीति प्रतीतिसिद्धा प्रतियोगिता । तादृशप्रतियोगितानिरूपकाभावाश्रयत्वं पीतघटरूपपृथिव्यामपि वर्तते । एवं
च समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरण-
तावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यपृथिवीत्वजातिमत्त्वमपि पीतघटे वर्तत इति अतिव्याप्तिरिति चेत्, न । रूपनिष्ठप्रतियोगितायां रूपत्वावच्छिन्नत्वस्य निवेशनात् । तथा च लक्षणम् – समवायसम्वन्धावच्छिन्नरूपत्वाव- च्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति, समवायसंवन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिता-
धिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् । एवञ्च नातिव्याप्तिः । तथाहि - समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठा प्रतियोगिता केति चेत् ? ‘वायौ रूपं नास्ति’ इति प्रतीतिसिद्धरूपसामान्यनिष्ठा प्रतियोगिता । पीतघटे ‘रूपं नास्ति’ इति प्रतीतेरसम्भवेन समवायसम्बन्धाव- च्छिन्नरूपत्वावच्छिन्नरूपनिष्ठा प्रतियोगिता तत्र न भवति । पीतघटे नीलरूपं नास्तीति प्रतीतिसिद्धाभावीया नीलरूपनिष्ठा प्रतियोगिता तु नीलरूपत्वावच्छिन्ना, न तु रूपत्वावच्छिन्ना । अतः पीतघटे यद्यपि नीलरूपत्वावच्छिन्ननीलरूपनिष्ठ- प्रतियोगितानिरूपकाभावाश्रयत्वं वर्तते । अथापि तत्र पीतरूपस्य सत्त्वात् रूपत्वावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वं नास्ति, पीतरूपस्य
सत्त्वात् । अतः समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठप्रतियोगिता केति चेत् ? रूपं नास्तीति प्रतीतिसिद्धा रूपसामान्यनिष्ठा प्रतियोगिता । तादृशप्रतियोगितानिरूपकाभावाश्रयत्वम् एवं समवायसम्बन्धावच्छिन्नस्पर्शत्वाव- च्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं च (वायुत्वजातिमत्त्वम्) वायावेव वर्तते, न तु पृथिव्यामिति नातिव्याप्तिः ॥
[[54]]
नन्वेवमपि रूपत्वावच्छिन्नरूपनिष्ठप्रतियोगितानिरूपकाभावः कः ? इति चेत्, ‘रूपघटोभयं नास्ति इति प्रतीतिसिद्धो रूपघटोभयाभावोऽपि । तत्र प्रतियोगितावच्छेदकता रूपत्वे, घटत्वे, उभयत्वे च वर्तते । अतः प्रतियोगिता रूपत्वावच्छिन्ना भवत्येव । तादृशप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यपृथिवीत्वजातिमत्त्वस्यापि घटादौ सत्त्वात्, घटादौ रूपसत्त्वेऽपि घटे घटाभावात्, एकसत्त्वेऽपि द्वयं नास्तीति नियमेन ‘रूपघटोभयं नास्ति’ इति प्रतीतेः प्रामाणिकत्वाद्धटादावुक्तलक्षणस्यातिव्याप्तिर्दुष्परिहरेति चेत्, न । प्रतियोगितावच्छेदकतायां पर्याप्तेर्निवेशनात् । तथा च रूपत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वे सति स्पर्शत्वा- वच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्ति द्रव्यत्वसाक्षाद्व्याप्य- जातिमत्त्वं वायोर्लक्षणम् । एवञ्च रूपघटोभयं नास्ति’ इति प्रतीतिसिद्धा- भावीयप्रतियोगितावच्छेदकताया रूपत्वघटत्वोभयत्वेषु त्रिषु पर्याप्तत्वात् रूपत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावो रूपाभाव एव भवति, न तु रूपघटोभयाभाव इति नातिव्याप्तिः ॥
अथैवमपि प्रत्येकापर्याप्तस्य समुदायपर्याप्तत्वासम्भवात् उक्तोभया- भावीयप्रतियोगितावच्छेदकतायाः प्रत्येकं पर्याट्टत्वेन रूपत्वेऽपि सा पर्याप्तैवेति, रूपघटोभयाभावोऽपि रूपत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभावो भवत्येवेति अतिव्याप्तिस्तदवस्थैवेति चेत्, न । रूपत्वमात्रपर्याप्तावच्छेदकता- कप्रतियोगिताकाभावश्रयत्वनिवेशनात् । एतादृशस्त्वभावः ‘रूपं नास्ति’ इति प्रतीतिसिद्धाभाव एव, न तूभयाभावः । उभयाभावीयप्रतियोगितायास्त्रिषु पर्याप्तत्वेन रूपत्वमात्रपर्याप्तत्वाभावान्नोभायाभावः स्वीकर्तुं शक्यत इति नातिव्याप्तिः । अधिकमन्यत्र ॥ तथा च समवायसंवन्धा- वच्छिन्नरूपत्व-
[[55]]
मात्रपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वे सति स्पर्शत्वा- वच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्या-
प्यजातिमत्त्वं वायोर्लक्षणम् इत्याद्यूह्यम् ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनरुत्पत्तिकालावच्छिन्ने घटेऽतिव्या- प्तिर्दुर्वारा । ’ उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति’ इति नियमात् उत्पत्तिकालावच्छिन्ने घटे रूपसामान्याभावात् समवायसम्बन्धावच्छिन्न- रूपत्वमात्रपर्याप्तावच्छेदकताकप्रतियोगिताकाभावाश्रयत्वे सति समवाय-
सम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्ति- द्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वं वर्तते । अतस्तत्र उत्पत्तिकालावच्छिन्न- घटरूपपृथिव्यामतिव्याप्तिर्दुवरिति चेत्, न । ‘रूपरहितः’ इत्यस्य दलस्य जातिघटितपरिष्कारात् । केवलरूपशून्यत्वं न लक्षणं, किन्तु रूपसमानाधि- करणजातिशून्यत्वमिति लक्षणम् । रूपसमानाधिकरणजातिशून्यत्वं नाम रूपनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिशून्यत्वम् । तथा च लक्षणम्
समवायसम्वन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिता- धिकरणतावद्वृत्तिजातिशून्यत्वे सति समवायसम्वन्धावच्छिन्नस्पर्श- त्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यजातिमत्त्वम् । तथा च नातिव्याप्तिः । तथाहि समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावान् कः? इति चेत्, द्वितीयादिक्षणावच्छिन्नो घटोऽपि भवति । तद्वृत्तिर्या जातिरिति चेत् ? पृथिवीत्वजातिरेव । तादृशजातिमत्त्वमेव वर्तत उत्पत्तिकालावच्छिन्ने घटे । तत्र रूपसमानाधिकरणजातिशून्यत्वाभावात् । रूपसमानाधिकरण- जातिशून्यत्वं (पृथिवीत्वादिजातिशून्यत्वं ) तु वायावेव वर्तत इति पृथिव्यां लक्षणासमन्वयान्नातिव्याप्तिः ॥
56 आलोक- व्याख्या
नानन्वेवं सत्यप्यस्य लक्षणस्य पुनः असम्भवरूपदोषो दुर्निवारः । तथाहि समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिता- धिकरणतावान् घटः । तद्वृत्तिर्या जातिरिति चेत्, यथा पृथिवीत्वजाति; तथा द्रव्यत्वजातिः सत्ताजातिश्च । तादृशजातेः स्वीकारे तादृशजातिमत्त्वमेव वायौ वर्तते, जातिशून्यत्वं नास्तीति लक्षणस्यासमन्वयात् असम्भवो दोष इति चेत्, न । जातौ द्रव्यत्वव्याप्यत्वस्य निवेशनात् । तथा च लक्षणम् - समवायसम्वन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिता-
धिकरणतावद्वृत्तिद्रव्यत्वव्याप्यजातिशून्यत्वे सति समवायसम्वन्धाव-
च्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्ति- द्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् । एवञ्च नासम्भवः । तथाहि– समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयतानिरूपिताधिकरणतावान् घटः । तद्वृत्तिर्या द्रव्यत्वव्याप्या जातिरिति चेत् ? सत्ताजातिर्न भवति, तस्या द्रव्यत्वव्यापकत्वेन द्रव्यत्वव्याप्यत्वाभावात् । एवं द्रव्यत्वजातिरपि न भवति । स्वस्य स्वव्याप्यत्वाभावात् । अतो द्रव्यत्वव्याप्या जातिरिति चेत् पृथिवीत्वादिजातिः स्वीकर्तव्या । तादृशजातिशून्यत्वं वायौ वर्तत एव । एवं समवायसम्बन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयता- निरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्या (वायुत्व ) जातिरपि वर्तत इति लक्षणसमन्वयात् नासम्भवः ॥
अथैवमपि समवायसम्बन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठाधेयता-
निरूपिताधिकरणतावद्वृत्तिद्रव्यत्वव्याप्यपटत्वजातिशून्यत्वस्य समवायसम्बन्धा- वच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिद्रव्यत्व- साक्षाद्व्याप्यपृथिवीत्वजातिमत्त्वस्य च घटादौ सत्त्वात्पुनः घटादावतिव्याप्तिरिति चेत्, न । द्रव्यत्वसाक्षाद्व्याप्यजातिशून्यत्वस्य विवक्षणात् । पटत्वं तु, न57
सद्विविधः । नित्योऽनित्यश्चेति । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः । शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् । तच्च सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुर्वायुः, शरीरान्तस्सञ्चारी वायुः प्राणश्च । स चैकोऽप्युपाधिभेदात् प्राणापानादिसञ्ज्ञां लभते ।
आकाशम्
शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च ।
आलोक- व्याख्या
द्रव्यत्वसाक्षाद्व्याप्यजातिः, तस्या द्रव्यत्वव्याप्यव्याप्यत्वात् । किन्तु पृथिवीत्वादिरेव । तच्छून्यत्वं घटादौ नास्तीति नातिव्याप्तिः । वायौ तु तच्छून्यत्वं वर्तत एवेति लक्षणसमन्वय इति दिक् । तथा च वायोर्निष्कृष्टं लक्षणम् समवायसम्वन्धावच्छिन्नरूपत्वावच्छिन्नरूपनिष्ठा- धेयतानिरूपिताधिकरणता वद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिशून्यत्वे सति
समवायसम्वन्धावच्छिन्नस्पर्शत्वावच्छिन्नस्पर्शनिष्ठाधेयतानिरूपिता- धिकरणतावद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वम् इति ॥ अत्र रूपसमानाधिकरणजातिशून्यत्वं वा रूपानधिकरणवृत्तिजातिमत्त्वं वा, किं विवक्षितम् ? इत्यादिकं तु कुशाग्रमतिभिः स्वयमूह्यम् ॥
उपाधिभेदात्- हृदयादिशरीरावयवभेदात् । ‘हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थो व्यानस्सर्वशरीरगः ॥’ इत्याद्यत्र द्रष्टव्यम् । प्राणशब्दः पञ्चवायुसाधारणः ‘पञ्च प्राणाः’ इत्यादि- प्रसिद्धेः । एवं वायुविशेषवाची च ‘प्राणापान’ इत्यादावपि प्राणस्य पाठात् ॥
आकाशं लक्षयति - शव्दगुणकमिति । शब्दों गुणो यस्मिन्, तत् इति शब्दगुणकम् । ‘यस्मिन्’ इत्यत्र यच्छब्दस्याकाशमर्थः । सप्तम्या अधिकरणत्वमर्थः । प्रकृत्यर्थस्याकाशस्य सप्तम्यर्थाधिकरणतायामाधेयता- सम्बन्धेनान्वयः । तथा च आकाशनिष्ठाधिकरणता । सप्तम्यर्थाधिकरणताया
[[58]]
आलोक- व्याख्या
निरूपकतासम्बन्धेन शब्देऽन्वयः । शब्दस्य च गुणेऽभेदसम्बन्धेनान्वयः ।
तथा च
आकाशनिष्ठाधिकरणतानिरूपकः शब्दाभिन्नो गुण इति अखण्डबोधः । ‘विग्रहवाक्यात् यादृशविशेष्यविशेषणभावापन्नो वोघो जायते समासादिवृत्तिवाक्यात् तद्विपरीतविशेष्यविशेषणभावापन्नो वोघो जायते’ इति नियमात् पूर्वं विशेषणभूत आकाश इदानीं विशेष्यो भवति । पूर्वं विशेष्यभूतो गुण इदानीं विशेषणं भवति । तथा च शव्दाभिन्नगुणनिरूपिताधिकरणताश्रय आकाशः इति समस्तवाक्याद् बोधः । अथवा - ‘यस्मिन्’ इत्यत्र यच्छब्दस्य आकाशोऽर्थः । सप्तम्या अधिकरणत्वमर्थः। प्रकृत्यर्थस्याधेयतासम्बन्धेन सप्तम्यर्थाधिकरणतायामन्वयः। तथा च आकाशनिष्ठाधिकरणता । सप्तम्यर्थाधिकरणतायाः स्वनिरूपिताधेयता- श्रयत्वसम्बन्धेन शब्देऽन्वयः । तथा च यच्छव्दार्थाकाशनिष्ठाधिकरणता- निरूपिताधेयताश्रयो गुणः शव्दाभिन्न इति बोधः । ‘विग्रहवाक्यात्’ इत्यादिपूर्वोक्तनियमेन शब्दाभिन्नगुणनिष्ठाधेयतानिरूपिताधिकरणताश्रय आकाश इति बोधः । अथवा यस्मिन्नित्यत्र सप्तम्या आधेयत्वमर्थः । प्रकृत्यर्थस्य निरूपितत्वसम्बन्धेनाधेयतायामन्वयः । आधेयताया आश्रयतासम्बन्धेन शब्देऽन्वयः । तथा च आकाशनिरूपिताधेयताश्रयः शब्दाभिन्नो गुण इति विग्रहवाक्यबोधः । समासात्तु शव्दनिष्ठाधेयतानिरूपकमाकाशमिति बोधः । फलतः सर्वं समानार्थकम् । लक्षणे तु गुणपदनिवेशनस्य प्रयोजनाभावात्, शव्दनिष्ठाधेयतानिरूपिताधिकरणत्वम् इत्येव लक्षणम् । शब्दनिष्ठाधेयता केति चेत् ? ‘आकाशे शब्दो वर्तते इति प्रतीतिसिद्धा- धेयता । तादृशाधेयतानिरूपिताधिकरणत्वमाकाशे वर्तत इति लक्षणसमन्वयः । ।
नन्वेवं सत्यप्यस्य लक्षणस्य पृथिव्यादावतिव्याप्तिर्दुष्परिहरा । तथाहि ‘अयं भेरीशब्दः’ ‘वीणानादः’ इत्यादिप्रतीतेः प्रमाणिकत्वात्, ‘भूतले
[[59]]
घटः’ इत्यादाविव ‘भेर्याम्’ इत्यत्र सप्तम्या अधिकरणत्वार्थकत्वेन शब्दस्य भेर्यादिपृथिवीधर्मत्वसिद्ध्या शब्दनिष्ठाधेयता केति चेत् ‘भेर्यां शब्दो जायते’ इति प्रतीतिसिद्धाधेयता । तादृशाधेयतानिरूपिताधिकरणत्वं भेरीरूप- पृथिव्यामपि वर्तत इति पृथिव्यामतिव्याप्तिः । एवम् ‘इदानीं शब्दः’ इति प्रतीत्या कालस्य सर्वाधारत्वेन पूर्ववत् कालेऽप्यतिव्याप्तिरिति चेत्, न । शब्दनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वस्य निवेशनात् । तथा च लक्षणम्— समवायसम्वन्धावच्छिन्नशव्दनिष्ठाधेयतानिरूपिताधिकर- णत्वम् इति । तथा च नातिव्याप्तिः । तथाहि
समवायसम्बन्धाव-
च्छिन्नशब्दनिष्ठाधेयता का ? इत्युक्तौ ‘शब्दवदाकाशम्’ इति प्रतीतिसिद्धा- धेयता । ‘भेर्यां शब्दो वर्तते इति प्रतीतिसिद्धाधेयता, न समवायसम्बन्धा- वच्छिन्ना । किन्तु स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना । स्वम् - शब्दः । स्वसमवायि आकाशम् । तत्संयोगो भेर्यां वर्तत इति शब्दविशिष्टा- काशसंयोगात् ‘भेर्यां शब्दः’ इति व्यवहारः, ‘जले गन्धः’ इत्यादिव्य- वहारवत् । अतस्तत्र विद्यमानाधेयता स्वसमवायिसंयुक्तत्वसम्बन्धावच्छिन्ना, न तु समवायसम्बन्धावच्छिन्ना । कुत इति चेत् ? गुणगुणिनोरेव समवायात् । शब्दस्य आकाशगुणत्वात् । अतः तादृशसमवायसम्बन्धावच्छिन्नशब्दनिष्ठा- धेयतानिरूपिताधिकरणत्वं तु आकाशे वर्तते, न तु भेरीरूपपृथिव्यामिति तत्र नातिव्याप्तिः । एवं काले कालिकसम्बन्धावच्छिन्नशब्दनिष्ठाधेयता- निरूपिताधिकरणत्वमेव, न तु समवायसम्बन्धावच्छिन्नशब्दनिष्ठाधेयता- निरूपिताधिकरणत्वमिति काले नातिव्याप्तिः ॥
नन्वेवं सत्यप्यस्य लक्षणस्य पुनर्जलादावतिव्याप्तिर्दुष्परिहरा । तथाहि शब्दः कश्चन गुणः । तथा च शब्दनिष्ठाधेयता गुणत्वावच्छिन्नाऽपि भवति । एतादृशगुणत्वावच्छिन्नशब्दनिष्ठाधेयता केति चेत् ? ‘गुणवत्’
[[60]]
आलोक- व्याख्या
इति प्रतीतिसिद्धा चतुर्विंशतिगुणसाधारणी एकैवाखण्डाधेयता । तादृशाधेयता यथा शब्दे वर्तते तथा स्पर्शादावपि वर्तते । अतः स्पर्शदिनिष्ठाधेयता- निरूपिताधिकरणत्वं जलादिष्वपि वर्तत इति तत्रातिव्याप्तिरिति चेत्, न । शब्दनिष्ठाधेयतायां शब्दत्वावच्छिन्नत्वस्य निवेशनात् । तथा च लक्षणम् समवायसम्बन्धावच्छिन्नशब्दत्वावच्छिन्नशब्दनिष्ठाधेयतानिरूपिता- धिकरणत्वम् । एवञ्च नातिव्याप्तिः । तथाहि समवायसम्बन्धावच्छिन्न- शब्दत्वावच्छिन्नशब्दनिष्ठाधेयता केति चेत्, तत्र आधेयताद्वयं वर्तते । एका गुणत्वावच्छिन्नशब्दनिष्ठा चतुर्विंशतिगुणसाधारणी ‘गुणवत्’ इति प्रतीतिसिद्धाधेयता । एवं शब्दत्वावच्छिन्नशब्दमात्रनिष्ठाधेयता ‘शब्दवत्’ इति प्रतीतिसिद्धाधेयता चापरा । लक्षणे तु ‘शब्दवत्’ इति प्रतीतिसिद्धा शब्दमात्रनिष्ठा शब्दत्वावच्छिन्नाधेयता निविष्टा । अतः तादृशसमवाय- सम्बन्धावच्छिन्नशब्दत्वावच्छिन्नशब्दनिष्ठाधेयता केति चेत् ‘शब्दवत्’ इति प्रतीतिसिद्धाधेयता, न तु ‘गुणवत्’ इति प्रतीतिसिद्धाधेयता । तादृशाधेयता- निरूपिताधिकरणत्वं तु आकाश एव वर्तते, नान्यत्र कुत्राऽपीति जले ना- तिव्याप्तिः । आकाशादेर्नित्यत्वादेकत्वाच्चात्र लक्षणे जातिघटितपरिष्कारा- वश्यकता नास्ति ॥
न चात्र मध्ये गुणपदं निवेश्य लक्षणं वक्तव्यम् । किन्तु शब्दनि- ष्ठाधेयतानिरूपिताधिकरणत्वमात्रोक्तौ पर्याप्तम् । आकाशे शब्द एक एव विशेषगुण इति द्योतनार्थम्, गुणपदस्य विशेषगुणपरत्वाभिप्रायेण उक्तत्वात् । तेन शब्दाश्रयतया आकाशसिद्धिरित्यादिकमन्यत्र द्रष्टव्यम् । अथवा ये मीमांसकाः शब्दस्य द्रव्यत्वमङ्गीकुर्वन्ति तन्मतनिराकरणार्थम् । शब्दो न द्रव्यं, किन्तु गुण एव इति ज्ञापनार्थं गुणपदम् । अतो लक्षणे गुणपदं नावश्यकम् ॥
कालः
[[61]]
अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ।
एकम् - एकत्वसङ्ख्याविशिष्टम् । अत एव विभु, जगति सर्वत्रापि शब्दोत्पत्तिदर्शनात्, अपरिच्छिन्नपरिमाणवत् । अत एव नित्यं च - मध्यमपरिमाणवत एव लोके नाशदर्शनात् । आकाशस्यैकत्वेऽपि घटाद्युपा- धिभेदादेव घटाकाशम्, मठाकाशम् इत्यादिभेदव्यवहारः । एवं कर्णविवरावच्छिन्नमाकाशं श्रोत्रेन्द्रियमित्युच्यते । तच शब्दग्राहकम् । एवं पञ्चेन्द्रियाणि पाञ्चभौतिकानि । ‘नीलं नभः’ इति प्रतीतिर्भ्रान्तिरेव समीपे पुरतस्तथादर्शनात् ॥
कालं लक्षयति– अतीतादीति । अतीतादीनां व्यवहारः अतीतादि- व्यवहारः । अतीतादिव्यवहारस्य हेतुः अतीतादिव्यवहारहेतुरित्युभयत्र षष्ठीतत्पुरुषसमासः । आदिपदेन भविष्यद्वर्तमानयोरपि ग्रहणं कर्तव्यम् । अतीतादीनामित्यत्र षष्ठ्या विषयत्वमर्थः । प्रकृत्यर्थस्यातीतादेः षष्ठ्यर्थविषयतायामाधेयतासम्बन्धेनान्वयः । तथा च अतीतादिनिष्ठविषयता इति बोधः । व्यवहारो नाम ज्ञानजनकशव्दप्रयोगः । षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकतासम्बन्धेन अथवा स्वनिरूपित- विषयितावत्त्वसम्बन्धेनान्वयः । तथा च अतीतादिनिष्ठविषयतानिरूपक- ज्ञानजनकशब्दप्रयोगः अथवा अतीतादिनिष्ठविषयतानिरूपित- विषयिताश्रयज्ञानजनकशब्दप्रयोग इति बोधः । अतीतादिव्यवहारस्य हेतुरित्यत्र षष्ठ्याः कार्यत्वमर्थः । प्रकृत्यर्थस्य ज्ञानजनकशब्दप्रयोगस्य षष्ठ्यर्थकार्यताया- माधेयतासम्बन्धेनान्वयः । तथा च अतीतादिनिष्ठविषयतानिरूपकज्ञानजनक- शब्दप्रयोगनिष्ठकार्यता इत्यासीत् । हेतुर्नाम कारणतावान् । षष्ठ्यर्थकार्यताया हेत्वर्थैकदेशे कारणतायां निरूपितत्वसम्बन्धेनान्वयः । तथा च— अतीतादिनिष्ठ- विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपित कारणतावानित्यासीत्।
तर्कस पहः
[[62]]
आहत्य चाखण्डबोधः ‘अतीतादिनिष्ठविषयता ( निरूपित- विषयिताश्रय) निरूपकज्ञानजनकशव्दप्रयोगनिष्ठकार्यतानिरूपित- कारणताश्रयः (कारणतावदभिन्नः) कालः’ इति । अतीतादिनिष्ठ- विषयतानिरूपक (विषयतानिरूपितविषयिताश्रय) ज्ञानजनकशब्द- प्रयोगनिष्ठकार्यतानिरूपितकारणत्वं कालस्य लक्षणम् ॥
अस्य लक्षणस्य ‘अतीतो घटः’ इत्यत्र समन्वयः । ‘अतीतः ’ इत्यत्र ‘व्यवहारे व्यवहर्तव्यस्य कारणत्वम्’ इति नियमानुरोधेन अतीतादिविषयकव्यवहारे ‘अतीतः’ इति अतीतत्वरूपकालज्ञानमावश्यकम्। अतस्तादृशातीतादिनिष्ठविषयतानिरूपकम् किं ज्ञानमिति चेत् ? ‘अतीत’ इत्याकारकज्ञानम् । तादृशज्ञानजनकशब्दप्रयोगनिष्ठकार्यता केति चेत् ? अतीतादिव्यवहारनिष्ठकार्यता । तादृशकार्यतानिरूपितकारणत्वं काले वर्तत इति लक्षणसमन्वयः ॥
नन्वेवं सत्यप्यस्य लक्षणस्येश्वरादावतिव्याप्तिर्दुष्परिहरा । तथा हि ‘कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वम्’ इति नियमानुसारेण अतीतादिनिष्ठविषयतानिरूपितज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपित-
कारणत्वमीश्वरादावप्यस्तीति ईश्वरादावतिव्याप्तिरिति चेत्, न । कार्यतानिरूपितकारणतायाम् ‘असाधारण’ दलस्य विशेषणात् । तथा च लक्षणम् - अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोग- निष्ठकार्यतानिरूपितासाधारणकारणत्वम्म् । एवञ्च नातिव्याप्तिः । तथाहि कारणं हि साधारणकारणम्, असाधारणकारणमिति द्विविधम् । कालेश्वरादृष्टादयः साधारणकारणानि । इतराणि दण्डचक्रसलिलादीनि घटादौ असाधारण- कारणानि । अतीतादिव्यवहारे अतीतादिविषयकातीतत्वरूपकालोऽ- साधारणकारणम् । ईश्वरादीनां तु तत्र साधारणकारणत्वेन असाधारणकारण- त्वाभावात् नेश्वरादावतिव्याप्तिः ॥
E
[[63]]
आलोक- व्याख्या
ननु कालादीनां कार्यसामान्यं प्रति साधारणकारणत्वं यदि, तर्हि अतीतादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपिता- साधारणकारणत्वं कथं कालस्य लक्षणमुच्यते, साधारणकारणस्या- साधारणकारणत्वस्य च विरुद्धत्वेनासम्भवप्रसङ्गादिति चेत्, न । काले साधारणकारणत्वं तु कार्यसामान्यापेक्षया, असाधारणकारणत्वं तु कालव्यवहारं प्रति कालज्ञानस्यावश्यकत्वात् विशेषापेक्षयेति विरोधाभावात् । यथा हि दण्डादिकं घटादिकं प्रति निमित्तकारणं सदपि स्वगतरूपं प्रति समवायि- कारणमपि भवति । निरूपकभेदेन तद्यथा न विरुद्धं तथैवात्राप्यदोषात् । कार्यत्वावच्छिन्नकार्यतानिरूपिताकारणता अन्या, अन्या च व्यवहारत्वा- वच्छिन्नकार्यतानिरूपिता कारणतेति ज्ञेयम् ॥
J
यद्यप्यत्र ‘अतीत’पदस्यातीतकालवृत्तिवस्तुपरत्वात् तादृशव्यवहार- कारणत्वं घटादेरपि वर्तत इति घटादावतिव्याप्तिः । न चातीतपदम् ‘कालोऽतीतः ’ इति व्यवहारात् कालबोधकमेवेति शक्यम्, कालस्य नित्यत्वेन तस्यातीतत्वाभावात्, तादृशव्यवहारस्य घटाद्यौपाधिकत्वात् । तथापि ‘अतीत’ पदस्यातीतत्वपरत्वात्, अतीतत्वादिनिष्ठविषयतानिरूपितविषयिताश्रय-
ज्ञानजनकशव्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणताश्रयत्वस्य
लक्षणत्वेनातिव्याप्त्यभावात् ॥
कालस्यैकत्वेऽपि उपाधिभेदादेवातीतवर्तमानभविष्यत्कालभेदः । ‘अस्ति’ इति व्यवहारप्रयोजकः कालो वर्तमानः । ‘बभूव’ इति व्यवहार- प्रयोजको भूतः । ‘भविष्यति’ इति व्यवहारप्रयोजको भावी । भूते भविष्यति च कालेऽद्यतनानद्यतनत्वादिकमौपाधिकभेदापेक्षम् । वर्तमानस्त्वेक एव । यद्यपि कालोऽतीन्द्रियः; तथाप्युपाधीनां सूर्योदयादीनां प्रत्यक्षत्वात् कालोऽपि प्रत्यक्ष इव भवति । अत एव ‘जन्यानां कालोपाधित्वम्’ इत्येव नियमः,
दिक्
[[64]]
प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ।
नित्यानां भूतभविष्यद्व्यवहारासम्भवात् । जन्यानां कालोपाधित्वादेव तेषां खण्डकालरूपत्वम्, उपाध्युपहितयोरभेदोपचारात्, ‘अशोककालः’ इत्यादि- व्यवहारः,‘अयो दहति’ इतिवत् । अयसः पार्थिवत्वात् स्वतो नहि दाहकत्वम्, किन्तु वह्निनोपहितस्य तप्तायस एव । एवञ्च खण्डकालत्वाज्जन्यानां क्वचित्कालः प्रत्यक्ष इव । अयं न्यायो दिश्यपि समानः । अत एव ‘मूर्तानां दिगुपाधित्वम्’ इत्यपि न्यायः ॥
अन दिशं लक्षयति - प्राच्यादीति । प्राच्यादीनां व्यवहार इति प्राच्यादिव्यवहारः । प्राच्यादिव्यवहारस्य हेतुः प्राच्यादिव्यवहारहेतुः । आदिपदेन प्रतीची- उदिची - अवाचीनां ग्रहणं कर्तव्यम् । ‘प्राच्यादीनाम् इत्यत्र षष्ठ्या विषयत्वर्थः । प्रकृत्यर्थस्याधेयत्वसम्बन्धेन षष्ठ्यर्थविषयतायामन्वयः । तथा च प्राच्यादिनिष्ठविषयतेति बोधः । ‘व्यवहारो’ नाम ज्ञानजनकशब्दप्रयोगः । षष्ठ्यर्थविषयताया व्यवहारपदार्थैकदेशे ज्ञाने निरूपकत्वसम्बन्धेनान्वयः । तथा च प्राच्यादिनिष्ठविषयतानिरूपकज्ञानजनकशब्दप्रयोगः इति खण्डबोधः । ‘व्यवहारस्य हेतुः’ इत्यत्र षष्ठ्याः कार्यत्वमर्थः । प्रकृत्यर्थस्य षष्ठ्यर्थकार्यता- यामाधेयतासम्बन्धेनान्वयः । तथा च ज्ञानजनकशब्दप्रयोगनिष्ठकार्यता इति बोधः । हेतुर्नाम कारणतावतीत्यर्थः । षष्ठ्यर्थकार्यताया निरूपितत्वसम्बन्धेन ‘कारणतावतीत्यत्रैकदेशे कारणतायामन्वयः । तथा च ज्ञानजनकशब्दप्रयोग- निष्ठकार्यतानिरूपितकारणतावती (कारणताश्रयः) इति बोधः । ‘प्राच्यादिनिष्ठ- विषयतानिरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणता- वदभिन्ना (कारणताश्रयः) दिक्’ इति अखण्डशाब्दबोधः । लक्षणं तु ‘प्राच्यादिनिष्ठविषयतानिरूपकज्ञानजनकशव्दप्रयोगनिष्ठकार्यता- निरूपितकारणत्वम्’ इति । अस्य लक्षणस्य ‘प्राच्यां घटः’ इत्यादौ
I
[[65]]
समन्वयः । प्राच्यां (घटः)’ इत्यस्मिन् व्यवहारे व्यवहर्तव्याया दिशः कारणत्वात् प्राच्यादिविषयकव्यवहारे प्राच्यादिरूपदिग्ज्ञानमावश्यकम्। तादृशप्राच्यादिनिष्ठविषयतानिरूपकं किं ज्ञानमिति चेत् ? ‘प्राची’ इत्याद्याकारकं ज्ञानम् । तज्जनकः ‘इयं प्राची’ ‘इयमवाची’ ‘इयं प्रतीची’ ‘इयमुदीची इत्याद्याकारकशब्दप्रयोगः । तादृशशब्दप्रयोगरूपव्यवहारनिष्ठकार्यता केति चेत् ? ‘इयं प्राची’ इत्याद्याकारकप्रतीतिसिद्धा व्यवहारनिष्ठकार्यता । तादृशकार्यतानिरूपितकारणत्वं दिशि वर्तत इति लक्षणसमन्वयः । ।
नन्वेवं सत्यपि लक्षणस्यास्येश्वरादावतिव्याप्तिर्दुर्वारा । तथाहि– कार्यसामान्यं प्रति कालेश्वरादृष्टादीनां कारणत्वात् प्राच्यादिनिष्ठविषयता- निरूपकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितसामान्यकारणत्वमीश्वरादाव- प्यस्तीति अतिव्याप्तिरिति चेत्, न । कार्यतानिरूपितकारणतायाम् ‘असाधारण’ पदस्य विशेषणात् । तथा च लक्षणम् - ‘प्राच्यादिनिष्ठविषयतानिरूपकज्ञान- जनकशब्दप्रयोगनिष्ठकार्यतानिरूपितासाधारणकारणत्वम्’ इति । तथा च नातिव्याप्तिः । तथाहि – दिशि निष्ठं कारणत्वं द्विविधं वर्तते । एकं कार्यसामान्यं प्रति कारणत्वम् । अन्यश्च विषयविधया विशेष (असाधारण) कारणत्वमपि । यद्यपि ईश्वरादीनां कार्यसामान्यं प्रति कारणत्वं वर्तते । किन्तु लक्षणेऽसाधारणकारणत्वस्य निवेशनात् प्राच्यादिव्यवहारं प्रति विषयविधया प्राच्यादिरूपदिश एवासाधारणकारणत्वात्, ईश्वरादीनां सामान्यकारणत्वात्, तत्रातिव्याप्तिः परिहृता भवति । साधारणासाधारण- कारणत्वयोरविरोधादिकं काललक्षणवदेव ज्ञेयम् ॥
[[7]]
सूर्योदयाचलसन्निहिता दिक् प्राची । अत्र ‘अचल’ पदं पुराणा- नुसारात् । वस्तुतस्तु सूर्योदयप्रदेशावच्छिन्ना दिक् प्राची । अस्तप्रदेशावच्छिन्ना दिक् प्रतीची । ‘सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः’ इति वचनात्
[[766]]
मेरुपर्वतदेशावच्छिन्ना दिगुदीची । वर्षः = देशः । भूम्या गोलरूपत्वात् । । । उपरि मध्ये वर्तमानो भागः सर्वेषां देशानामुत्तरभागः, तत्रैव मेरुरपि । मेरो र्व्यवहिता दिगवाची दक्षिणा । अत्रापि दिगुपाधीनां सूर्योदयादीनां प्रत्यक्षत्वात्, दिशोऽपि प्रत्यक्षत्वभ्रमः । अत एव नूतनदेशगमने दिग्भ्रमोऽपि कदाचित् भवति ॥ औपाधिकभेदविषयकविचारः काल इव दिश्यपि समानः । दिगुपाधिरेव देशः । अतश्च ‘प्रागादिदेशव्यवहारासाधारणकारणं दिक्’ इत्येव दिशो निष्कृष्टं लक्षणम् ॥
अत्रेदं तत्त्वम् - ‘कालेश्वरादृष्टादीनां कार्यसामान्यकारणत्वम्’ इत्यत्र ‘आदि’ पदेन किं ग्राह्यम् ? दिगेकैव । तथा च कालेश्वरादृष्टदिशश्चत्वारः पदार्थाः कार्यसामान्यकारणानि । ‘Space, (स्पैच्) Time’ (टाइम् ) सञ्ज्ञकौ दिक्कालावेव कार्यसामान्यकारणान्तर्गताविति सर्वविज्ञानिसम्मतम्, दैवज्ञसम्मतञ्च । ‘एतस्मिन् काले, एतस्मिन् देशे, एतस्य एतादृशं फलं भवतु’ इत्याकारकः सृष्ट्यधीशस्य सङ्कल्प एव कार्यसामान्यं प्रति कारणम् । ‘एतस्मिन् काले’ इति कालः ‘एतस्मिन् देशे’ इति दिक् च विवक्षिता । दिगुपाधिरेव ‘देशः ’ इत्युच्यते । ‘एतस्य’ इति चेतनविशेषवाची । तेन चादृष्टविशेषस्यापि कारणत्वं सिद्धम् । ‘सृष्ट्यधीशः’ इत्यनेनेश्वरः कथ्यते । ‘तेन विना तृणाग्रमपि न चलति’ इति न्यायः केनोपनिषत्प्रतिपाद्येन ‘ब्रह्म ह देवेभ्यो विजिग्ये ’ (केन. २-१-१) इत्याख्यानेन सिद्ध इति कालदिगीश्वरादृष्टानि सर्वकार्यकारणानि । अत एव ‘पृथिव्यप्तेजोवाय्वाकाशात्मकपञ्चभूतानि जीवानां भोगोपकरणभूतानि निर्दिष्टानि प्रथमम् । अनन्तरं कालदिशौ निर्दिष्टे । अनन्तरं भोक्ता आत्मा । अन्ते च ‘मन एव मनुष्याणां कारणं वन्धमोक्षयोः’ इत्युक्तं सर्वभोगापवर्गव्यवस्थापकं मनो निर्दिष्टमिति वैज्ञानिकोऽयं विभागः । अत एव दशमद्रव्यस्यापि न प्रसक्तिरिति ‘सप्तपदार्थाः’ इति पदार्थविभागः,67
‘नव द्रव्याणि’ इति द्रव्यविभागञ्चाविचाल्य एव । गुणक्रियादिविभागास्तु यथासम्भवं व्यवस्थाप्याः ॥
ट
नित्येन विभुनेश्वरेणैव तत्तदुपाध्यवच्छिन्नेन सर्वनिर्वाह आकाशकालदिशो मा सन्त्वित्यादिकं तु विनगमनाविरहात् ईश्वरनिराकरण एव पर्यवस्येत् । अतस्तत्तद्व्य-वहारस्यासाधारणत्वात्तत्कारणतया सिद्धधर्मिग्राहकप्रमाणसिद्धत्वेन दिक्कालयोर्नान्यथासिद्धिः । आकाशस्तु शब्दसमवायिकारणतया सिद्धः ॥
आत्मा
ज्ञानाधिकरणमात्मा ।
(सर्व-प्रस्तुताव् ईक्षताम्। )
[[70]]
स द्विविधः । जीवात्मा परमात्मा चेति । तत्रेश्वरस्सर्वज्ञः परमात्मा एक एव । जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च ।
आलोक-व्याख्या
(सर्व-प्रस्तुताव् ईक्षताम्। )
टिप्पणी
मनः
[[74]]
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ।
आलोक- व्याख्या - सर्वप्रस्तुताव् ईक्षताम्।
[[1]]
द्रव्य-सङ्ख्या-निश्चयः
ननु तमसोऽतिरिक्त-द्रव्यस्य सत्त्वात्
कथमेतावन्त्य् एव द्रव्याणि ।
‘नीलं तमः ’ ‘गतं तमः ’ ‘आगतं तमः’ इत्याद्यनुभवाद्धि तस्य गुणवत्त्वं क्रियावत्त्वं च दृष्टम् । गुणवत्त्वं क्रियावत्त्वं च हि द्रव्यसामान्यलक्षणम् । अतः कथं नवैव द्रव्याणीति चेत्; न । रूपवतः पार्थिवद्रव्यस्य स्पर्शवत्त्वनिय- मात् । प्रभायां व्यभिचारान्नायं नियम इति चेत्, पार्थिवस्येत्युक्तं नावहित- मायुष्मता । अपि च रूपवद्द्रव्यसाक्षात्कारं प्रत्यालोकस्य कारणत्वनियमात् तमसो रूपिद्रव्यत्वे आलोकमन्तरा कथं चाक्षुषत्वम् ? अपि च छायाया एव तमस्त्वं प्रत्यक्षसिद्धम् । रात्रिरपि भूमिच्छायैवेति तत्तत्त्वविदः । अतश्च तेजोऽभावतमसोस्समनियतत्वदर्शनात् अन्यतरेणैवोपपत्तेर्नातिरिक्तं तमः । न च तमोऽभाव एव तेजः किं न स्यादिति शङ्कयम्, उष्णस्पर्शस्या- भावपदार्थेऽसम्भवात् । नीलरूपं तु भ्रान्तिरेव ‘नीलं नभः’ इतिन्यायात् । क्रियाऽपि दीपगतैव । अतो नातिरिक्तं तमः । यच्च वेदान्तिभिस्तमसोऽति- रिक्तत्वसाधनम्, तत् त्रिगुणान्तर्गततमश्शब्दसमानत्वबुद्धिकृतम् । वस्तुतस्तु गुणान्तर्गतं तमोऽन्यशास्त्रविषयं अतीन्द्रियं च । ‘नीलं तमः’ इति प्रतीतिविषयस्त्वन्यदेव ॥