०२ मूलविभागः

द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः ।

विवक्षितः । बालानामित्यत्र षष्ठ्याः समवेतत्वम् अर्थः । तस्य चाश्रयतासम्बन्धेन सुखेऽन्वयः । बोधायेत्यत्र चतुर्थ्याः प्रयोजकत्वमर्थः । तस्याप्याश्रयतासम्बन्धेन

कृतावन्वयः ॥

‘तर्क्यन्ते = प्रतिपाद्यन्ते इति तर्कीः = द्रव्यादिपदार्थाः’ इति सम्प्रदायः । वस्तुतस्तु

तर्कः- तर्कशास्त्रम्, न्यायवैशेषिकशास्त्रयोः अनुगतं नाम । एतयोः समानतन्त्रत्वं सर्वसम्मतम् । न्यायशास्त्रं प्रमाणविचारप्रधानम् । वैशेषिकशास्त्रं च प्रमेयविचारप्रधानम् । उभयोः परस्परसापेक्षत्वं च स्पष्टम् । उभयमपि तर्कप्रधानम् । अतः तर्कसङ्ग्रहः- तर्कशास्त्रसङ्ग्रह इति स्वरसम् । ‘मया’ इत्यध्याहार्यं कर्तृवाचकं पदम् । अस्मच्छब्दस्य कर्ता अन्नम्भट्ट इत्यर्थः । तृतीयायाः समवेतत्वमर्थः । तस्य चाश्रयतासम्बन्धेन कृतावन्वयः । । तथा चाहत्य सम्पूर्णवाक्यबोध :- विश्वनाथनिष्ठविषयतानिरूपकहृदयाधिकरणकध्यानोत्तरकालिकी गुरुविषयकस्वावधिकोत्कृष्टत्वप्रकारकज्ञानप्रयोज्यवन्दनोत्तरकालिकी, वालसमवेतानायाससमानाधिकरणवोधप्रयोजिका, अन्नम्भट्टसमवेता या कृतिः, तद्विषयस्तर्कशास्त्रसङ्ग्रहो ग्रन्थ इति ॥

अथ यथाप्रतिज्ञं ग्रन्थमारभते – द्रव्येत्यादि । अत्र ‘पदार्थाः’ इत्यत्र पदानामर्थाः-पदार्था इति विग्रहः । लोके विद्यमानानां सर्वेषामपि पदार्थानाम् एषु सप्तस्वेवान्तर्भावः । पदानि किल द्रव्यवाचीनि गुणवाचीनि, कर्मवाचीनि, सामान्यवाचीनि इति चतुर्विधानीति महाभाष्यादिषु अभिहितम् । घटादिपदानि द्रव्यवाचीनि नीलादिपदानि गुणवाचीनि, पाचकादिपदानि क्रियावाचीनि, गवादिपदानि जातिवाचीनि । एवञ्च द्रव्यम् गुणः,

कर्म, सामान्यम् इत्यसङ्कीर्णप्रवृत्तिनिमित्तमूलकानि पदानि चतुर्विधानि ।‘आलोक’ व्याख्यासहितः

[[7]]

द्रव्यवाचिपदान्येव सञ्ज्ञापदानि, यदृच्छापदानि, केवलरूढपदानीति चोच्यन्ते । एवं पदानां चतुर्विधत्वात् पदार्था अपि चत्वारः प्रथमं सिद्धाः । एवमपि पदार्थानां भेदस्य अन्ते विशेषाधीनत्वात्, भेदसिद्ध्यर्थो विशेषः, भिन्नानां गुणगुण्यादीनां संवन्धरूपतया समवायश्चेति द्वौ शास्त्रव्यवहारसिद्धौ मिलित्वा पदार्थाः षट् सम्पन्नाः । अनन्तरं निषेधव्यवहारविषयतया अभावाख्यः सप्तमः पदार्थश्चेति पदार्थाः सप्त इति सिद्धम् । लोके पदार्थश्चेत् कश्चित् प्रामाणिकः, स एषु सप्तस्वन्तर्भवेत्, इति नियमार्थं ‘सप्त’ इति कीर्तनम् । तथा च ‘यत्र यत्र पदार्थत्वम्, तत्र द्रव्यादिसप्तान्यतमत्वम्’ इति व्याप्तिर्ज्ञेया ॥

[[1]]

यथाप्रतिज्ञं प्रमाणप्रमेयस्वरूपं प्रतिपादयितुमुपक्रममाणः प्रथमं प्रमेयपदवाच्यान् पदार्थान् विभजते–द्रव्येत्यादि । द्रव्यादिपदं च तत्तत्सञ्ज्ञापरम्। सप्तत्वं न सङ्ख्यारूपम्, सङ्ख्याया गुणत्वेन द्रव्यमात्रे तत्सम्भवात्; गुणकर्मादिष्वसम्भवात् । किन्तु बुद्धिविशेषविषयत्वरूपम् । एवमेव ‘चतुर्विंशतिर्गुणाः’ इत्यादौ । तथा च पदार्थाः- पदजन्योपस्थितिविषया अर्था द्रव्यगुणकर्मसामान्यविशेषसमवायाभावरूपसप्तसञ्ज्ञान्यतमसञ्ज्ञावन्त इति बोधः । तर्कशास्त्रं प्रविविक्षूणां लक्षणवाक्यव्यतिरिक्तवाक्यानां शाब्दबोधप्रदर्शने वृथायासः, अनतिप्रयोजनञ्चेत्यत्रैवोपरम्यते ॥

[[1]]

एवं पदानां चतुर्विधत्वात् पदार्था अपि द्रव्यगुणकर्मसामान्यानि चत्वारः । एवं भेदसाधकतया विशेषः, सम्बन्धरूपतया समवाय इति षडेव भावपदार्थाः । भावानां निषेधस्य चतुर्विधत्वात्, अभावश्चतुर्विधोऽपि अभावत्वेनैक एव । अत एव कुत्रचित् ‘पदार्थो द्विविधः भावोऽभावश्चेति । भावष्षड्विधः, अभावस्तु चतुर्विधः’ इत्येवमपि विभागो दृश्यते ।

[[8]]

आलोक- व्याख्या

आहत्य तु पदार्थास्सप्तैव, एतदतिरिक्तस्यासम्भवादेव । एतेष्वपि आद्यानि चत्वारि लोकव्यवहारसिद्धानि, एतेषां निषेधस्यापि लोकव्यवहार- सिद्धत्वादभावोऽपि लोकव्यवहारेणैव सिद्धः । विशेषसमवायौ तु शास्त्रव्यवहारसिद्धाविति ज्ञेयम् ॥

एवं पदार्थविभागस्य व्यवस्थितत्वादेव शक्तिसादृश्यादीनामतिरिक्त- पदार्थत्वाशङ्कनं समाधानञ्च वृथैव श्रमः । ‘निशितः खड्गश्छेदने शक्तः, अनिशितो न शक्तः’ इति खलु दृश्यते । तेन ज्ञायते कारणस्य सामीचीन्यमेव शक्तिपदस्यार्थ इति । एवं बद्धपादः पुरुषो गन्तुं न शक्नोति । किं तत्रातिरिक्ता शक्तिर्दृश्यते ? गमनप्रतिबन्धको बन्धः । प्रतिबन्धकेऽसति गच्छत्येव । किं बहुना ? अबद्धपादोऽपि उपविष्टः पुरुषो न गच्छति । तस्य किं गमने शक्तिरस्ति, उत न ? अबद्धपादो गमने शक्तोऽपि, यदि नेच्छति तदा शक्तस्सन्नपि न गच्छति । तथैव निशितोऽपि खड्गः पुरुषानधिष्ठितो न किञ्चिच्छिनत्ति । किं स खड्गश्छेदने शक्तः, उत न ? क्रियावेशाभावान्न छिनत्तीति चेत्, तर्हि शक्तिपदार्थः कः ? न हि शक्तिश्चक्षुषा दृश्यते । दण्डचक्रादिकं हि पुरुषाधिष्ठितं चेत् घटोत्पादने शक्तं भवति । अन्यदा तु न शक्तम् । दण्डः खलु पुरुषाधिष्ठितोऽपि कदाचित् घटं जनयति, कदाचित्तु घटं नाशयति च । किं दण्डो घटजनने शक्तः, उत घटनाशने ? परस्परविरुद्धा शक्तिः कथमेकत्र समवेयात् ? अतस्साधनानां समीचीनतैव शक्तिः । सैव स्वरूपयोग्यतेत्युच्यते । फलोपधानं तु तत्तत्पुरुषकालेश्वरादृष्टा- द्यधीनमिति शक्तिर्नातिरिक्तः पदार्थः ॥

T

ननु सादृश्यस्य का गतिरिति चेत्, सद्गतिरेव । तत्तु ‘इव’ इत्यव्ययद्योत्यम् । अत एव नातिरिक्तपदार्थः । किं तर्हि ? ‘सदृश’ इति पदमेव ज्ञापयति बुद्धिविशेषविषयत्वरूपं तदिति । द्वे वस्तुनी यन्मूलतया

[[9]]

तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ।

रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्व- गुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा-

श्चतुर्विंशतिर्गुणाः ।

आलोक व्याख्या

तोलयति जनः, तदेव किल सादृश्यम् । एवञ्च तद्द्द्रष्टृपुरुषबुद्ध्यपेक्षाधीनम्, न हि सर्वः सर्वं सदृशतया पश्यति । यां चन्द्रमुखीं पश्यति कश्चित्, तामेवान्यो वानरमुखीं पश्यतीति प्रसिद्धं किल लोके । अतस्सादृश्यम- पेक्षाबुद्धिविशेषविषयत्वरूपमेव । अतस्तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्वमित्यादिव्यर्थचर्चाया नावकाशः । एतदधिकं तु न न्यायशास्त्रस्य विषय इत्युपरन्तव्यम् ॥

विशिष्य चायं प्रकरणग्रन्थः, न वादग्रन्थः । अथापि निदर्शनार्थमयं विचारः प्रदर्शितः प्रमेयस्वरूपपरिशीलनेन । न्यायवैशेषिके किल तर्कपदवाच्ये । वैशेषिकं पदार्थनिरूपणप्रधानम् । न्यायस्तु प्रमाणनिरूपणप्रधानमिति, न साङ्कर्यं तयोः शास्त्रयोः ॥

प्रथमोद्दिष्टं द्रव्यं विभजते- तत्रेत्यादिना । पृथिव्यादिपञ्चभूतानि सम्प्रतिपन्नानि । एतानि शरीरेन्द्रियविषयभेदात् जीवोपकारकाणि । षष्ठ आत्मा । तेषामात्मोपकारकत्वं कालदेशाधीनमिति कार्यसामान्यकारणतया दिक्कालौ द्वौ । आत्मनां सुखदुःखादिव्यवस्थासिद्ध्यर्थं मन इति नवैव द्रव्याणि । सूर्येऽस्तङ्गते भूच्छायैव तम इत्यालोकाभाव एव तमः, नातिरिक्तं द्रव्यम् । अतो नवैव द्रव्याणि ॥

गुणान् विभजते - रूपेत्यादि । गुणः- गुणनम्, वर्धनम् अथवा पोषणम् । एकमेव द्रव्यं नील इति, महानिति, सुगन्धीति बहुधा व्यवह्रियते । अत एते गुणा इत्युच्यन्ते । अत एव सूत्रकारेण सप्तदशैवोक्ता अपि, औचित्यादितरे योजिता भाष्यकारेण । अस्तु सप्तदशैव, किं अधिकैरिति तु

[[10]]

उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ।

परमपरं चेति द्विविधं सामान्यम् ।

आलोक- व्याख्या

न मन्तव्यम् । प्रधानभूतः शब्दाख्यो गुणः सूत्रे न पठितः । अतस्सन्त्यन्येऽपि गुणा इत्येव सूत्रकाराशयः । परन्त्वत्र कति गुणा इति निष्कृष्य विचारो वा किमर्थमेतावन्त इत्याक्षेपो वा नाधिकोपयोगी । पदार्थविभागः परमत्यन्तं साधीयान् । एवं द्रव्यविभागोऽपि । इतरविभागस्त्वौचित्यात् । अत एवोत्तरत्र कर्मविभागे नैर्भर्याभावः प्रादर्शि ॥

I

कर्म विभजते - उत्क्षेपेत्यादि । कर्मणां पञ्चत्वे, आधिक्ये वा न नैर्भयम् । गमनवदेव आगमनादिक्रियाणां हसितताडनतर्जनादिबहुविधानां क्रियाणां वक्तव्यत्वप्रसङ्गात्। यथाकथञ्चिन्निर्वाहे–चलनात्मकं कर्मैकमेव । इतरत्सर्वं निदर्शनमात्रमित्यवगन्तव्यम् । एवमत्रासङ्कीर्णविभागे न तात्पर्यमित्येतत् सामान्यविभागे स्पष्टम् ॥

  • सामान्यं विभजते परमित्यादि । परत्वापरत्वे परस्परसापेक्षे, न नियते । पृथिवीत्वं हि घटत्वापेक्षया परम्, द्रव्यत्वापेक्षयाऽपरम् । अथाप्येवं विभागप्रदर्शनं – सामान्यं व्याप्यव्यापकभावापन्नमपि भवति, अनुगतप्रतीतेरपि व्याप्यव्यापकभावापन्नत्वात् । ‘प्राणी’ इत्यनुगता प्रतीतिः । गौः, अश्वः,

टिप्पणी

  • जातिवाधकसङ्ग्रहः

पृथिव्यप्तेजोवायुषु पृथिवीत्वम्, अप्त्वम्, तेजस्त्वम्, वायुत्वं च तत्तदसाधारणगुणकारणतावच्छेदकतया सिद्ध्यति । गन्धसमवायिकारणं पृथिवी इति सिद्धान्तः । एवञ्च पृथिवीनिष्ठा गन्धसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात्, या या कारणता, सा किञ्चिद्धर्मावच्छिन्ना, यथा दण्डनिष्ठा घटकारणता दण्डत्वावच्छिन्ना इति सामान्यमुखव्याप्त्या पृथिवीत्वादितत्तद्धर्माणां

[[11]]

आलोक- व्याख्या

मनुष्य इत्यननुगता । प्राणित्वं त्रयानुगतम् । गोत्वाश्वत्वादिकं त्वननुगतम् । सामान्ये विद्यमानं व्याप्यव्यापकभावं प्रदर्शयितुमेवोक्तं मूले परमपरं चेति । एतदपि ‘जातिसाङ्कर्यं न दोषः, प्राणित्वाश्वत्वयोरेकत्र मेलनात्’ इति वदतां वेदबाह्यानां बौद्धादीनामुत्तरदानाय । जातिसाङ्कर्यं तु प्रकृतिर्नानुमनुत इति विज्ञानिनः । अश्वगर्दभयोः साङ्कर्येण जाताश्वतरी न प्रसूत इति स्थितिः । एवमाम्रवृक्षादिष्वपि जातिद्वयसाङ्कर्यं नानुमनुत प्रकृतिरिति स्पष्टम् ।

टिप्पणी

सिद्धौ, सिद्ध्यतो धर्मस्य नित्यत्वे एकत्वे च लाघवम् इति लाघवतर्कवशात् पृथिवीत्वादीनां नित्यत्वम्, एकत्वं च सिद्ध्यति । ततश्च पृथिवीत्वादेः नित्यत्वे सति, एकत्वे सति, अनेकानुगतत्वरूपजातिलक्षणाक्रान्तत्वात् पृथिवीत्वादीनां जातित्वं सिद्ध्यति। एवमेव अप्त्व - तेजस्त्व- वायुत्वानामपि जातित्वसिद्धिर्ज्ञेया । परन्तु शब्दसमवायिकारणता- वच्छेदकतया सिद्धस्य आकाशत्वस्य जातित्वं नाङ्गीक्रियते । कुतः ? इति प्रश्ने, आकाशस्यैकत्वेन जातिलक्षणान्तर्गतानेकानुगतत्वरूपविशेषणाभावात् । अनेकानामनुगत- व्यवहारार्थं खलु जातिरङ्गीकृता, आकाशस्य एकत्वेन तादृशव्यवहाराभावात्, तन्न जातिरिति भावः, किन्तु शब्दसमवायिकारणत्वम् । अथवा अखण्डोपाधिः । तथा च एकव्यक्तिवृत्तिधर्मो न जातिरित्युक्तं भवति । तेन एकव्यक्तिवृत्तित्वम् आकाशत्वादीनां जातित्वे बाधकमिति सिद्धम् । एवं जातित्वबाधकानि कानि ? इति जिज्ञासायां न्यायाचार्यैरुदयनैः किरणावल्यां जातिबाधककारणानि सङ्गृहीतानि ।

व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसंवन्धो जातिवाधकसङ्ग्रहः । इति ॥

(१) व्यक्तेरभेदः (२) तुल्यत्वम् (३) सङ्करः (४) अनवस्थितिः ( ५ ) रूपहानिः (६) असम्बन्धः इत्येतानि जातिबाधकानि इति यथाश्रुतार्थः । जाति इति पदं जातित्व- जातिमत्त्वान्यतरपरं विषयानुरोधेन । आद्यत्रयं जातित्वबाधकम्, अनन्तत्रयं जातिमत्त्वबाधकम् इति विवेकः ।

[[12]]

आलोक- व्याख्या

अतच दोष एव साङ्कर्यं व्याप्यव्यापकभावानापन्नयोर्जात्योः । व्याप्यव्यापक- भावापन्नयोस्त्वेकत्र मेलनं न दोषाय, पृथिवीत्वघटत्वादिवदिति प्रदर्शनाय

टिप्पणी

तथा हि- (१) व्यक्तेरभेदः - स्वाश्रयव्यक्तेः अभेदः - एकत्वम्, स्वस्य जातित्वे बाधकम् । यथा-आकाशत्वम् । स्वम्— आकाशत्वम्, तस्य आश्रयः आकाशः । स चैक एव । अत आकाशत्वं न जातिः । एवमेव कालत्वम्, दिक्त्वं च न जातिः ॥ (२) तुल्यत्वम् समानव्यक्तिवृत्तित्वम्, समनियतत्वम् इत्यर्थः । यथा घटत्वं यदा जातिः, तदा कुम्भत्वम्, कलशत्वं वा जातिर्न वा इति प्रश्ने, यावत्सु घटत्वं वर्तते तावत्स्वपि कलशत्वं कुम्भत्वं च वर्तत एव । अतश्च समनियतानां भेदे प्रमाणाभावात् कलशत्वादिकं घटत्वापेक्षयातिरिक्ता जातिर्न भवति ॥

(३) सङ्करः- साङ्कर्यम् । परस्परासमानधिकरणयोरेकत्र समावेशः । यथा भूतत्वमूर्तत्वे । भूतत्वं हि पृथिव्यप्तेजोवायुषु वर्तते । मूर्तत्वञ्च पृथिव्यप्तेजोवायुमनस्सु वर्तते । मनसि भूतत्वं नास्ति, भूतत्वं हि बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् । मनसि न कोऽपि विशेषगुणोऽस्ति । आकाशे मूर्तत्वं नास्ति, मूर्तत्वं हि परिच्छिन्नपरिणामवत्त्वम् । तच्चापरिच्छिन्ने विभावाकाशे कथं स्यात् ? एवञ्च तावुभौ परस्परासमानाधिकरणधर्मौ । तौ च पृथिव्यादिचतुष्टये वर्तेते । अतस्तौ जाती न भवत इति प्राचीनाः ॥ नवीनास्तु साङ्कर्यस्य जातित्वबाधकत्वे प्रमाणाभावात् उभावपि जाती भवत एवेति वदन्ति ॥ वस्तुतस्तु —— वर्णाश्रमनाशनार्थमेव सदा यतमानानां नव्यबौद्धानामेवायं वादः । एकस्मिन्नेव वृक्षत्वशिंशपात्वयोः, तथा प्राणित्वगर्दभत्वादेश्च समावेशदर्शनात्, वर्णाश्रमसाङ्कर्यमपि न दोष इति मन्यन्ते ते । परन्तु वृक्षत्वशिशपात्वादीनां व्याप्यव्यापकभावापन्नत्वेन, द्रव्यत्वपृथिवीत्वघटत्वादीनामिवैकत्र समावेशो न दुष्यति । व्याप्यव्यापकभावानापन्नानां तु एकत्र समावेशे साङ्कर्यं दोष एव । यथा अश्वत्वगर्दभत्वयोः समावेशे, अव गर्दभाभ्यां जाते प्राणिनि का जातिः स्यादिति वक्तव्यम् । तस्य तु अश्वतरः, अश्वतरीत्येव व्यवहारः। तयोस्तु सन्ततिर्न भवतीति प्रसिद्धम् । स्वगर्भोऽश्वतरीमिव इति श्रीरामा-

[[13]]

‘परमपरं चेति द्विविधं सामान्यमित्युक्तम्, न त्वसङ्कीर्णविभाग- परमिदमित्यवगन्तव्यम् ।

टिप्पणी

थणम् । किं बहुना ! आम्रादिवृक्षसस्यादिजातयः साङ्कर्य नानुमन्यन्त इति नवीनाः सस्यविज्ञानिनोऽपि वदन्ति । एवमेव गर्दभयोन्यामश्वाज्जाता अश्वतरी यदि गर्भिणी भवति, तदा सा म्रियत एव न सूते । अतो जातिसाङ्कर्यं महान् दोष एवेति नवीनविज्ञानसिद्धमित्यवधार्यम् । भगवद्गीतायां प्रथमाध्याये सङ्करो नरकायैव इत्यादिना साङ्कर्यस्य महादोषत्वं विस्तरेण वर्णितम् । अतो नवीनानामदोषत्ववर्णनं परमसाहस- मेवेत्यलम् ।

T

(४) अनवस्थितिः- अनवस्थेत्यर्थः । गवि गोत्ववत्, गोत्वे गोत्वत्वं जातिरङ्गीक्रियते यदि, तर्हि गोत्वत्वेऽपि गोत्वत्वत्वं जातिः स्यात् । अतोऽप्रामाणिकानन्ता- तिरिक्तकल्पनापरम्परारूपानवस्थाप्रसङ्गात्, गोत्वत्वं न जातिः, किन्तु गवेतरासमवेतत्वे सति निखिलगोसमवेतत्वमेव । अननुगततद्व्यक्तित्वादावतिव्याप्तिवारणाय निखिलगोसमवेतत्वम् इति । प्राणित्वादावतिव्याप्तिवारणाय गवेतरासमवेतत्वमिति ॥. (५) रूपहानिः स्वरूपहानिः, विशेषत्वस्य जातित्वे बाधिका । विशेषा हि स्वतो व्यावृत्ताः, अन्यथाऽनवस्थापत्तिः । एवञ्च तत्र व्यावर्तकधर्मान्तरापेक्षा नास्त्येवेति विशेषत्वं न जातिः । किन्तु विशेष एव तत् अथवा अखण्ड़ोपाधिः । अत एव निर्विशेषो विशेषः इति गाथा प्रवृत्ता । न तावता निर्विशेषवस्तुसिद्धिः । प्रमेयत्वपदार्थत्वादिधर्माणामनिवारणात् ॥

(६) असंवन्धः - समवायाभावः । स च समवायत्वस्य जातित्वे बाधकः । समवायत्वस्य जातित्वे, तस्य समवायेन कः सम्बन्धः ? न तावत् संयोगः, संयोगस्य गुणत्वेन द्रव्यभिन्ने असम्भवात् । न चापि समवायः, तस्य स्वरूपत्वेनातिरिक्तत्वासम्भवात् । न च स्वरूपमेव, तस्य समवायरूपाधिकरणानतिरेकात् । किं तर्हि ? समवाय एव सः, नातिरिक्तः। तर्हि समवायत्वं समवायश्चेति पर्यायौ भवेताम् । तर्हि किं रूपं तदिति

[[14]]

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ।

विशेषं वर्णयति - नित्येत्यादि । नित्यद्रव्याणि पृथिव्यादिचतुष्टय- परमाणवः, आकाशकालदिगात्ममनांसि च । एतेषां परस्परं भेदो विशेषादेव सिद्ध्यतीति तन्निरूपणे वक्ष्यामः । परमाणूनां जीवात्मनां मनसां चानन्तत्वात् तद्वृत्तयो विशेषा अप्यनन्ता एव । यद्यपि पृथिवीव्यतिरिक्तजलादिपरमाणूनां रूपरसस्पर्शा नित्याः, एकत्वसङ्ख्यापि नित्या, सामान्यमपि नित्यम्, अथापि विशेषस्तु नित्यद्रव्यमात्रवृत्तिः, न गुणादिवृत्तिरित्येतत् विशेषनिरूपणे प्रदर्शयिष्यते * । ।

टिप्पणी

चेत्, नित्यसम्बन्धत्वमेव तत् । अतश्च सखण्डोपाधिविशेषः, तत्पदप्रवृत्तिनिमित्ततया सिद्धस्सः । अतः समवायत्वं न जातिः ॥

एवम् अभावत्वमपि समवायाभावात् न जातिरिति वदन्ति । किन्तु अभावो न पदार्थः, अपि तु वाक्यार्थः । न हि प्रतियोगिनमन्तरा अभावो व्यवहर्तुं शक्यः । अभावपदे श्रुते हि कस्य ? इति प्रश्नोऽनिवार्यः । घटस्य इत्युक्ते घटाभावः खलु सः । अतञ्च पदार्थद्वयरूपत्वात्, अर्थसमाजरूप एव सः, नीलघटादिवत् । अतोऽभावस्यैव तादृशत्वे अभावत्वमपि नाखण्डः पदार्थः कश्चित्, किन्तु अर्थसमाज एव ॥

  • ननु ‘नित्यद्रव्यवृत्तयः’ इत्यत्र द्रव्यपदं किमर्थं ? परमाणुवदेव नित्यगुणा अपि निरवयवाः किल! तर्हि नित्यानां परमाणुगतगुणानां कथं भेदसिद्धिरिति चेत्; विशेषवशात् परमाणूनां परस्परभेदसिद्धौ तत्तद्गतगुणानामाश्रयभेदादेव सिद्ध्यति । शुकनीलादिगुणा हि भिन्ना तथैव प्रत्यक्षसिद्धाः । भिन्नयोः शुकपटयोर्वर्तमानयोः शुकुरूपयोः तदाश्रयपटभेदादेव भेदः । निरवयवे द्रव्ये कारणाभावात् भेदः कथं सिद्धः ? इति प्रश्न इत्यतः विशेषाः नित्यद्रव्यवृत्तयः, न तु नित्यगुणादिवृत्तय इति

ज्ञेयम् ।

[[15]]

समवायस्त्वेक एव ।

अभावश्चतुर्विधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावो-

ऽन्योन्याभावश्चेति ।

समवायस्वरूपं वक्ति समवाय इति । अयुतसिद्धानां सम्बन्धस्समवायः। अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चायुतसिद्धाः परस्परं पृथक्कर्तुं न शक्यन्ते । अवयविनः पटात् यदि तन्तवः पृथक् क्रियेरन्, तर्हि पटो न शिष्येत । अतस्तन्तुपटौ अयुतसिद्धौ । एवमेव गुणिनो द्रव्यात् गुणा रूपादयो न पृथक्कर्तुं शक्याः । तावता न तयोरभेदः, ‘गुणः, गुणी’ इत्यादिभिन्नपदव्यवहारात् । उभयोरभेदे हि ‘गुणी’ इति मतुबर्थकप्रत्ययो न स्यात् । नह्यविद्यमानस्यार्थस्य कृते भगवान् पाणिनिः प्रत्ययं विदध्यात् । अतस्तयोर्भेद आवश्यकः । भेदे सति सम्बन्ध आवश्यकः, मतुप्प्रत्ययस्य सम्बन्धार्थकत्वात् । भिन्नयोर्हि सम्बन्धमन्तरा विशिष्टप्रतीतिर्न स्यात् । अतः पृथक् कर्तुमशक्यत्वेऽपि तयोस्सम्बन्ध आवश्यकः । स एव समवाय इत्युच्यते । स तु नित्यः, एकश्च । कुत एतदिति समवायनिरूपणे वक्ष्यते ॥

  • अभावं विभजते

अभाव इति । न भावः = अभाव इति विग्रहः । अभावः ‘नञ्’ पदजन्यप्रतीतिविषयः । ’ अस्ति’ इति प्रतीतेः यथा कश्चन विषय आवश्यकः, तथा ‘नास्ति’ इति प्रतीतेरपि कश्चन विषय

टिप्पणी

  • ननु पदानि चतुर्विधानि, अतः पदार्थोऽपि चतुर्विध एवेत्युक्तमुपक्रमे । नजा अभावो बोध्यते लोके । नञ् च न पदम्, किन्त्वव्ययम् । अव्ययानां सूचकत्वमेव, न वाचकत्वमित्यभिज्ञाः । ‘भूतले घटोऽस्ति किम्?’ इति प्रश्ने, ‘न’ इत्येव प्रत्युत्तरदानेऽपि, तस्य ‘भूतले घटो नास्ति’ इत्येवार्थः । अतः नञः केवलस्य अर्थधीजनकत्वं

[[16]]

आलोक व्याख्या

आवश्यकः । स एवाभाव इत्युच्यते । अभावव्यवहारस्य चतुर्धा दर्शनात् तदर्थभूतोऽभावोऽपि चतुर्विधः । ’ भूतले घटो न’ इत्येका प्रतीतिः, ‘घटः पटो न’ इत्यपरा । आद्यप्रतीत्या सिद्धोऽभावोऽत्यन्ताभाव इत्युच्यते । द्वितीयप्रतीत्या सिद्धस्तु अन्योन्याभाव इत्युच्यते । एवमेव घटोत्पत्तेः प्राक्

टिप्पणी

नास्तीत्येवाभिज्ञाः । अभावः न पदार्थः, किन्तु वाक्यार्थः, अर्थसमाजरूप एव । अत एव ‘द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां ’ (वै.सू.१-१-४) इत्येव निर्देशः कृतः । एषु च द्रव्यगुणकर्मसामान्यानि सर्वव्यवहारविषयाः, समवायविशेषौ तु शास्त्रीयव्यवहारविषयौ । ननु उपरि अभावनिरूपणदर्शनात् सोऽपि सम्मत इति कुतो न स्यादिति चेत्; वाक्यार्थत्वेनैव तस्य निरूपणात्। अभाव एव नास्तीति न ह्युच्यते, किन्तु स न पदार्थः, किन्तु वाक्यार्थ इत्येवोच्यते । अत एव समवायानन्तरं स न निरूपितः, मध्ये प्रसङ्गादेव ॥

अभावस्य चतुर्विधत्वेऽपि, नञः नियतः प्रयोगः अत्यन्ताभावे, अन्योन्याभाव एव । प्रागभावस्तु भविष्यतीति प्रतीतिसिद्धः, प्रध्वंसाभावस्तु नष्ट इति प्रतीतिसिद्धः । ‘पश्चाच्छब्दो नास्तिपर्यायः’ इति न्यायेन तयोः नास्तीति व्यवहारः अनन्तरकालिकः, आर्थिकः । अत एव प्रागभावप्रध्वंसाभावौ तत्तत्समवायकारणवर्तिनौ इत्यभिप्रयन्ति । केवलभूतलादौ ‘भविष्यति’ ‘नष्टः’ इति व्यवहारौ न भवतः । उपादानभूततन्तुकपालादेर्दर्शन एव तथा प्रतीतेरवकाशः । ‘चैत्रोऽत्रेदानीं भविष्यति’ इत्यादिव्यवहारस्तु तदागमनविषयकः न चैत्रविषयकः । अत एव प्रागभावानङ्गीकारे; पटादेरुत्पत्त्यनन्तरं सामग्र्याः तत्र सत्त्वात् उत्पन्नस्य पुनरुत्पत्तिप्रसङ्गः इति भिया प्रागभावसिद्धिरित्यपि न क्षोदक्षमम्, तत्र तत्पटप्रागभावनाशादिति यथोच्यते, तदपेक्षया, तत्र तदुपादानकारणस्याभावादित्येव समीचीनमुत्तरम् । सन्त्येव खलु तत्र तन्तव इति चेत्, तन्तवः पटाधिकरणत्वेन सन्ति,

I17

आलोक- व्याख्या

‘घटो नास्ति’ इति प्रतीत्या घटोत्पत्तेः पूर्वं प्रागभावसिद्धिः । एवं घटस्य नाशानन्तरमपि ‘घटो नास्ति इति प्रतीतेस्सत्त्वात् प्रध्वंसाभावः सिद्ध्यति । अतोऽभावश्चतुर्विधः ॥

टिप्पणी

न तु पृथक्। अतश्च तत्रस्थः पट एव पुनः स्वोत्पत्तौ प्रतिबन्धक इत्यपि सुवचम् । एवञ्च प्रागभावः पूर्वावस्थारूपः । प्रध्वंसाभावश्चोत्तरावस्थारूपः इति प्राचीनाः । अन्योन्याभावस्तु परस्परव्यावृत्तिरूपः । अत्यन्ताभाव एव लोके सर्वत्रेदानीमभावव्यवहारे वर्तते । अधिकं तु शास्त्रान्तरकथेत्यलं विस्तरेण ।

अभावाभावस्तु प्रथमाभावप्रतियोगिस्वरूपः । अतो घटाभावाभावः घट एव। एवं भेदाभावः भेदप्रतियोगितावच्छेदकरूपः । यथा गोभेदः गोभिन्ने महिषादौ वर्तते। गोभेदाभावश्च गोमात्रे वर्तते । अत एव सः गोत्वरूपः, गोत्वं हि गव्येव वर्तते। अतो गोभेदाभावः न गोत्वातिरिक्तः इत्याद्यपि ज्ञेयम् ।

अत एव ध्वंसप्रागभावाधिकरणे नात्यन्ताभाव इति प्राचां मतम् । तन्न तथा सति पञ्चरक्तस्थले (रक्तम्, श्यामम्, रक्तम्, श्यामम्, रक्तम् इत्येवं क्रमेण वचिद्धटे रूपपरावृत्तिः, तत्र) मध्ये रक्ततादशायां भाविरक्तप्रागभावस्य प्रथमरक्तध्वंसस्यापि सत्त्वात् रक्तं नास्तीति प्रतीत्यापत्तिः ध्वंसप्रागभावाधिकरणेऽत्यन्ताभावाङ्गीकारे तु, अत्यन्ताभावस्य सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वेन, मध्ये रक्ततादशायां प्रतियो- गिनः सत्त्वेन, एकघटसत्त्वेऽपि घटात्यन्ताभावप्रतीत्यसम्भववदुपपद्यते इत्यादिनवीनमतं न साधीयः । प्रागभावस्य ‘भविष्यति’ इति प्रतीतिमात्रविषयत्त्वात्, नास्तीति प्रतीत्यविष- यत्वात्। कथञ्चिदङ्गीकारेऽपि तस्य भाविरक्तमात्रविषयत्वेन निर्वाहसम्भवात् । प्रागभावस्या- नादित्वप्रवादोऽपि उपादानपरम्पराया आपरमाण्वनुवर्तमानतया सङ्गच्छते। एवं प्रध्वंसाभावेऽपि उक्तं सर्वं समानम् ॥

[[18]]

टिप्पणी

साधर्म्यवैधर्म्ये

“धर्मविशेषप्रसूतात् द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम्” इति महर्षिः कणादः । साधर्म्यज्ञानं भ्रमहेतुः । वैधर्म्यज्ञानं तन्निवृत्तिहेतुः । सर्वमिदं अन्ते आत्मस्वरूपस्य विविक्तस्य परिचये पर्यवस्यति । एतदभ्यासरूपमिदं साधर्म्यवैधर्म्यज्ञानमिति भावः । समानो धर्मः येषाम्, ते सधर्माणः। तेषां भावः साधर्म्यम् । साधारणो धर्म इत्यर्थः । एवं विरुद्धो धर्मो येषाम्, ते विधर्माणः । तेषां भावः वैधर्म्यम्, तत्रावर्तमानो धर्म इत्यर्थः । सप्तानामपि पदार्थानां ज्ञेयत्वम्, वाच्यत्वम्, पदार्थत्वमित्यादिकं साधर्म्यम् । ज्ञेयत्वं ज्ञानविषयत्वम् । एतच सर्वपदार्थसाधारणो धर्मः । येन केन प्रकारेण, यस्य कस्यचित् यदा कदाचित् ज्ञेयाः स्युरेव सर्वे पदार्थाः । अत एव ज्ञेयत्वं केवलान्वयि । एकदैव एकपुरुषीयज्ञानविषयत्वे सत्येव ज्ञानविषयत्वं स्यादिति न भ्रमितव्यम् । यदा कदाचित् यस्य कस्यचित् ज्ञानविषयताया अपि तथात्वात् । अथवा ईश्वरीयज्ञानविषयतामादायापि समन्वयात् । ईश्वरो हि सदा सर्वज्ञो वैदिकानाम् । तावता अस्मदीयज्ञानविषयताऽपि न वार्यते । ज्ञानपदं चात्र प्रमापरम्, गुणादिपदानां सद्गुणपरत्ववदौत्सर्गिकमिदम् । एवं वाच्यत्वमपि केवलान्वयि । एवं पदार्थत्वादिकमपि । वाच्यत्वम् अभिधेयत्वं च

समानम् ॥

[[1]]

द्रव्यादीनां षण्णां भावत्वं साधर्म्यम् । तच अभावविलक्षणत्वम् - अस्तीति प्रतीति विषयत्वम् । अभावो हि नास्तीतिप्रतीतिविषयः । समवाय एकार्थसमवायान्यतरसम्बन्धेन सत्तावत्त्वमिति केचित् । एकस्मिन् वस्तुनि उभयोरपि समवायेन सत्त्वमेव एकार्थसमवायः । द्रव्यगुणकर्मसु हि समवायसम्बन्धेन सत्ताजातिः वर्तते, तत्रैव च समवायसम्बन्धेन सामान्यं, विशेषः, समवायोऽपि वर्तते । यद्यपि समवायस्य स्वरूपं सम्बन्धः, अथापि समवायस्य स्वरूपं समवाय एव । अतो नानुपपत्तिः ॥

द्रव्यादीनां पञ्चानाम् अनेकत्वं समवायित्वं च साधर्म्यम् । षष्ठः

[[19]]

टिप्पणी

पदार्थस्समवायस्त्वेक एव । अतः पञ्चसु समन्वयः । यद्यपि अनेकत्वम् अभावेऽप्यस्ति, तथापि भावत्वे सतीति विशेषणान्न दोषः ॥

I

द्रव्यादीनां चतुर्णां समवेतसमवेतवृत्तिधर्मत्वम् । विशेषा हि नित्यद्रव्यमात्रवृत्तयः । गुणादयस्त्रयोऽनित्यद्रव्येष्वपि वर्तन्ते । द्रव्यत्वं स्वावयवकपालसमवेते घटादौ वर्तते । घटादौ द्रव्यत्वं वर्तते । अतो द्रव्यं समवेतसमवेतवृत्ति भवति । गुणत्वादिकं तु तादृशद्रव्यसमवेते गुणादौ वर्तन्त इति समन्वयः । ।

द्रव्यादीनां त्रयाणां सत्ताजातिमत्त्वं साधर्म्यं प्रसिद्धमेव । कार्यसामान्यं प्रति द्रव्यं समवायिकारणम् । गुणकर्मणी त्वसमवायिकारणे । तथा च कार्यसामान्यं प्रति द्रव्यादित्रितयमेव कारणं भवति । तादृशकारणत्वस्य त्रिष्वेव वर्तमानत्वात्, तदवच्छेदकतयानुगतायाः सत्ताजातेः सिद्धिः ॥

द्रव्यगुणयोः द्वयोः नित्यानित्यवृत्तिपदार्थविभाजकधर्मवत्त्वं साधर्म्यम् । कर्मत्वं त्वनित्यमात्रवृत्ति । सामान्यत्वादिकं तु नित्यमात्रवृत्ति । द्रव्यत्वगुणत्वे तु नित्येषु परमाण्वादिषु तद्गतगुणेष्वपि यथासङ्ख्यं वर्तते । तथैव अनित्येषु घटपटादिषु तद्गतगुणेष्वपि वर्तत एव । अभावत्वस्यापि अनित्यप्रागभावे, नित्येऽत्यन्ताभावे च सत्त्वादव्याप्तिवारणाय भावत्वे सतीत्यपि विशेष्यताम् ॥

I

[[1]]

एवम्, गुणादीनां निर्गुणत्वं निष्क्रियत्वं च साधर्म्यम् । गुणवत्त्वं क्रियावत्त्वं वा नवद्रव्याणां साधर्म्यं चेत्, तदेव इतरेषां वैधर्म्यं भवति । यदुक्तं यस्य साधर्म्यं वैधर्म्यमितरस्य तत् इति हि नियमः ॥

सामान्यादीनां जातिशून्यत्वं साधर्म्यम्, सत्ताजातेः, द्रव्यत्वगुणत्वकर्मत्वानां

च यथासङ्ख्यं त्रिष्वेव वर्तमानत्वात्, ॥

पारिमाण्डल्यभिन्नानां कारणत्वं साधर्म्यम् । पारिमाण्डल्यं परमाणु- परिमाणम्। तद्भिन्नानां सर्वेषां यत्र कुत्रचित् कारणत्वं वर्तत इति तत् तेषां साधर्म्यमित्यर्थः । परमाणुपरिमाणं हि न कुत्रापि कार्ये कारणमित्यर्थः । न चावयविपरिमाणं प्रत्यवयव-

[[20]]

टिप्पणी

परिमाणस्य कारणत्वनियमात् द्व्यणुकपरिमाणं प्रति परमाणुपरिमाणस्य कारणत्वेन, कथं कुत्रापि तत् न कारणमिति शङ्क्यम्, एवं सति परमाणुजन्यं द्व्यणुकम् अणुतरं भवेत् । यथा महत्कपालद्वयजन्यो घटो महत्तरो भवति, तथैव अणुजन्यः अणुतर एव भवेत् ।

लोके हि धनवान् कश्चित् दशसहस्ररूप्यकाधिपतिश्चेत्, धनवत्तरस्त- तोऽप्यधिकविंशतिसहस्राधिपतिर्भवेत् । धनवत्तमस्तु त्रिंशत्सहस्राधिपतिर्भवेत् । एवं दरिद्रः कश्चित् दशरूप्यकवान् यदि भवति, तदा दरिद्रतरः पञ्चरूप्यकवान् भवेत्, न तु विंशतिरूप्यकवान् । दरिद्रतमस्तु रूप्यकत्रयवान् एव भवेत् । अतः तरप्- तमप्प्रत्ययार्थः तत्तत्कक्ष्यानुरोधेनैव लोके व्यवह्रियते । एवमेव प्रकृते महत्परिमाणवान् कश्चित् घटश्चेत् ततोऽपि महत्तर - महत्तमपरिमाणवन्तोऽन्ये घटादयोऽधिकपरिमाणवन्त एव भवेयुः । अतश्च अण्वपेक्षया अणुतरस्तु न्यूनपरिमाणवानेव भवेत् । अणुतमस्तु ततोऽपि न्यूनपरिमाणवानेव । एतेन परमाणुगतमणुपरिमाणम् द्व्यणुकपरिमाणं प्रति न कारणम्, किन्तु तद्गतसङ्ख्यैव । एवं त्र्यणुकपरिमाणं प्रति द्व्यणुकायगता सङ्ख्यैव कारणम्, अत एव द्व्यणुकत्रयजन्यस्त्र्यणुको महान् भवति, त्र्यणुकस्य महत्परिमाण- वत्त्वात् प्रत्यक्षं प्रति महत्त्वस्य कारणत्त्वात् । अन्यथा द्व्यणुकमणुतरं त्र्यणुकं चाणुतमम् इत्येव वक्तव्यं भवेत् ।

न चाणुतर- अणुतमादिशब्दानां तथात्वेऽपि प्रत्यक्षदृष्ट्या अवयवगतपरिमाणमेव किल अवयविपरिमाणं प्रति कारणं दृश्यते इति शङ्क्यम्, वस्तुतत्त्वनिर्णयः खलु व्यवहाराधीनः । व्यवहारश्च शब्दाधीनः । शब्दानां शक्तिग्रहणं हि व्यवहारादेवेति शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च इत्यादौ निरूपितम् । पदार्थो नाम पदस्यार्थः, इदञ्च लोकव्यवहारसिद्धम् । लोकव्यवहारदृष्ट्या अणोरणुतरः पूर्वोक्तरीत्यैव वक्तव्यः । न्यायशास्त्रं हि लोकव्यवहारसिद्धपदार्थनिरूपणपरम् । अत एवेदमेव दर्शनं लोकायतपदवाच्यमासीत् पूर्वम् । चार्वाकमतं तु केवलनवीनपण्डित-

[[21]]

टिप्पणी

परिकल्पितम् । यतः—

अतिप्राचीने प्रसिद्धे चाणक्यविरचिते अर्थशास्त्रे सनत्कुमार- संहितायां च साङ्ख्यम्, योगः, लोकायतञ्च इत्यान्वीक्षिकी त्रिविधा इति दृश्यते । आन्वीक्षिकीति न्यायशास्त्रमिति न्यायभाष्ये अभिहितम् । प्रतीतिशरणाः नैयायिकाः, प्रयोगशरणाः वैयाकरणाः इति हि प्रसिद्धम् । ईश्वरानुमानादिकं तु वेदान्तिसुहृदां नैयायिकानामेव, न तु न्यायशास्त्रान्तर्गतम् । अत एव न्यायसूत्रभाष्ययोर्न कुत्रापि ईश्वरविषयको विचारो दृश्यते । ईश्वरविचारो वेदान्तशास्त्र एवेति तयोराशयः । अत एव च इन्द्रियार्थसन्निकर्षोत्पन्नम् इति प्रत्यक्षलक्षणविशेषणम् । न हि ईश्वरप्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यम्, तस्य नित्यत्वात् । अतो लोकायतपदं न्यायशास्त्रपरमेव ।

न तावन्मात्रम्, चार्वाकदर्शनं हि प्रत्यक्षैकप्रमाणवादीत्युच्यते । एवं सति किण्वादिभ्यो मदशक्तिवत् भूतानामेव चैतन्यं केन प्रमाणेन गृह्येत ? न हि चैतन्यमैन्द्रियकम् । नापि मानसम्,इन्द्रियाणां सर्वेषामपि अतीन्द्रियत्वेन तैः तेषामङ्गीकारासम्भवात् । अतश्चार्वाकदर्शनमिति सम्पूर्णमेकं दर्शनमेव वस्तुतो नास्त्येवेत्यादिकं तत्त्वमुक्ताकलापस्य सर्वाङ्कषाव्याख्यायां विस्तरेण निरूपितम् ॥

अतश्च अणुपरिमाणं न कुत्रापि कारणम् । एवञ्च पारिमाण्डल्यपदं द्व्यणुक- परिमाणस्याप्युपलक्षकम् । परमाणुपरिमाणं द्व्यणुकपरिमाणं च न कुत्रापि कारणमिति भावः । एवं पारिमाण्डल्यपदं परममहत्परिमाणस्य, अतीन्द्रियपदार्थवृत्तिसामान्यस्य, विशेषाख्यपदार्थस्य चोपलक्षकमिति विश्वनाथो न्यायपञ्चाननः । तेषामपि कुत्रापि कारणत्वाभावादित्यर्थः । आकाशादिगतं विभुपरिमाणं हि नान्यस्य परिमाणस्य जनकम्, विभुत्वापेक्षयाधिकपरिमाणस्याभावात्। एवम् ऐन्द्रियकस्थूलवस्तुगतं घटत्वादिरूपं सामान्यं तु तत्तत्प्रत्यक्षे निमित्तकारणं भवति, प्रत्यक्षं प्रति विषयस्य निमित्तकारणत्वात् । अतीन्द्रियपदार्थवृत्तिसामान्यस्य तु इन्द्रियजन्यज्ञानं प्रति न कारणत्वम्, तदविषयत्वात् । एवं नित्यद्रव्यवृत्तयो विशेषाख्याः पदार्था अपि न कुत्रापि कारणानि भवन्तीत्याशयः । तथा च परमाणुपरिमाण द्व्यणुकपरिमाण - विभुपरिमाण अतीन्द्रियसामान्य-विशेषभिन्नानां सर्वेषां कारणत्वं साधर्म्यमित्यर्थः ॥

[[22]]

टिप्पणी

ननु योगिनो हि तपःप्रभावविशेषादतीन्द्रियाण्यपि वस्तूनि साक्षात्कुर्वन्तीति प्रसिद्धम् । प्रत्यक्षे च विषयस्य कारणत्वं लोकसिद्धम् । एवञ्चातीन्द्रियं परमाणुपरिमाणम्, द्व्यणुकपरिमाणञ्च तद्विषयकयोगिप्रत्यक्षे कारणं भवत्येव । एवमतीन्द्रिय- सामान्यविषयकयोगिप्रत्यक्षे अतीन्द्रियसामान्यमपि कारणं भवेदेव । एवमेव विशेषविषयकयोगिप्रत्यक्षे विशेषाः कारणम् । तथा च सर्वेषामपि कुत्रचित् कारणत्वात्, प्रमेयत्वादिवत् कारणत्वमपि केवलान्वयिधर्मः । एवम् अणुत्वेन निखिलाणूनामुपस्थितौ अणुत्वाद्यतीन्द्रियसामान्यस्यापि कारणत्वमागतम् । एवम् एषः परमाणुः तत्परमाणुभिन्नः, एतद्विशेषात् इति परमाणूनां परस्परभेदसाधकानुमाने विशेषस्य लिङ्गविधया कारणत्वात्, विशेषाणामपि कारणत्वमनिवार्यम् । तथा च तद्भिन्नानां कारणत्वं साधर्म्यमित्ययुक्तम् कारणत्वस्य पूर्वोक्तरीत्या केवलान्वयिधर्मत्वात् इति चेत्, न, उक्तसर्वस्यापि प्राचीनमते एव स्वीकारात् । नवीनानां मते तु लिङ्गज्ञानमेवानुमितिकरणम्, न तु लिङ्गम् । सामान्यज्ञानमेव प्रत्यासत्तिः, न तु सामान्यम् इत्यङ्गीकारात् नानुपपत्तिः । एवम् अस्मदादि- प्रत्यक्ष एव विषयः कारणं, न तु योगिप्रत्यक्षे । अतीतानागतवस्तून्यपि योगिनः पश्यन्तीति कथनात्, अतीतानागतानां वस्तूनामिदानीमभावात् कथमेषां कारणत्वम् । ननु विषयाभावेऽपि कथं ते पश्यन्तीति चेत्, योगजन्यादृष्टविशेषवशादेवेति योगशास्त्रादवगम्यते । अतो नास्ति तेषां कारणत्वमिति, कारणत्वं न केवलान्वयिधर्म इति न कश्चन दोषः ।

ननु एवमपि महत्त्वं हि त्र्यणुकादारभ्य द्रव्यप्रत्यक्षे कारणं सम्मतम् । अतः आत्मविषयकमानसप्रत्यक्षे आत्मगतं परममहत्परिमाणं कारणं वाच्यम् । एवञ्च विभुपरिमाणस्य कुत्रापि न कारणत्वमिति कथमुच्यत इति चेत्; आत्मप्रत्यक्षस्य योगजधर्मप्रभावाधीनत्वेन अत्यन्तमलौकिकत्वात्, तत्र घटादिदृष्टान्तेन आत्मगतमहत्त्वस्य कारणत्वे, तेनैव न्यायेन आत्मप्रत्यक्षे आलोकोऽपि कारणं वक्तव्यं भवेत् इत्यलं शास्त्रान्तरविचारेण ॥ आकाशशरीरिणामव्याप्यवृत्तिक्षणिको विशेषगुण इष्यते इति कारिकावली । अव्याप्यवृत्तिविशेषगुणवत्त्वम्, क्षणिकविशेषगुणवत्त्वं च आकाशात्मनोः साधर्म्यम्

A23

टिप्पणी

इत्यर्थः । आकाशे विशेषगुणः शब्द एक एव । आत्मनां विशेषगुणाञ्च बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नादृष्टभावनाख्यसंस्काराः । शब्दश्च आकाशे अव्याप्यवृत्तिः । अव्याप्यवृत्तित्वं नाम स्वात्यन्ताभावसमानाधिकरणत्वम् । स्वं शब्दः । तदत्यन्ताभावः शब्दात्यन्ताभावः । विभावाकाशे शब्दः एकदेशावच्छेदेनैव जायते, न तु सर्वत्र । तथैवानुभवात् । अतश्च शब्दः स्वात्यन्ताभावाधिकरण एव वर्तते । अतः शब्दः स्वात्यन्ताभावसमानाधिकरणः। एवमात्मनि विभौ विशेषगुणा बुद्ध्यादयः शरीरावच्छेदेनैव जायन्ते, तथैवानुभवात् । अतोऽव्याप्यवृत्तिविशेषगुणवत्त्वमुभयोस्समानम् ॥

एवं क्षणिकविशेषगुणवत्त्वं च तयोस्समानम् । क्षणिकत्वं च न बौद्धादिवत् एकक्षणमात्रवृत्तित्वम्, क्षणिकवादस्य निराकृतत्वात् । किन्तु द्विक्षणवृत्तित्वम् । शब्दो हि आकाशे जातो विशेषगुणो वीचीतरङ्गन्यायेन (तरङ्गात्तरङ्गोत्पत्तिवत् ) श्रोत्रदेशं प्राप्तः श्रोत्रेन्द्रियेण गृह्यते । अतः उत्पन्नः शब्दः शब्दान्तरमुत्पाद्य स्वयं नश्यति, शब्द द्वयाश्रवणात् । अतश्शब्दस्य द्विक्षणवृत्तित्वमावश्यकम् । प्रथमक्षणे उत्पन्नः, द्वितीयक्षणे शब्दान्तरमुत्पाद्य नश्यति । अतः सिद्धान्ते क्षणिकत्वं द्विक्षणवृत्तित्वमेव, नैकक्षणवृत्तित्वम् । एवञ्च क्षणिकविशेषगुणवत्त्वम् आकाशस्य सिद्धम् । एवमात्मनि जाता बुद्ध्यादयोऽपेक्षाबुद्धिव्यतिरिक्ता विशेषगुणा द्विक्षणमात्रावस्थायिन एव । प्रतिक्षणमिन्द्रियविषयसंयोगस्य नानाविधेषु जायमानत्वात् ज्ञानान्यपि अनेकविषयाणि जायन्ते । तानि सर्वाण्यपि न स्थिराणि, अननुभवात् । युगपज्ज्ञानद्वयोत्पत्तेरसम्भवात् । अतो ज्ञानान्यपि द्विक्षणमात्रावस्थायीनि । धारावाहिकज्ञानानां किञ्चित् कालानुवृत्तिश्च, ज्ञानात् ज्ञानान्तरोत्पत्यैव समर्थनीया । अतञ्च क्षणिकविशेषगुणवत्त्वमात्मनां सिद्धम् । सङ्ख्यादिसामान्यगुणानाम् आत्मसु आकाशे च नित्यत्वात्, विशेषगुणेत्यभिहितम् । आत्मगुणबुद्धिप्रभेदरूपाया अपेक्षाबुद्धेस्तु त्रिक्षणवृत्तित्वमावश्यकम्। द्वित्वादयः किल सङ्ख्या अपेक्षा बुद्धिजाः । अयमेकः, अयमेकः इति गणनरूपा बुद्धिरेव, तत्तत्पुरुषापेक्षया तत्तद्वस्त्वपेक्षयैव च जायमानत्वात्, अपेक्षाबुद्धिरित्युच्यते । तया तत्तद्वस्तुद्वये द्वित्वो- त्पत्तिः। ततो द्वित्वत्वनिर्विकल्पकम् । ततो द्वित्वसविकल्पकम् इति तृतीयक्षण एव

[[24]]

टिप्पणी

द्वित्वानुभवात्, तावत्पर्यन्तमपेक्षाबुद्धिः वर्तत एव । अपेक्षाबुद्धिनाशे च द्वित्वादिकमपि नश्यति । अतस्तद्भिन्ना बुद्धय एव द्विक्षणावस्थायिन्यः, अपेक्षाबुद्धेः त्रिक्षणावस्थायित्वेऽपि इतरबुद्धेः द्विक्षणमात्रस्थायित्वात् । एवं सुखादीनामात्मविशेषगुणानाम्, आकाशविशेषगुणस्य शब्दस्य च द्विक्षणवृत्तित्वरूपं क्षणिकत्वं साधारणम् । अतश्च क्षणिकविशेषगुणवत्त्वम्, अव्याप्यवृत्तिविशेषगुणवत्त्वं च आकाशात्मनोः साधर्म्यम् । सङ्ख्यापरिमाणादिसामान्य- गुणानां नित्यद्रव्यवृत्तीनां नित्यत्वात्, विशेषपदं गुणविशेषणम् ॥

समवायिकारणत्वं नवानां द्रव्याणां साधर्म्यम् । कालदिशोः विद्यमानसङ्ख्या- दिगुणानां नित्यत्वेन तन्निरूपितसमवायिकारणत्वस्य कालादिष्वसम्भवेऽपि, विभुद्वयसंयोगाभावेऽपि घटादिमूर्तद्रव्याणां तैः साकं संयोगस्योभयवृत्तित्वेन घटादिनाशे तादृशसंयोगस्यापि नाशात् तस्यानित्यत्वेन तन्निरूपितं समवायिकारणत्वम् अक्षतमेव ॥

विभुद्वयसंयोगाभावे मानाभावात्, विभुद्वयसंयोगे विरोधो नास्तीति नव्याः । अप्राप्तयोस्तु या प्राप्तिः सैव संयोग ईरितः इति संयोगस्य विभागपूर्वकत्वनियमात्, विभुद्वयस्य विभागासम्भवात्, तयोः संयोगोऽपि न सम्भवत्येव । संयोगस्य नित्यत्वे समवायोऽन्यथासिद्धो भवेत् । न च द्रव्ययोरेव संयोगात्, गुणगुणिनोरतथात्वेन न संयोगस्तयोः सम्बन्धो भवितुमर्हतीति वाच्यम्, संयोगस्य नित्यत्वेनैव सिद्धौ समवायस्यातिरिक्तकल्पने गौरवात्, द्रव्ययोरेव संयोगः इति नियमस्याप्यनावश्यकत्वात्। एवं धर्मिकल्पनातो वरं धर्मकल्पना इति न्यायेन समवायासिद्धौ क्रमेण भिक्षुपादप्रसरणन्यायेनेदं शास्त्रमेव न शिष्येत । तत्तत्पण्डितैः स्वेच्छया तत्तत्पदार्थकल्पने, अन्ते बौद्धन्यायस्यापि प्रामाण्यापत्त्या, व्यासयाज्ञवल्क्यादिसम्मतं न्यायविस्तरशास्त्रं लुप्येत । इष्टापत्तौ, वैदिकत्वमेव न स्यात् । तत्रापि इष्टापत्तौ नास्तिक्यमपि दुर्निवारं स्यात् । तथा च उच्छृङ्खलानां नवीनानां वचनानि नोपादेयान्येव ॥

वस्तुतस्तु सुसूक्ष्मपरिशीलने प्राचीनानां प्रक्रियैव साधीयसी, क्षेमकरी च

[[25]]

टिप्पणी

जीवानामित्यादिकमन्यत्र विस्तरेण द्रष्टव्यम् । अत एव न्यायवैशेषिकयोः समानतन्त्रत्वेऽपि नैकशास्त्र्यं प्रामाणिकम् । अत एव षोडशपदार्थानां सप्तस्वेव अन्तर्भाव इत्यादिकमपि अप्रामाणिकमेव । सप्तानां पदार्थत्वेऽपि षोडशानां पदार्थत्वाभावात्, न्यायसूत्रे तेषां तत्त्वपदेनैव निर्देशात् ॥

एवञ्च समवायिकारणत्वं नवद्रव्याणां समानम् । एवमेव गुणकर्मणोः असमवायिकारणत्वमेव साधर्म्यम् । न च केषाञ्चित् गुणानां कुत्रचित् असमवायिकारणत्वेऽपि . आत्मविशेषगुणादीनां कुत्रापि असमवायिकारणत्वाभावात् कथं गुणकर्मणोः असमवायि कारणत्वं सम्भवतीति वाच्यम्, असमवायिकारणं चेत् गुणविशेषरूपमेव भवेत् इत्येव व्याप्तेरभिमतत्वेन, गुणकर्मभिन्नानाम् असमवायिकारणत्वं वैधर्म्यमित्यत्रैव तात्पर्यात् अथवा जातिघटिततया लक्षणकरणेन न दोषः ॥

नित्यद्रव्यातिरिक्तानाम् आश्रितत्वं साधर्म्यम् । ननु किं नाम आश्रितत्वम् ? न तावत् साधारत्वम्, नित्यानामपि कालदिगाधारवत्त्वेन तथात्वात् । तथाहि- सर्वाधारः कालः इति हि प्रसिद्धं किल । अत्र काल इति दिशोऽप्युपलक्षकम् । एवमेव कालेश्वरादृष्टादीनां साधारणकारणत्वम् इत्यत्र हि आदिपदेन दिशो ग्रहणमिति मर्मज्ञा एव जानन्ति । नित्यानां कालानधीनत्वेऽपि कालसम्बन्धित्वरूपं सत्त्वं तु वर्तत एव । सदातनत्वं हि नित्यत्वम् । सदा इति काल एव ह्युच्यते । यथा अनित्याः पदार्थाः तत्तद्देशकालसम्बन्धिनः, तथैव नित्या अपि सर्वदेशकालसम्बन्धिनः । अत एव ब्रह्मणोऽपि नित्यं विभुम् इति निर्देशोपपत्तिः । नित्यमिति सर्वकालसम्बन्धः, विभुमिति सर्वदेशसम्बन्धः। अन्यथा ब्रह्म शशशृङ्गवत् तुच्छं भवेत् ॥

अत आश्रितत्वं न सम्बन्धित्वमात्रम्, किन्तु आधाराधीनत्वरूपम् । तादृशाधाराधीनत्वरूपाश्रितत्वं तु गुणादीनां सर्वेषां समानम्, ते हि द्रव्यमाश्रिताः । अनित्यद्रव्याण्यपि स्वावयवमाश्रितानि । यथा— घटः कपालाश्रितः । पटस्तन्त्वाश्रितः ॥

ननु घटादयो हि भूतलमाश्रिता इति चेत्, न, नियताश्रितत्वस्यात्र विवक्षितत्वात् ।

[[26]]

टिप्पणी

घटादीनां भूतलाश्रितत्वं तु देशकृतं न नियतम् । कदाचित् अत्र, कदाचित् तत्रेति अव्यवस्थितत्वात् । अतो न मुख्यमाश्रितत्वमिदम् । अनित्यद्रव्याणि हि स्वावयवेषु यावन्नाशं वर्तन्ते । अत एते वृत्तिमत्पदार्थाः । नित्यद्रव्याणां तु अवयवाभावात् तत्रावर्तमानत्वात्, नैते वृत्तिमत्पदार्थाः । ननु सन्तु गगनादयोऽवृत्तिपदार्थाः, तथैव प्रसिद्धाः। परमाणवस्तु आकाशे खलु वर्तेरन् । अतस्ते कथमवृत्तिपदार्था इति चेत् न, घटादीनां यथा भूतलादयो न मुख्याधाराः, किन्तु स्वावयवा एवेति यथोक्तम्, तथैव परमाणवोऽतिलघुद्रव्याणि आकाशे प्लवन्ते, न वर्तन्ते । अतः परमाणवोऽपि गगनादिवदेवावृत्तिपदार्था एव, निरवयत्वात् । अतश्च नित्यद्रव्याण्यनाश्रितानि, तद्व्यतिरिक्तानि च द्रव्याश्रितानि । गुणकर्मादीनां सर्वेषां मुख्यमाश्रयो द्रव्यमेव । अतः सुष्ठुक्तम् - अन्यत्र नित्यद्रव्येभ्यो ह्याश्रितत्वं साधर्म्यम् इति ॥

पृथिव्यादीनां नवानां द्रव्यत्वम्, गुणक्रियादिमत्त्वञ्च साधर्म्यम् । पृथिव्यप्ते- जोवायुमनसां मूर्तत्वं, परत्वापरत्ववेगवत्त्वं क्रियावत्त्वं च साधर्म्यम् । मूर्तत्वं नाम परिच्छिन्नपरिमाणवत्त्वम् ॥ पृथिव्यप्तेजोवाय्वाकाशानां भूतत्वं साधर्म्यम् । तच्च बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् । आत्मनो मनोग्राह्यसुखादिविशेषगुणवत्त्वात् बहिरितीन्द्रियविशेषणम् । सङ्ख्यादिसामान्यगुणानां नवद्रव्यसाधारणत्वात् विशेषगुणपदम्॥ कालदिगाकाशात्मनां विभुत्वम्, सर्वगतत्वं च साधर्म्यम् ॥ पृथिव्यप्तेजोवायूनां चतुर्णां स्पर्शवत्त्वं द्रव्यारम्भकत्वं च साधर्म्यम् । तेष्वेवावयवावयविभावस्य सत्त्वात्, अवयवानामवयव्यारम्भकत्वात् । पृथिव्यप्तेजसां रूपवत्त्वं, द्रवत्त्ववत्त्वं, चाक्षुषत्वं च साधर्म्यम् । पृथिवीजलयोः रसवत्त्वं, गुरुत्ववत्त्वं च साधर्म्य स्पष्टम् ॥ पृथिवीतेजसोः नैमित्तिकद्रवत्ववत्त्वं साधर्म्यम् ॥

एवं साधर्म्यवैधर्म्यज्ञानात् पदार्थानामसङ्कीर्णं ज्ञानं सुसम्पदं भवति । तेन चान्ते आत्मानात्मचिन्तायामात्मनोऽसङ्कीर्णस्वरूपज्ञानात् मुक्तिरपि क्रमेण भवेदित्याशयः ॥ इति साधर्म्य वैधर्म्यप्रकरणम् ॥27