०१ मङ्गलवादः

॥ श्रीः

श्रीमदन्नम्भट्टविरचितः
नव्यमङ्गलाभिजन-वरदाचार्य - विरचिताभ्यां ‘आलोक’ व्याख्या-टिप्पणीभ्यां संवलितः

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥

श्रीहयास्यं हृदि ध्यात्वा गुरूणां चरणौ तथा ।

आलोकेन व बालेभ्यो योज्यते तर्कसङ्ग्रहः ॥

तु

चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्टदेवतानमस्कारादिगर्भं * मङ्गलमाचरति–निधायेत्यादि । विश्वेशः = काशीक्षेत्राधिनाथो विश्वनाथः ।

टिप्पणी

  • मङ्गलवादः – मणिग्रन्थादारभ्य मुक्तावलीपर्यन्तेषु प्रायस्सर्वेषु ग्रन्थारम्भे मङ्गलस्य अवश्यकर्तव्यता तस्य समाप्तिं प्रति कारणत्वविचारश्च विस्तरेण दृश्यते । मङ्गलसमाप्त्योः कार्यकारणभावश्च अन्वयव्यतिरेकसहचाराभ्यां समर्थ्यते । यत्सत्त्वे यत्सत्त्वं अन्वयसहचारः, यदभावे यदभावः व्यतिरेकसहचारः । आभ्यां कार्यकारणभावः सिद्ध्यति। यथा मृद्दण्डादिसत्त्वे घटो भवति, मृद्दण्डाभावे घटो न भवेदिति दृष्टान्तः । प्रकृते मङ्गलसत्त्वे समाप्तिसत्त्वं, मङ्गलाभावे समाप्त्यभावश्च बहुलं दर्शनात् तयोः कार्यकारणभावः सिद्ध्यतीति वक्तव्यम् । परन्तु बाणभट्टविरचितायां कादम्बर्यां मङ्गलं

[[3]]

[[2]]

देवं विश्वनाथं हृदि निधाय = ध्यात्वेत्यर्थः । ‘निधानं = निक्षेप’ इत्यर्थमादाय, हृदये विश्वनाथस्य निधानासम्भवात् निधानं नाम वृत्तित्वप्रकारकाहार्यज्ञानमिति केचन वदन्ति । आहार्यज्ञानं नाम बलात्कारेण सम्पाद्यमानं ज्ञानम्, आरोपात्मकम् । बहिर्देवालये विद्यमानाया विश्वनाथाचमूर्तेः हृदये निधानासम्भवाभिप्रायेण तथाभिप्रयन्ति ते । अर्चामूर्तिर्नाम बाह्यपूजाया आलम्बनीभूता स्थूला मूर्तिः । परन्त्वस्य अतिस्थूलदृष्टित्वात्, निधाय = ध्यात्वा इत्येव वरम् । हृदयम् - चित्तं, मनो वा । परमात्मनो ध्यानस्य हृदयमुत्तमं स्थानमिति ध्यानरहस्यविदः । अतः ‘विश्वनाथं हृदि ध्यात्वा’ इत्येव स्वरसम् ॥

टिप्पणी

दृश्यते, समाप्तिस्तु न दृश्यते इत्यन्वयव्यभिचारः। प्राचीनन्यायसूत्रभाष्यादिग्रन्थेषु बहुषु मङ्गलाभावेऽपि समाप्तेर्दर्शनात् व्यतिरेकव्यभिचारश्च स्पष्टः । एवं द्विविधव्यभिचारसत्त्वे कथं तयोः कार्यकारणभावः, कथं वास्तिकैर्मङ्गलाचरणम् ? इति पूर्वपक्ष्याशयः॥

कारणाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगित्वं कार्यस्य अथवा स्वाधिकरण- वृत्त्यत्यन्ताभावाप्रतियोगिकार्यकत्वं कारणस्य अन्वयसहचारस्य लक्षणम् । स्वं कारणं दण्डचक्रकुलालादि, तदधिकरणं देशः । तत्र वर्तते यः अभावः इति चेत्, घटाभावः न भवति, तत्र घटस्य जननात् । अतः पटाद्यभाव एव ग्राह्यः । तत् प्रतियोगी पटः, घटोऽप्रतियोगी भवतीति तादृशकार्यकत्वम् अन्वयसहचारः । अत एव स्वाधिकरणवृत्त्यत्यन्ताभावप्रतियोगिकार्यकत्वम् अन्वयव्यभिचारः । एवम् कार्याधिकरणवृत्त्यत्यन्ताभावप्रतियोगित्वं कारणस्य व्यतिरेकव्यभिचारः । यथा घटाधिकरणदेशे नियमेन दण्डादेरावश्यकत्वात्, तत्र वर्तमानोऽभावो रासभादेरेव भवति । तत्प्रतियोगि रासभादि । अप्रतियोगित्वं दण्डादेर्भवतीति दण्डादेर्घटकारणत्वं, रासभादेस्तदकारणत्वं च सिद्ध्यति ॥

प्रकृते मङ्गलसमाप्त्योः कार्यकारणभावे वक्तव्ये, कादम्बर्यादौ मङ्गलसत्वेऽपि समाप्तेरदर्शनात् अन्वयव्यभिचारः । स्वं मङ्गलं तदधिकरणं कादम्बरी । तत्र वर्तते समाप्त्यभावः । तत् प्रतियोगि समाप्तिरूपं कार्यम् । तद्विशिष्टत्वरूपं तत्कत्वं मङ्गले

[[3]]

विश्वेशमित्यत्र द्वितीयाया विषयत्वमर्थः । प्रकृत्यर्थस्याधेयता - (वृत्तिता) सम्बन्धेनान्वयः । विषयताया निरूपकतासम्बन्धेन ‘ल्यप्’ प्रत्ययस्य प्रकृतिभूतधाधा- त्वर्थध्यानेऽन्वयः । निधायेति ल्यप् प्रत्ययस्य उत्तरकालिकत्वमर्थः। तस्य चाश्रयतासम्बन्धेन कृधात्वर्थकृतावन्वयः । हृदि इत्यत्र सप्तम्या अधिकरणत्वमर्थः । तस्य च निरूपकतासम्बन्धेन ध्यानेऽन्वयः । तथा च विश्वनाथनिष्ठ- विषयतानिरूपकहृदधिकरणक(हन्निष्ठाधिकरणतानिरूपक) ध्यानोत्तर- कालिकी कृतिः इति विश्वेशं हृदि निधाय इति वाक्याद् बोधः ॥

टिप्पणी

वर्तत इति अन्वयव्यभिचारः । तथा कार्यं समाप्तिः । तदधिकरणं नास्तिकग्रन्थः । तत्र मङ्गलाभावो वर्तते। तत् प्रतियोगि मङ्गलमिति व्यतिरेकव्यभिचारः । अतश्च समाप्तिं प्रति मङ्गलं कथं कारणं भवेत् ? ॥

न च कादम्बर्यादौ अदृष्टादिकारणवैकल्यात् न समाप्तिः । एवं नास्तिकग्रन्थादौ जन्मान्तरीयादृष्टवशादेव समाप्तिरिति न दोष इति वाच्यम्; मङ्गलसमाप्त्योः कार्यकारणभावविनिश्चये सिद्ध एव तथा वक्तुं शक्यम्। पूर्वोक्तव्यभिचाराभ्यां कार्यकारणभावस्य असिद्धत्वात् तथा वक्तुमशक्यत्वात्, अन्योन्याश्रय एव विश्रान्तेरिति चेत्; मैवम्, कार्यकारणभावस्य प्रत्यक्षेणैव निर्णेयत्व एव स्यादयं दोषः । प्रत्यक्षेण तदसम्भवेऽपि अनुमानेनैव साध्यते। न चान्वयव्यतिरेकव्यभिचारयोः सत्त्वे कथमनुमानेन तत्साधनसम्भव इति शङ्कयम् ; मङ्गले कृतेऽपि समाप्त्यभावस्य अदृष्टविशेषप्रयुक्तत्वात् अन्वयव्यभिचारस्य कारणताग्रहं प्रति न हि प्रतिबन्धकत्वसम्भवः । नास्तिकग्रन्थादौ तथैव अदृष्टविशेषवशादेव समाप्तेस्सम्भवात् नानुमानप्रतिबन्धकत्वसम्भवः ।

किञ्च ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि’ इति मङ्गलत्रैविध्यस्य च सत्त्वेन मङ्गलाभावस्य निश्चेतुमशक्यत्वेन अन्ततः संशये पर्यवसानात् संशयस्य च पक्षता- रूपत्वेन अनुमितिं प्रति अप्रतिबन्धकत्वेन अनुमानेनैव मङ्गलसमाप्त्योः कार्यकारणभावः साध्यते ॥

‘मङ्गलं समाप्तिफलकं, समाप्त्यन्याफलकत्वे सति सफलत्वात्’ इति

[[4]]

अथ विद्यागुरूणां वन्दनमाह– विधायेत्यादिना । गुरोः वन्दनं = गुरुवन्दनमिति षष्ठीतत्पुरुषः । गुरोरित्यत्र कर्मणि षष्ठी । तस्या विषयत्वमर्थः । विषयत्वस्य च निरूपकतासम्बन्धेन वन्दनक्रियायामन्वयः । वन्दनं नाम स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलव्यापार इति सम्प्रदायः ॥

टिप्पणी

परिशेषानुमानेन तयोः कार्यकारणभावसिद्धिः। ‘मङ्गलं सफलम्, बलवदनिष्टाननुबन्धित्वे सति शिष्टा(प्रामाणिकजना) चारविषयत्वात्, दर्शश्राद्धादिवत् ’ इत्यनुमानेन उक्तानुमाने विशेष्यासिद्धिपरिहारः । श्येनादियागादेरपि शिष्टाचारविषयत्वात् तस्य च नरकादि- हेतुत्वात्, तावन्मात्रेण प्रवृत्तेरसम्भवेन सफलत्वसाधनस्यायुक्तत्वात्, तद्वारणाय बलवदनिष्टा- ननुबन्धित्वविशेषणम् । एवं ‘मङ्गलं समाप्तिफलकम्, समाप्त्युद्देशेनैवानुष्ठीयमानत्वात् यत् यदुद्देशेन अनुष्ठीयते तत् तत्फलकम्, यथा धान्योद्देशेन क्रियमाणं कृष्यादि’ इत्यनुमानेन समाप्त्यन्याफलकत्वसिद्ध्या, उक्तपरिशेषानुमानेन मङ्गलसमाप्त्योः कार्यकारणभावस्य सिद्ध्या, कादम्बर्यादौ कारणान्तरेणापि समाप्त्यभावस्य सम्भवेन नान्वयव्यभिचाररूपदोषः । नास्तिकग्रन्थादौ च सुकृतविशेषवशादेव तत्सम्भवेन न व्यतिरेकव्यभिचारदोषः । तस्मात् उक्तानुमानेन कार्यकारणभावसिद्धेर्निष्प्रत्यूहत्वात् न दोषः ॥

नव्यास्तु– मङ्गलस्य विघ्नध्वंसं प्रत्येव कारणत्वम्, न तु समाप्तिं प्रति । समाप्तिं प्रति तु आयुः प्रभृतीनामेव कारणत्वम् । एवञ्च नास्तिकग्रन्थादौ स्वत एव विघ्नाप्रसक्तया विघ्नध्वंससम्भवेऽपि न समाप्तेर्विरोधः । विघ्नध्वंसवत् विघ्नात्यन्ताभावस्य, विघ्नप्रागभावस्य च कारणत्वात्, नास्तिकग्रन्थे विघ्नात्यन्ताभावप्रागभावान्यतरसम्भवेन समाप्तेः, जन्मान्तरीयमङ्गलकल्पनादिक्केशो नास्तीति वदन्ति । परन्तु, प्राचीनमते मङ्गलस्य विघ्नध्वंसद्वारैव समाप्तिजनकत्वात्, द्वारेण द्वारिणोऽन्यथासिद्धौ यागादेरपि स्वर्गादिसाधनत्वं दुर्वचं स्यादिति वेदप्रामाण्यस्यैव तिलाञ्जलिप्रसङ्गः । अतो मङ्गलं समाप्तिं प्रत्येव कारणम् । दोषस्तु पूर्वोक्तरीत्यैव परिहार्यः ॥

[[5]]

आलोक- व्याख्या

‘स्वस्मात् उत्कृष्टो गुरुः’ इति ज्ञानात्किल शिष्यो गुरुं वन्दते । उत्कृष्टः= उत्कर्षस्याश्रयः । अत्रोत्कर्षस्य पूर्वावधिः स्वात्मा, उत्तरावधिर्गुरुः । अतः स्वावधिकोत्कृष्टत्वप्रकारकज्ञाने उत्कृष्टत्वं प्रकारः, गुरुः विशेष्यः । यदा शिष्यो गुरुं वन्दते, तदा पार्श्वस्थाः मन्यन्ते, अस्य नन्तुः, नम्ये गुरावुत्कृष्टत्वज्ञानं वर्तते, अतो वन्दत इति । अतः परेषामयं शिष्यः, स्वावधिकोत्कृष्टत्वप्रकारकं ज्ञानं जनयति । अतश्च परेषां तादृशज्ञानप्रयोजकं भवति शिष्यस्य वन्दनम् । एतेन ‘गुरुं प्रकाशयेद्धीमान्’ इति शास्त्रार्थः सूचितः ॥

वस्तुतः स्वावधिकोत्कृष्टत्वप्रकारकज्ञानं स्वपदार्थनिष्ठं सत् नमनक्रियां जनयति । अतः ‘स्वावधिकोत्कृष्टत्वप्रकारकस्य ज्ञानस्यानुकूलः- प्रयोजको वन्दनरूपव्यापारः’ इत्यर्थापेक्षया, स्वावधिकोत्कृष्टत्व- प्रकारकज्ञानम् अनुकूलम् (प्रयोजकं ) यत्र ( नमनादिरूपव्यापारे) इति समासेन तादृशज्ञानस्य वन्दनप्रयोजकत्वं वाच्यम् । एवं शिष्यस्य स्वावधिकोत्कृष्टत्वप्रकारकज्ञानमेव वन्दनरूपव्यापारस्य प्रयोजकं भवति ॥

अथवा ‘तादृशज्ञानानुकूलिव्यापारः’ इत्यर्थो वाच्यः । अनुकूलम् (प्रयोजकम् ) अस्यास्तीति अनुकूली, प्रयोज्य इत्यर्थः । ज्ञानस्यानुकूली = ज्ञानानुकूली, ज्ञानप्रयोज्यो व्यापारः । ज्ञानमित्यत्र षष्ठ्या निरूपितत्वमर्थः । अनुकूलित्वं प्रयोज्यत्वम् । तथा च स्वावधिकोत्कृष्टत्वप्रकारकज्ञानप्रयोज्यव्यापारो वन्दनमिति स्वरसम् । ‘वन्दनं विधाय’ इत्यत्रापि, ल्यप उत्तरकालिकत्वमर्थः । तथा च’ गुरुविषयकवन्दनोत्तरकालिकी कृतिः’ इति गुरुवन्दनं विधाय इति वाक्यस्यार्थः ॥

ग्रन्थरचनोद्देशं प्रकटयति–वालानामित्यादि । सुखं बोधः, सुखेन वा बोध :- सुखबोध इति समासः । सुखं नाम आयासाभावः, न तु आनन्दविशेषः, तात्पर्यानुसारात् । एतद्ग्रन्थाध्ययनकाले अध्येतुरायासाभावो

[[6]]