००

आलोक’ व्याख्या-टिप्पणीभ्यां संवलितः

व्याख्याता

महामहोपाध्यायः, पण्डितरत्नम् नव्यमङ्गलाभिजनः वरदाचार्यः

आर्षग्रन्थप्रकाशनम् shabee (

2842, पम्पापतिवीथी, जयनगरम्, महीशूरपुरी - 570014

[[2007]]

Tarkasamgraha of Annambhatta – With a commentary ‘Aloka’ and ‘Tippani’ by Mahamahopadhyaya Panditaratnam K.S.Varadacharya; Demi 1/8th; Pages: xxxii + 232

PREFACE

PREFACE TO THE FIRST EDITION

“Tarka Sangraha” is a very famous work in the field of Sastraic literature. It is not an exaggeration to say that no other Sastra has the benefit of this Tarka Sastra due to the authoring of this work. This is due to the fact that, for beginners who want to learn the basics of any Sastra, a concise text is very much necessary. However not all Sastras were as lucky as Tarka Sastra. The reason for this is this work titled “Tarka Sangraha”. To author such a concise, small text is definitely a difficult task! This work has been authored by a great scholar called Annam Bhatta in a magnificient manner, who has thus become the recepient of the gratefulness of all those who study the Sastras.

Initially, we had no plans of publishing this work. We are grateful to Sadhu Nirmaldas, who was instrumen- tal in the publication of this work. If he had not initially recorded the lessons, even if in a crude manner, this work could not have been published. This work “Tarka Sangraha” is not only useful to students, but to teachers as well, because it has been authored in such a beautiful

manner.

Regarding the actual publication, it is well known, how difficult it is to publish books these days. Especially this applies to Sanskrit works, and that too books dealing with the Sastras. Prices of paper and printing have shot up. So, it is a real test to those who publish these types of books. So, the price of this book might be slightly higher

Preface

iv

than expected. We hope that those who are interested in the study of Sastras will recieve this book with honour. We also hope that this book would be welcomed in the scholarly world.

Mysore pal 18-8-2000

Publisher

Arsha Grantha Prakashana

To

WA

PREFACE TO THE SECOND EDITION

Birit to The second edition of this important work was long overdue. However, the delay was due to certain other pre- occupations. As per the request of many students many important basic concepts have been described in a concise and precise manner in this edition in the form of’ Tippani

for the benefit of seekers of knowledge.

Many people have assisted in the preperation of this edition. Important among them are Vid. Sri Raghunatha Sastry, Sri Jagannathacharya, Sri M.A.Alwar, Sri M.Dinesh Pandey and Sri S.Manivannan. We request the Supreme Lord to shower his grace on all these per- sons. Similarly, the students of Sri Vedantha Desika San- skrit Gurukula have provided financial assistance for printing this edition. We pray the Supreme Lord to be- stow His blessings on them also..

The scholarly world is requested to delve deep into the basic concepts of Tarka shastra and concentrate on these concepts which will be beneficial to one and all, rather than harp on the word-formations alone that are exclusive to Navya-Nyaya.

Mysore

1-1-2008

Publisher
Arsha Grantha Prakashana

प्रथममुद्रणनिवेदनम्

अघटितघटनापटीयसो भगवतोऽद्भुतं घटनासामर्थ्यं ज्ञातुं कः प्रभवत्यल्पप्रज्ञः कश्चिन्मानवः। सर्वथैतादृशग्रन्थरचनादिविमुखस्यापि मम गत्यन्तराभावादिदमवश्यकर्तव्यं संवृत्तमन्ते । तर्कसङ्ग्रहमिमं बहुवारं जिज्ञासुभ्योऽध्यापयतो मम मुखादवशाद्बहिरभूदुद्गारः कश्चित् ‘कति वारं पाठयेयमिमं ग्रन्थं पुनः पुनः’ इति । तदा पार्श्वस्थेनाप्तेनोक्तम् ‘गुजरातीयेन निर्मलदासनाम्ना सुहृदा भवतस्सकाशादध्ययनवेलायामेव, यद्यदुक्तं भवद्भिः, तत्सर्वं तथैव लिखित्वा स्थापितमस्ति । तस्य प्रकाशनेन भवतां श्रमो दूरीभवेत्’ इति। मयापि भारदूरीभावचापल्येन ‘क्रियतां तर्हि तथैव’ इत्यङ्गीकृतं परिणाममविचार्यैव । उपक्रान्तं च कार्यं क्रमशस्तदैव । अनन्तरं तु पश्यामि ‘तेन लिखितं पुस्तकरूपेण प्रकटयितुमत्यन्तापर्याप्तमिति । इदानीं किं कर्तव्यमिति चिन्ता तु समजनि । अन्ते

‘अनारम्भी मनुष्याणां प्रथमं बुद्धिलक्षणम् ।

आरब्धस्यान्तगमनं द्वितीयं बुद्धिलक्षणम् ॥’ इति न्यायमनुस्मरता कथञ्चित् ग्रन्थरूपतामनायि तदीयं लेखनम् । कियान्वा मम श्रमोऽनेन परिहृतो भविष्यतीत्यस्योत्तरं कालेनैव देयम् ॥

यद्यप्यस्य ग्रन्थस्य सन्ति बहूनि व्याख्यानानि प्राचीनान्यर्वाचीनानि च । किं बहुना ! एतन्मूलकत्रैव रचिता प्रसिद्धास्ति दीपिकानाम्नी । परन्तु नव्यतर्कशास्त्रं प्रविविक्षूणां तानि न पर्याप्तानीति प्रायो मन्यन्तेऽनेके । तत्रापि विशिष्य प्रवक्तारो मन्यन्ते । इयमपि निरीक्षा कियद्वानेन निर्वर्त्येतेत्येतदपि कालेनैव समाधेयम् ॥

तर्कसङ्ग्रहकर्तायं चतुश्शास्त्रप्रवीण इति प्रसिद्धावपि तदीयं चरित्रादिकं नाधिकं लभ्यत इत्यस्माभिरत्र नाकारि परिश्रमः मार्गसूचनालाभात् । चतुश्शास्त्रप्रवीणस्याप्यस्य कीर्तिस्तु अतिलघीयसोऽप्येतस्मादेव तर्कसङ्ग्रहादिति न तिरोहितं संस्कृतवाङ्मयपरिशीलन-

“निवेदनम्

vi

चतुराणां विदुषाम् । नव्यतर्कशास्त्रं स्वमूलाद्बहुदूरमागतमित्यस्य सत्यत्वेऽपि पदार्थानां विश्लेषणप्रक्रियया मूलभूता निरूप्यनिरूपकभावप्रक्रियाऽत्यन्तमुपकारिणी सर्वेषामप्य- नन्तरकालिकशास्त्रकाराणामित्ययं सत्यांशोऽपि नागेशखण्डदेवब्रह्मानन्दादिभिः अनेकैर- नेकधा न्यरूपीति च प्रथितमेव विदुषाम् ॥

एवं नव्यतर्कप्रक्रियायाः प्राणभूतस्य निरूप्यनिरूपकभावस्य लेशतः परिचयायैव परिश्रमः कृतोऽग्रिमेण प्रस्तावनाभागेन । तत्रापि दिक्सूचीमात्रमलमिति मत्वा विस्तरो नातीवाकारि । यद्यनेन केषाञ्चिदुपकारो भवेत् तावतैव श्रमं सार्थकं मन्यते

व्याख्याकारः

नव्यमङ्गलाभिजनः वरदाचार्यः

(K.S.Varadacharya)

द्वितीयमुद्रणप्रास्ताविकम्

बहुदिनेभ्यः पूर्वमेव निर्वर्तनीयनमासीदिदं द्वितीय मुद्रणम् । कार्यगौरवाद्विल- म्बोऽनिवार्यो बभूव । न्यायशास्त्रप्रधानप्रमेयाणामेकत्र सौलभ्यदृष्ट्या, आप्तानां वचसा बहवो विषया अत्र संयोजिता जिज्ञासूनामुपकाराय ।

एतन्मुद्रणसज्जीकरणे सहकृतवद्भ्यः श्रीजगन्नाथाचार्यः, रघुनाथशास्त्री, आळवार, दिनेशपाण्डे, मणिवण्णन् इत्येतेभ्यः मङ्गळमनुगृह्णातु भगवानित्या- शास्यते । तथैव धनसहायं दत्तवते वेदान्तदेशिकसंस्कृतगुरुकुलाय च मङ्गलमा- शास्यते ।

PATEL

विद्वल्लोकः पिष्टपेषणं परित्यज्य, शब्दमात्रपरायणतां विहाय प्रमेयजिज्ञा- सुर्भवेत्, स्वस्यान्येषाञ्च हितायेति प्रार्थयते.

नव्यमङ्गलाभिजनः वरदाचार्यः

(K.S.Varadacharya)

प्रस्तावना

’ काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् इतीदं वचनं को वा न जानाति संस्कृतज्ञः । ‘नामरूपे व्याकरवाणि’ ‘नामरूपे व्याकरोत्’ ‘सञ्ज्ञामूर्तिक्लृप्तिस्तु… ’ इत्यादिश्रुतिस्मृती नामरूपसंयोजनमेव सृष्टिरिति प्रतिपादयतः । तत्रापि स्थूलं जगदिदं तु नामरूपात्मकमिति किञ्चिदालोचने स्पष्टं ज्ञायेत । तत्र नामव्याकरणं पाणिनीयं शास्त्रं चेत्, रूपव्याकरणं काणादबादरायणीये । अत्रापि काणादं बाह्यस्थूलजगत्सम्बन्धि, बादरायणीयम् आन्तरसूक्ष्मात्मादिवस्तुविषयमिति विषयव्यवस्थापि स्पष्टा । एवं काणादमिदं रूपव्याकरणमिति ‘पदार्थधर्मसङ्ग्रहः’ इति प्रशस्तपादीया एतच्छास्त्रसञ्ज्ञैव स्पष्टयति । बाह्यमिदं हि जगत् पदात्मकम् अर्थात्मकं च । अत एव ‘… द्रव्यगुणकर्मसामान्यविशेषसमवायानां पदार्थानां … (वै. सू. १-१-४) इति निरदेशि महर्षि कणादेन । तत्र पदशास्त्रं व्याकरणम्, अर्थशास्त्रं वैशेषिकम् ॥

चतुर्विधानि पदनामानि (१) द्रव्यवाचीनि, (२) गुणवाचीनि, (३) क्रियावाचीनि, (४) जातिवाचीनीति । पदानां चतुर्विधत्वात् पदार्थाः प्रथमं द्रव्यगुणकर्मसामान्यभेदाच्चत्वारः । एवं विभागस्य भेदमूलकत्वात्, भेदस्य चान्ते ‘विशेष’ मूलकत्वात् पञ्चमः पदार्थो (५) विशेषोऽप्यावश्यकः । एवं गुणगुण्यादिभेदे सिद्धे सम्बन्धस्यावश्यकत्वात् (६) समवायोऽप्यावश्यकः । (७) अभावस्तु न पदार्थः, किन्तु वाक्यार्थः । वेदान्तिनां समवायनिराकरणादिकं त्वभिप्रायान्तरेण । शास्त्रान्तरं हि तत् । पदार्थशास्त्रे तु स आवश्यक एव । आद्याश्चत्वारः सार्वजनीनाः । इतरौ द्वौ तु शास्त्रीयौ ॥

प्रस्तावना

Vill

एवं षट्पदार्थात्मकमिदं जगत्परस्परसापेक्षमेव । प्रधाना- प्रधानादिविभागोऽपि सापेक्ष एव । एवं परस्परसापेक्षत्वेऽवर्जनीये, अपेक्षाणामपि बहुविधत्वमनिवार्यम् । अयं च सापेक्षतावादः (Theory of relativ- ity) विज्ञानलोके यथाऽनिवार्यस्तथा बाह्ये स्थूले जगत्य-प्यनिवार्यः । पदार्थानां परस्परसापेक्षत्वस्य समानत्वेऽपि तत्तद्वस्त्वनुगुणमपेक्षाणामनेकत्वात्सापेक्षत्वं विशेषे पर्यवस्येदेव । एकस्मिन् गृहे वसतां मनुजानां परस्परसापेक्षत्वेऽपि तत्तदपेक्षाः किल परस्परं भिद्येरन्नेव । एक एव गृहयजमानः खलु एकस्याः पतिः, अपरस्य पिता, अपरस्य भ्राता, अन्यस्य मातुलः, अपरस्य स्वामी इत्येवं खलु परस्परं सम्बन्धो वर्तते । एतत्सर्वमेकस्मिन् निरूपकभेदादेव किल वर्तते । निरूप्यनिरूपकभावः किल धर्ममूलकः । पत्नीनिरूपितं पतित्वम्, पुत्रनिरूपितं पितृत्वम्, भृत्यनिरूपितं स्वामित्वमित्यादि दृष्टमेव । अतश्च सर्वं निरूप्यनिरूपकभावापन्नम्, अत एव धर्मधर्मिभावापन्नं च । एवं विश्लेषणं यदि न ज्ञायेत, तदा साङ्कर्यमप्यनिवार्यमेव । एकैव किल स्त्री पत्न्यपि भवति, मातापि भवति, सहोदर्यपि भवति निरूप्यनिरूपकभेदात् । यथा एकैव सीता, रामनिरूपितपत्नीत्ववती, लवकुशनिरूपितमातृत्ववती, ऊर्मिलानिरूपितसहोदरीत्ववती भवति । एतादृशरीत्या पदार्थविश्लेषणाभ्यास एव तर्कशास्त्रस्य प्रधानो विषयः, विशेषतो नवीनतर्कशास्त्रस्य ॥

ते च पदार्थानां परस्परं सम्बन्धा बहुविधाः । यथा-

उद्देश्यविधेयभावः

अवच्छेद्यावच्छेदकभावः आधाराधेयभावः

उपादानोपादेयभावः कार्यकारणभावः

गुरुशिष्यभावः

नियाम्यनियामकभावः

नियोज्यनियोजकभावः

पतिपत्नीभावः (

निरूप्यनिरूपकभावः प्रकारप्रकारिभावः

पितृपुत्रभावः

प्रतिपाद्यप्रतिपादकभावः प्रतियोग्यनुयोगिभावः

भ्रातृभगिनीभावः ॥प्रयोज्यप्रयोजकभावः विषयविषयिभावः

ix

लक्ष्यलक्षणभावः लक्ष्यलक्षणभावः

विशेषणविशेष्यभावः

सेव्यसेवकभावः

प्रस्तावना

वाच्यवाचकभावः

वन्द्यवन्दकभावः

स्वस्वामिभावः

व्याप्यव्यापकभावः

स्वामिभृत्यभावः

धर्मधर्मिभावः

शेषशेषिभावः ॥ जन्यजनकभावः

भोग्यभोक्तृभावः

नम्यनन्तृभावः इत्यादयः पदार्थानां सम्बन्धा अनन्ता दृश्यन्ते ॥

यथा ‘भूतले घटः’ इति यदोच्यते, तदा घटभूतलयोराधाराधेयभावरूपसम्बन्धः प्रतीयते । आधाराधेयभावो नाम आधारता, आधेयता च । आधारोऽधिकरणमिति पर्यायौ । तथा च तत्र भूतलनिष्ठा (वृत्तिः) अधिकरणता । घटनिष्ठा (वृत्तिः) आधेयता, आधेयत्वाधिकरणत्वयोः निरूप्यनिरूपकभावः सम्बन्धः । भूतलनिष्ठाधिकरणतानिरूपिताधेयतावान् घटो भवति अथवा घटनिष्ठाधेयतानिरूपिताधिकरणतावत् भूतलं भवति ॥

एवं घटस्य कारणं दण्ड इत्यत्र, दण्डनिष्ठा कारणता । घटनिष्ठा कार्यता । घटनिष्ठ (वृत्ति) कारणतानिरूपितकारणतावान् दण्डः अथवा दण्डनिष्ठ (वृत्ति) कारणतानिरूपितकार्यतावान् घटो भवति ॥

एवञ्चैतदुक्तं भवति पदार्थानां परस्परं सम्बन्धः साक्षात् वस्तुस्वरूपयोर्न भवति, सर्ववस्तूनामनेकधर्मखचितत्वेन साङ्कर्यप्रसङ्गात्। किन्तु तत्तदपेक्षानुगुणं तत्तद्धर्ममूलक एव भवति । आधारस्याधेयापेक्षा, आधेयस्याधारापेक्षा । कार्यस्य कारणापेक्षा, कारणस्य कार्यापेक्षा । एवञ्च भूतले घट इत्यत्र घटापेक्षया भूतलमाधारः । घटगतरूपाद्यपेक्षया तु घटोऽप्याधारः । घटे आधेयतापि वर्तते, आधारतापि वर्तते । एकस्यैवाधार- त्वमाधेयत्वं चापाततो विरुद्धे । किन्तु निरूपकभेदादविरुद्ध । रूपनिष्ठाधेय- तानिरूपितमाधारत्वम्, भूतलनिष्ठाधिकरणतानिरूपितमाधेयत्वम् ॥

एवं पदार्थानां विश्लेषणाऽभ्यासवशात्, निशिता बुद्धि-

प्रस्तावना

X

स्तत्त्वक्षेत्रेऽप्यसङ्कीर्णतया सर्वं विवेक्तुं प्रभवति । एतदेव एतन्नवीनतर्कशास्त्रशैल्याः परमं प्रयोजनम् । एतदतीत्य पुनः पुनश्शव्दानां वर्धने नूनमर्था हस्ताद् (अनुभवात्) भ्रष्टा भवेयुरित्यत्र न संशयलेशोऽपि ॥

एवं पदार्थानां परस्परं निरूप्यनिरूपकभावापन्नत्वं प्रथमं ज्ञेयम् । अनन्तरं किम्प्रयुक्तो निरूप्यनिरूपकभावः ? किम् आधाराधेयभावप्रयुक्तः, उत कार्यकारणभावप्रयुक्तः, उत पितृपुत्रभावप्रयुक्तः ? इति विशिष्याप्य- वधेयम् । एवं पदार्थानां स्वरूपे, तेषां धर्मे, सम्बन्धे चावगते निरूप्यनिरूपकभावोऽपि सुगमः । एवं प्रमेयनिष्कर्षे जाते, ततश्शाब्द- बोधोऽपि सुनिरूपः ॥

‘यथा ‘भूतले घटः’ इति व्यधिकरणवाक्ये प्रयुक्ते, घटभूतलयोः आधाराधेयभावः स्पष्टः । प्रायः प्रथमान्तमुख्यविशेष्यक एव शाव्दवोधः । सप्तम्या अधिकरणत्वमर्थः । प्रकृत्यर्थस्य वृत्तिता ( आधेयता) सम्बन्धेन अन्वयः । आधेयता च वृत्तितैव । वृत्तित्त्वम्, निष्ठत्वमिति पर्यायौ । भूतलवृत्तिः अथवा भूतलनिष्ठा आधारता इति ‘भूतले’ इति पदाद्बोधः । आधारतायाः स्वनिरूपिताधेयताश्रयत्वसम्बन्धेन घटेऽन्वयः । तथा च (१)-भूतलनिष्ठाधारतानिरूपिताधेयताश्रयो घट इति बोधः । अथवा आधारताया निरूपकतासम्बन्धेन घटेऽन्वयः । तथा च (२) - भूतलनिष्ठाधारतानिरूपको घट इति बोधः ।

अथवा सप्तम्या आधेयत्वमर्थः । प्रकृत्यर्थस्य स्वनिष्ठाधिकरणता- निरूपितत्वसम्बन्धेन सप्तम्यर्थाधेयतायामन्वयः । आधेयताया आश्रयतासम्बन्धेन घटेऽन्वयः । भूतलनिष्ठाधिकरणतानिरूपिताधेयताश्रयो घट इति बोधः । अथवा भूतलपदार्थस्य निरूपितत्वसम्बन्धेन सप्तम्यर्थाधेयतायामन्वयः । (३) भूतलनिरूपिताधेयताश्रयो घट इति बोधः ॥

xi

एवम् - ’ भूतले घटः’ इति व्यधिकरणवाक्यात् -

प्रस्तावना

(पूर्णः- १) भूतलनिष्ठाधिकरणतानिरूपिताधेयता (श्रयः ) वान् घट इति, ( सङ्ग्रह : - २) - भूतलनिष्ठाधिकरणतानिरूपको घट इति (सङ्ग्रहः-३) भूतलनिरूपिताधेयता (श्रयः ) वान् घट इति वा घटविशेष्यकशाब्दबोधः ॥

भूतलम्

निष्ठा

घटः

FISTS STSH

निरूपकः

SUS

आश्रयः

अधिकरणता

निरूपिता

निरूपिता

FARS 1313

आधेयता (8)

एवं ‘घटवत् भूतलम्’ इति समानाधिकरणवाक्यात् यथाश्रुते ‘घटवदभिन्नं भूतलम्’ इति बोधेऽपि, प्रमेयदृष्ट्या, घटो विशेषणम्, भूतलं च विशेष्यम् । मतुप्प्रत्ययस्तु घटस्य विशेषणत्वसूचकः । अतश्च एतस्मात् वाक्यात्तु (पूर्णः- १) घटनिष्ठाधेयतानिरूपिताधिकरणता (श्रयः ) वत् भूतलम् इति, ( सङ्ग्रह : - २) - घटनिष्ठाधेयतानिरूपकं भूतलम् इति, (सङ्ग्रहः- ३) -घटनिरूपिताधिकरणता (श्रयः) वत् भूतलम् इति वा भूतलविशेष्यकशाब्दबोधः ।

निष्ठा

घटः

निरूपकम्

भूतलम्

आधेयता

निरूपिता

निरूपिता

आश्रयः

अधिकरणता

प्रस्तावना

अधिकरणम्

एवमितरत्रापि ॥

Xil

आधेयतानिरूपकम् । आधेयः - अधिकरणतानिरूपकः ।

एवं विशेषणविशेष्यभावः शब्दविपर्यासकृतः । तावता अर्थविपर्यासो न भवति । भूतलमेव आधारः घट एवाधेयः । एवमेकत्र निरूप्यनि- रूपकभावनिर्णये जातेऽन्यत्र सर्वत्रापीयमेव सरणिस्सुगमा ॥

एवमेव दण्डजन्यो घट इत्यत्र

(१) दण्डनिष्ठकारणतानिरूपितकार्यतावान् घट इति, (२) दण्डनिष्ठकारणतानिरूपको घट इति,

(३) दण्डनिरूपितकार्यतावान् घट इति वा घटविशेष्यकशाब्दबोधः ॥ घटस्य कारणं दण्ड इत्यत्र तु

(१) घटनिष्ठकार्यतानिरूपितकारणतावान् दण्ड इति,

घटनिरूपितकारणतावान् दण्ड इति,

(२)

(३)

घटनिष्ठकार्यतानिरूपको दण्ड इति वा दण्डविशेष्यक-

शाब्दबोधोऽपि इदानीं सुगमः ॥

(१) ‘दण्डजन्यो घटः’ इति वाक्यस्य दण्डात् जन्यः- दण्डजन्य इति विग्रहः । जन्य इत्यस्य कार्यतावान् अर्थः । दण्डात् इत्यत्र पञ्चम्याः कारणत्वमर्थः । प्रकृत्यर्थस्याधेयता(निष्ठत्व) सम्बन्धेनान्वयः । कारणत्वस्य निरूपितत्वसम्बन्धेन कार्यतायामन्वयः । तथा च दण्डनिष्ठकारण- तानिरूपितकार्यतावान् घट इति बोधः ॥

(२) दण्डाद्घट इति वाक्ये प्रयुक्ते तु पञ्चम्याः कारणत्वमर्थः । प्रकृत्यर्थस्य आधेयता(निष्ठत्व) सम्बन्धेनान्वयः । दण्डनिष्ठा कारणता इत्यासीत् । कारणताया निरूपकत्वसम्बन्धेन, स्वनिरूपितकार्यताश्रयत्वसम्बन्धेन वा घटेऽन्वयः । दण्डनिष्ठकारणतानिरूपको घट इति वा, दण्डनिष्ठकारणतानिरूपितकार्यताश्रयो घट इति वा बोधः ॥

(३) दण्डाद्घटो भवति इत्यत्र तु एतद्वाक्यस्य दण्डाद्घटो जायते इति

XIII

प्रस्तावना

वाक्यतुल्यत्वात्, भूधातोः भवनमर्थः । भवनञ्च कार्यत्वमेव प्रकृते । आख्यातस्याश्रयत्वमर्थः । दण्डात् इत्यत्र पञ्चम्याः कारणत्वमर्थः । प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । कारणताया निरूपितत्वसम्बन्धेन कार्यतायामन्वयः । तथा च दण्डनिष्ठकारणतानिरूपितकार्यताश्रयो घट इति बोधः ॥ जायते इति धातुसमभिव्याहारे पञ्चम्या उपादानत्वम् स्वरसम् । अतो मृदः (मृत्तिकातः) घटो जायते इति प्रयोग एव गरीयान् ॥

प्रतियोग्यनुयोगिभावस्तु अभावस्थले

यथा घटाभावो नाम

१. घटनिष्ठप्रतियोगितानिरूपितानुयोगितावान् अभावः । २. घटनिष्ठप्रतियोगितानिरूपकः अभावः । ३. अभावनिष्ठानुयोगितानिरूपिकः घटः । इति ।

अत एव अभावत्वम् अनुयोगिताविशेषरूपम् । अनुयोगिपदं कुत्रचिदधिकरणपर्यायमपि प्रयुज्यते । यथा चन्द्र इव मुखम् इत्यादौ चन्द्रप्रतियोगिकसादृश्यानुयोगि मुखम् इति बोधः ।

एकस्मात् वाक्यात् यादृशोऽन्वयवोघो विवक्षितः, तदनुगुण- तया प्रत्ययानामर्थो वर्णनीयः । भूतले घटः, भूतले घटोऽस्ति इति वाक्यद्वयादपि भूतलघटयोराधाराधेयभावः प्रतीयत इति तु निश्चयः । विभक्त्यर्थस्योत्तरत्रान्वयवेलायां वृत्तिनियामकसंवन्धेनैव अन्वयो वाच्यः । यथा भूतले इत्यत्र सप्तम्याः अधिकरणत्वं यद्यर्थः, तर्हि तस्योत्तरत्र घटे निरूपकतासम्बन्धेन, स्वनिरूपिताधेयताश्रयत्वसम्बन्धेन वान्वयो वाच्यः । द्वयमपि वृत्त्यनियामकसम्बन्धः । अतः सप्तम्या आधेयत्वमर्थः । प्रकृत्यर्थस्य निरूपितत्वसम्बन्धेन, स्वनिष्ठाधिकरणतानिरूपितत्वसम्बन्धन वान्वयः । तथा च भूतलनिरूपिताधेयताश्रय इति वा, भूतलनिष्ठाधिकरण - तानिरूपिताधेयताश्रय इति वा बोधः । बोधद्वयमपि समानार्थकमेव, शब्दतस्सङ्ग्रहविस्तररूपम् ॥

‘अस्ति’ इति धातुसमभिव्याहारे तु असधातोराधेयत्वमर्थः,

प्रस्तावना

xiv

आख्यातस्याश्रयत्वमर्थः । सप्तम्या अधिकरणत्वमर्थः । अधिकरणत्वस्य निरूपितत्वसम्बन्धेन धात्वर्थेऽन्वयः । प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । तथा च भूतलनिष्ठाधिकरणतानिरूपिताधेयताश्रयो घट इति बोधः । वृत्तिनियामकसम्बन्धेनैवान्वयो वक्तव्यश्चेत्, सप्तम्या निरूपितत्वमर्थः । असधातोराधेयत्वमर्थः । आख्यातस्याश्रयत्वमर्थः । सप्तम्यर्थनिरूपितत्वस्य धात्वर्थे आश्रयतासम्बन्धेनान्वयः । भूतलनिरूपिताधेयताश्रयो घट इति बोधः । अर्थस्तु समान एव । आहत्य तु लोकानुभवस्वारस्यानुरोधेन वोधवर्णनं

स्वरसम् ॥

तथा च पदार्थानां परस्परं साक्षान्न कोऽपि सम्बन्धः, किन्तु तन्निष्ठधर्म- द्वारैव । यथा आधारत्वाधेयत्वे, कार्यत्वकारणत्वे, विषयत्वविषयित्व इत्यादिधर्ममूलक एव पदार्थानां सम्बन्धः । धर्मयोस्तु परस्परं निरूपितत्वमेव संवन्धः, न तु निरूपकत्वम् । यथा आधारतानिरूपिता आधेयता, आधेयतानिरूपिता आधारता, कार्यतानिरूपिता कारणता, कारणतानिरूपिता कार्यता इत्येवमेव । तत्तद्धर्माणां तत्तद्धर्मिभिः सहाश्रयत्वमेव सम्वन्धः । यथा आधेयताश्रयः- आधेयः (घटादिः) । अधिकरणताश्रयः अधिकरणम् (भूतलादिकम् ) । एकवस्तुनिष्ठधर्मस्य अन्यवस्तुना धर्मिणा सह साक्षात्सम्वन्धस्तु निरूपकत्वम् । यथा आधेयतानिरूपकम् – अधिकरणम्, अधिकरणतानिरूपकः आधेयः । कार्यतानिरूपकं कारणम्, कारणतानिरूपकं कार्यम् । विषयतानिरूपकं - विषयि (ज्ञानम्), विषयितानिरूपकः - विषयो घटादिः इत्यादि । इदं सर्वं व्यस्तपदप्रयोगे ॥

समस्तपदप्रयोगे तु तत्तसमासानुरोधेन नियमाः प्रदर्शिताः व्युत्पत्ति-

वादादिषु । तदनुरोधेन शाब्दबोधो वर्णनीयः । विग्रहवाक्यसमास- वाक्यजन्यबोधयोः समानविषयकत्वं तु समासघटकपदार्थदृष्ट्या, न तु सम्बन्धदृष्ट्या । यथा राज्ञः पुरुष इति वाक्यात् राजनिरूपितस्वत्ववान् पुरुष इति बोधः । राजपुरुष इति समासात्तु राजनिरूपितस्वत्ववदभिन्नः

XV

पुरुष इति बोध इत्यादिकं तु विस्तरभयान्नात्रोच्यते॥

प्रस्तावना

एवं सर्वेषां वाक्यानां शाब्दबोधस्य वक्तुं शक्यत्वेऽपि शास्त्रप्रवि- विक्षूणां भारोऽधिको मा भवत्विति दृष्ट्या ग्रन्थेऽस्मिन् न प्रादर्शि सर्वेषां बोधप्रकारः । लक्षणवाक्यानां तु उत्तरपरिष्कारानुकूल्यार्थं शाब्दबोधोऽवर्णि । यथा - गन्धनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वं निवेशनीयम् इत्युक्ते, कुत्रास्ति आधेयता ? इति जिज्ञासा स्यात् । अतो गन्धवती इत्यादिपदानां विशिष्य बोध आवश्यकः । तदर्थं लक्षणवाक्यानां शाब्दबोधोऽवर्णि ॥

एवं पदार्थानां तत्तद्धर्ममूलकसम्बन्धानभिधाने व्यवहारः साङ्कर्यमयः स्यात् । ‘दशरथस्य पुत्रो रामः, लवस्य तु पिता’ इति व्यवहारे रामे पुत्रत्वं पितृत्वं च निरूपकभेदाद्वक्तव्यं चेत्, पुत्रत्वपितृत्वधर्मभेदेनैव वक्तव्यम् । तथैव सीता रामस्य पत्नी, ऊर्मिलायास्सहोदरी । सीतायां पत्नीत्वं सहोदरीत्वं चेत्युभयं निरूपकभेदान्मिलितं भवति । निरूपकभेदाभावे साङ्कर्यं स्पष्टम् ॥

‘भूतले संयोगेन घटोऽस्ति’ इति वाक्ये ‘संयोगेन’ इत्यस्यान्वयो वक्तव्यश्चेत्, नव्यतर्कदृष्ट्या पदार्थविश्लेषणे कृत एवान्वयबोधः सुगमः । घटनिष्ठाधेयतायां खलु ‘संयोगेन’ इत्युक्तं संयोगसम्बन्धावच्छिन्नत्वमन्वेति । एवमन्वये सत्येव लक्षणपरिष्कारादिकं कर्तुं शक्यम् ? एतत्परिचय एतद्ग्रन्थपठने सम्यक्स्यादिति भाव्यते ॥

अन्या च परिष्कारप्रक्रियायाम् ‘अनुगमपद्धतिः’ इति । एतत्सूचनापि मार्ग-दर्शनवत् श्रीमता गदाधरभट्टाचार्येणैवाकारि प्रामाण्यवादे – ‘एकस्मिन् धर्मिणि परस्परविरुद्धनानाधर्मप्रकारकज्ञानं संशयः’ इत्युक्तसंशय- लक्षणस्य ‘विषयताविशिष्टविषयिताशालिज्ञानत्वं संशयत्वम् । वैशिष्ट्यं च स्वावच्छिन्नप्रतिवध्यतानिरूपितप्रतिवन्धकतावच्छेदकत्वस्व- सामानाधिकरण्योभयसंवन्धेन’ इति । अनन्तरकाले विवेचन्यां प्रकारतया- प्यनुगमनप्रक्रिया प्रत्यपादि । परन्त्वेतादृशविषयाणां कालो गत एवेति

प्रस्तावना

Xvi

प्रतिभात्यद्य । केवलं शब्दवर्धनप्रक्रियेयं प्रमेयज्ञानं नाशयेत् । अतो दर्शनप्रक्रियैवात्यन्तं फलाय भवेदस्मिन् काले । केवलमिदं दिग्दर्शनमात्रम् ॥

लेशतो वा नवीनतर्कसरणिः परिचिता भवत्वित्यालोच्य लक्षण- परिष्कारा मार्गदर्शनाय वायुलक्षणादौ विशिष्य प्रपञ्चिताः । प्रमेयस्वरूपज्ञानं निष्कृष्टं यदि भवेत्, तर्हि तदनुगुणशब्दयोजनाक्रमोऽपि यदि ज्ञायेत, प्रतिभापि स्याच्चेत्, नवीनतर्कशास्त्रं स्वाधीनमेव । आरम्भकाल एतावदेव पर्याप्तमिति भाव्यते ॥

इदमत्रावधेयम् – चतुर्दशविद्यास्थानेषु न्यायविस्तरपदवाच्यमिदं न्यायशास्त्रम् तर्कशास्त्रं वेदानामुपाङ्गभूतं मन्यन्ते महर्षयः । न्यायश्च वाक्यानुबन्धी मीमांसापदेनाभिधीयते, अर्थानुबन्धी न्यायविस्तरपदेनोच्यते । ‘न्यायविस्तरः ’ इति विस्तरपदयोजनया ज्ञायतेऽत्रास्त्यवकाशो शब्दविस्तरणस्य इति । अर्थस्य तु विस्तारः, शव्दस्य तु विस्तर इति ‘प्रथने वावशव्दे’ (पा.सू. ३-३-३३) इति पाणिन्यनुशिष्टम् । निरूप्यनिरूपकभावः धर्मधर्मिभावः, अवच्छेद्यावच्छेदकभाव इति शब्दस्य विस्तरोऽनन्त एव ॥

‘गन्धवती पृथिवी’ इति पृथिव्या लक्षणबोधकवाक्यम् । गन्धनिष्ठाधेयता- निरूपिताधिकरणत्वं पृथिव्या लक्षणम् । गन्धस्य गुणत्वात् ‘गुणवान्’ इति प्रतीतिमादाय जलादावतिव्याप्तिवारणायाधेयतायां गन्धत्वावच्छिन्नत्वं निवेश्यते । गन्धस्य पृथिव्याश्चाधाराधेयभावः । इदानीं तेन सह गन्धत्वस्य गन्धस्य चाधाराधेयभावः, समवायेन गन्धत्वस्य गन्ध एव आश्रयत्वात् । तावन्मात्रं न गन्धत्वगन्धनिष्ठाधेयत्वयोरवच्छेद्यावच्छेदकभावः । एवं तदुपर्यपि गन्धत्वनिष्ठावच्छेदकता आधेयत्वनिष्ठावच्छेद्यता, तयोर्निरूप्यनिरूपकभावः । तथा च ‘गन्धत्वावच्छिन्ना आधेयता’ इत्यस्य गन्धत्वनिष्ठावच्छेदकता- निरूपितावच्छिन्नत्ववती आधेयता इत्यर्थः । एवं निरूप्यनिरूपकभावो नाम निरूप्यता, निरूपकता च । तयोरपि ‘निरूप्यतानिरूपितनिरूपकतावती’ इति वक्तव्यम् । सर्वमिदं नातिरिक्तः पदार्थः ॥

[[2]]

xvii

प्रस्तावना

इतोऽपि बहु बहु वक्तुं शक्यम् । पदार्थमन्तरापि शब्दवर्धने शब्दारण्य- निलीनैस्सर्वैरपि भ्रमितव्यमेव । अतः केवलशब्दवर्धनं नूनं प्रमेयनाशाय कुतो न भवेत् ? इदं च नवीनतर्कशास्त्राभिवृद्धिक्रमं पश्यतां सुगमम् । परन्त्विदं सर्वं कुत्र पर्यवसन्नम् ? इत्यपि यथा वक्तुं न शक्यते, तथा केवलशव्दविस्तरः नूनमस्मत्संस्कृतेराघातको जातोऽद्येति न कोऽपि चिन्तयतीत्येवात्याश्चर्यम् । सर्वमपि शास्त्रं नवीनतर्कमयं जातम् । अस्ति तु नवीनतर्कप्रक्रियायामुपपादनप्रक्रियाऽसाधारणी । तदभ्यासक्रमस्यात्रोक्तमेव पर्याप्तं मार्गदर्शनमिति वयं भावयामः । अन्यथा हि इदं सर्वं हैतुकत्वापवादाधायकं कुतो न स्यात् ? ’ अधीत्य गौतमी विद्यां सार्गाली योनिमाप्नुयात्’ इति वचनविषयः कुतो न भवेत् ? इति प्रगाढं चिन्तनीयम् ॥

[[1]]

..

नवीनतर्कशास्त्रावतरणचरित्राध्ययने अयमंशः स्पष्टं ज्ञायेत । तत्काले हि पण्डितप्रकाण्डानामादर्शभूत आसीत् श्रीहर्ष इति तदीयेन ‘ताम्वूलद्वयमासनं च लभते यः कान्यकुब्जेश्वरात्’ इति वचनेन सुस्पष्टं ज्ञायते । यद्यपि स एवाह - ‘यस्साक्षात्कुरुते समाधिषु परब्रह्मप्रमोदार्णवम्’ इत्यपि । परं तु स एवान्यत्राह - ‘तच्चिन्तामणिम- न्त्रचिन्तनफले…. इत्यपीति न विस्मर्तव्यम् । चिन्तामणिमन्त्रश्च बौद्धतन्त्र- सम्बन्धी । एतन्मूलकब्रह्मदर्शनरहस्यम्, ‘जन्मौषधिमन्त्रतपस्समाधिजा- स्सिद्धयः’ (पा.यो.सू. ४- १) इति योगसूत्रं पश्यताम्, खण्डनखण्डखाद्यं, श्रीहर्षचरितं च विमृशतां सुविशदं ज्ञायेत । तत्कालिका एव गङ्गेशोपा- ध्यायभट्टवादीन्द्रादय इत्यप्यवधेयम् । विद्यारण्यः श्रीहर्षं श्रीशङ्करपराजितं वर्णयतीत्यादिकमत्रावधेयम् । आहत्य राजसभासु परस्परजिगीषाकु- तूहलमग्नैः पण्डितैस्संवर्धितेयं नवीनतर्कप्रक्रियेति विमर्शकैः स्पष्टं ज्ञायेत । एवं जयपराजयादिपरायणाः पण्डिताः नूतनप्रक्रिया- न्वेषणव्यसनिनोऽभूवन् तदेत्यपि तत्कालिकस्य गङ्गेशोपाध्यायस्य तत्त्वचिन्तामणिग्रन्थादिभिः ज्ञायते ॥

प्रस्तावना

xvili

अत एव न्यायवैशेषिकदर्शनयोः साङ्कर्यम्, षोडशपदार्थ- सप्तपदार्थवादादिकं सर्वमेतत्कालिकं नवीनप्रस्थानप्रदर्शनकुतूहलफलम्। अनुगमपरिपाटीवर्धनचरितमस्माभिः साक्षादेव वृद्धानां मुखात् श्रुतम् । सर्वमिदं परस्य मोहमापाद्य सभासु जयप्राप्त्यर्थमेव । पारमार्थिकजीवनस्य सर्वमिदं छलरूपम्, कुठारप्रायम् । प्रमेयनिश्चयाय न लेशतोऽपि सहा- योऽनेन । प्रत्युत अनया प्रक्रियया प्रमेयपरिचयाघातः कथमभूत्, परस्पर- खण्डनपरायणतादि च कथमवर्धत तदेत्यादिकमपि नवीनतर्कशास्त्रचरिताध्ययनेन ज्ञायते । एतद्रहस्यं बहुभिर्न ज्ञातुं शक्यम् । परन्तु सर्वमेवेदं सत्यमित्यत्र व्युत्पत्तिवादव्याख्यात्रा बच्चा झा शर्मणा कृता भगवद्गीताटीका साक्षीभवति । प्रत्येकमेवेदं सत्यं विमर्शनीयमितीदानीं विरमामः ॥

फलतस्तु प्रमेयज्ञानमन्तरा केवलम् एवं निष्प्रयोजन- शव्दविस्तरणम्, तन्मूलकजयपराजयपरायणता चास्मत्संस्कृतेः क्षयहेतुषु मूलभूतं कारणमिति प्रतिभाति । एतद्दृष्ट्या तु प्राचीनन्यायप्रक्रियैवात्यन्तं गुणकरी इत्यप्यालोचनाय काल आगत इति मन्यामहे । तर्हि प्राचीनन्याये महर्षिणैव छलजातिजल्पवितण्डादीनां कथमुपदेशः कृतः ? इति चेत्, एतेषां तत्त्वनिर्णयप्रयोजकत्वाभावः, कदा केन कथं प्रयोज्यानीत्यादिकमपि तैरेवोच्यत इत्याद्यप्रसक्तमत्र विस्तर- भयात् । परन्त्वद्य तु नास्ति तादृशः कालः सर्वस्यापि क्षयात् । अथापि वासनाया हठात् त्यक्तुमशक्यत्वात्, नवीनसरणावपि निरूप्यनिरूपकभावपरिचयरूपस्य प्रयोजनलेशस्य सत्वाच्च मार्गदर्शनं किञ्चिद्वाऽनेन भवेच्चेदस्माकं श्रमस्सार्थकः स्यादिति शम् -

व्याख्याता

प्राक्कथन

भारतीय संस्कृति की विशेषता यही है कि वह भौतिक साधन मेंही विश्रान्ति न लेकर अतिसूक्ष्म और अतिगहन अध्यात्मतत्त्व पर विश्वास करती है । इसका मूल है वैदिकवाङ्मय और उसके पोषण के लिए हैं – वेदाङ्ग, उपाङ्ग, आदि ॥

पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः ।

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥

यहाँ पर महर्षियाज्ञवल्क्य ने इन चौदह शास्त्रों को विद्याओं के साथ-साथ धर्म का भी स्थान (आधार) बताते हुए विज्ञान (विद्या) के साथ ही ज्ञान (धर्म) का मूल भी इन्हीं को बताया । इसीको स्पष्ट करते हुए महर्षि कणाद ने भी यतोऽभ्युदयनिः श्रेयससिद्धिः स धर्मः (वै.सू. - १-१-२) ( जिससे लौकिक अभ्युदय (उत्कर्ष) और अलौकिक (मोक्ष) सिद्ध होता है, वही धर्म है ऐसा कहा है ॥ वेद के उपाङ्ग के रूप मे परिगणित तर्कशास्त्र से वेदानुयायी, तर्कप्रधान न्याय और वैशैषिक दर्शन को ही लिया गया है । इनमें न्यायदर्शन प्रमाणप्रधान और वैशेषिकदर्शन प्रमेयप्रधान है । प्रमाण के विना प्रमेय का यर्थाथस्वरूप नहीं जान सकते और प्रमेयों (विषयों) के विना प्रमाण भी अधूरें ही रह जाते हैं । इस प्रकार ये दोनों दर्शन परस्पर सापेक्ष होकर एक दूसरे के पूरक होते हैं । इसीलिए इन दोनों को समानतन्त्र माना जाता है । फिर भी इन्होन्ने अपनी-अपनी मौलिक विशेषता को कभी नहीं खोया, अतः आज भीये दोनों दर्शन, दार्शनिक जगत में स्वतन्त्र दर्शन के रूप में ही प्रसिद्ध हैं ॥ प्रदीपः सर्वविद्यानाम् और काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् आदि वचनों से ज्ञात होता है कि न्याय और

J

प्राक्कथन

XX

वैशेषिक दर्शन सभी शास्त्रों के तत्त्व जिज्ञासुओं लिए बहुत ही उपकारक हैं। इनदोनों दर्शनों के सूत्र, भाष्य, वार्तिक आदि अतिगहन और विस्तृत ग्रन्थ उत्तर काल में दुर्ज्ञेय होने लगे । अतः इनको सरल और सुगम बनाने के लिए किसी सङ्ग्रह और सुबोध ग्रन्थ की आवश्यकता थी । जिसको ध्यान में रखकर दशमी शताब्दी में महातार्किक और तत्त्ववेत्ता श्री उदयनाचार्यजी ने लक्षणावली ग्रन्थ के रूप में बीजारोपण किया । कालान्तर में

उसीके आधार पर कई विद्वानों अपनी-अपनी लेखनी चलायी । जो आज तर्कभाषा, तर्कसङ्ग्रह, तर्कामृतम्, न्यायसिद्धान्तमुक्तावली आदि ग्रन्थों के रूप में प्रसिद्ध हैं । पर उनमें भी अन्नम्भट्ट विरचित तर्कसङ्ग्रह प्रारम्भिक जिज्ञासुओं के लिये सबसे अधिक उपयुक्त सिद्ध हुआ है । क्योङ्कि — इस लघुग्रन्थ में

। ग्रन्थकर्ता ने उक्त दोनों दर्शनों के सभी मुख्य विषयों को सरल - सुबोध ढङ्ग से समावेश करके गागर में सागर भरने का कार्य किया है । इसीलिए इस छोटे से ग्रन्थ के अनेक भाषाओं में सैकडों व्याख्यायें हो चुकी हैं और आज भी हो रहीं हैं ॥

यद्यपि सभी व्याख्याओं की अपनी अपनी विशेषता होती है, फिर भी हमारे पूज्य आचार्य श्री के. एस्. वरदाचार्यजी के द्वारा विरचित इस आलोक व्याख्या उन सभी व्याख्याओं से अलग है, यह ग्रन्थाध्ययन करने वालों को स्वतः ही मालूम होगा। आचार्यजी का सम्पूर्ण जीवन दर्शनों के सभी गहन विषयों के शोधनकरने में ही व्यतीत हुआ है, जिससे उन्होन्ने अतिदुरूह विषयों को भी इदमित्थम् रूपसे निर्णय किया है । प्रायः ऐसा ज्ञान और विज्ञान का सम्मिश्रण बहुत ही दुर्लभ है । सभी शास्त्रों के मूलपुरुष ( महापुरुष ) को छोड़कर केवल बुद्धिजीवी पण्डितों के द्वारा दर्शनों के मर्यादा- अतिक्रमण से जो दर्शन शास्त्रों में साङ्कर्य आया है, जिससे तटस्थ मतिवाले जज्ञासुओं के लिए इनका यथार्थस्वरूप जानना कठिन सा हुआ है।

xxi

प्राक्कथन

मूलपुरुष के द्वारा देश-काल- अधिकारीयों शास्त्रों की मर्यादा सर्वप्रथम निर्धारित करना

अतः इसके लिए तत्तत् शास्त्र के के भेद से लिखे हुए उन अत्यावश्यक है । जिससे हमें

विषयों के यथार्थस्वरूप ज्ञात होङ्गे। जैसे

I

न्याय-वैशेषिक शास्त्र बाह्य स्थूल पदार्थों के ही विवेचन के लिए है, अतः इसकी मर्यादा को यहीं तक निर्धारित करना चाहिये । इसलिए वेदान्तशास्त्र से प्रतिपाद्य आन्तर विषयों (अध्यात्मतत्त्व) के लिए न्याय- वैशेषिक दर्शन को नहीं लाना चाहिये। ऐसे अनेकों विषयों का प्रकाश पूज्य श्री आचार्य जी ने किया है । ये सब, उनके द्वारा प्रतिपादित विषयों को विना पूर्वाग्रह के अध्ययन करने से अवश्य ही जान सकते हैं । लौकिक दृष्टि से ऊपर उठ कर जो केवल आध्यात्मिक दृष्टि से प्रमेयशोधन करते हैं, उनके द्वारा किया हुआ सत्यान्वेषण मानवमात्र के हितार्थ होता है । इसी कारण आचार्यजी द्वारा संशोधित विषयों को सत्यान्वेषण नाम दिया गया है । यद्यपि इनके द्वारा रचित सभी ग्रन्थ इसी नाम को सार्थककरते हैं, फिर भी तत्काल में तत्त्वमुक्ताकलाप नामक प्रसिद्ध दार्शनिक ग्रन्थ के उपर सर्वाङ्कषा व्याख्या के माध्यम से किया हुआ सत्यान्वेषण, सत्यान्वेषीयों के द्वारा विशेषतः द्रष्टव्य है और अतिशीघ्र प्रकटित होने वाला सत्यसिद्धि नामक स्वतन्त्र दार्शनिक ग्रन्थ भी नीरक्षीर विवेकी सत्यान्वेषकों के लिए वरदान सावित होगा, ऐसा हमें विश्वास है ॥

इसी प्रकार प्रस्तुत तर्कसङ्ग्रह के आलोक व्याख्या में भी सङ्क्षिप्त में सरल और सुबोध ढङ्ग से अनेक विषयों को निर्धारित किया है। जिसके अध्ययन से बुद्धि को प्रामाणिक रूप से सुविचारशील बनाकर अतिगहन अध्यात्म की ओर प्रेरित किया जा सकता है । यद्यपि अध्यात्मतत्त्व बुद्धिक्षेत्र से अतीत है फिर भी अनुभवसाक्षिक सद्बुद्धि उस ओर बढने के लिए सहायक तो अवश्य ही बन सकती है। अनुभव विरूद्ध केवल उच्छृङ्खल शुष्कतर्क से तो कोई भी विषय निर्धारित नहीं हो सकता ॥

प्राक्कथन

xxii

पदार्थधर्मो को तत्तत्सम्बन्ध के द्वारा ठीक ढङ्ग विश्लेषण करने से तत्तत्पदार्थों के यथार्थ स्वरूप को असङ्कीर्णरूप से जाना जा सकता है, इसके लिए ही नव्यन्याय उपादेय है । इन सब बातों को ध्यान में रखते हुए प्रारम्भिक शिक्षा के दृष्टि से बहुत लोगों के द्वारा प्रार्थना करने पर आचार्यजी ने यह व्याख्या लिखी । जो इससे पूर्व सन् २००१ में प्रकाशित हुई थी। ग्रन्थ की उत्कृष्टता इसी से पता चलता है कि प्रकाशित होते ही ग्रन्थ अतिशीघ्र समाप्त हो गये । अतः बहुत पहले से इसकी पुनर्मुद्रण के लिए लोग कह रह थे । परन्तु कुछ और न्याय दर्शन के महत्त्वपूर्ण विषयों को भी इसी प्रकार सरल - सुबोध ढङ्ग से समाविष्ट करने के लिए विद्वानों के द्वारा आग्रह होने से और अन्य प्राविधिक कारणों से भी पुनर्मुद्रण में बिलम्ब हुआ

•। फिर भी प्रतीक्षा का फल मीठा होता है इस उक्ति को चरितार्थ करते हुए इस पुनर्मुद्रण में न्यायवैशेषिक दर्शन के मङ्गलवाद, ईश्वरानुमान, परमाणुसिद्धि, अवयवातिरिक्त-अवयविसाधन, विभागजविभाग, कार्यकारणभावविचार, प्रामाण्यवाद, विध्यर्थवाद आदि महत्त्वपूर्ण सभी विषयों का सरलीकरण करते हुए समावेश किया है । जो प्रमेयशोधन करने वालों को अत्यन्त ही उपयुक्त होगा, ऐसा हमें विश्वास है । अन्त में ग्रन्थ को परिमार्जित कर पुनः प्रकाशन कराने में प्रत्यक्षाप्रत्यक्षरूप से सहयोग करने वाले सभी पूज्य जनों के प्रति कृतज्ञता प्रकट करते हुए और पूज्य श्री आचार्यजी के श्रीचरणों में वन्दन करते हुए, अपनी लेखनी को विश्राम देता हूँ ॥

५-११-२००७

मैसूर

आचार्यचरणचञ्चरीक

रघुनाथ शास्त्री

[[9]]

मूलम्

॥ तर्कसङ्ग्रहः ॥

*, निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥ द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः

तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेह- शब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः, ।

[[10]]

उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ।

परमपरं चेति द्विविधं सामान्यम् 10

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव 141

[[14]]

[[15]]

समवायस्त्वेक एव ।

[[27]]

[[9]]

अभावश्चतुर्विधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति 151 तत्र गन्धवती पृथिवी । सा द्विविधा नित्यानित्या चेति । नित्या परमाणुरूपा। अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणम् । तच्च नासाग्रवर्ति । विषयो मृत्पाषाणादिः, ।

[[37]]

शीतस्पर्शवत्य आपः

37 42

1 ताश्च द्विविधाः । नित्या अनित्याश्चेति । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधाः शरीरेन्द्रिय- विषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनम् । तच्च जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः 421

[[43]]

उष्णस्पर्शवत्तेजः । तद्विविधम् । नित्यमनित्यं चेति । नित्यं

‘अत्र विद्यमानास्सङ्ख्याः पुटसङ्ख्यासूचकाः ।

xxiv

[[1]]

परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधम् । शरीरेन्द्रियविषय- भेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः । तच्च कृष्णताराग्रवर्ति । विषयश्चतुर्विधः । भौमदिव्यौदर्याकरजभेदात् । तत्र भौमं वह्न्यादि । दिव्यमबिन्धनं

[[47]]

47 57

[[1]]

[[43]]

विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि ।

रूपरहितस्पर्शवान् वायुः 1 सद्विविधः । नित्योऽनित्यश्चेति । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः । शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् । तच्च सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुर्वायुः, शरीरान्तस्सञ्चारी वायुः प्राणश्च । स चैकोऽप्युपाधिभेदात् प्राणापानादिसञ्ज्ञां लभते ।

शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च

[[61]]

[[64]]

[[57]]

[[1]]

अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ज्ञानाधिकरणमात्मा । सद्विविधः । जीवात्मा परमात्मा चेति । तत्रेश्वरस्सर्वज्ञः परमात्मा एक एव । जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च

सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं

[[67]]

[[74]]

67 70

नित्यं च 74

चक्षुर्मात्रग्राह्यो गुणो रूपम् 7680

[[76]]

तच्च शुक्रनीलपीतरक्तहरितकपिशचित्र- भेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुकं जले । भास्वरशुकं तेजसि ।

रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव ।

[[83]]

[[80]]

घ्राणग्राह्यो गुणो गन्धः । स द्विविधः । सुरभिरसुरभिश्चेति । पृथिवीमात्र-

वृत्तिः 22 ।

[[85]]

[[83]]

त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः

। स त्रिविधः । शीतोष्णानुष्णा-

85 88

XXV

शीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ।

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यम् । अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ।

एकत्वादिव्यवहारहेतुः सङ्ख्या । नवद्रव्यवृत्तिः । एकत्वादिपरार्धपर्यन्ता।

88 92

एकत्वं नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेवा मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति । तच्चतुर्विधम् । अणु महद्दीर्घं ह्रस्वं चेति 921

[[96]]

[[98]]

[[102]]

[[98]]

[[96]]

पृथग्व्यहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति । संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ।

संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः 102/ परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तिनी। द्विविधे। दिक्कते कालकृते चेति । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् 108।

आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ।

[[108]]

[[112]]

[[114]]

[[112]]

आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिवीजलतेजोवृत्ति । तद् द्विविधम्। सांसिद्धिकं नैमित्तिकं चेति । सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ

[[116]]

[[119]]

चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः 16 ।

[[114]]

श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधः । ध्वन्यात्मको वर्णात्मकचेति । ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः 11,

[[121]]

सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः 121

संस्कारमात्रजन्यं ज्ञानं स्मृतिः ।

123 124

[[123]]

सा द्विविधा स्मृतिरनुभवश्चेति ।

तद्भिन्नं ज्ञानमनुभवः । स द्विविधः -

यथार्थोऽयथार्थचेति 124

[[125]]

xxvi

तद्वति तत्प्रकारकानुभवो यथार्थः । सैव प्रमेत्युच्यते । यथा रजते इदं रजतम् इति ज्ञानम् 125 ।

[[131]]

I

तदभाववति तत्प्रकारकानुभवोऽयथार्थः । सैवाप्रमेत्युच्यते । स एव भ्रम इत्युच्यते ।) यथा शुक्तौ इदं रजतम् इति ज्ञानम् 131

यथार्थानुभवश्चतुर्विधः । प्रत्यक्षानुमित्युपमितिशाब्दभेदात् 140 ।

[[140]]

[[141]]

तत्करणमपि चतुर्विधम्- प्रत्यक्षानुमानोपमानशब्दभेदात् । (व्यापारवत्)

(अनन्यथासिद्धत्वे सति) कार्यनियत-

असाधारणकारणं करणम्

करणम् 141’

पूर्ववृत्ति कारणम् 144’ 146

[[144]]

कार्यं प्रागभावप्रतियोगि

148 149

146’ 148 कारणं त्रिविधम् समवाय्यसमवायिनिमित्तभेदात् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम्। यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत्कारणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटगतरूपस्य च 1 तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य 151 । 152 तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ।

149 151

मङ्गळ ग

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्। तद्द्द्विविधम्- निर्विकल्पकं सविकल्पकं चेति । निष्प्रकारकं ज्ञानं निर्विकल्पकम्। सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति ।

प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः

[[1521]]

[[153]]

संयोगः,

संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षे संयुक्तसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपस्य समवा- यात् । रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतम् । तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दसाक्षात्कारे

xxvii

समवायः सन्निकर्षः । कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात् । शब्दस्याकाशगुणत्वात् गुणगुणिनोः समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः । श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, भूतलं घटाभाववत् इत्यत्र चक्षुः संयुक्तभूतले घटाभावस्य विशेषण-

त्वात् 153

[[1]]

एवं सन्निकर्षजन्यं ज्ञानं प्रत्यक्षम्, तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम्

[[154]]

[[157]]

[[154]]

इति तर्कसङ्ग्रहे प्रत्यक्षपरिच्छेदः समाप्तः ॥

अनुमितिकरणमनुमानम् 157 । 158

परामर्शजन्यं ज्ञानमनुमितिः ।

154 169

व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्निव्याप्यधूमवानयं पर्वतः’ इति ज्ञानं परामर्शः । तज्जन्यं ‘पर्वतो वह्निमान्’ इति ज्ञानमनुमितिः । यत्र धूमस्तत्राग्निरिति साहचर्यनियमो व्याप्तिः 154’ व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता । अनुमानं द्विविधम् । स्वार्थं परार्थं चेति । स्वार्थं स्वानुमितिहेतुः । तथा हि- स्वयमेव भूयोदर्शनेन यत्र धूमस्तत्राग्निरिति महानसादौ धूमे व्याप्तिं गृहीत्वा पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहानः, पर्वते धूमं पश्यन्, व्याप्तिं स्मरति ‘यत्र धूमस्तत्राग्निरिति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमान् इति अनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् 169।

यत्तु स्वयमेव धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुङ्क तत्परार्थानुमानम्। यथा पर्वतो वह्निमान् धूमवत्त्वात्, यो यो धूमवान् सोऽग्निमान् यथा महानसः, तथा चायम्, तस्मात्तथा इति । अनेन वाक्येन प्रतिपादिताल्लिङ्गात् परोऽप्यग्निं प्रतिपद्यते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वह्निमान् इति प्रतिज्ञा । धूमवत्त्वात् इति हेतुः । यो यो धूमवान्

ixxxviii

सोऽग्निमान् यथा महानस इत्युदाहरणम् । तथा चायं इत्युपनयः । तस्मात्तथेति

170 171

स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् ।

निगमनम् 170 । तस्माल्लिङ्गपरामर्शोऽनुमानम् 171 ।

[[173]]

लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमव- त्त्वम् । यत्र धूमस्तत्राग्निः यथा महानसः इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृदः इति व्यतिरेकव्याप्तिः । अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात् पटवत् इति । अत्र प्रमेयत्वाभि- धेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा पृथिवीतरेभ्यो भिद्यते गन्धव- त्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम् । न चेयं तथा । तस्मान्न तथेति 173 । 174 अत्र यद्गन्धवत्तदितरभिन्नम् इत्यन्वयदृष्टान्तो नास्ति पृथिवी- मात्रस्य पक्षत्वात् 174

[[175]]

[[176]]

सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः 17s

निश्चितसाध्यवान् सपक्षः । यथा तत्रैव महानसः । निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाह्रदः I

[[179]]

[[180]]

[[176]]

सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः

[[1791]]

… सव्यभिचारोऽनैकान्तिकः । स त्रिविधः - साधारणासाधारणानुपसंहारि- भेदात् । तत्र साध्याभाववद्वृत्तिः साधारणः । यथा पर्वतो वह्निमान् प्रमेयत्वात्। अत्र प्रमेयत्वस्य वह्न्यभाववति (साध्याभाववति) हृदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तोऽसाधारणः । यथा शब्दो नित्यः शब्दत्वात् । अत्र शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्यावृत्तं शब्दमात्रवृत्ति

[[180]]

। अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वात् । अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति । साध्याभावव्याप्तो हेतुर्विरुद्धः ।

181xxix

यथा शब्दो नित्यः कार्यत्वात् (कृतकत्वात्) घटवत् । (अत्र कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् । 181) 182 यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वात् शब्दोऽनित्यः कार्यत्वात् घटवत् 182। 183, असिद्धस्त्रिविधः - आश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति । आश्रयासिद्धो यथा - गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः । स च नास्त्येव

[[184]]

[[1831]]

स्वरूपासिद्धो यथा शब्दो गुणः चाक्षुषत्वात् । अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् । सोपाधिको हेतुर्व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापकत्वम् उपाधित्वम् । साध्यसमानाधिकरणात्यन्ताभावाप्रति- योगित्वं साध्यव्यापकत्वम् । साधवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्या- पकत्वम् । (यथा) पर्वतो धूमवान् वह्नेः इत्यत्र आर्द्रेन्धनसंयोग उपाधिः । यत्र धूमः तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता । यत्र वह्निः तत्रार्द्रेन्धनसंयोगो नास्ति, अयोगोलक आर्द्रेन्धनसंयोगाभावात् । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वा- सिद्धम् 184 186

यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वह्निरनुष्णः पदार्थत्वात् । अत्रानुष्णत्वं साध्यम्, तदभाव उष्णत्वं त्वाचप्रत्यक्षेण गृह्यत इति बोध्यम् । इति तर्कसङ्ग्रहे अनुमानपरिच्छेदः समाप्तः ॥

[[190]]

[[186]]

उपमितिकरणमुपमानम् । सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । तथा हि- कश्चिद्गवयशब्दार्थमजानन् कुतश्चिदारण्यकपुरुषात् गोसदृशो गवयः इति श्रुत्वा वनं गतो गोसदृशपिण्डं पश्यन् वाक्यार्थं स्मरति । तदनन्तरमयं गवयपदवाच्यः इत्युपमितिरुत्पद्यते । व्याख्यातमुप-

॥ इति तर्कसङ्ग्रहे उपमानपरिच्छेदः समाप्तः ।

मानम् 190

[[192]]

[[193]]

आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं तु पदसमूहः 192 । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्ङ्केतः शक्तिः 1931

193 200

XXX

200 201

आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः । पदस्य पदान्तरव्यतिरेक- प्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा । अर्थाबाधो योग्यता । पदाना- मविलम्बेनोच्चारणं सन्निधिः । आकाङ्क्षादिरहितं वाक्यं न प्रमाणम् । यथा गौरश्वः पुरुषो हस्ती इति वाक्यं न प्रमाणम्, आकाङ्क्षाविरहात् । अग्निना सिञ्चतीति वाक्यं न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात् । 202 वाक्यं द्विविधं वैदिकं लौकिकं चेति । वैदिकमीश्वरोक्तत्वात् सर्वमपि प्रमाणम् । लौकिकं त्वाप्तवाक्यं प्रमाणम्। अन्यदप्रमाणम् 2021 203 वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ॥ इति तर्कसङ्ग्रहे शब्दपरिच्छेदः समाप्तः ॥

[[205]]

[[203]]

[[205]]

[[201]]

एवं यथार्थानुभवो निरूपितः । अयथार्थानुभवस्त्रिविधः– संशयविपर्ययत- र्कभेदात् । एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यज्ञानं संशयः । यथा स्थाणुर्वा पुरुषो वा इति । 206 मिथ्याज्ञानं विपर्ययः । यथा शुक्ताविदं रजतम् इति । व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात् इति 1 स्मृतिरपि द्विविधा । यथार्थाऽयथार्था चेति । सर्वेषामनुकूलतया वेदनीयं सुखम् । प्रतिकूलतया वेदनीयं दुःखम् 215 16 इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः । विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्य- स्त्वधर्मः 216

206 208

प्रमाजन्या यथार्था । अप्रमाजन्या अयथार्था ।

[[218]]

208 215

बुद्ध्यादयोऽष्टावात्ममात्रगुणाः । बुद्धीच्छाप्रयत्ना नित्या अनित्याश्चा नित्या ईश्वरस्य । अनित्या जीवस्य । संस्कारस्त्रिविधः । वेगो भावना स्थितस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः ।

अनुभवजन्या स्मृतिहेतुर्भावना 218 । 219 आत्ममात्रवृत्तिः ।

अन्यथाकृतस्य (स्थितस्य) पुनस्तादवस्थ्यापादकः स्थितस्थापकः ।

कटादिपृथिवीमात्रवृत्तिः 210

[[220]]

I

xxxi

चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुः उत्क्षेपणम् । अधोदेश- संयोगहेतुरपक्षेपणम् । शरीरसन्निकृष्टसंयोगहेतुराकुञ्चनम्। विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् 2201

[[221]]

नित्यमेकमनेकानुगतं सामान्यं । परं सत्ता । अपरं द्रव्यत्वादि । नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः 221

[[223]]

FRER

नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्द्वयोर्मध्य एकमविनश्य- दवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ । यथा अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति 2231

[[225]]

[[226]]

[[225]]

अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य सादिरनन्तः प्रध्वंसाभावः । उत्पत्तेरनन्तरं कार्यस्य 1 त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोत्यन्ताभावः । यथा भूतले घटो तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकाभावोऽन्योन्याभावः ।

नास्ति इति

226 228

यथा घटः पटो न भवति इति 2281

[[229]]

सर्वेषामपि पदार्थानां यथायथम् उक्तेष्वेवान्तर्भावात् सप्तैव पदार्थाः

इति सिद्धम् 229

[[231]]

काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये ।

अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः

इति तर्कसङ्ग्रहः समाप्तः ॥

[[231]]

अनुक्रमणिका

[[11]]

Preface

निवेदनम्

प्रस्तावना

विषयसूचिका

प्राक्कथन

तर्कसङ्ग्रहमूलम्

आलोकव्याख्या- दिप्पणीभ्यां संवलितः तर्कसङ्ग्रहः

V

Vil

xix

xxii

1 - 232

टिप्पणीस्थविषयाः

मङ्गलवादः जातिबाधकसङ्ग्रहः

[[1]]

[[10]]

अभावविचारः

[[15]]

साधर्म्यवैधर्म्ये

[[18]]

पृथिवीत्वजातिः

[[33]]

परमाणुसाधनम्

[[34]]

अवयवातिरिक्तावयविसाधनम्

[[36]]

ईश्वरानुमानम्

[[70]]

संयोगविभागविशेषविचारः

[[104]]

अन्यथाख्यातिविचारः

[[137]]

अन्यथासिद्धिः

[[145]]

अलौकिकसन्निकर्षः

[[155]]

अव्याप्यवृत्तिसाध्यकहेतुविचारः

[[167]]

पक्षताविचारः

[[176]]

शक्तिग्राहकप्रमाणानि

[[193]]

शाब्दबोधविचारः

[[196]]

प्रामाण्यवादः

विध्यर्थः

[[209]]

[[216]]