Source: TW
॥ श्रीः ॥
श्रीमदन्नम्भट्टविरचितः
तर्कसङ्ग्रहः ॥
तस्य व्याख्या घ
सुखप्रवेशिनी ॥
तर्कार्णवेन शिरोमणिना ( उत्तमूर् )
ति. वीरराघचाचार्येण विरचिता
TE
श्रीतजा पुरसन्निकृष्टपञ्चनदस्थे श्रीनिवासमुद्रणालये
मूल्यम् ]
[[1934]]
[रू १-०-०
[[३६]]
०
भूमिका ॥
एकः – सखे सुन्दर ! क्षोदक्षमं सार्वभौमं ते पाण्डित्यमिति सन्तुष्यामि । अन्यः - किं भोः परिहासेन ? अधीतप्रायेऽपि तर्कशास्त्र सन्ति शास्त्रान्तराणि सामग्रयेणाधिगन्तव्यानि, येषु मे सम्प्रति खल्प एव परिचयः । एकः - प्रकरणग्रन्थाः परिचिताः । इतस्ते कस्तल श्रमः । अस्माकं पुनरघीतमप्यनधीततुल्यम् । KONE
अन्यः – कथमेवमेकपदे सर्वथा जाड्यमभिनयसि ।
एकः- नायमभिनयः; यदस्ति तदुच्यते । यदि पुनर्नाटकादिपठनमेव नः कृत्यमभविष्यत्, नूनमयं क्लेशो न व्यज्ञास्यत । अलङ्कारप्रन्थाः पुना रसगङ्गाधरप्रभृतयः परीक्षार्थे परिक्लतास्तर्कपद्धतिपरिष्कृता न बुद्धिमारोहन्ति ; न पठितुं शक्यन्ते । i ✔
परः – सत्यमाह मित्रम् । विनैव काव्यानुवचनं सदा शास्त्रग्रन्थानेवाssव
तैयतामपि प्रक्रियाभाग एव नः पाण्डित्यम् । मञ्जूषाभूषणसारादयस्तु तर्कसरणिमनुसरन्तः प्रायो दुरवगाहाः । का कथा व्युत्पत्तिवादविज्ञाने।
- ईदृशः श्रमो मीमांसाध्यायिनां न भवेदित्यालोचयामि ।
–वस्तुतस्तर्कशास्त्र कियानपि प्रवेशो नः प्रवेशपरीक्षासमय एवावश्यकः ।
अन्यथा मीमांसापठनेऽप्यार्हन्ती न गण्यते । एवमप्यादरेणापठनादल्पमत्र ज्ञानं न भाट्टदीपिकादौ तर्कविद्विरचिते धारणप्रवचनपर्यन्तावघानाय प्रभवति । न तरां भाट्टरहस्खे ।
अन्यः - (इतरमवलोक्य) सखे ! किमेवमवनतमुखो जोषमासीनो ध्यानपर इव लक्ष्यसे ।
इतरः- किं ब्रह्म ध्यायामि । सुहृन्मणयो हृदयमुद्धाट्य शोचन्ति । अहं
पुनरन्तर्विषण्णोऽस्मि । किं मे वक्तव्यमस्ति । एकतो मीमांसान्यायमेदु4
रेषु यत्र क्वचिद्व्याकरणस्पर्शिषु विशेषतस्तर्कनिकर परिबृह्मितेषु सिद्धिब्रह्मानन्दीयशतदूषणीन्यायसिद्धाञ्जनादिषु कथं नामानधीततर्कः पिपठिषामप्यधिगन्तुम लम् ।
अन्यः किमेवं सर्वेऽप्येकमुख भाषन्ते । सुहृन्मणयः ! यावद्यावत्तर्कशास्त्रग्रन्थे
परिज्ञानम्, तावत्ताबच्छास्त्रान्तरेषु सर्वत्र शोधनक्षमं शेमुषीप्रसरणमिति सत्यम् । अथापि मुक्तावलीपर्यन्तप्रकरणग्रन्थः प्रवेशतः प्रागेवाध्याप्यत इति कथं नु व एताबानायासः ?
इतरः - अध्याप्यते । अथापि सुखप्रवेशस्तव नेति तदात्वे बुद्धेः परिश्रमं दातुमनिच्छन्तः उपेक्षितवन्तः स्मः । तदिदं साम्प्रतं क्लेशे पर्यवसितम् ।
परः - तावान्परिश्रमस्तदैव चेत् क्रियते, किमिति तर्ककक्ष्याप्रवेशं परित्यक्ष्यामः । अधीते हि तर्के पश्चादश्रमेण सर्वमध्येतुं शक्यम् ।
अपरः-सत्यम् । अयमत्र क्लेशः । तर्कसङ्ग्रहो हि प्रथममधीयते । स चेत् केवलं प्रतिपदार्थमा त्रग्रहणेनाधीयते, नोपरि ग्रन्थेषु सुलभः प्रवेशः । अत एव शाब्दबोधपद्धतिमपि तत्राध्यापकाः प्रदर्शयन्ति । यदि तया पद्धत्याऽचीयते, तत्र न सकृच्छ्रवणमात्रेण सर्वं बुद्ध्यत इति चिन्तनाs पेक्षिता । तत्राध्यापके नोच्यमानमन्यादृशम् । चिन्तनागुरुसर णिरन्याहशी । पुनः प्रश्न पुनरध्यापको बुद्धिबलेनान्यथा वक्ति । तत्र न किञ्चित् प्रतिष्ठितं भवति । एवमशक्त्या तदा विरतोद्योगाः ,
VI
VII
पश्चाद्दीपिकामुक्कावल्यादिषु कथं पदमर्हन्ति :
अन्यः – सह व्याख्यामेन सङ्ग्रह आवर्तनीयः । -
इतरः - सन्ति परं व्याख्याः । बोधप्रकारः कुलापि न सम्यगदर्शि । पट्टाभि
रामादयस्तु कचिद्वहु बदन्ति । अन्यत्र जोषं गच्छन्ति । अपरत्न स्खलन्ति । न वा सम्पूर्ण बोधवर्णन व्याख्यान किञ्चिदस्तीति शृणुमः । एक - श्रुतं मया साम्प्रतमेकं व्याख्यानं सुखप्रवेशिनी नाम प्रचारोन्मुखं, यत्रापेक्षितोंशः प्रायः सर्व समस्तीति । अपि दृष्टं सुन्दर ! अन्यः – इदमे वाहमप्यावेदयितु प्रवृत्तः । प्रायेण हि प्रौढग्रन्थकारः सर्व
मपि शास्त्र तर्कशास्त्रीकृतम् । तदस्याः सुखप्रवेशिन्याः सावधानमध्ययने सर्वत्रापेक्षिते सुखः प्रवेशो भवति । तन्मुखेनोत्साहेनाघीतान्यप्रकरणग्रन्थानां मीमांसावेदान्तसाहित्यव्याकरणादिषु तत्र तल सुखः प्रवेशः । तदिदं व्याख्यानं सुहृद्भिरादरेण ग्राह्यम् । अवश्यं च प्रचारं प्रापणीयम् ।
सर्वे- अहो ! भाग्यम् ! महान् लाभः ! तथैव कारण्यामः । सर्वमतः सम्पत्स्यते ।
शोधनिका ॥
[[१]]
पङ्क्तिः
पुट पङ्क्ति
१० एताः सकला ८ प्रवृत्तः आदौ
&
१९ शब्दार्थस्यामे
[[७१]]
[[९]]
१८ विभागवाक्य
[[७२]]
[[१२]]
२४ तात्मत्वरूप
[[5]]
[[७६]]
७ गन्धोऽस्या अ
१६ प्रतियोगिनि चा
[[१८]]
१८ तावदिति ।
२३ च्छीतजल
[[७९]]
[[८०]]
२१ यार्थ आश्र
[[८१]]
[[२१]]
१७ सर्वेषु अपि श
[[२४]]
[[२६]]
१८ कालवृत्तीत्यर्थः
[[८२]]
[[८४]]
१७ कारे जीवपदेनै
३२ १९ सुख
[[८५]]
[[८८]]
[[३०]]
३९ २० २१ वभिन्नसङ्ख्या
११ विशिष्टमुद्दिश्य
[[५३]]
[[५६]]
७ कारणेऽव्याप्ति
[[९८]]
[[५९]]
८ निष्ठसम्बन्धः
२१ शब्दस्य सं
[[१०२]]
३ कुञ्चनम्
१२ नाशेत्या दिर्ग्य
[[६०]]
२२ तविषायताव
२४ निष्ठश्रोत्र
१८ कं च महानसाद्यवच्छि
२२ विशिष्टमित्य
१२ करणम्
८ सतिसप्तमी २३ यञ्च न मिथो
१ महानसम्
६ यत्प्रकारवि
८ विशेष्यता
१० व्याप्यत्वान्य
२४ निरूपण
६ नुमानापमानात
४ क्तप्रत्ययेन
११ निर्धारणम्
३ तने पद
३ वैशिष्ट्यज्ञानं
२४ स्मृतिरित्यादिना
५ सामान्यम्
८ प्रतियोगिनो या
१ श्यित्वं प्रयोजकत्वरूपं चतुर्थ्यर्थी
[नं वा य
१
॥ श्रीः ॥
तर्कसङ्ग्रहः ॥
सुखप्रवेशिनीसमेतः
-946
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥
सुखप्रवेशिनी ॥
श्रीशैलकृष्णमेघाय श्रितसर्वेष्टवर्षिण । अनवधाय कस्मैचिदस्मै श्रीनिधये नमः ॥ १ ॥
नमो लक्ष्मीहयास्याय शुद्धाय ब्रह्मरक्षिणे । कलाघिदेवता एता सकला यत्कलाश्रिताः ॥ २ ॥
सन्त्येव सङ्ग्रहव्याख्या बयः सङ्क्षिप्त विस्तृताः । सुखप्रवेशिनी सेयमुपकाराय भूयसे ।॥ ३ ॥
लक्षणादिपरिष्कारा लक्षिता दीपिकादिभिः । अतोडला वश्य विज्ञेयमादौ सङ्गृह्य दर्श्यते ॥ ४ ॥
प्रौढग्रन्थेष्वनायास प्रवेशाऽऽघित्सया पुनः । प्रायशोऽल विपश्चिद्भिर्योधवादः प्रशस्यते ॥ ५ ॥
प्राज्ञानां बुद्धिवैचित्र्याद्भिन्ना बोघोक्तिपद्धतिः । वैयाकुलीं विसृज्यादौ बालैराद्रियतामियम् ॥ ६ ॥
तर्कसङ्ग्रहः ।
यदि क्वचन यत्किञ्चिदन्यथेतीह भाव्यते । क्रमेण शोध्यतां नाम को न गच्छन् स्खलत्पदः ॥ ७ ॥
प्रारम्भे सङ्ग्रहः पाठ्यो बालैः प्रायेण काव्यवत् । अथेयं टिप्पणी घार्या सुधीभिरनसूयुभिः ॥ ८ ॥
तत्रभवानन्नं भट्टस्तर्कशास्त्रप्रमेयं न्यायवैशेषिकनिष्णात निपुणमतिनिधारितं निरूपयितुं प्रवृत्तो यथाचारं मङ्गलमारचयन् चिकीर्षितं प्रतिजानीते निधायेति । प्रेक्षावत्प्रवृत्त्युपयोग्यनुबन्धिचतुष्टयमुत्तरार्धे दर्शितम् । बालानामित्यधिकारी । सुखबोधायेति प्रयोजनम् । तर्केति विषयः । सङ्ग्रह इति प्रतिपाद्यप्रतिपादकभावः सम्बन्ध इति । 1
अथ शाब्दबोधप्रक्रियावगम सौकर्यायायमत्यल्प उपोद्धातः क्रियते । १. एकैकस्मिन्नपि पदे प्रकृतिप्रत्ययविभागनाप्यर्थो विवेचनीयः । २. तत्र प्रत्ययस्य सोऽर्थो वक्तव्यः, योऽर्थ उत्तरत्राश्रयतासम्बन्धेनान्वियात्, यस्मिश्चार्थे प्रकृत्यर्थः प्रायो निरूपितत्वसम्बन्धेन । यथा भूतले घट इत्यत्राघेयत्वं सप्तम्यर्थ इत्येवम् । ३. तथा समस्तपदेषु विगृह्यार्थी विवेक्तव्याः । तत्र विग्रहार्था बुद्धिवैशद्यमानोपयोगिनस्तत्पुरुषादौ । लक्षणया प्रतिपाद्यमानः समासार्थ एव शाब्दबोधाकारे प्रविष्टः । यत्र तु समासे न लक्षणा, तत्र विग्रहार्थसमासार्थयोर्न वैलक्षण्यम् । तत्र तत्पुरुषे प्रायः पूर्वपदे लक्षणा । बहुव्रीहौ च पूर्वपदं तात्पर्यग्राहकम् उत्तरपदे लक्षणा । लक्ष्यश्चार्थस्तत्पुरुषे, पूर्वपदस्य विग्रहे प्रत्ययान्तस्य योऽर्थस्तदाश्रयपर्यन्तः । यथा राजपुरुष इत्यत्र राजपदस्य राज्ञः पुरुष इति विग्रहात् राजस्वत्वाश्रयपर्यन्तो लक्ष्यः । तस्याभेदसम्बन्धेन पुरुषेऽन्वयः । बहुव्रीहौ च समस्तपदस्य यत्पदविशेषणत्वम्, तत्पदार्थेऽभेदान्वययोग्योऽर्थो लक्ष्यः । यथा पीताम्बरो हरिरित्यताम्बरपदस्य पीतरूपचदम्बर विशिष्टोऽर्थः । ४ तथा
[[२]]
सुखप्रवेशिनीसमेतः
समानाधिकरणप्रयोगे विशेषणविभक्तीनामभेद एवार्थः ; अथ वा निरर्थकत्वमेव । अभेदसम्बन्धेन विशेषणस्य विशेष्येऽन्वयः । ५. एवं सर्वत्र प्रथमान्तपदार्थस्यैव शाब्दबोधे मुख्य विशेष्यत्वम् । क्वचिदेव त्वन्यथा । ६. एवं बोधे सम्बन्धविधया भासमानानामपि बोघाकारलेखने प्रकारविधया प्रदशन व्युत्पादनसौकर्याय । ७. तथा आधेयता अधिकरणतेत्यादिराघेयाधिकरणादिनिष्ठो धर्मः । तत्राधेयताधिकरणतयोः, प्रतियोगितानुयोगितयोः, विशेष्यताप्रकारतयोः, विशेष्यतासंसर्गतयोः, संसर्गताप्रकारतयोः, प्रकारताप्रकारितयोः, विशेष्यताविशेण्यितयोः, संसर्गतासंसर्गितयोः, विषयताविषयितयोः, अवच्छेदकताऽवच्छिन्न तयोरेवञ्जातीययोमिथः सापेक्षधर्मयोर्निरूप्यनिरूपकभावः । आधेयतानिरूपिताऽधिकरणता, अधिकरणतानिरूपिता आघेयतेत्येवम् । विशेष्यिताप्रकारितयोः प्रकारितासंसर्गित योरेवांविषयोर्धर्मयोर्मिथोऽवच्छेधावच्छेदकभावः । विशेष्यित्वावच्छिन्ना प्रकारिता, प्रकारित्वावच्छिन्ना विशेष्यितेत्येवम् । तत्र घर्मयोरेकनिष्ठत्वेऽवच्छेद्यावच्छेदकभिन्ननिष्ठत्वे च निरूप्यनिरूपकभावः । विशेष्यित्वं हि ज्ञाननिष्ठं, प्रकारित्वादिकमपि । आधेयन्त्वन्यत् अधिकरणं चतरदिति । एवं यथाऽऽघेयतानिरूपिताधिकरणता भवति, तथाऽऽघेयनिरूपिताऽपि । आधेयं चाधिकरणतां प्रति निरूपकम् । एवमधिकरणनिरूपिताऽऽधेयता, आधेयतानिरूपकमधिकरणम् । एवमन्यत । अत्र न परस्परनिरूप्यनिरूपकभावः । अपि त्वाधेयत्वादिधर्मस्य निरूपितत्वम् । अधिकरणादिपदार्थस्य निरूपकत्वमेवेति ।८. एवमाधेयतादीनामुक्तघर्माणां तत्र तत्रावच्छेदकमपि किञ्चिद्भवति । यद्धर्म पुरस्कारेण वस्तुन्या घेयत्वादिकं गृह्येत, स धर्मस्तत्राधेयतादाववच्छेदकः । यथा घट ओघय इत्युक्तौ वटत्वपुरस्कारेण घट आषेयता गृह्यत इति घटत्वमोधयतावच्छेदकम् घटत्वेनावच्छिन्ना ऽऽधेय ते त्यादिकम व हितचितैस्तत्र तत्र विज्ञेयमिति ॥ भावः, J
[[३]]
तर्कसङ्ग्रहः ।
निधायेत्यादि । विश्वस्येश विश्वेशम् । ईशो नियन्ता नियमनाश्रयः । नियमनमिच्छाविशेषः । षठ्या विषयित्वमर्थः । तत्र वि श्वपदार्थस्य निरूपितत्वसम्बन्धेनान्वयः । अथ तस्याश्रयतासम्बन्धेन निय मने । तथा च विश्वनिरूपित विषयिताश्रय नियमनाश्रयमिति विग्रहार्थः । तत्पुरुषसमासत्वाच्चाल पूर्वपदस्य विश्वनिरूपितविषयितावदिति लक्षणया ऽर्थः ; विश्वविषयकामेति यावत् । तस्याभेदसम्बन्धेन नियमनेऽन्वयः। विश्वविषयका भिन्ननियमनाश्रय मिति विशिष्टार्थः । द्वितीयार्थो विशेष्यित्वं नि. वन्त । तस्य निपूर्वकघाङ्घातोराधेयत्वप्रकारकारोपोऽ र्थः । हृदीति सप्तम्यर्थो निरूपितत्वम् । हृत्पदार्थस्य हृदयस्य निरूपितत्वसम्बन्धेन निरूपितत्वेऽन्वयः । निरूपितत्वमपि हृदयमादायैव निरूपणीयम् । सप्तम्यर्थस्य घात्वर्थैकदेशे आधेयत्वे । तथा च विश्वेशनिरूपित विशेष्यित्वाश्रय, हृदयनिरूपितनिरूपितत्वाश्रयाधेयत्वप्रकारका रोपति विशिष्टार्थः । अथ वा हृदि निघाय मनसिकृत्य मनोजन्यबुद्धौ विषयीकृत्य । ज्ञानसामान्यस्य मनोजन्यत्वेऽपि हृदीत्यभिधानं विषयान्तरतो निरुद्धेन विशुद्धेन मनसोत्पाद्यत्वाभिप्रायेण । अत एव ग्रन्थकारेणैव दीपिकायां ‘तद्ध्यानपरो भूत्वे’ त्युक्तम् । तथा च हृच्छन्दो विषयान्तरासंवलितचिन्तनरूपज्ञान विशेषलाक्षणिकः । निधायेति घातो विषयीकरणं विषयतानुकूलव्यापारोऽर्थः । निरूपितत्वमेव सप्तम्यर्थः । अस्य विश्वेसमिति द्वितीयार्थान्धेयत्वस्य च विषयतायामन्वयः । तथा च विश्वेशनिरूपिताधेयताश्रय़,ज्ञानविशेषनिरूपितनिरूपितत्वाश्रय, विषयतानुकूलव्यापारेति विशिष्टार्थः । ल्यप उत्तरकालिकत्वमर्थः । धात्वर्थस्य तत्र निरूपितत्वसम्बन्धेनान्वयः । तस्य च क्रियत इति कृतावाश्रयतासम्बन्धेन । विधाय गुरुवन्दनम् । गुरेविन्दनम् गुरुरुस्खस्मादुत्कृष्ट इति ज्ञा
सुखप्रवेशिनोसमेतः ।
नानुकूलो व्यापारः । अतो वन्दनं स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलव्यापारः । गुरोरिति षठ्यर्थो विशेष्यित्वं वन्दनपटार्थेकदेशे ज्ञानेऽन्वेति । समासत्वात्तु गुरुपदं गुरुविशेष्य के लाक्षणिकम् । तस्याभेदेन ज्ञानऽन्वयः । ये त्वेतादृशस्थले एकदेशान्वयं न स्वीकुर्वन्ति, तैगीदाधरः पञ्चलक्षण्यादिअन्थः परिशीलनीयः । चन्दन मिति द्वितीयार्थो विषयित्वं विधायेति धात्वर्थेऽन्वेोते । विधानं कृतिः । ल्यवर्थादिकं पूर्ववत् ।
1 सुखबोधाय बालानाम् । बालाः प्रकृतज्ञानका मत्वेऽपि क्लेशासहिष्णवः । षष्ठ्यर्थः समवेतत्वम् ; बोघान्वयि । सुखेन बोधः सुखबोधः । तृतीयोते योगविभागाद्वा ‘कर्तृकरणे कृता बहुलम्’ इति बहुलग्रहणाद्वा समासः । यद्वा सुखसाहतो बोधः सुखबोधः । अथ वा सुखो बोधः सुखबोधः । सुखपदमक्लेशविशिष्टपरम् । वाला हि लेोके क्लेशसाध्य कार्ये न प्रवर्तेरन् । अतः प्रकृते बोधे क्लेशः पूर्व नापेक्षितः । अक्लेशे स्थित एव बोधः स्वयम्भवतीत्युच्यते सुखबोधेत्यनेन । बोधो ज्ञानम् । उद्देश्यित्वं चतुर्थ्यर्थः कृत्यन्वयि । क्रियत इत्यत्र यकः कर्मत्वं प्रकृते विषयत्वमर्थः । कृतेस्तत्रान्वयः । तस्य च तर्कसङ्ग्रहपदार्थे । कत्रीकाङ्क्षायां मयेत्याध्याहार्यम् । अयमस्मच्छब्दोऽन्नम्भट्टार्थकः । समवेतत्वं तृतीयार्थः कृयन्वयि । तर्कसङ्ग्रहपदस्य तर्क्यन्ते प्रतिपाद्यन्त इति तर्कः पदार्थातषां सङ्ग्रहः सङ्क्षेपेण कथनम् सङ्कुचितज्ञानजनक शब्दप्रयोगः । तथा च तर्कविषयकाभिन्नसङ्कुचितज्ञानजनक शब्दप्रयोग इति विशिष्टार्थः । तर्कपदस्य हि तर्कविषयके लक्षणा ; तस्य च ज्ञानेऽभेदेनान्वय इति । एवंरूपत्वादेवास्य ग्रन्थस्य तर्कसङ्ग्रह इति नाम । अत्र चेदं पदं ग्रन्थकृत्सङ्केतवशाद्योगरूढ्या विलक्षणानुपूर्वीकप्रकृतग्रन्थपरम् । - Dia
तथा चायमखण्डवाक्यार्थबोधः - विश्वविषयका भिन्ननियमनाश्रयनिBagaimana
तर्कसङ्ग्रहः ।
[[६]]
द्रव्यगुणकर्म सामान्य विशेषसमवायाभावाः सप्त पदार्थाः ।
रूपिताधेयताश्रय, ज्ञान विशेषनिरूपितनिरूपितत्वाश्रय, विषयत्वानुकूलव्यापार्रनिरूापैतोत्तरकालिकत्वाश्रय, गुरुविशेष्यकाभिन्न- स्वावधिकोत्कर्ष प्रकारकज्ञानानुकूलव्यापार निरूपितविषयित्वाश्रयकृतिनिरूपित सरकालिकत्वाश्रय, क्केशासहिष्णु (प्रकृतज्ञानकाम) निरूपितसमवेतत्वाश्रयाक्लेशविशिष्टाभिन्नज्ञाननिरूपितोद्देश्यित्वाश्रय, (अन्नम्भट्टनिरूपितसमवेतत्वाश्रय) कृतिनिरूपितविषयत्वाश्रयस्तर्कसङ्ग्रहग्रन्थ इति ।
एवं पदार्थानां सङ्ग्रह प्रवृत्ते आदौ तान् सप्तधा विभजते द्रव्येति । ननु ‘सामान्यवचनं पूर्व विशेषस्य ततः पर’ मिति न्यायात् पदार्थसामान्यलक्षणं प्रागभिघाय पश्चाद्विभागवचनमेव युक्तम् । न हि पशुखरूपमेवाजानतः कतिविधः पशुरिति जिज्ञासा सम्भवति । अतो विभागजिज्ञासाभावात् तद्वचनं न युक्तमिति चेत् सत्यम् तथाऽपि तर्कसङ्ग्रह इत्यत्र तर्कपदार्थ परिशीलनेन तर्क्यमाणत्वं प्रतिपाद्यमानत्वमित्येवरूपं वा तर्कसङ्ग्रहः क्रियत इति वाक्यश्रवणेन प्रकृतग्रन्थप्रतिपाद्यमानत्वरूपं वा सामान्य गृहीतमासीदिति विभागवचनं युक्तम् । यद्यप्युत्तरत्र द्रव्यादिविभागस्थले कथं सामान्यलक्षणमनभिघाय तद्वचनमिति शङ्कायामियं परिहारगमनिका न भविष्यति; तथाऽपि द्रव्यगुणकर्मेत्येवमातेन प्रयुक्त- त्वात् द्रव्यादिपदस्य प्रवृत्तिनिमित्तमितरव्यावृत्तं किमपि किमपि स्यादेवेत्येवं शिष्यस्य ज्ञानसम्भवात् तथाभूतसामान्यधर्मज्ञानमेव विभागवचने पर्याप्तम् । अन्यादृशलक्षणं तु यावत् लक्ष्येयताज्ञानं न भवति तावत् न शक्यं सम्यग्ज्ञातुमित्यभिप्रेत्य विभागारम्भ इति द्रष्टव्यम् । पदार्था इति । पदस्य अर्थः पदार्थः अर्थोऽभिघाविषयः शक्तिविषयः । विग्रहे पदस्येति षष्ठ्यर्थ आघेयत्वं शक्तावन्वेति । केन सम्बन्धेनाघेयत्वमिति त्वन्य
सुखप्रवेशिनीसमेतः ।
त् । समासे च पदशब्दस्य पदगतेति लक्षणयाऽर्थः पदगताभिन्नशक्तिविषय इति पदार्थशब्दार्थः । पदार्थाः पदगतशक्तिविषयाः, वाच्या इति या वदित्यलम् ।
अत्र केचिदित्थं बोधं वर्णयन्ति । द्रव्यादिपदानि द्रव्यत्वादिपराणि । सप्तेत्यस्य सप्तविधाः सप्तविभाजकधर्मवन्त इत्यर्थः । विभाजकधर्मेत्यल द्रव्यत्वादीनामभेदेनान्वयः । सप्तेति विभक्त्यर्थश्चाभेद एव । तथा च पदाथी द्रव्यत्वगुणत्व कर्मत्वसामान्यत्वविशेषत्वसमवायत्वाभावत्वाभिन्न सप्तविभाजकधर्मवदभिन्ना इति । नैतद्यक्तम् ; द्रव्यादिपदानां लक्षणाकल्पनस्य क्लिष्टत्वात् । एवं लक्षणयार्थबोधनमपेक्ष्य शक्त्या तद्बोधनस्य न्याय्यतया, द्रव्यत्वगुणत्व……..भावत्वानि सप्तपदार्था इति यदि प्रयोगः क्रियेत, स साधुः स्यात् । यद्यप्येवमापति केचित् स्थलान्तरे खयमेवोद्भाव्य, विभागवा क्येषु धर्मिवाचकधर्मलाक्षाणकशब्दप्रयोगे सत्येव बोघोऽन्यथा नेति नियमः कल्प्यत इति समादधुः; अथापि नावचकं प्रयोक्तव्यमिति न्यायविरुद्धं लाक्षणिकमेव प्रयोक्तव्यमिति नियमकल्पन न हृदयङ्गमम् । अतो द्रव्यादिपदे लक्षणाङ्गीकारे सप्तपदे लक्षणां विनैव पदार्था इत्यस्य पदार्थविभाजक घर्मा इत्यर्थं स्वीकृत्य द्रव्यत्वाद्यभिन्नाः सप्त पदार्थविभाजकधर्मा इति बोधवणनमितः साधीयः ।
अन्ये पुनः, इति सप्त पदार्थ इति इतिशब्दमध्याहृत्य सप्तपदस्य सप्तविधार्थकतया तद्धटकविघापदार्थविभाजकघर्मेष्वितिशब्द स्याभेदे नान्वयः । इतिशब्दार्थः प्रकारः, द्रव्यादिपदयथाश्रुतार्थस्य चेतिशब्दार्थे आघेयतासम्बन्धेन । द्रव्यादिवृत्तिप्रकारश्च द्रव्यत्वादिरूप इति सम्भवत्यभेदः । तथा च द्रव्यादिनिष्ठप्रकाराभिन्नसप्तविभाजकधर्मवदभिन्नाः पदार्था इति बोघं मन्यन्ते । तदपि न रुचिरम् ; इतिशब्दार्थस्य प्रकारस्योत्तरपदार्थेऽभेदेना
तर्कसङ्ग्रहः ।
न्वयस्यादर्शनात् । घट इति द्रव्यमिति हि प्रयुज्यते, न पुनघण्ट इति जातिरिति । तत्र च घटनिष्ठप्रकारविशिष्टं द्रव्यमिति बोधः । उक्तं च कैश्चिदन्यत्र ‘अव्ययनिपातातिरिक्तनामार्थस्यैव नामार्थेऽभेद सम्बन्धनान्वयस्य व्युत्पत्तिसिद्धत्वा’ दिति । अतो यदि इतिशब्दाघ्याहारः, तहीतिशब्दस्य हेतुपरतया प्रयोज्यत्वमर्थमङ्गीकृत्य द्रव्यगुणकर्माद्यभेदप्रयोज्यसप्तावेधत्वविशिष्टाभिन्नाः पदार्था इत्यवञ्जातीयकबोधस्वीकारः श्रयान् । किञ्चैवं ‘द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थाना’ मिति कणादसुलभाष्ये कथं बाघः । न हि तत्रेतिशव्दाघ्याहारः सम्भवति । समवायानामित्यस्याप्रथमान्तत्वात् । तत्र पदार्थाीनामित्यत्रैवाभेद सम्बन्धेनान्वय इति चेत् अलापि तथैवास्तु, भविशेषात् । अध्याहारं विनैवोपपत्तौ तस्यायुक्तत्वाच्च ।
ननु पदार्थानां सतत्वपर्याप्तयधिकरणत्वं न सम्भवति, तेषामनन्तत्वात् । अतः सप्तपदस्य सप्तविधा इत्येवार्थः । तत्र च विघेत्यनेन केषां विभाजकधर्माणां ग्रहणामेति जिज्ञासायां द्रव्यत्वादिरूपघर्माणामिति लाभार्थ द्रव्यगुणति पदं प्रयुक्तम् । तदव यदि तत्पदार्थस्य विधेत्यवान्वयो न स्वीक्रियते कथं तर्हि जिज्ञासाशान्तिरिति चेत् ; पदार्थानामनन्तत्वादन्वयासम्भवात्, सप्तपदस्य सप्तविधा इत्यर्थः कामं स्वीक्रियताम् । अथापि न द्रव्यगुणेऽति द्रव्यत्वगुणत्वादिपरत्वं, किं तु यथावतार्थकत्वमेव । तस्य च पदार्थशब्दार्थ एवान्वयः, न सप्तपदार्थैकदेशे। तथाच द्रव्यत्वादिविशिष्टाभिन्नाः सप्तविघाभिन्नाः पदार्थी इत्येव बोषः । एवञ्च ‘अरुणयैकहायन्या सोमं क्रीणाती’ त्यत्रारुणापदार्थ एकहायनीपदार्थश्च पृथक्पृथक्क्रियायामेवान्वेतीति वादिनां मते अरुणया क्रीणाति, एकहायन्या क्रीणातीत्येवार्थलाभात् या एकहायनी सैवारुणति कथं ज्ञायते अरुणापदेनान्यस्यापि ग्रहणसम्भवादिति शङ्कायां यथा अरुणयैकहायन्या क्रीणातीत्येकवाक्योपादानबलात्सन्निहितै
[[८]]
सुखप्रवेशिनीसमेतः ।
कहायन्या एवारुण्यमिति बुद्धयत इति निर्वाहः, तथानाप्येकवाक्योपा दानबलाद्ये द्रव्यत्वादयस्त एव सप्त विधा इत्यत्र विभाजकधमी इति बुद्ध्यत इति निर्वाहः कार्य इति जिज्ञासाशान्तिसिद्धिः । एवं शाब्दबोधे भानमस्वीकृत्यार्थसिद्धिर्बहुलं सर्वैरङ्गीक्रियत इति भाट्टरहस्यादौ व्यक्तम् ।
ननु द्रव्याद्यभिन्नत्वस्य सप्तविधाभिन्नत्वस्य च यदि पदार्था इत्यत्रान्वयः, तार्हे पदार्थोद्देशेनोभयविधानमिति सिद्ध्यति । विधेयानेकत्वे च वाक्यमेदो दोष इत्याहुः । स इह स्यादिति चेन्न; न ह्युभयोरेङ्कत्रान्वयमात्रेण वाक्यभेदः । किन्तु विधेयमज्ञाततया ज्ञापनीयं यत्रानेकं तत्र वाक्यभेदः । अत्र तु द्रव्याद्यमेदस्य पदार्थेष्वन्वये तावतैव सप्तविघत्वं ज्ञायत इति सप्ते - त्यस्यानुवादत्वामेति न दोषः । ननु द्रव्याद्यभेदान्वये द्रव्यत्वादयः सप्त श्रमी इत्येतावत् ज्ञायते । ते विभाजकधर्म इति न ज्ञायते । अतः सप्तविधत्वमपि विधेयमिति चेत्, सप्तपदस्य सप्तविधेत्यर्थः कथं ज्ञायते, अन्यथाऽपि यत्किञ्चिदबाधितार्थवर्णनसम्भवात् । यदि द्रव्यत्वादीनां विभाजकधर्मत्वौचित्यपर्यालाचनया सोर्थो ज्ञायत इत्युच्यते, तर्हि सप्तशब्दार्थनिधीरणात् प्रागेव तेषां विभाजकर्वमत्वं ज्ञातमिति सप्तविवत्वं न विधेयम् । किं च सङ्ख्यावाचिपदनिर्देशं विनापि विभागवाक्यलेखनं बहुलं दृश्यते । तत्र विभाजकषर्मत्वबोधः कथम् ? तत्रोद्देश्यवाचकपदस्यैव तद्विभाजकधर्मवत्पर्यन्तलाक्षणिकत्वादिति चेत् तर्हि सर्वत्र विभाजकवाक्य ऐकरूप्याय पदार्थशब्दस्यैव पदार्थविभाजकधर्मवन्त इत्यर्थोऽस्तु । एवं च सप्तपदं सप्तत्वविशिष्टार्थकमेव । न च तेषामनन्तत्वात् सप्तत्वविशिष्टाभिन्नत्वं बाधित - मिति वाच्यम्, पदार्थशब्दार्थकदेशे विभाजकधर्म एव तदन्वयस्वीकारात् । अथवा ‘सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाघे विशेषणमुपसङ्क्रामत’ इति न्यायेन विभाजक धर्मेषु सप्तत्वे तात्पर्य पर्यवसानसम्भवेनेहशस्थले 2T
तर्कसङ्ग्रहः ।
विशिष्टेऽन्वयो न बाधित इति । अथ वा पदार्था द्रव्याद्यमिन्ना इत्येतावताऽपि विभागपरता वाक्यस्य लभ्यत एव । तथा हि-पर्यायशब्दप्रयोगायोगात् द्वन्द्वादिबलाच द्रव्यगुणादीनां परस्परमेदावगमे सात द्रव्यत्वादीनां परस्परासामानाधिकरण्यं प्रतीयते । पदार्थेषु परस्पर विभिन्नबहभेदोक्त्या पदार्थत्वव्याप्यत्वं द्रव्यत्वादौ सिद्धयति ।पदार्थत्वरूपोद्देश्यतावच्छेदकव्यापकत्वस्य विधेये मानाच्चैषां धर्माणां यावत्त्वं बुद्ध्यत इति समभिव्याहृतपदार्थताचच्छेद कव्याध्यपरस्परासमानाधिकरणयावद्धर्मवचनरूपवि. भागपरत्वं सुगमम् । अतः पदार्थपदं न पदार्थविभाजकघर्मवत्परम् । सप्तपदस्य तु सप्तत्वविशिष्टार्थकत्वऽनन्वयश्चत् सप्तविघार्थकत्व काममस्तु । अथापि न तस्य विधेयत्वम्, प्राप्तत्वात् । 1
यद्वा सप्तपदमपि सप्तत्वविशिष्टार्थकमेव । द्रव्यत्वविशिष्टगुणत्वविशिष्टाद्यभिन्नपदार्थेषु सप्तत्वविशिष्टाभेदान्वयः । सविशेषणहीति पूर्वोक्त न्यायेन द्रव्यत्वादीनामेव सप्तत्वे तात्पर्यम् । तथा च यथा ‘रामः कृतधनुर्भङ्गः पर्येणैषोद्विदेहजाम्’ इत्युक्तौ कृतधनुर्भङ्गस्सन् पर्यणैषी दित्यर्थे सति कृतधनुर्भङ्गत्वविशिष्टमुद्दिश्य परिणयकर्तृत्वविधानेऽपि कृतधनुर्भङ्गत्वस्याप्यर्थाद्विधानम्, तद्वत् पदार्थाी द्रव्यादयः सन्तस्सप्तेति द्रव्याधभिन्नत्वविशिष्टपदार्थोद्देशेन सप्ताभिन्नत्व विधानेऽप्यर्थात्सिद्धवन्निर्देशबलात् द्रव्याद्यभिन्नत्वविधानं भवति । एवञ्च द्रव्याद्यमेदात् सप्त पदार्थ इत्यत्रे वात्रापि सप्तत्ववैशिष्ट्यं प्रति द्रव्याद्यभिन्नत्वस्य प्रयोजकत्वमपि लभ्यते । उद्देश्यविधेयभावस्थलऽसति बाघके विधेयप्रयोजकत्वमुद्देश्यतावच्छेदके लभ्यत इत्यानुभविकं यथा घनवान् सुखीत्यत्र । -
जनु द्रव्यादि पदार्थान्वय एव सप्तशब्दार्थस्य भवतु । तथा च द्रव्यत्वादीनां सप्तत्वं सुग्रहामेति चेत् सत्यम् । अथापि सप्तति निर्देश
सुखप्रवेशिनीसमेतः ।
बलादष्टमः पदार्थो नास्तीति ज्ञापितं भवति । तच्च ज्ञापनं पदार्थशब्दार्थनान्वय एव स्वरसम् । अतो द्रव्यादिभेदात् सप्त पदार्थ इति वाक्य इव तदन्वयो युक्त इति ।
k अथ वा द्रव्येत्यादि सप्तपदविशेषणम् । पदार्थ इति सप्तपदविशेष्यम् । पदार्थेषु सप्तत्वचाघे सप्तविधा इत्यर्थोऽस्तु । तथा च द्रव्याद्यभिन्नसप्त विधाभिन्नाः पदार्थ इति बोधः । वस्तुतस्तु अत्र सप्तत्वं न सङ्ख्या रूपम् । गुणादौ तदभावात् । अतोऽपेक्षावुद्धि विशेष विषयत्वरूपम् । अपेक्षाबुद्धिविशेषश्च द्रव्यमेकं गुण एकः कर्मैकम् – अभाव एक इत्यात्मकः । अत्र चैकत्वस्य स्वाश्रयसमभिव्याहृत पदार्थतावच्छेदकवत्त्वसम्बन्धेन द्रव्यादावन्वयः । एकत्वं च समवाये वक्ष्यमाणम् । तथा चेहशोपक्षाबुद्धिविशेष्यत्वं द्रव्यादीनामेवास्तीति न तेषु सप्तत्वासम्भवः । एवं च सप्तपदार्थ सप्तत्वविशिष्टे द्रव्यादिपदार्थस्याभेदेनान्वयः, तस्य च पदार्थशब्दार्थ इति पदार्था द्रव्यत्वावैशिष्टाद्यभिन्न सप्तत्वविशिष्टाभिन्ना इति बोधः ।
ननु द्रव्यादिसवभिन्नत्वं कस्मिन् पदार्थे सम्भवति । न हि द्रव्ये गुणाद्यभिन्नत्वम् । एवं गुणादावपि न द्रव्याद्यभिन्नत्वम् । अतो द्रव्ये - त्यादिग्दं द्रव्याद्यन्यतमलाक्षणिकमिति चेत् ; क एवमाह एकैकस्य सर्वाभिनत्वमिति । किन्तु विशेषणविभक्त्यर्थोऽभेदः । स चासाधारणधर्मः । तत्र विभक्त्युपत्तिष्वसाधारणधर्मेषु यस्मिन्नसाधारणधर्मे द्रव्यादिषु मध्ये यस्यान्वया भवितुमर्हति, तस्यान्वयः । एवमेकैकस्मिन्नसाधारणधर्म एकैक्रव्यक्त्यन्वये सति अनन्तरं तस्य तस्यासाधारणघर्मस्य पदार्थशब्दार्थव्यक्तिषु वा सप्तशब्दार्थव्यक्तिषु वा यत्र यत्रान्वय उचितस्तत्र तत्रान्वय इति न कश्चिद्वेषः । यथा घटा नीला इत्युक्तौ विभक्त्यर्थामदेष्वसाधारणधर्मेषु MA
तर्कसङ्ग्रहः ।
तत्र द्रव्याणि पृथिव्य तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापर ap त्वगुरुत्वद्रवत्वस्त्रेहशब्दबुद्धिसुखदुःखेच्छा द्वेषप्रयत्नधर्माधर्म संस्कारा यथायोगं तत्तन्नीलव्यक्तीनामन्वये तेषां यथासम्भवं घटव्यक्तिप्वन्वयः । न हि तल घटपदस्य घटान्यतमे वा नीलपदस्य नीलान्यतमे वा लक्षणा कैश्चि दुताति । तद्वत् । इयानेव भेदः । तत्र विभक्त्यर्थेऽभेदेऽन्वयिनः पदार्था नीलत्वपुरस्कारेणैकेन पदेनोपात्ताः । अल तु द्रव्यपदादिना भिन्नभिन्ननेति । सच भेदोऽकिञ्चित्करः । न खलु घवखदिरावित्यादौ द्वन्द्व ईदृशानुपपत्तिः कुलापि प्रदर्शिता । न च द्रव्यादिपदे लक्षणाभावेऽपि सप्तपदेऽन्यतमलक्षणाऽऽवश्यकी सप्तत्वपर्याप्त्यधिकरणधर्मवतः कस्यचिदसम्भवादिति वाच्यम् । सप्तत्वपर्याप्त्युपलक्षितधर्मवत्त्वस्य प्रत्येकं सम्भवेन तत्रापि लक्षणां विनैव निर्वाहादिति ।
तथा च पदाथी द्रव्याद्यमिन्नास्सप्ताभिन्ना इति, द्रव्याद्यभिन्नपदार्थाः सप्ताभिन्ना इति, पदार्था द्रव्याद्यभिन्नसप्ताभिन्ना इति वा बोधः ।
एवं पदार्थसामान्यं विभज्यावान्तरविभाग दर्शयति तत्वेत्यादिना । तच्छब्दार्थ द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः । ललो घटकत्वमर्थः । द्रव्याणीत्यत्र गुणादिविभागप्रतिपादकवाक्यस्थगुणादिपदार्थेषु चान्वेति । एचकारोऽन्ययोगव्यवच्छेदार्थः, यथा गोविन्द : पण्डितो भवति विनीतश्च, गोपालस्तु पण्डित एवेत्यादौ । तथा च नवत्वातिरिक्तसङ्ख्यापर्याप्त्यधिकरणविभाजकधर्मशून्यत्वं तदर्थः द्रव्यान्वयि । न चात्मस्थाने परो जीवश्चति द्वेधा विभज्य दशद्रव्यगणनसम्भवात् कथमीदृशघर्मशून्यत्वमिति वाच्यम् । नवत्वातिरिक्तसङ्ख्यापर्याप्तयधिकरणभूता ये प्रकृतविभाजकधर्मासमानाधिकरणधर्मसंहिता विभाजकधर्मास्तच्छ्रन्यत्वमिति विवक्षितत्वात् । परत्वजीवत्वयोश्च प्रकृतात्मस्वरूपविभाजक धर्मं समानाधिकरणत्वमेवेति । तथा च
[[१२]]
सुख प्रवेशिनीसमेतः ।
[[१३]]
चतुर्विंशतिर्गुणाः । उत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि । परमपरं चेति द्विविधं सामान्यम् । इति सिनवत्व।तिरिक्तसङ्ख्यापर्याप्यनधिकरणविभाजकधर्मवत्त्वमेवकारार्थ द्धयति । यद्वा नवत्वपर्याप्त्ययोगव्यवच्छेदस्तदर्थः । अथ वा स्वसमदिव्याहृतपदार्थस्य यत्पदार्थेन सम्बन्धस्तद्व्यापकत्वमेवकारार्थः । अल समभिव्याहृतपदं नवपदम् । तदर्थस्य द्रव्यपदार्थेनान्वय इति द्रव्यव्यापकत्वमेवकारार्थः । व्याप्यव्यापकभावस्तादात्म्येन ; नवद्रव्यपदार्थयोस्तादात्म्यात् । व्यापकत्वस्य नवपदार्थेऽन्वयः । तथा च द्रव्यादिनिरूपितघटकताश्रयद्रव्याणि पृथिवीत्वावशिष्टाद्यभिन्नानि द्रव्यव्यापकत्वाश्रयनवत्वविशिष्ट भिन्नानीति रीत्या बोधः ।
सामान्यमित्यादि । द्वे विधे यस्य तत् द्विविधम् । विधा विभाजङ्कधर्मः । षष्ठ्यर्थ आधेयत्वं विधायामन्वेति । यन्निरूपिताधेयताश्रयविभाजक द्वित्वावि शिष्टा भिन्नाविति विग्रहार्थः । समासे विधापदं लक्षणया द्वित्वविशिष्टविभाजकधर्मवदर्थकम् । द्विपदमीदृशलक्षणातात्पर्य - ग्राहकम् । तस्याभेदः सामान्ये । चकारार्थः समुच्चयः । स च समुदायः साहित्यम् । तस्य परापरपदार्थयोरन्वयः । इतिशब्दार्थः प्रकारः । तत्र परापरपदार्थयोराधेयतासम्बन्धेन । परापरपदोत्तरविभक्त्यारी नास्ति । प्रकारस्य च सामान्ये आश्रयतासम्बन्धेन । तथा च समुच्चयाश्रयपरापरनिष्ठप्रकारवत् द्वित्वविशिष्ट विभाजकवर्भवदभिन्नं सामान्यमिति बोधः 1 प्रकारश्च तद्वृत्त्यसाधारणधर्म एव परत्वादिः । इतिशब्दस्य हेतुपरत्वे ज्ञानज्ञाप्यत्वमितिशब्दार्थः । परापरपदार्थयोर्विषयतासन्बन्धेन ज्ञानेऽन्वयः । ज्ञाप्य - त्वमाश्रयतासम्बन्धेन द्वित्वविशिष्टविभाजकधर्मान्वयि । परमपरं चेति ज्ञाने सति विधाद्वयवत्त्वज्ञानमुत्पद्यत इति भवति विधाद्वयस्य ज्ञाप्यत्वम् । तथा च समुच्चयाश्रयपरापरविषयकज्ञानज्ञाप्यत्वाश्रय द्वित्वावशिष्ट विभाजकधर्म वदभिन्न €
तर्कसङ्ग्रहः ।
नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव । समवायस्त्वेक एव ।
सामान्य मिति । नित्येति । नित्यानि द्रव्याणि तेषु वृत्तिर्येषाम् । सप्तम्यर्थो निरूपितत्वम् । वृत्तिराधेयत्वम् । षष्ठ्यर्थ आधेयत्वं वृत्त्यन्वयि । यन्निरूपिताधेयत्वाश्रयाघेयता नित्याभिन्नद्रव्य निरूपितनिरूपितत्वाश्रय इति विग्र हार्थः । समासे वृतिपदस्य नित्यद्रव्यनिरूपिताधेयताश्रये लक्षणा । तात्पर्यग्राहकम् । तुशब्दः पूर्वस्माद्विशेषाणां वैलक्षण्यं वक्ति । अनन्ताः, न अन्तो येषां तेऽनन्ताः । अन्तो नाम परिच्छेदः सङ्ख्यावत्त्वं सङ्ख्यैव तस्य पर्याप्तिसम्बन्धावच्छिन्त्रप्रतियोगिताकत्वसम्बन्धेनाभावेऽन्वयः । येषामिति षष्ठ्यर्थीधेयत्वस्य चाभावे । यन्निरूपिताधेयतावद्भावः पर्याप्तिसम्बन्धावच्छिन्नसङ्ख्यानिष्ठप्रतियोगिताक इति विग्रहार्थः । समासेऽन्तपदस्य निरुक्तसङ्ख्याऽभाववति लक्षणा । नञपदं तात्पर्यग्राहकम् । तदभेदो विशेषाणाम् । परार्धसङ्ख्याऽपि हि कतिपयमात्रवृत्तिरेव, न पदार्थसामान्ये, न वा विशेषसामान्ये पर्याप्तिसम्बन्धेन वर्तते ।
€ नन्वनन्तत्वं द्रव्यादीनामप्यस्ति तत्राह एवेति । अयमेवकारः पूर्व विभागवाक्येषु दर्शितघर्मव्यवच्छेदार्थः । तथा च किञ्चित्सङ्ख्या पर्याप्त्यधिकरणविभाजकधर्मशून्या इति लभ्यते । तथा च द्रव्यादयाऽनन्ताश्च तादृशविभाजकधर्मवन्तश्च । विशेषास्तु केवलमनन्ताः । नैषां तादृशधर्माः सन्तीति । एवं च नित्यद्रव्य निरूपिताघयतावद भिन्ना वैलक्षण्याश्रया वि शेषाः पर्याप्तिसम्बन्धावच्छिन्न सङ्ख्यानिष्ठप्रतियोगिताकाभाववद गिन्नाः सङ्ख्यापर्याप्त्यधिकरणविभाजकधर्मशून्यत्वाश्रया इति बोधः । ननु विशेषो द्विविधः परमाणुवृत्तिविशेषो विभुवृत्तिविशेषश्चेत्येवं विभागः सुकुरः इति चेन्न । परमाणुवृत्तिविशेषत्वादे विभाजकधर्मत्वं न युक्तम् । अधिकरणानिरूप्यस्यैव धर्मस्य तत्त्वमुचितम् । अयं च धर्मः परमाणुनिरूप्य इत्याशयात् । समवा
[[१४]]
सुखप्रवेशिनीसमेतः ।
[[१५]]
अभावश्चतुर्विधः । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्या
भावश्चेति ॥ तत्र गन्धवती पृथिवी । सा द्विविधा । १ ८ यस्त्विति । तुशब्दो वैलक्षण्यार्थः । एकपदमेकत्व विशिष्टार्थकम् । एकत्वं चेदं न सङ्ख्यारूपम् तस्य गुणत्वेन द्रव्यमालनिष्ठत्वात् । नापि स्वसजातीयद्वितीयरहितत्वम् । एवकारपौनरुक्त्यप्रसङ्गात् । अतोऽसाधारणधर्मरूपम् । तच्च भेदविशिष्टान्यधर्मवत्त्वम् । वैशिष्ट्यं स्वप्रतियोगिवृत्तित्वस्वानुयोगिवृत्तित्वोभयसम्बन्धेन । स च धर्मस्त व्यक्तित्वम् । न च न तस्य भेदविशिष्टान्यत्वम्, तद्व्यक्त्येतद्व्यक्त्युभयभेदं प्रति तद्व्यक्तेः प्रतियोगित्वादनुयोगित्वाच तत्तद्वत्तित्वरूपोमयसम्बन्धेन भेदविशिष्टत्वादिति वाच्यम्, भेदत्यस्य व्यासज्यवृत्तिधर्मीन वच्छिन्न प्रतियोगिताकभेदपरत्वात् । व्यासज्यवृत्तिधर्मो नाम पर्याप्तिसम्बन्धावच्छिन्नाघेयताकधर्मः । उभयत्वादिर्हि पर्याप्तिसम्बन्धेनोभयादौ वर्तत इति । अथ वा घर्मविशिष्टान्यधर्मवत्त्वमेकत्वम् । वैशिष्ट्यं स्वसामानाधिकरण्य, स्वावच्छिन्नप्रतियोगिताकस्वाश्रयावृत्तिभेदसामानाधिकरण्योभयसम्बन्धेन । अत्र धर्मपदेन तद्व्यक्तित्वरूपधर्म ग्रहणेऽनेकवृतिधर्मस्य सर्वस्य धर्मविशिष्टत्वमेव । स्वपदेनोभयत्वादिग्रहणेन तद्विशिष्टत्वं तद्व्यक्तित्वसमवायत्वादौ न सुवचम् । तदवच्छिन्नभेदस्य तदाश्रयवृत्तित्वादिति । ननु द्रव्यादीनामपीदृशैकत्वमस्तीति किं वैलक्षण्यं तत्राह एषेति । अस्यैकत्वातिरिक्तसङ्ख्यापर्याप्त्यधिकरणत्वाभावोऽर्थः समवायान्वयी । सङ्ख्या चेयमपेक्षा बुद्धि विशेष विषयत्वात्मक द्वित्वादिरूपा । तथा च समवायो वैलक्षप्याश्रय एकत्वविशिष्टामिन्न एकत्वातिरिक्तसङ्ख्या पर्याप्त्यधिकरणत्वाभाववानिति बोधः । यद्वा पूर्ववव्यापकत्वमेवकारार्थः । व्याप्यव्यापकभावस्तादात्म्येन । समचायव्यापकत्वाश्रय एक इत्यर्थः । एकत्व विशिष्टस्य कस्यचिदपि हि न घटादिव्यापकत्वम् । भवति तु समवायव्यापकत्वामेति वैलक्षण्यम् । अभाव इत्यादि । सामान्यविभागवाक्य इव बोधप्रकारः
तर्कसङ्ग्रहः ।
नित्यानित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा ।
एवमवान्तरविभागमपि विधाय विभक्तान् प्रत्येकं निरूपयति तत्त्रेत्यादिना कृत्स्नेन ग्रन्थेन । तत्रशब्दः सर्वलक्षणवाक्यस्थलक्ष्यवाचकपदान्वयी । पृथिव्याद्यन्योन्याभावान्तास्तदर्थः । घटकत्वं त्रलथः । मतुपू अधिकरणतावदर्थकः । अधिकरणतायां गन्धस्य निरूपितत्वसम्बन्धनान्वयः । पृथिव्यादिनिरूपितघटकताश्रयपृथिवी गन्धनिरूपिताधिकरणतावदभिन्नति बोधः । गन्धोऽस्य अस्तीति विग्रहे इदंशब्दार्थः पृथिवी, षष्ठ्यर्थो निरूपितत्वम्, स धात्वर्थीघेयत्वान्वयि, अस्तीति तिबाख्यातार्थ आश्रयत्वमाश्रयतासम्बन्धेन गन्धे अन्वेति, तथा च पृथिवीनिरूपितनिरूपित्वाश्रयाधेयतानिरूपिताश्रयताबान् गन्ध इति बोधः । गन्धवत्त्वं पृथिव्या लक्षणम् । लक्ष्या पृथिवीलक्ष्यतादिस्तत्तन्निष्ठो धर्मः । अत्र कालिकसम्बन्धेन गन्धवत्त्वं कालेऽस्तीत्यतिव्याप्तिः । तद्वारणाय समवायेन गन्धवत्त्वं लक्षणम् । न च गन्धवत्त्वं गन्धनिष्ठाधेयतानिरूपिताधिकरणतावत्त्वम्, समवायेनेति तृतीयार्थोऽ वच्छिन्नत्वमाधेयतान्वाये । पृथिव्यां समवायेन गन्ध आधेयो भवतीति साऽऽधेयता तत्सम्बन्घावच्छिन्ना । तथा च समवायसम्बन्धावच्छिन्नगन्धनिष्ठाघेयतानिरूपिताधिकरणतावत्वं लक्षणं पर्यवसितम् । एवं च काले ऽतिव्याप्तिस्तदवस्था । पृथिव्यां स्वरूपसम्बन्धन प्रसिद्धायास्तादृशाधिकरण - तायाः कालेऽपि कालिकसम्बन्धेन सत्त्वादिति वाच्यम् ; गन्धो लक्षणम् । न तु गन्धवत्त्वम् । समवायस्तु लक्षणतावच्छेदकसम्बन्ध इत्यदोषात् । एवमुत्तरत्र । नित्येति । सेत्यनुषज्यते । एवमभेऽपि । परमाणुरूपेति । रूपं खरूपम् असाधरणधर्मवत् । परमाणुरूपं यस्याः सा । षष्ठ्यर्थ आधेियत्वमसाधारणधर्मेन्वेति । तथा च यन्निरूपिताधेयतावदसाधारणधर्मवत् परमाणु इत्यर्थः । रूपमित्यस्यासाधारणधर्म इत्यर्थे
सुखप्रवेशिनीसमेतः ।
पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रि
परमाणो रूपं यस्या इति विग्रहः । षष्ठ्यर्थ आधेयत्वं । उभयथाऽपि समासे रूपपद पृथिवीपरमाणुत्वा वैशिष्टेत्यर्थलाक्षणिकम् । तदभिन्ना नित्याभिन्नपृथिवीति बोधः । एवमुत्तरत्न । पृथिव्यादिचतुष्टयं प्रत्येक द्वेधा विभज्यते । प्रथमः प्रकाश जगदुपादानकारणविवेकोपयोगी । द्वितीय आत्मनो भोगसम्पादकत्वप्रकारविज्ञानोपयोगी । तत् प्रथमां विधामुक्त्वा द्वितीयामाह पुनरिति । अस्यार्थः समुच्चयः । त्रिविधेत्यत्र विषाशब्दस्य हि वित्वविशिष्टविभाजकधर्मवतीत्यर्थे लक्षणा । तत्र धर्मे समुच्चयस्याश्रयतासम्बन्धेनान्वयः । अयं च समुच्चयः पूर्वोक्तद्वित्वविशिष्टविभाजकधर्मप्रतियोगिकः । सेत्यनुषज्यते । शरीरेन्द्रयविषयाणां भेदस्तस्मात् । भेदो भेदकोऽसाधारणधर्मः । विग्रहे षष्ठ्चर्य अधेियत्वम् । समासे विषयपदं पार्थिवशरीरेन्द्रियविषयनिष्ठेत्यर्थकम् । अभेदसम्बन्धन तस्य भेदेऽन्वयः । ज्ञानज्ञाप्यत्वं पञ्चम्यर्थः । भेदस्य ज्ञान विषयतासम्बन्धेनान्वयः । प्रयोज्यत्वं वा पञ्चम्यर्थः, त्रिविधापदार्थेकदेशे त्रित्वविशिष्ट विभाजकधर्मवैशिष्ट्येऽन्वेति । सम्बन्धस्य हि सम्बन्धिप्रयोज्यत्वमनुभवसिद्धमिति वैशिप्ट्यस्य भेदरूपधर्म प्रयोज्यत्वमक्षतम् । इत्यमेव पूर्वमितिशब्दघटितविभागवाक्येष्वपीतिशब्दार्थस्य प्रकारस्य प्रयोज्यतासम्बन्धेन द्विविधेतिपदार्थैकदेशे धर्मवैशिष्ट्यऽन्वय इति सुवचम् । प्रायशः पदेषु लक्षणामङ्गीकृत्य बोधनिर्वाहस्तु तैस्तैः क्रियमाणो यावद्वलमुपेक्षणीय इत्येतावत्यस्माकं निर्भरः । पार्थेिवशरीरादिकं दर्शयति शरीरमित्यादिना । अस्मदादीनामिति । वयमादयो येषां ते । अस्मच्छब्दः शब्दप्रयोक्तृपुरुषवाची । अत्र चायमन्नम्भट्टोऽस्मत्पदार्थः । यद्वाऽहं च यूयं चेति विग्रहेऽस्मच्छब्द शब्दप्रयोक्त्रन्नम्भट्ट, तद्बुद्धिस्थशिष्यतदीयप्रकृतग्रन्थपठितृवालादिपरः । आ3 T
[[१७]]
तर्कसङ्ग्रहः ।
दिशब्दः प्रथमार्थकः । अल चोपस्थितिमादाय प्राथम्यं वक्तव्यम् । अतः पदार्थविशेषापेक्षया प्रथमोपस्थितत्वं प्राथम्यम् । तथा च पदार्थविशेषविषयकोपस्थितिविशेषानुत्तरोपस्थितिविषय इत्यादिशब्दार्थः । पदार्थविशेघेत्यनेन स्वसमानाधिकरणपदोपस्थाप्यार्थभिन्ना अर्था गृह्यन्ते । उपस्थितिविशेषेत्यनेन च स्वघटितवाक्यार्थसम्बन्धित्वप्रकारका प्रकृतवाक्याधीनोपस्थितिः । अयं भावः - भूतले घटादिरस्तीत्यादिशब्द घटितवाक्यप्रयोगे आदिशब्दसमानाधिकरणं यद्धटपदम् तदर्थ एव प्रकृतवाक्यार्थभूतलास्तित्वसम्बन्धोपस्थितिः पूर्वं भवति । तद्भिन्नपटादौ विशिष्य तत्सम्बन्धज्ञानं च ताहशवाक्याज्झटिति न भवति । अपि त्वादिशब्द ग्राह्यः पटादिरेव स्यादिति योग्यतालोचनया विलम्बेन । एवं चादिशब्दप्रयोग एवमनुभवादादिशब्दस्यायमेवार्थो भवितुमर्हति । यदि तु पटादिरिति प्रयुज्यते तदा पट एव समभिव्याहतपदार्थसम्बन्धप्रतीतिः प्रागिति स एवादिः । अत्र च विग्रहे येषामिति षष्ठ्यर्थो घटकत्वम् । तस्यादिशब्दार्थघटके पदार्थ - विशेष उपस्थितिविषय इत्यत्र विषये चान्वयः । अथ वेहशस्थलेष्वादिशब्द प्रयोगनिबन्धनमात्रमेतत् । आदिशब्दस्य तु वस्तुनिष्ठभेदप्रतियोगीत्यर्थः । येषामिति षष्ठ्यर्थघटकत्वं वस्तुषु प्रतियोगित्वे चान्वेति । तथा च यद्धटकत्वाश्रय, यद्धटकवस्तुनिष्ठभेद प्रतियोग्यभिन्नावयवमिति विग्रहार्थः । समासे आदिपदमस्मत्तद्भित्ररूपार्थलाक्षणिकम् । कचिदादिप्रभृतिशब्दाः प्रकारवचना आप भवन्ति । प्रकारः सानात्यम् । तद्ब्रहणे तु वयं सजातीया येषामित्यर्थः । साजात्यं च पार्थिवलोकवासित्वम् । तदा समास आदिपदमस्मन्निष्ठपार्थिवलोकवा सित्वाश्रय लाक्षणिकम् । षष्ठ्यर्थः सम्बन्धः सुखावच्छेदकत्वरूपः । सुख आधेयतासम्बन्धेनाद्यथन्वयः । अवच्छेदकत्वस्याश्रयतासम्बन्धन शरीरे । केवलावच्छेदकत्वं न सम्बन्धः ; आ,
सुखप्रवेशिनोसमेतः ।
[[१९]]
थं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः । शीतस्पर्शवत्य आपः । ता द्विविधाः । नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधाः श
मनो विभुत्वेनास्मदाधात्मानं प्रति जलीयशरीरादेरप्यवच्छेदकत्वात् । गन्धेति । गन्धस्य ग्राहकम् । षष्ठ्या विषयित्वं ग्रहधातोर्ज्ञानं ण्वुलो जनकतावदिति चार्थः । विषयिताया ज्ञानेऽन्वयः, ज्ञानस्य च जनकतायां निरूपितत्वसम्बन्धेन । समासे गन्धपदं गन्धविषयके लाक्षणिकम् । अमेदेन ज्ञाने तदन्वयः । पार्थिवेन्द्रियं गन्धग्राहकाभिन्नं घ्राणाभिन्नमिति बोधः । शरीरे घ्राणेन्द्रियस्थानं दर्शयति तञ्चेति । तत् पार्थिवेन्द्रियम् । चकारार्थः समुच्चयो नासाग्रवर्तित्वान्वयी। गन्धग्राहकत्वादिना नासाग्रवर्तित्वस्य समुध्वयः । नासाया अयं तस्मिन् वर्तत इति । षष्ठ्याः समवायित्वम्, सप्तम्या निरूपितत्वम् । वृतुधातोराधेयत्वं चार्थः । समासे अग्रपदस्य नासाग्रनिरूपिते लक्षणा । अमेदेन धात्वर्थे तदन्वयः । यदि पुननीसापदस्य नासासमवायिनि लक्षणा तस्याभेदेनाप्रेऽन्वय इत्युच्यते तदाऽ अपदस्य धात्वर्थेऽन्वयार्थमग्रनिरूपितेति लक्षणाया आवश्यकतया तदेकदेशे ग्रेऽन्वयो वाच्यः । एवमेकदेशान्वयक्लेशो मा भूदिति अग्रपद एव लक्षणा, नासापदं तात्पर्यग्राहकमिति स्वीक्रियते । णिनिप्रत्ययार्थोऽधिकरणतावान् । अधिकरणतायां धात्वर्थो निरूपितत्वसम्बन्धेनान्वेति । समुच्वयाश्रय, तादृशाधिकरणतावदभिन्नं पार्थिवेन्द्रियमिति बोधः । मृदिति । आदिपदं मृत्पाषाणतद्भिन्नार्थलाक्षणिकम् । , ,
शीतेति । उष्णादिस्पर्शवति तेजआदावतिव्याप्तिवारणाय शीतेति । स्पर्शेत्यनुक्तौ यद्यपि न कश्चिद्दोषः अथापि शीतपदस्य गुणिन्यपि प्रयोगाच्छीतलमादाय, तद्वत्त्वं पृथिव्यादेरपीत्यतिव्याप्तिशङ्का स्यादिति तत्पदं प्रयुक्तम् । समवायेन शीतं लक्षणमिति ध्येयम् । ताश्चेति चकारः 9
तर्कसङ्ग्रहः ।
रीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ।
उष्णस्पर्शवत्तेजः । तच्च द्विविधम् । नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधम् । शरीरेन्द्रयविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराप्रवर्ति । विषयश्चतुर्विधो भौमदिव्योदर्याकरजभे2 पृथिवीसमुच्चये । तच्छब्दार्थे तदन्वयः । यथा पृथिवी द्विविधा तथाssपोपीति । वरुणलोक इति । वरुणशब्दस्य वरुणस्खामिके लक्षणा । अभेदेन लोके तदन्वयः । सप्तम्यर्थ आधेयत्वं शरीरान्वयि । रसनमिति । इदं च सर्वेषाम् । कृष्णेति । कृष्णा तारा । अग्रपदं कृष्णतारासमवाय्यग्रनिरूपितार्थलाक्षणिकमित्यादि पूर्ववत् । पार्थिवादिविषये ऽवान्तरविभागप्रदर्शनमशक्यमासीत् । तैजसे तु तच्छक्यमस्तीति विभजते विषय इति । भूमौ भवं भौमम् । दिवि भवं दिव्यम् । उदरे भवं उदर्यम् । आकरे जायत इत्याकरजम् । सप्तम्यर्थोऽवच्छिन्नत्वम् । भूद्रेशाद्यवच्छेदेन तेजो जायत इति । भौमेत्यादौ प्रत्ययार्थो जन्यतावदिति । जन्यतायां भूम्यादेरवच्छिन्नत्वसम्बन्धेनान्वयः । आकरशब्दः खन्यवच्छिन्ने लाक्षणिकः तदभेदो जेत्यल जनिधात्वर्थजन्यतायाम् । ननु नित्यानित्यसाधारण्येन पुनस्त्रिविध मिति तेजोविभागमारभ्य शरीरेन्द्रयविषयभेदादित्युक्त्या शरीरेन्द्रिययोः कार्यतेजस्त्वावश्यम्भावाच्च विषयपदेन शरीरेन्द्रियभिन्न कार्यतेजो नित्यतेजश्च प्राह्यमिति निश्चीयते । एवं च भौमादिविभागस्य कार्यमात्रविषयकतया कथं सामान्यतो विषयश्चतुर्विध इत्युच्यते ? सत्यम् ; नित्यानित्यविभागप्रदर्शनेन शरीरेन्द्रिययोः कार्यतया च पृथिव्यादाविव तेजस्त्रापे विषयो नित्यानित्यमेदेन द्विविध इति ज्ञातप्रायमेव । कार्यविषय एव किञ्चिद्ज्ञापनीयमस्तीत्यभिप्रेत्य विषयश्चतुर्विध इत्युक्तम् । अत इह विषयशन्दः कार्यतैजस विषयपर इति । न च भौमेत्यादौ भूमिस१
[[२०]]
[[२१]]
सुखप्रवेशिनीसमेतः ।
दात् । भौमं वह्नयादि । अविन्धनं दिव्यं विद्यादि । भुक्तस्य परिणामहेतुरुदर्यम् । आकरजं सुवर्णादि । रूपरहितस्पर्शवान् वायुः । स द्विविधः । नित्योऽनित्यश्च ।
म्बन्धीत्याद्यर्थविवक्षणाज्जन्यत्वरूपार्थाविवक्षणाच्च परमाणूनामपि ग्रहणं भवतीति वाच्यम्, आकरजेति जनिधातुप्रयोगेण सर्वत्र जन्यत्वस्यैव स्वरसग्राह्यत्वात् । परमाणावबिन्धनत्वाद्यसम्भवाच्च । परमाणूनां सर्वत्र सञ्चारितया एषां भौमत्वमेषां दिव्यत्वमित्येवं व्यवस्थायाः कर्तुमशक्यत्वाच्च । अतः पूर्वोक्त एवाक्लिष्टः परिहारः । अबिन्धनं अद्भिरिन्धनं प्रकाशो यस्य । तृतीयार्थो जन्यत्वम् । षष्ठ्यर्थ आघेयत्वम् । समानाधिकरणबहुव्रीहिरेव वा । इन्वनपदस्याब्जन्यप्रकाशविरीष्टे लक्षणा । आदिनोल्कादिग्रहणम् । भुक्तस्येति । भोजनं गलाधोनयनम् । क्तप्रत्ययस्य कर्मतावदित्यर्थः । तत्र कर्मतायां निरूपितत्वसम्बन्धन नयनान्वयः । परिणामः समवायिकारणतानिरूपक (कार्य) द्रव्यम् । तस्य हेतुः जनकतावत् । भुक्तस्येति षष्ठ्यथः सम्बन्धः समवायिकारणतान्वयी । स च कचित् साक्षात् सम्बन्धः, यथा कपालस्य परिणामो घट इति । कचित् परम्परया तद्वयवद्वारा, यथा दुग्धस्य परिणामो दधीति । परिणामशब्दस्य समासे परिणाम निरूपिते लक्षणा । तथा च गलाघोनयननिरूपितकर्मताश्रयवस्तुनिरूपितसम्वन्धवत्समवायिकारणतानिरूपकद्रव्यनिरूपितजनकतावत् उदरावच्छिन्नजन्यतावत्तेज इति । वायुं लक्षयात रूपेति । रह धात्वर्थोऽभावः । तृतीयार्थोऽनुयोगित्वम् । रूपाभावस्य हि रूपं प्रतियोगि, अभावोऽनुयोगी । समासे रूपशब्दस्य रूपानुयोगिनि लक्षणा । क्तप्रत्ययार्था आश्रयतावान् । आश्रयतायामभावस्य निरूपितत्वसम्बन्धेनान्वयः । स्पर्शवानिति मतुबर्थोऽप्याश्रयतावान् । स्पर्शवति रूपराहतस्याभेदेनान्वयः । रूपानुयोग्यभिन्नाभावनिरू
[[२२]]
तर्कसङ्ग्रहः ।
नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुस्त्रिविधः । शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुर्वायुः । शरीरान्तःसञ्चारी
पिताश्रयता वदभिन्न स्पर्शनिरूपिताश्रयतावदभिन्नो वायुरिति बोधः । रूपाभावविशिष्टस्पर्शः समकायेन लक्षणम् । वौशिष्ट्यं सामानाधिकरण्यसम्बन्धेन । कालेऽपि कालिकसम्बन्धेन विशिष्टस्पर्शसत्त्वादतिव्याप्तिरिति समवायेनेति । ननु पृथिव्यामतिव्याप्तिः, रूपाभावस्य कालिकसम्बन्धेन तत्र सत्त्वात्स्पशस्य च समवायेन सत्त्वात्तनोभयोः सामानाधिकरण्यात् । न च सामानाधिकरण्यं नामधेयतानिरूपिता धिकरणतावन्निष्ठाधिकरणतानिरूपिताधेयता । तत्र प्रथमाधेयतायां स्वरूप सम्बन्धावच्छिन्नत्वं निवेश्यते । तथा च पृथिव्यां रूपाभावस्य कालिकसम्बन्धन सत्त्वेऽपि स्वरूप सम्बन्धेनाभावान पृथि - व्यां सामानाधिकरण्यमिति वाच्यम् । तन्निवेशेऽप्यतिव्याप्तेः, स्वरूपसम्बन्धावच्छिन्नाघेयतानिरूपिताधिकरणता हि वायौ प्रसिद्धा । सा कालिकसम्म्वन्धेन पृथिव्यामस्ति । अतस्तादृशाधिकरणतावती पृथिवी । तन्निष्ठाधिकरणतानिरूपिताधेयता च स्पर्श इति सामानाधिकरण्यस्याक्षतत्वादिति चेन्न । वस्तुतो रूपाभावस्य स्वरूपसम्बन्धेन यदधिकरणं वस्तुतस्तादृशाधिक रणनिरूपिता याऽऽधेयता तदेव प्रकृते सामानाधिकरण्यामिति तेन सम्बन्धेन रूपाभावविशिष्टस्पर्शो लक्षणमिति विवक्षणीयम् । अतो न दोषः । सर्वशरीरवर्तीति । शरीरपदं शरीरावयवपरम् । सर्वेषु शरीरेषु शरीरावयवेषु वर्तत इति विग्रहः । अवच्छिन्नत्वं सप्तम्यर्थः । सर्वशरीरावयवावच्छिनेति शरीरपदे लक्षणा । अभेदेन वृतुधात्वर्थ आधेयत्वेऽन्वयः । आश्रयो णिन्यर्थः । वायवीयविषयमाह विषय इत्यादिना प्राणश्चेत्यन्तेन वाक्येन । प्रशस्तपादभाष्ये ‘चतुर्विधः शरीरमिन्द्रियं विषयः प्राणः’ इति चातुर्विध्य-
सुखप्रवेशिनीसमेतः ।
[[२३]]
वायुः प्राणश्च । स चैकोऽप्युपाधिभेदात् प्राणापानादिसञ्ज्ञां लभते ।
मुक्तम् । इह त्रैविध्याक्तौ तद्विरोध इति शङ्काप्रसक्त्यभावाय शरीरान्तःसञ्चारी वायुः प्राणश्चेति विशिष्योक्तम् । तथा च वृक्षादिकम्पनहेतुर्वायुः प्राणश्चेत्युभयमपि विषय एवेत्यर्थः । शरीरोन्द्रियभिन्नत्वमेव विषयत्वमिति प्राणोऽपि विषय एव । भाष्य पृथगुक्तिस्तु बाह्यवायुविलक्षण कार्यकरत्वप्रदर्शनाभिप्रायेणोपकारातिशयादरेणेति भावः । वृक्षादीनां कम्पनं तस्य हेतुर्जनकतावान् । प्रथमषष्ठ्यर्थ आघयत्वम्, द्वितीयतदर्थो निरूपितत्वम् । कम्पनपत्रस्य वृक्षतद्भिन्ननिष्ठक्रियानिरूपितेति लक्ष्यार्थः । जनकतायामभेदे - नान्वयी । शरीरेति । अन्तःशब्दोऽन्तरवयवपरः । शरीरस्य समवाय - त्वसम्बन्धेन तत्रान्वयः । अन्तरवयवस्यावच्छिन्नत्वसम्बन्धेन सम्पूर्वकचरधात्वर्थे क्रियायामन्वयः । णिनेरर्थ आश्रयतावान् । आश्रयतायां घात्वर्थस्यान्वयः । णिन्यर्थस्य वायौ, तस्य प्राणे, तस्य प्रथमवायुपदार्थस्य च विषयेऽभेदेन; चार्थसमुच्चयस्य प्रथमवायुपदार्थे प्राणे च । ननु शरीरान्तःसञ्चारी वायुः प्राण एवेति कथम् ? अपानादेरपि सत्त्वादिति शङ्कायामाह स चेति । सः शरीरान्तःसञ्चारी वायुः । चो वाक्यालङ्कार, ज्ञातत्वप्रसिद्विद्योतनार्थो वा, प्रकृतवाक्यार्थस्य पूर्व वाक्यार्थसमुच्चये वा । एकः एकशरीरावच्छेदेनैकदा खसमान द्वितीयरहितः । स्वाश्रयशरीरावच्छिन्नत्व, खसमानका लिकत्व, स्वभिन्नत्वरूप सम्बन्धत्रयेण वायुविशिष्टान्यः । अपेरविरोवित्वमर्थः तच्च सामानाधिकरण्यम् । तस्य लमघात्वर्थेऽन्वयः । एकपदार्थस्य निरूपितत्वसम्बन्धेन सामानाधिकरण्ये । अभेदेनैकपदार्थो वायौ, तल लाभोऽप्यस्तीति तयोस्सामानाधिकरण्यम् । उपाधिभेदात्, उपाधीनां निमित्तानां शक्यतावच्छेदकानां भेदात् परस्परं मिन्नत्वात् । आधेयत्वं षष्ट्यर्थः । ‘हृदि प्राणो गुदेऽपानस्समानो नाभिसंस्थितः । उदा
तर्कसङ्ग्रहः ।
शब्दगुणकमाकाशम् । तञ्चैकं विभुं नित्यं च ।
, नः कण्ठदेशस्थो व्यानस्सर्वशरीरगः’ इत्युक्तरीत्या प्राणादिशब्दा हृदयादितत्तद्देशावच्छिन्न वायुवाचिन इति तल तल शक्यतावच्छेदकभेदः । अथवा क्रियामेदादिति भाष्ये दर्शनात् प्राणादिशब्दाः प्राणनापाननव्याननोदननसमननरूपक्रिया विशिष्टवाचिनः । तत्तत्क्रिया च भिन्नेति भावः । विवृतं चेदं कन्दल्याम्, ‘मूत्रपुरीषयोरघोनयनादपानः, रसस्य गमेनाडीवितननाध्यानः, अन्नपानादेरूर्ध्वं नयनादुदानः मुखनासिकाभ्यां निष्क्रमणात् प्राणः, आहारेषु पाकार्थमुदर्यस्य वहेस्समं सर्वत्र नयनात् समान’ इति । भेदादिति पञ्चम्यर्थः प्रयोज्यत्वं लाभेऽन्वेति । प्राणापानावादी यस्यास्सा । प्राणापानशब्दौ तत्तच्छन्दपरौ, सञ्ज्ञापदसामानाधिकरण्यात् । आदिपदं प्राणशब्दापानशब्द तद्भिन्नशब्दपरम् । तदभिन्ना सञ्ज्ञा वाचकशब्दः प्राणशब्दापानशब्दत द्भिन्नशब्दा भिन्नविभिन्नार्थवाचकशब्दमिति यावत् । विभिन्नार्थेति निवेशाभावे विरोधप्रसक्तिरेव नास्ति । एकस्यैव घटस्य घटकुम्भकलशादिबहुसञ्ज्ञालाभदर्शनात् । लभते प्राप्नोति । प्राप्तिः सम्बन्धः तच्च वाच्यत्वम् । सञ्ज्ञामित्येकत्वमविवक्षितम् । द्वितीयार्थो निरूपितत्वं वाच्यत्वरूपसम्बन्धान्वयी । तथा च तत्समभिव्याहृतलमघातुना प्राणशब्दादितत्तच्छब्दवाच्यत्वानि सर्वाण्युच्यन्ते । तेषु सर्वेष्वपि शब्दार्थसामानाधिकरण्यान्वयादेकस्यैव सर्वपदवाच्यत्वावगतिः । आश्रयत्वमाख्यातार्थस्स इत्यत्रान्वेति । । -
आकाशं लक्षयति शब्देति । शब्दो गुणो यस्य । षट्यर्थः समवेतत्वम् । यन्निरूपितसमवेतत्वाश्रयगुणः शब्दाभिन्नः । शब्दसमवायोति गुणपदे लक्षणा । कालिकसम्बन्धेन शब्दवति कालेऽतिव्याप्तिरिति समवायेति । गुणति न रक्षणप्रविष्टम् । तदुक्तिस्तु शब्दस्य गुणत्वात् -
[[२४]]
सुख प्रवेशिनीसमेतः ।
[[२५]]
अतीतादिव्यवहारहेतुः कालः, सचैको विभुर्नियश्च ।
त्याह द्रव्यत्वाभावात् किञ्चिदाश्रितत्वस्यावश्यकत्वादाकाशसिद्धिरित सूचनाय । तथा च समवायन शब्दो लक्षणम् । पृथिव्यादाविवाल विभागो नास्तीतश्चेति । चकारः पृथिव्यादिवैलक्षण्यार्थस्तुपर्यायः । एकम् एकत्वातिरिक्त सङ्ख्या पर्याप्तयधिकरणतानवच्छे इक समभिव्याहनपदार्थतावच्छेदकत्र दिति यावत् । नन्वाकाशस्यैकत्वे तस्य काञ्च्यां सत्त्वे कावेरीपरिसरे शब्दो नोत्पद्येत कारणाभावात्तत्राह विविति । सर्वव्यापि, सर्वसम्बन्धीत्यर्थः । रूपादिसम्बन्ध आकाशे बाधित इति सर्वद्रव्यसम्बन्धीति वक्तव्यम् ; विभुनो विभुना न सम्बन्ध इत्यसम्भवात्सवमूर्तद्रव्यसम्बन्धीति; ज्ञानमपि विषयतया तावत्सम्बन्धीत्यतिव्याप्तचा सर्वमूर्तद्रव्यसंयोगीति । तच्च न तत्तन्मूर्तद्रव्यं विशिष्य गृहीत्वा तन्मूर्तसंयागित्वे सत्येतन्मूर्तसंयोगित्वे सतीत्येवम् । तथा सर्वग्रहणप्त्याशक्यत्वात् । अतो मूर्तत्वव्यापक संयोगाश्रयत्वं विभुत्वम् । तत्रापि संयोगे त्यनेनैकैक संयोगग्रहणे न कस्यापि मूर्तत्वव्यापकत्वम् घटाकाशसंयोगादेः पटादावभावादिति संयोगसम्बन्धेन मूर्तत्वव्यापकत्वं तदिति निष्कर्षः । आकाशस्यैकत्वे यदा तस्य नाशस्तदुत्तरं कथं शब्दोत्पत्तिस्तत्राह नित्यमिति । प्रागमावाप्रतियोगित्वध्वंसाप्रतियोगित्वाभयवदित्यर्थः । चार्थः समुच्चय एकत्व विभुत्वनित्यत्वेष्वन्वेति । , -
- अतीतति । अतीतशब्दोऽतीतघटादि वस्तुपरः । अतीत आदिर्येषां ते । आदिशब्दोऽतीततद्भिन्नवस्तुपरः । तेषां व्यवहारो ज्ञानजनकशब्दप्रयोगः । षष्ट्यर्थो विषयित्वं ज्ञानेऽन्वेति । समासे आदिपदमतीततद्भिन्नवस्तुविषयकपरम् । अभेदेन ज्ञाने तदन्वयः । व्यवहारपदस्य ज्ञानजनकशब्द प्रयोगनिरूपिते लक्षणा । हेतुः कारणतावान् । एकदेशे कारणतायामभेदेन तद्न्वयः । अतीतादि वस्तुविषयकाभिन्नज्ञानज4 T
[[२६]]
तर्कसङ्ग्रहः ।
नकशब्द प्रयोग निरूपिताभिन्नकारणतावदभिन्न इति बोधः । यद्वा अतीत इत्यादिर्येषां ते । इतिशब्दः प्रकारवाची सा चेहानुपूर्वी । व्यवहारः प्रयोगः । यदीयादिभूतो व्यवहारोऽतीतशब्दवृत्त्यानुपूर्व्यवच्छिन्नविषषयक इति विग्रहार्थः । समासे आदिपदमतीत तद्भिन्नशब्द विषयकपरम् । भिन्नश्च शब्दोऽनागतादिः । अतीतादयो व्यवहारास्तेषां हेतुरित्यादिपूर्ववत् । अतोऽतीततद्भिन्नशब्द विषयकव्यवहारनिरूपिताभिन्न कारणतावानिति बोधः । अतीतादिव्यवहारो हि कालस्यैव व्यवहारः । तत्रे कालः कारणम् । व्यवहर्तव्याभाव व्यवहारासम्भवादिति । ननु व्यवहर्तव्यज्ञानमेव कारणम् । न तु व्यवहर्तव्यम् । अतः कारणत्वं कालज्ञानस्यैव, न तु कालस्यत्यसम्भवः । न च कालस्य सर्वकारणत्वान्नासम्भव इति वाच्यम् । ईदृशकारणत्वस्यादृष्टेश्वरयोरपि सत्त्वादतिव्याप्तरिति चेत् हेतुपदं जनकज्ञानविषयपरम् । कालज्ञानस्य तादृशव्यवहारासाधारणजनकत्वात्कालस्य तादृशज्ञान विषयत्वमस्तीति न दोषः । -
ननु जनकज्ञानेत्यनेन, ‘अतीतः भूतलं च घटवाद’ ति समूहालम्बनज्ञानस्यापि ग्रहणसम्भवात्तद्विषयत्वं भूतलादावित्यतिव्याप्तिरिति चेन्न जनकज्ञानविषयेत्यस्य जनकतावच्छेदकविषयतावानित्यर्थः । नियमेन यद्विषयक - ज्ञानं जनकम् तन्निष्ठविषय तैव जनकतावच्छेदिकेत्यदोषात् । ननु वर्तमानेत्यस्य शब्दप्रयोगाधिकरणकालेत्यर्थः । अतीतेत्यस्य तादृशकालवृत्तिध्वंसप्रतियोगीति । अनागतेत्यस्य तादृशकालवृत्तिप्रागभावप्रतियोगीति । तथा चातीतादिशब्द प्रयोगजनकज्ञानं शब्दप्रयोगाधिकरणकालवृत्तिध्वंसप्रतियोगीत्यादिरूपम् । तादृशज्ञानविषयत्वं च यथा काले तथा कालवृत्तित्वे ध्वंसे प्रागभावे प्रतियोगिनि चेति तत्र सर्वत्रातियाप्तिः । न च जनकज्ञान विषयत्वं नाम जनकतावच्छेदक विशेष्यता
सुखप्रवेशिनीसमेतः ।
। निरूपितविषयतानिरूपितविषयतानिरूपितविषयतानिरूपितविषयताश्रयत्वम् विशेष्यता प्रतियोगिघटादिनिष्ठा, तन्निरूपित विषयता प्रतियोगित्वनिष्ठा । तन्निरूपितविषयता ध्वंसप्रागभावनिष्ठा तन्निरूपितविषयता आधेयताख्यवृत्तिनिष्ठा, तन्निरूपितविषयता काल एव । वर्तमानव्यवहारहेतुत्वं च जनकतावच्छेदकावशेष्यतानिरूपितविषयतानिरूपितविषयताश्रयत्वमेव । शब्दप्रयोगाधिकरणकालवृत्तीत्यर्थे कालवृत्तिघटादिनिष्ठा विशेष्यता तन्निरूपितवि पयता वृत्तिनिष्ठा, तन्निरूपितविषयता काल एवेति । सर्व पृथग्लक्षणम् । अतो न दोष इति वाच्यम् । शब्दप्रयोगं प्रति यथा अर्थज्ञानं कारणम् तथा शब्दज्ञानमपि । एवमध्ययनकाले शिष्यीयशब्दप्रयोगं प्रति गुरुप्रयुक्तशब्दज्ञानं कारणं दृष्टमेव । तस्मादिदं लक्षणमतीतेत्यादिशब्दान्तर्गतवर्णेऽपि भविष्यतीत्यतिव्याप्तरिति चेन्न; तादृशजनकतावच्छेदकप्रकारताश्रयाघेयतानिरूपकत्वं लक्षणम् । तत्र तत्र शब्दप्रयोगाधिकरणकालवृत्तीत्यत्र वृत्तिरूपाधेयतानिष्ठप्रकारतामादाय लक्षणसमन्वय इत्यदोषात् ।
ननु किमत्र लक्षणम् ? किमतीतवस्तुविषयकज्ञानजनक शब्दप्रयोगजनकतावच्छेदकप्रकारताश्रयायतनिरूपकत्वम् किं वाऽतीतशब्दप्रयोगजनकतावच्छेदकप्रकारताश्रयाधेयतानिरूकत्वम् ? नोभयमपि सम्भवति । आत्माश्रयात् । लक्षणघटकं हि जनकत्वं नियतपूर्वकालवृतित्वरूपम् । तत्र च कालो घटकः । एवं प्रथमेऽतीत व स्त्वित्यस्य शब्दप्रयोगाधिकरणकालवृत्तिध्वंसप्रतियोगीत्यर्थ इति च तत्र कालो घटकः । ननु लक्षणे लक्षणस्य घटकत्व ह्यात्माश्रयः । कालत्वमतीतव्यवहारहेतुत्वमिति नोच्यते । किन्तु कालस्येदं लक्षणमिति । लक्षणे तु कालत्वमेव घटकम् । तच्च तव्यक्तित्वादिरूपमिति न देोष इति चेत् ; तथाऽपि लक्षणघटकस्य कालत्वस्यैव लक्षणत्वसम्भवेन लक्ष्यतावच्छेदकघाट तलक्षणवर्णन मयुक्तम् । नच लक्ष्य
[[२७]]
तर्कसङ्ग्रहः ।
किञ्चिद्रूपेण बुध्वा तस्य किं लक्षणामति प्रश्ने प्रष्टुर्यत् लक्ष्येऽन्यूनानतिप्रसक्तत्वेन न ज्ञातम्, तल्लक्षणं वक्तव्यम् । यथा पृथिवीं घटपटादिकां पृथिबीत्वेन बुध्वा तल्लक्षणप्रश्ने गन्धो लक्षणमुच्यते तद्वत् । प्रकृते लक्ष्यज्ञाने सति कालत्वं ज्ञातमिति लक्षणप्रश्न ज्ञातस्य तस्यैव कथन न युक्तमिति वाच्यम् । तथा सत्यतीतव्यवहारहेतुत्वरूपप्रकृतलक्षणस्यापि कथनासम्भवात् । पुरुषस्य कालज्ञानं ह्यतीतोऽयं अनागतोऽयमित्येवम् । एवमतीतत्वादिज्ञाने सत्यतीतत्वादिघटके कालेऽतीतत्वादिज्ञान विषयत्वमपि ज्ञायेतैव । अतो ज्ञातस्य तस्य न लक्षणत्वामेति । किञ्च पृथिवीति ज्ञानमात्रेणेतरव्यावृत्ततया न ज्ञातमिति हि गन्धो लक्षणमुच्यते । तद्वत् काल इति ज्ञानमात्रेणेतरव्यावृत्तिज्ञानाभावादिदं लक्षणमिति वक्तव्यम् । न च तत्सम्भवति । एतल्लक्षणमध्येऽपि कालत्वेनैव कालघटनादविशेषात् । किञ्च वर्तमानकालवृत्तिध्वंसप्रतियोगिविषयकज्ञानजनक शब्द प्रयोगजनकज्ञानविषयत्वापेक्षया वर्तमानकालवृत्तिध्वंसप्रतियोगिविषयकज्ञान विषयत्वमेव लघुलक्षणं भवितुमर्हति । लघुतरं च कालविषयकज्ञानविषयत्वं लघुतमं च कालत्वमेव । लक्ष्यतावच्छेदकस्य लक्षणकोटिप्रवेशाङ्गीकारवलक्षणत्वमपि युज्यत एव । तस्मादेष शिरोवेष्टनेन नासिकास्पर्शो न युज्यत इति चेत् - सत्यम् । अथापि, काल इति किमर्थमतिरिक्तं द्रव्यं कल्प्यम् । वर्तमानकालः, अतीतकाल इत्यादेस्तत्तत्सूर्यपरिस्पन्दपरतयैव निर्वाहात् । परिस्पन्दश्च क्रियेति नातिरिक्तवस्तुकल्पनेत्याशङ्का कस्यचिद्भवेत् । तत्र, अतिरिक्तानङ्गीकारेऽतीतादिव्यवहारो नोपपद्यते । अतीत इति हि शब्दप्रयोगाधिकरणकालवृत्तिध्वंसप्रतियोगीत्यर्थकम् । तत्र कालपदेन परिस्पन्दग्र’हजे तस्य शब्दप्रयोगाधिकरणत्वं न भवति । सूर्यनिष्ठक्रियायाः पुरुषनिष्ठाच्चारणक्रियाधिकरणत्वायोगात् । एवं घटादिध्वंसस्यापि न तद्वृत्तित्वम् । 9 -
[[२८]]
सुखप्रेवशिनीसमेतः ।
[[२९]]
प्राच्यादिव्यवहारहेतुः दिक । सा चैका विभ्वी नित्या च । ज्ञानाधिकरणमात्मा । स द्विविधः, परमात्मा जीवात्मा चेति ।
तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । अतः शब्दप्रयोगाधिकरणत्वघटादिध्वसाधाश्रयोऽतिरिक्तकालः । तदाश्रयत्वेन च स प्रतोतिबलात्वीकार्यः । प्रतीतिश्च व्यवहारान्यथाऽनुपपत्त्या सिद्धेत्येवं तत्परिहारायातीतादिव्यवहारहेतुरित्युक्तम् । तथा च परिस्पन्दादिव्यावृत्ततया कालज्ञानमतीतादिव्यवहार हेतुत्वेन भवतीति तल्लक्षणमिति । अल ‘अपरस्मिन्नपरं युगपच्चिरं क्षिप्रामति काललिङ्गानी’ ति सुत्रानुसोर अतीतादिव्यवहारो हेतुः साधकप्रमाणं यस्य स इति विग्रहेणातीतादिव्यवहारानुमेयत्वं कालस्य विवक्षितमित्यपि वक्तुं शक्यम् । अतीतादिव्यवहारः सूर्यपरिस्पन्दाद्यतिरिक्तवस्तुविषयकः शब्दप्रयोगाद्यधिकरणतया किञ्चिद्विषयकत्वादित्येवमनुमानप्रकारः ।
प्राचीति । विग्रहादिकं पूर्ववत् । तथा च प्राचीविषयकज्ञानजनक शब्दप्रयोगजनकतावच्छेदक विशेष्यताश्रयत्वमिति प्राची शब्द प्रयोगजनकतावच्छेदकविशेष्यताश्रयत्वमिति वा निष्कर्षः । प्राचीशब्दार्थो ह्यदयगिरिसन्निहिता दिगोते । तल दिशो विशेष्यत्वमेवेति ।
ज्ञानेति । ज्ञानम्याधिकरणमाधारतावान् । निरूपितत्वं षष्ठ्यर्थः । ज्ञानपदस्य ज्ञाननिरूपिते लक्षणा । आत्मनि समवायेन ज्ञानमस्तीत्यात्मा ज्ञानाधिकरणम् । न च विषयतासम्बन्धेन घटादौ कालिकसम्बन्धेन काले च ज्ञानसत्त्वादतिव्याप्तिरिति वाच्यम् ; समवायेन ज्ञानं लक्षणमित्याशयात् । तत्र परमात्मजीवात्मनोः । घटकत्वं त्रलोऽर्थः । परमात्मेत्यत्रान्वेति । सर्वशः सर्वपदं सर्वविषयकलाक्षणिकम् । अभेदेन ज्ञाघात्वर्थज्ञाने तदन्वयः । एकः एकत्वसङ्ख्या विशिष्टः । एकत्वातिरिक्तसङ्ख्यापर्याप्त्यनाधिकरणत्वमेवकारार्थः । अस्याश्रयतासम्बन्धेन परमात्मन्यन्वयः । ,
[[३०]]
तर्कसङ्ग्रहः ।
जीवस्तु प्रतिशरीरं मिनो विभुर्नित्यश्च ।
अन्यपदार्थानां च तत्राभेदेन । एवकारार्थे ईश्वरत्वं सर्वज्ञत्वं च हेतुः । जीव स्त्विति । तुशब्देन परमात्मापेक्षया वैलक्षण्यमाह । प्रतिशरीरं भिनइति । जीवः शरीरे शरीरे भिन्नः, जीव एकैकशरीरावच्छिन्नोऽपि शरीरान्तरावच्छिन्नजीवाद्भिन्न इति भावः । अयमर्थः - भिन्न इत्युक्तौ कस्माद्भिन्न इत्याकाङ्क्षायां शरीराद्भिन्न इति तावन्न विवक्षितम् । अतो जीवाद्भिन्न इति वक्तव्यम् । तत्र यत्किञ्चिज्जीवभेदोक्तौ जीवद्वयमात्रसिद्धिः स्यात् न त्वनन्तजीवसिद्धिः । जीवसामान्यभेदोक्तौ तु जीवे तदसम्भवः । अतः शरीरान्तरावच्छिन्नजीवभेदा वाच्यः । तत्र शरीरान्तरेत्यस्य न खावच्छेदकशरीर भिन्नशरीरेत्यर्थः, तथा सति जीवद्वयत्रयाङ्गीकारेऽपि क्षतिविरA - हात्; स्वावच्छेद कशरीराण्येतज्जीवीयानि, तद्भिन्नशरीराण्यन्यजीवीयानि, तदवच्छिन्नजीवसामान्यभेदो जीवेऽस्तीति । अतस्तस्य यत्किञ्चिच्छरीरभिन्नशरीरत्यर्थः । तथा च जीवद्वयाङ्गीकारे एकैकस्य बहुशरीरसद्भावेन यत्कि श्चिच्छरीरपदनैकशरीरग्रहणे तद्भिन्नशरीरेत्यनेन तज्जीवीयशरीरान्तरस्यापि ग्राह्यतया तदवच्छिन्नजीवः स एवेति न तस्मिन् जीवे तादृशजीवसामान्यभेदसिद्धिः । अतोऽनन्तजीवप्रतिपादकत्वमस्य वाक्यस्य । एवमध्येकस्य जीवस्यैक्रमेव शरीरमन्यानि शरीराणि सर्वाण्यन्यस्यै कस्येत्यङ्गीकारे शरीर पदेन - कशरीरकजीवपरिग्रहे यत्किञ्चिच्छरीरं तदीयम् तद्भिन्नशरीरावच्छिन्नजीवसामान्यभेदस्तस्मिन्नस्तीति वाक्यार्थपर्यवसानान्नानन्तजीवपरत्वसिद्धिः, अतः प्रतिशरीरमित्युक्तम् तथा चकैकमपि शरीरं पृथक्पृथग्गृहीत्वा तल तल यत्किञ्चिच्छरीरभिन्नशरीरावच्छिन्नजीवसामान्यभिन्नत्वं जीव उपपादनीयम् । इदं चैकस्य शरीरद्वयाङ्गीकारेऽपि न भवति, यत्किञ्चिच्छरीरपदेन तद्वया, , १
सुखप्रवेशिनीसमेतः ।
न्तर्गतैकशरीरग्रहणे तदन्यशरीरं तद्वयान्तर्गतमन्यदपीति तदवच्छिन्नजीवसामान्यभिन्नत्वस्य क्वचिदपि जीवेऽसम्भवात् । अतः शरीरभेदेन जीवभेद - सिद्धिः । अयमल बोधः । प्रतिशब्दार्थोव्यापकत्व मधिकरणनिष्ठाभावाप्रतियोगित्वं भेदान्वयि । अधिकरणेऽवच्छिन्नत्वसम्बन्वेन शरीरान्वयः । भिन्न इत्यत्र भेदो यत्किञ्चिच्छरीरभिन्न शरीरावच्छिन्नजीवसामान्यप्रतियोगिकभेदरूपः, शरीरविशिष्टभेद इति यावत्, वैशिष्ट्यं स्वभिन्नशरीरावच्छिन्नजीवत्वावच्छिन्न प्रतियोगिताकत्वसम्वन्धेन । तथा च शरीरावच्छिन्नाधिक रणनिष्ठाभावाप्रतियोगित्वाश्रयशरीरविशिष्ट भेद निरूपिताश्रयतावदभिन्नो जीव इति । यदि तु प्रतिशरीरमित्यस्य शरीरत्वव्यापकत्वरूपार्थविवक्षा, तदा यत्र यत्र शरीरत्वम्, तत्र तत्र तादृशभेद इत्यर्थो वाच्यः । तत्र शरीरत्वं शरीरोरेऽस्ति, तत्र भेदस्य सम्बन्धः स्वाश्रयावच्छेदकत्वम् । अतो व्याप कता वायवच्छेदकत्वसम्बन्घावच्छिन्ना ग्राह्या । व्यापकताघटकाभावीयप्रतियोगता तत्सम्बन्वावच्छिन्नत्युक्तं भवति । एवं च प्रतिशब्दस्याभावाप्रतियोगित्वमर्थः । अभावे शरीरस्याधेयतासम्बन्धेनान्वयः । शरीरानेष्ठाभावाप्रतियोगित्वमेव हि शरीरत्वव्यापकत्वम् । यद्यपि भिन्न इत्यस्य पूर्वोक्तार्थकत्वे जीवपदार्थस्योद्देश्य त योद्देश्यविधेयभावमहिम्मैव जीवः सर्वोऽपि निरुक्तभेद्रवानित्यर्थलामे सर्वसिद्धया प्रतिशरीरमित्यस्य वैयर्थ्यामित्याशङ्का प्र सजति ; अथापि प्रतिशरीरमिति पदप्रयोगवशादेव भिन्नपदस्य शरीरभेदातिरिक्ततादृराजी व भेदरूपवित्रक्षितार्थसिद्धिः । एवं सर्वतोद्देश्य विधेयभावस्थल व्याप्यव्यापकभावप्रतीतिनियमाभावार्जीवानन्त्यं न निश्चीयेतति तदुक्तमिति समाधानं द्रष्टव्यम् । अत एकैकशरीरावच्छिन्नोऽपि जीवः शरीरान्तरावच्छिन्नजीवाद्भिन्न इत्यत्र प्रथमपदस्येव प्रतिशरीरमित्यस्य न वैयर्थ्यम् । अत्र चैकस्यापि जीवस्य जन्मभेदेन शरीरभेद स्येष्टत्वादीहराभेदो
[[३१]]
[[३२]]
तर्कसङ्ग्रहः ।
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः, तच्च प्रत्यात्मनियतत्वा
जीवे दुर्वचः । तथा योगजधर्मबलेन बहुशरीरपरिग्रहस्यापि सम्मततया योगिनि जोवेऽयं भेदो न भवति । अतः स्खभिन्न शरीरेत्यस्य स्खभिन्नखसमानकालिक योगज वर्माजन्यशरीरेत्यर्थ इति बोध्यम् ।
एवं तावत्प्रतिशरीरमित्यत्न शरीरपदस्य यथाश्रुतार्थरक्षणेन, तत्तच्छरीरे शरीरान्तरावच्छिन्न जीवाद्भिन्न इति प्रयोगसमानार्थकत्वानुभवानुसारेण च बोधो वर्णितः । केचित्तु शरीरपदं यत्किञ्चिच्छरीरभिन्नशररिपरम् । तादृशशरीरत्वव्यापकभेदप्रतियोगी जीव इति बोधः । व्यापकता खाश्रयावच्छेदकत्वसम्बन्धेनेत्याहुः । तत्र भिन्नशब्दस्य भेदप्रतियोगीत्यर्थवर्णनमयुक्तम् ; घटः पटाद्भिन्न इत्यादौ भेदानुयोगीत्येवानुभवात् । एवं च स्वाश्रयावच्छेदकत्व सम्बन्धविवक्षणे घटभेदमादायान्यथासिद्धिरिति खप्रतियोग्यवच्छेदकत्वं सम्बन्ध इति वक्तव्यम् । एवमपि जीवस्यैकत्वऽपि जीवघटोभयभेदमादाय जीवस्य भेदाश्रयत्वं भेदप्रतियोगित्वं चास्तीत्यन्यथासिद्धिः । तथा भेदे व्यापकत्वविवक्षामपेक्ष्य यत्किञ्चिच्छरीरभिन्नशरीरावच्छिन्नात्मत्वावच्छिन्नप्रतियोगिताकत्वरूपलघुवर्मनिवेशेनैव सामञ्जस्यात्तदुपेक्षणमयुक्तमिति मूलस्य न्यूनता स्यादित्यदिरखरसः ।
मनो लक्ष्यति सुखेति । सुखमादिर्येषां तानि सुखादीनामुपलब्धिः । षष्ठ्यर्थो विषयित्वम् । तस्यास्साधनं कारणतावत् । निरूपितत्वं षष्ठ्यर्थः । समास उपलब्धिपदस्य मुखतद्भिन्न विषयकोपलब्धिनिरूपितेति लक्ष्यार्थः । अभेदेन कारणतायामन्वयः । तादृशकारणता वदभिन्नामिन्द्रियाभिन्नं मन इति बोघः । सुखप्रत्यक्षकारणत्वे सतीन्द्रियत्वं लक्षणम् । आदिपदं सुखवद्दुःखादिकमादायापि लक्षणं सुवचमिति प्रदर्शनाय । चक्षुरादाबात्ममनःसंयोगरूपसन्निकर्षे चातिव्याप्तिवारणाय दलद्वयम् । प्रत्यात्मनियतत्वा
सुखप्रवेशिनीसमेतः ।
दनन्तं परमाणुरूपं नित्यं च । चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरितकपि
- दिति । नियतं व्यवस्थितम् । प्रतिशब्द घटितपद समभिव्याहृतश्च नियतशब्दस्तत्पदार्थीयतत्तद्व्यक्ति व्यवस्थितपरः । तद्व्यवस्थितत्वं च तदितरासम्बन्धित्व सति तत्सम्बन्धित्वम् । तथा च यत्किञ्चिदात्मभिन्नासम्बन्धित्वे सति तत्सम्बन्धित्वम् । स्खभिन्नासम्बन्धित्वस्व सम्बन्धित्वामयसम्बन्धेनात्मविशिष्टत्वं प्रकृते नियतत्वम् । प्रतिशब्दस्य पूर्ववद्व्यापकत्वमभावाप्रतियोगि त्वमर्थो नियतत्वेऽन्वेति । आत्मन आङ्घयतासम्बन्धेनाभावेऽन्वयः । व्यापकत्वं चेदं निरूपकतासम्बन्धेन । यत्र यत्रात्मत्वम्, तत्र तत्त्रात्मनि मनोगतमात्म विशिष्टत्वं निरूपकतासम्बन्धेनास्तीति । आत्मनिरूपितवैशिष्ट्ये ह्यात्मा निरूपकः । ज्ञानज्ञाप्यत्वं पञ्चम्यर्थोऽनन्तत्वान्वयि । अनन्तमिति बहुत्रीहिरिति अन्तपदस्य पर्याप्ति सम्बन्धावच्छिन्न सङ्ख्या निष्ठप्रतियोगिताकाभाववदित्यर्थे, स्वव्यापकसङ्ख्या वत्त्वसम्बन्धावच्छिन्नमनस्त्वनिष्ठप्रतियोगिताकाभाववदित्यर्थे वा लक्षणा । नञ तात्पर्यग्राहकः । तथा चात्मनिष्ठाभावीयनिरूपकतासम्बन्धावच्छिन्न प्रतियोगित्वाभाचव-दात्मविशिष्टत्व-विषयकज्ञान - ज्ञाप्यत्वाश्रय, स्वव्यापकसङ्ख्यावत्त्व सम्बन्धावच्छिन्नमनस्त्वनिष्ठप्रतियोगिता काभाववदभिन्न मन इति बोधः । आत्मानो ह्यनन्ताः । अतः प्रत्यामं व्यवस्थितत्वान्मनोऽप्यनन्तमिति ।मनस आत्मसम्बन्धित्वं चात्मनिष्ठसुखाद्युत्पादक विलक्षणसंयोगाश्रयत्वं । परमाणुरूप मिति । रूपपदस्य परमाणुत्ववति लक्षणा । पृथिव्यादिपरमाणव इव मनांस्यपि परमाणूनीति , भावः । HO 1 गुणा निरूप्यन्ते । तत्र प्रथमं
एवं द्रव्याणि न्यरूभ्यन्त । अथ रूपं निरूपयन् लक्षयति चक्षुरिति । चक्षुरेव चक्षुर्मात्रम् । तेन ग्राह्यः । 5T
w m
[[३४]]
तर्कसङ्ग्रहः ।
एवकारस्तावत् स्वसमभिव्याहृत पदार्थस्य येन सम्बन्धेन यस्मिन् पदार्थेऽन्वयः समभिव्याहृततत्पदार्थभिन्नपदार्थप्रतियोगिकतत्सम्बन्धाभाव तस्मिन् पदार्थे प्रतिपादर्यात । अत्र च चक्षुः पदार्थस्य तृतीयार्थे जन्यत्वे निरूपितत्वसम्बन्धेनान्वय इति एवकारश्चक्षुर्मिन्ननिरूपितत्वाभावार्थवाचकः । तस्य तृतीयार्थ एव जन्यत्वेऽन्वयः । य एवकारार्थः स मालपदार्थ इति । यद्वा एवकारसमभिव्याहृत पदार्थे याहशविशिष्टार्थसम्बन्धी विशिष्टवाक्येन प्रतिपाद्यते, तादृशविशिष्टार्थाभावव्याप्य भेद प्रतियोगित्वमेवकारार्थः । तस्य समभिव्याहृतपदार्थेऽन्वयः । यथा जले मधुररस एवेत्युक्तौ मधुररसे जलवृत्तित्वं वाक्येन प्रतिपाद्यते । एवकारस्य जलवृत्तित्वाभावव्याप्यभेद प्रतियोगित्वमर्थः । तस्य मधुररसेऽन्वयः । यत्र यत्र मधुररसभेदस्तिक्तरसादौ तल जलवृत्तित्वाभाव इति व्याप्तिः । जले इति सप्तम्या आधेियत्वमर्थो मधुररसेऽन्वेति । तथा च जलवृत्तित्वाभावव्याप्यभेदप्रतियोगित्वाश्रयो जलनिरूपिताधेयत्वाश्रयो मधुररस इति बोधः । अत्र चैवकारार्थे घटको भेदः साजात्यरूपः । सानात्यं च वक्तृबुद्ध्यनुसारेण तत्र तत्र विलक्षणम् । अतो जले मधुररसभिन्नशीतस्पर्शीदेः सत्त्वेऽपि न वाक्यार्थक्षतिः । रसानां मध्ये जले म धुर एवेत्येव वक्तुस्तात्पर्येण रसान्तर्भूतत्वघटितसाजात्यस्य भेदपदार्थत्वात् । तथा च प्रकृते चक्षुग्रह्यो गुणो रूपमिति वाक्येन चक्षुषि रूपविषयकग्रहनिष्ठजन्यता निरूपकत्वस्य बोधात् मालपदस्य रूपविषयक ग्रहनिष्ठजन्यतानिरूपकत्वाभावव्याप्यभेदप्रतियोगित्वमर्थः । तस्य चक्षुष्यन्वयः । चक्षुःपदार्थस्य तृतीयार्थे जन्यत्वे । तस्य ग्रहधात्वर्थे ज्ञाने । समासे च मात्रपदं तादृशभेदप्रतियोगिचक्षुर्जन्येत्यर्थलाक्षणिकम् । अभेदेन तस्य ग्रहेऽ न्वयः । ण्यत्प्रत्ययस्य विषयतावानर्थः । ग्रहस्य विषयतायां निरूपितत्वं सम्बन्धः । तथा च तादृशविषयतावदभिन्नगुणामिन्नं रूपमिति बोधः । एव 1
सुखप्रवेशिनीसमेतः । ३५ कारार्धघटकव्याप्यव्यापकभावनिवेशे गौरवमिति लाघवाच्चक्षुर्भिन्नाग्राह्यत्वे सति चक्षुग्राह्यत्वे सति गुणत्वमिति रूपलक्षणं फलति । अथ वा एवकारसमभिव्याहृतपदार्थे यादृशविशिष्टवाक्यार्थसम्बन्धो वाक्येन बोध्यते, तादृशविशिष्टार्थव्यापकत्वमेवकारार्थः । जले मधुररस एवेति वाक्यस्य रसमध्ये जले मधुर एवेत्यत्र तात्पर्यात् जलवृत्तिरसत्वव्यापकत्वं मधुररसे बोध्यते । व्यापकत्वमभेदसम्बन्धेन । प्रकृतवाक्यस्य चेन्द्रियेषु मध्ये चक्षुबैव ग्राह्यं रूपमित्यर्थे तात्पर्यात् चक्षुषीन्द्रियान्तर्गतत्व विशिष्टं गुणविशेषविषयक ग्रह निष्ठजन्य तानिरूपकत्वं वाक्येन बोध्यत इति मात्रपदस्य तादृशबोध्यमानधर्मव्यापकत्वमर्थः । अथ वा एवकारसमभिव्याहृतपदार्थस्य यादृशविशिष्टार्थेन यः सम्बन्धः प्रकृतवाक्यसिद्धः तस्मिन् तादृशपदार्थ प्रति तेन सम्बन्धेन व्यापकत्वमेवकारार्थः । तादृशविशिष्टार्थव्यापकत्वं च ताहशविशिष्टार्थनिष्ठाभावाप्रतियोगित्वमालम् । प्रकृते च चक्षुषि रूपात्मकगुणावशेष विषयकग्रहनिष्ठजन्यत्वं प्रति निरूप्यनिरूपकभावसम्बन्धेन व्यापकत्वमेवकारावगम्यम् । तस्य चक्षुष्याश्रयतासम्बन्धेनान्वयः । एवं चक्षुषि गुणविशेषग्रहजननव्यापकत्वोकौ रूपे चक्षुरितराग्राह्यत्वं फलति । इदं च सङ्ख्यावारणाय । गुरुत्ववारणाय चक्षुग्रीयत्वदलम् । यद्वस्तु यदि - न्द्रियप्राचं तन्निष्ठा जातिस्तदभावोऽपि तदिन्द्रियग्राह्याविति न्यायेन रूपत्वादावतिव्याप्तिरिति गुणत्वनिवेशः । अत्र चक्षुर्भिन्नेन मनसा रूपस्य ग्राह्यत्वादसम्भवः । अतो चहिरिन्द्रियेषु मध्ये चक्षुषैव प्रायमित्यत्र वाक्यतात्पर्यत् चक्षुर्मिन्नबाहिरिन्द्रियाग्राह्यत्वे सतीति प्रथमदलार्थः । एतावतो गुरुत्वात् त्वगग्राह्यत्वे सतीत्येव निवेश्यम् । तथा च त्वगग्राह्या चक्षुर्माह्याच या जातिस्तद्वद्गुणत्त्वं लक्षणम् । एवं च न परमाणुरूपेऽव्यातिः । त्वगग्राह्यत्वे सतीति पृथप विशेषणत्वेना निवेश्य जातौ तन्निवेशा,
तर्कसङ्ग्रहः ।
शचित्रभेदात् सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम्, अभास्वरशुक्लं जले, भाखरशुक्लं तेजसि ।
[[३६]]
रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः, जले तु मधुर एव ।
घ्राणग्राह्यो गुणो गन्धः स द्विविधः सुराभरसुरामेश्चेति । पृथिवीमात्रवृत्तिः ।
त्वगिन्द्रियमात्र ग्राह्यो गुणः स्पर्शः । स त्रिविधः शीतोष्णानुष्णाशीतभेदात् । पृथिवीजलतेजोवायुवृत्तिः । तत्र शीतं जले, उष्णन्नातीन्द्रिय सङ्ख्यायाम तिव्याप्तिः । प्रभात्वजातिमादाय प्रभायामतिव्याप्तिचारणाय गुणत्वम् । तच्चत्यादि । पूर्ववदर्थः । शुक्लेति । शुक्लादिशब्दाः पुंसि, चित्रशब्दः क्लषे पृथिवीजलतेजोवृत्तीति । तेषु वृत्तिर्यस्ये ति विग्रहः । वृत्तिपदं पृथिवीजलतेजोनिरूपिताधेयताम्बल्लाक्षणिकम् । तत्र पृथिवीजलतजस्सु । घटकत्वं सप्तम्यर्थः पृथिव्यामन्वेति । तदित्यनुषज्यते । तद्धटकपृथिवीवृत्ति रूपं सप्तविधमिति । अभास्वरशुक्लमिति । तदित्यनुषङ्गाज्जलनिरूपिताचेयतावद्रूपमभास्वरशुक्ला भिन्नमिति बोधः । नात्राभास्वरशुक्लोद्देशेन जलवृत्तित्वं विधेयम् । अभास्वरशुक्लत्वस्य पूर्वमज्ञातत्वात् तस्य पृथिव्यामपि सत्त्वाच्च । अतस्तदित्यनुषङ्गाज्जलवृत्तिरूपोद्देशेनाभास्वरशुक्लविधानम् । भास्वरत्वं परप्रकाशकत्वम् तेजोरूपमात्रवृ तिजातिरेव वा । असुरभिरिति । सुरभिभिन्न इत्यर्थः । स च द्विविधो दुर्गन्ध उपेक्षणीयगन्चश्चति । पृथिवीमात्रवृत्तिरिति । गन्धनिष्ठाघेयतानिरूपकत्वव्यापकत्वं मात्रपदार्थः । समासे वृतिपदं पृथिवीतरावृत्ति - त्वविशिष्टपृथिवीवृत्तित्वविशिष्टे लाक्षणिकम् । त्वगित्यादि । रूपलक्षणघाक्योक्तरीत्या सर्वमनुसन्धेयम् । एवञ्च गुणपदं वायोः प्रत्यक्षत्वमते तत्रातिव्याप्तिवारणाय । उष्ण इति । ननु ‘गुणे शुक्कादयः पुंसी’ ति शुक्काविंशब्दानां गुणवाचित्वे पुंल्लिङ्गमेव युक्तमिति प्रतीयते । अथाप्य - , , Gut
सुखप्रवेशिनीसमेतः । ३७ स्तेजसि, अनुष्णाशीतः पृथिवीवाय्वोः । रूपादिचतुष्टयं पृथिव्यां भास्वरशुक्लमित्यादिः प्रयोगस्तच्छन्दानुषङ्गेण समर्थनीयः; शुक्लदिशब्दानां सर्वत्र विशेष्यसमानलिङ्गत्वमेव । एवञ्च विशेष्यानुपादाने ‘सामान्ये नपुंसक’ मिति क्लीबप्राप्तौ गुणवाचित्वे तदपवादार्थ ‘गुणे शुक्लादयः पुंसी’त्युक्तमिति काशस्यान्यतात्पर्यस्थापनात् । शीवं जल इति क्लीनिर्देशच ‘शीत गुण’ इति कोशागुणवाचित्वकीयावश्यकतया सम्यगेव । उष्ण इति तु कथम् ? ‘उष्णो ग्रीष्मे पुमान् दक्षाशीतयोरन्यलिङ्गक’ इति गुणिवाचित्वे विशेष्य लिङ्गत्वेऽपि ‘शीतोष्णमांसरुधिरमुखाक्षिद्रविणं बल मिति क्लीबसक हे पठितत्वेन गुणवाचित्वे क्लीवस्यावश्यकत्वात् । न च स इति स्पर्शवाचिविशेष्यपदानुषङ्गात् विशेष्यानुपादानाभावात्पुंल्लिङ्गमिति वाच्यम् । शीतमिति पूर्व प्रयुक्ततयाऽनुषङ्गाभावदर्शनात् । न चानुषङ्गेऽननुषङ्गे वा शीतमिति क्लोष एव । अन्यथा शीतं गुण इति कोशवैयर्थ्यादिति वाच्यम् । तर्हि शीतोष्णति कोशावैयर्ध्या योष्णशब्देऽपि क्लीबस्यैव युक्तत्वादिति चेत्, सत्यम् शीतमित्यत्रानुषङ्गाभावेऽप्यत्रानुषङ्गस्याध्याहारस्य वाऽङ्गीकोरणव पुंलिङ्गोपपत्तिः । अत एवोपर्यनुष्णाशीत इत्यप्युपपन्नम् । कोशस्तु विशेष्यानुपादाने सामान्ये नपुंसकस्य प्राप्तस्यानुवादमात्रमिति बहुलप्रयोगानुसारेण कोशस्यान्यथा नयनमिति । अथ वा सुरभ्यादिशब्दवद्धर्मिपर्यन्त - वाचिन उष्णादिशब्द स्योष्णानष्ठेत्येवं लक्षणयाऽर्थः । द्रव्येष्विव गुणादिव्वाप नित्यानित्यविवेको व्युत्पादनीयः । तत्र रूपरसगन्धस्पर्शेषु विवेक एकरूप इति तत्र तत्र पृथगनुक्त्वा चतुष्टयनिरूपणानन्तरमेकदैव तं व्युत्पादयति रूपादीति । रूपमादिर्येषां रूपरसगन्धस्पर्शानां ते रूपादयः । तेषां चतुष्टयम् । षष्ठ्यर्थो घटितत्वम् । आदिपद बहुव्रीहिप्रयुक्ता चतुष्टय पदेन सह तत्पुरुषप्रयुक्ता च लक्षणा । अतो रूपतद्भिन्नघटितेत्यर्थः । चतुरो अवयवा यस्य तच्चतुष्टयम् । यच्छब्दः समुदायपरः । अवNT 43
तर्कसङ्ग्रहः ।
पाकजमनित्यं च, अन्यत्नापाकजं नित्यमनित्यं ‘च, नित्यगतं नित्यम्,
अनित्यगतमनित्यम् । , यवाः घटकाः । षष्ठ्यर्थो निरूपितत्वम् । तथा च यन्निरूपितनिरूपित्वाश्रयघटकताश्रयाश्चत्वारः । चतुर्घटितसमुदाय इति समासार्थः । रूपतद्भिन्नघटिताभिन्न-चतुर्त्रटितसमुदाय इति विशिष्टार्थः । अर्थाद्रूपादय एव चत्वार इति सिद्ध्यति । पृथिव्यां रूपादिचतुष्टयं पृथिवीनिरूपिताघेयत्वाश्रयतच्चतुष्टयम् । पाकजं पाकाज्जायत इति । पाकपदं पाकनिरूपिते लाक्षणिकम् । अमेदेन जनिधात्वर्थजन्यतायामन्वयः । पाको वि लक्षणतेजःसंयोगः । पाकनिरूपिताभिन्नजन्यताश्रया भिन्नामैति विशिष्टार्थः । चार्थसमुच्चयस्यात्रानित्यमित्यत्र चान्वयः । पाकजत्वाद नित्यमिति तात्पर्यम् । नात्र सर्व पाकजमित्युच्यते अपाकजस्याप्यवयवरूपादिजन्यस्य रूपादेः पष्टादौ सत्त्वत् ि। किं तु ‘अनित्यगतमनित्यमित्यत्र न विवादः । नित्यगतविषये विवेचने जलपरमाण्वादौ पाकामावान्नित्यम् । पाकसत्त्वात्तु पृथिवीपरमाणुगतमप्यनित्य’ मितीहाभिसन्धिः । अथ वा प्राकजमिति । समक्षात् परम्परया वा पाकप्रयोज्यमित्यर्थः । अन्यत्न पृथिवीभिन्ने । आघेयत्वं सप्तम्यर्थः । रूपादीत्यनुषज्यते । न तु रूपादिचतुष्टयमिति, ज लादौ गन्धाभावेन चतुष्टयासम्भवात् । पृाथैवीभिन्ननिरूपिताघयतावत् रूपतद्भिन्नमित्यर्थः । पूर्व रूपादीति पृथक्पदमपि चतुष्टय विशेषणं कर्तुं शक्यम् । तदा रूपमादिर्यस्मिन्निति विग्रहः । चेत्यपाकजसमुच्चये । ननु पाकजत्वाद नित्यत्वेऽपाकजत्वान्नित्यत्वमेवेति कथमनित्यत्वमापे । एवमेकस्य नित्यत्वमनित्यत्वं चायुक्तम् । यदि कचिन्नित्यत्वमन्यत्रानित्यत्वं च विवक्षितम् । तर्हि कुत्रेत्यवाह नित्येति । नित्यं गतम् । गत प्राप्तमाघयमित्यर्थः । नित्यमिति । द्वितीयार्थी निरूपितत्वं । नित्यपदस्य नित्यनिरूपिते लक्षणा । आधेयतायामभेदेन तदन्वयः । अनित्यगतमाश्रयोत्प*
[[३८]]
सुखप्रेवशिनीसमेतः ।
m
एकादिव्यवहारहेतुः सङ्ख्या । नवद्रव्यवृत्तिः । एकत्वादिपरार्ध पर्यन्ता । एकत्वं द्विविधं निलमनित्यं चेति । नित्यगत नित्यम् अनित्यगतमनित्यम्, द्वित्वादिकं तु सर्वत्रानित्यमेव ।
चावुत्पद्यते आश्रयनाशे नश्यति । नित्यगतं त्वनादित्वान्नोत्पद्यते, नाशकाभावाच न नश्यतीति भावः ।
१ सङ्ख्यां लक्षयति एकेति । एक इत्यादिर्येषां ते । एकादयश्च ते व्यवहाराश्च तेषां हेतुः । व्यवहारपद मेकतद्भिन्नशब्दप्रयोगनिरूपितेत्यर्थकम् । हेतु जनकज्ञानविषयः । जनकत्वे तदन्वयः । तथा चैकशब्दादिप्रयोगजनकतावच्छेदकप्रकारताश्रयः सङ्ख्येत्युक्तं भवति । एकत्वादिव्यवहारहेतुरिति पाठे तु जनकतावच्छेदक विशेष्यताश्रयत्वमेव लक्षणम्, न तु प्रकारताश्रयत्वम् । ननु किमेकव्यवहारहेतुत्वं द्विव्यवहारहेतुत्वमित्यादि पृथग्लक्षणम्, उत तत्तद्व्यवहारान्यतम हेतुत्वमित्येकं लक्षणम् । नाद्यः पृथग्लक्षणस्य सङ्ख्यायामे कैकस्यामेव सम्भवेन सङ्ख्यान्तरेष्वव्याप्तेः । नान्त्यः, विशिष्य परार्धपर्यन्त सङ्ख्याज्ञानस्य युगपद्दुर्लभत्वादिति चेदुच्यते । सङ्ख्याशब्दप्रयोगजनकतावच्छेदक विशेष्यताश्रयत्वमेव सङ्ख्यालक्षणम् । एकादीत्येतत्तु प्रत्येकसङ्ख्यालक्षणमिति । एकत्वमादिर्यस्याः सा । परार्ध पर्यन्तः पर्यन्ते वा यस्याः सा । एकत्वादिश्च सा परार्धपर्यन्ता चेति कर्मधारयः । षष्ठ्या घटकत्वमर्थ एकत्वे परार्धे चान्वेति । एकत्वस्यादित्वं प्राथम्यं स्वस्मात् पूर्व सङ्ख्यान्तरराहित्यं स्वव्याप्यसङ्ख्याशून्यत्वं स्वभिन्न सङ्ख्या व्यापकत्वाभाव इति यावत् । पर्यन्तश्च स्वस्मादूर्ध्वं सङ्ख्यान्तरराहित्य स्वसङ्ख्याभिन्नसङ्ख्याव्याप्यत्वाभावः । पर्यन्त इति सप्तम्याः सम्बन्धो वैशिष्ट्यमर्थः । बहुव्र्हौ लक्षणया स्वभिन्नसङ्ख्याव्यापकत्वाभाव व देकत्वघटिताभिन्न, सङ्ख्यान्तरव्याध्यत्वाभाववत्परार्धघटिता मेन्नेत्यर्थः । द्वित्वादिकमिति । द्वित्वमादिर्यस्य तत् । आदित्वं स्वभिन्न यत्पदार्थघटकसङ्ख्या व्यापकत्वाभावः । wgita
तर्कसङ्ग्रहः ।
मानव्यवहाराऽसाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति । द्वित्वस्यैकत्वव्यापकत्वेऽपि यत्पदार्थघटकत्वेनाभिमता याः सङ्ख्यास्तद्धटकसङ्ख्यान्तराव्यापकत्वमस्त्येव । समासार्थस्तु द्वित्वव्याप्यत्वाभाववत्सङ्ख्येति । सर्वत्रेत्यस्य पूर्वेणान्वयः । सर्वे नित्यमनित्यं च । नित्यानित्यवृत्तितादृशसङ्ख्येत्यर्थः । एवकारार्थो व्यापकत्वमभेदसम्बन्धेन । द्वित्वादिव्यापकताश्रयानित्याभिन्नमित्यर्थः । द्वित्वादिकं वस्तुनि न सर्वदा वर्तते । इदमे कमिदमेकामित्यपेक्षाबुद्धौ सत्यामुत्पद्यते । अपेक्षाबुद्धिनाशे च नश्यतीत्यनित्यमेवेति भावः । परार्धसङ्ख्या नामाष्टादशभिवी रैदशगुणोत्तरैकत्वसङ्ख्येत कचित् ।
मानेति । मानमिति व्यवहारः शब्दप्रयोगस्तस्यासाधारणं कारणं कारणतावत् । साधारणमित्यस्य तत्सम्बन्धित्वे सति तद्भिन्नसम्बन्धीत्यर्थः । प्रकृते च मानव्यवहारतद्भिन्नसम्बन्धीत्यर्थः । सम्बन्धित्व प्रकृते निरूपितत्वम् । तथा च मानव्यवहारतद्भिन्नोभयनिरूपितभिन्नमसाधारणम् । परिमाणमिति मानव्यवहारभिन्नानिरूपितमानव्यवहारनिरूपितकारणताश्रयः फलितम् । मानव्यवहारतद्भिन्नोभयनिरूपितकारणता हि नाम तदुभयनिष्ठकार्यतानिरूपितकारणतैव । उभयनिष्ठकार्यतायामुभयनिष्ठ एव धर्मोड वच्छेदकः । स च धर्मः कार्यत्वम् । अतः ‘कार्यत्वावच्छिन्नकार्यतानिरूपितकारणता साधारणकारणता’, ‘कार्यत्वान वच्छिन्न कार्यतानिरूपितकारणत्वमसाधारणकारणते ति व्यवहारः । कार्यसामान्यकारणे कालादृष्टादौ मानव्यवहारं प्रत्यपि कारणत्वसत्त्वादतिव्याप्तिरतोऽसाधारणति । वस्तुतस्तु व्यवहारे व्यवहर्तव्यज्ञानमेव कारणम् । न तु व्यवहर्तव्यमिति प्रकृतलक्षणस्य कारणत्वरूपस्यासम्भवः स्यात् । अतो मानव्यवहारकारणीमूतज्ञानविशेष्यत्वमेव पूर्ववद्वक्तव्यम् । मानव्यवहारकारणतावच्छेदक विशेव्यताश्रयत्वमिति यावत् । इदं च न कालादृष्टादौ । तस्य हि स्वरूपत
[[४१]]
सुखप्रवेशिनीसमेतः ।
तच्चतुर्विधम् अणु महत् दीर्घ ह्रस्वं चेति । , पृथग्व्यवहारासाधारणकारणं पृथक्त्वं, सर्वद्रव्यवृत्ति । संयुक्तव्यवहारहेतुः संयोगः, सर्वद्रव्यवृत्तिः । संयोगनाशको गुणो विभागः, सर्वद्रव्यवृत्तिः ।
एव कारणत्वम्, न तु ज्ञानद्वारा । एवं चैवं परिष्कारसुचनायैवासाधारणेत्युक्तमिति । अणु महद्दीर्घ ह्रस्वमिति अणुत्वं महत्त्वं दीर्घत्वं ह्रखत्वमित्यर्थः । यथाश्रुते तेषां परिमाणविशिष्टवाचित्वमेव, न परिमाणमात्रवाचित्वमिति । यद्यपि परिमाणादारभ्य नित्यानित्यविवेको मन्थकृता न प्रादर्शि, अथापि स यथायथं परिशीलनीयः ।
पृथगिति । सर्वं पूर्ववत् । संयुकेति । संयुक्ते इति व्यवहारः । संयोगस्य द्विनिष्ठत्वात् द्विवचनं युक्तमिति । संयुक्तशब्दजनकतावच्छेदकप्रकारताश्रयत्वं लक्षणम् । संयोगेति । नश धातोर्ध्वसोऽर्थः । संयोगस्येति षष्ठ्यर्थे ऽनुयोगित्वम् । यस्याभावः स प्रतियोगी । अभावोऽनुयोगी । समासे संयोगपदस्य संयोगानुयोगिनि लक्षणा । ण्वुलो जनकतावानर्थः । संयोगानुयोग्यभिन्नध्वंसनिरूपितजनकतावदभिन्नो गुणाभिन्न इति । संयोगनाशजनकत्वे सति गुणत्वं लक्षणम् । क्रिया, क्रियातो विभागः, विभागात् पूर्वसंयोगनाशः, उत्तरसंयोगोत्पत्तिः, क्रियानाश इति क्रमः । एवं संयोगनाशकत्वं विभागस्य । इदं च कर्मणोऽप्यस्ति । क्रियाभावे संयोगनाशोत्पत्यसम्भवात् । पूर्वजातविभाग प्रति अनन्तरजनिष्यमाणोत्तरसंयोगं च प्रतीव मध्ये जायमानं संयोगनाशं प्रत्यपि हेतुत्वस्य युक्तत्वाच्च । अतो गुणत्वनिवेशः । एवमप्यदृष्टेऽतिव्याप्तिः । अतः संयोगनाशत्वावच्छिन्नजन्यतानिरूपितजनकतावत्त्वे सतीति पूर्वदलं परिष्कार्यम् । अदृष्टे कार्यत्वावच्छिन्नजन्यतानिरूपितजनकतैवान्ति, न त्वियम् ।
6T
तर्कसङ्ग्रहः ।
परापरव्यवहारासाधारणकारणे परत्वापरत्वे । ते द्विविधे, दिक्कृते कालकृते चेति । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृ तमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् । आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति । आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिवीजलतेजोवृत्ति ।
परेति । परं चापरं चेति परापरे । ते इति व्यवहारौ तयारसा॥ धारणकारणे । परव्यवहारासाधारणकारणत्वं परत्वलक्षणम्, अपरव्यवहारासाधारणकारणत्वमपरत्वस्य । अन्यत् पूर्ववत् । दिक्कृते दिशा कृते । कृञ उत्पत्त्यनुकूलव्यापारोऽर्थः । क्तप्रत्ययस्य फलवदित्यर्थः आघयत्व तृतीयार्थः । समासे दिक्पन्दस्य दिनिष्ठे लक्षणा । दिनिष्ठाभिन्नो य उत्पत्त्यनुकूलव्यापारस्तज्जन्यफलवती इत्यर्थः । यत्र देशमादाय परत्वादिवर्णनम् तत्र दिक्कृतत्वम् । कालमादाय, कालकृतत्वमिति दर्शयति दूरोत । दूरशब्दस्याधिकसंयुक्तसंयोगपरम्परावदित्यर्थः । दूरे तिष्ठतीति दूरस्थम् । सप्तम्या निरूपितत्वं स्थाघातोराघेयत्वं प्रत्ययस्याश्रयतावच्चार्थः । अधिकसंयुक्त संयोगपरम्परावन्निरूपिता भिन्नाघेयताश्रयनिरूपिताधेयतावत्परत्वं दिक्कृताभिन्नमिति बोषः । समीपशब्दो न्यूनसंयुक्तसंयोगपरम्परावदर्थकः । ज्येष्ठोऽधिकक्षणवान् । कनिष्ठो न्यूनक्षणवान् । ,
आद्येति । आद्यं पतनं तस्यासमवायिकारणमसमवायिकारणताबत् । असमवायिकारणत्वान्वाय निरूपितत्वं षष्ठ्यर्थः । पतनपदस्याद्यपतननिरूपिते लक्षणा । आद्यत्वं प्राथम्यं प्रथमोत्पन्नत्वम् । तच्च लाघवात् प तनध्वंसासमानकालिकत्वम् । प्रकृताद्यपतनात् पूर्वमपि कुत्रापि पतनस्य निप्रौव्यादिदमसम्भवीति पतने खसमानाधिकरणति विशेषणं देयम् । नन्वेकमेव वस्तु प्रथमतः पतितं पुनरुत्क्षिप्तं पुनः पतति । तत्र द्वितीयवारपतनक्रिया स्वप्याद्यपतनमस्तीति वक्तव्यम् । तत्रेदं स्वसमानाधिकरण
[[४२]]
सुखप्रवेशिनीसमेतः ।
[[४३]]
तत् द्विविधम् सांसिद्धिकं नैमित्तिक चेति । सांसिद्धिकं जले । ,
पतनध्वंसासमानकालिकत्वं न भवति । तस्य प्रथमवारीयपतनध्वंसकालित्वादिति चेन्मा भूदाद्यत्वं । तद्वस्तुनिष्ठगुरुत्वे प्रथमवारीयाद्यपतनमादाय लक्षणं समन्वितमेवेति । अथापि तत्राद्यत्वव्यवहारस्य क्रियमाणतया तदनुगुणं वक्तव्यमिति चेत् स्वसमानाधिकरणपतनध्वंसोत्पत्त्यसमानकालिकत्वमाधत्वमित्युच्यताम् । द्वितीयवारीयाद्यपतनमपि न प्रथमवारीयपतनध्वंसात्पत्तिकालिकम् । तद्ध्वंसानां प्रागेवोत्पन्नत्वादिति । द्वितीयादिपतनं प्रति वेगोसमवायिकारणम् । तत्रातिव्याप्तिरित्याद्येति । द्रवत्वेऽतिव्याप्तिवारणाय पतनेति । प्रस्तरादौ समवायिकारणेऽतिव्याप्तिरित्यसमवायीति । पतनमधोदेशसंयोगानुकूलक्रिया । स्यन्दनं निम्नदेशसंयोगानुकूलक्रिया । सांसिद्धिकमिति संसिद्धौ भवं सांसिद्धिकम् । संसिद्धिस्वभाव आश्रयसत्ता । भवं सत्तावत् । सप्तम्यर्थः प्रयोज्यत्वम् । प्रत्ययार्थैकदेशसत्तायां संसिद्धेः प्रयोज्यतासम्बन्धनान्वयः । आश्रयसत्ताप्रयोज्यसत्तावत् । आश्रयसतामात्र प्रयोज्यसत्ताकम् । अग्निसंयोगानधीनामेति यावत् । नैमित्तिक - मिति । निमित्तमवयवगुणातिरिक्तासमवायिकारणम् । घटपटादौ दहनतपनादौ च द्रवत्वादर्शनात्स्थलं विशिष्य दर्शयस्तलासाधारणकारणमपि विशिष्य निर्दिशति पृथिव्यामित्यादिना । पृथिव्यामिति सप्तम्यर्थो घटकत्वं वृताद्यन्वयि । पृथिव्यामित्यस्य घृतादाविति विशेषणं वा । तदा सप्तम्यर्थ आघयत्वं द्रवत्वान्वयि । घृतमादिर्यस्याः सा । आदिना जतुप्रभृतिपरिग्रहः । घृततद्भिन्नामिन्नपृथिवीनिरूपिताधेयतावत् द्रवत्वमग्निप्रतियोगिक संयोगनिरूपिताभिन्नजन्यतावत् । संयोगपदेऽग्निप्रतियोगिकसंयोगनिरूपिते लक्षणा । पृथिव्यां द्रवत्वं घृतादिवृत्ति अग्निसंयोगजं चेत्यर्थेऽनेकविधानाद्वाक्यभेदस्स्यात् । ‘घृतादावग्निसंयोगजं द्रवत्वं पृथिवीवृत्ति’ ‘पृथिवीवृत्तिद्रवत्वं घृताधग्निसंयोगजन्य मित्येवमपि सुवचम् । अथापि घृता
तर्कसङ्ग्रहः ।
नैमित्तिकं पृथिवीतेजसोः तेजासे सुवर्णादौ ।
पृथिव्यां घृतादावनिसंयोगजं द्रवत्यम् ।
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ।
दिः पृथिवीति स्पष्टप्रतिपत्तिः पूर्वरीतौ । अग्निसंयोगजद्रवत्वं घृतादिपृथि - वीवृत्तीत्यन्वये तु तादृशद्रवत्वसामान्यस्योद्देश्यत्वं न भवतीति विशेष स्यैवोद्देश्यत्वं स्वीकर्तव्यम् । सुवर्णादाविति । द्रवत्वमग्निसंयोगजमित्यनुषज्यते । आदिना रजतादिग्रहणम् । अत्र ‘सार्जन्तुमधूच्छिष्टानां * पार्थिवानामग्निसंयोगात् द्रवत्वमद्भिः सामान्यम्’, ‘लपुसीसलोहरजतसुवर्णानामनिसंयोगात् द्रवत्वमद्भिः सामान्यम्’ इति सूत्रे अनुसन्धेये ।
1 चूर्णेति । आदिना गुडपारग्रहः । अपिण्डस्य पिण्डस्य भावः पिण्डीभावः । अपिण्डस्य पूर्वकालिकापण्डत्वाभाववतः । पिण्डशब्दो विलक्ष णसंयोगविशिष्टवाची । भावस्सत्ता । अपिण्डाभिन्नपिण्डवृत्तिसत्तेति विग्रहार्थः । समासे च्चिप्रत्ययार्थः समभिव्याहृतपदार्थतावच्छेदकपिण्डत्वादिधर्मः । तत्र पिण्डपदार्थस्याधेयत्व पूर्वकालावच्छिन्न खनिष्ठाभावप्रतियोगित्वोभयसम्बन्धेनान्वयः । च्चिप्रत्ययाथार्पण्डत्वस्य भावपदार्थे सत्तायां सामानाघिकरण्यसम्बन्धेन । तथा च पिण्डनिरूपिता या पूर्वकालावच्छिन्न! भावप्रतियोगित्वविशिष्टाघेयता तद्वद्धर्मविशिष्टसतेति पिण्डीभावशब्दार्थः । प्रकृते विलक्षणसंयोग इत्येतावदेव विवक्षितम् । तस्य हेतुः कारणतावान् । समासे पिण्डीभावशब्दे चूर्णतद्भिन्नवृत्तिविलक्षणसंयोगनिरूपितेत्यर्थलक्षणा । अमेदेन कारणतायामन्वयः । स्नेहो जले वर्तमानः स्वाश्रयसंयुक्तत्वसम्बन्धेन चूर्णादौ सम्बद्ध्य तत्र समवायेन विलक्षणसंयोगमुत्पादयतीति तदसाधारणं निमित्तकारणम् । चूर्णादीति न लक्षणघटकम् । किन्तु पिण्डीभावः कस्येस्थल सम्बन्धिप्रदर्शनार्थम् । विलक्षणसंयोगत्वावाच्छन्नकार्यतानिरूपि
- अस्मदीये वैशेषिकदर्शनविमर्शे इदं द्रष्टव्यम् ।
[[४४]]
[[४५]]
सुखप्रवशिनीसमेतः ।
श्रोतग्राह्यो गुणः शब्दः । स द्विविधः, ध्वन्यात्मको वर्णात्मकश्चेति । ध्वन्यात्मको मेर्यादौ । वर्षात्मकः संस्कृतभाषादिरूपः । सर्वव्यवहारहेतुः ज्ञानं बुद्धिः सा द्विविधा, स्मृतिरनुभवश्चेति ।
लक्षणम् । चूर्णादावतिव्याप्तिवारकं गुणत्वम् । ध्वनीति । ध्वार्नरात्मा यस्य । आत्मा स्वरूपमसाधारणधर्म विशिष्टव्यक्तिः । षष्ठ्यर्थ आधेयत्वं धर्मेऽन्वेोते । समास आत्मशब्दस्य ध्वनित्वविशिष्टे लक्षणा । भेर्यादाविति सप्तम्यर्थोऽवच्छेद्यत्वम् । मेरीतद्भिननिरूपिताधेयतावान् ध्वनित्वविशिष्टाभिन्नशब्दः । भेर्याद्यवच्छेदेन हि ध्वनिराकाशे जायते । संस्कृतेति । आदिना संस्कृतभाषाव्यतिरिक्तानां सर्वसामपभ्रंशभाषाणां ग्रहणम् । संस्कृतभाषादिषु रूपं यस्येति विग्रहः । भाषा हि ज्ञानजनकवर्णसमुदायः । तद्धटकं वर्णस्वरूपमिति ।
P
तकारणतावत्त्वे सति गुणत्वं
तर्कसङ्ग्रहः ।
संस्कारमावजन्यं ज्ञानं स्मृतिः । तद्भिनं ज्ञानं, अनुभवः । स द्विविधः, यथार्थोऽयथार्थश्च ।
…
संस्कारेति । संस्कारबाहरिन्द्रियमध्ये संस्कारमालजन्यं ज्ञानं स्मृतिरिति वक्त्रभिप्रायः । अतो मालपदं संस्कारबाहरिन्द्रियमध्यघटकवृत्ति यत् स्मृ तिनिष्ठजन्यता निरूपकत्वं तद्व्यापकत्वार्थकम् । व्यापकत्वमभेदसम्बन्धेन । तस्याश्रयः संस्कारः । तथा च समासे मात्रपदं संस्कारबाहिरिन्द्रियमध्यघटकवृत्ति-स्मृतिनिष्ठजन्य तानिरूपकत्वव्यापकसंस्कारनिरूपितार्थकम् तस्य जन्यतायामभेदेनान्वयः । तथा च बहिरिन्द्रियाजन्यत्वे सति संस्कारजन्यत्वे सति ज्ञानत्वं लक्षणं फलितम् । सेयं गौरित्यादिप्रत्यभिज्ञायां, अनुमित्यादौ, संस्कारध्वंसे चातिव्याप्तवारणाय क्रमेण दलानि । स्मृतेरपि मनोजन्यत्वादसम्भवः स्यादिति बाहरिति । अत एव संस्कारेतराजन्यत्वे सतीति सामान्यरूपेण नोक्तम् । ननु सोऽयमहामति मानसप्रत्यभिज्ञाप्रत्यक्षेऽतिव्याप्तिः । अस्य स इत्यंशे संस्कारजन्यत्वात्, अन्यांशस्य चात्मादेर्बहिरिन्द्रियाग्राह्यतयां बाहिरिन्द्रियाजन्यत्वात् । न चास्य स्मृतित्वमिष्टमिति वाच्यम् । तथा सति तुल्यन्यायेन सेयं गौरित्यस्यापि स्मृतित्वस्यैष्टव्यतया प्रथमदलं नापेक्षितमिति मात्रपदवैयर्थ्यात् । न च प्रत्यभिज्ञायामंशत एव स्मृ तित्वमस्ति, अंशान्तरे त्वन्यथेति तत्त्वबोधनाय मात्रपदम् । न तु लक्षण किञ्चिन्निवेशनोयमिति वाच्यम् । तथा सति स्मृतिभिन्नं ज्ञानमनुभव इत्यनुभवलक्षणस्य तत्रान्याप्तयापत्तेः । तत्रानुभवत्वस्येष्टत्वादिति चेत् लौकिकविषयताशून्यत्वे सति संस्कारजन्यत्वे सति ज्ञानत्वं स्मृतिलक्षणम् । एतत्सू
चनाय मालपदमिति दिक् । तद्भिन्नम् स्मृतिभिन्नं संस्कारमात्रजन्यभि
सुखप्रवेशिनीसमेतः ।
[[४७]]
तद्वति तत्प्रकारकानुभवो यथार्थः । सैव प्रमेत्युच्यते । यथा रजते इदं रजतमिति ।
न्नम् । तस्माद्भिन्नमिति पञ्चम्यर्थोऽनुयोगित्वं भेदेऽन्वेति । तच्छब्दस्य संस्कारमात्रजन्यानुयोगिनि लक्षणा । क्तप्रत्ययार्थ आश्रयतावत् । तद्भिन्नत्वं
घटादावपि, ज्ञानत्वं स्मृतावपीति दलद्वयम् । यथाभूतोऽर्थो यस्मिन्ननुभवे स यथार्थः । यथाभूत इत्यस्य प्रकारविशिष्ट इत्यर्थः । अयथेत्यस्य प्रकारशून्य इत्यर्थः । प्रकारावेशिष्टवस्तुविषयको यथार्थः प्रकारशून्यवस्तुविषयकोऽयथार्थ इत्युक्तं भवति । इदमनुसृत्य तयोलक्षणं स्मृतिव्यावर्तकदलघाटेतमाह तद्वतीत्यादिना । सोऽस्यास्तीति तद्वान् । मतुबर्थः सम्बन्धी । सम्बन्धे तच्छब्दार्थः स्वप्रतियोगित्वसम्बन्धेनान्वेति । विशेष्यित्वं च सप्तम्यर्थ आश्रयतासम्बन्धेनानुभवे । स प्रकारो यस्य स तत्प्रकारकः । प्रकारः प्रकारतावान् । षष्ठ्यर्थो निरूपितत्वं प्रकारतान्वयि । प्रकारशब्दस्य समासे तन्निष्ठप्रकारतानिरूपके लक्षणा । यथार्थः यथार्थशब्दवाच्यः । तथा च तत्प्रतियोगिक सम्बन्धवन्निरूपित विशेष्यिताविशिष्ट- तन्निष्ठप्रकारतानिरूपकानुभवाभिन्नो यथार्थशब्दवाच्याभिन्न इति बोधः । रजते इन्द्रिय सन्निकर्षे सति ‘इदं रजत’ मिति योऽनुभवः स यथार्थः । तत्र रजतत्वं प्रकारः तत्सम्बन्धि रजतं विशेष्यमिति, विशेष्यता रजतनिष्ठा । तन्निष्ठविशेष्यतानिरूपितविशेष्यिता ज्ञाने स्ति । प्रकारता रजतत्वनिष्ठा । तादृशप्रकारतानिरूपित प्रकारिताऽपि ज्ञान इति तादृशप्रकारतानिरूपकत्वमपि तत्रेति लक्षणसमन्वयः । इदं. रजतमित्यनुभवानन्तरं या कदाचित् ‘तद्जत’ मिति यथार्थस्मृतिस्तत्रातिव्याप्तिवारणायानुभवत्वानेवेशः । तद्वतीत्यनिवेशे किञ्चित्प्रकारकत्वे सत्यनुभवत्वमित्युक्तं भवति । इदमयथार्थानुभवेऽप्यस्ति, तत्रापि कस्यचित्प्रकारत्वात् । अतस्तद्वतीत्युक्तम् । किञ्चिद्विशेष्यकत्वमात्रोक्तावपि तत्रैवा7 ,
[[४८]]
तर्कसङ्ग्रहः ।
, तिव्याप्तिः तद्ज्ञानविशेष्ये शुक्तयादावपि कस्यचिद्धर्मस्य वर्तमानत्वात् । अतस्तत्प्रकारकेत्युक्तम् । किञ्चिद्वति किञ्चिप्रकारक इत्युक्तावपि तत्रातिव्याप्तिरेष । तस्य शुक्तित्वरूप किञ्चिद्वति रजतत्वरूपकिञ्चित्प्रकारकत्वात् । अतः प्रथम किञ्चित्पदेन यत् गृह्यते तदेव द्वितीय किञ्चित्पदेन ग्राह्यमिति ज्ञापनायोभयत तच्छब्दप्रयोगः । नन्वेवमपि कदाचिद्रजते शुक्तौ चेन्द्रियसन्निकर्षे सति ‘इमे शुक्तिरजते इति विपरीतज्ञानमुदेति, तत्र ज्ञानऽतिव्याप्तिः, रजतत्वप्रकारकत्वस्य रजतत्ववद्विशेष्यकत्वस्य च सत्त्वादिति चेदुच्यते । अत्र हि विपरीतज्ञान रजतांशे शुक्तित्व प्रकारः, शुक्तयंशे च रजतत्वम् । अतो रजतत्ववन्निष्ठविशेष्यतानिरूपिता शुक्तित्वनिष्ठप्रकारतैव । शुक्तित्ववन्निष्ठविशेष्यतानिरूपिता च रजतत्वनिष्ठप्रकारतैव । अतो रजतत्वनिष्ठप्रकारता निरूपकत्वस्य शुक्तित्ववद्विशेष्यकत्वस्य चावच्छेद्यावच्छेदकभावः । ययो विषयतयोर्निरूप्यनिरूपकभावस्तन्निरूपितविषयित्तयोरवच्छेद्यावच्छेदक भाव इत्यङ्गीकारात् । एवं शुक्तित्वनिष्ठप्रकार तानिरूपकत्वस्य रजतत्ववद्विशेष्यकत्वस्य चावच्छेद्यावच्छेदकभावः । अतो रजतत्ववन्निरूपित विशेष्यित्वावच्छिन्ना रजतत्वनिष्ठप्रकारतानिरूपकता तत्र नास्ति । प्रकृते च तद्वति तत्प्रकारक इत्यनेन तद्वन्निरूपितविशेष्यित्वावच्छिन्न तन्निष्ठप्रकारतानिरूपकताशालित्वे सत्यनुभवत्वमिति लक्षणं विवक्षितम् । अतो न दोषः । सैवेत्येवकारेणायथाथी नुभवव्यवच्छेदः । अथ वा तद्वति तत्प्रकारकत्वेनानुभवसजातीयायथार्थस्मृतिव्र्यवच्छिद्यते । स्मृतेर्यथार्थत्वेऽपि न प्रमात्वमङ्गीक्रियत इति । सा यथार्थानुभवः । इतिशब्दस्यानुपूर्वीरूपप्रकारोऽर्थः । प्रमापदं प्रमाशब्दार्थकम् । तस्यानुपूर्व्यामाधेयतासम्बन्धेनान्वयः । उच्यत इति षात्वर्थो ज्ञानजनकशब्दः । तत्त्रेतिशब्दार्थस्याश्रयतासम्बन्धेनान्वयः । तस्य कर्मप्रत्ययार्थे फले । तस्याश्रयतया सेतिपदार्थे । अथ वा प्रमेति
सुखप्रवेशिनीसमेतः ।
तद्भाववति तत्प्रकारकानुभवोऽयथार्थः, स एव भ्रम इत्युच्य ते, यथा शुक्तौ इन्दं रजतमिति । यथार्थानुभवश्चतुर्विधः, प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणमपि चतुर्विधम् प्रत्यक्षानुमानोपमानशब्दभेदात् ।
प्रमतिपदेन उच्यते शक्तयोपस्थाप्यत इत्यर्थः । ननु सति स्त्रीलिङ्गनिर्देशः कथं ? पूर्व पुल्लिङ्गनिर्देशात् । न च ‘शैत्यं हि यत् सा प्रकृतिर्जलस्य’ इति पूर्व नपुंसकनिर्दिष्टमपि स्त्रीलिङ्गशब्देन परामृश्यते, कुतः ? विधेयप्राधान्यात् । तद्वदिहापीति वाच्यम् । अत्र प्रमाशब्दार्थस्य विधेयत्वाभावात् । प्रमेत्युच्यत इति उच्यमानत्वं हात विधेयम् । तत्कथं स्त्रीलिङ्गमिति । सत्यम्; उच्यमानत्वस्य विधेयत्वेऽप्यन्ततः प्रमात्वविधान एव पर्यवसानमिति तदनुरोधेन तथेति । यद्वा ‘सैव प्रमा’ इति इतीदं उच्यत इत्यर्थः । अत्र इतिशब्द आनुपूर्व्यवच्छिन्नशब्दप्रतिपाद्यार्थपरः । सैव प्रमेति वर्णसमुदायस्याधेयतासम्बन्धेना नुपूर्व्यमन्त्रयः । ईदृशवर्णसमुदाय निष्ठानुपूर्व्यवच्छिन्नशब्द प्रतिपाद्यार्थ उच्यते तार्किकैः कथ्यत इति वाक्यार्थः । एवं च सेत्यल प्रमाशब्दार्थ एव विधेय इति न स्त्रीलिङ्गानुपपत्तिः ।
तद्भाववति तस्याभावस्तद्वति । षष्ठ्या अनुयोगित्वमर्थः । समासे तच्छब्दे प्रकृतप्रकारानुयोगिनि लक्षणा । अभेदेनाभावेऽन्वेति । तदभावाश्रय निरूपित विशेष्यित्वावच्छिन्नतन्निष्ठप्रकारतानिरूपकत्वविशिष्टानुभवत्वमयथार्थानुभवलक्षणम् । शुक्ताविन्द्रिय सन्निकर्षे यो विपरीतानुभव इदं रजतमिति, सोऽयथार्थः । अयथार्थस्मृतावतिव्याप्तिवारणायानुभवत्वम् । शिष्टं यथार्थानुभववारणाय । रङ्गरजतयोरिन्द्रिय सन्निकर्षे सति जायमाने इमे रङ्गरजते इति यथार्थानुभवेऽतिव्याप्तिवारणायावच्छिन्नत्वघटितपरिष्कारः । शाब्देति । शाब्दत्वं शब्दजन्यबोधमात्रवृत्तिजातिविशेषः । तत्करणं करणं । करणतावत् । तच्छब्दो यथार्थानुभववाची यथार्थानुभवनिरूपित7T
तर्कसङ्ग्रहः ।
असाधारणकारणं करणम् । लाक्षणिकः । आपेशब्दः यथार्थानुभवसमुच्चये । तत्करणमित्यत्र करणशब्दार्थः क इत्यत्राहासाधारणति । साधारण तत्सम्बन्धित्वे सति तदन्यसम्बन्धि । सम्बन्धश्च प्रकृते प्रमायाः करणमित्यत प्रमायाः करणत्वे निरूपितत्वसम्बन्धेनान्वयात् निरूपितत्वरूपः । अतः साधारणपदं प्रकृते प्रकृतकार्यभिन्नकार्यनिरूपितार्थकम् । असाधारणं प्रकृतकार्यभिन्नकार्यानिरूपितम् । अस्य कारणपदार्थैकदेशकारणतायामन्वयः । करणमित्यस्य प्रकृतकरणशब्दवाच्यमित्यर्थः । एवञ्च तत्तत्कार्यभिन्नकार्यानिरूपितकारणतावत् तत्र तत्र करणमिति भावः । इदमत्राकूतम् । केचिव्यापारवदसाधारणकारणं करणम्, यथा घटं प्रति दण्डः । तत्र दण्डेन घण्टे जननीये मध्ये भ्रमणं हि व्यापार इत्याहुः । अनेन तादृशफारणे करणशब्दप्रयोगः सिद्धः । अन्ये तु, यदव्यवहितोत्तरक्षणे कार्यं भवति तत्करणम् । यथा कपालद्वयसंयोगो घटं प्रतीत्याहुः । अनेन व्यापारे ऽपि करणशब्दप्रयोगः सिद्धः । दण्डभ्रमणादिकमपि चक्रभ्रमणमृत्पिण्डभ्रमणतदीय संयोगविशेषादिकं क्रमेणोत्पादयत् व्यापारवत् कारणमेव । अतो इस्माभिरुभयत्र करणशब्द प्रयोगस्य प्रामाणिकत्वं स्वीकृत्योभयानुगतलक्षणवर्णनमेवोचितम् । तच्च लक्षणमसाधारणकारणत्वम् । कालादृष्टादिकं तु साधारणत्वान्न करणम् । ननु प्रमातुः प्रमेयस्य च प्रमाणत्वं स्यादिति चेत् तदेतद्व्यापारवत्कारणं करणमिति मतेऽपि तुल्यम् । तयोर्मनः संयोगोन्द्रयसंयोगद्वारा कारणत्वात् । अतो व्यापारस्य व्यापारवतश्च करणत्वमिष्टमिति । अत एव ग्रन्थकार इन्द्रिये प्रत्यक्षकरणत्वं लिङ्गपरामर्शस्यानुमितिकरणत्वं च वक्ष्यति । दर्शयिष्यति चानुमानदीपिकायां, ‘व्यापारवदसाधारणकारणं करणमिति मते’ इति निर्देशेन मूले तस्यानभिमतत्वम् । ‘तदेततुविविधकारणमध्ये यदसाधारणकारणं तदेव करण’ मित्युपरि वाPAD
[[५०]]
[[५१]]
सुखप्रवेशिनीसमेतः ।
कार्यनियतपूर्ववृत्ति कारणम् । यथा, घटादिकं प्रति दण्डादिः । कार्य प्रागभावप्रतियोगि ।
क्यमपि करणत्वस्य सव्यापारनिर्व्यापारसाधारण्यं व्यनक्ति ।
१ करणपदार्थघटकः कारणपदार्थः क इत्यत्राह कार्येति । नियतं व्यापकम् । पूर्वा वृत्तिर्यस्य तत् । षष्ठ्यर्थं आधेयत्वम् । पूर्वी पूर्वकालनिरूपिता यन्निष्ठाघेयता पूर्वकालनिरूपिताभिन्ना । पूर्वका लनिरूपिताघेयताबदिति समासथिः । नियतं च तत्पूर्धवृत्ति च । कार्यस्य नियतपूर्ववृति । षष्ठ्यर्थो निरूपितत्वं व्यापकत्वे पूर्वत्वे चान्वेतिते । कार्यनिरूपिता भिन्नव्यापकत्वाश्रय, कार्यनिरूपिता भिन्नपूर्वत्वाश्रयकालनिरूपिताघेयतावत् कारणशब्दवाच्यमिति बोधः । कार्यव्यापकत्वे सति कार्यपूर्वकालवृत्तित्वं कारणत्वम् । यत् प्रकृतकार्योत्पत्तिस्थले सर्वत्रा कार्योत्पत्तिमाक्काले तत् प्रकृतकार्यकारणम् । यत्प्रति कारणत्वं वक्तव्यम् तद्वस्तुपरिचायकं कार्यपदम् । न तु लक्षणे निवेश्यम् । स्वस्यापि स्वव्यापकत्वात् स्वं प्रति कारणत्वापत्चिरित्युत्तरदलम् । घटपूर्ववृत्तौ रासभे घटकारणत्ववारणाय पूर्वदलम् । ननु दण्डत्वदण्डरूपादीनां घटं प्रति कारणत्वापत्तिः, नियतपूर्ववृत्तित्वादिति चेत् तत्तद्भिन्नत्वनिवेशेन तत्तद्वारणीयम् । इदमेवानन्यथासिद्धत्वमिति ध्येयम् । कारणशब्दार्थनिरूपणे निर्दिष्ट कार्य नाम किमित्यत्नाह कार्यमिति । प्रागभावस्य प्रतियोगि । षष्ठ्यथी निरूपितत्वं प्रतियोगित्वान्वयि । यत् प्रागभूत्वा पश्चाद्भवति तत्कायम् । अयं भावः– कारणलक्षण पूर्ववृत्तीत्यस्य प्रागभावाधिकरणकालवृत्तीत्यर्थः । तत्र प्रागभावपदेन यत्प्रागभावो गृह्यते तत् कार्यम् । तत्प्रागभावाधिकरणकालवृत्ति सत् यत् तन्नियतं तत्कारणमिति । v
एवं कारणं लक्षयित्वा ‘प्रतिकार्य कारणं वा करणं वा नैकमेव किं
तर्कसङ्ग्रहः ।
कारणं त्रिविधम्, समवाय्यसमवायिनिमित्तभेदात् । यत्स
तु यथासम्भवमनेक’ मिति व्युत्पादनाय तद्विभजते कारणमिति । समवाय्यसमवायिनिमित्तभेदात् समवायिकारणासमवायिकारणनिमित्तका
F रणभेदात् । आर्ध निर्वाक्ति यदिति । यस्मिन् समवेतम् । समवेतं समवायप्रतियोगि। सप्तम्यर्थ आधेयत्वं तदाधेयत्वम् च तदनुयोगिककत्वम् उत्पूर्वक पद्ल घातोर्जन्यत्वमाख्यातस्याश्रयत्वमर्थः । यदनु। योगिकसमवायप्रतियोग्यभिन्नं कार्य जन्यतानिरूपिताश्रयत्वाश्रय इति बोघः । यच्छन्द घाटेतवाक्यात् यच्छब्दार्थे यादृशवाक्यार्थसम्बन्धोऽवगम्यते तादृशवाक्यार्थसम्बन्धविशिष्टयच्छव्दार्थ एव तच्छब्दात्स्वरसतः प्रतोयते । यथा पीतमम्बरं यस्य स इत्युक्तौ स इत्यतः पीतरूपाम्बरविशिष्ट इत्यर्थः प्रतीयते । अत इह तच्छन्द उत्पद्यमान कार्यप्रतियोगिकसमवायानुयोगीत्यर्थकः । तत् समवायिकारणशब्दवाच्यम् । अत्रेदं बोध्यम् - समवायिकारणपदस्य समवाय च तत्कारणं चेति विग्रहः । समवायानुयोगि सत् कारणम् समवायिकारणम् । घटस्य समवायिकारणमित्युक्तौ घटपदार्थस्य समवाये कारणत्वे चान्वयात् घटप्रतियोगिकसमवायानुयोगि सत् घटकारणमित्यर्थी लभ्यते । इत्थं च तत्समवायानुयोगित्वे सति तत्कारणत्व तत्समवायिकारणत्वमित्युक्तं भवति । असमवायिकारणादेरपि समवायकारणत्वापत्तिरिति प्रथमदलम् । परमाण्वेकत्वं प्रति परमाणोः कारणत्वापत्तिरिति द्वितीयम् । एवञ्च गुणादौ ‘अयमस्य समवायिकारण’ मिति विशेषव्यवहारस्य नापत्तिः । अर्थानन्वयात् । अथापि सामान्यतो गुणः समवायिकारणमिति व्यवहारापत्तिः ; गुणस्यापि रूपादे रूपत्वादिजातिसमवायानुयोगित्वात् घटरूपादिकं प्रति कारणत्वाच्च । अतः कार्यसमवामानुयोगि सत् कारणं समवायिकारणशब्दार्थ इति वक्तव्यम् । एवञ्च का
[[५२]]
सुखप्रवेशिनीसमेतः ।
मवेतं कार्यमुत्पद्यते तत् समवायिकारणम्, वथा, तन्तवः पटस्य
रणामेति व्यर्थम् । तथा च कार्यसमवायानुयोगित्वमेव समवायिकारणत्वमिति ‘यत् समवेतं कार्य तत् समवायिकारण’ मित्येतावदेवालमिति मूले उ. स्पद्यत इति पदं व्यथमित्याशङ्क्वेत- अलोच्यते । कारणताविशेषस्य समवायिकारणत्वस्य कारणताघाटेतत्वं युक्तम् । समवायिकारणमिति पदाच कारणत्वं स्फुटं प्रतीयते । अतः कारणत्वघटित एव तदर्थः, न त्वघटितः कार्यसमवायानुयोगीत्यर्थः । तत्र चार्थे समवायीति पदलब्धसमवायसम्बन्धोऽ पि घटनीयः । एवञ्च समवायसम्बन्धावच्छिन्न कार्यतानिरूपितकारणतावदित्यर्थो वक्तव्यः सिद्ध्यति । एतल्लाभायोत्पद्यत इत्युक्तम् । लाभप्रकारश्यायम् – यत्समवेतं कार्यमुत्पद्यत इत्यस्य कार्य यत्समवेतं सदुत्पद्यते इत्यर्थः । तत्र यत्समवेतत्वविशिष्टकार्यमित्युद्दिश्य जन्यत्वं विधीयते । उद्देश्यतावच्छेदकं यत्समवेतत्वपदबोध्यम् । उद्देश्यविधेयभावस्थले चासति बाघक उद्देश्यतावच्छेदकावच्छिन्नत्वं विधेये भासत इति नियमः । अतोडल विधेयभूतजन्यतायां समवेतत्वावच्छिन्नत्वं भासते । समवेतत्वावच्छिन्नत्वं च समवायप्रतियोगित्वावच्छिन्नत्वं समवायसम्बन्घावच्छिन्नत्वमेव । तथा च समवायसम्बन्धावच्छिन्न कार्यतानिरूपितकारणतावत्त्वमिति सिद्धम् । यद्यपीदमसमवायिकारणेऽतिव्याप्तम् । अथापि कारणतायां तादात्म्यसम्बन्धावच्छिन्नत्वनिवेशान्न दोषः । कार्यतायां समवायसम्बन्धावच्छिन्नत्वनिवेशप्रयोजनं तु, प्रत्यक्ष विषयस्य घटादेः कारणतया तल तस्य समवायिकारणत्वापत्तिः विषयतासम्बन्धेन प्रत्यक्षं प्रति तादात्म्यसम्बन्धेनैव विषयस्य कारणत्वादिति तद्वारणमेव । एवं सर्वसम्मतसमवायिकारणलक्षणसिद्धिरिति । यथेत्यस्योदाहरणं लक्ष्यप्रदर्शनमर्थो विषयतासम्बन्धेन तन्तुष्वन्वेति । पटस्येति समवायिकारणमिति शेषः । निरूपितत्वं षष्ठ्यर्थः समवाय,
तर्कसङ्ग्रहः ।
पटश्च स्वगतरूपादेः । कार्येण कारणेन वा सहकस्मिन्नर्थे समवेतं सत् कारणं असमवायि कारणम्, यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटगतरूपस्य च ।
कारणत्वेऽन्वेति । यद्वा यथा यत्प्रकारविशिष्टम् । पटसमवायिकारणभूतास्तन्तव उक्तसमवायिकारणलक्षणरूपप्रकारविशिष्टा इत्यर्थः । रूपादेरित्यादिना क्रियादिपरिग्रहः ।
असमवायीत्यस्य न समवाय असमवायोति विग्रहः । समवायीत्यस्य हि समवायानुयोगीत्यर्थः तद्भिन्नमसमवायि समवायप्रतियोगि । समवेतं कारणमसमवायिकारणमिति लब्धम् । तत्र च कुल समवेतमित्याकाङ्क्षायां कार्ये समवेतमिति तावद्वक्तुं न शक्यते, कार्ये समवेतस्य कार्योत्पत्त्यनन्तरभावितया कार्य प्रति कारणत्वासम्भवात् । अत औचित्यात् कार्यकारणे तत्कारणे वा समवेतं कारणमसमवायिकारणमिति वक्तव्यमित्यभिसन्धाय तलक्षणमाह कार्येणेति । अत्र सहेत्यस्य समवेतमित्यल धात्वर्ये समवायेऽन्वयात्समवायाधिकरणमित्यर्थः । तृतीयार्थः प्रतियोगितानिरूपकत्वं सहशब्दार्थघटकसमवायेऽन्वेति । वाशब्दस्य खसमभिव्याहृतपदार्थस्य यत्रान्वयस्तनिष्ठोऽभावोऽर्थः । प्रकृते समभिव्याहृतस्य कार्येणेत्यस्य सहशब्दार्थेकदेशे समवायेऽन्वयात् समवायनिष्ठाऽभावो चाशब्दार्थः । तस्य प्रतियोगितासम्बन्धन कार्येण कारणेनेति तृतीयार्थयोरन्वयः । तथा च समवायनिष्ठाभावप्रतियोगि यत् कार्यप्रतियोगिकत्वं यच्च समवायनिष्ठाभावप्रतियोगि कारणप्रतियोगिकत्वम्, तद्विशिष्टसमवायाधिकरणेति सहान्तार्थः । सहशब्दार्थाधिकरणस्य खानुयोगिकत्वसम्बन्धेन समवेतमित्यत्र समवायेऽन्वयः । अर्थ इति सप्तम्यर्थश्चानुयोगितानिरूपकत्वं तत्रैवान्वेति । सदित्यस्या साधारणधर्म वाशिष्टामे41 13 003 -
[[५४]]
सुखप्रवेशिनीसमेतः । त्यर्थः । समवेतपदार्थस्यासाधारणधर्मे आधेयतासम्बन्धेनान्वयः । समवैतनिष्ठासाधारणधर्मश्च समवेतत्वमेव । तथा च प्रकृतवाक्यप्रतिपाद्यो यादृशः सहशब्दार्थघटक समवायस्तनिष्ठाभाव प्रतियोगिकार्यप्रतियोगिकत्वविशिष्ट तादृशसमवायनिष्ठाभावप्रतियोगिकारणप्रतियोगिकत्वविशिष्टसमवाया. धिकरणानुयोगिक- एकाभिन्नार्थानुयोगिक-समवायप्रतियोगिनिष्ठासाधारणधर्मविशिष्टाभिन्न कारणम समवायिकारणमिति वाक्यार्थः । तन्तुद्वयसंयोगः पटासमवायिकारणम् । तन्तुरूपं च पटरूपस्य । तल कार्येण पटेन सबैकस्मिन्नर्थे तन्तौ समवेतं कारणं तन्तुद्वयसंयोगः । कार्यस्य पटगतरूपस्य कारणेन समवायिकारणेन पटेन सबैकस्मिन्नर्थे तन्तौ समवेत कारण तन्तुगतरूपमिति द्विविधमसमवायिकारणम् । तत्र प्रथमे कार्येण सह समवेतत्वमादाय समन्वयात्सहशब्दार्थघटकः समवायः कार्यप्रतियोगिकः न तु कारणप्रतियोगिकः । द्वितीये कारणेन सह समवेतत्वमिति स समवायः कारणप्रतियोगिक एव । एवञ्चैकैकसमवायेऽप्यपरप्रतियोगिकत्वाभावसत्त्वाद्वाशब्दप्रयोगः । अत्र समवेतं सत्कारणमित्यनेन समवेतत्वविशिष्टे कारणतोक्तया समवेतत्वावच्छिन्ना कारणतेति लभ्येत । समघेतत्वं च समवाय एव । तथा च कार्यसमवायाधिकरणानुयोगिकसमवायावच्छिन्ना कार्यसमवायिकारणसमवायाधिकरणानुयोगिकसमवायावच्छिन्ना वा कारणतेति लब्धम् । तत्र च, यत्र कार्यमुत्पद्यते तत्र कारणमस्तीत्य वक्तव्यतया प्रकृते कार्यः पटः समवायेनोत्पद्यते तन्ताविति तत्रैव तन्तुद्वयसंयोग उपपादनीयः । एवं कार्य पटरूपं पटे उत्पद्यत इति तत्रैव तन्तुरूपमुपपाद्यम् । अतोऽत्र कार्यसमवायाधिकरणत्वान्तं प्रथमदले कार्यसमवायिकारणत्वान्तं द्वितीयदले चोपलक्षणम् । अवशिष्टांशे कारणतावच्छेदकसम्बन्ध उपलक्षणांशे च समवायरूपकार्यतावच्छेद कसम्बन्धो प
[[५५]]
तर्कसङ्ग्रहः ।
दर्शितः । तथा च समवाय सम्बन्धावच्छिन्न कार्यतानिरूपितसमवाय स्वसमवायिसमवेतत्वान्यतरस्सम्बन्धावच्छिन्न कारणत्वमसमवायिकारणत्वमिति फ लितम् । अत्र कार्यतावच्छेदकसम्बन्धमातनित्रेशे समवायिकारणेऽतिव्याप्तिः । कारणतावच्छेदकसम्बन्धमाला नेवेशे रूपस्य द्रव्यप्रत्यक्ष समवायेन द्रव्यसमवेतप्रत्यक्ष स्वसमवायिसमवेतत्वसम्बन्धेन च कारणतया प्रत्यक्ष प्रति पटरूपादेरसमवायिकारणत्वापत्तिः कारणतावच्छेद कसम्बन्धयोरेकतर निवेशे चान्यतरस्मिन्नसमवायिकारणेऽतिव्याप्तिरितीत्थं निवेशः । नन्वेवं कार्येण कारणेन वा सह समधे तमित्यनेनैव सर्वसिद्धावेक स्मिन्नर्थ इति व्यर्थमिति चेदुच्यते । सहशब्दार्थोऽधिकरणं कालरूपं वा देशरूपं वा भवति । तल कालः प्रकृते न गृह्यत इति स्पष्टप्रतीतये तदुक्तिः । वस्तुतः कार्यप्रतियोगिकसमवायस्य कारणप्रतियोगिकसमवायस्य वाऽधिकरणं यावद्वस्तु भवति तावत्समवेतमेव कारणामति न । किं तु तत्रैकस्मिन्समवेतमपि कारणम् । यथा हस्तपुस्तकसंयोगः कायपुस्तकसंयोगकारणम् । तत्र कार्यसमवायाधिकरणं कायः पुस्तकं च । हस्तपुस्तक संयोगरूपं कारणं तु न तावत्समवेतम् । किन्तु पुस्तकमात्रे । तथाऽपि तत्कारणमेव । एवं तन्तुरूपाणि पटरूपं प्रति कारणम् । तत्र पटरूपात्मक कार्यस्य कारणं पटस्तत्समवायिकारणं बहवस्तन्तवः । तावत्सु समवेतमेकं रूप नारित । एकैकरूपस्यैकैकवृत्तित्वात् । एवं पटीयचित्ररूपकारणस्य तन्तुगतनीलादिविभिन्न रूपस्यापि यावत्तन्त्ववृत्तित्वं द्रष्टव्यम् । तस्मादेकवृत्तित्वेऽप्यसमवायिकारणत्वं भवतीति ज्ञापनायै कस्मिन्नर्थ इत्युक्तम् । एवमेतदुक्तया काचिदाशङ्काऽपि परिहता । सा तावत् ‘असमवायिकारणत्वं हि समवेतकारणत्वम् । अतः कारणतायां द्विविधासमवायिकारणलक्षणेऽपि समवायसम्बन्धावच्छिन्नत्वमेव निवेश्यताम् । कार्यवायामेव तु समवाय, खसम
सुखप्रवेशिनीसमेतः ।
तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ।
चायिसमवायान्यतरसम्बन्धावच्छिन्नत्वमित्येवंरूपा । परिहारप्रकारश्चकायपुस्तकसंयोगः समवायेन काये पुस्तके चास्ति । हस्त पुस्तक संयोगरूपकारणं तु पुस्तक एकस्मिन्नेव न तु कायेऽपि । तथा स एव कायपुस्तकसंयोगःखसमवायिसमवायसम्बन्धेन कायावयत्रेषु हस्तपादादिषु पुस्तकाचयवेषु पत्रादिषु चास्ति । हस्तपुस्तकसंयोगस्तु हस्त एकस्मिन्नवावयवे नान्यत्रेति तस्य कारणत्वं न स्यात् । अत एकस्मिन्नर्थे समवेतस्यापि कारणत्वात्कारणतायामेव सम्बन्धन्द्वयं पूर्वोक्तरीत्या विवक्षणीयम् । न तु कार्यतायाम् । एवञ्च कायपुस्तकसंयोगः काये पुस्तके च । हस्तपुस्तकसंयोगोऽपि पुस्तके समवायेन, काये स्वसमवायहस्त समवेतत्वसम्बन्धेनेति न दोष इति । एवं घटः समवायिसमवायसम्बन्वेन कपालावयवेऽस्ति, तत्र कपालद्वयसंयोगः समवायेन नास्तीत्येवं सर्वत्र व्यभिचारादपि कार्यतायां सम्बन्धभेदं विहाय कारणतायामेव स ग्राह्य इति ध्येयम् । तन्तुसंयोगः तन्त्वोः संयोगः । पटत्येति । असमवायिकारणमिति शेषः । एवमग्रेऽपि । चस्तन्तु संयोगसमुच्चये तन्तुरूपस्थे ।
तदिति । तयोरुभयं तस्माद्भिन्नम् । घटितत्वं षष्ट्यर्थः । पञ्चम्यर्थोऽनुयोगित्वं भेदेऽन्वेति । तथा चोभयपदं समवायिकारणप्रतियोगिका.. समवायिकारणप्रतियोगिकपरम् । अभेदेन भेदे तदन्वयः । निमित्त कारणं निमित्तकारणशब्दवाच्यम् । तथा च समवायिकारणप्रतियोगिक भेदचत्रे सत्यसमवायिकारणप्रतियोगिकमेदवत्त्वे सति कारणत्वं निमित्तलक्षणम् । समवायिकारणे, असमवायिकारणे, पारिमाण्डल्यादौ चातिव्याप्तिवारणाय क्रमेण दलनिवेशः । अदृष्ट लक्षणसमन्वयः । उदाहरति यथेति । 8 T
तर्कसङ्ग्रहः ।
तदेतत्वविधकारणमध्ये पदसाधारणकारणं तदेव करणम् । तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।
ननु तुर्यादीनां तुर्यादिनिष्ठरूपादिकं प्रति समवायिकारणत्वादिसद्भाबात् समवायिकारणभिन्नत्वादिदलाभावादद्व्याप्तिः । न च समवायिकारणताभिन्ना समवायिकारणताभिन्ना च या कारणता तद्वत्त्वमेव निमित्तकारणत्वम् । अत्रैव ग्रन्थतात्पर्यम् । एवं च यथा तुर्यादौ तत्तद्रूपादिसमवायिकारणता तथा तद्भिन्ना पटादि प्रति कारणताऽप्यस्तीति लक्षणसमन्वय इति वाच्यम् । एवं ताई कारणत्वं निमित्तकारणत्वमित्येव सुवचत्वात् कचिदप्यतिव्याप्त्यभावादिति चेन्न । कारणत्वमात्रस्य निमित्तलक्षणत्वे परमाणावतिव्याप्तेः तस्य समवायिकारणत्वेऽपि किञ्चित्प्रति निमित्तकारणत्वाभावात् । एवं जलपरमाणुरूपादावसमवायिकारणेऽतिव्याप्तिः । अतो दलद्वयनिवेशः । किं च निमित्तकारणतास्वरूपं किमिति प्रश्ने समवायिकारणत्वादिभिन्नं कारणत्वमित्येव वक्तव्यम् । अन्यथा समवायिकारणत्वादेरापे निमित्तकारणतास्वरूपत्वप्रसङ्गात् घण्टे प्रति कपालस्यापि निमिकारणत्वापातादिति । तुरीति । तुरीवेमानौ आदी यस्य तत् । यस्य करणशब्दार्थस्य निरूपणाय कारणशब्दार्थ सामान्यतो विशे-
षतश्च निरूपितवान् तं करणशब्दार्थमुपसंहरति तदिति । तेषां सामान्यतो लक्षितानामेतेषां विशेषतो लक्षितानां त्रिविधानां कारणानां मध्ये । घाटतत्वं मध्यशब्दार्थः । षष्ठ्यर्थं आधेयत्वम् । निरूपकत्वं सप्तम्यर्थः । घाटेतत्वस्य निरूपितत्वसम्बन्धेनान्वयः । निरूपकत्वस्य कारणऽन्वयः । एवं करणशब्दार्थव्युत्पादनेन तत्करणमपि चतुर्विधमिति वाक्यस्यार्थमवगमितवान् । तदुपर्येवमाशङ्का – यथार्थानुभवविभागेऽपि प्रत्यक्षानुमितीत्येवं प्रत्यक्षं प्रवेशितम् । तत्करणविभागेऽपि । तत् कथम् ? न कस्यैव कार्यत्वं कारणत्वं च सम्भवतीति । इमामाशङ्कां परिहरति । तत्त्रेति । तत्न प्रत्यक्षानुमानोपमानशब्देषु प्रत्यक्षं प्रत्यक्षपदवाच्यं प्रत्यक्ष
[[५८]]
सुखप्रवेशिनीसमेतः ।
[[५९]]
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तत् द्विविधम्, निर्वि
कल्पकं सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् । ज्ञाननिरूपितासाधारणकारणतावदभिन्नामिति । तथा चानुभवविभागे प्रत्यक्षपदं प्रत्यक्षज्ञानपरं करणविभागे च तत्पदं तत्करणपरमिति न दोष इति । ननु प्रत्यक्षज्ञानकरणमित्यत्र प्रत्यक्षज्ञान नाम किम् ? तदाहेन्द्रियेति । एवं चेश्वरीयप्रत्यक्ष नित्ये एतल्लक्षणाभावेडापे न क्षतिः । अस्य ग्रन्थस्योकप्रश्नसमाधानार्थत्वात् । अर्थेन घटपटादिना सह सन्निकर्षः सम्बन्धः । तृतीयार्थः साहित्यं वैशिष्ट्यमाघाराधेयभावरूपम् । अर्थनिष्ठ सम्बन्धस्या इति यावत् । अर्थे सन्निकर्ष इत्येव वा विग्रहः । इन्द्रियस्यार्थसन्निकर्षः । षष्ट्यर्थो निरूपितत्वम् । एतेनेन्द्रियार्थसन्निकर्षैत्यस्येन्द्रिय प्रतियोगिकाथीनुयोगिकसम्बन्धेत्यर्थकत्वे श्रोत्रेन्द्रियशब्दसन्निकर्षस्याग्रहणम् । श्रोत्रे - न्द्रियस्याकाशत्वात् शब्दस्य तत्त्राधेयत्वात् सन्निकर्षस्य समचायस्याकाशप्रतियोगिकत्वशब्दानुयोगिकत्वयारभावात् आधारो ह्यनुयोगी; आधेयः प्रतियोगीति । तस्येन्द्रियानुयोगिकार्थप्रतियोगिकसम्बन्धपरत्वे चक्षुर्घटसंयोगाद्यग्रहणम्, घटस्यानुयोगिताया एव स्वरसत्वादित्यपास्तम् । अन्यविधार्थस्योतस्य सवीनुगतत्वात् । सन्निकर्षज्जन्यम् । पञ्चम्यर्थो निरूपितत्वम् । निष्प्रकारकमिति । निष्क्रान्तं प्रकारात् । निष्क्रान्तं सम्बन्धशून्यं । सम्बन्धश्च प्रकारिता । प्रकारनिरूपितप्रकारिताशून्यामेति यावत् । तथा च प्रकारिताशून्यत्वे सति ज्ञानत्वं लक्षणम् । घटादिवारणाय द्वितीयदलम् । निर्विकल्पकमित्यत्र विकल्पो नाम भेदः । स च प्रकारित्वविशेष्यित्वसंसर्गित्वाख्यविषयितारूपः । तच्छून्यमित्यर्थो लभ्यते । तत्र निष्प्रकारकमित्यनेन प्रकारिताशून्यत्वमालमुक्तं, तावदेव लक्षणं पर्याप्तमिति । एवं विशेप्यिताशून्यत्वं संसर्गिता शून्यत्वमपि पृथग्लक्षणं सम्भवति । इदमत्र बोध्यम् – अयं मनुष्यः, अयं पशुरित्यादिज्ञानं तावदनुभवसिद्धम् । NAD
तर्कसङ्ग्रहः ।
सप्रकारकं ज्ञानं सविकल्पकम् । यथा, डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयं इति । प्रत्यक्षज्ञान हेतुरिन्द्रियार्थसन्निकर्षः षड्विधः संयोगः, ।
, तत्रायमर्थो विशेष्यः, मनुष्यत्वादि विशेषणम् । एवं विशेषणविशेष्य विषयकत्वात्तद् ज्ञानं सविकल्पकं विशिष्टज्ञानमित्युच्यते । विशिष्टज्ञाने च विशेषणज्ञानं कारणम् । न हि दण्डस्य ज्ञानाभावे दण्डी पुरुष इति ज्ञान भवाते । तदत्र मनुष्यत्वादिकं विषयीकृत्य प्रथमत एकं ज्ञानं भवतीति स्वीकार्यम् । तच्च न विशिष्टज्ञानम्, तत्पूर्वं कस्यचिद्विशेषणस्य ज्ञानाभावात् । तत्र च मनुष्यत्वज्ञाने मनुष्यत्वमनुष्यव्यक्त्योः संसर्गो भासतां मा वा । प्रकारस्तावद्विषयी भवति । परं तु न प्रकारतया विषयी भवति । कस्यचिद्विशेष्यतया भानाभावेऽस्य प्रकारतया मानस्य दुर्वचत्वात् । अत एवं प्रकारज्ञानतया कल्प्यमानस्य, प्रकारज्ञानान्तरापेक्षा नास्तीति प्रदर्शनाय निप्प्रकारकमित्येव निर्विकल्पकं लक्षितवान् ग्रन्थकारः, न तु निर्विशेष्यकं निःसंसर्गकमित्येवम् । निर्विकल्पकस्य चाकारो न प्रदर्शितः, तस्यातीन्द्रियत्वात् । ननु यथार्थनुभवान्तर्भूने प्रत्यक्ष निर्विकल्पकमन्तर्भूतम् । अत्र यथार्थानुभवसामान्यलक्षणस्याव्याप्तिः किञ्चित्प्रकारकत्वामावादिति चेन्न । अयथार्थभिन्नत्वे सत्यनुभवत्वं निर्विकल्पकसाधारणयथार्थीनुभवलक्षणमित्याशयादिति दिक् । ,
लोके नामजातिगुणक्रियामिर्वस्तुपारच्छेदो भवति । तदभिसन्धाय क्रमेण चत्वार्युदाहरणानि दर्शयति यथेति । सर्वत्रायम्पदोत्तरमन्ते निदिष्टस्येतिशब्दः सम्बन्धः । डित्थः डित्थनाम विशिष्टः । इतिशब्दार्थो विषयित्वम् डित्थामिन्नदमर्थनिरूपित विषयतावदित्यर्थः । ज्ञानमित्यनुषङ्गः ।
सुखप्रवेशिनोसमेतः ।
[[६१]]
संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसम बायः, विशेषणविशेष्यभावश्चति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षे संयुक्तसमवायः, चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः, चक्षुः संयुक्ते घटे रूपं समवेतम्, तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः, कर्णविवरवृत्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणिनोः समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः,
चक्षुषेति प्रयोज्यत्वं तृतीयार्थः । घटेति । द्रव्यसामान्योपलक्षणम् । जनन इति सप्तम्यर्थः प्रयोजकत्वम् । चक्षुर्निरूपित प्रयोज्यत्वाश्रयद्रव्यप्रत्यक्षोत्पत्तिप्रयोजकत्वाश्रयसन्निकर्षः संयोग इत्यर्थः । घटरूपप्रत्यक्ष इति । चक्षुषेत्यनुषङ्गः । घटसमवेतरूपविषयकप्रत्यक्ष इत्यर्थः । द्रव्यसमवेतविषयकचाक्षुषप्रत्यक्ष इति यावत् । सप्तम्यर्थः प्रयोजकत्वमनुषक्तसन्निकर्षपदार्थेऽन्वेति । एवमङ्ग्रऽपि । उपपादयति चक्षुरिति । रूपस्य सन्निकर्षजन्य प्रत्यक्षविषयरूपम्य ज्ञानज्ञाप्यत्वं पञ्चम्यर्थः । तस्य संयुक्तसमवायत्वे संयुक्तसमवाय एव वाऽन्वयः । तथा च घटरूपप्रत्यक्षजनक. सन्निकर्षः स्वजन्यप्रत्यक्षविषयरूप प्रतियोगिक, चक्षुःसंयुक्तघटानुयोगिकसमवायविषयकज्ञानज्ञाप्यसंयुक्तसमवायाभेदाश्रयः इति समुदायार्थः चक्षुःसंयुक्तत्वं रूपस्य तत्समवेतत्वं च यदि ज्ञायते तदा रूपप्रत्यक्ष सन्त्रिकर्षः संयुक्तसमवाय इति ज्ञायते । एवमुत्तरत्र । रूपत्वसामान्यप्रत्यक्ष द्रव्यसमवेतसमवेतविषयकचाक्षुषे । कर्णविवरेति । विवरं सन्निवेशविशेषः कर्णविवरे वृत्तिर्यस्य तस्याकाशस्य । वृत्तिरवच्छिन्नत्वम् । विवर इति सप्तम्यर्थो निरूपितत्वम् । तथा च कर्णसम्बन्धिसन्निवेशविशेषावच्छिन्नाकाशनिष्ठाश्रो लत्वज्ञानज्ञाप्यत्व, शब्दनिष्ठाकाशगुणत्वज्ञानज्ञाप्यत्व, गुणगुणिघटस्य app
[[६२]]
तर्कसङ्ग्रहः ।
, श्रोतसमवेते शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्ष विशेष णविशेष्यभावः सन्निकर्षः भूतलं घटाभाववत् इत्यव चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् । एवं सन्निकर्षजन्यं ज्ञान प्रत्य क्षम् । तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् । .
। सम्बन्धित्वविशिष्ट समवाय ज्ञानज्ञाप्यत्वाश्रयसमवायामेदाश्रयः श्रोलजन्यशब्दसाक्षात्कारजनकसन्निकर्ष इति । पञ्चम्यन्तत्रयार्थविषयकज्ञानं समवायज्ञाने कारणम् । इत्यति । इतिशब्दार्थः विषयित्वरूपधर्मः अत्रेतीदंशब्दार्थो बुद्धिस्थं ज्ञानम् । सप्तम्यर्थो निरूपितत्वं विशेषणत्वेऽन्वेति । ज्ञाने भूतलस्य विशेषणत्वात् भूतलनिरूपिता घटाभावनिष्ठा विशेषणता । तथा च घटाभाववत निरूपित विषयिताश्रयज्ञान निरूपितत्वाश्रय, चक्षुःसंयुङ्क्तभूतलनिरूपितत्वाश्रय, घटाभावनिरूपिताधेयताश्रय विशेषणत्वविषयकज्ञानज्ञाप्यत्वाश्रय विशेषणविशेष्यभावाभेदाश्रयस्ता दृशसन्निकर्ष इति । विशेषणविशेष्यभाव इत्यनेन प्रकृते विशेषणत्वं विवक्षितम् । ननु सन्निकर्षः प्रत्यक्षे कारणम् । कारणं च कार्यनियतपूर्ववर्ति । विशेषणत्वं तु घटाभावस्य प्रत्यक्षजननान्तरं भविष्यति । न पूर्वम् । स कथं सन्निकर्प इति चेत् ; सत्यम् न विशेषणत्वं सन्निकर्षः । किन्तु प्रत्यक्षेऽभावस्य विशेषणताप्रयोजको भूतलस्य घटाभावस्य च यः सम्बन्धः स एव सन्निकर्षः । एवं च संयुक्त विशषणतेत्यस्य संयुक्तीय स्वरूप सम्बन्ध इत्यर्थ इत्यन्यत्र विश्वरः ।
पूर्वमिन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमित्यत्रेन्द्रियार्थसन्निकर्षजन्यत्वं कथामति प्रश्न तन्निरूपणमेतावता विधायोपसंहरति एचमिति । एवं प्रत्यक्षानुमानात विभागवाक्ये प्रत्यक्षपदस्य प्रत्यक्षज्ञान करणेत्यर्थमुक्त्वा प्रत्यक्षज्ञानमुपपाद्य तत्करणमेव प्रत्यक्षपदवाच्यामिति व्युत्पाद्य तत्करणं किमित्यव विशिष्य तद्दर्शयति तत्करणमिति । तस्मादिति । अयं भावः - प्रत्यक्षा
सुखप्रवेशिनीसमेतः ।
नुमानोपमानशब्दभेदादित्यस्य प्रत्यक्षज्ञान करणानुमितिकरणोपमितिकरणशब्दभेदादित्यर्थः सिद्धयति । न तथैव विभजन तात्पर्यम्, तत्र प्रत्यक्षज्ञानत्यादेरिन्द्रियार्थसन्निकर्षजन्यज्ञा नेत्येवमर्थकतया तत्तदर्थघटकेन्द्रियादिमात्रेण विभजनस्य सुकरत्वेन शिरोवेष्टनस्यायुक्तत्वात् । तथा चेन्द्रियपरामशसादृश्यज्ञानशब्दभेदादित्येव विभागे तात्पर्यम् । अत एवेन्द्रियार्थसन्निकर्पेत्यपि न विभागवाक्ये निवेशनीयम् । इन्द्रियार्थ सन्निकर्षस्येवेन्द्रियस्याप्यसाधारणकारणत्वप्रसिद्धिसद्भावेन तावन्मात्रोक्त्यैव सामञ्जस्यात् । न च तर्हि परामर्शेत्यपि न वक्तव्यम् । परामर्शपदस्य व्याप्तिविशिष्ट पक्षधर्मताज्ञानेत्यर्थकतया तद्धटकस्य व्याप्तिज्ञानस्य करणतया निर्देशस्य युक्तत्वादिति वाच्यं व्याप्तिविशिष्टपअधर्म ताज्ञानमित्यस्य शोधने व्याप्तिज्ञानति वि शिष्टांशस्य तत्र घटकत्वाभावात् । घटकोक्त्यैव सामञ्जस्ये घटितं न वक्तव्यमित्येतावत एव प्रकृते विवक्षितत्वात् । व्याप्तिज्ञानं वा वक्तव्यं पक्षधर्मताज्ञानं वेति विनिगमनाविरहाच । अत एव ‘तस्मालिङ्ग परामर्शोऽनुमान’ मिति वक्ष्यतीति । -
इति प्रत्यक्षपरिच्छेदः ।
[[६३]]
तर्कसङ्ग्रहः ।
अनुमानपरिच्छेदः ।
अनुमितिकरणं अनुमानम् । परामर्शजन्यं ज्ञानं अनुमितिः । व्यप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः ।
- प्रत्यक्षानुमानति करणविभागवाक्ये प्रत्यक्षशब्दार्थ उक्तः । अनुमानॅशब्दार्थः क इत्यवाह अनुमितीति । अनुमितिनिरूपितकरणतावदनुमानशब्दवाच्यमिति बोधः । तद्घटकानुमितिशब्दार्थमाह परामर्शति । परामंशध्वंस ऽतिव्याप्तिवारणाय ज्ञानत्वम् । परामर्शशब्दार्थमाह व्याप्तीति । व्याप्तया विशिष्टम् । पक्षस्य धर्मः धर्म आघयतावान् षष्ठ्यर्थो निरूपितत्वं धर्मस्य भावो घर्मता । असाधारणधर्मस्तस्प्रत्ययार्थः । एवं च पक्षनिरूपितनिरूपतत्वाश्रयायतावन्निष्ठासाधारणधर्म इति पक्षधर्म ताशब्दार्थः । सं चासाधारणधर्मस्तत्प्रत्ययप्रकृत्यर्थतावच्छेदक एव । तथा च पक्षधर्मतेत्यस्य पक्षनिरूपिताधेयतेति निष्कृष्टार्थः । तस्या ज्ञानम् । षष्ट्या विषयित्वमर्थः । व्याप्तिविशिष्टस्य पक्षधर्मताज्ञानम् व्याप्तिविशिष्टपक्षघमन्ताज्ञानम् । व्याप्तिविशिष्टवस्तुविषयकपक्षनिरूपिताघेयताविषयकज्ञान परामर्शपदवाच्यमिति विशिष्टार्थः । अथ वा व्याप्ति वैशिष्टा च सा पक्षधर्मता च तस्या ज्ञानमिति विग्रहः । वैशिष्ट्यं सामानाधिकरण्यसम्म्बन्धेन । यद्वा व्याप्तिविशिष्टस्य पक्षधर्मता तस्या ज्ञानमिति । अत्र व्याप्तिर्विशिष्टं च तत् पक्षधर्मताज्ञानं चेति विग्रहं व्याप्तिीवीरीष्टमित्यस्य व्याप्तिविषयकमित्यर्थं च प्रायो वर्णयन्ति । तत्र हेतुं चाहुः व्याप्तिविशिष्टस्येति षष्ठीसमासे व्यभिचारिलिङ्गकपरामर्शेऽव्याप्तिरिति । तत्रेदं वक्तव्यम् विशिष्टपदस्य तद्विषयकेत्यर्थवर्णन बालव्युत्पादनार्थे ग्रन्थे न खरसम् । न चाव्याप्तिपरिहारार्थ तथा वर्णनामति -
वाच्यम् । कर्मधारयविग्रहेऽप्यव्याप्तितादवस्थ्यात् । धूमवान्
सुखप्रवेशिनीसमेतः ।
यथा, वह्निव्याप्यधूमवान् अयं पर्वतः इति ज्ञानं परामर्शः । तज्जन्य पर्वतो वह्निमान् इति ज्ञानं अनुमितिः । यत्न यत्न धूमः
चरित्यत्र व्याप्तरेवाप्रसिद्ध्या व्याप्तिविशिष्टत्वस्य ज्ञाने दुर्वचत्वात् । हेतुव्यापकसाध्यसामानाधिकरण्यं हि दीपिकोक्ता व्याप्तिः । न च तत्व वहिरूपहेतुव्यापकत्वं धूमरूप साध्यस्य सम्भवति । तर्हि का गतिरिति चेन्न कश्चित्क्लेशः । पूर्व यथार्थानुभवस्य प्रत्यक्षानुमितीति विभाग विधाय तत्करणस्यैव प्रत्यक्षानुमानेति विभजनात् यथार्थानुमितिकरणस्यैव प्रकृते व्युत्पाद - नीयतया तादृशपरामर्शः सद्धेतुपरामर्श एवेति न व्याप्तिविशिष्टस्य पक्षधर्मताया ज्ञानमिति खरसार्थो भञ्जनीय इति । न च दीपिकाविरोधः, वस्तुगत्या व्याप्तिमान् यस्तस्य पक्षघर्मताज्ञानमिति न मन्तव्यम् ज्ञाने व्याप्तिविषयकत्वमपि विवक्षितमिति विशिष्टपद स्वारस्य प्रदर्शनार्थत्वात्तद्वन्धस्येति । परामर्शे व्याप्तिविशिष्टपक्षधर्म ताज्ञानत्वं ज्ञानाकारप्रदर्शनेन व्युत्पादयति यथेति । थाल्प्रत्ययार्थः प्रकारः । इतिशब्दस्य विषयित्वमर्थः । अथ वा इतिशब्दः प्रकारवचनः । वह्निव्याप्यविशिष्ट पर्वतत्वार्थकः । खावच्छिन्नविषयकत्वसम्बन्धेन तस्य ज्ञानेऽन्वयः ।
तथा च परामर्श-पद-वाच्य–वह्निव्याप्य-विशिष्ट- पुरोवर्ति-पर्वतत्वावच्छिन्न-विषयक-ज्ञानं
व्याप्ति-विशिष्ट–पक्ष-धर्मता-ज्ञानत्व-रूप– यादृश-प्रकार-विशिष्टम् इति वाक्यार्थः । अथानुमित्याकारं दर्शयति तज्जन्यमिति । व्याप्तिविशिष्टपक्षधर्म ताज्ञानमित्यत्र व्याप्तिशव्दार्थमाह यत्रेति । यत्र धूमस्तवानिरितिपर्यन्तं प्रकृते वाक्यपरम् । इतिशब्द आनुपूर्वीरूपधर्मपरः । तस्य स्वावच्छिन्नवाक्यबोध्यत्वसम्बन्धेन साहचर्यनियमेऽन्वयः । एवं च यत्नपदाद्यग्निपदान्तनिष्ठानुपूर्व्यवच्छिन्नवाक्यबोध्यसाहचर्यनियमो व्याप्तिशब्दार्थ इति । अत्र यच्छब्दो महानसादिपरः । यन्निरूपिताघेयतावान् धूमः तन्निरूपिताधेयतावानग्निरित्यर्थः । तथा च साहचर्यनियमः कथं K
9 T
W
तर्कसङ्ग्रहः ।
तवाग्निः इति साहचर्यनियमो व्याप्तिः ।
बोद्धयत इति चेदुच्यते । यत्न धूम इति वाक्यानुसारेण तत्त्रेत्यस्य धूमवतीत्यर्थः प्रतीयते । यच्छब्दघटितवाक्येन यच्छन्दार्थे यादृशावशिष्टार्थसम्बन्धो बोद्धयते तच्छन्देन तादृशावैशिष्टार्थसम्बन्धित्वेन तादृशयच्छब्दार्थप्रतीतेरानुभविकत्वात् । एवञ्च तत्राग्निरित्यनेन धूमवहुत्तिरम्भिरित्युक्तं भवति । उद्देश्यतावच्छेदकव्यापकत्वस्य विधेये भानं चानुभवसि - द्धम् । एवञ्च धूमबदुद्देशेनाग्निविधाने वाक्यतात्पर्यमिति धूमवत्त्वव्यापकत्वमौ भासते । अतो हेतुव्यापकसाध्यभानं सिद्ध्यति । अग्नौ धूमवद्वृत्तित्वभानाद्धूमेऽपि हेतौ तुल्यवित्तिवेद्यतया साध्यसामानाधिकरण्यमानं सिद्धमिति वक्ष्यमाणसाहचर्यनियमस्य वाक्यादवगतिरस्त्येव । अत्र ‘तत्रालि’ रित्यत्राभिपदं धूमव्यापकानीत्यर्थलाक्षणिकम् । अतो व्यापकत्वभानमित्य - प्याहुः । साहचर्यनियम इति । सह चरतीति सहचरः तस्य भावः साहचर्यम् । चरतीत्यस्य प्रकृते वर्तत इत्यर्थः । अग्निना सह वर्तते धूमः । सहशब्दार्थोऽधिकरणम् । अग्न्यधिकरणवृत्तिभूम इति, अभिसाहचर्यमग्निसामानाधिकरण्यं धूमे । अग्निसाहचर्यस्य धूमे नियमः । षष्ठ्यर्थ आवे - यत्वम् । सप्तम्यर्थो निरूपितत्वं । नियमो व्यापकत्वम् । तथा चाझिसामानाधिकरण्यनिष्ठं धूमनिरूपि तव्यापकत्वम् । व्यापकत्वं चाभावाप्रतियोगित्वं, जगद्व्यापको विष्णुरित्युक्तौ जगन्निष्ठाभावाप्रतियोगी विष्णुरिति बोधात् । धूमनिरूपितव्यापकत्वं च धूमनिष्ठाभावाप्रतियोगित्वम् । एवञ्च यत्र यत्र घूमत्वम्, तत्र तत्राग्निसामानाधिकरण्यमिति धूमनिष्ठाभावाप्रतियोगि भवत्यझिसामानाधिकरण्यम् । यद्यप्ययं नियमः साहचर्यनिष्ठः । व्याप्तिश्च हेतुनिष्ठा वक्तव्या । अथापि नियमविशिष्टं साहचर्य धूमनिष्ठाभावाप्रतियोगिभूतमभिसामानाधिकरण्यं व्याप्तिरित्यत तात्पर्यम् । इत्थमेवार्थं मनसि निघाय मणिकारः, १ - PT
सुखप्रवेशिनीसमेतः ।
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ।
साध्यसामानाधिकरण्यावच्छेद कहेतुतावच्छेदकवत्त्वं व्याप्तिरित्युक्तवान् । तस्य हि स्वव्यापकसाध्यसामानाधिकरण्यक हेतुतावच्छेदकवत्त्वमित्यर्थः । परन्त्वेवं धूमत्वव्यापकत्वस्य वार्हसामानाधिकरण्ये विवक्षणापेक्षया वहौ धूमव्यापकत्वविवक्षण लाघवमस्तीति परिचिन्तनया धूमव्यापकवहिसामानाधिकरण्यं व्याप्तिरिति निष्कर्षः क्रियत इति ध्येयम् । यद्वा धूमनिष्ठा भिसामानाधिकरण्यस्य नियमो व्यवस्थितत्वम् अनीतरासम्बन्धित्वे सत्यग्निसम्बन्धित्वम् ; अग्नीतरानिरूपितत्वे सत्यग्निनिरूपितत्वम् । इतरेत्यनेन च प्रकृतेऽग्न्यभावो विवक्षितः । घूमनिष्ठसामानाधिकरण्यस्याग्न्यभावानिरूपितत्व सत्यग्निनिरूपितत्वमस्तीत्युक्तौ पूर्ववदस्य नियमस्य साहचर्यनिष्ठत्वात् व्याप्तेर्हेतुनिष्ठत्वस्यावश्यकत्वात् नियमविशिष्टं सामानाधिकरण्यं व्याप्तिरिति वक्तव्यम् । घूम निष्ठ. सामानाधिकरण्येऽग्न्यभावानिरूपितत्वोक्तौ धूमेऽन्यभावनिरूपितसामानाधिकरण्याभावो लभ्यते । तथा चाग्न्यभावासमानाधिकरणत्व सत्यग्निसामानाधिकरण्यं साध्याभाववदवृत्तित्वे सति साध्यवद्वृत्तित्वं व्याप्तिरिरीते सिद्ध्यति । अस्या व्याप्तेः केवलान्वयिन्यव्याप्त्या हेतुव्यापकसाध्यसामानाधिकरण्यमिति निष्कर्षकरणमिति। पक्षघर्मता शब्दार्थमाह व्याप्यस्येति । वस्तुतो यो व्याप्यो धूमादिस्तनिष्ठपर्वतादिवृत्तित्वमिति । पर्वतवदन्यस्यापि कदाचित्पक्षत्वं भवतीत्यादिपदम् । यदज्ञातमनुमीयते तत्साध्यम् ; येन साध्यते स हेतुः ; यत्र साध्यते स पक्षः ; हेतोः पक्षे सत्त्वं पक्षधर्मतति ।
प्रत्यक्षानुमानेत्यलानुमानपदेन परामर्शो विवक्षणीय इति वक्ष्यति । स्वार्थानुमानस्थले परामर्शस्यानुमानत्वेऽपि परार्थानुमानस्थले वाक्यस्यैवानुमानत्वात् कथं सर्वत्र परामर्शोऽनुमानामेति शङ्का मा भूदिति, स्वयमेवानुमानद्वैविध्यमुपपाद्यानुमानपदेन परामर्शमा व महणस्य युक्ततां गमयितुमारभते
[[६७]]
[[६८]]
तर्कसङ्ग्रहः ।
अनुमानं द्विविधम्, स्वार्थ परार्थ चेति, स्वार्थ स्वानुमिति • हेतुः । तथा हि स्वयमेव भूयो दर्शनेन यत्व धूमस्तवाग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतः पर्वते धूम पश्यन् शिष्ट परामर्शः । ततोऽनुमितिरिति स्वार्थानुमानस्थले क्रमः । सकृद्धेतु
। तद्गते चानौ सन्दिहानः व्याप्तिं स्मरति यत्र धूमः तत्राग्निरिति । अनुमानमित्यादिना । अनुमानं तार्किकैरनुमानपदेन व्यवह्वियमाणम् । स्वार्थमिति स्वस्यार्थः प्रयोजन यस्मात्तत् । परार्थ परस्यार्थः प्रयोजनं यस्मा - चत् । प्रयोजनं च प्रकृतेऽनुमितिरित्याशयेन समासार्थमेकस्याह खानुमितिहेतुरिति । स्वपदेन यस्मिन्ननुमानमस्ति स पुरुषो ग्राह्यः । उपपाददयितुमाह तथा हीति । सर्वत्र तथा होत्यारभ्योपपादकवाक्यं यावत्प्रयुज्यते तावद्वाक्यप्रतिपाद्यार्थनिष्ठं हेतुत्वं हिशब्देनोच्यते । तथेत्यत्र थाल्पत्ययार्थप्रकारे हेतुत्वस्य निरूपकतासम्बन्धनान्वयः । तथा च पूर्वोक्कार्थः वक्ष्यमाणार्थनिष्ठहेतुतानिरूपकपूर्वोक्तप्रकार विशिष्ट इति तथा होत्यस्यार्थः । उपपादयति स्वयमेवेति । एवकारः पञ्चावयववाक्यप्रयोक्तृपुरुषान्तरव्यवच्छेदार्थः । ‘तत्र धूमं पश्यन्त्रित्युक्तौ तत्रेत्यस्य पर्वतसमीप इत्येवार्थः प्रतीयेत, पर्वतसमीपमित्येव प्रागुतत्वात् । अतः पुनः पर्वत इत्युक्तम् । तद्गते पर्वतं गते तन्निष्ठे । स्वेतरानधीनं स्वाधीनं भूयोदर्शनजन्यं यत्र धूमस्त त्राभिरित्यानुपूर्वीकशब्दगम्यव्याप्तिविषयकं महानसाधवच्छिन्नत्व विषयकं च यद्गहणं तदुत्तरकालिकपर्वत समोपवृत्तिसंयोगानुकूलव्यापाराश्रयाभिन्नः पर्वतविषयकधूमविषयकदर्शनाश्रयः समुच्चयाश्रय पर्वत निष्ठाभिविषयकसन्देहाश्रयः ‘यत्र धूमस्तत्राग्नि’ गिते शब्दगम्यव्याप्तिविषयक स्मरणाश्रयत्ववानित्यवं बोधः । प्रथमतोऽभिधूमयोः सहचरितयोर्महानसादौ भूयोदर्शनम् । ततो धूमसामान्यस्यामि सामान्येन व्याप्तिरूपसम्बन्धज्ञानम् । अथ कदाचित् पर्वते घूमदर्शनम् । ततः पूर्वानुभूतव्याप्तिरूपसम्बन्धस्मरणम् । पश्चाद्विBank
,
सुखप्रवेशिनोसमेतः ।
सदनन्तरं वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमानित्यनुमितिरुत्पद्यते । तदेतत् स्वार्थानुमानम् ।
यत्तु स्वयमेव धूमादग्निमनुमाय परप्रतिपत्त्यर्थे पञ्चावयत्रवाक्यं प्रयुङ्क्ते तत्परार्थानुमानम् । यथा, पर्वतो वह्निमान, धूमवत्त्वा त्, यो यो धूमवान् स सोऽग्निमान् यथा महानसम्, तथा चायम्,
साध्यदर्शने साध्यसामान्यस्व हेतुसामान्यस्य च व्याप्तिग्रहो नोदेति । भूयोदर्शने तु तथेति प्रायिकस्थितिपयलोचनेन भूयोदर्शनं व्यातिग्रहकारणमुक्तम् । तद्नन्तरमिति । न विद्यते अन्तरं व्यवधानं यत्र तत् अनन्तरम् अव्यवहितम् । प्रकृते चाव्यवहितोत्तरमित्यर्थः । व्याप्तिस्मरणनिरूपिताव्यवहितोत्तरत्वाश्रयोत्पत्त्याश्रयत्ववद् ज्ञानमिति । अयमेवेत्येचकारेण धूमदर्शनव्याप्तिस्मरणव्यवच्छेदः । परामर्शपदस्य ज्ञानमालार्थकतया लिङ्गपरामर्श इत्यस्य लिङ्गविषयकज्ञानमित्यर्थ इति यद्यपि पर्वतो धूमवान् चह्निव्याप्यो धूम इति ज्ञानयोरपि लिङ्गपरामर्शत्वं शक्यशङ्कम्, अथापि व्याप्ति विशिष्ट पक्षघर्मताज्ञान एव लिङ्गपरामर्शपदं पारिभाषिकमिति भावः । तस्मादिति परामर्शादित्यर्थः । पञ्चम्यर्थो निरूपितत्वमुत्पत्तावन्वेति । तत् स्वाधीनम् एतत् लिङ्गपरामर्शरूपं ज्ञानम् । परार्थानुमानं व्युत्पादयति यत्त्विति । यत् पञ्चावयववाक्यमित्यन्वयः । स्वयमेव धूमादग्निमनुमायेति । स्वस्य ज्ञानाभावे परं प्रति प्रतिपादनमशक्यमित्यभिप्रेत्येदमुक्तम्। स्वयमेवेत्याविवक्षितम् । तत् पञ्चावयववाक्यम् । पञ्च अवयवा यस्य तत् पञ्चावयववाक्यम् । पञ्चावयवान् प्रकृते विशिष्य दर्शयति यथेति । यादृशपञ्चावयववाक्यत्वरूपप्रकारविशिष्टमित्यर्थः । धूमवत्वादिति द्वितीयोऽवयवः । तथा चायमिति चतुर्थोऽवयवः । इतीति उक्तशब्दसमुदा
तर्कसङ्ग्रहः ।
तस्मात्तथेति । अनेन वाक्येन प्रतिपादितात् लिङ्गात् परोऽप्यनि प्रतिपद्यते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च अवयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्वादिति हेतुः । यो यो धूमवान् सोऽग्निमान् यथा महानसमित्युदाहरणम् । तथा चायमित्यु
यनिष्ठानुपूर्व्यवच्छिन्नमित्यर्थः । अस्य वाक्यस्य परार्थानुमानत्वं कथमित्यल तस्यानुमितिप्रयोजकत्वं विद्यमानं दर्शयति अनेनेति । प्रतिपादितात् ज्ञापितात् प्रतिपादनं ज्ञानानुकूलव्यापारः । स चैतद्वाक्यमेव । तथा चैतद्वाक्यामिन्नव्यापारजन्यज्ञानविषयीभूतादित्यर्थः । क्तप्रत्यस्य फलाश्रय इत्यर्थः । फलाश्रयत्वं च प्रकृते ज्ञानविषयत्वमिति । प्रतिपद्यत इति । तथा च परो वाक्यं श्रुत्वा तदर्थ बुद्धयते । ततो व्याप्तिविशिष्टपक्षघर्मता प्रकृतेऽस्तीति परामृशति । ततोऽनुमितिमान् भवतीति भावः । पञ्चावयववाक्यमित्युक्तम् । तत्रावयवानां पारिभाषिकं नाम ग्राहयति प्रतिश्शेति । कस्य भागस्य किं नामेत्यल विशदयति पर्वत इति । पर्वतः पक्षः वहिस्साध्यः । तथा च साध्यविशिष्टपक्षप्रतिपादकवाक्यं प्रतिज्ञेत्यर्थः । धूमवत्वादिति धूमादिति यावत् । ज्ञानज्ञाप्यत्वं पञ्चम्यर्थः । ज्ञाने धूमस्य विषयितासम्बन्धेनान्वयः । धूमश्च हेतुः । तथा च हेतुविषयकज्ञानज्ञाप्यत्वबोधक वाक्यं हेतुवाक्यमित्यर्थः । उदाहरणे वाक्यत्रयम् । यो यो धूमवानिति प्रथमम् । सोऽभिमानिति द्वितीयम् । यथा महानसमिति तृतीयम् । प्रथमयच्छन्दः प्रकृते घूमबदेकव्यक्तिपरः । द्वितीययच्छब्दो व्यक्त्यन्तरपरः । स इति यच्छब्दद्वयोपात्तसर्वव्यक्तिपरः । अथ वा स इत्यस्य पूर्ववाक्यानुसारात् धूमवव्यक्तिरित्यर्थः । यथेति धूम· वत्त्वाग्निमत्त्वरूपया दृशप्रकारद्वयविशिष्ट इत्यर्थः । अत्रोदाहरणे धूमवद्यतौ वामित्त्वबोधके धूमचत्त्वव्यापकवाह्रैमत्त्वबोधकत्वमप्यस्ति । उद्देश्य
[[७१]]
सुखप्रवेशिनीसमेतः ।
पनयः । तस्मात्तथेति निगमनम् । स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणं, तस्मालिङ्गपरामर्शोऽनुमानम् ॥
लिङ्गं त्रिविधं, अन्वयव्यतिरोक, केवलान्वाय, केवलव्बतिरे. किं चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमत् अन्वयव्यतिरोक, यथा, ,
तावच्छेदकव्यापकत्वस्य विधेये भानसम्भवात् । वीप्साबलाच्च तादृशमान स्वरसम् । तथा च व्याप्तिप्रतिपादकवाक्यमुदाहरणमित्युक्तं भवति । तथा चायम् बाहव्याप्यधूमवान् पर्वतः । साध्यव्याप्यहेतुमत्पक्षप्रतिपादकवाक्यमुपनय इत्यर्थः । तस्मात्तथा वह्निव्याप्यघूमवत्त्वाद्वह्निमान् ज्ञानज्ञाप्यत्वं पञ्चम्यर्थः । तथा च साध्यव्याप्यहेतुज्ञानज्ञाप्यसाध्यवत्प्रतिपादकवाक्यं निगमनमिति सिद्धम् । एवं चेहशसमुदाय रूपाद्वाक्याच्यातिपक्षधर्म ताविशिष्टज्ञानोत्पत्तेः प्रागुक्तत्वात् स्वार्थानुमिताविव परार्थानुमितावपि परामर्श एव कारणम् । वाक्यस्य तदुपयोगित्वेनान्यथासिद्धत्वान्न करणत्वम् । केवलमनुमितिप्रयोजकत्वमा त्रेण तत्र परार्थानुमानव्यवहार इति दर्शयति स्वार्थेति । तथा च प्रत्यक्षानुमानति विभागवाक्येऽनुमानपदेन परामर्श एव विवक्षित इति दर्शयति तस्मादिति । व्याप्तिविशिष्ट पक्षघर्म ताज्ञानमित्यत्र व्याप्तिः सर्वत्र नैकरूपा । किं तु क्वचिदन्वयव्याप्तिरूपा क्वचिद्व्यातेरेकव्याप्तिरूपा चेति व्युत्पादयितुं लिङ्गत्रैविध्यं पूर्वैरुक्तं दर्शयति लिङ्ग मिति । अन्वयश्च व्यतिरेकश्च तावस्य स्त इत्यम्वयव्यतिरेकि । केवलो व्यतिरेकाभावविशिष्टोऽन्वयोऽ स्यास्तीति केवलान्वयि । केवलोऽन्वयाभावविशिष्टो व्यतिरेकोऽस्यास्तीति केवलव्यतिरेकि । अन कस्यान्वयः कस्य व्यतिरेकश्च विवक्षितः ? अत्र अन्वयवत्त्वं व्यतिरेकवत्त्वं च केन सम्बन्धेनेत्यत्र विशदयति अन्वयेनेति । तृतीयार्थी निरूपितत्वं व्याप्तावन्वेति । तथा च व्याप्तौ साध्यादिनिरूपसाध्यान्वयः साध्यसम्बन्धः साध्यवत्त्वमित्यर्थः ।
तत्वस्यैव सम्भवादन्वयपदस्य
[[७२]]
तर्कसङ्ग्रहः ।
वहौ साध्ये धूमवत्त्वम् । यत्न धूमः तत्राग्निः यथा महानस इत्यन्वयव्याप्तिः । यत्न वह्निःनास्ति तव धूमोऽपि नास्ति यथा महाहद इति व्यतिरेकव्यतिः ।n
dig साध्यवत्वं च साध्यमेव । व्यतिरेकपदस्य साध्यव्यतिरेकः साध्या भाव इत्यर्थ इति सूचितम् । एवञ्च साध्यनिरूपितव्याप्तिमत्वे सति साध्याभावनिरूपितव्याप्तिमत्त्वमन्वयव्यतिरे कित्वम् । अन्वयव्यतिरेकी त्यत्रेनिप्रत्ययेन खनिरूपितव्याप्तिमत्त्वरूपसम्बन्धेनान्वयव्यतिरेकवान् विवक्षित इत्युक्तं भवति । साध्ये सिद्धिविषय, अनुमितिविषये । इयं सति सप्तमी । ईदृशस्थले सप्तम्याः समभिव्याहृतधात्वर्थ एवार्थः । अतोऽल वह्नाविति सप्तम्याः साध्य इत्यत्र सिद्धिरूपधात्वर्थोऽर्थः । तस्य समानकालिकत्वसम्बन्धन भवनक्रियायामन्वयः । भवतीत्यध्याहारः । तथा च साध्याभिन्न वह्निविषयकसिद्धिसमानकालिकयाहशान्वयव्यतिरेकित्वरूपप्रकारविशिष्टभवनाश्रयो धूमवत्त्वमिति बोधः । ननु लिङ्गस्य साध्यव्याप्तिः साध्याभावव्याप्तिश्चेत्युभयं कथं स्यात्, मिथो विरोधादित्याशङ्कायां साध्याभावव्याप्तिरित्युक्तौ साध्याभावेन साहचयनियम इति न मन्तव्यम् । अपि त्वन्यविषैव सा व्यातिरिति बोधयितुमाह यत्रेति । महानस इति महाहद इति च सप्तम्यन्तम् । तत्र धूमोऽपि नास्तीति । वयभाववजूदा दिनिरूपिताघेयत्वामाववान् धूम इत्यर्थः । इति व्यतिरेकव्याप्तिः एतदानुपूर्वीकशब्दगम्या व्यतिरेकव्याप्तिः । अव चयभाववन्तमुद्दिश्य धूमाभावविधाने तात्वर्यात् तयोयीप्यव्यापकभावो भासते। तथा च वड्यभावव्यापकीभूताभावप्रतियोगी धूम इत्युदाहरणाल्लभ्यते । एवञ्च साध्यनिरूपितव्याप्तिर्नाम साध्येन साहचर्यनियमः, साध्यव्यतिरेकनिरूपितव्याप्तिनम साध्याभावव्यापकीभूताभावप्रतियोगित्वम् । सदुभयञ्च मिथो विरुद्ध मिति भावः । नन्विदमन्वयव्यतिरेकिलक्षणं केवलव्यतिरेकिण्य तिव्याप्तस् तस्यापि वस्तुतोऽन्वयव्याप्तिमत्त्वादिति चेन्न ।
सुखप्रवेशिनीसमेतः ।
अन्वयमातव्याप्तिकं केवलान्वयि । यथा, घटोऽभिधेयः प्रमेयत्वात् पटवत् इत्यक्ष प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वात् अभिघयत्वाच्च ।
प्रकृतलक्षणघटकमन्वयव्यातिमत्त्वं नाम प्रकृतपक्षभिन्नपदार्थावच्छिन्नसाध्य - व्याप्तिमत्त्वम् । साध्यसामानाधिकरण्यं हि व्याप्तिः । तच्च प्रकृतपर्वतादिपक्षभिन्नमहानसाद्यवच्छेदेनापि हेतावस्तीति लक्षणसमन्वयः । तत्र तु पृथिवीसामान्यस्य पक्षत्वातद्भिन्ने कुलापि हेतुसाध्याभावान्न दोष इति । केवलान्वयि लक्षयति अन्वयेति । अन्वयमात्रेण व्याप्तिर्यस्य, प्रकृतहेतुनिष्ठ - व्याप्तित्वव्यापकं यत् अन्वयनिरूपितत्वं तदन्वयनिरूपितत्वविशिष्टव्याप्तिमस्केवलान्वयिशब्दवाच्यामति । यत्र हि व्याप्तिद्वयमप्यस्ति तत्त्र व्याप्तित्वस्य व्यतिरेकव्याप्तावपि सत्त्वात् तत्र साध्यनिरूपितत्वाभावात् खनिष्ठव्याप्तित्वव्यापकान्वयनिरूपितत्वकत्वरूपमिदं लक्षणं न वर्तते । उदाहरति यथेति । ‘घटोऽभिधेयः प्रमेयत्वात्पटव’ दिल्यानुपूर्वीकशब्दगम्यहेतुरुक्तकेवलान्वयित्वरूपप्रकारविशिष्ट इति बोधः । पञ्चावयवप्रयोग कर्तव्येपि तत्र पक्षसाध्यहेतु दृष्टान्तमेदानां प्रदर्शनेऽन्यत्सर्वं स्वयमेव पूरयितुं शक्यमिति घटो. ऽभिधेयः प्रमेयत्वात् पटवदित्येतावन्मालमुक्तम् । उपपादयति अत्रे - ति । अल अस्मिन् प्रयोगे ‘घटोऽभिधेयः प्रमेयत्वात्पटव’ दिति शब्दराशौ । ज्ञाप्यत्वं ललोऽर्थः । तादृशशब्दराशिगम्यार्थपर्यन्तो वेदंशब्दार्थः । घटकत्वं त्रलर्थः प्रमेयत्वाभिधेयत्वान्वयि । षष्ठ्यर्थो निरूपितत्वं धात्वर्थे सम्वन्धित्वेऽन्वेति । तस्याख्यातार्थ आश्रयत्वे, तस्य प्रतियोगितानिरूपकत्वसम्बन्धेन नञर्थेऽभावे, तस्याश्रयतासम्पन्न व्यतिरेकव्याप्तौ । तथा च व्यतिरेकव्याप्तेः प्रमेयत्वनिष्ठत्वमभिधेयत्वनिरूपितत्त्रं च नास्तीत्यर्थः । कुत इत्यत्राह सर्वस्येति । ज्ञानज्ञाप्यत्वं पञ्चम्यर्थो नञर्थाभावान्वाये । व्यतिरेकव्यातिर्हि अभावव्यापकीभूताभावप्रतियोगित्वम् अभिधेयत्वरूपसाध्यस्य 102 - d
[[૭૨]]
तर्कसङ्ग्रहः ।
व्यतिरेकमालव्याप्तिकं केवलव्यतिरेकि । यथा, पृथिवी इतरे
भ्यो भिद्यते गन्धवत्वात् । यदितरेभ्यो न भिद्यते न तत् गन्धवत्, यथा, जलम् । न चेयं तथा । तस्मान्न तथेति । अत्न यत् गन्धवत् सर्वनिष्ठ तयाऽभिधेयत्वाभावस्य कुत्रापि वक्तुमशक्यत्वात् साध्याभावेत्यप्रसिद्धम् । प्रमेयत्वरूपहेतोराप सर्वनिष्ठतया हेतावभावप्रतियोगित्वरूपव्याप्तिदुर्वचा । अतो व्यतिरेकव्याप्तिनील सम्भवतीति भावः । अल सर्वनिष्ठत्वोपपादनं साध्यमातस्यैवापेक्षितम् । हेतौ तदुपपादनं तु वस्तुतः प्रकृतहेतोरपि तादृशत्वात् । असर्वनिष्ठोऽपि केवलान्वयिहेतुर्भवति यथा घटोऽभिधेयो द्रव्यत्वादिति । असर्वनिष्ठं साध्यं सर्वनिष्ठश्च हेतुर्यदि विवक्ष्यते, स हेतुरसद्धेतुरेव स्यादिति न तादृशस्य लक्ष्यत्वम् । तथा च केवलान्वयिसाध्यनिरूपितव्याप्तिमत्त्वं केवलान्वयिलिङ्गलक्षणम् । अत्र केवलान्वयित्वमत्यन्ताभावाप्रतियोगित्वम् । न च गगनाभावस्य केवलान्वयित्वं न स्यात् गगनं प्रति प्रतियोगित्वादिति वाच्यम् । गगनाभावाभावस्य गगनरूपतया हि गगनाभावस्य गगनात्मकात्यन्ताभावप्रतियोगित्वम् वक्तव्यम् । गगनाभावाभावश्चाप्रसिद्ध इति कुतो गगनरूपत्वं तस्य ? कुतस्तरां च गगनाभावस्य प्रतियोगित्वमिति । पूर्वमन्वयिस्थलीयोदाहरणोपनयनिगमनप्रयोगरीतेंर्दर्शितत्वात्केवलान्वयिनिरूपणावसरे तद्विशदमनुक्त्वा ‘घटोऽभिधेयः प्रमेयत्वात् पटव’ दित्येतावदुक्तवान् । व्यतिरेकिस्थले तीतरप्रदर्शितत्वादत्रैव विशदमाह यथेत्यादिना । इतरेभ्यो न भिद्यते इतरप्रतियोगिकभेदाश्रयत्वाभाववत् । न गन्धवत् गन्धवत्प्रतियोगिकमेदवत् । अत्रेतरभेदाभाववद्रूपतच्छब्दार्थमुद्दिश्य गन्धवद्भेदविधाने इतरभेदाभाबध्यापको गन्धवद्भेद इति लभ्यते । गन्धवद्वेदश्च गन्धाभाव एव प्रकृतव्यातेरेकव्याप्तिलाभः । न चेयं तथा पृथिवी गन्धाभाववती न । तस्मान्न तथेति । (गन्धाभाववद्भिन्नत्वात् ) गन्धवत्त्वादितरभेदाभाववअतः
सुखप्रवेशिनीसमेतः ।
तदितरभिनं इत्यन्वयदृष्टान्तो नास्ति । पृथिवीमानस्य पक्षत्वात् । सन्दिग्धसाध्यवान् पक्षः यथा धूमवत्त्वे हेतौ पर्वतः । ,
ती नेत्यर्थः । ननु ‘हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमन मिति सूत्रे (न्या १ –१-३९ ) उदाहरणोपनय द्वैविध्येऽपि निगमनद्वैविध्य नास्ती - ति भाषितत्वादन्वयव्याप्तिस्थल इव तस्मात्तथेत्येतावदेव निगमनं वक्तुमुचितमिति चेदुच्यते हेतुनिर्देशपुरस्सरं प्रतिज्ञावाक्यं तादृशानुपूर्वीकमेव निगमनेऽपि घटनीयमित्येव भाण्याशयः । यदि तु प्रतिज्ञागतानुपूर्वीमुपेक्ष्य प्रतिज्ञार्थबोधकशब्दान्तरघटनेऽपि नातीव बाघकमिति ‘तस्मात्तथे ति तथाशब्दघटनेनान्वय निगम नमुच्यते, ताई व्यतिरे कि निगमनेऽर्थस्पष्टत्वाय ‘न तथेति प्रयोगे ऽपि न किञ्चिद्वाधक मिति अन्थकाराशयः । नन्वन्वयव्याप्तिरहितत्वे सति व्यतिरेकव्याप्तिमत्त्वरूप केवलव्यतिरेकिलक्षणमसम्भवि । वस्तुतो गन्धवत्त्वं यत्र तत्रेतरभेद सत्त्वेनान्वयव्याप्तेरक्षतत्वादित्यलाह अनेति । अयं भावः– यद्यप्यन्वयव्याप्तिरस्ति, अथाप्यनुमितेः पूर्वं तद्ज्ञानं न भवति । दृष्टान्ताभावे व्याप्तिनिश्चयासम्भवात् । प्रकृते गन्धवतः सर्वस्य पक्षत्वेन पक्षातिरिक्तस्य हेतुसाध्याधिकरणस्यामावान्न व्याप्तिनिश्चयः । अतोऽन्वयव्यातिशून्यत्वस्थाने निश्चितान्वयव्याप्तिशून्यत्वेति निवेशः कार्यः । यद्वा प्रकृतपक्ष तिरिक्तावृत्तिसाध्यनिरूपितव्या तेरेकव्याप्तिमत्त्वं केवलव्यतिरेकिलक्षणं वाच्यामिति । पृथिवीमात्रस्य सर्वस्या अपि पृथिव्याः । ननु पृथिव्याः पक्षत्वमप्यस्तु तथा दृष्टान्तत्वमपि तत् कथमन्वयदृष्टान्तो नास्तीत्युच्यत इत्याशङ्कायां ‘दृष्टान्तो हि सपक्षः; स कथं पक्ष’ इति बोधयितुं पक्षादिकं विविच्य दर्शयति सन्दिग्घेति । सन्देहप्रकारीभूतं साध्यं प्रकारतया ऽस्यास्तीति सन्दिग्धसाध्यवान् । मतुवर्थः सम्बन्धी प्रकृते विशेष्यतावान् सन्देहप्रकारत्व विशिष्टसाध्यनिरूपित विशेष्यतावान् साध्यनिष्ठसन्देहप्रकारतानिरूपितविशेष्यतावानिति यावत् । तत्त्वं पक्षलक्षणम् । धूमवस्खे हेतो 9
[[७५]]
तर्कसङ्ग्रहः ।
निश्चितसाध्यवान् सपक्षः । यथा, तत्रैव महानसः । निश्चितसाध्याभाववान् विपक्षः । यथा, अवैव महाहदः । एवं सद्धेतवो निरूपिताः ।
पर्वतः धूमवत्त्वहेतुस्थलीयपर्वतः । तत्स्थलीयत्वं च तद्ज्ञानविषयत्वम् । तथा च देताविति सप्तम्या ज्ञानविषयत्वरूप सम्बन्धोऽर्थ आश्रयतया पर्वते ऽन्वेति । घुमवत्त्वाभिन्नहेतुविषयक ज्ञानविषयताश्रयपर्वतो यत्प्रकारकविशिष्ट इति बोधः । निश्चितेति निश्चयप्रकारेत्यर्थः । मतुबर्थो विशेव्यः । पूर्ववत् साध्यनिष्ठनिश्चयप्रकारतानिरूपितविशेष्यितावत्त्वं सपक्षलक्षणम् । तत्व धूमरूपहेतौ । तथा च तादृशसन्देहस्थलं निश्चयस्थल च न युगपदेकं भवितुमर्हतोति भावः । एवं पक्षदृष्टान्तभेदं प्रदर्शये प्र सङ्गाद्व्यतिरेकदृष्टान्तरूप विपक्षमाप व्युत्पादयति निश्चितेति । निश्चयप्रकारेत साध्याभावान्वयि । एवं लिङ्गत्रैविध्यनिरूपणेन व्यातिभेदस्तद्धीनपरामर्शभेदश्च दर्शितः । तथा चेहशव्यासिविशिष्टलिङ्गपरामर्शोऽनुमितिकरणमिति सिद्धम् । →
अथास्य, न वस्तुतस्साध्यनिरूपिता या व्याप्तिर्वस्तुतस्तद्वान् यो हेतुवस्तुतस्तद्वत्पक्षविषयकज्ञानत्वेन रूपेण, परामर्शस्य कारणत्वम् । तथा सति हृदो धूमव्याप्यवाहमानिति भ्रमात्मक परामर्शात् हृदो धूमवानिति भ्रमातमकानुमितेरनुत्पत्तिप्रसङ्गात् । अतः परामर्श यस्य यस्य यद्यदंशे प्रकारत्वं, तत्तन्निष्ठप्रकारतानिरूपिततत्तन्निष्ठप्रकारतेति रीत्या विशेषितहेतुनिष्ठ - प्रकारतानिरूपितपक्षनिष्ठविशेष्यताश । लिनिश्चयत्वेन कारणत्वम् । तत्र च स्थले वस्तुतस्तस्य तस्य पदार्थस्य सम्बन्धाभावेऽपि भ्रमात्मकज्ञानेन तस्य तस्य तत्तदंशे प्रकारतया ग्रहणान्न तत्र कारणत्वहानिरिति कारणतावच्छेदकरूप शिक्षाप्रदर्शनमभिसङ्घाय वस्तुतो व्यातिपक्षघर्मतावैशिष्ट्यशून्यान् अ
सुखप्रदेशिनीसमेतः ।
सव्यभिचारविरुद्धसत्प्रतिपचासिद्धवाघिताः पञ्च हेत्वाभासाः । सव्यभिचारोऽनैकान्तिकः । स त्रिविधः, साधारणासाघारणानुपसंहारिभेदात् । तत्व साध्याभाववकृत्तिः साधारणः । यथा पर्वतो वह्निमान प्रमेयत्वात्, अन प्रमेयत्वस्य वह्नयभाववति हृदे विद्यमानत्वात् ।
१ सर्वस पक्षविपक्षव्यावृत्ती हेतु असाधारणः । यथा, शब्दो सद्धेतूनपि निरूपयति सव्यभिचारेत्यादिना । हेत्वाभासा इति । आभासन्त इत्याभासा ईषद्भासमानास्वगतयथावस्थितघर्म विना भासमाना भ्रमविषयाः । हेतव आभासाः, अभेदसम्बन्वेन हेतुप्रकारकभ्रमविषयाः व्याप्तिपक्षघर्मता विशिष्टत्वरूपहेतुत्वभ्रान्तिविषया इति यावत् । व्यभिचारेण सह वर्तत इति सव्यभिचारः, व्यभिचारोऽन्यत्रापि सम्बन्धः प्रकृतसाध्यवदन्यवृत्तित्वं तद्विशिष्ट इत्यर्थः । इत्थं च साधारण एव सव्यभिचारः स्यात् । अतस्तदर्थमाह सव्यभिचार इति । अनैकान्तिक इति । एकश्वासावन्तश्चैकान्तः ‘नित्यत्वमध्येकोऽन्तः, अनित्यत्वमध्येकोऽन्त’ इति भाव्यानुसारात् । अन्तो निश्चेतव्यो धर्मः कोटिः । एकान्ते भव एककोटिस्थः एककोटिसमानाधिकरणः एकधर्मनिश्चयप्रयोजक इति यावत् । न ऐकान्तिक एकधर्मनिश्चमाप्रयोजको ऽनेकधर्मज्ञानप्रयोजकः संशयप्रयोजक इति यावत् । तथा च साध्यतदभावसंशयप्रयोजकत्वम नैकान्ति कत्वमित्यलम् । साघारणः साध्यतदितरसम्बन्धी साध्यवद्वृत्तिः साध्याभाववद्धति - श्चत्यर्थः । तत्र साध्यवहुतित्वांश व्यर्थं परित्यज्याह साध्येति । प्रमेयत्वादिति । ‘इत्यत्र प्रमेयत्व’ मिति शेषः । अल अस्मिन् प्रयोगे । असाधारणः पक्षासाधारणः पक्षेतरावृत्तिः सन् पक्षवृत्तिः पक्षेतरश्च सपक्षो विपक्षश्चेत्यभिसन्धाय निष्कृष्टमाह सर्वेति । सर्वेभ्यः सपक्षेभ्यो विपक्षेभ्यश्च
व्यावृत्तः । सपक्षविपक्षशब्दार्थी प्रामुक्तौ । व्यावृत्तोऽभावप्रतियोगी ।
तर्कसङ्ग्रहः ।
नित्यः शब्दत्वात्, व्यत्र शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्यावृत्तम्, शब्दमाववृत्ति ।
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्व अनित्यं प्रमेयत्वात् । अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति । साध्याभावव्याप्ती हेतुः विरुद्धः । यथा, शब्दो नित्यः कार्यत्वात्, अन कार्यत्वं नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ।
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते सः सत्प्रतिपक्षः ।
➡ सद्धेतुवारणाय सपक्षव्यावृत्तत्वम् विरुद्धवारणाय सर्वविपक्षव्यावृत्तत्वम् । सर्वसपक्षव्यावृत्तत्वमेवालम् दुष्टसङ्करेऽपि दोषासङ्करात् । अनुपसंहारीत्य। स्योपसंहारकभिन्न इत्यर्थः । उपसंहारकत्वं दृष्टान्तबलेन साध्यस्य पक्षे सम्पादकत्वम् । तथा च दृष्टान्त प्रयुक्तसाध्यानुमितिजनक ताशून्योऽनुपसंहारीत्यर्थः । तत लाघवादृष्टान्तरहित इत्येवालम् । परं तु केवलान्वयिनि केवलव्यतिरेकिणि चातिव्याप्तिवारणाय दृष्टान्तसामान्यराहित्यं विबक्षणीयमिति दर्शयति अन्वयेति । दृष्टान्तो निश्चित स्थलं निश्चय विशेष्य इति यावत् । तथा च साध्यान्वयप्रकारकनिश्चय विशेष्यरहितत्वे सति साध्यव्यतिरेकप्रकारकनिश्चय विशेष्य राहत इत्यर्थः । दृष्टान्तराहित्यं चैकज्ञानविषयत्वसम्बन्धेन दृष्टान्ताभाववत्त्वम् । तच्च साध्यादिप्रकारकनिश्चयविषयविषयकज्ञानाविषयत्वम् । तथा च लाघवात् साध्यप्रकारकनिश्चयाविषयत्वे सति साध्याभावप्रकारकनिश्चयाविषयत्वम नुपसंहारित्वम् । केवलान्वयिस्थले केवलव्य तिरेकिस्थले च साध्यतदभावप्रकारकनिश्चय विषयत्वं हेतोः परामर्शदशायामस्ति । तद्वदव नास्तीति लक्षणसमन्वयः । हेतुः हेतुत्वेनाभिमत इत्यर्थः तस्य सद्धेतुत्वाभावात् । इदं च स्वरूपकीर्तनम् ; न लक्षणघटकम् । सत्प्रतिपक्ष इत्यस्य सन् प्रतिपक्षो यस्येति विग्रहः । प्रतिपक्षपदस्य •
साध्याभावसाघकहेत्वन्तरमित्यर्थः । तदाह यस्येति । अ
[[७९]]
सुखप्रवेशिनीसमेतः ।
यथा, शब्दो नित्यः श्रावणत्वात्, शब्दोऽनित्यः कार्यत्वात् घटवत् । असिद्धस्त्रिविधः, आश्रयासिद्धः स्वरूपासिद्धः व्याप्यत्वासि द्धश्चेति । आश्रयासिद्धो यथा, गगनारविन्दं सुरभि अरविन्दत्वातू सरोजारविन्दवत् । अन गगनारविन्दमाश्रयः, स च नास्त्येव !
स्वरूपासिद्धो यथा, शब्दो गुणः चाक्षुषत्वात् रूपवत् । अन चाक्षुषत्वं शब्दे नास्ति, शब्दस्य श्रावणत्वात् ।
सोपाधिको व्याप्यत्वासिद्धः साध्यव्यापकत्वे सति साधनाव्यापकत्वं उपाधित्वम् । साभ्यसमानाधिकरणात्यन्ताभावाप्रति
सिद्धत्वमसिद्ध्याश्रयत्वमभावाश्रयत्वम् । अभावनिरूपिताश्रयत्वं चैकज्ञानविषयत्वसम्बन्धेन । अभावश्चाश्रय-स्वरूप- व्यापकत्वान्यतमप्रतियोगिकः । आश्रयासिद्ध इति । आश्रयेण स्वाश्रयेण प्रकृतहेत्वाश्रयेण पक्षणासिद्ध इति । गगनारविन्दम् गगनजन्यारविन्दम् । सरोजेति सरोजन्येत्यर्थः । सोपाधिक इति उपाधिविशिष्ट इत्यथः । वैशिष्ट्यं च व्यभिचारित्वसम्बन्धेन । कः पुनरुपाधिरित्यलाह साध्येति । सतीति समभिव्याहृतपदघटकघात्वर्थसत्ता सप्तम्यर्थः । साघनाव्यापकत्व विशेषणतया सदित्येकं पदमध्याहार्यम् । सप्तम्यर्थसत्तायाः सामानाधिकरण्यसम्बन्धेन सदित्यत्र सत्तायामन्वयः । सामानाधिकरण्यं चोभयोर्निरूपकतासम्बन्धेन । तथा च साध्यव्यापकत्वविशिष्टं साधनाव्यापकत्वमुपाघित्वम् । साध्य. समानाधिकरणेति । साध्यपदं साध्याधिकरणलाक्षणिकम् । समानपदमभिन्नार्थकम् । समानमधिकरणं यस्य । तथा चाधिकरणपदं साध्याधिकरणवृत्तौ लाक्षणिकम् । पूर्वपदं तात्पर्यग्राहकम् । तादृशो योऽत्यन्ताभावस्तदप्रतियोगित्वं तं प्रति प्रतियोगित्वाभावः । साधनाव्यापकत्वमित्यताव्यापकत्वं तादृशात्यन्ताभावप्रतियोगित्वाभावाभावः । तथा निवेशे A
तर्कसङ्ग्रहः ।
योगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् यथा, पर्वतो धूमवान् वरियताईन्धनसंयोगः उपाधिः । यत्न धूमः तत्राद्न्धनसंयोग इति साध्यव्यापकता । यत्व वह्निः तवार्द्रेन्धनसंयोग इति नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावात् । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादान्धनसंयोगः उपाधिः । सोपाधिकत्वात् वह्निमत्वं व्याप्य त्वासिद्धम् ॥
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः सः बाधितः । यथा, वह्निः अनुष्णः पदार्थत्वात् जलवत् । अत्रानुष्णत्वं साध्यं, तद्भावः उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बोध्यम् ॥
व्याख्यातमनुमानम् ॥
गौरवादाह साधनेति । यत्र यावत्स्वधिकरणेषु । इति नास्ति एतदानुपूर्वीकशब्दगम्यं वह्निव्यापकत्वं नास्ति । कस्मादित्यत्राहायोगोलक इति । वह्निमतीत्यादिः । उपाधिः उपाधिशब्दवाच्यः । यस्येति । साध्य एतदन्वयः । प्रमाणान्तरेण प्रत्यक्षादिना निश्चितः पक्ष इति शेषः । यदीयसाध्यप्रतियोगिकाभावः प्रत्यक्षादिजन्यपक्षविशेष्यक निश्चय विषय इत्यथः । प्रमाणान्तरेण निश्चित इतीदमविवक्षितम् । साध्याभाववत्पक्षको बाधित इत्येतावदेव विवक्षितम् । स्पार्शनप्रत्यक्षेणेति । नेदं प्रमाणान्तरपदस मानार्थकम् तस्य प्रमितिकरणत्वेगिन्द्रियादिपरत्वात् । गृह्यते विषयीक्रियते । इति योध्यमिति । उष्णत्वं स्पार्शनप्रत्यक्षप्रयोज्यविषयताश्रयत्वनिरूपितप्रकारिताश्रयवोवविषय इत्यर्थः । एवं हेत्वाभास - निरूपणेन परामर्शस्य निरूप्यानरूपकभावापन्नविषयताशालित्वेन कारणत्वमिति कारणतावच्छेदक स्वरूपं शोधितम् । निगमयति व्याख्यातमिति । प्रत्यक्षानुमान त्येतद्धटकमनुमानं स्वरूपकारणादिनिरूपणेन वृत्तविशद निरूणपविषय इत्यर्थः ।
इत्यनुमानपरिच्छेदः ।
सुखप्रवशिनोसमेतः ।
[[८१]]
उपमितिकरणमुपमानम् । सञ्ज्ञासंशिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणं व्यापारः । तथा हि । कश्चित् गवयपदार्थमजानन् कुतश्चिदारण्यकम्पुरुषात् गोलदृशो गवयः इति श्रुत्वा वनं गतो वाक्यार्थी स्मरन् गोसदृशपिण्डं पश्यति ।
अथ प्रत्यक्षानुमानोपमानोपमानात वाक्ये उपमानपदग्राह्यं दर्शयितुमुपमानं निरूपयति उपमितीति । उपमानमुपमानपदवाच्यम् । उपमितिः कत्यत्राह सञ्ज्ञेति । अनेनोपमितिस्तुल्यत्वज्ञानं न प्रकृत विवक्षितमिति सूचितम् । संशा वाचकशब्दः । संशि वाच्यार्थः । सञ्ज्ञासज्ञिनोः सम्बन्धी वाच्यवाचकभावरूपस्तस्य ज्ञानम् । तथा च पदवाच्यत्वप्रकारकज्ञानविशेष उपमितिशब्दवाच्य इति भावः । तत्करणम् तस्याः करणम् । सादृश्यज्ञानमिति । केचित्सादृश्यविशिष्टपिण्डदर्शनं करणमित्याहुः । अन्येऽतिदेशबाक्यार्थशाब्दवाघः करणमिति । अपरेऽतिदेशवाक्यार्थस्मरणमव्यवहित पूर्ववर्तित्वात्करणमिति । सर्वसाधारण्याय शामिति । उपपादयति तथा होति । तथा करणत्वरूपप्रकारविशिष्टम् । हिशब्दार्थो हेतुत्वम् । तथा च सादृश्यज्ञानं वक्ष्यमाणार्थनिष्ठहेतुता निरूपकतत्करणत्वरूपप्रकारशालोति बाघः । कश्चित् ग्रामीणः । कुतश्चित् कस्मादपि । आरण्यकपुरुषविशेषणमेतत् । चिदादिशब्द समाभिव्याहृतः किंशब्दो बुद्धिस्थव्यक्तिवचनः । चिदादिपदं तात्पर्यग्राहकम् । श्रुत्वति । गोसदृशो गवयशब्दवाच्य इति तदर्थ बुद्धवति शेषः । क्त्वाप्रत्ययस्योत्तरकालिकत्वमर्थः । तथा च ध्वंसः क्त्वाप्रत्ययार्थः श्रवणस्य स्वप्रतियोगिकत्वसम्बन्धेन तत्रान्वयः । ध्वंसस्य कालिकसम्बन्धेन बोघेऽन्वय इत्युक्तं भवति । एवं क्त्वाल्यप्प्रयोगे सर्वत्रानुसन्धेयम् । अत्र ‘गोसदृशं पिण्डं पश्यन् वाक्यार्थं स्मरतीति ऋजुः पाठः । अलाजानन् श्रुत्वेति निर्देशादज्ञानश्रवणयोः 11 T A
तर्कसङ्ग्रहः ।
तदनन्तरं अयं गवयपदवाच्यः इत्युपमितिरुत्पद्यते । व्याख्यातमुपमानम् ।
· समानकालिकत्वं, श्रुत्वा वनं गत इति क्त्वाप्रत्ययेन श्रवणोत्तरगमनम्, वनं गतः पश्यन्निति क्ताप्रत्ययेन पिण्डदर्शने वनगमनानन्तर्य, पश्यन् स्मरतीति शत्रा दर्शनस्मरणयोः समानकालिकत्वं च दर्शयति । तथा चायं भावः – पिण्डदर्शनबलाद्यदि वाक्यार्थस्मरणम् तदा तदपि कारणम् । यदि गवयबुभुत्सया वनं प्रति गच्छतो दर्शनात् प्रागेव वाक्यार्थस्मरणं तद - नन्तरक्षणे च पिण्डदर्शनं भवति, तदा तयोर्युगपदेकास्मिन् क्षणे वर्तमानत्वात् कारणत्वमक्षतमिति । तदनन्तररामिति पिण्डदर्शनवाक्यार्थस्मरणानन्तरक्षण इत्यर्थः । अयमिति न पुरोवर्तिव्यक्तिमालपरम्, तथा सति गवयव्यक्तयन्तरेषु गवयपदवाच्यत्वग्रहासम्भवप्रसङ्गात् । अतः पुरोदृष्टं यद्द्भवयत्वं तद्वच्छिन्नसामान्यपरमिति ध्येयम् ।
इत्युपमानपरिच्छेदः ।
[[८२]]
सुखप्रवेशिनोसमेतः ।
आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं तु पदसमूहः । शक्तं पदम् । अस्मात् पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः ।
प्रत्यक्षानुमानोपमानशब्देत्यत्र शब्दपदेन न ध्वन्यात्मकशब्दः, न केवलवर्णात्मकः, न केवलपदरूपोऽपि शब्दो ग्राह्यः तेषां शाब्दबोधाजनक - त्वात् । नाप्यातानाप्तसाधारणं वाक्यमानम्, अनाप्तवाक्येऽपि शाब्दप्रमाजनकत्वाभावात् प्रमाकरणस्यैव विभजनादित्यभिप्रेत्याहातवाक्यामिति । आप्तस्य वाक्यम् । षष्ठ्यर्थ उच्चरितत्वरूपः सम्बन्धः । नायमाप्तशब्दः सामान्यतः सखिमात्रबचनः, नापि यथार्थद्रष्टमालवचनः तदुक्तवाक्यस्यामि विप्रलम्भनदशायाम विश्वसनीयत्वादित्याशयेनाह आप्तस्त्विति । यथाति । यथाभूतोर्थो यथार्थोऽचा धितोऽर्थो मिथः सम्बन्ध्यर्थः, तस्य वक्ता । षष्ठ्यर्थो विषयित्वं ज्ञानान्वयि । वक्ता ज्ञानानुकूलशब्द प्रयोगाश्रयः । वाक्यं नाम नावश्यं तिङन्तसहितसुबन्तमेव, किं वह सुबन्तसमुदायमालमपि । नीलो घट इत्येतावतोऽपि वाक्यत्वादित्यभिप्रेत्याह वाक्यन्त्विति । यद्यप्यना काङ्क्षिता सन्निहितानन्वितार्थक पदसमुदायो वाक्यं न भवति । अतः पदसमूहत्वमात्नं न लक्षणम् । अथाप्याप्त सम्बन्धोक्त्यैव तादृशपदसमूहवारणात्प्रकृते वाक्यपदस्यैतावानर्थः पर्याप्त इत्याशयः । अत्र पदशब्देन न ‘सुतिङन्तं पद’ मिति परिभाषितस्य ग्रहणम् । किं तु पद्यते गम्यतेऽनेनार्थ इति पदमित्याशयेनाह शक्तमिति । का पुनरियं शक्तिः अवाह अस्मादिति । पदादिति पञ्चम्यर्थो जन्यत्वं बोवेऽन्वेति । अयमर्थ इदम्पद - जन्यबोधविषय इत्यर्थः । इति शब्दार्थो विषयित्वम् । अर्थपदार्थस्य विषयतायामन्वयः । तस्याः सङ्केते इच्छायामन्वयः । इदम्पदजन्यबोधविषयत्वविशिष्टेदमर्थनिरूपित विषयितावदीश्वरीयेच्छा शक्तिपदवाच्येति । घटपदाद्धटत्वरूपजातिविशिष्टोऽय बोद्धव्यः पटपदात् पढत्वरूपजात्यवच्छिG
[[८३]]
[[८४]]
तर्कसङ्ग्रहः ।
आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः ।
। B नम्बोद्धव्यमित्येवं तत्तत्पदबोद्धव्यत्वेन तत्तदर्थविषयिणीच्छैव तत्तत्पदस्य तत्तदर्थे शक्तिरित्यर्थः । घटपदस्य घण्टे शक्तिरित्यत्र शक्तिपदं बोद्धव्यत्वप्रकारकेच्छार्थकम् । घटपदस्येति षष्ठ्या जन्यत्वरूप सम्बन्धोऽर्थः तस्य बोघेऽन्वयः । घट इत्यत्र सप्तम्यर्थो विशेष्यत्वमिच्छान्वयि । तथा चाऽऽसृष्टे रुपयुज्यमानेष्वर्येषु प्रयुज्यमानाश्शब्दा नावचीन पुरुषसङ्केतवशोत्पन्ना भवितुमर्हन्तीतीश्वरसङ्केत एव तस्य तस्य शब्दस्य तत्तदर्थबोधकत्वे निमित्तम् । अर्वाचानेच्छाग्रहण इच्छाप्रकारस्य नियन्त्रणासम्भवेन यस्मात्कस्मादपि पदाद्यं कमप्यर्थं लोको बोधयितुमिच्छेत् । योगिनो महर्षयोऽपि मिथः समबलाः खाच्छ्न्धेन शब्दान् प्रयुञ्जानाः प्रवन्धान् प्रणीतवन्तः स्युः, येष्वस्माकमै दमर्थ्य मशक्यनिवारणम् । किञ्च वेदशब्देभ्य एव विशिष्टस्याप्यर्थस्य सृष्टतया वेदस्य चेश्वरकृततया तत्ल तत्रार्थे प्रयुज्यमानास्त एव वैदिकशब्दा ईश्वरसङ्केतिता इतोश्वरसङ्केत एव शक्तिर्वक्तुमुचित्रेत्यभिप्रेत्येश्वरेत्युक्तम् । अत्र यद्यप्याप्तवाक्यमेव प्रमाणम् । अथाप्याप्तसम्बन्धित्वेन ज्ञायमानतया न शाब्दबोधकरणलं शब्दस्य । अपि तु केवलं तत्तच्छब्दरूपेणैव 1 ननु कथं तर्हि ‘गौरश्चः’ ‘अमिना सिञ्चे’ दित्यादिश्रवणे प्रायशो बोधो न जायत इति चेन्न, शब्दस्य केवलं कारणत्वाभावात् आकाङ्क्षादीनामपि सहकारित्वादित्याशयान आकाङ्क्षादिसहकारि दर्शयति आकाङ्क्षति । हेतुः प्रयोजको जनकज्ञानविषय इत्यर्थः । आकाङ्क्षाज्ञानं योग्यताज्ञानं सन्निधिज्ञानं च शाब्दबोधे सहकारिकारणमित्युक्तं भवति । शाब्दप्रमास्थले वस्तुत आकाङ्क्षादेः सद्भावेऽपि तद्रमस्थले तदभावात् तत्राकाङ्क्षादिज्ञानस्यैव भ्रमात्मकस्य कारणत्वमावश्यकमित्य विशेषात् सर्वत्र तद्ज्ञानमेव कारणमिति । अवाकाङ्क्षा नाम नेच्छा, पदस्य पदान्त काङ्क्षैत्यत्रेच्छाया दुर्वचत्वात्, अभ
[[८५]]
सुखप्रवेशिनीसमेतः ।
पदस्य पदान्तरव्यतिरेकमयुक्तान्वयाननुभावकत्वं आकाङ्क्षा। अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं सनिधिः ।
2 चेतनपद इच्छाया अभावात् । अतोऽन्यैवैयमित्याह पद्स्येति । षष्ठ्यर्थ आधेयत्व मननुभावकत्वान्वयि । अन्यत् पदं पदान्तरम् । प्रकृतपदभिन्नपदमित्यर्थः । व्यतिरेकोऽमावः । प्रयुक्तं प्रयोज्यम् अधीनमिति । प्रयुक्तपदमिह समासे प्रकृतपदमिन्नपद प्रतियोगिकाभावप्रयोज्यरूपार्थलाक्षणिकम् । पूर्व तात्पर्यग्राहकम् । अस्याननुभावकत्वेऽन्वयः । अन्वयस्यानुभावकत्वं पदार्थस्य पदार्थान्तरेणान्वयविषयको योऽनुभवः शाब्दचोध इति यावत् तज्जनकत्वम् ; तदभावोऽन्वयाननुभावकत्वम् । पदं क पदान्तराभावे शाब्दबोधं न जनयति । यथा घटमानयेत्यत्राम्पदाभावे घटपदं बोघं न जनयति । आकाङ्क्षा आकाङ्क्षापद्रवाच्यम् । अत्रेदमवधेयम् –घटः कर्मत्वमानयनं कृतरित्युक्तौ बोषो न भवतेि । घटमानयेत्युक्तौ भवति । तत् कस्मात् ? पूर्वत्राकाङ्क्षाया अभावात् परत भावादिवि वक्तव्यम् । तन्न शक्यते । पूर्वलाम्पदा श्रवणादम्पदाभावाधीनमननुभावकत्वं घटपदस्य वर्तत इति तत्रैवाकाङ्क्षा वर्तते । परनाम्पदसद्भावाद्वेोघस्य जायमानतयाऽननुभावकत्वरूपाकाङ्क्षा नास्तीति । तस्मादुक्तस्याकाङ्क्षात्वासम्भवादेवं तात्पर्यं वर्णनीयम् । यत्पदस्य यत्पदाभावेऽन्वयाननु - भावकत्वं भवेत् तत्पदस्य तत्पदमिलितत्वमाकाङ्क्षा । यथा घटपदस्याम्पदविशिष्टत्वम् । इदं च घटमानवेत्यत्रास्ति, घटः कर्मत्वमित्यत्र नास्तीति न दोष इति । अर्थात । अर्थस्याबाधोऽसम्बन्धाभावः अर्थसम्बन्ध इति यावत् । पदार्थस्य पदार्थान्तरसम्बन्धो योग्यता । अयमर्थनिष्ठो धर्मः । प्रथमतृतीयौ तु शब्द निष्ठाविति विवेकः । पदानामिति । इदमुच्चारणान्वयि । अविलम्बेन अव्यवहितत्वविशिष्टमित्यर्थः । पदस्य पदान्तराव्यवधानं सन्नि
तर्कसङ्ग्रहः ।
आकाङ्क्षादिरहितं वाक्यं न प्रमाणम् । यथा, गौरश्वः पुरुषो इस्तीति वाक्यं न प्रमाणम्, आकाङ्क्षाविरहात् । अग्निना सिञ्चतीति वाक्यं न प्रमाणम्, योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चरितानि
धिरिति यावत् । अव्यवधानं च पूर्व प्रयोगेण वा योगेण वोभयथाऽपि ग्राह्यम् । आकाङ्क्षादीनां शाब्दबोघहेतुत्वं तत्तदभावे शाब्दबोधाभावप्रदर्शनेन व्यतिरेकमुखेन साधयति आकाङ्क्षेति । यथेति उदाहियत इत्यर्थः । अकाङ्क्षाविरहादिति । पञ्चम्यर्थः प्रयोज्यत्वं प्रमाणप्रतियोगिकभेदरूपे नञर्थेऽन्वेति । ननु गौरश्व इत्यत्र गवादि पदार्थस्य किमनुच्चारिततिष्ठत्यादिपदार्थान्वयेऽप्रमाणत्वमुच्यते उताश्वादिपदार्थान्वये । नाद्यः, तिष्ठत्यादिपदसन्निध्यभावेन सन्निधिरूपकारणाभावादेवाप्रमाणत्व निर्वाहात् । नान्त्यः, गवा मेदस्याश्वे बाधितत्वेन योग्यतारूपकारणाभावादेव निर्वाहात् । अत आकाङ्क्षा किमर्थमतिरिक्तं कारणमिति चेन्न ; नोदाहरणमादर्तव्यमिति न्यायेन ‘घटः कर्मत्वमानयनं कृति’ रित्युदाहरणान्तरस्यैवाभिप्रेतत्वेनादोषात् । अल हि, घटमानयेति वाक्ये यः प्रातिपदिकार्थो घटः यो द्वितीयार्थः कमैत्वं यो धात्वर्थ आनयनं य आख्यातार्थः कृतिस्ते सर्वे उपस्थाप्यन्ते । सन्निधिर्योग्यता च स्तः । तथाऽपि न कथं बोध इति चेदाकाङ्क्षा नास्तीत्येवोत्तरम् । घटपदस्यान्वयाननुभावकत्वं न कर्मत्व पदव्यतिरेकात्, किन्तु अम्पदव्यतिरेकादिति । सन्निधौ पदनियमः पौर्वीपर्यनियमो वा नास्ति । यथा गिरिरभिमान्, पर्वतोऽग्निमान्, अग्निमान् गिरिरिति । आकाङ्क्षायां तु नियमोऽस्ति । यथा घटपदोत्तरमम्पदमेव प्रयोक्तव्यम्, न कर्मत्वफ्दम् । तथा तत्पदमुत्तस्त्रैव प्रयोक्तव्यम्, न पूर्ववेति । असहोच्चरि तानि असह परस्परानधिकरणकाले । अयमेव कालो व्यक्तं दर्शितः प्रहरे प्रहर इति । यामे याम इत्यर्थः । अत्र व्यापकत्वगमकवोप्सा
नेष्टा ।
सुखप्रवेशिनीसमेतः ।
गामानयेत्यादिपदानि न प्रमाणम्, सान्निध्याभावात् । वाक्यं द्विवि धम्, वैदिक लौकिक चेति । वैदिकमीश्वरोक्तत्वात् सर्वमपि प्रमा णम् । लौकिकं तु आप्तवाक्यं प्रमाणम् । अन्यदप्रमाणम् । वाक्याथञ्ज्ञानं शाब्दज्ञानम्। तत्करणं शब्दः । इति शब्दपरिच्छेदः ।
किं त्वकैकप्रहरवृत्तित्वमककस्य पदस्य विवक्षितम् । तथा चैकप्रहरवृत्तितद्भिन्नप्रहरवृत्तिविभिन्न कालिकाञ्चारणविषयीभुतानीत्यर्थः । इत्यादीत्यादिपदेन सवत्सामिति पदग्रहणम् । नन्वाप्तवाक्यस्यैव प्रमाणत्वे वेदस्य कथं प्रामाण्यम् । न खल्वसावाप्सोक्तः, अपौरुषेयत्वादिति शङ्कापरिनिहीघेया, वेदस्य कार्येन प्रामाण्यानेहरूपयिषया, शाब्दबोषजनकत्वं वदस्यैवात मतान्तरमनिष्टमित्यवजिगमयिषया च वाक्यं विभजते वाक्यमिति । वैदिकामात वेदघटकामेत्यर्थः । लौकिक लोकखतन्त्रोच्चरितम् । ईश्वरोक्तत्वादिति । तस्य सर्वज्ञस्य परमकारुणिकस्य पुरुषोत्तमस्याप्तत्वादिति भावः । नन्वकैकजन्यबोधोऽपि शब्दजन्यत्वाच्छाब्दबोध एव । तत् कथं वाक्यमेव प्रमाणामति शङ्कां परिहरति वाक्यति । अयं भावः - प्रथमतस्तावदस्य पदस्यायमर्थ इति व्यवहारादिना शक्त्यवघारणमावश्यकम् । एवं पदपदार्थयावीच्यवाचकभावसम्बन्वज्ञान सति कदाचित्पदज्ञाने जाते एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायात् पदार्थस्मरणम् । इदं च पदार्थस्मरणं स्मृतिरूपत्वान्नानुभवः, नापि तदन्तर्गतः शाब्दबोधः । यत्पुन - स्वमनेकपदार्थस्मरणानन्तरं तेषां परस्परसम्बन्धावगाहि ज्ञानम्, स एव शाब्दबोधः । तत्र च पदसमुदाय एव करणमिति । शब्द इति इदमेवासवाक्यं शाब्दबोधेत्यत्र शब्दपदग्राह्यमिति भावः । एवं प्रत्यक्षानग मानशब्दपदार्था निरूपिताः । एवं च ‘वत्करणमाप चतुर्विध मात वाक्यार्थज्ञानं निष्पादितम् ।
इ श
।
•
तकसङ्ग्रहः ।
एवं यथार्थानुभवो निरूपितः । अयथार्थानुभवः त्रिविधः संशयविपर्ययतकं भेदात् । एकस्मिन् धर्मिण विरुद्धनानाधर्मप्रकारकञ्चानं संशयः । यथा, स्थाणुर्वा पुरुषो वेति ।
एवमादौ विभक्तानां द्रव्यादिविशेषाणां क्रमेण निरूपणमारभ्य द्रव्यनिरूपण समाप्य गुणनिरूपणावसरे बुद्धि विभज्य तत्र यथार्थानुभवनिरूपणावसर तच्चतुर्विध्यस्थापनाय तत्करणचातुावध्यप्रपञ्च विघायावसरप्राप्तं परिशिष्टबुद्ध्यादिनिरूपणमारप्स्यमानो यथाथान्नुभवनिरूपण निगमयति एवमिति । एवम् उक्तप्रकारेण । निरूपितः निरूपणं ज्ञानानुकूलव्यापारः । यथार्थानुभव उक्तप्रकारप्रकारकज्ञानानुकूलव्यापारजन्यफलाश्रयइति बोधः । विपर्ययेति । तकोन्यविपर्ययेत्यर्थः ।
संशयं लक्षयति एकस्मिन्निति । धार्मेणीति विशेष्यत्वं सप्तम्यथां ज्ञानान्वयि । विरुद्धा नाना धर्मा विरुद्धौ नानाघम वा तद्वैशिष्ट्य तत्सम्बन्धस्तस्य ज्ञानम् । षष्ठ्यर्थः संसर्गित्वम् । एकघर्मिनिरूपितविशष्यिताश्रय-विरोधविशिष्टानकधर्मप्रतियागिक संसगनिरूपित संसगिताश्रयज्ञान संशयपदवाच्यामति बोघः । एक धर्मिविशेष्यकविरोधविशिष्टानकधर्मप्रकारकज्ञानत्वं संशयत्वम् । स्थाणुर्वेत्यादि । अयमिति पूरणीयम् । इतीति । ज्ञानमिति शेषः । इतिशब्दार्थो विषयित्वरूपो धर्मः । वाशब्दः समभिव्याहृतपदाथावरीघार्थकः । इदमर्थस्य, स्थाणोः पुरुषस्य च विषयितारूपातशब्दार्थेऽन्वयः । तथा चाभेदसम्बन्धन पुरुषविरोधाश्रयस्थाणुनिरूपितविषयित्वं यत् यच्चाभेदसम्बन्धन स्थाणुविराघाश्रय पुरुषानरूपितविषयित्वम् यच्चेदमर्थनिरूपितविषयित्वं तदाश्रयसंशय इत्यर्थः । अथवेतिशब्द आनुपूव्यर्थकः, तस्य संशय खावच्छिन्नशब्दज्ञानप्रयाज्यत्वसम्बन्धेनान्वयः । इदमर्थविशेष्यक-स्थाणुत्वविरुद्ध पुरुषत्व, पुरुषत्वविरुद्धस्थाणु,
[[८८]]
सुखप्रवाशनीसमतः ।
[[८९]]
मिथ्याज्ञानं विपर्ययः । यथा, शुक्तौ इन्दं रजते इति ।
त्वप्रकारकसंशय इति यावत् । अयं भावद्वयकोटिकसंशयः । एवं भावाभावकोटिकसशयोऽपि भवति, यथा स्थाणुर्न वति । पर्वतो वाहमान् हृदश्च वह्नयभाववानिति ज्ञानेऽतिव्याप्तिरित्यकधर्मिविशेष्यकत्वनिवेशः । रामः श्यामोऽभिरामश्चति निश्चयऽतिप्रसङ्ग इति विरोधविशिष्टति । पर्वतो बाह्रैमानिति निश्चयवारणाय नानोते । घटो नीलो वा रक्तो वा भवत्वितीच्छावारणाय ज्ञानति । विपर्ययं लक्षयति मिथ्येति । विपर्ययः तकन्यो विपर्ययशब्दवाच्यः मिथ्याशानं तर्कान्यामथ्याज्ञानमित्यथः । मिथ्यात्वं वस्तुनि वचने ज्ञाने च भवति । तत्र वस्तुनि मिथ्यात्वं स्वाभावाधिकरण भासमानत्वम् ; मिथ्या वचनमित्यादौ वचन मिथ्यात्वं तदद्भावनति तत्प्रकारकज्ञानानुकूलशब्दत्वम् ; ज्ञान मिथ्यात्वं च तदभाववति तत्प्रकारकत्वम् । अतस्तदभाववति तत्प्रकारकत्वं मिथ्यापदार्थः । इदं तर्केप्यस्तीति तर्कान्यत्वनिवेशः । यद्यपि तर्कस्य विपर्ययत्वामेष्टमेव । अथाप्यत्र पार्थक्यन तद्विभजनात् प्रकृतविपर्ययपदेनैव विवक्षितमिति । तस्य पृथग्विभज्य दर्शनं कुत इति चतु विपरीतज्ञानत्वेऽपि तस्य प्रमाणेनार्थनिर्णये सम्पादनीये कचिदुपकारकत्वमस्तीति विशेषाध्यवसायन तत्राऽऽदरातिशयादिति । यद्यपीदं लक्षणं संशयेऽप्यस्ति, स्थाणौ अयं स्थाणुवी पुरुषो वेति संशयस्य पुरुषत्वामात्रवति पुरुषत्वप्रकारकत्वात् तर्कान्यत्वाच्च अथापि संशयान्यत्वस्यापि निवेशान्त्र दोषः । तथा च तदभाववति तद्विरुद्धधर्मीप्रकारकतत्प्रकारक- तर्कान्य-ज्ञानत्वं प्रकृते विपर्ययत्वम् । एवमेव पूर्व यथार्थानुभवलक्षणेऽपि संशयवारणाय तद्विरुद्धधर्माप्रकारकत्वं विशेषणं देयमिति ध्येयम् । उदाहरति यथेति । इतोत्यनन्तरं विपर्यय इति शेषः । तत्र शुक्ताविति सप्तम्यर्थविशेष्यिताया अन्वयः । शुक्तिविशेष्यकमपि ज्ञानं न शुक्ति12 T ·
तर्कसङ्ग्रहः ।
व्याप्यारोपेण व्यापकारोपः तर्कः । यथा, यदि वह्निः न स्यात् तर्हि धूमोऽपि न स्यादिति ।
♦ त्वन शुक्ति गृह्णाति, तथा सति रजताभेदग्रहणासम्भवात् । अपि त्विदन्त्वेन पुरोवर्तित्वेन तां गृह्णातीतीदमित्यनेन दर्शितम् । इदमित्यनेन वास्तवरजतं न ग्राह्यम् । तथा सति विपर्ययत्वाभावप्रसङ्गादिति ज्ञापनाय शुक्कावित्युक्तम् । तर्फे लक्षयति व्याप्येति । व्याप्यस्यारोपस्तेन । आरोप आहार्य’ज्ञानम् । आहार्यज्ञानं नाम बाघज्ञाने सत्येवेच्छयोत्पादितं विपरीतज्ञानम् । यथा मुखे चन्द्रत्वारोपोऽचन्द्रत्वज्ञान कालिकेच्छाजनितः । आरोपेणेति तृतीयार्थो जन्यत्वं व्यापकारोपेऽन्वेति । वस्तुतो व्याप्यं यत् तत्प्रकारकाहार्यज्ञानजन्यत्व सति वस्तुतो यध्यापकं तद्विषयकाहार्यज्ञानत्वं तर्कत्वम् । यदि बहिर्न स्यात्तर्हि धूमोऽपि न स्यादिति बयभावारोपजन्ये घूमाभाचारोपे लक्षणमस्ति । वह्नयभावस्य व्याप्यत्वाद्धमाभावस्य व्यापकत्वात्, यो बयभाववान् स धूमाभाववानिति व्याप्तः । व्यापकविषयकाहार्यज्ञानत्वमात्रस्य लक्षणत्वे मुखे चन्द्रत्वारोपाद्यात्मके सर्वताहायज्ञानेऽतिव्याप्तिः । चन्द्रत्वादेरीप यत्किञ्चिद्व्यापकत्वात्तदारोपस्यापि व्यापकारोपत्वात् । अतो व्याप्यारोपजन्यत्वनिवेशः । चन्द्रत्वारोपस्तु केवलेच्छाजनितः, न पुनरारोपान्तरजन्य इति । व्याप्यविषयकाहार्यज्ञानजन्येत्यताहार्यत्यनिवेश्य व्याप्य - विषयकज्ञानजन्येत्येतावदुक्तौ स्थाणौ कदाचिन्नायं पुरुष इति बाधज्ञाने सत्येव यदा तन्निष्ठशाखादौ करादिभ्रमो भवति, करादिश्च पुरुषत्वव्याप्य इति, तादृशव्याप्यत्रमादयं पुरुष इत्याहार्यज्ञानं जायते, तत्रातिव्याप्तिः । तन्निवेशे च करादिभ्रमस्याहार्यत्वाभावान्न दोषः ।व्यापकारोप इत्यस्य व्यापक विषयकाहार्यज्ञानमित्यर्थकतया तलाहार्यत्वानिवेशे शङ्खे पीतत्वव्याप्याभावरूपबाघज्ञाने सत्येव पीतत्वव्याप्यवान् शङ्ख इत्याहार्यज्ञानम्, तज्जन्य
सुखप्रवेशिनीसमेतः ।
4 स्मृतिरपि द्विविधा, यथार्थाऽयथार्था चेति । प्रमाजन्या यथा३शङ्खः पीत इति भ्रमस्तनातिव्याप्तिः । इदं च नाहार्यज्ञानम्, तदा पीतत्वाभाववान् शङ्ख इति बाघकज्ञानाभावात् । अतस्तन्निवेशः । उदाहरति यथेति । यदि वह्निने स्यादिति । अत्रेति शेषः । निरूपितत्वं वलर्थो धात्वर्थे सत्तायामन्वेति । तस्य नञार्थाभावे स्वप्रतियोगिकत्वसम्बन्धेनान्वयः । वह्नेराधेयतासम्म्बन्धेन नञर्थेऽन्वयः । यदिशब्दार्थः प्रयोजकत्वम् । तत्राभावस्याघेयतासम्बन्धेनान्वयः । स्यादिति लिङ्प्रयोगस्तु ‘हेतुहेतुम तोर्लिङ्’ इत्यनुशासनसिद्धो यदिपदस्य प्रयोजकत्वरूपार्थतात्तर्यग्राहकः । प्रयोजकत्वस्य घूमोऽपि न स्यादित्यत्र नञर्थाभावे निरूपकत्वसम्बन्धेनान्वयः । यदिशब्दार्थः प्रयोज्यत्वमेव वा । तीत्यस्यापि पूर्वोक्तार्थप्रयोज्यत्वमेवार्थः । तच्च स्पष्ट - त्वाय पुनरुक्तम् । अत एव तहतिपदं विनापि वाक्यप्रयोगः । यदि - शब्दस्य तात्पर्यग्राहकत्वमङ्गीकृत्य प्रथमस्यात्पदस्थाख्यातस्य प्रयोज्यत्वमर्थस्वीक्रियतामिति चेत् काममस्तु । परं तु क्रियापदं स्यात्प्रभृति विनापीदृशः प्रयोगो भवतीति तथोक्तम् । तथा चेदमर्थपर्वतादिनिरूपितसत्ताप्रतियोगिकवह्नयनुयोगिकाभावप्रयोज्य इदमर्थनिरूपितसत्ताप्रतियोगिकधूमानुयोगिकाभाव इति बोधः । इतिशब्दार्थो विषयित्वम् । अभावस्य तत्रान्वयः । आरोप इत्यध्याहारः । तत्रैतदन्वयः । अत्र ‘यदि बहिर्न स्या’ दित्यन्तं व्याप्यारोपनन्यत्वरूपदलोपपादनार्थम् । प्रकृततर्कस्य लक्ष्यभूतस्याकारस्तु घूमोऽपि न स्यादित्येतावानेव । तथा च ‘यथा यदि वर्हेिनस्यादित्यारोपजन्यो धूमोऽपि न स्यादित्यारोप’ इति लेखनमेव चिकीर्षितमिति ध्येयम् । पूर्वमनुभवलक्षणस्य स्मृतिघटितत्वात् स्मृतिरनुभवश्चति विभज्य स्मृतिलक्षणं प्रथमत उक्तम् । अथ स्मृतिनिष्ठयथार्थत्वा यथार्थत्वयोरनुभवनिष्ठयाथार्थ्यायाथार्थ्यनिबन्घनत्वाद्यथार्थायथार्थानुभवौ निरूप्य स्मृतावपि तं विभागं दर्शयति प्रमेत्यादिना । यथार्थस्मृत्यादिलक्षणं तु –
[[९२]]
तर्कसङ्ग्रहः ।
र्था । अप्रमाजन्याऽयथार्था ॥
सर्वेषामनुकूलतया वेदनीयं सुखम् । सर्वेषां प्रतिकूलतया वेदनीयं दुःखम् । इच्छा काम, क्रोधो द्वेषः, कृतिः प्रयत्नः । विहितकर्मजन्यो धर्मः ।
तद्वति तत्प्रकारकस्मृतित्वादिकमेवेति मन्तव्यम् ।
सर्वेषामिति षष्ठ्यर्थः समवेतत्वं वेदनेऽन्वेति । अनुकूलत्वमिच्छाविषयत्वम् । तथा चेच्छाविषयत्वप्रकारकसर्वसमवेतवेदन विषयस्सुखम् । पशुपुत्रादिवारणाय सर्वेषामिति । सुखसाधन पशुपुत्रादि चानुकूलतया वेदनीयं न सर्वेषाम् । केषाचित्तत्र द्वेषदर्शनात् । सर्वसमवेतवेदनविषयत्वं दुःखादावप्यस्तोति अनुकूलतयेति । वेदनीयमित्युक्तिस्तु सर्वेषामनुकूलत्वमनुभवसिद्ध मिति प्रदर्शनार्थम् । न तु तदर्थस्य लक्षणे प्रवेशः । तथा च सर्वसमवेतेच्छाविषयत्वं लक्षणम् । अथ चेदं स्वरूपकथनम् । सुखत्वजातिरेव लक्षणमिति । प्रतिकूलतयेति । सर्वेषामित्यनुषङ्गः । अहेकण्टका दौ केषाञ्चिरप्रतिकूलतया वेदनीयत्वमस्ति । सर्वसमवेतद्वेषविषयत्वं लक्षणमित्यादि पूर्ववत् । इच्छादीनां तत्तज्जातिमत्त्वमेवानुभवसिद्धं लक्षणमिति सूचयितुं पर्यायपदेन तानुत्कीर्तयति इच्छेत्यादिना । धर्मः पुण्यम् ; अधर्मः पापम् ; तयोर्लक्षणमाह विहितेत्यादिना । यागादयः फलसाधनत्वेन शास्त्रे चोदिताः । फलस्य बहुकालानन्तरभावित्वाद्यागादीनां चानुष्ठानसमय एव विनाशित्वान्न तेषां साक्षात्फलजनकत्वसम्भव इति विधिबलान्मध्ये व्यापारः कल्प्यत इति स एव धर्मः । एवं निषेधस्थले निषिध्यमानस्य कलञ्जभक्षणादेः कालान्तरभाविदुःखजनकत्वस्य साक्षादसम्भवान्निषेधवलान्मध्ये व्यापारः कश्चिदनुमीयत इति स एवाधर्मः । न च
[[९३]]
सुखप्रवेशिनीसमेतः ।
निषिद्धकर्मजन्योऽधर्मः बुद्धयादयोऽष्टात्ममात्रवृत्तिगुणाः । बुद्धीच्छाप्रयत्ना नित्या अ नित्याश्च । नित्या ईश्वरस्य, अनित्या जीवस्य । संस्कारस्त्रिविधः,
(3 १ वेदावाहित कर्मजन्यत्वमेव धर्मलक्षणं वक्तव्यम्, अन्यथा बुद्धादिविहितकर्मजन्येऽतिव्याप्तिरिति वाच्यम्; बुद्धादिभिः कर्मविधानेऽपि तस्य निष्फल - त्वेन वज्जन्यस्यैवाप्रसिद्धयाऽतिव्याप्त्यभावेन वेदत्यस्यानावश्यकत्वात् । अत्र कर्मेत्यविवक्षितम् विधिविषयजन्यत्वस्यैव पर्याप्तत्वात् । कर्मभिन्नेन द्रव्यादिना ‘दघ्नेन्द्रिय कामस्य जुहुया ‘दित्यादी धर्मोत्पादनस्य स्वीकृतत्वेन तलाव्याप्तिप्रसङ्गाच्च । ननु विहितजन्यत्वं तद्ध्वंसेऽप्यस्ति । न च विधिविषयजन्यत्व सति विध्युद्देश्यजनकत्वं धर्मत्वम् ; ध्वंसस्य च फलजनकत्वाभावान्नातिप्रसङ्ग इति वाच्यम्, श्रीहीनवहन्तीत्यादि विहितावहननादिजन्ये यागोपयोगिपुरोडाशाद्यर्थतण्डुलनिष्पत्त्यादिफलजनके बैतुष्यादावतिव्याप्ते - रिति चेन्न । यत्साक्षादवहननादितस्सम्भवति, तस्यैव विध्युद्देश्यत्वात्तण्डुलनिष्पत्तेरनुद्देश्यत्वात् । वस्तुतो विध्यनुमितविहितनिरूपितजन्यतावत्वं धर्मलक्षणमिति न कश्चिद्दोषः । वैतुष्यादेरवहननादिजन्यत्वस्य लोकसिद्धत्वेन विधिबोधितत्वाभावात् । शब्दान्तगुणानां तत्तन्निरूपणावसर एव तत्त दाश्रयप्रदर्शनं कृतम् । बुद्धयादीनामधर्मान्तानां त्वेकवृत्तित्वेन वचनलाघवाय पृथक्पृथगनुक्त्वा तावन्निरूपणानन्तरं तं प्रदर्शयति बुद्धशाद्य इति । सुखदुःखद्वेषधर्माधर्माणामीश्वरेऽनङ्गोकर्तव्यत्वातेषां जीवमात्रनिष्ठाकर्मायत्तानामनित्यत्वमेवेत्यभिसन्धाय ज्ञानेच्छा प्रयत्नाना मुभयरूपत्वं दर्शयति बुद्धीति । ईश्वरस्येति । तस्य करणकलेबररहितत्वात्तदीयज्ञानादेः शरीरादिनिरपेक्षत्वादिति भावः । संस्कारत्वजातिमत्त्वं संस्कारलक्षणनां ty
म् । विभजते संस्कार इति । वेगः इष्वादिषु जायमानया प्रथमक्रि
तर्कसङ्ग्रहः ।
बेगो भावना स्थितस्थापकञ्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुः भावना । आत्ममात्रवृत्तिः ।
। ययोत्पाद्यते, क्रियान्तरं च जनयति दूरपातार्थ यस्स बेगः । पृथिव्यादिचतुष्टयं च मनश्च चतुष्टयमनसी तल वृत्तिर्यस्येति । भावनां लक्षयति अनुभवेति । अनुभूतमेव स्मर्यन्त इत्यनुभवसिद्धम् । तदनुभवस्य स्मृतिकारणत्वमन्वयव्यतिरेकसिद्धं साक्षान्न भवति; अनुभव नष्टे बहुकालव्यवधानेन स्मृ तेर्जायमानत्वात् । अतोऽल यागाद्धर्म इव मध्ये व्यापारः कश्चन कल्प्यते । साभावना। अनुभवजन्यत्वमात्रोक्तावनुभवध्वंसे ऽतिव्याप्तिः, स्मृतिहेतुत्वमात्रोक्तावात्मादावतिव्याप्तिरित्युभयनिवेशः । न चानुभवत्वावच्छिन्नजनकतानिरूपितजन्यतानिवेशानानुभवध्वंसेऽतिव्याप्तिः, ध्वंसं प्रति प्रतियोगिनस्ततद्व्यक्तित्वेन कारणत्वात् अनुभवध्वंसं प्रत्यनुभवत्वेन कारणत्वमिति कार्यकारणभावानङ्गोकारादिति वाच्यम् । तथाऽपि स्मृतावनुभवजन्यत्वसत्वेनातिव्याप्तिवारणाय द्वितीयदलावश्यकत्वात् । ननु पूर्व स्मृतिलक्षणे संस्कारमालजन्यत्वं निवेशितम् । तदव संस्कारलक्षणे स्मृतिहेतुत्वं निवेश्यन्त इत्यन्योन्याश्रय इति चेन्न ; तल संस्कारपदेन संस्कारत्वजातिमत एवोक्तत्वात् भावनेत्यनुतत्वात्, अत संस्कारविशेषभावनालक्षण एव स्मृतिघटनाच्चादोषात् । यद्वाऽनुभवत्वावच्छिन्नजनकता निरूपितजन्यतावत्वमित्यत्र जन्यत्वमव्यवहितोत्तरक्षणावच्छिन्न ग्राह्यम् । एतत्सूचनाय स्मृतिहेतुरित्युक्तम् । स्मृतेश्च संस्कारव्यवधानेनैव जायमानतया नातिव्याप्तिः । न चैवमनुभवत्वावच्छिन्नति निवेशो व्यर्थः अनुभवनिष्ठेत निवेश एवालम् । अनुभवध्वंसे ऽतिव्याप्त्यभावात् । अनुभवस्य द्विक्षणावस्थायितया तृतीयक्षण एव ध्वंसस्योत्पद्यमानतया तत्राव्यवाहैतोत्तरक्षणावच्छिन्नजन्यत्वाभावादिति वाच्यम्; परामद्यमिफानुभवजन्यायामनुमिताव तिव्याप्तिवारणायानु→
[[९४]]
सुखप्रवशिनीसमेतः ।
अन्यथा कृतस्य पुनस्तादवस्थ्यापादकः स्थितस्थापकः । भवत्वावच्छिन्नत्वस्यावश्यकत्वात् । अस्य च लक्षणस्य प्राचीनमते सङ्गतत्वेऽपि नव्यमते न सामञ्जस्यम्; तन्मते स्मृतितोऽपि स्मृत्युत्पत्तस्संस्कारात्पत्तश्च स्वीकृतत्वेन संस्कारजनकतायास्स्मृतावपि वर्तमानतयाऽनुभवत्वावच्छिन्नत्वासम्भवात् । अतः स्मृत्यनुभवसाधारण्येन ज्ञानत्वनैव कारणत्वम् । न च तार्ह ज्ञानत्वावच्छिन्नजनकतानिरूपितजन्यतावत्त्वमित्येव लक्षणमुच्यतामिति वाच्यम्; ज्ञानस्येच्छां प्रत्यपि कारणन्तया तत्रातिव्याप्तेः । अतो नव्यमतानुसार स्मृतिहेतुरिति लक्षणपरम् । स्मृतिहेतुत्वं कालादेरपीति स्मृतित्वावच्छिन्नजन्यतानिरूपितजनकतावत्वमिति वक्तव्यम् । संस्कारद्वारा ज्ञानस्यापि स्मृति प्रतिकारणत्वादतिव्याप्तिरित्यव्यवहितपूर्वक्षणावच्छिन्ना जनकता विवक्षणीया । ज्ञानस्य संस्कारव्यवधानेन कारणत्वाददोषः । अस्याव्यवहितपूर्वक्षणावच्छिन्नत्वस्य लाभायैवानुभवजन्येत्युक्तम् । अतो मतभेदेन लक्षणभेदमन्तरभिसङ्घायानुभवजन्या स्मृतिहेतुरिति भङ्गया निर्देशः । स्थितस्थापकं लक्षयति अन्यथेति । स्थितस्य पूर्वकालसम्बन्चिविलक्षणसंस्थानजातीयस्य स्थापकः पुनरुत्प तिजनक इति शब्दार्थ एवात विवृतः । अन्यथा पूर्वसंयोगविलक्षणसंयोगवत्तया कृतस्य तादृशंसंयोगवत्त्वप्रकारककृतिविषयस्य । आधेयत्वं षष्ठ्यर्थस्ताद वस्थयान्वयि । साऽवस्था संस्थान विलक्षणसंयोगो यस्य तत् तद्वस्थम् । तस्य भावस्तादवस्थ्यम् । तदापादक उत्पादकः । धात्वर्थ उत्प तौ पुनरित्यस्यान्वयः । पुनः शब्दः पूर्वकालिकसत्त्वप्रतियोगिकाभावाधिकरणकालानन्तरकालवृत्तिव्वार्थकः । तथा च पूर्वसंयोगविजातीयसंयोगवद्वस्तु - निष्ठपूर्वसंयोगसजातीयसंयोगप्रयोजकः स्थितस्थापक इत्यर्थः । अत्र नायं साक्षात् तादृशसंयोगजनकः; अपि तु वेग इव कटादौ तादृशसंयोगानुकूल
[[९५]]
तर्कसङ्ग्रहः ।
कटादिपृथिवीमात्रवृत्तिः । चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरवक्षेपणम् । शरीरसन्निकृष्टसंयोगहेतुराकुञ्जनम् । शरीरविप्रकृष्टसंयोगहेतुःप्रसारणम् । अन्यत्सर्व गमनम् ॥ नित्यमेकमनेकानुगतं सामान्म् । द्रव्यगुणकर्मवृत्ति । परं सत्ता ।
अपरं द्रव्यत्वादि ॥
[[९६]]
क्रियाजनकः । सा च क्रिया विद्यमानं संयोगविशेषं विनाश्य पूर्वस्थितजातीय संयोगमुत्पादयतीति ध्येयम् ।
कटादीति । तालकृतो हि कट आकुञ्चित एव रक्षितः कदाचित् प्रसारितोऽपि संस्कारविशेषात् पुनवेष्टनमेव लभत इति । आदिना शाखादिपरिग्रहः । शाखादिकं ह्यवनमितं विसृज्यमानं पुनः पूर्वदेशावच्छेदेन संस्कारवशात् संयोग लभत इति ।
एवं गुणा निरूपिताः । कर्म निरूपयति चलनेति । चलतीति प्रतीतिसाक्षिकं कर्मत्वं जातिविशेषः । हेतुरिति । कर्मेति शेषः । कन्तुकमुत्क्षिपति, नारिकेलमवक्षिपतीत्यादौ प्रतीयमानमिदं कर्म । प्रसारितस्य शरीरावयवस्य पुनः सन्निकृष्टदेशे संयोग आकुञ्चनेन भवति । स्वाश्रयावयवभिन्न भूयोऽवयवसन्निकृष्टदेशा वच्छिन्न खाश्रय संयोगहेतुः क्रिया आकुञ्चनम् । एवं प्रसारणमपि विप्रकृष्टघटितम् । अन्यत् उक्तचतुष्टयभिन्नम् । सर्व भ्रमणरेचनस्पन्दनादि ॥ सामान्य लक्षयति नित्यमिति । अनुगतम् समवेतम् । एकमिति न लक्षणघटकम् । नित्यत्वे सत्यनेकसमवेतत्त्वं लक्षणम् । संयोगवारणाय नित्यत्वम् । आकाशादिवारणाय द्वितीयम् । परमाण्वेकत्वादिवारणायानेकेति । घटाभावादिवारणाय समवायसम्बन्धनिबेशः । परमिति जातित्वावच्छिन्न व्यापकनातिरित्यर्थः । अपर
[[९७]]
सुखप्रवेशिनीसमेतः ।
नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः । नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्मध्ये एक
5 , मिति । किश्चिज्जातिव्याप्यजातिरित्यर्थः । आदिना घटत्वादिग्रहणम् । विशेष लक्षयति नित्येति । व्यावर्तकाः व्यावृत्तिबुद्धिजनका इतरमि - नत्वा नुमितिजनकाः । नित्यद्रव्यवृत्तयो व्यावर्तका इत्येनन नित्यद्रव्येषु व्यावृत्तिबुद्धिजनकाः परमाणुविशेष्यक परस्परव्यावृत्त्यनुमितिजनका इत्युक्तं भवति । तथा हि — लोके घटपटादीनां व्यावृत्तिबुद्धिराकारवैषम्यादिना मवति, न तथा परमाणुषु ; तव रूपरसादिगुणादरैकरूप्यात कृशत्वस्थूलत्वाद्यभावात् अनाश्रितानां तेषामाश्रयवैलक्षण्यस्यापि दुर्वचत्वात् । अतस्तत पारस्परिकव्यावृत्तिबोधो यस्माद्भवति स कश्चिदतिरिक्त प्रतिपरमाणु मिन्नो विशेषकत्वेनैव सिद्धयन् विशेष इत्युच्यते । ननु विशेषेषु परस्परव्यावृत्तिज्ञानं कथमिति चेत्, अनवस्थाभयात्ते परं स्वात्मनैव स्वव्यावर्तका इष्यन्त इति खतो व्यावृत्ता इति । गन्धवत्त्वादेरपि पृथिव्यादौ व्यावृत्त्यनुमि तिजनकत्वादतिव्याप्तिरिति परमाणुविशेष्यकेति । परमाणुः स्पर्शवान् स्पर्शवत्समवायिकारणत्वादित्यल हेतोः परमाणुविशेष्यकानुमितिजनकत्वात्तत्र हेतावतिव्याप्तिरिति परस्परव्यावृत्तीति । पूर्वं ग्रन्थारम्भ नित्यद्रव्यवृत्तय इत्युक्तिर्नित्यद्रव्याणां परमाणूनामनन्तत्वात् विशेषाणामनन्तत्वमिति बोधनार्थम् ; अधुना तु लक्षण परमाणुविशेष्यकत्वरूप विशेषणलामार्थम् । नित्येति । नित्यत्वे सति सम्बन्धत्वं लक्षणम् । संयोगसम्चन्धचारणायाद्यम् । गगनादिवारणायान्त्यम् । यु-मिश्रणामिश्रणयोरिति युतौ मिश्रित सिद्धौ युतसिद्धौ पृथक्सिद्धावित्यर्थः । अयुतसिद्धावपृथक्सिद्धौ सम्बद्धावेव सिद्धाविति व्युत्पत्तिलभ्यमयुतसिद्धशब्दार्थमाह ययोरिति । ययोर्घटादिकपालाधोः । एकं घटादि । अपराश्रित अन्या
13 T
तर्कसङ्ग्रहः ।
मविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ । यथा, अवबवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ जातिव्य की विशेषनित्यwets
द्रव्ये चेति । श्रितं कपालादिनिष्ठम् । यथोरिति षष्ट्यर्थ आधेयत्वम् । मध्यशब्दाथें घटितत्वम् । निरूपकत्वं सप्तम्यर्थ एकापरपदार्थान्वयि । अवि. नश्यदवस्थम् विनश्यतोऽवस्था यस्य तद्विनश्यदवस्थम् । विनश्यदिति चर्तमानसामीप्ये वर्तमाननिर्देशः । तथा चाव्यवहितोत्तरक्षणावच्छिन्ननाशप्रतियोगिना याडवस्था दशा यावत्खनाशकारणसामग्रोमिलितत्वं नाशोत्पत्त्यव्यवहितपूर्वक्षणवृत्तित्वं वा तद्विशिष्टम् । एवं च स्वनाशोत्पत्त्यव्यचहितपूर्वक्षणावच्छिन्नं विनश्यद वस्थम् । तद्भिन्नमविनश्यद वस्थम् । एवकारार्थो व्यापकत्वम् अविनश्यद वस्थैकनिष्ठसत्ताव्यापकत्वं अपराश्रितस्य तादात्म्यसम्बन्धेन । तथा च ययोर्मध्येविनश्यद वस्थैकनिष्ठसत्ताव्यापकापराश्रितनिष्ठसत्तावदविनश्यदवस्थमेकम्, तावयुतसिद्धाविति बोधः । इत्थं च स्वनाशाव्यवहितप्राक्क्षणीय भिन्नस्वसत्ताव्यापकस्वनिष्ठाघेयतानिरूपकोभयमयुत सिद्धमिति । घटनाशाव्यवहितपूर्वक्षणीयभिन्ना तदितरक्षणनिरूपिता या घटसत्ता, तव्यापिकैव घटस्य कपालनिरूपिताघयतेति तदुभयभयुतसिद्धम् । अत्र व्याप्यव्यापकभावः कालिकसम्बन्धेन आश्रयनाशाद्धटनाशस्याङ्गीकर्तव्यतयाऽऽश्रय भूतक पालनाशकालेऽपि घटसत्ताऽस्ति तत्र च न कपालनिष्ठतेति व्यापकत्वभङ्ग इति स्वनाशाव्यवहितपूर्वक्षणीयभिन्नत्वनिवेशः । नन्वाश्रयनाशानन्तरमसमवायिकारणनाशस्ततो घटनाश इत्येव सिद्धान्त इति घटनाशाव्यवहितपूर्वक्षणीयभिन्ना घटसत्ता आश्रयनाशकालिकसत्ताऽपि भवति ? तल कपालसत्ता नास्तीति व्यापकत्वभङ्ग इति चेन्न, अव्यवहितपूर्वक्षणेत्यनेन तादृशक्षणद्वयमपि विवक्षितभित्यदोषात् । ननु जातिव्यक्त्यादिष्वयुतसिद्धत्वं न सिद्ध्यति तत्त्र खपदेन जातिपरिग्रहे तन्ना, स्व g
[[९८]]
सुखप्रवेशिनीसमेतः ।
शाप्रसिद्ध्या लक्षणसङ्गमनासम्भवात् । तथा जात्यादिसत्ताव्यापकत्वमपि घटादिनिरूपितावेयतायां न भवति । जात्यादेः सर्वदा सत्त्वात् कस्यापि घटस्य तावत्कालवृत्तित्वाभावादिति चेन्न; विनाश्याघेयघाटेतायुवसिद्धयो रेवेदं लक्षणम् । नित्याधेयघटितायुतसिद्धयोऽस्तु, ख, खसत्ताव्यापकस्वनिष्ठाधिकरणतानिरूपकोभयत्वमेव लक्षणम् । यदा घटसचा तदा घटनिष्ठा घटत्वादिजातिनिरूपिताधिकरणतेति समन्वयः । तथा च तादृशोभयत्वैतादृशोभयत्वान्यतरवत्त्वमयुतसिद्धत्वम् । अथ वा नाशाव्यवहितप्रावृक्षणीयत्वसम्बन्धन स्वाभाववत्वसत्ताव्यापक स्वनिष्ठाघेयत्वाधिकरणत्वान्यतरनिरूपकं यत् यच्च स्वं तदुभयत्वमयुतसिद्धत्वम् । स्वपदेनाधिकरणग्रहणातन्निष्ठाधिकरणतानिरूपकजातस्तस्य चायुतसिद्धत्वम् । खपदेनाधेयग्रहणातन्निष्ठाधेयतानिरूपककपालस्य तस्य चायुतसिद्धत्वम् । परमाणुतद्विशेषयोलक्षणसमन्वये च नाशेत्यादिव्यधिकरणसम्बन्ध इति । अत्र चाधेयताधिकरणता च कालिकसम्बन्धानवच्छिन्ना माझा । सेन रूपादेर्महाकालस्य च कालिकसम्बन्धेन सम्बद्धयोरपि नायुतसिद्धत्वम् । न चेश्वरज्ञाने विषयितासम्बन्धेन सर्वस्य सत्त्वात् सर्वस्य तस्य चायुतसिद्धत्वापत्तिरिति वाच्यम्; विषयितासम्बन्धस्य वृत्त्यनियामकतया लक्षणघटकमुख्याधाराधेयभावस्य तलाभावात् । ननु सामान्यत्व विशेषत्वसमवायत्वादीनां तत्तदाश्रयाणां चायुतसिद्धत्वात् तत्रापि समवायसम्बन्धः स्यादिति चेन्न । सप्तपदाथीतिरिक्त पदार्थानङ्गीकारात् सामान्यत्वादोनां धर्म्यपेक्षयाऽतिरिक्तत्वाभावातू सर्वथा तत्र परस्परं मुख्याधाराषेयभावा स्वीकारणायुतसिद्धत्वस्यैवानुपगमेन तत्र समवायसम्बन्ध प्रसक्तेः । तावयुतसिद्धाविति । सिद्धिर्नामाविनश्यदवस्थीया सत्ता । अयुतत्वं चाघेयत्वाधिकरणत्वान्यतरनिरूपकत्वम् । मिश्रितसिद्धावित्यनुक्त्वा अयुतसिद्धावित्यनेन नामिश्रितसिद्धाविति 2
तर्कसङ्ग्रहः ।
[[१००]]
अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्व कार्यस्य । सादिरनन्तः प्रध्वंसाभावः । उत्पत्तेरनन्तरं कार्यस्य । नैकालिकसंसर्गाभावोऽत्यन्ताभावः । यथा, भूतले घटो नास्तीति । तादात्म्यसम्बन्धावच्छिन्न प्रतियोगिताकाभावोऽन्योन्याभावः यथा, घटः पटो न भवतीति ।
नञ्यार्थवचनं लक्षणघटकव्यापकत्वज्ञापनायेति भावः । यद्यप्येक मिति क्ली निर्देशानुसारेण ‘ते अयुतसिद्धे’ इति वक्तुं युक्तम्, अथापि पटाद्यभिप्रायेण पुंल्लिङ्गोक्तिः ।
अन्तिमं पदार्थ निरूपयति अनादिरित्यादिना । आदि कारणम्, अथ वाऽऽरम्भ उत्पत्तिरिति यावत् । सान्त इत्यन्तो ध्वंसः । साहित्य प्रतियोगितासम्बन्धेन तथा चोत्पत्त्यभाववत्त्वे सति ध्वंसप्रतियोगित्वं प्रागभावलक्षणम् । घटगगनवारणाय दलद्वयम् । कार्यस्येति । अभाव इति शेषः । सादिः उत्पत्त्याश्रयः । अनन्तः ध्वंसाप्रतियोगी । न च ध्वंसलक्षणे ध्वंसप्रवेश आत्माश्रय इति वाच्यम्, उत्तरदलस्य लक्षणाघटकत्वात् उत्पत्त्याश्रयत्वे सत्यभावत्वमित्येव लक्षणे तात्पर्यात् । घटादिवारणाय द्वितीयदलम् । नैकालिकः त्रिषु कालेषु वर्तत इति । कालत्रयवर्तित्वं प्रागभावेऽप्यास्त ; श्वो जनिष्यमाणस्य घटस्य प्रागभावो वर्तमानक्षण तत्पूर्वकाल उत्तरकाले चास्तीति । अतः कालिकसम्बन्धेन कालत्वव्यापकत्वं वक्तव्यम् । अथ वा प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वं तत् । संसर्गाभाव इत्यन्योन्याभावभिन्नाभावे परिभाषा । तथा च तादात्म्यसम्बन्धानवच्छिन्न प्रतियोगिताकाभावत्वं संसर्गाभावत्वम् । तादात्म्यसम्बन्घातिरिक्तसम्बन्धावच्छिन्न प्रतियोगिताकाभावत्वमत्यन्ताभावस्य लक्षणम् । ध्वंसप्रागभावयोः सम्बन्धावच्छिन्नप्रतियोगिताकत्वं नाङ्गीक्रियते । इतीति, उक्तशब्दगम्य इत्यर्थः ।
सुखप्रवेशिनोसमेतः ।
[[१०१]]
सर्वेषामपि पदार्थानामुक्तेष्वैवान्तर्भावात् सप्तैव पदार्था इति सिद्धम् ।
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये । अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ॥ इति तर्कसङ्ग्रहः समाप्तः ।
एवं सप्त पदार्थ विभज्य सङ्ग्रहेण निरूपिताः । अथ शक्तयादिरन्यैः पार्थक्येन स्वीकृतोऽपि यथायथमत्रैवान्तर्भवति एवं न्यायदर्शनेोक्ताः षोडश पदार्थाी अपीति न सप्तधा विभजनमयुक्तमित्याह सर्वेषामिति । अन्तर्भाव घटकत्वमसाधारणधर्मवत्त्वम् उक्तवृत्त्यसाधारणधर्मवत्त्वात् । इतीति । उक्तानुपूर्व्यवच्छिन्नशब्द प्रमेय मित्यर्थः । सिद्धमबाधितम् । ज्ञानज्ञाप्यत्वमन्तर्भावा दिति पञ्चम्यर्थः । अथ वा सिद्धमबाधितत्वप्रकारकानुमितिविषयः । तदा पञ्चम्यर्थेनुमित्यन्वयि प्रयोज्यत्वम् । यद्वा सतैव पदार्था इतीति । एतदानुपूर्वीकवाक्यमित्यर्थः । सिद्धमबाघितार्थकम् । पञ्चम्यर्थो ज्ञानज्ञाप्यत्वम् । तथा च सप्तैव पदार्था इति वाक्यमबाधितार्थकं पदार्थत्वव्यापक स्वप्रतिपाद्यार्थघटक ताकत्वादित्यनुनुमानम् ।
नन्विदं किं कणाददर्शनमनुरुध्य, किंवा गौतमदर्शनं ? नाद्यः, तत्र प्रत्यक्षमनुमानमिति प्रमाणद्वयमेव न्यरूपि । शब्दोपमानयोश्चानुमान एवान्तर्भावोऽभिसंहितः । अत्र पुनस्तयोः पार्थक्यं प्रादर्शीति विरोधात् । नान्त्यः, तत्र सप्तानां पदार्थानां निरूपणक्रमानुपलम्भादित्युभयदर्शिनामाशङ्कां परिहरन् ग्रन्थं समापयति काणादेति । काणादे न्यायमते च । व्युत्पत्तावेतदन्वयः । व्युत्पत्तिश्शब्दार्थज्ञानम् । सिद्धये निष्पत्तये । उद्दे
[[१०२]]
तर्कसङ्ग्रहः ।
श्यत्वं चतुर्थ्यर्थी रचनान्वयि । अन्नम्भट्टेनेति तृतीयार्थः कर्तृत्वम् । तथा च चालसमवेतकाणादन्यायमतविषयक ज्ञानोत्पत्त्युद्देश्य कविद्वदभित्रान्नम्भट्ट - निष्ठकृतिजन्यरचनाजन्यफलाश्रयस्तर्कसङ्ग्रह इति बोधः । अयं भावः-ग्रन्थोऽ यं न केवलं कणादमतमनुसृत्य, न वा केवलं न्यायमतम् । कणादो महर्षिः प्रमेयस्य निरूपण एवैदम्पर्यमुवाह; गौतमश्च महर्षिः प्रमाणस्य । प्रथमः स्वयमतत्परतया शब्दोपमा नयेो रुपमानस्यात्यन्तोपयोगविरहमाकलयमानो न तन्नयरूपयत् । शब्दस्य चानुमानादपार्थक्येऽपि न कथञ्चिदान्नायप्रामाण्याद्यभीष्टविहतिप्रसक्तिरित्यभिसन्धाय न तदतिरेकसाघने प्रावर्तिष्ट । अनन्तरः पुनःप्रमाणविवेचनव्यम्रो वस्तुतत्त्वव्युत्पिपादयिषया शब्दोपमानयोः प्रमाणान्तरतां प्रादर्शयत् । सप्तधा पदार्थविभजनमनिष्टममन्वानोऽयनुमानप्रमाणं प्रपञ्च बुबोधयिषुस्तदर्थे षोडशघा पदार्थान् पर्यजगणतेति न सर्वथा विरोधप्रदर्शने यतितव्यम् । दृश्यते च परस्परसिद्धानामर्थानामुपजीवनं प्रायश उभयोरपि । तदिदमुभयं समानतन्त्रमेवेति व्याख्यातारस्तत्तदुक्तोपपन्न प्रमाणप्रमेयग्रहणनैकतन्त्र्यमेवोभयोः समपीपदन्निति, तदनुरुध्य ग्रन्थोऽयं प्राणीयतेति नात्रं मात्रयाऽपि विदुषः प्रबन्ध प्रामादिकं मन्तव्यम् । अपि तु विश्वस्य यथोक्तमुपपन्नमध्यवसाय सर्वदर्शनोपयोगीदं समादर्तव्यमिति ।
श्रीमत्कस्तू/रैरङ्गार्यप्रसिद्धाचार्यशिष्यतः । स्वच्छन्दश्रीनिवासार्यगुरोः प्रज्ञादयानिधेः ॥ १ ॥
अधीततर्कशास्त्रो यः शिरोमणिरिति श्रुतः । यो मीमांसासुधास्वादं बालप्रौढमनोहरम् ॥ २ ॥
व्याख्यानमापदेवीयप्रकाशस्य प्रणीतवान् ।
वेदान्ते च कृतोः काश्चिदन्यदप्युपकारकम् ॥ ३ ॥
[[7070]]
Accn. No.
सुखप्रवेशिनीसमेतः ।
**@@@@
[[१०३]]
वीरराघवसञ्ज्ञेन वात्स्येनैतेन धीमता । तर्कार्णवेन ‘सौकर्य स्याध्यापयता मिति ॥ ४ ॥
‘वर्धतां पठतामल व्युत्पत्ति’ रिति चादरम् ।
वहता विहिता सेयं तर्कसङ्ग्रहटिप्पणी ॥ ५ ॥
अयमखनशैलशृङ्गधामा गुणघामाऽञ्जनवर्णदिव्यधामा । परितुष्यति पद्मया किमन्यैरथ वा तोषयतु स्वयं स सर्वम् ॥ ६ ॥
श्रीरस्तु ॥