न्यायप्रदीपः
(ತರ್ಕ - ಸಂಸ್ಕೃತ ಸಾಹಿತ್ಯ ತರಗತಿಗಳಿಗೆ)
कर्नाटक-प्रशासनम्
PRINTED BY THE JOINT DIRECTOR, AT THE GOVERNMENT TEXT BOOK PRESS, MYSORE
न्यायप्रदीपः
रचना :
- श्री एन्. रङ्गनाथशर्मा, अध्यक्षः
- श्री एस. वि. भीमभट्टः, सदस्यः
- श्री श्रीनिवास अय्यङ्गार्, एन्. टि., सदस्यः
परिशीलनम् :
- श्री रामभद्राचार्य, एन्. एस्.
- श्री लक्ष्मीनरसिंहभट्टः, एम्. एन्.
पठ्यपुस्तकरचनायाम् अनेकविधसाहाय्यं कृतवद्भयः सवभ्यः पठ्यपुस्तक-निर्देशनालयोऽयं कृतज्ञताम् अर्पयति ।
-पठ्यपुस्तकनिर्देशकः
विषयानुक्रमणी
प्रत्यक्षपरिच्छेदा
१. मङ्गलवादः
२.
पदार्थविभागः
३.
शक्तिसादृश्यवादः
४. द्रव्यनिरूपणम्, द्रव्यत्वजातिसाधनं
५. तमोवाद.
६. गुणनिरूपणम्
७. कर्मनिरूपणम्
८.
९.
सामान्यनिरूपणम्
जातिबाधक विचारः
१०. विशेष निरूपणम्
११. समवायनिरूपणम्
१२. अभावनिरूपणम्
१३.
साधर्म्यवैधर्म्यप्रकरणम्
१४. पञ्चानां त्रयाणां च साधर्म्यम्
१५. गुणादीनां साधर्म्यम्
१६. सामान्यादीनां साधर्म्यम्
१७. पारिमाण्डल्य भिन्नानां साधर्म्यम्
१८.
कारणनिरूपणम्
१९. नित्यद्रव्यादिसाधर्म्यम्
२०.
आकाशात्मनां साधर्म्यम्
२१. पृथिव्यप्तेजस्साधर्म्य विचारः
२२.
पृथिवीनिरूपणम्
२३. जलनिरूपणम्
२४. तेजोनिरूपणम्
२५. वायुनिरूपणम्
२६. आकाशनिरूपणम्
च
- (ii) :
[[10]]
[[10]]
[[11]]
[[13]]
[[15]]
[[17]]
[[20]]
[[20]]
[[21]]
[[21]]
[[21]]
[[22]]
[[23]]
[[23]]
[[24]]
[[28]]
[[35]]
[[38]]
[[41]]
[[45]]
ITY METH
रचना :
२७. कालनिरूपणम्
[[1]]
१८. दिङ निरूपणम्
२९. आत्मनिरूपणम्
- ‘….
१०. मनो निरूपणम्
- रूपनिरूपणम
१२. रसगन्धस्पर्श निरूपणम्
परिशील
१३.
पाकविचारः
१४.
सङ्ख्याप्रकरणम्
३५.
परिमाण
[[11]]
१६.
पृथक्त्व
"
३७.
संयोग निरूपणम्
पठ
८.
विभाग
[[11]]
निर्देशनाल
[[6000]]
[[3340]]
पुटसङ्ख्या 146
- [[49]]
-
:
- ::
-
:
[[49]]
[[58]]
[[60]]
[[62]]
[[64]]
[[65]]
[[67]]
[[68]]
- [[69]]
-
: :
९. परत्वापरत्व
१०. गुरुत्वद्रवत्व
१. नेह
२.
शब्द
३. बुद्धि
४. स्मृति
“1
[[21]]
[[21]]
“1
"
[[37]]
- ५. अनुभवनिरूपणम्
-
:
६. यथार्थानुभव विभागादिः, करणलक्षणं च ७. कारणलक्षणम्, कार्यस्वरूपम्, कारणविभागः
८. प्रत्यक्षम् तद्विभागश्च
९. वहिरिन्द्रियजन्यद्रव्य प्रत्यक्षे रूपस्य कारणत्वविचारः
[[69]]
[[71]]
[[72]]
[[73]]
[[74]]
[[75]]
[[76]]
[[77]]
[[78]]
०.
अनुपलब्धेः प्रमाणान्तरत्वविचारः
१. बलौकिकसत्रिकर्षः
[[81]]
[[6400]]
[[84]]
[[90]]
[[94]]
[[95]]
अनुमानपरिच्छेदः
२. अनुमाननिरूपणम् ३. अनुमितिः
४. परामर्शः
१५ व्याप्तिः
…
[[97]]
[[99]]
…
[[100]]
[[102]]
(iv)
५६. पक्षधर्मता
५७. स्वार्थानुमानपरार्थानुमाने ५८. लिङ्गनिरूपणम्
५९. पक्षादिनिरूपणम्
६०. हेत्वाभास विचारः
उपमानपरिच्छेदः
- ६१. उपमानादिनिरूपणम्
शब्दपरिच्छेदः
- :
६२. शाब्दप्रमाणं, शाब्दबोधोत्पत्तिक्रमः, आप्तलक्षणं च
६३. वाक्यपदविचारः
६४.
लक्षणा
६५. शक्तिः, तद्ब्राहकाणि च
६६. पदविभागः, संयोगादिनिरूपणम्
६७.
समासे शक्तिविचारः
६८.
आकाङ्क्षादिविचारः .
९. अयथार्थानुभवनिरूपणम्
७०.
प्रामाण्यवादः
७१. तर्कः, व्याप्तिग्रहोपायः, उपाधिश्च
- ७२.
शब्दस्य प्रमाणान्तरत्वम्, अर्थापत्तेरनुमानान्तर्भावः
७३. स्मृतिदिचारः
१४. सुखदुःखेच्छाद्वेषप्रयत्नाः
७५. धर्माधमौ
P:
७६.
संस्कारविचारः
[[21]]
(v)
पुटसङ्ख्या
[[107]]
[[108]]
[[110]]
[[113]]
[[116]]
[[129]]
[[131]]
[[132]]
[[134]]
- [[135]]
[[141]]
[[147]]
[[149]]
[[155]]
[[161]]
[[165]]
[[167]]
[[169]]
[[170]]
[[178]]
[[182]]
उपोद्घातः
इह खलु सर्वेऽपिं प्राणिनः सुखं मे भूयात्, दुःखं मे मनागपि मा भूदितीच्छन्ति वन च आत्यन्तिकदुःखोच्छेदाय पदार्थतत्त्वावधारणमावश्यकमिति तार्किकाः आमनन्ति । लौकिकव्यवहाराणामपि सुगमतया निर्वाहाय, इह परत च लोके सुखप्राप्तये ऊहापोहमूलकमर्थतत्त्वावधारणमावश्यकमेवेति समस्तविद्यासु अर्ध्याहततमामान्वीक्षिकीं भगवान् गौतममुनिः पञ्चभिरध्यायः प्रणिनाय । अयं च ५०० ई.तः पूर्वमजायतेति वदन्ति विद्वांसः । भगवता वात्स्यायनमुनिना प्रणीतभाष्ये तस्मिन् न्यायशास्त्रे दिङ्नागप्रभृतिभिर्दूषिते तदीययुक्त्याभासान् निरस्य न्यायभाष्यस्य गाम्भीर्यमुद्योतयन् उद्योतकरः न्यायवार्तिकं न्यवध्नात् । श्रीमद्वाचस्पति मिश्रा तदुपरि न्यायवार्तिकतात्पर्यटीकां, श्रीमानुदयनाचार्यः न्यायवार्तिकतात्पर्यटीकातात्पर्यपरिशुद्धि च विरचयामासतुः । श्रीमता गौतमादपि पूर्वोत्पन्नेन कणादमुनिना प्रणीतं सप्तपदार्थीप्रतिपादकं वैशेषिकसूतं प्रशस्तपादादयः भाष्यटीकादिभिः विभूषयामासुः
अथ कालान्तरे न्यायवैशेषिकाख्यदर्शनद्वयमिदं समाहृत्य श्रीमान् गङ्गेशोपाध्यायः तत्त्वचिन्तामणिनामकं युक्तिजालजटिलं अवच्छेदकत्वप्रतियोगित्वादिपारिभाषिक पदार्थाविष्करणदृढतरं ग्रन्थं विरचयामास, यस्य दीधितिनामिका टीका, तस्याश्च गदाधरजगदीशमथुरानाथादिभिः प्रणीताः विमर्शात्मकग्रन्याश्च तैस्तैः प्राणायिषतः । गौतमीयं काणादं च तन्त्रमधिकृत्य वालानां प्रौढानां च कृते बहवः प्रकरणग्रन्था विरचिताः ।
सर्वेऽप्येते ग्रन्थाः साधारणमतीनां दुष्पठाः, दुरवगाहाः, उभयमतासङ्ग्राहकाश्चे त्यालोच्य वङ्गीयः श्रीविश्वनाथन्यायपञ्चाननः काणादन्यायमतसङ्क्षेपरूपं भाषापरिच्छेद नामकं कारिकानिवद्धं ग्रन्थमारचय्य मुक्तावलीनामकं तद्वयाख्यारत्नं च निरमासीत् महानैयायिकः विश्वनाथः वृन्दावने चतुस्त्रिंशदुत्तर पोडशशतके ( 1634 A.D.), न्यायसूत्रवृत्ति न्यबध्नादिति तद्ग्रन्थोल्लेखेनैव ज्ञायते । विद्यानिवासभट्टाचार्यः । अयं नवद्वीप (वङ्गप्रान्ते) वासी प्यवात्सीत् ।
(vi)
तस्य पिता काशीनाथ बहुकालपर्यन्तं वृन्दावनेऽ-
विश्वनाथन्यायपञ्चाननः मांसतत्त्वविवेकाख्यं स्मृतिविमर्शरूपं ग्रन्थं प्रणीय तत्त्र महाराष्ट्रादिद्विजेषु वर्जितं मांसाहारविचारं विशेषतः वङ्गेषु प्रचलितं मत्स्यमांसभक्षणं समर्थयामास। वौद्धधर्मप्रभावेण दाक्षिणात्याः मांसवर्जनं कृतवन्त इति स सयुक्तिकं प्रत्यपीपदत् ।
सर्वतन्त्रस्वतन्त्रोऽन्नम्भट्टः आन्ध्रदेशीयः क्रिस्तशकीये १७०० तमे वत्सरेऽजीवत् । स च तर्कसङ्ग्रहाख्यं कणादन्यायमत सङ्ग्रहात्मकं ग्रन्थं विरचय्य तस्य दीपिकाख्यां व्याख्यां स्वयमेव रचयामास । वेदान्ते व्याकरणे चाद्वितीयपण्डितोऽयमन्नम्भट्टः स्वकीयतर्कसङ्ग्रहाख्यग्रन्थेनाजरामरो वभूव । यतः सर्वैः तर्कशास्त्रप्रवेशमिच्छद्भिः सर्वानन्यान् ग्रन्थानपहाय तदीयग्रन्थ एवं प्रथमं पठ्यते । अष्टाविंशतितोऽप्यधिकानि तर्कसङ्ग्रहस्य दीपिकायाश्च व्याख्यानानि तद्ग्रन्थस्य जनप्रियतामावेदयन्ति ।
काणादं पाणिनीयं च सर्वशास्त्रापकारकम्’ इत्यनुभवपूर्णा लोकोक्तिमनुरुन्धानाः सर्वेऽपि शास्त्रान्त रप्रवेशमभिलषन्तोऽपि तर्कसङ्ग्रहदीपिकां कारिकावलीव्याख्याभूतां च मुक्तावली प्रथमत अधीयते । अस्मदीये कर्णाटकराज्येऽपि संस्कृतपाठशालासु इयमेव परिपाटी जागति । परन्तु विद्यार्थिनां तर्कशास्त्रस्य दुरवगाहतां, एकस्मिन्नेव पुस्तके सर्वेषां तर्कशास्त्रीयविषयाणां दुर्लभतां चाकलय्य पठ्यपुस्तकालय-निर्देशका (Director of Text Books Committee) एकां समितिमायोज्य तत्त्र तर्कशास्त्रे आरम्भे अवश्यमध्येतव्यान् विषयान् सङ्गृह्य पुस्तकमेकं विरचयितुं समादिक्षन् । तदनुसारेण विरचितेऽत्र ग्रन्थे इमे विशेषाः समावेशिताः ।
दीपिका,
।
तर्कसङ्ग्रहग्रन्थः यथावदेव तत्रतत स्थूलत राक्षरैः समायोजितः । तद्वयाख्यागता अवश्यज्ञेया विशेषांशाः व्याख्यारूपेणाधस्तात् समायोजिताः । कारिकावलीमुक्तावलीस्था अपि विषयाः बालसुलभाः तत्रैव समायोजिताः । ततः परं मुक्तावलीस्थाः विषयाः प्रायः सर्वेऽपि बहुषु स्थलेषु विवरणपूर्वकं प्रतिपादिताः । दिनकरीया दिव्याख्याग्रन्थगता अपि विषयाः यथावकाशं तत्रैव समावेशिता । एकनैवानेन ग्रन्थेन न्यायशास्त्रे प्रवेशमधिजिगमिषूणां छात्राणां कार्य सुलभता सम्पन्नं भविष्यतीति समाकलय्य एतादृशग्रन्थनिर्माण प्रयतितम् । अन तर्कसङ्ग्रहः इति शिरोलेखनेन अभट्टीयतर्कसङ्ग्रहस्थाः तदितरकारिकावत्यादि
(vii)
ग्रन्थस्था अपि विषयाः बालसुबोधाः प्रथमं दर्शिताः । ततः तर्कसङ्ग्रहप्रदीपनाम्ना किञ्चित्कठिनतरा विषयाः समायोजिताः ।
कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः । वचोविन्यासर्व चित्यमात्तमत विचार्यताम् ।
न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तच्चित्तानां प्रकाशते ॥
इमां सूक्तिद्वयों स्मरन्तः प्रथमं तर्कसङ्ग्रहं तद्वयाख्याभागं च आन्तमधीत्य ततः पुनरादितः अधस्तनीं विशेषव्याख्यां अधीयतां छात्राः । श्रद्धया गुरूनाराध्यैव तद्वचनद्वारैव शास्त्रं सुप्रवेशं भवतीति तु न विदुषां तिरोहितम् । अनेन नूतनेनारम्भेण नव्योत्साहभरिताः प्राच्यायां नव्यायां च न्यायपद्धत्यां सर्वेऽपि सादरा भवेयुरित्याशास्ते
इयं समितिः ।
बेङ्गलूर्
(vill)
सदस्याः
एस्. वि. भीमभट्टः
एन. रङ्गनाथशर्मा
एन्. टि. श्रीनिवास अय्यङ्गार्य
श्रीगुरुचरणारविन्दाभ्यां नमः । परब्रह्मणे नमः । नमः कणादगौतमाभ्याम् ।
तर्कसङ्ग्रहः
प्रत्यक्षपरिच्छेदः -
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥
तर्कसङ्ग्रहप्रदीपः
इह खलु धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः प्रसिद्धाः । तेषु प्रधानस्य मोक्षस्य आत्मतत्त्वज्ञानसाध्यत्वं सर्वेऽप्यङ्गीकुर्वन्ति । तच्च पदार्थतत्त्वज्ञानाधीनम् । एवं सुगमतया लौकिकानां शास्त्रीयाणां च व्यवहाराणां निर्वाहः पदार्थतत्त्वज्ञानसाध्य इति प्रत्यक्षागमपुरस्कृताभिर्युक्तिभिः पदार्थतत्त्वविवेचनाय तर्कशास्त्रं प्रवृत्तम् । तत्र च चिकीर्षितस्य ग्रन्थस्य विघ्नविघातपूर्वक समाप्तये ग्रन्थकारः इष्टदेवतागुरुनमस्कारात्मकं मङ्गलं कृत्वा तत् शिष्यशिक्षायै ग्रन्थतो निबध्नाति चिकीर्षितं च प्रतिजानीते - निधायेति ।
तत्र विघ्नो नाम समाप्तिप्रतिबन्धकदुरितविशेषः । समाप्तिर्नाम चरमवर्णध्वंसः । ज्ञानाधीनेच्छा शिक्षा, ज्ञानं च अस्मद्गुरुभिमङ्गलं कृतमिति, तदधीनेच्छा
अनायं विशेषविचारः । विघ्नविघातपूर्वक समाप्तये मङ्गलं कृतमित्युक्तम् । ननु अत्र घातपदस्यैव उत्पत्तिविशिष्टाभावात्मक ध्वंसबोधकतया विपदं व्यर्थमिति चेन्न ।
विशिष्टवाचकानां पदानां सति पृथग् विशेषणवाचकपदसमवधाने विशेष्यमात्रपरत्वमिति प्रसिद्धो न्यायः । तथाहि ‘सकोचकैः मारुतपूर्णरन्ध्रः ’ इति रघुवंश द्वितीयसर्गे श्लोकः । अत्रत्यस्य कीचकपदस्य " कीचका वेणवस्ते स्युर्ये स्वनन्त्यनिलोद्धताः " इति कोशपर्यालोचनया मारुतपूर्णरन्ध्रविशिष्ट वेणुबोधकत्वेऽपि पृथक् मारुतपूर्णरन्प्रेरिति विशेषणदानात् महाकविप्रयोगसामञ्जस्याय एष न्यायोऽङ्गीक्रियते । तथाच तत्र कीचकपदस्य वेणुमात्रवोधकत्ववत्, प्रकृतेऽपि घातपदम् अभावमात्रपरम्, विपदम् उत्पत्तिविशिष्टार्थकम् इति बोध्यम् ।
[[4]]
अस्माभिरपि मङ्गलं कर्तव्यमितीच्छा । निबध्नातीत्यत्र निबन्धनं नाम वर्णानुमापकरेखोपरेखाविन्यासः । प्रतिजानीते इत्यत प्रतिज्ञा नाम उत्तरकालकर्तव्यत्वप्रकारक ज्ञानानुकूलव्यापारः ।
उपरितनश्लोके पूर्वार्धेन मङ्गलं कृतम् । मङ्गलं नाम अनिष्टनिवर्तकः इष्टप्रापकः कर्तव्यकर्मविशेषः । स च त्रिविधः, कायिकवाचिकमानसिकभेदात् । कार्थिकः करशिरस्संयोगादिरूपः, वाचिकः नमश्शब्दोच्चारणादिरूपः, मानसिकः स्वापकर्षवोधात्मकः ।
•
तत्र निधाय हृदि विश्वेशमिति ईश्वरध्यानरूपं मङ्गलम्, विधाय गुरुवन्दनमिति गरुनमस्काररूपं मङ्गलं कृतमित्यवगन्तव्यम् । केवलं ईश्वरध्यानमात्रादरे गुरुतिरस्कारप्रसङ्गः, गुरुनमस्कारमात्नादरे ग्रन्थकर्तुः नास्तिकत्वशङ्कया आस्तिकानामत्र प्रवृत्तिनं स्यात् । अतः उभयादरणम् । उत्तरार्धेन च अनुवन्धचतुष्टयं सूचितम् । अनुवन्धो नाम शिव्यप्रवृत्तिप्रयोजकज्ञानविषयः। विषयप्रयोजनाधिकारिसम्बन्धाः इति चत्वारः अनुवन्धाः ।
अन तर्क्यन्ते प्रतिपाद्यन्त’ इति तर्काः द्रव्यादिपदार्थाः इत्यर्थकरणेन द्रव्यादिपदार्थरूपः विषयः उक्तः । सुखवोधायेत्यनेन अनायासेन पदार्थतत्त्वज्ञानरूपं प्रयोजनम्, बालानामित्यनेन अधिकारी चोक्तः । विषयग्रन्थयोः प्रतिपाद्यप्रतिपादकभावश्च सम्वन्धः । अधीतकाव्यव्याकरणकोशादिमान अनधीतन्यायशास्त्रः ग्रहणधारणपटुर्वा वालः । विश्वेशविषयकध्यानोत्तरकाले गुरुवन्दनविषयककृत्युत्तरकाले च बालानाम् अनायासेन पदार्थतत्त्वज्ञानाय मया अन्नम्भट्टाख्येन विदुषा तर्कसङ्ग्रहाख्यः ग्रन्थः क्रियते । अहं तर्कसङ्ग्रहाख्यं ग्रन्थं करोमि इति लोकतात्पर्यार्थः ।
मङ्गलवादः
ननु विघ्नविघातपूर्वक समाप्त्यर्थं मङ्गलं कृतमित्युक्तम् । तन्न युक्तम् । तथाहिमङ्गलं न विध्वंसं प्रति न वा समाप्ति प्रति कारणम् । लोके हि अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः निश्चीयते । तत्सत्त्वे तत्सत्वमित्यन्वयसहचारः । तदभावे तदभावः इति व्यतिरेकसहचारः । यथा दण्डसस्खे घटसत्त्वम् दण्डाभावे घटाभाव इति अन्वयव्यतिरेकसहचाराभ्यां तयोः कार्यकारणभावः निश्चीयते । प्रकृते तु विनापि मङ्गलं नास्तिकादीनां ग्रन्थेषु समाप्तिदर्शनेन व्यतिरेकव्यभिचारः
एवं बाणभट्टकृतकादम्बर्यादौ मङ्गलसत्त्वेऽपि समाप्त्यदर्शनेन अन्वयव्यभिचारश्च दृश्यते । कारणाभावेऽपि कार्यसत्त्वं व्यतिरेकव्यभिचारः । कारणसत्त्वेऽपि कार्याभावः अन्वयव्यभिचारः । एतन्निश्चयद्वयस्य कारणतानिश्चयं प्रति विरोधित्वात् मङ्गलं समाप्तिं प्रति न कारणम् इति चेन्न ।
,
मङ्गलं सफलं अविगीत शिष्टाचारविषयत्वात् दर्शादिवत् इत्यनुमानेन तावत् मङ्गलस्य सफलत्वं सिध्यति
ततः मङ्गलस्य विशेषतः फलजिज्ञासायां यत्न दृष्टं फलं सम्भवति तत्र अदृष्टफलकल्पना अन्याय्या इति न्यायात् ग्रन्थारम्भे मङ्गलाचरणवेलायां निर्विघ्नपरिसमाप्तेरेव उपस्थितत्वाच्च समाप्तिरेव फलं कल्प्यते । एवं मङ्गलं समाप्त्यन्याफलकं समाप्तिकामनया अनुष्ठीयमानत्वात् इत्यनुमानेन समाप्त्यन्याफलकत्वे सिद्धे मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वात् । यत् यदन्याफलकत्वे सति सफलं तत् तत्फलकं, यथा ज्योतिष्टोमः स्वर्गफलकः इति परिशेषानुमानेन मङ्गलस्य समाप्तिफलकत्वं सिध्यति । इत्थं च यत्र मङ्गलं न दृश्यते तत्रापि जन्मान्तरीयं मङ्गलमनुमतिव्यम् । नास्तिकामा जन्मान्तरीयमङ्गलवान् समाप्तिमत्त्वादिति । यत्र च मङ्गले सत्यपि समाप्तिर्न दृश्यते तत्र वलवत्तरो विघ्नः विघ्नप्राचर्यं वा वोध्यम् । एवं च मङ्गलं करणम्, विघ्नध्वंसः अवान्तरव्यापारः, समाप्तिः फलम् तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारत्वम्, मङ्गलजन्यत्वे सति मङ्गलजन्यसमाप्तिजनकत्वात् विघ्नध्वंसः व्यापारः भवतीति प्राचीनानां मतम् ।
,
।
,
नव्यास्तु अवश्यवलृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नमन्यथासिद्धमिति न्यायात् समाप्ति प्रति अवश्यक्त नियतपूर्ववर्तिना विघ्नध्वंसेनैव समाप्ति सम्भवे तद्भिन्नं मङ्गलमन्यथासिद्धम् । एवं च मङ्गलस्य विघ्नध्वंस एव फलम् समाप्तिस्तु बुद्धिप्रतिभादिकारणकलापात । यस्य तु स्वत एवं विघ्नात्यन्ताभावः वर्तते तेन कृतं मङ्गलं तु निष्फलमेव । परन्तु विघ्नशङ्कया शिष्टाः सर्वेऽपि मङ्गलमाचरन्ति । तदनुष्ठितमङ्गलस्य विघ्नध्वंसरूपफलाभावेऽपि ‘विघ्नध्वंसकामो मङ्गलमाचरे ‘दिति वेदस्य नाप्रामाण्यम् ।
प्रतियोगिता सम्बन्धेन ध्वंसं प्रति तादात्म्य सम्वन्धेन प्रतियोगिनः कारणत्वेन तल प्रतियोगि रूपकारणाभावेन विघ्नध्वंसः नोत्पद्यते इत्यङ्गीकरणीयमेव । अत एव पापभ्रमेण कृतस्य प्रायश्चित्तस्य निष्फलत्वेऽपि न
[[3]]
तद्बोधकवेदाप्रामाण्यम् । अत्रापि स्वसामानाधिकरण्यस्वा व्यवहितोत्तरक्षणोत्पत्तिकत्वोभयसम्बन्धेन मङ्गलविशिष्टविघ्रध्वंसं प्रति मङ्गलं कारणमिति विशिष्यैव कार्यकारणभावो वक्तव्यः । अन्यथा मङ्गलरूपकारणाभावेऽपि विनायकस्तवपाठप्रायश्चित्तादिनापि विघ्नध्वंससम्भवेन व्यतिरेकव्यभिचारः स्यात् । क्वचिच्च विनात्यन्ताभाव एव समाप्तिसाधनम् । प्रतिबन्धकसंसर्गाभावस्य कार्यसामान्यं प्रति कारणत्वेन ध्वंसादीनां तेनैव सङ्ग्रहान्नाननुगमः । इत्थं च नास्तिकादीनां ग्रन्थेषु जन्मान्तरीयमङ्गलजन्यदुरितध्वंसः स्वतस्सिद्धविघ्नात्यन्ताभावो वास्तीति न व्यतिरेकव्यभिचारः । यत्र च मङ्गले सत्यपि न समाप्तिः तत्र मङ्गलाद् विघ्नध्वंसो भवत्येव, समाप्त्यभावस्तु विघ्नभूयस्त्वात्, तन्मङ्गलानन्तरोत्पन्नविघ्नाद्वा इत्यवधेयम् इति नवीनमतम् ।
अथ मङ्गलसमाप्त्योरात्माकाशनिंष्ठयोः वैयधिकरण्येन कथं कार्यकारणभावः इति चेदुच्यते । स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्तासम्बन्धेन आत्मवृत्तिसमाप्ति प्रति समवायसम्बन्धेन ज्ञानात्मकं मङ्गलं कारणमिति कार्यकारणभावः । मङ्गलविघ्घ्रध्वंसयोस्तु बात्मान्तर्भावेण कार्यकारणभावः सुगम एव । /
अथ पदार्थविभागः
द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः ।
पदाथज्ञानस्य उद्देशलक्षणपरीक्षात्मकशास्त्राधीनत्वेन तत्राप्युद्देशं विना धमिज्ञानसाध्यलक्षणादेः कर्तुमशक्यत्वेन प्रथमतः पदार्थानुद्दिशति - द्रव्येति । तत्र च नाममात्रेण वस्तुसङ्कीर्तनमुद्देशः, यथा द्रव्यगुणेत्यादि । असाधारणधर्मो लक्षणम् । यथा गन्धवती पृथिवीति, यथा वा ह्रस्वकेसराखण्डशफवानश्वः इति । लक्षणस्य च नयो दोषाः अतिव्याप्तिः अव्याप्तिः असम्भवश्चेति । तत्र अलक्ष्ये लक्षणगमनमतिव्याप्तिः । यथा गोः श्रृङ्गित्वं लक्षणमित्युक्तो तस्य लक्ष्यभिन्नमहिषादौ सत्त्वेन अतिव्याप्तिः । लक्ष्यैकदेशे लक्षणस्यावर्तनमव्याप्तिः । यथा गोः कपिलत्वम् । लक्ष्यमात्रे क्वापि लक्षणस्यावर्तनमसम्भवः । यथा गोः एकशफत्वम् । एतद्दूषणत्रयरहितधर्मः लक्षणम् । लक्ष्यतावच्छेदकव्याप्यत्वे सति लक्ष्यतावच्छेदक व्यापकधर्मः लक्षणमिति लक्षणलक्षणनिष्कर्षः । लक्षितस्य लक्षणं सम्भवति न वेति विचारः परीक्षा ।
[[4]]
लक्ष्यतो व्याजय कसम नियतत्वार
असाधारकत्व भू
समानमोर वायू व्यायकन्चे सति व्यटिभलम
नियम साहचर्गः समाप्तः
= सामानाधिकরপमें
[[1]]
ननु प्रकृते द्रव्यगुणेतिविभागात् पूर्वं सामान्यलक्षणं कुतो नाभिहितम् ? सामान्यवचनं पूर्वं विशेषस्य ततः परमिति न्यायात् सामान्यलक्षणाभिधानं विना विभागस्य अनुपपन्नत्वादिति चेन्न तर्कसङ्ग्रह इति पदेनैव तक्यन्न्ते प्रतिपाद्यन्ते इति तर्काः इति व्युत्पत्त्या प्रतिपाद्यत्वापरपर्यायाभिधेयत्वरूपसामान्यलक्षणस्य सूचितत्वेन तदनन्तरं विभागकरणे बाधकाभावात् । अथवा विभागवाक्य एव पदार्थाः द्रव्यगुणेत्यादि सप्त इति योजनया पदार्थपदलभ्यस्य पदाभिधेयत्वस्य अभिधेयत्वस्य वा पदार्थसामान्यलक्षणस्य लाभसम्भवान्न दोषः ।
अत्र च कस्मिन्नपि पदार्थे द्रव्यादिसप्ताभेदस्य असम्भवेन द्रव्यादिपदानां भावप्रधाननिर्देशेन द्रव्यत्वादिकमर्थः । सम्प्तपदस्य विभाजकधर्मसप्त कान्यतमवति लक्षणा, अन्यतमत्वावच्छिन्ने द्रव्यत्वादीनामभेदसंवन्धेनान्वयः । अन्यतमवतेः पदार्थशब्दार्थे अभेदेनान्वयः । तथाच द्रव्यत्वगुणत्वकर्मत्वसामान्यत्वविशेषत्वसमवायत्वाभावत्वाभिन्नविभाजकधर्मसप्तकान्यतमवदभिन्नाः पदार्थाः इति बोधः । एते च सप्तपदार्थाः कारिकाक्लीनामके ग्रन्थे एवमुक्ताः-
द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायस्तथाभावः पदार्थास्सप्त कीर्तिताः ॥ इति ॥
·
अथ शक्तिसादृश्यवादः
भन्द भन्न धर्मः
तह, वঃ
rem x
भन्ने भन्ने गोलम
तन्त्र तन्त्र सामग्रीनलिनु
ननु सप्तैव पदार्थाः इति कथमुक्तम् ? शक्तिसादृश्यादीनामप्यतिरिक्तपदार्थत्वात् । तथाहि – चन्द्रकान्तमण्या दिसंयुक्ते इन्धनदीप्ते वह्नौ सत्यपि दाहो न जायते ।
अतः शक्तिविशिष्टवह्निरेव दाहं प्रति कारणम्, मण्या दिना च वह्निनिष्ठा दाहानुकूला शक्तिर्नाश्यते इति कल्प्यते - मणिः दाहानुकूलशक्तिनाशकः दाहानुत्पत्तिकारणत्वात् इति । मण्याद्यपसारणेन उत्तेजकेन सूर्यकान्तमण्यादिना वा दाहो जायते ।
तव दाहो नाम रूपान्तरोत्पत्तिः पूर्वरूपनाशो वा । प्रतिबन्धकत्वं नाम कार्यानुकूलधर्मविघटकत्वम् । उत्तेजकत्वं नाम प्रतिप्रबन्धकसमवधानकालीन कार्यजनकत्वम् । एवं सिद्धा शक्तिः न द्रव्यगुणकर्मान्तिर्भूता गुणवृत्तित्वात् । गुणे च न द्रव्यं न गुणः नापि कर्म वर्तते । कपालरूपादौ घटरूपादिजननशक्तिदर्शनेन गुणे शक्तेः सत्त्वेन न सा द्रव्यादित्रितयान्तर्भूता इति । शक्तिः न सामान्यविशेषान्तर्भूता समव्याप्तिः
अधिक देश काल वर्तित्नाई व्यापक ल्यू
न्यूज देश कालो की नर्भू बगाप्यत्व पू
[[5]]
उत्पत्तिविनाशशालित्वात् नाप्यभावान्तर्भूता भावत्वेन प्रतीयमानत्वात् । अतः शक्तिरतिरिक्तः पदार्थः इति चेन्न ।
मष्यभावविशिष्टवरेव दाहकारणत्वाङ्गीकारेण मणिसमवधाऩकाले दाहवारणोपपत्तौ अतिरिक्तशक्तिकल्पना न युक्ता । मण्यभावविशिष्टवह्नेः वह्निविशिष्टनण्यभावस्य वा कारणत्वमित्यत्र विनिगमनाविरहात् कार्यकारणभावद्वयापत्तिरिति यदि विभाव्यते तदा मण्यभाववह्नयोः द्वयोरेव घटं प्रति दण्डचक्रादीनामिव दाहं प्रति स्वातन्त्र्येण कारणत्वमस्तु । अनेनैव सामञ्जस्ये अनन्तशक्तीनां तत्प्रागभावध्वंसानां च कल्पना न युक्ता ।
उत्तेजकसूर्यकान्तमण्यादी सति प्रतिबन्धकसद्भावेऽपि दाहोत्पत्त्या उत्तेजकाभावविशिष्टः यः मण्यादिः तदभावः दाहं प्रति कारणमिति वक्तव्यम् । अयं च प्रतिबन्धकाभावः तेधा :उत्तेजकस्य प्रतिबन्धकमण्यादेर्द्वयोः सत्त्वे विशेष्यसत्त्वेऽपि विशेषणाभावात् विशिष्टाभावः, उत्तेजकाभावे प्रतिबन्धकमण्यादेश्चाभावे विशेष्याभावाद् विशिष्टाभावः, उत्तेजकसत्त्वे मणेरभावे च उभयाभावात् विशिष्टाभाव इति। तार्किकमते च कारणीभूताभावप्रतियोगित्वं प्रतिबन्धकत्वम् । उत्तेजकत्वं च कारणतावच्छेदकीभूताभावप्रतियोगित्वं बोध्यम् ।
ननु तथापि सादृश्यमतिरिक्तपदार्थोऽस्ति । चन्द्रवन्मुखमित्यादिप्रतीत्या तस्य पदार्थत्वं तावत् सिद्धमेव । तच्च षड्भावानन्तर्भूतं व्यतिरेकित्वे सति सामान्येतरवृत्तित्वे सति सामान्यवृत्तित्वात् । यथा गोत्वं नित्यं तथा अश्वत्वमपीति प्रतीत्य ‘सादृश्यस्य सामान्यवृत्तित्वं तावत् सिद्धमे॥ देवदत्तसदृशः यज्ञदत्तः, रूपमिव रसोऽपि गुणः, चलनमिव धावनमपि कर्म इत्यादिप्रतीत्या तस्य सामान्येतरवृत्तित्वमपि सिध्यत्येव । अत चानुमाने प्रमेयत्वे व्यभिचारवारणाय व्यतिरेकित्वे सतीति । सामान्यत्वे व्यभिचारवारणाय द्वितीयसत्यन्तम् । गुणे व्यभिचारवारणाय विशेष्यमिति बोध्यम् । सादृश्यम् अभावानन्तभूतं सत्त्वेन प्रतीयमानत्वात् इत्यपरमनुमानम् । बाभ्यां सादृश्यस्य सप्तपदार्थानान्तर्गतत्व सिद्धौ तस्यातिरिक्तपदार्थत्वस्य । वश्य मङ्गीकरणीयत्वात् सप्तैव पदार्था इति कथनमसङ्गतमिति चेन्न तद्भिन्नत्वे सति तद्गत भूयोधर्मवत्त्वमेव सादृश्यन् । तच्च घटसदृशः पट इत्यादी जातावन्तर्भवति ।
यथा गोत्वं नित्यं तथाश्वत्वमपीत्यादौ चन्द्रसदृशं मुखमित्यादौ च नित्यत्वाह्लादकत्वादिरूपोपाधी अन्तर्भवतीति सादृश्यस्य अतिरिक्तत्वशकायाः नावकाशः ।
[[6]]
अथ द्रव्यनिरूपणम्
तत्र द्रव्याणि पृथिव्य जोवाय्वाकाशकाल दिगात्ममनांसि नवैव ।
तेषु पदार्थेषु मध्ये पृथिव्यादीनि नवैव द्रव्याणीत्यर्थः । अनेन वाक्येन ग्रन्थकारः द्रव्याणि विभजते । विभागो नाम सामान्यतो ज्ञातस्य विशेषरूपेण
कथनम् ।
सामान्यधर्मव्याप्यपरस्परासमानाधिकरणयावद्धर्मप्रकारकज्ञानानुकूलव्यापारः इति निष्कर्षः । अत नवत्वेन न्यूनसङ्ख्यायाः एवकारेण अधिकसङ्ख्यायाश्च व्यवच्छेदः । यथा राम एव शूर इत्यत्र रामान्यस्मिन् शूरत्वव्यवच्छेदः, एवमिहापि पृथिव्यादिनवातिरिक्ते द्रव्यत्वव्यवच्छेदः एवकारेण लभ्यते । विशेष्यविशेषण क्रियागतैवकाराणां अन्ययोग-अयोग अत्यन्तायोगव्यवच्छेदा अर्थाः । तत्र प्रथमस्योदाहरणं दत्तम् । शङ्खः पाण्डुर एवं इत्यत्र विशेषणगतैवकारेण शङ्खें पाण्डुरवर्णायोगव्यवच्छेद्रः । नीलं सरोजं भवत्येव इत्यत्न क्रियागतैवकारेण सरोजे नीलवर्णा त्यिन्तायोगव्यवच्छेदः । एतानि च नवद्रव्याणि ’ क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो मनः । द्रव्याणि ‘–इति कारिकावल्यामुक्तानि ।
[[2]]
[[3]]
अथ द्रव्यत्वजातिसाधनम्
ननु द्रव्यसामान्यलक्षणमनुक्त्वा कथं तद्विभागः कृत इति शङ्कायां द्रव्यपदेन द्रव्यत्वजातिमत्त्वं द्रव्यसामान्यलक्षणमुक्तमिति वक्तव्यम् । गुणवत्त्वं द्रव्यलक्षणमित्युक्तौ चतुर्विंशतिगुणानामुपस्थित्या गौरवात् । तत्र च द्रव्यत्वजातौ कि मानम् ? नहि तत्र प्रत्यक्षं प्रमाणं घृतजतुप्रभृतिषु अनुगतैकाकाराभावेन द्रव्यत्वाग्रहादिति चेन्न ; समवायेनं घटादिकार्यं प्रति तादात्म्येन द्रव्यं कारणनिति कार्यकारणभावस्तावङ्गीकरणीयः । तेन च समवायसम्वन्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपिता द्रव्यनिष्ठा कारणता सिध्यति । ततश्च यत्र यत्र कारणता त्वं तत्र तत्र किञ्चिद्धर्मावच्छिन्नत्वं इति दण्डनिष्ठकारणतादौ सहचारदर्शनेन कारणतात्वं किञ्चिद्धर्मावच्छिन्नत्वव्याप्यमिति व्याप्तिज्ञानं लभ्यते । ततः कारणतात्ववती एषा कारणता इति पक्षधर्मताज्ञानम् । ततो व्याप्तिस्मरणम् । ततः किञ्चिद्धर्मावच्छिन्नत्वव्याप्यकारणतात्ववती एषा कारणता इति परामर्शज्ञानम् । ततः समवायसम्बन्धावच्छिन्नकार्यत्वावच्छिन्न कार्यतानिरूपिततादात्म्य सम्बन्धावच्छिन्ना द्रव्यनिष्ठा कारणता किञ्चिद्धर्मावच्छिना कारणतात्वाद् दण्डत्वावच्छिन्नदण्ड निष्ठकारणतावदिन्यनुमानेन
।
[[7]]
किञ्चिद्धर्मावच्छिन्नत्वसिद्धौ यद्धर्मावच्छिन्ना द्रव्यनिष्ठा कारणता तदेव द्रव्यत्वमिति द्रव्यत्वजातिः सिध्यति ।
नच प्रागभावप्रतियोगित्वरूपकार्यत्वस्य ध्वंसेऽपि सत्त्वात् तत्र च तादात्म्येन द्रव्यस्य कारणत्वाभावात् पूर्वोक्तकार्यकारणभावः व्यभिचरितः इति वाच्यम् । सत्त्वे सतीति विशेषणेन अदोषात् । एतत्कल्पे कार्यत्वस्य कार्यतावच्छेदकत्वे गौरवम् । एवमवच्छेद्यावच्छेदकयोरैक्यं चेति दोषात् द्रव्यत्वजातिसाधकं कल्पान्तरमाश्रीयते । संयोगसमवायिकारणता किश्चिद्धर्मावच्छिन्ना कारणतात्वात् इत्यनुमानेन वा पूर्वोक्तरीत्या द्रव्यत्वजातिः सिध्यति । अनापि कल्पे नित्यसंयोगाङ्गीकर्तृ मते संयोगत्वस्य कार्यत्वावच्छेदकत्वासम्भवात् द्रव्यत्वजातिसिद्धिर्न सम्भवतीति तृतीयकल्पः अनुस्रियते । विभागसमवायिकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात् इत्यनुमानेन वा द्रव्यत्वजातिसिद्धिः सम्भवतीति ।
इति द्रव्यत्वजातिसाधनप्रकारः
अथ तमोवादः
ननु दशमं द्रव्यं तमः कुतो नोक्तम् । तद्धि नीलं तमश्चलतीति चाक्षुषप्रतीतिसिद्धम् । तमो द्रव्यं रूपवत्त्वात् कर्मवत्त्वाच्च इत्यनुमानेन तस्य द्रव्यत्वसिद्धौ, तमः पृथिवीत्वाभाववत् गन्धशून्यत्वात् । तमो न जलाद्यन्यतमरूपं नीलरूपवत्त्वात् इत्यनुमानाभ्यां क्लृप्तनवद्रव्येष्वनन्तर्भावात् तमो दशमद्रव्यमिति सिद्धम् । तदुक्तम्-
तमः खलु चलं नीलं परापरविभागवत् ।
प्रसिद्धद्रव्यवैधर्म्यान्निवभ्यो भेत्तुमर्हति ॥ इति ।
नच द्रव्यचानुपप्रत्यक्षे आलोकसहकृतचक्षुषः कारणत्वात् तमः प्रत्यक्षे च आलोकनिरपेक्षस्यैव चक्षुषः कारणत्वात् कथं तमसो द्रव्यत्वमिति वाच्यम् । आलोकप्रत्यक्षे यथा आलोकस्य न कारणत्वम्, तद्वत् वस्तुस्वभावानुरोधेन तमोभिन्नद्रव्यचाक्षुषं प्रत्येव आलोकः कारणमित्यङ्गीकरणीयत्वात् । अतः तमसः दशमद्रव्यत्वं निर्वाधमिति चेत्र ।
तमसः तेजोऽभावरूपतागीकारेणैवोपपत्ती द्रव्यान्तरकल्पनाया अनुचितत्वात् । रूपवत्ताप्रतीतिभ्रमरूपा, कर्मवत्ताप्रतीतिरप्यालोकापसरणौपाधिकी भ्रान्तिरेवेति रूपवत्त्वकर्मवत्त्वाभ्यां द्रव्यत्वं साधयितुं न शक्यम् । ननु प्रतीतेर्भ्रान्तित्वं तत्रैवाङ्गी-
.8
कर्तुमुचितं यतोत्तरकाले बाधः । प्रकृते च न तथेति कथं भ्रान्तित्वमिति चेन्न ; तमसोऽतिरिक्तद्रव्यत्वाङ्गीकारे अनन्तावयवादिकल्पनागौरवापत्त्या लाघवार्थं प्रतीतेर्भ्रमत्वस्यैवोचितत्वात् । ननु तम एव द्रव्यं, तेज एव तमोsभावोऽस्तु इति चेन्न ; सर्वानुभवसिद्धोष्णस्पर्शभास्वररूपाश्रयतया तेजसः भावरूपस्यैवाङ्गीकरणीयतया
तस्याभावरूपताया अङ्गीकर्तुमशक्यत्वात् । अतः तम एव तेजोऽभावरूपमित्यङ्गीकरणीयम् इति ।
V
t
किव तमो न रूपिद्रव्यम्, आलोकासहकृतचक्षुर्ग्राह्यत्वात् आलोकाभाववत् इत्यनुमानेनापि तमसि रूपाभावसिध्या प्रौढप्रकाशकतेजस्सामान्याभाव एव तमः ।
· त्यणुकभिन्नं उद्भूतानभिभूतरूपवत् यत् महत् तेजः तादृशतेजस्सामान्याभावस्तम इति यावत् । सुवर्णादिमति तमो विशिष्टदेशे तमोऽभावव्यवहारवारणाय, चक्षुरसंयुक्ते तमस्वति देशे तमोव्यवहारानुपपत्तिवारणाय च तेजसि उद्भूतानभिभूतरूपवत्त्वनिवेशः । तेजस्त्र्यणुकतत्परमाण्वादिमति देशे तमोव्यवहारानुपपत्तिवारणाय त्र्यणुकभिन्नत्वमहत्त्वयोस्तेजसि विशेषणतया प्रवेशः । यत्किखित्तेजोऽभावस्य तमस्वत्यपि देशे सत्त्वात् तेजस्सामान्याभाव इत्युक्तमिति ध्येयम् ।
इति तमोवादः
अथ गुणनिरूपणम्
रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्व-
स्नेहशब्दबुद्धि सुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः ।
गुणान् विभजते - रूपरसेति । गुणाश्चतुर्विंशतिरिति योजना । रूपरसगन्धस्पर्शाः सङ्ख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषी प्रयत्नाश्च गुणाः’ इति सूत्रेण सप्तदशोक्ताः । चशब्देन भाष्यकारसमुच्चिताः गुरुत्वद्रवत्व स्नेहसंस्कारधर्माधर्मशब्दाः सप्त । मिलित्वा चतुर्विंशतिरिति ज्ञेयम् । अत्र गुणादिषु गुणानङ्गीकारेण गुणादिवृत्ति चतुर्विंशतित्वादिकं एकार्थसमवायेन वा अपेक्षा बुद्धिविशेषविषयत्वेन वा बोध्यम् । रूपत्वादिविभाजकधर्मान्यतमवन्तो गुणाः इति बोधः । चतुर्विंशतिपदं मृदुत्वलघुत्वादीनामतिरिक्तगुणत्वव्यवच्छेदाय । गुणत्वजातिमत्त्वं गुणसामान्यलक्षणम् ।
N.P.-Sahitya
[[2]]
[[9]]
ननु गुणत्वजातौ कि मानम् इति चेदुच्यते ।
द्रव्यकर्मभिन्ने सामान्यवति या
कारणता सा किञ्चिद्धर्मावच्छिन्ना कारणतात्वात् इत्यनुमानेन गुणत्वजातिनत्वणुपरिमाणस्य कुताप्यकारणतया गुणत्वस्य तत्साधारण्यं न
सिद्धिरिति ।
स्यादिति चेत् न गुणपदशक्यतावच्छेदकतया गुणत्वजातिसिद्धेरिति ।
अथ कर्मनिरूपणम्
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ।
भ्रमणं रेचनं
कर्म विभजतेउत्क्षेपणेति । कर्माणि पञ्चेत्यन्वयः । ‘उत्क्षेपणं ततोsपक्षेपणमाकुञ्चनं तथा । प्रसारणं च गमनं कर्माण्येतानि पन्व च ॥ स्यन्दनोर्ध्वज्वलनमेव च । तिर्यग्गमनमप्यत्र गमनादेव लभ्यते ॥ ’ इत्युक्तेः भ्रमणादीनां गमन एवान्तर्भावात् न पञ्चधा विभागोऽनुपपन्नः । उत्क्षेपणत्वापक्षेपणत्वादिरूपविभाजकधर्मान्यतमवन्ति कर्माणि इति वोधः । पञ्चपदमतिरिक्तव्यवच्छेदार्थमेव ।
ननु भ्रमणादिष्विव उत्क्षेपणादिष्वपि ऊर्ध्वं गच्छतीति प्रत्ययात् उत्क्षेपणादीनामपि गमनेऽन्तर्भावोऽस्तु इति चेन्न । प्रकृते उत्क्षेपणादिभिन्नत्वे सति उत्तरदेशसंयोगानुकूलक्रियाया एव गमनपदार्थतया तत्त्रोत्क्षेपणादीनामन्तर्भावस्य वक्तुमशक्यत्वात्। उत्तरदेशसंयोगानुकूलक्रियाया एव गमनत्वमङ्गीकृत्य उत्क्षेपणादीनामपि तत्रान्तर्भावशङ्का तु कर्तुमशक्या । स्वतन्तेच्छस्य मुनेनियोगपर्यनुयोगानर्हत्वात् ।
अथ सामान्यनिरूपणम्
परमपरं चेति द्विविधं सामान्यम् ।
सामान्यं विभजते — परमपरं चेति ।
सत्तात्वसत्ताभिन्नजातित्वरूपविभाजक-
धर्मन्द्वयान्यतरवत्सामान्यमिति वोधः । जातिः सामान्यमिति पर्यायः । परत्वं
व्यापकत्वम्,
अपरत्वं व्याप्यत्वम् ।
घटत्वपटत्वादिजातीनां व्याप्यत्वम् ।
सत्ताजातेः व्यापकत्वम् । द्रव्यत्वपृथिवीत्वादीनां सत्तापेक्षया व्याप्यत्वं घटत्वाद्यपेक्षया व्यापकत्वं च भवति । सर्वमिदमुक्तं कारिकावल्यां-
सामान्यं द्विविधं प्रोक्तं परं चापरमेव च ।
द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ॥
[[10]]
परमिता च या जातिः सैवापरतयोच्यते । द्रव्यत्वादिकजातिस्तु परापरतयोच्यते ॥
व्यापकत्वात् परापि स्यात् व्याप्यत्वादपरापि च । इति ।
।
इदं च सामान्यं द्रव्यगुणकर्ममात्रवृत्ति । नित्यत्वे सति अनेकसमवेतत्वं तत्क्षणम् । नित्यत्वे सति अनेकनिरूपितसमवाय सम्बन्धावच्छिन्नवृत्तिमत्वं अनेकनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तिमत्वं सामान्यस्य लक्षणमिति फलितम् । नित्यत्वमानाक्ती गगनादी, अनेकसमवेतत्वमात्रोक्तौ घटादी, संयोगादौ च अतिव्याप्तिरिति दलद्वयोपादानम् । नित्यत्वे सति समवेतत्वमात्रोक्तौ गगनपरिमाणादी अतिव्याप्तिः, अतः अनेकेति । नित्यत्वे सति अनेकवृत्तित्वमत्यन्ताभावेऽप्यस्तीत्यतः वृत्तित्वसामान्यं विहाय समवेतत्वमित्युक्तम् । ननु तथापि नित्यसंयोगेऽतिव्याप्तिरिति चेन्न ; नित्यसंयोगानङ्गीकारात् । अन्यथा तुल्ययुक्त्या नित्यविभागस्यापि सिद्धिप्रसङ्गात् । अथवा तत्नातिव्याप्तिवारणाय संयोगभिन्नत्वे सतीति देयम् । अथवा एकत्वे सतीति विशेषणदानान्न दोषः । अत एव नित्यमेकमनेकानुगतं सामान्य मिति तल्लक्षणं वदन्ति । तच्च संयोगे नास्तीति । अथवा अनेकसमवेतत्वमित्यत अनेकपदं बहुपरं संयोगश्च द्विसमवेत एव, न बहुसमवेत इति न दोषः ।
ननु निस्सामान्यत्वे सति विशेषान्यत्वे सति समवेतत्वं सामान्य लक्षणं प्राचामभिमतम् । तत्र घटादी अतिव्याप्तिवारणाय प्रथमसत्यन्तम् । विशेषेऽति-
। व्याप्तिवारणाय द्वितीयम् । समवायाभावयोरतिव्याप्तिवारणाय विशेष्यदलम् । ततश्च आकाशत्वमपि जातिरिति प्रतीयते । नित्यत्वे सत्यनेकसमवेतत्वं लक्षणं तु तनाव्याप्तमिति चेन्न ;
एकव्यक्तिमात वृत्तिधर्मस्य जातित्वानभ्युपगमात् ।
तथाच द्रव्यकिरणावल्यामुदयनाचार्यैरुक्तम्-
व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानव स्थितिः ।
रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः ॥ इति ।
स्वस्य
(१) स्वाश्रयीभूतव्यक्तिनिष्ठस्वाश्रयीभूतव्यक्ति प्रतियोगिकभेदाभावः जातित्वे बाधकः । स्वम् आकाशत्वं तदाश्रयीभूता व्यक्तिराकाशरूपा, तन्निष्ठः, एवं स्वपदग्रा ह्याकाशत्वाश्रयीभूताकाशव्यक्तिप्रतियोगिकः भेदो न वर्तते । आकाशस्यैकत्वेन नीलघटः पीतघटो न इत्यादिवत् एतदाकाशः तदाकाशो न इत्यादिभेदस्योपादातु-
[[11]]
मशक्यत्वात् । अतः स्वपदेन घटत्वादिकमुपा घटत्वाश्रयीभूतपीतघटव्य क्तिप्रतियोगिक भेदः न जातिः ।
नीलघटव्यक्तिनिष्ठः एवं आकाशत्वे इन्त्याकाशत्वं
तुल्यत्वं तुल्यव्यक्तिवृत्तित्वं घटत्वकलशत्वादीनां जातीनां भेदे बाधकम् । वस्तुतस्तु स्वभिन्नजातिसमनियतत्वं तुल्यत्वम् । तच्च कम्बुग्रीवादिमत्त्वस्य जातित्वे बाधकमिति बोध्यम् ।
(३) सङ्करः -परस्परात्यन्ताभाव समानाधिकरणयोर्धर्मयोरेकत समावेशः 1 भूतत्वमूर्तत्वयोर्जातित्वे बाधकः । भूतत्वं विहाय मनसि मूर्तत्वं मूर्तत्वं विहाय आकाशे भूतत्वम्, उभयोः समावेशः पृथिव्यादिचतुष्टये इति । ।
(४) अप्रामाणिकानन्तपदार्थकल्पनाधाराविश्रान्त्यभावः अनवस्था । जातेर्जातिमत्त्वे वाधिका । घटत्वपटत्वादिजातिषु इयं जातिरियं जातिरित्यनुगतप्रतीत्या यदि काचिज्जातिरभ्युपगम्यते, तदा तस्यां काचिदन्या, तस्यां काचिदन्येत्येवमनवस्था स्यात् । यद्यपि निखिलजातिषु एकस्या जातेरङ्गीकारे तस्यां न जात्यन्तरं, व्यक्तेक्यादिति नानवस्थाया जातिबाधकत्वम् । तथापि निखिलजातिष्वेका जातिः, तस्यां तदाश्रयी भूतघटत्वादिजातिषु च एका — इत्येवमनवस्था सम्भवत्येव ।
(५) रूपहा निःरूपस्य विशेषलक्षणस्य हानिः विशेषवृत्तीनां धर्माणां जातित्वे बाधिका । निस्सामान्यत्वे सति सामान्यभिन्नत्वे सति समवेतत्वं हि विशेषत्वम् । यदि विशेषेषु विशेषत्वं जातिः स्यात् तदा विशेषाणां सामान्यरहितत्वाभावेन विशेषलक्षणस्यासम्भवः स्यादतो विशेषत्वं जातिरिति नाभ्युपगन्तव्यम् ।
अथवा रूपस्य विशेषस्वरूपस्य स्वतो व्यावर्तकत्वस्य हानिः रूपहानिः विशेषवृत्तिधर्माणां जातित्वे बाधिका । तथाहि परमाणुषु व्यावर्तकतया विशेषाः सिध्यन्ति । स्वयं व्यावृत्तो धर्मः स्वाश्रयव्यावर्तको भवति । अव्यावृत्तधर्मो न व्यावर्तक इति न्यायेन परस्पराव्यावृत्तानां व्यावर्तकत्वासम्भवात् तत्र व्यावर्तकान्तरापेक्षायामनवस्थापत्त्या परमाणूनां परस्परव्यावर्तका विशेषाः स्वत एव व्यावृत्ता इति स्वतोव्यावर्तकत्वं तेषां लक्षणम् ।
व्यावर्तकान्तरानपेक्षसिद्धिषिषयपरस्परभेदकत्वं स्वतोव्यावर्तकत्वम् । तच्च विशेषाणामेकजातीयत्वे सति नोपपद्यते । एक.
[[12]]
जातीयानां परस्परं भेदः प्रत्यक्षतोऽवगन्तव्यः परस्परव्यावृत्तधर्माद्वा । न चेह प्रत्यक्षसम्भवः । परस्परव्यावृत्तधर्माङ्गीकारे त्वनवस्थितिः । एवं च विशेषाणामव्यावृत्तत्वाद् व्यावर्तकता न स्यात् । तथाच विशेषाणां स्वरूपं व्यावर्तकान्तरानपेक्षसिद्धिं विषय परस्परभेदकत्वं, परमाणुषु परस्परव्यावर्तकत्वं वा तस्य हानिः विशेषवृत्तिधर्मस्य विशेषत्वस्य जातित्वे बाधिका ।
[[1]]
(६) अराम्बन्धः - प्रतियोगितानुयोगितान्यतरसम्बन्धेन समवायाभावः 1 थः समवायेन तिष्ठति तत्र प्रतियोगितासम्बन्धेन यत्र तिष्ठति तत्त्र अनुयोगितासम्बन्धेन समवायो वर्तते, समवायोऽभावो वा न कुनचित्समवायेन तिष्ठति, न वा समग्रायाभावयोः कश्चित् समवायेन तिष्ठतीति समवाये अभावे च प्रतियोगितानुयोगितान्यतरसम्बन्धेन समवायाभावो वर्तत इति समवायत्वमभावत्वं वा न जातिरिति भावः । गगनादौ जात्यभावप्रसङ्गवारणाय अनुयोगितेति । सामान्यविशेषवृत्तिधर्मयोर्जातित्वे बाधिकयोः अनवस्थितिरूपहान्योर्वैयर्थ्यापत्तिवारणाय प्रतियोगितेति । व्यक्त्यभेदतुत्यत्वसङ्कराणां जातित्वबाधकत्वम्, अनवस्थितिरूपहान्यसम्बन्धानां जातिमत्त्वबाधकत्वं चान्यत्रोक्तम् । तथापि सकृदुच्चरितन्यायेन जातिबाधकपदस्य जातित्वजातिमत्त्वोभयवाधकपरत्वस्यायुक्ततया जातिबाधकसङ्ग्रह इत्यत्र भावप्रधाननिर्देशन जातिपदस्य जातित्वपरत्वमङ्गीकृत्य षण्णामपि जातित्वबाधकत्वमेवोक्तमिति बोध्यम् ॥
अथ विशेष निरूपणम्
नित्यद्रव्यवृतथो विशेषास्त्वनन्ता एव ।
विशेषान्निरूपयति-नित्येति । सामान्यान्तर्गतत्व निरासाय अनन्ता इति । प्रतिव्यक्तिभिन्ना इति भावः नित्यद्रव्याणामनन्तत्वेन तदृत्तिविशेषाणामप्यनन्तत्वं बोध्यम् । परमाणूनां परस्परं भेदनिर्वाहाय विशेषोऽतिरिक्तपदार्थत्वेनाङ्गीकरणीयः । तत्परमाणुत्वादीनामेव व्यावर्तीत्वसम्भवात् विशेषो न पदार्थान्तरमिति कश्चित् । तन्न ; अव्यावृत्तधर्मस्य व्यावर्तत्त्वासम्भवात् तत्त्रापि व्यावर्तकान्तरापेक्षायामनवस्थाप्रसङ्गात् । विशेषस्तु स्वत एव व्यावृत्तः । पृथिव्यादिचतुष्टयपरमाणवः
[[13]]
आकाशादिपञ्चकं च नित्यद्रव्याणि । तन्निरूपिताधेयतावन्तः असङ्ख्याकाः विशेषाः इति । एतच्चोक्तं-
अन्त्यो नित्यद्रव्यवृत्तिः विशेषः परिकीर्तितः । इति ।
ननु विशेषसद्भावे का युक्तिरिति चेत् उच्यते । घटादीनां द्वघणुकपर्यन्ताना तत्तदवयवभेदात् परस्परं भेदः, एतद्घटः तद्घटभिन्नः एतत्कपालारब्धत्वात् एतत्कालः तत्कपालभिन्नः एतत्कपालिकारन्धत्वात् इत्येवं एनद्वयणुकं तद्व्यणुकभित्तं एतत्परमाणुसमवेतत्वात् इति रीत्या भेदः सिध्यति । परमाणूनां तु निरवयवत्वेन तेषां परस्परं भेदसाधनाय विशेषोऽभ्युपगम्यते । तथाच एतत्परमाणुः तत्परमाणुभिन्नः एतद्विशेषात् इत्यनुमानेन परमाणूनां परस्परं भेदः सिध्यति । अन्यथा परमाणूनां परस्परं भेदासिद्धी द्वयणुकादीनामपि तदसिष्या घटादीनामपि भेदासिद्धिप्रसङ्गः । इदमेवोक्तं मुक्तावल्यां :घटादीनां द्वयणुकपर्यन्तानां तत्तदवयवभेदात् परस्परं भेदः । परमाणूनां परस्परभेदको विशेष एव । स तु स्वत एव व्यावृत्तः । तेन तत्र विशेषान्तरापेक्षा नास्तीति । )
"
एवं च स्वतोव्यावृत्तत्वं विशेषाणां लक्षणम् । तच्च स्वभिन्नलिङ्गजन्यस्वविशेष्यकस्वसजातीयेवरभेदानुमित्यविषयत्वम् । स्वपदं पक्षत्वेनाभिमतपरम् । तथाच एतद्घटः तद्द्घटभिन्नः एतत्कपालारब्धत्वादित्यनुमितौ स्वं एतद्घटः, तद्भिनं एतत्कपालारब्धत्वरूपं लिङ्गं, तज्जन्या स्वविशेष्यिका स्वसजातीयेतरभेदविधेयिका या अनुमितिः पूर्वोक्ता अनुमितिः, तद्विषयत्वं एतद्घटे, तदविषयत्वं विशेषे इति समन्वयः । स्वभिन्नेत्यनुपादाने एतद्विशेषः तद्विशेषभिन्नः एतद्विशेषात् इत्यनुमितिविषयत्वमादाय असम्भवः, स्वविशेष्यकत्वानुपादाने घटो विशेषाद् भिद्यते कपालसमवेतत्वादित्यनुमितिविषयत्वमादाय पुनस्तद्दोषतादवस्थ्यम् । । नच स्वात्मक लिङ्गजन्यस्वविशेष्यकस्वसजातीयेत रमेदानमितिविषयत्वमेव स्वतोव्यावृत्तत्वमंस्तु कि न द्वयघटितगुरुतरारम्भेणेति वाच्यम् । एतद्घटः तद्घटमिन्नः तादात्म्येन एतद्घटात् इत्यनुमितिविषयत्वस्य एतद्घटेऽपि सत्त्वेन अतिव्याप्त्यापत्तेः । साजात्यं च पदार्थविभाजकोपाधिरूपेण । अन्यथा विशेषो द्रव्यभिन्नः गुणशून्यत्वात् इत्यनुमितिविषयत्वस्य विशेषे सत्त्वेन असम्भवः स्यादिति बोध्यम् ।
[[14]]
अथ समवायनिरूपणम्
समवायस्त्वेक एव ।
नित्यसम्बन्धः समवायः अयुत सिद्धवृत्तिः । ययोर्द्वयोर्मध्ये एकमविनश्यददस्थम् अपराश्रितमेवावतिष्ठते तावयुत सिद्धी । यथा अवयवावयविनी गुणगुणिनो क्रियाक्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति । इदं चोक्तम्-
घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः ।
तेषु जातेश्च सम्वन्धः समवायः प्रकीर्तितः ॥ इति ।
एकत्वविशिष्टाभिन्नस्समवायः इति बोधः । समवायगतैकत्वं च स्वजातीयव्यक्तघन्तररहितत्वम् । नित्यत्वे सति सम्बन्धत्वं समवायस्य लक्षणम् । विशेष्यमात्रोक्तौ संयोगादौ, विशेषणमात्रोक्तौ गगनादौ चातिव्याप्तिरित्युभयोपादानम् । सम्बन्धत्वं नाम विशिष्टबुद्धिजनकत्वम् । अथवा अयुत सिद्धसम्वन्धत्वं समवायस्य लक्षणम् । यु मिश्रण मिश्रणयोः इति धातोः युती अमिश्रितो सिद्धौ युतसिद्धौ पृथक् सिद्धौ, तद्भिन्नौ अयुतसिद्धौ, सम्बद्धावेव सिद्धों, अयुतसिद्धयोः वृत्तिः सम्बन्धः समवायः, तादृशसम्बन्धत्वं समवायस्य लक्षणमित्यर्थः । अगुतसिद्धावाह - ययोरिति । ययोर्घटकपालयोर्मध्ये एकं घटात्मकं वस्तु, अविनश्यदवस्थं, विनाशावस्थां अनापन्नं सत् अपराश्रितमेव कपालाश्रितमेव, अवतिष्ठते वर्तते, तौ घटकपालौ अयुतसिद्धौ अयुत सिद्धपदवाच्यौ । एवं अवयविगुणक्रियाजातिविशेषाणां कदाचिदपि अवयवगुणिक्रियावदृव्यक्तिनित्यद्रव्याणि हित्वा पृथगवस्थितेरभावात् अवयवावयविनौ, गुणगुणिनौ, क्रियाङ्क्रियावन्ती, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति अयुतसिद्धपञ्चकं बोध्यम् ।
अथ समवायसाधकं प्रमाणम्
)
समवायसत्त्वे प्रमाणं तु गुणक्रियादिविशिष्टबुद्धिः विशेषणविशेष्यसम्बन्धविषया विशिष्टबुद्धित्वात् दण्डी पुरुषः इति विशिष्टबुद्धिवत् इत्यनुमानम् । पृथसिद्धद्रव्ययोरेव संयोग इति नियमात् अन संयोगबाघात् समवायसिद्धिः । ननु घटकपालादीनां वरूपसम्बन्धमभ्युपगच्छतां वेदान्तिनां तावदनेन अनुमानेन स्वरूपसम्बन्धसिध्या सिद्धसाधनम् । एवं समवायसाधने प्रवृशानां
[[15]]
नैयायिकानां स्वरूपसम्बन्धतिध्या अर्थान्तरमिति वाच्यम् । अनन्तस्वरूपाण सम्बन्धत्वकल्पने गौरवात्, लाघवात् एकसमवायसिद्धिः । )
ननु समवायस्य एकत्वे वायो रूपवत्ताबुद्धिप्रसङ्गः कथं वारणीयः । तत्र हि स्पर्शसमवायसत्त्वेन स्पर्शसम वायरूपसमवाययोरेकत्वेन ‘सम्बन्धसत्त्वे तेन सम्बन्धेन सम्बन्धिसत्त्वम्’ इति नियमेन रूपवान् वायुरिति प्रतीतिः स्यादिति चेन्न ; रूपप्रतियोगिकत्वविशिष्टसमवायस्यैव रूपसम्बन्धत्वेन तस्य च वायावभावेन । - रूपवान् वायुरिति प्रतीत्यभावात् । नच विशिष्टं शुद्धान्नातिरिच्यते इति न्यायेन वायो समवायसत्त्वे विशिष्टसमवायस्यापि सत्त्वात् तद्दोषतादवस्थ्यमिति वाच्यम्। सन्ताया विशिष्टसत्तायाश्चैश्येऽपि सत्तानिरूपिताधिकरणताया विशिष्टसत्तानिरूपिताधिकरणतायाश्च भेदवत् समवायविशिष्टसमवाययोरैक्येऽपि समवायनिरूपिताधिकरणताया रूपप्रतियोगिकत्वविशिष्टसमवायनिरूपिताधिकर णताया भिन्नत्वाङ्गीकारेण तादृशाधिकरणतायां एव रूपसम्बन्धतया तस्या वायावभावा वायू रूपवानिति प्रतीतेरभावात् ।
नव्यास्तु पृथिव्यां गन्धस्य समवायः, न जले इति प्रतीत्या समवायः नानेति वदन्ति ।
वैशिष्ट्यस्यातिरिक्तसम्बन्धत्वनिराकरणम्
भ
ननु रूपविशिष्टो घट इति प्रतीत्या यथा सम्बन्धविधया समवायः सिध्यति तथ घटाभावविशिष्टं भूतलं इति प्रतीत्या अभावस्यापि वैशिष्टयनामकं सम्बन्धान्त सिध्येदिति चेत् न 1 वैशिष्ट्यमनित्यं चेत् अनन्तवैशिष्ट्यानां सम्बन्धत्वकल्पना गौरवं स्यात् । तदपेक्षया क्लृप्तानन्तस्वरूपाणां सम्बन्धत्वकल्पने लाघवम् । उक्तप्रतीत्या वैशिष्ट्यमतिरिक्तं न सिध्यति । अस्माकं तु रूपविशिष्टो घट इ प्रतीत्या सिध्यन् समवायः नित्यः एकश्चेति । तत्र च अनन्तस्वरूपेषु सम्बन्धत्व *स्पनापेक्षमा अतिरिक्त एकस्मिन्नेव सम्बन्धत्वकल्पने लाघवात् समवायः सिध्यति वैशिष्टयस्य नित्यत्वाङ्गीकारे तु घटाभाववति भूतले घटानयनानन्तरमपि घटाभ। ववर भूतलमिति प्रमात्मकम्बुद्धिप्रसङ्गः । तत्र घटाभाववैशिष्ट्ययोरुभयोरपि सम्वनि सम्बन्धयनित्ययोः सत्त्वात् । मम तु श्यामघण्टे रक्तरूपोत्पत्तौ नित्यतया श्यामा सविस्य सत्वेऽपि सम्बन्धिनः श्यामरूपस्य अभावात् श्यामो घट इति प्रतीतेर्नापत्ति
[[16]]
[[7]]
।
नच वैशिष्टयस्य नित्यत्वाङ्गीकारेऽपि घटात्यन्ताभावस्यानित्यत्वात् घटाभाववति भूतले घटानयनामन्तरं घटात्यन्ताभावस्य नष्टस्वा प्रमात्मकघटाभावबुद्धेः प्रसङ्ग इति वाच्यम् । लाघवेनात्यन्ताभावस्य एकत्वं ताववङ्गीकरणीयम् । एवं च सति घटात्यन्ताभावस्यानित्यत्वे एतद्देशीयघटाभावना घटशून्यदेशीयघटाभावस्यापि नष्टत्वात्तत्रापि प्रमात्मकघटात्यन्ताभाववत्ताबुद्धिर्न स्यात् । ननु घटाभावभूतलयोः स्वरूपसम्बन्धवादिनः नैयायिकस्य मते घटाभाववति भूतले घटानयनानन्तरमपि नित्यतया स्वरूपसम्वन्धप्रतियोगिनः घटात्यन्ताभावस्य भूतलरूपानुयोगिनश्च सत्त्वेन तदुभयात्मक स्वरूपसम्बन्धस्यापि सत्त्वात् घटाभाववद् भूतलमिति प्रतीतिः स्यादेवेति वेद्वदामः । घटाभाववद्भ तलमिति प्रमात्मकज्ञानकालीनतत्तद्भू तलादिरेव तत्तदभावसम्बन्ध इत्यङ्गीकारेण दोषाभावात् । अतो वैशिष्ट्यं नातिरिक्तसम्बन्धतया अङ्गीकरणीयमिति ।
इति समवायप्रकरणम्
अथ अभावनिरूपणम्
अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावो ऽत्यन्ताभावोऽन्योन्याभावश्चेति । अभावं विभजतेअभावश्चतुविध इति । नञ्ञ पदजन्यप्रतीतिविषयत्वमभावत्वम् । यद्यपि कारिकावल्याम्-
अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः ।
प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च ॥ एवं वैविष्यमापन्नः संसंर्गाभाव इष्यते ।
इति संसर्गा भावत्वान्योन्याभावत्वाभ्यां द्वैविध्यमुक्तम् । तथाप्यवान्तरप्रागभावत्वादिभिविभागस्य कर्तव्यतया प्रथममेव चतुर्धा विभागः कृतः । प्रागभावत्वप्रध्वंसाभावत्वात्यन्ताभावत्वान्योन्याभावत्वरूप विभाजक्धर्मान्यतमवानभाव इति बोधः ।
अनादिः सान्तः प्रागभावः, उत्पत्तेः पूर्वं कार्यस्य । प्रागभावाप्रतियोगित्वे
सति ध्वंसप्रतियोगित्वं प्रागभावस्य लक्षणम् ।
प्रागभावस्य उत्पत्त्यभावात्
कार्योत्पत्तिक्षणे तस्य नाशाच्च तत्र लक्षणसमन्वयः । विशेष्यमावोक्तौ घटादौ, विशेषणमावोक्ती गगनादौ च अतिव्याप्तिरिति दलद्वयं सार्थकम् । घटोत्पत्तेः
पूर्व कपाले इह घटो भविष्यतीति प्रतीत्या प्रागभावः सिष्यति ।
[[17]]
.
सादिरनन्तः प्रध्वंसाभावः, उत्पत्त्यनन्तरं कार्यस्य । प्रागभावप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वं प्रध्वंसाभावस्य लक्षणम् । लगुडताडनादिना घटादिध्वंसजननात् उत्पन्नस्य ध्वंसस्य पुनर्ध्वंसाभावात् दलद्वयसत्त्वं बोध्यम् । गगनादो घटादौ च अतिव्याप्तिवारकतया विशेषणविशेष्योभयसार्थक्यं सम्भवति । अत्र च प्रागभावलक्षणे प्रागभावपदस्य, ध्वंसलक्षणे ध्वंसपदस्य च प्रवेशादात्माश्रयः । एवं प्रागभावलक्षणे ध्वंसपदस्य, ध्वंसलक्षणं प्रागभावपदस्य च प्रवेशादन्योन्याश्रयः । अतः प्रतियोगिजनकाभावत्वं प्रागभावस्य प्रतियोगिजन्याभावत्वं प्रध्वंसाभावस्य लक्षणमिति च बोध्यम् । ध्वंसप्रागभावी स्वप्रतियोगिस मवायि-
कारणवृत्ती । ध्वंसस्योदाहरणं तु ह कपाले घटो ध्वस्त इति ।
।
वैकालिकसंसर्गाभावः अत्यन्ताभावः
।
।
त्रैकालिकत्वं नित्यत्वम् । तच्च प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वम् । संसर्गाभावत्वं च अन्योन्याभावभिन्नाभावत्वम् । एवं च प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वे सति अन्योन्याभावभिन्नत्वे सति अभावत्वं लक्षणमिति सम्पन्नम् । ध्वंसप्रागभावान्योन्याभावाकाशादिवारणाय क्रमेण दलचतुष्टयम् । अथवा तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वमत्यन्ताभावत्वम् ।
बंसप्रागभावयोः सम्बन्धावच्छिन्नप्रतियोगिताकत्वविरहेण अन्योन्याभावे च तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकत्वविरहेण च तेष्वतिव्याप्त्यभावात् लक्षणस्य निर्दोषता बोध्या । इह भूतले घटो नास्ति इति प्रतीत्या अत्यन्ताभावसिद्धिः बोध्या ।
अत्यन्ताभावस्य नित्यत्वम्
ननु अत्यन्ताभावः कथं नित्यः । यत्र भूतलादी घटादिकमपसारितं पुनरानीतं च तत्र पूर्वं सतः घटात्यन्ताभावस्य घटानयनेन नाशात् । तत्र तदानीमत्रि अत्यन्ता भावस्य सत्त्वे घटानयनानन्तरमपि प्रमात्मकघटात्यन्ताभाववुद्धेः प्रसङ्गात् इति चेन्न । तन घटकाले घटात्यन्ताभावभूतलयोरुभयोः सत्त्वेऽपि घटाभाववद्भू तलमितिज्ञानकालीन भूतलस्वरूपसम्बन्धाभावेन षटात्यन्ताभाववद्भ तलमिति प्रतीतेरयोगात् । घटकालस्य तत्सम्बन्धाघटकत्वात् ।
[[18]]
केचित्तु घटानसारणेन उत्पद्यमानः घटानयनेन नश्यन् उत्पादविनाशशाली सामयिकाभावो नाम चतुर्थोऽयं संसर्गाभावः । एवं च संसर्गाभावः चतुर्विधः प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, सामयिकाभावश्चेति वदन्ति ।
ध्वंसप्रागभावयोः अत्यन्ताभावेन साकं विरोधाविरोधविचारः
प्राचीनाः घटादिध्वंसप्रागभावाधिकरणे कपालादी घटी नास्तीति प्रतीतिसम्भवेऽपि तत्र नात्यन्ताभावोऽङ्गीक्रियते । किन्तु ध्वंसप्रागभावादेव । अत्यन्ताभावस्य स्वप्रतियोगिना इव स्वप्रतियोगिध्वंसप्रागभावाभ्यां सहापि असामानाधिकरण्यात् । श्यामघटे रक्तो नास्ति, रक्तघटे श्यामो नास्ति इति धीरच रक्तरूपप्रागभावं श्यामरूपध्वंसं चावगाहते, न तु तदत्यन्ताभावं तयोर्विरोधादिति वदन्ति ।
अन नव्या : - तादृशविरोधे मानाभावात् ध्वंसादिकालावच्छेदेनापि नास्तीति प्रतीतौ सत्यां अत्यन्ताभाव एव विषयः । अत एव पूर्वं रक्ते ततः श्यामे ततो रक्ते अस्तरा श्यामे घटे रक्तं रूपं नास्तीति प्रत्ययः । न चैष प्रत्ययः पूर्वरक्तध्वंसोत्तररक्तरूपप्रागभावावगाही । एवं सति रक्तः श्यामः रक्तः ततः श्यामः ततो रक्तः यो घटः तत्र मध्यरक्ततादशायां पूर्वरक्तध्वंसोत्तररक्तरूपप्रागभावयोः सत्त्वेन रक्तं रूपं नास्तीति प्रत्ययप्रसङ्गः । इदमेव स्थलद्वयं विरङ्गीस्थलं पचरङ्गीस्थलमिति चोच्यते । अस्माकं तु रक्तं रूपं नास्तीति प्रत्ययः, अत्यन्ताभावावगाही । नहि तत्र ध्वंसप्रागभावौ विषयः, तयोः सामान्यधर्मावच्छिन्नप्रतियोगिताकत्वविरहात् इति वदन्ति ।
[[4]]
अभावस्य अधिकरणात्मकत्वखण्डनम्
•
मीमांसकाः एवं वदन्ति–अभावाः अधिकरणात्मका एव लाघवात् इति । तन्न ; अनन्ताधिकरणात्मकत्वकल्पनापेक्षया अतिरिक्ताभावकल्पनाया एव लघीयस्त्वात् । किञ्चाभावस्याधिकरणात्मकत्वे आधाराधेयपदार्थयोः प्रत्येकयोरभावेन घटाभाववद्भ तलमिति प्रामाणिकप्रतीतिर्न स्यात्, अपि च अभावस्याधिकरणात्मकत्वे पृथिव्यां वर्तमानस्य शब्दाभावस्य श्रोतेण ग्रहणं न स्यात् । श्रोतस्य पृथिवी ग्राहकत्वाभावेन तदभिन्नशब्दाभावस्याप्यग्राहकत्वप्रसङ्गात् । एवमेव गन्धरसाद्य भावानामपि तत्तदिन्द्रियाह्यत्वं स्यात् । अतोऽभावः अतिरिक्त एवाङ्गीकरणीय इति ।
.
[[19]]
अथ साधर्म्यवैधर्म्यप्रकरणम्
सप्तानामपि साधर्म्यं ज्ञेयत्वादिकमुच्यते ।
समानो धर्मः येषां ते सधर्माणः, तेषां भावः साधम्यं, समानो धर्म इति फलितोऽर्थः । एवं विरुद्धो धर्मः येषां ते विधर्माणः, तेषां भावः वैधम्र्म्यं, विरुद्धो धर्मः इति फलितोऽर्थः । तत्र च सप्तानां पदार्थानां ज्ञेयत्वमभिधेयत्वं प्रमेयत्वमित्यादिकं साधर्म्यम् । तेषां केवलान्वयित्वात् । केवलान्वयित्वं नाम अत्यन्ताभावा प्रतियोगित्वम्, निरवच्छिन्नवृत्तिमदत्यन्ताभावप्रतियो गितानवच्छेदकधर्मवत्त्वमिति फलितोऽर्थः । ज्ञेयत्वघटोभयाभावमादाय ज्ञेयत्वस्य, गगनाभावाभावमादाय गगनाभावस्य, संयोगाभावाभावमादाय संयोगाभावस्य च केवलान्वयित्वानुपपत्तिवारणाय क्रमेणानवच्छेदकत्ववृत्तिमत्त्वनिरवच्छिन्नत्वानि ।
द्रव्यादयः पञ्च भावा अनेके समवायिनः ।
षण्णां साधर्म्यं भावत्वं स्पष्टम् । तच्च समवायैकार्यसमवायान्यतरसम्बन्धेन सत्तावत्त्वम् । द्रव्यगुणकर्मसु त्रिषु समवायेन, सामान्यादिषु त्रिषु एकार्थसमवायेन सत्तायाः सत्त्वात् । एकार्थसमवायो नाम स्वसमवायिसमवेतत्वम् ।
स्वं सत्ता, तत्समवायी घटादिः, तत्समवेतत्वं घटत्वादिसामान्ये इति । द्रव्यादीनां पञ्चानां तु अनेकत्वे सति भावत्वं साधर्म्यम् । समवाये अभावे चातिव्याप्तिवारणाय क्रमेण विशेषणविशेष्यदले । ननु प्रत्येकं घटादौ आकाशादौ च अनेकत्वाभावात् तत्राव्याप्तिरिति वाच्यम् । अनेकभाववृत्तिपदार्थविभाजकोपाधिमत्त्वमिति परिष्कारे दोषाभावात् । तादृशोपाधिश्च द्रव्यत्वादिः ।
समवायित्वमपि द्रव्यादीनां पञ्चानां साधर्म्यम् । तच्च समवायप्रतियोगित्वानुयोगित्वान्यतरवत्त्वम् । समवायप्रतियोगित्वमात्रोक्तो नित्यद्रव्येषु, समवायानुयोगित्वमानोको सामान्यादावव्याप्तिरिति बोध्यम् ।
सत्तावन्तस्त्रयस्त्वाद्याः
आद्यश्च बाद्यश्च आद्यश्च ब्राद्याः । द्रव्यगुणकर्मरूपाः त्रयः पदार्थाः सत्तावन्तः एषां समवायसम्बन्पेन सत्तावत्त्वं साधम्र्म्यमित्यर्थः ।
[[20]]
गुणादिनिर्गुणक्रियः ।
गुणशून्यत्वं क्रियाशून्यत्वं च गुणादीनां षण्णां साधर्म्यम् । ननु स्वगतगुणं क्रियां च प्रति स्वस्य समवायिकारणत्वात्, कारणस्य च कार्यम्पूर्ववृत्तित्वनियमात् ’ उत्पन्नं द्रव्यं क्षणमगुणमक्रियाकं च तिष्ठति’ इतिन्यायाङ्गीकारेण आद्यक्षणावच्छिन्ने घटे गुण क्रियाशून्यत्वं साधर्म्यमतिव्याप्तम् । क्रियाशून्यत्वं च गगनादावप्यतिव्याप्तमिति चेन्न गुणशून्यत्वमित्यस्य गुणवदवृत्तिधर्मवत्त्वमित्यर्थाङ्गीकारे दोषाभावात् । एवं कर्मशून्यत्वं कर्मवदवृत्तिपदार्थविभाजकोपाधिमत्त्वमिति परिष्करणीयम् । न हि घटत्वं द्रव्यत्वं वा गुणवदवृत्ति, कर्मवदवृत्ति वा किन्तु गुणत्वं कर्मत्वादिकं च तथा, आकाशत्वादिकं च न पदार्थविभाजकोपाधिः ।
सामान्यपरिहीनास्तु सर्वे जात्यादयो मताः ॥ सामान्यनिरूपितसमवायसम्बन्धावच्छिन्नाधिकरणताशून्यत्वं
सामान्यादीनां
साधर्म्यमित्यर्थः । एकार्थसमवायसम्बन्धेन सामान्यादी
तस्याधिकरणता नियामकत्वाभावान्न दोषः ॥
पारिमाण्डत्यभिन्नानां कारणत्वमुदाहृतम् ।
सामान्यसत्त्वेऽपि
परितो मण्डलं यस्य सः परिमण्डलः, तस्य भावः पारिमाण्डल्यम्, परमाणुपरिमाणं, लक्षणया द्वयणुकपरिमाणं च कारणत्वं तद्भिन्नानां साधर्म्यमित्यर्थः । परमाणुपरिमाणेन द्वयणुकपरिमाणेन च किमपि कार्यं न जायते । अतः तद्भित्रानामेव कारणत्वं साधर्म्यमित्यर्थः ।
.
ननु अणुपरिमाणस्य कुतो न कारणत्वमिति चेदुच्यते । परिमाणसामात्यं हि स्वाश्रयारब्धद्रव्यपरिमाणारम्भकं दृष्टम् ! यथा कपालपरिमाणादिकम् । अणुपरिमाणस्य तु स्वाश्रयारब्धद्रव्यपरिमाणारम्भकत्वं न सम्भवति । परिमाणसामान्यस्य स्वसमानजातीयोत्कृष्ट परिमाणजनकत्वनियमेन
महदारब्धस्य महत्तरत्ववत् अणुजन्यस्याणुतरत्वप्रसङ्गात् । तर्हि द्वयणुकपरिमाणस्य किमसमवायिकारणमिति चेत् परमाणुगत द्वित्वसङ्ख्यैवेति जानीहि । एवं तसरेणुपरिमाणस्य द्वयणुकगतत्रित्वसङ्ख्यैव कारणमिति बोध्यम् । नन्वेवं कपालगत द्वित्वसङ्ख्यैव घटादिपरिमाणस्यापि कारणमस्तु इति चेन्न । द्वित्व सङ्ख्यायामणुपरिमाणा रम्भकत्वम्य द्वयणुके दृष्टतया प्रकृतेऽपि घटपरिमाणस्याणुत्वापत्या घटस्याप्रत्यक्षत्वापत्तेः, द्रव्यप्रत्यक्षे महत्त्वस्य कारणत्वात् ।
[[21]]
[[4]]
पारिमाण्डत्यपदं परममहत्परिमाणस्य, अतीन्द्रियसामान्यस्य विशेषाणां चोपलक्षणम् । तथाच तेषामपि न कुत्रापि कारणत्वमिति बोध्यम् । ननु विषयतया प्रत्यक्षं प्रति तादात्म्येन विषयस्य कारणत्वात् पारिमाण्डल्यादिचतुष्टयस्यापि योगिप्रत्यक्ष कारणतया पारिमाण्डल्यभिन्नानामित्ययुक्तमिति चेन्न योगजधर्मेणातीतानागतविषयस्य प्रत्यक्षत्वात् योगिप्रत्यक्षे विषयस्य कारणत्वानुपगमात् । ननु ज्ञायमानसामान्यस्य प्रत्यासत्तितया ’ सर्वे परमाणवः अणुपरिमाणवन्तः’ इत्यादिसामान्यलक्षणाजन्यज्ञाने पारिमाण्डल्यादेरपि कारणत्वात् पारिमाण्डल्यादेरकारणत्वकथनमयुक्तमेवेति चेन्न ; ज्ञायमान सामान्यस्य प्रत्यासत्तित्वे यत्र तद्घटनाशानन्तरं तद्घटवतः स्मरणं जातं तत्र सामान्यलक्षणप्रत्यासत्त्या सर्वेषां तद्घटवतां भानानापत्तिः । अतः सामान्यज्ञानमेवं सामान्यलक्षणप्रत्यासत्तिरित्यङ्गीकारेणादोषात् । ननु तथापि अनुमिति प्रति ज्ञायमानलिङ्गस्य कारणतया परमाणौ परमाण्वन्तरभेदसाधने विशेषस्य हेतुतया विशेषो न कस्यापि कारणमित्ययुक्तमिति चेन्न ; इयं यज्ञशाला अतीतवह्निमती अतीतघूमात् इत्यनुमितेर्दर्शनात् अनुमिति प्रति लिगज्ञानस्यैव कारणत्वेन दोषाभावात् । धूमस्याहेतुत्वेऽपि धूमपदस्य धूमज्ञाने लक्षणाङ्गीकारेण धूमात् इति पञ्चमी उपपद्यत एव ।
नन्दात्ममानसप्रत्यक्षे आत्ममहत्त्वस्य कारणत्वात् परममहत्परिमाणं न कस्यापि कारणमित्ययुक्तमिति चेन्न ; आत्मपरममहत्परिमाणातिरिक्तपरममहत्परिमाणं न कस्यापि कारणमिति स्वीकारेण अदोषात् ।
केचित्तु ‘कारणत्वं चान्यत्न पारिमाण्डल्यादिभ्यः’ इति प्रशस्तपादभाष्यमुपादाय ‘आदिपदेन परममहत्त्वं गृह्यते’ इति किरणावल्यामुदयनाचार्योक्त्या आत्मपरममहत्परिमाणमपि न कस्यापि कारणमित्यवगम्यते इति वदन्ति । तन्न । कारणत्वं च ज्ञातृधर्मेतरभावकार्यापेक्षया इत्युत्तरग्रन्येन ज्ञानातिरिक्तं प्रत्येव अकारणत्वरथ परममहत्परिमाणे उदयनाचार्याभिमततया सात्मपरममहत्परिमाणस्य ज्ञानेऽपि न कारणत्वमित्याचार्याभिप्रायस्य वक्तुमशक्यत्वादिति ।
कारणं कार्यनियतपूर्ववृत्ति। तच्च त्रिविधं समवायि असमवाथि निमित्तभेदात् । तत्र घटादिकं प्रति कपालादिकं समवायिकारणम् । कपालसंयोगः असमवायिकारणम् । दण्डचक्रादि निमित्तकारणम् । तत्र च-
[[22]]
।
समवायिकारणत्वं द्रव्यस्यैवेति विज्ञेयम् ।
गुणकर्ममात्रवृत्ति ज्ञेयमथाप्यसमवायिहेतुत्वम् ॥
त्रिविधत्वेन दर्शितायाः कारणतायाः विषयव्यवस्था अत्र क्रियते । समवायिकारणत्वं द्रव्ये, असमवायिकारणत्वं गुणकर्मणोः इति । न तु अन साधर्म्यकथने तात्पर्यम् । निमित्तकारणत्वं तु सर्वत्रैवास्तीति । गुणकर्मसामान्यस्य असमवायिकारणत्वं साधर्म्यमित्युक्ते पारिमाण्डल्येऽव्याप्तिश्च । अतः गुणकर्मभिन्नानां असमवायिकारणत्वं वैधर्म्यमित्येवार्थः । अथवा असमवायिकारणवृत्तिसत्ताभिन्नजातिमत्त्वं गुणकर्मणोः साधर्म्यमित्यर्थः । तेन ज्ञानादीनामसमवायिकारणत्वाभावेऽपि नाव्याप्तिः इति बोध्यम् ।
अन्यत्र नित्यद्रव्येभ्यः आश्रितत्वमिहोच्यते ।
पृथिव्यादिचतुष्टय परमाणवा आकाशादिपश्वकच नित्यद्रव्याणि ।
। तानि विहाय आश्रितत्वं साधर्म्यम् । कालिकविशेषणतासम्बन्धेन, दैशिकविशेषणतासम्बन्धेन च नित्यानामपि कालदिशोः वृत्तित्वमस्ति । कालस्य दिशश्च सर्वाधारत्वात् । अतः सर्वाधारतानियामकसम्बन्धभिन्न समवायादिसम्वन्धेन वृत्तिमत्त्वं नित्यद्रव्यातिरिक्तानां साधम्यं बोध्यम् ।
क्षितिर्जलं तथा तेजः पवनो मन एव च ।
परापरत्वमृर्तत्वक्रियावेगाश्रया अमी ॥
अत्र द्रव्यस्यैव विशिष्य. साधर्म्यमुच्यते । पृथिव्यप्तेजोवायुमनसां परत्वापरत्ववत्त्वं, भूर्तत्वं क्रियावत्त्वं वेगवत्त्वं च साधर्म्यम् । अन मूर्तत्वं नाम अपकृष्टपरिमाणवत्त्वं क्रियावत्त्वं वा ।
कालखात्मदिशां सर्वगतत्वं परमं महत् ।
कालाकाशात्मदिशां सर्वगतत्वं परममहत्त्वं च साधर्म्यम् । सर्वगतत्वं नाम सर्वमूर्तद्रव्यसंयोगित्वम् इदमेव विभुत्वम् ।
परममहत्त्वम् ।
,
अपकर्षानाश्रयपरिमाणवत्त्वमेव
क्षित्यादिपञ्च भूतानि चत्वारि स्पर्शवन्ति हि । पृथिव्यप्तेजोवाय्वाकाशानां भूतत्वं साधन्यम्म् । भूतत्वं नाम वहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम् । मनोभिन्नेन्द्रियजन्यप्रत्यक्षविषयविशेषगुणवत्त्वमिति यावत् ।
[[23]]
मनोभिन्नं यत् इन्द्रियं चक्षुरादि तज्जन्यं यत् प्रत्यक्षं अयं शुक्लः पटः, इयं नीला मषी इत्यादिप्रतीक्षं तद्विषयरूपादिविशेषगुणवत्त्वं पृथिव्यादौ वर्तत इति रीत्या लक्षणसमन्वयः । नच परमाणुवृत्तिगुणानां प्रत्यक्षविषयत्वाभावात् तत्नाव्याप्तिः । एवं ज्ञातो घटः इत्यत्र ज्ञानस्यापि अलौकिकप्रत्यक्षविषयत्वात् तद्वति आत्मनि अतिव्याप्तिरिति वाच्यम् । मनोभिन्नेन्द्रियजन्यप्रत्यक्षनिरूपितलौकिकसन्निकर्षप्रयोज्यविषयतावच्छेदकजातिमद्विशेषगुणवत्त्वमिति परिष्कारै दोषाभावात् । अथवा आत्मावृत्तिविशेषगुणवत्त्वं भूतत्वमिति वक्तव्यं लाघवात् । अस्मिन् लक्षणे ज्ञानमादाय आत्मन्यतिव्याप्तिवारणाय आत्मावृत्तीति । दैशिकपरत्वापरत्वे आदाय मनस्यतिव्याप्तिवारणाय विशेषेति । चत्वारि स्पर्शवन्ति हि इत्यनेन पृथिव्यप्तेजोवायूनां चतुर्णां समवायेन स्पर्शवत्त्वं साधर्म्यमुक्तमिति बोध्यम् ।
द्रव्यारम्भश्चतुर्षु स्यात् अथाकाशशरीरिणाम् । अव्याप्यवृत्तिः क्षणिको विशेषगुण इष्यते ॥
पृथिव्यप्तेजोवायुषु चतुर्षु द्रव्यारम्भकत्वं साधर्म्यम् । पार्थिवादिपरमाणूनारम्य सर्वत्र पार्थिवादिद्वयणुकारम्भकत्वस्य सत्त्वात् समन्वयः । यद्यपि घटपटादयः द्रव्यानारम्म्भकाः इति तत्वाव्याप्तिः, तथापि द्रव्यसमवायिकारणवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं तदर्थो बोध्यः । अन वृत्त्यन्तानुपादाने द्रव्यत्वव्याप्यात्मत्वजातिमादाय आत्मन्यतिव्याप्तिः । द्रव्यत्वस्यापि द्रव्यत्वव्याप्यत्वात् पुनरुक्तदोषतादवस्थ्यमतो द्रव्यत्वभिन्नेति जातौ विशेषणं देयम् । द्रव्यपदानुपादाने ज्ञानसमवायिकारणे आत्मनि बर्तमानां द्रव्यत्वव्याप्यामात्मत्वजातिमादाय आत्मन्यतिव्याप्तिरिति सर्वं सार्थकम् । आकाशात्मनामव्याप्यवृत्तिक्षणिकविशेषगुणवत्त्वं साधर्म्यम् ।
बुद्धयादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः । अदृष्टभावनाशब्दा अभी वैशेषिका गुणाः ॥
इति विशेषगुणाः प्रसिद्धाः । तत्र आकाशस्य विशेषगुणः शब्दः । स चाव्याप्यवृत्तिः ।
1 यदा भेर्यवच्छेदेन शब्दः उत्पद्यते तदा मृदङ्गावच्छेदेन आकाशे शब्दाभावस्यापि सत्त्वात् । एवं च अव्याप्यवृत्तित्वं नाम स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् । स्वं शब्दः, स्वाधिकरणं आकाशः, तद्वृत्तिः यः अत्यन्ताभावः
[[24]]
अन्यावच्छेदेन शब्दात्यन्ताभावः, तत्प्रतियोगित्वं शब्दे । एवं ज्ञानादिकमपि अव्याप्यवृत्ति, विभी आत्मनि शरीरावच्छेदेन ज्ञानोत्पत्ती घटाद्यवच्छेदेन तदभावस्यापि सत्त्वात् । क्षणिकत्वं च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम् । योग्यविभुविशेष-
·
गुणानां स्वोत्तरवर्तिगुणनाश्यत्वात् प्रथमशब्दस्य द्वितीयशब्देन नाशः । एवं प्रथमक्षणोत्पन्नज्ञानादेः द्वितीयक्षणोत्पन्नेच्छादिना नाशात् तत्रापि क्षणिकत्वं वोध्यम् । एवं च अव्याप्यवृत्तिविशेषगुणवत्त्वं क्षणिकविशेषगुणवत्त्वं चेति आकाशात्मनां साधर्म्यद्वयम् । विशेषगुणवत्त्वमात्रोक्ती पृथिव्यादौ रूपादिविशेषगुणसत्त्वेनातिव्याप्तिः स्यात् । अतः अव्याप्यवृत्तीति । पृथिव्यादी अव्याप्यवृत्तिसंयोगादिसत्त्वेन पुनरतिव्याप्तिवारणाय विशेषेति ।
शब्दज्ञानादेः क्षणिकत्वविचारः
यत्न प्रतियोगितासम्बन्धेन योग्नविभुविशेषगुणनाशः तत्र स्वसामानाधिकरण्यस्वाव्यवहितपूर्ववर्तित्वोभयसम्बन्धेन योग्यविभुविशेषगुणः इति सामानाधिकरण्येन नायकत्वं बोध्यम् । प्रतियोगितासम्बन्धेन शब्दादिगुणनाशः शब्दादौ, तत्र स्वपदप्राह्यद्वितीयशब्दादिसामानाधिकरण्यमस्ति उभयोरेकस्मिन् आकाश एव सत्त्वात् एवं द्वितीयशब्दाव्यवहितपूर्ववर्तित्वमपि प्रथमशब्दे वर्तत इति ( सम्बन्धद्वयेन नाशकस्य नाश्यस्य च कार्यकारणभावः) । कार्यतावच्छेदके योग्यत्वानिवेशे प्रायश्चित्तादिजम्यादृष्टनाशेऽन्वयव्यभिचारः । ज्ञानादिना अदृष्टानाशात् । योग्यत्वं च लौकिकसाक्षात्कारविषयनिर्विकल्पकान्यतरत्वम् । तच्च अदृष्टे नास्तीति न व्यभिचारः । निधिकल्पकस्य स्वोत्तरोत्पन्नज्ञानादिना नाशसङ्गमनाय योग्यत्वे निर्विकल्पकप्रवेशः । ख्वादिनाशे व्यतिरेकव्यभिचारवारणाय विभु इति । संयोगनाशे व्यभिचारवारणाय . विशेषेति ।
"
क्षणिकत्वविचार
ननु तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वं क्षणिकत्वमित्युक्तम् । घटादिवृत्तिरूपादीनामपि कदाचित् तृतीयक्षणे, घटोत्पत्तितृतीयक्षणे घटनाशस्थले नाशसम्भवात् तादृशक्षणिकत्वविशिष्टविशेषगुणवत्त्वं क्षित्यादी मतिव्याप्तमिति चेन्न ।
चतुः’ क्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वं आकासात्मनां साधर्म्यमिति परिष्कारे दोषाभावात् । चतुःक्षणवृत्तीनि यानि जम्यानि घटादीनि तदवृत्तिः या जातिः
N. P.-Sahitya
[[3]]
[[25]]
शब्दत्वज्ञानत्वादिजातिः, तद्वान् विशेषगुणः शब्दज्ञानादिः, तद्वत्त्वमाकाशात्मनोरिति रीत्या लक्षणसमन्वयः । अत्रेदं बोध्यम् ।
अत्रेदं वोध्यम् । प्रथमम् अयमेकः अयमेकः इत्येवंरूपा अपेक्षाबुद्धिः, ततो द्वित्वोत्पत्तिः, ततः द्वित्वत्वनिविकल्पकात्मकं विशेषणज्ञानम्, ततः द्वित्वत्वविशिष्ट द्वित्वप्रत्यक्षम्, अपेक्षा बुद्धिनाशश्च ततः द्वित्वनाशः इति प्रक्रिया । एवं च अपेक्षाबुद्धिः क्षणवयं तिष्ठति । योग्यविभुविशेषगुणानां स्वोत्तरवर्तिविशेषगुणनाश्यत्वनियमेsपि अपेक्षाबुद्धिः क्षणवयं तिष्ठति । तस्याः द्विक्षणमात्रावस्थायित्वे द्वित्वत्वनिर्विकल्पककाले अपेक्षाबुद्धेः नाशे तदनन्तरं द्वित्वस्यैव नाशात् विषयाभावेन द्वित्वस्य प्रत्यक्षं न स्यात् । अतः विक्षणावस्थायित्वं कल्पनीयम् । एवं च प्रथमोपस्थितत्वरूपलाघवेन त्रिक्षणवृत्तिजन्यावृत्ति इत्याद्युक्तो ज्ञानत्वस्य सङ्ग्रहो न स्यात् । अतः चतुःक्षणवृत्ति इत्युक्तम् । ज्ञानत्वादेः जन्य वृत्तित्वात् असम्भववारणाय चतुःक्षणवृत्ति इति । चतुःक्षणवृत्त्यवृत्ति इत्याद्युक्तौ ईश्वरज्ञानस्य नित्यतया चतुःक्षणवृत्तित्वेन ज्ञानत्वस्य अतादृशत्वात् तदादाय समन्वयो न स्यात् । अतः जन्येति ।
चतुः क्षणवृत्तिजन्यावृत्तिपरम महत्व त्त्वजातिमद्गुणवत्त्वस्य कालादौ सत्त्वादतिव्याप्तिरतो विशेषेति । यदि परममहत्त्वत्वं न जातिः, किन्तु अपकर्षानाश्रयपरिमाणत्वमित्युच्यते तदा चतुर्थक्षणे द्वित्वादीनामपि नाशाभ्युपगमात् द्वित्वादीनामपि चतुःक्षणवृत्तिरूपाद्यवृत्तिद्वित्वत्वादिजातिमद्गुणत्वेन तद्वत्सु पथिव्यादिद्रव्येष्वतिव्याप्तिरिति विशेषपदोपादानम् ।
अथवा त्रिक्षणवृत्त्यवृत्तिजातिमद्विशेषगुणवत्त्वं साधर्म्यमिति वक्तव्यम् । शेषत्वाविजातिमादाय लक्षणसमन्वयः । इदं चाकाशजीवात्मनामेव साधम्पम्म् । अतः परमात्मनि समन्वयो नापेक्षितः । यदि परमात्मनोऽपि साधर्म्यमभिमतं ता विक्षणवृत्तिजन्यावृत्तिजातिमद्विशेषगुणवत्त्वमिति
लक्षणसमन्वय इति ।
लक्षणम् ।
रूपद्रवत्वप्रत्यक्षयोगिनः प्रथमास्त्रयः ।
इच्छात्वमादार
पृथिव्यप्तेजसां रूपवत्त्वं द्रवत्वयत्त्वं प्रत्यक्षविषयत्वं च साधर्म्यम् । चक्षुरादीनां ‘भर्जनकपालस्थवः ऊष्मणश्च रूपवस्त्रे न प्रत्यक्षप्रमाणमस्ति तथापि तेजस्त्वेन तत्रापि रूपमनुमातव्यम् । एवं सुरभिः वायुः शीतः समीरणः, उष्णोऽनिल
[[26]]
इत्यादिप्रतीतिषु पृथिव्यादीनामेव गन्धादयः गुणाः, तत्र पृथिवीत्वादिना रूपानुमान बोध्यम् ।
घटादी, द्रुतसुवर्णादिभिन्ने तेजसि च द्रवत्ववत्त्वमव्याप्तम्, तथापि द्रवत्ववद्वृत्ति द्रव्यत्वव्याप्यजातिमत्त्वं इति परिष्कारः करणीयः । घृतादौ पृथिव्यां जले, द्रुतसुवर्णादितेजसि च द्रवत्वसत्त्वात् घृतादिवृत्तिद्रव्यत्वव्याप्यपृथिवीत्वादिजातिमादाय लक्षणसमन्वयो बोध्यः ।
यद्यपि प्रत्यक्षविषयत्वं परमाण्वादावव्याप्तं, रूपादावतिष्याप्तं च, तथापि चाक्षुषलौकिकप्रत्यक्षविषय वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमिति परिष्करणीयम् । अत्रात्म-
न्यतिव्याप्तिवारणाय चाक्षुषेति ।
गुरुणी द्वे रसवन्ती द्वयोनैमित्तिको द्रवः ।
गुरुत्ववत्त्वं रसवत्त्वं च पृथिवीजलयोः साधर्म्यम् । पृथिवीतेजसोः नैमित्तिक-
द्रवत्ववत्त्वं साधर्म्यम् ।
आत्मानो भूतवर्गाश्च विशेषगुणयोगिनः ।
पृथिव्यप्तेजोवाय्वाकाशात्मनां विशेषगुणवत्त्वं साधर्म्यम् ।
यदुक्तं यस्य साधर्म्य वैधर्म्यमितरस्य तत् ।
[[१]]
ज्ञेयत्वादिकेवलान्वयिधर्मान् विहाय यस्य यत् साधर्म्यमुक्तं तत् इतरस्य
वैधर्म्यम् ।
स्पर्शादयोऽष्टौ वेगाख्यः संस्कारो मरुतो गुणाः ।
स्पर्शाद्यष्टौ रूपवेगौ द्रवत्वं तेजसो गुणाः ॥ स्पर्शादयोऽष्टौ वेगश्च गुरुत्वं च द्रवत्वकम् । रूपं रसस्तथा स्नेहो वारिण्येते चतुर्दश ॥ • स्नेहहीना गन्धयुताः क्षितावेते चतुर्दश । बुद्धयादिषट्कं सङ्ख्यादिपञ्चकं भावना तथा ॥ धर्माधम गुणा एत आत्मनः स्युश्चतुर्दशम् । सङ्ख्यादिपञ्चकं कालदिशोः शब्दश्च ते च खे ॥ सङ्ख्यादयः पञ्च बुद्धिरिच्छा यत्नोऽपि चेश्वरे । परापरत्वे सङ्ख्याद्याः पच वेगश्च मानसे ॥
[[27]]
तव गन्धरती पृथिवी । सा द्विविधा नित्या अनित्या च । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा । शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः ।
।
प्रथमोद्दिष्टां पृथिवीं निरूपयति - तत्र गन्धवतीति । गन्धवत्त्वं पृथिव्याः लक्षणम् । लक्ष्या पृथिवी । लक्ष्यतावच्छेदकं पृथिवीत्वम् । यस्य लक्षणमुच्यते तल्लक्ष्यम् । यद्धर्मावच्छिन्नं लक्ष्यं स धर्मो लक्ष्यतावच्छेदकः । पृथिवीनिष्ठा लक्ष्यता पृथिवीत्वावच्छिन्ना । यो धर्मः यस्यामवच्छेदकः सा तद्धर्मावच्छिन्ना इति नियमात् । एवं च लक्ष्यतावच्छेदकावच्छिन्नायां पृथिव्यां गन्धवत्त्वरूपलक्षणसत्त्वाल्लक्ष्ये लक्षणसमन्वयः । अलक्ष्ये जलादी गन्धासत्त्वान्नातिव्याप्तिः । सुगन्धि जलम्, सुगन्धिः समीरणः इत्यादिप्रतीतिस्तु स्वाश्रयसंयोगसम्बन्धेन कुसुमादिगतगन्धमेव जलादी विषयीकरोति न तु समवायेन, समवायेन गन्धवत्त्वस्यैव पथिवीलक्षणत्वाभ्युपगमात् ।
अन्न गन्धवत्त्वं नाम गन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वम् । गन्धः आधेयः । पृथिवी अधिकरणम् । गन्धनिष्ठा आधेयता । पृथिवीनिष्ठा अधिकरणता । आधेयताया अधिकरणतायाश्च निरूप्यनिरूपकभावः सम्बन्धः । स च कश्चन पदार्थस्वरूपसम्बन्धविशेषः । तथाच गन्धनिष्ठा या आधेयता पृथिव्यां गन्धोऽस्तीत्याकारकप्रतीतिसिद्धा गन्धनिष्ठा आधेयता, तन्निरूपिता या अधिकरणत्ता पृथिवीनिष्ठा अधिकरणता, तदाश्रयत्वं पृथिव्यां वर्तते इति रीत्या लक्ष्ये लक्षणसमन्वयः ।
नन्वेवं कालस्य सर्वाधारतया कालिकसम्बन्धेन सर्वान्तर्गतगन्धस्यापि काले वर्तमानतया अतिप्रसङ्गः । गन्धनिष्ठकालिकसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयत्वस्य काले विद्यमानत्वात् इति चेन्न । गन्धनिष्ठाधेयतायां समवायसम्बन्धावच्छिन्नत्वं निवेशनीयम् । तन्निवेशे च समवायसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयत्वस्य कालेऽसत्त्वान्नातिव्याप्तिः । ननु एवमपि जलादी अतिव्याप्तिः । गन्धे द्वे आधेयते वर्तेते, एका गन्धत्वावच्छिन्ना, अपरा गुणत्वावच्छिन्ना । तत्र गुणत्वस्यापि सत्त्वात् तत्र एकधर्मावच्छिना आधेयता एकैव इति नियमेन
[[8]]
गन्धनिष्ठ गुणत्वावच्छिनाधेयतानिरूपिताधिकरणताश्रयत्वस्य जलेsपि सत्त्वादिति चेन्न आधेयतायां गन्धत्वावच्छिन्नत्व निवेशे, जलादी शीतस्पर्शादिनिष्ठगुणत्वावच्छिन्नाधेयतानिरूपिताधिकरणतायाः सत्त्वेऽपि गन्धत्वावच्छिन्नाधेयतानिरूपिताधिकरणताया अभावान्नातिव्याप्तिः ननु तथापि उत्पन्नविनष्टघटे गन्धाभावात् तत्राव्याप्तिः, एवं सुरभ्यसुरभिकपालान्धे घण्टे चितगन्धानङ्गीकारेण तत्र अवयवगन्धस्यैव प्रतीत्या अवयविनि घटे गन्धाभावात् तत्त्राप्यव्याप्तिः इति चेन्न । सम्वन्धावच्छिन्नगन्धत्वावच्छिन्नगन्धनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्तिजातिमत्त्व
रागवाय-
मिति लक्षणपरिष्कारे उत्पन्नविनष्टघटादी सुरभ्यसुरभ्यवयवार च समनावसम्बन्धेन गन्धाभावेऽपि समवायम्बन्धेन गन्धवत्पुष्पादिवृत्तिपृथिवील जातिमत्त्वस्य सपानाव्याप्तिः ।
स्वतगुणादिकं प्रति कारणतया घटोत्पत्तिका एव तत गुणाद्यङ्गीकारे पूर्ववृत्तित्वरूपकारणत्व भङ्गप्रसङ्गात् आयक्ष पटेगोकार्यः । द्वितीयक्षणे घटस्यैव नाशात् उत्पन्नविनष्टघटे गन्धो नाङ्गीकर्तु ते। न चैवन जलादावतिव्याप्तिः । तादृशाधिकरणतावत्पुष्पादिवृत्तिसत्ता रूप व्यापकजातिमत्त्वस्य तत्र सत्त्वादिति वाच्यम् । जातो द्रव्यत्वव्याप्यत्वविशेषणदाने सत्ताजातेः द्रव्ये, द्रव्यत्वाभाववद्गुणादौ च वृत्तित्वेन द्रव्यत्वाभाववददृत्तित्वरूपद्रव्यत्वव्याप्यत्वाभावात् न तां जातिमादायातिप्रसङ्गः । एवमपि द्रव्यत्वस्य गन्धवद्वृत्तित्वेन द्रव्यत्वव्याप्यत्वेन च ‘पुनः द्रव्यत्वजातिमादाय जलादावतिव्याप्तिरिति चेत् उच्यते । अन्न द्रव्यत्वन्यूनवृत्तित्वरूपं द्रव्यत्वव्याप्यत्वं निवेशनीयम् । तच्च तत्समानाधिकरण भेदप्रतियोगितावच्छेदकत्वरूपम् । द्रव्यत्वाधिकरणं जलं तद्वृत्तिः यः पृथिवी नेति प्रतीतिसिद्धभेदः तत्प्रतियोगितावच्छेदकं पृथिवीत्वमेव न द्रव्यत्वम्, नापि सत्ता, द्रव्यत्वाधिकरणे सत्तावन्नेति भेदस्याप्यभावात् । अतः द्रव्यत्वजाति सत्ताजाति वा आदाय जलादी नातिव्याप्तिः । अत लक्षणे जातित्येन जातिमनिवेश्य तादृशधर्मत्रत्त्वमित्युक्तौ, द्रव्यत्वाधिकरण । काशादिनिष्ठ भेदप्रतियोगितावच्छेदकी भूतजलपृथिव्यन्यतरत्वमादाया जलेऽतिव्याप्तिः । समवायसम्बन्धेन तादृशधर्मवत्त्वनिवेशे अन्यतरत्वस्य भेदगावच्छिन्नप्रतियोगिताकभेदरूपतया स्वरूपसम्बन्धेनैव वृत्तेः न पूर्वोक्तातिव्याप्तिरिति शक्यते वक्तुं तथापि गन्धसमानाधिकरणं द्रव्यत्व समानाधिकरणभेदप्रतियोगितावच्छेदकं समवायेन वर्तमानं जलपृथिवीसंयोगरूपं धर्ममादाय जलेऽतिव्याप्तिःः
[[29]]
संयोगस्य द्विनिष्ठत्वात् । अतः जलादौ अतिव्याप्तिवारणाय जातित्वेन जातिनिवेशः ।
तथा च समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नगन्ध निष्ठाधेयतानिरूपिताधिकरणावद्वृत्तिः द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदिका या जातिः तद्वत्त्वं पृथिव्याः लक्षणमिति फलितम् । समवायेन गन्धाधिकरणं पुष्पादि पृथिवी, तद्वृत्ति द्रव्यत्वाधिकरणजलादिवृत्तिश्च यो भेदः जलं पृथिवी नेति प्रतीतिसिद्धो भेदः, तत्प्रति योगितावच्छेदकी भूतपृथिवीत्वजातिमत्त्वं पृथिव्यां वर्तत इतिरीत्या लक्षणसमन्वयः ।
तत्र क्षितिमन्वहेतुः नानारूपवती मता’ इति कारिकायां पृथिव्याः गन्धहेतुत्वं लक्षणमुक्तम् । तावन्मात्रस्य कालादावतिव्याप्त्या गन्धसमवायिकारणत्वं तदर्थः । समवायसम्बन्धावच्छिन्नगन्धत्वावच्छिन्नकार्यतानिरूपिततादात्म्य सम्वन्धावच्छिन्नकारणताश्रवत्वं पृथिव्याः लक्षणमिति निष्पन्नम् । यद्यपि पूर्वोक्तरीत्या गन्धवत्त्वमात लक्षणमुचितम्, तथापि पृथिवीजजात प्रमाणोपन्यास येदं लक्षणमुदितम् । समवायेन गन्यं प्रति तादात्म्येन पृथिवी कारणमिति कार्यकारणभावात् समवायसम्बन्धावच्छिन्नमन्धत्वावच्छिन्नकार्बतानिरूपिता तादात्म्यसम्बन्धावच्छिन्ना पृथिवीनिष्ठा या कारणता सा किचिद्धमविच्छिन्ना कारणतात्वात् इत्यनुमानेन पृथिवीत्वजातिः सिध्यति । उक्तकार्यकारणभावानङ्गीकारे गन्धत्वावच्छिन्नस्य आकस्मिकत्वापत्त्या जलादावपि गन्धोत्पादप्रसङ्गात् ।
पाषाण गन्धसाधनम्
ननु गन्त्रवत्त्वस्य पृथिवीलक्षणत्वे पाषाणेऽव्याप्तिः इति चेन्न ; पाषाणो गन्धवान् पृथिवीत्वात् पुष्पवत् इत्यनुमानेन तवापि गन्धसाधनसम्भवात् । तत्र हेतोरसिद्धिशङ्कायां पाषाणः पृथिवी गन्धवद्द्रव्यारब्धत्वात् घटवदिति साऽसिद्धिशङ्का परिहरणीया । ननु गन्धवद्द्द्रव्याणि नाम पाषाणावयवाः, तेषां गन्धवत्त्वे कि मानमिति चेत् पाषाणावयवाः गन्धवन्तः गन्धवद्भस्मद्रव्यारम्भकत्वात् इत्यनुमानस्यैव तन मानत्वात् । नच भस्मनः पाषाणावयवारव्धत्वे प्रमाणाभाव इति वाच्यम् । भस्म पाषाणोपादानोपादेयं द्रव्यत्वे सति पाषाणध्वंसजन्यत्वात् । यद्द्रव्यं यद्द्रव्यध्वंसजन्यं तत् तदुपादानोपादेयं यथा महापटध्वंस जन्यः खण्डनटः इत्यनुमानेन तत्सिद्धिसम्भवात् ।
नच पापाणो गन्धवान् पृथिवीत्वादित्यनुमानस्य सुरभ्यसुरभि-
[[30]]
कपालारब्धे निर्गन्धघटे व्यभिचार इति वाच्यम् । तत्रापि गन्धवत्त्वस्य नव्यरङ्गीकारेण व्यभिचाराभावात् ।
ननु पृथिव्याः अनित्यत्वे अवयवानन्त्यापत्तिः, नित्यत्वे कार्यस्य गन्धवतो द्रव्यान्तरत्वापत्तिः । अतः तां विभजते-सा द्विविधेति । नित्यत्वानित्यत्वरूपविभाजकधर्मान्यतरवतीं पृथिवी इति वोधः । नित्या परमाणुरूपेति । अनवस्थाभयेन तस्या निरवयवत्वात् अवयवनाशतत्संयोगनाशरूपनाशकाभावात् परमाणोः नित्यत्वम् । अनित्याः कार्यरूपेति । द्वणुकादिब्रह्माण्डान्ता पृथिवी अनित्येत्यर्थः । प्रकारान्तरेण पृथिवीं विभजते-पुनरिति । अत्र शरीरेन्द्रियविषयभेदन विभागः पृथिवीमात्नस्यैव, नानित्यपृथिव्याः । पुनः पदवैयर्थ्यप्रसङ्गात् । परमाणूनां ईश्वरीयप्रत्ययविषयत्वेन विषयेष्वन्तर्भावात् । पृथिव्यादिचतुष्टयस्य द्वेधा विभागस्य प्रयोजनन्तु प्रथमप्रकारेण जगदुपादानकारण विवेकः । द्वितीयप्रकारेण द्रव्यस्य भोगसम्पादकः । पार्थिवशारीरं दर्शयतिशरीरमिति । अस्मदादिभोगावच्छेदकं पार्थिशरीरमित्यर्थः । यद्यपि शरीरं पाञ्चभौतिक, तथापि पृथिव्याः तत्तोपादानत्वात् तस्य पार्थिवत्वम् । अन्येषा चतुर्णां भूतानां तत्र निमित्तत्वमानम् । स्वेदाद्यपगमेऽपि गन्धानुभवात् अस्मदादिशरीरस्य पृथिवीसमवायिकारणकत्वं सिध्यति । पार्थिवेन्द्रियं दर्शयतिइन्द्रियमिति । गन्धविषयकप्रत्यचजनकत्वे सति इन्द्रियत्वं घ्राणेन्द्रियस्य लक्षणम् । मन्धविषयकं यत् प्रत्यक्षं अयं सुरभिः, अयमसुरभिः इत्याद्याकारकम् तज्जनकत्वे सति इन्द्रियत्वं तत्र वर्तते इति लक्षणसमन्वयः । इन्द्रियत्वमात्रोपादाने चक्षुरादी, सत्यन्तदममात्रोक्ती आत्मनि अतिव्याप्तिरित्युभयोपादानम् । एवमपि आत्मा मनसा संयुज्यते, मन इन्द्रियेण इन्द्रियमर्थेन, ततः प्रत्यक्षमुत्पद्यते इति क्रमात् मनसि इन्द्रियत्वस्य गन्धग्राहकत्वस्य च सत्त्वात् तनातिव्याप्तिः सम्भवति । अतोऽत इन्द्रियपदं बहिरिन्द्रियपरं बोध्यम् । बहिरिन्द्रियत्वं च मनोभिन्नेन्द्रियत्वम् । विषयं दर्शयति–विषय इति । शरीरेन्द्रियनित्वं विषयत्वम् । यद्यदुपभोगसाधनं तत्सर्वं विषयः । सचन्दनादयः शब्दादयश्च विषयाः इति लोकप्रसिद्धेः । नानारूपवती च पृथिवी । शुक्लनीलादिभेदेन नानाजातीयं रूपं पृथिव्यामेव वर्तते, न तु जलादी, तत्र शुक्लस्यैव सम्भवात् । पृथिव्यां तु एकस्मिन्नपि धर्मिणि पाकवशेन तारूपं सम्भवति । यत्र पटादी नानारूपं नात्प तनाव्याप्तिवारणाय श्वद्वृत्तिद्रव्यत्वव्याप्यजातिमत्वं इति, रूपनाशवतुतिद्रव्यत्वव्याप्यजातिमत्त्वं इति व लक्षण-
[[31]]
कारः करणीयः । वैशेषिकनये पृथिवीपरमाणौ रूपनाशस्य रूपान्तरस्य च रास्नात् न्यायनये घटादावपि तत्सत्त्वात्लक्षणसमन्वयः । पड्विधरसवत्त्वमपि पृथिव्याः
णम् । जले मधुर एक एव रसः । यत्र नानारसा नोत्पन्नाः तत्राव्याप्तिवारणाय रसद्व्यवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं लक्षणार्थोऽवसेयः । पृथिव्यां वर्तमानः गन्धोऽपि द्विविधः सुरभिरसुरभिश्चेति । पृथिव्यां पाकजः अनुष्णाशीतस्पर्शः वर्तते । पाकजस्पर्शवत्त्वं पृथिव्याः लक्षणम् । पटादौ पाकजस्पर्शाभावात् अव्याप्तिवारणाय पाकजस्पर्शवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमिति लक्षणं परिष्करणीयम् । नित्या अनित्या नेति पृथिवी द्विविधेति पूर्वमेवोक्तम् । अनित्या पृथिव्येव अवयववती ।
-अवयवातिरिक्तः अवयवी वर्तते
ननु अवयविनि किं मानं परमाणुपुजैरेवोपपत्तेः । नच परमाणूनामतीन्द्रियत्वाद् घटादेः प्रत्यक्षं न स्यादिति वाच्यम् । एकस्य परमाणोरप्रत्यक्षत्वेऽपि तत्समूहस्य प्रत्यक्षत्वात् । ययैकस्य केशस्य दूरेऽप्रत्यक्षत्वेऽपि तत्समूहः प्रत्यक्षः तद्वत् । नच अनुषु बनेकेषु परमाणुषु महत्त्वस्य एकत्वस्य च अभावात् एको घटः स्थूलः इति बुद्धेरनुपपत्तिरिति वाच्यम् । एको महान् धान्यराशिरितिवदुपपत्तेः । मैवम् । परमाणोरतीन्द्रियत्वेन तत्समूहस्यापि प्रत्यक्षायोग्यत्वात् । दूरस्यकेशस्तु नातीन्द्रियः । सन्निधाने तस्यैव प्रत्यक्षत्वात् । नच तदानीं अदृश्यपरमाणुपुञ्जाद् दृश्यपरमाणु स्योत्पन्नत्वान्न प्रत्यक्षत्वे विरोध इति वाच्यम् । अदृश्यस्य दृश्यानुपादानत्वात् । अन्यथा चक्षुरूष्मादिसन्ततिरपि कदाचिद् दृश्या स्यात् ।
नच स्थलविशेषे अदृश्यस्य कृत्योपादानत्वमस्ति अतितप्तर्तलादी अदृश्यदहनसन्ततेर्दश्यदहनोत्पत्तिदर्शनादिति वाच्यम् । तत्रापि तप्ततैलान्तःपातिभिः दृश्यसूक्ष्मदहनाषयषैः दृश्यस्थूलदहवोत्पतेः रभ्युपगमात् । नच अदृश्येन द्व्यणुकेन दृश्यत्रसरेणूत्पत्तिवदत्रापि स्यादिति वाच्यम् दृश्यत्वमदृश्यत्वं वा कारणसमाजाघीनं न घटत्वादिवत् स्वाभाविकम् । द्वयष्णुके महत्त्वाभावाददृश्यत्वम्, व्रसरेणोमहत्त्वात् दृश्यत्वम् । बौद्धमते तु कारणीभूतपरमाणुपुञ्जः महत्त्वाभावाददृश्यः । कार्यभूतपरमाणुपुरुषोऽपि महस्वाभावाददृश्य एव स्यात् । नच कार्यभूतपरमाणुपु महत्वस्याप्युत्पत्तिस्वीकारात् तसंरेणाविवात्रापि दृश्यत्वमस्तु इति वाच्यम् । अयं घटं इति प्रतीतिविषयतायाः विनिगमनाविरहेण अनेकपरमाणुषु कल्पनापेक्षया तद्विषयतायाः अतिरिक्तावयविनि कल्पनस्यैव उचितत्वात् ।
[[32]]
परमाणुसाधनम्
जालसूर्यमरीचिस्थं यत् सूक्ष्मं दृश्यते रजः ।
तस्य षष्ठस्तु यो भागः परमाणुः स उच्यते ॥
।
इति वचनानुसारेण अवयवधारायाः यत्र विश्रामः तस्य परमाणुरिति नाम । स च नित्यः । तस्याप्यवयवकल्पने अवयवधाराया आनन्त्येन मेरुसर्षपयोः साम्यप्रसङ्गोऽपि । एवं द्वयणुकस्य सावयवाररुन्धत्वेन महत्त्वापत्तिः । नच मेर्ववयवानां सर्पपतुल्यपरिमाणवत्त्वं न तु सर्षपावयवानां सर्वपतुल्यपरिमाणवत्त्वनित्यवयवपरिमाणविशेषाद्विशेष इति वाच्यम् । मेर्ववयवसर्पपावयवयोरप्यनन्तावयवत्वेन अवयवपरिमाणतारतम्याभावस्यापादयितुं शक्यत्वात् । यत्र विश्रामस्तस्याप्यनित्यत्व समवायिकारणं विना भवकायोत्पत्तिप्रसङ्गः । अतः महत्परिमाणतारतन्यस्य गगनादौ विश्रान्तत्वमिव अणुपरिमाणतारतम्यस्यापि क्वचिद्विश्रान्तत्वमस्तीति तस्य परमाणुत्वसिद्धिः । न च त्रसरेणावेव विश्रामोऽस्तु इति वाच्यम् । वसरेणुः सावयवः चाक्षुपद्रव्यत्वात् घटवत् इत्यनुमानेन तदवयवसिद्धी तसरेणोरवयवाः सावयवाः महदारम्भकत्वात् कपालवत् इत्यनुमानेन तदवयवसिद्धेः । हेतुरप्रयोजकः । अपकृष्टमहत्त्वं प्रति अनेकद्रव्यवत्त्वस्य प्रयोजकत्वात् । अनेकद्रव्यवत्त्वं नाम न अनेकद्रव्यसमवेतत्वं द्वयणुके महत्त्वोत्पादप्रसङ्गात् । किन्तु अनेकद्रव्यसमवेतसमवेतत्वम् । अनेकद्रव्यं परमाणुद्वयम्, तत्समवेतं द्वयणुकम्, तत्समवेतः त्रसरेणुरिति । त्रसरेण्ववयवानां सावयवत्ववत् तेषामपि अवयवधारा सिध्येदिति तु नाशङ्कनीयम् । अनवस्थाभयेन तथा साधयितुमशक्यत्वादिति द्वाभ्यां परमाणुभ्यां द्वयणुकं जायते, त्रिभिद्वर्यणुकैः वसरेणुर्जायते इति प्रक्रिया । तसरेणुपदं च अतिसूक्ष्मे इन्द्रियगोचरे सूक्ष्मंयन्त्रगोचरे वा लिभिद्वर्येणुकैरारब्धे रूढम् । त्रिभिस्संहितो रेणुः वसरेणुरिति पृषोदरादित्वेन तस्य शब्दस्य साधुत्वं बोध्यम् ।
न चायं
अव च
पार्थिवशरीरं योनिजमयोनिजं चेति द्विविधम् । योनिजमपि द्विविधं, जरायुजमण्डजं च । जरायुजं मानुषादीनाम् । अण्डजं सर्पादीनाम् । अयोनिजं स्वेदजोद्भिज्जादिकम् । स्वेदजाः क्रिमिदंशाद्याः । उद्भिज्जास्तरुगुल्माद्याः । देवानां नारकिणां शरीरमप्ययोनिजम् । धर्मसहितपरमाणुविशेषः देवशरीरोत्पादः । अधर्मसहितपरमाणुविशेषैः नारकिणां शरीरोत्पादः ।
[[33]]
दिव्योपपादुका देवा नृगवाधा जरायुजाः ।
स्वेदजाः क्रिमिदंशायाः पक्षिसर्पादयोऽण्डजाः ॥
इति नामलिङ्गानुशासनं चात्र स्मर्तव्यम् ।
आत्मनो भोगायतनं शरीरम् । आयतनमवच्छेदकम् । अत्र अन्त्यावयवित्वमपि विशेषणं देयम् । अन्यथा सुखदुःखान्यतरसाक्षात्काररूपभोगावच्छेदकत्वस्य करपादावपि सत्त्वेन तद्वातिव्याप्तेः । तन्निवेशे तु करादिष्ववयवेषु अवयव्यन्तरानारम्भकत्वरूपान्त्यावयवित्वाभावान्नातिव्याप्तिः । शरीरत्वजातिमत्वं शरीरस्य लक्षणमिति तु न वक्तुं शक्यम् । पृथिवीत्वादिना साङ्कर्येण तस्य जातित्वस्य वक्तुमशक्यत्वात् । चेष्टाश्रयत्वं वा शरीरत्वमिति वक्तव्यम् । वृक्षादिष्वपि प्रगासम्बन्धसत्त्वेन चेष्टावत्त्वतत्त्वान्नाव्याप्तिः । भक्षत संरोहणादिना च प्राणवायुसम्बन्ध उन्नेयः । अत्रापि करपादादौ शरीरव्यवहाराभावे तत्त्रातिव्याप्तिवारणाय अन्त्यावयवित्वं विशेषणं देयम् । नच मृतशरीरे चेष्टाभावादस्य लक्षणस्याव्याप्तिरिति वाच्यम् ; चेष्टावदन्त्यावयविवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमिति परिष्कारे दोषाभावात् । अत्र पृथिवीत्वजातिमादाय घटादी पुनरतिप्रसङ्ग इति चेत् अन्त्यावयविमात्रवृत्तिचेष्टावद्वृत्तिजातिमत्त्वं शरीरलक्षणमिति वदामः । मनुष्यत्वं चेवत्वं वा आदाय उभयत्रापि लक्षणसमन्वयः । नच नृसिंहशरीरे कथं लक्षणसमन्वयः । तन्त्र नृसिंहत्वस्य एकव्यक्तिवृत्तितया जातित्वाभावात्, जलीयतैजसशरीरवृत्तितया देवत्वस्यापि जातित्वाभावादिति वाच्यम् । कल्पभेदेन नृसिहशरीरस्य नानात्वेन नृसिहत्वजात्या लक्षणसमन्वयादिति ।
श्राणेन्द्रियं पार्थिवमित्युक्तम् । तत्र इन्द्रियत्वजातिमत्त्वं इन्द्रियसामान्यलक्षणमिति वक्तुं न शक्यते । पृथिवीत्वादिना साङ्कर्यप्रसङ्गात् इन्द्रियत्वस्य जातित्वानुपपत्तेः । किन्तु शब्देरो तविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वमिन्द्रियत्वम् । शब्देतरे ये उद्भुतविशेषगुणाः घटादिगता रूपादयः, तदनाश्रयत्वं चक्षुरादीन्द्रियेषु वर्तते, उद्भूतविशेषगुणाः चक्षुरादिषु न सन्ति किन्तु अनुभूतविशेषगुणा एव सन्ति इत्यङ्गीकाराय । एवम् आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्ष मुसद्यते ’ इति न्यायानुसारेण आत्ममनस्संयोगस्य, इन्द्रियमनस्संयोगस्य विषयेन्द्रियसंयोगस्य च ज्ञानकारणत्वात् दानकारणेन्द्रियमनस्संयोगा
[[34]]
"
श्रयत्वमपि इन्द्रियेषु वर्तते, संयोगस्य द्विनिष्ठत्वात् इति लक्षणसमन्वयः । आत्मादी अतिव्याप्तिवारणाय सत्यन्तम् । आत्मभिन्नत्वोक्ती तु मिश्रादिमते चर्ममनस्संयोगस्य ज्ञानकारणत्वेन तत्त्रातिव्याप्तिप्रसङ्गात् मूलोक्तं सत्यन्तदलमावश्यकमेव । उद्भूतविशेषगुणस्य ओले सत्त्वात् तत्नाव्याप्तिवारणाय शब्देतरेति । विशेषगुणस्य रूपादेः चक्षुरादी सत्त्वात् उद्भूतेति । उद्भूतत्वं न जातिः शुक्लत्वादिना साङ्कर्यात् । शुक्लत्वादिव्याप्यनानोद्भूतत्वाङ्गीकारोऽपि न सम्भवति, शुक्लत्वव्याप्योद्भूतत्वविशिष्टरूपत्वस्य पीतत्वप्याप्योद्भूतत्व विशिष्टरूपत्वस्य च भिन्नतया सप्तविधरूपसाधा रणोद्भूतत्वस्य अभावेन एकरूपेण उद्भूतरूपत्वेन चाक्षुषं प्रति कारणताया अनुपपत्तेः । किन्तु शुक्लत्वादिव्याप्यमनुद्भूतत्वं नाना, तदभावकूटमेव उद्भूतत्वम्, तच्च संयोगादावप्यस्ति । तथाच शब्देतरोद्भूतविशेषगुणः संयोगादिः चक्षुरादावप्यस्ति, अतः विशेषेति । कालादिवारणाय विशेष्यदलम् । इन्द्रियावयव विषयसंयोगस्यापि प्राचां मते प्रत्यक्षजनकत्वात् इन्द्रियावयववा रणाय, नवीन मते कालादी रूपाभावप्रत्यक्षे सन्निकर्षघटकतया कारणीभूतचक्षुस्संयोगाश्रयस्य कालादेश्च वारणाय मनः पदम् । ज्ञानकारणमित्यपि कालादौ अतिव्याप्तिवारणाय ।
घ्राणेन्द्रियस्य पार्थिवत्वसाधनम्
ननु प्राणेन्द्रियस्य पार्थिवत्वे किं मानमिति चेदुच्यते । घ्राणेन्द्रियं पार्थिवं रूपादिपु मध्ये गन्धस्यैव व्यञ्जकत्वात् कुङ्कुम्मगन्धाभिव्यञ्जक गोघृतवत् इत्यनुमानेन तत्साधनात् । नच दृष्टान्ते स्वको रूपा दिव्यञ्जकत्वादसिद्धिरिति वाच्यम् । परकीयरूपाद्यव्यञ्जकत्वस्य तदर्थत्वात् । नच नवशरावगन्धव्यञ्जकजलेऽनैकान्तिकत्वमिति वाच्यम् । तस्य सक्तुरसाभिव्यञ्जकलात् । यद्वा परकीयेति न देयम् । वायूपनीतसुरभिभागानां दृष्टान्तत्वसम्भवात् । नच स्वसंयुक्तसमवायरूपस्य घ्राणेन्द्रियसन्निकर्षस्य गन्धमातव्यञ्जकत्वात् तत व्यभिचार इति वाच्यम् । द्रव्यत्वे सतीति विशेषणेन दोषाभावात् ।
अथजलनिरूपणम्
शीतस्पर्शवत्यः आपः । ता द्विविधाः नित्याः अनित्याश्च । नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः । पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात् । शरीरं
[[35]]
वरुणलोके । इन्द्रियं रसग्राहकं रसनम् । सरित्समुद्रादिः ।
तथ जिह्वाग्रवतिम् ।
विषयः
तच्च
कमप्राप्तं जलं लक्षयतिशीतेति । शीतस्पर्शवत्त्वमपां लक्षणम् । शीतस्पर्शनिष्ठाधेयता निरूपिताधिकरणताश्रयत्वम् । गीतस्पर्शनिष्टा या आधेयता अप्सु शीतस्पर्शोsस्तीन्याकारकप्रतीतिसिद्धा आधेयता, तन्निरूपिता या अधिकरणता अप्सु विद्यमानाधिकरणता, तदाश्रयत्वस्य अप्सु सत्त्वात्लक्षणसमन्वयः । अत्रापि उत्पन्नविनष्टजले व्याप्तिवारणाय कालपृथिव्यादी अतिव्याप्तिवारणाय च शीतस्पर्श. स्वावच्छिन्नसमवायसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकारणतावद्वृत्तिद्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकजातिमत्त्वमिति लक्षणं परिष्करणीयम् । अन्यत्सर्व पूर्ववोध्यम् । जले शुक्लं रूपम् । तच्च न लक्षणं, पटस्फटिकादी अतिव्यः व्यापतेः । किन्तु नैमित्तिक द्रवत्ववदवृत्तिद्रव्यत्वसाक्षाद्वद्याप्यजातिमत्त्वनित्ते, अभास्वरशुन लेत र इपासमानाधिकरणरूपवद्वृत्तिद्रव्यत्वसाक्षाद्वद्याप्यजातिमत्त्वमिति वा तदर्थो वोध्यः । नल पटत्वमादायातिव्याप्तिवारणाय द्रव्यत्वसाक्षाद्वयाप्येति । जले मधुर एव रसः । शीत एव स्पर्शः ।
।
तिक्तरसवदवृत्तिमधुरयद्वृत्तिद्रव्यत्वसाक्षाद्वयाप्यजातिमत्वं जललक्षणत्वे शर्करादी
इति च जललक्षणम् । केवलमधुररसवत्त्वस्य
अतिव्याप्त्यापत्तेः ।
जलनिरूपणप्रकरणे जलत्वजातिमत्त्वं जललक्षणं बोध्यम् । ननु जलत्वजातो कि प्रमाणम् ? इञ्जलम् इदं जलम् इति प्रतीतेः पानराणां हिमादिष्वभावात् इति चेदुच्यते । समवायेन स्नेहं प्रति तादात्म्येन जलं कारणमिति कार्यकारणभावात् समवायसम्बन्धावच्छिन्नस्ने हत्वावच्छिन्नकार्यतानिरूपिता या तादात्म्यसम्बन्धावच्छिना जलनिष्ठा कारणता सा किश्विद्धर्मावच्छिन्ना कारणतात्वात् इत्यनुमानेन स्नेहसमवायिकारणतावच्छेदकतया जलत्वजातिः सिध्यति । नच स्नेह्त्वस्य नित्यानित्यवृत्तितया कार्यतातिप्रसक्तत्वेन कार्यतावच्छेदकत्वासम्भवात् नोक्सानुमानसम्भव इति वाच्यम् ।
जन्यस्नेहं प्रति जलस्य कारणत्वेन समवायसम्बन्धावच्छिन्नजन्यस्नेहत्वावच्छिन्नकार्यतानिरूपिततादात्म्यसम्वन्धावच्छिन्नजल निष्ठा कारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात् इत्यनुमानेन जलत्वजातिसिद्धिसम्भवात् । परमाणौ जन्यत्नेहाभावेन जन्य स्नेहनिरूपित कारणतायास्तवाभावेन
[[36]]
नच
जलत्वस्य
कारणतातिरिक्तवृत्तितया पूर्वोक्तानुमानेन जन्यजलत्वमेव सिध्येत् ।
नित्यस्य परमाणोः जन्यस्नेहनिरूपित स्वरूपयोग्यतारूपकारणत्वाङ्गीकारे नित्यस्य स्वरूपयोग्यत्वे फलावश्यम्भावनियम इत्यस्य नियमस्य विरोधः इति वाच्यम् । जन्यवेशजनकतावच्छेदकतया जन्यजलत्वजातिसिद्धौ तदवच्छिन्नजनकतावच्छेदकतया परमाणुसाधारणजलत्वजातिसिद्धेः सम्भवात् ।
।
ननु जले शुक्लरूपमेवेति कुतः ? कालिन्दीजलादो नीलिमोपलब्धेरिति चेन्न ; नीलजनकतावच्छेदिकायाः पथिवीत्वजातेरभावाज्जले नीलरूपासम्भवात् । कालिन्दीजले नीलरूपप्रतीतिस्तु स्वाश्रयोपाधिकी । अन्त एव वियति विक्षेपे धवलिन्न उपलब्धिः ।
अथ जले माधुर्ये किं मानम् । नहि प्रत्यक्षेण कोऽपि रसस्तत्रानुभूयते । नच नारिकेलजलादौ माधुर्य उपलभ्यत एवेति वाच्यम् । तस्य आश्रयोपाधिकत्वात् । अन्यथा जम्बीररसादौ अम्लाद्युपलब्धेः अम्लादिमत्त्वमपि स्यादिति चेन्न; हरीतक्यादिभक्षणस्य जलरसव्यञ्जकत्वात् । नच हरीतक्यामेव जलोष्मसंयोगात् रसान्तरोत्पत्तिरिति वाच्यम् । कल्पनागौरवात्। पृथिवीत्वस्य अम्लादिजनकतावच्छेदकत्वाच्च जले नाम्लादिकम् । जम्बीररसादी आश्रयोपाधिकी अम्लादिप्रतीतिः ।
एवं जन्यशीतस्पर्शजनकतावच्छेदकतयाऽपि जन्यजलत्वसिद्धौ तदवच्छिन्नजनकतावच्छेदकतया परमाणु साधारणजलत्वजातिसिद्धिर्बोध्या । घृष्टचन्दनादौ शैत्यप्रतीतिः तदन्तर्वतिशीततरसलिलस्यैव । जले पाकासम्भवेन तेजस्संयोगादेव जले उष्णप्रतीतिरौपाधिकी बोध्या ।
स्नेहस्तु जल एवेत्युक्तम् ।
घृतादावपि तदन्तर्वतिजलस्यैव स्नेहः ।
जलस्य स्नेहसमवायिकारणत्वात् । अतः जल एवं स्नेह इति मन्तव्यम् । सांसिद्धिकद्रवत्ववत्त्वमपि जललक्षणम् ।
सांसिद्धिकद्रवत्वत्वं जातिविशेषः प्रत्यक्षसिद्धः । तदवच्छिन्न जनकतावच्छेदकमपि जन्यजलत्वमेव । तदवच्छिन्नजनकतावच्छेदकं जलत्व-
मिति । तैलादावपि जलस्यैव द्रवत्वम् । तत्र स्नेहप्रकर्षाद्दहनानुकूलता । स्नेहो हि द्विविधः । घनीभूतः, अघनीभूतश्चेति । तत्नादिमः दहनानुकूलः, परश्च दहनप्रतिकूलः । अत एव तप्ततैलादो घनीभूतस्य तस्य सत्त्वेन तत्र जलबिन्दुप्रक्षेपे ज्वालामालिनो वैश्वानरस्योत्पत्तिरिति ।
[[37]]
..
जलीयं शरीरमयोनिजमेव । विप्रकृष्टे वरुणस्वामिके लोके वर्तमानतया तस्य नाध्यक्षम् । इन्दियमिति । रसनेन्द्रियलक्षणं तु रसविषयकप्रत्यक्ष जनकत्वे सति इन्द्रियत्वमिति । लक्षणसमन्वयः दलप्रयोजनं च पर्ववदेव ।
ननु रसनेन्द्रियस्य कथं जलीयत्वं इति चेदुच्यते । रसनं जलीयं गन्धाव्यञ्ज. कत्वे सति रसव्यञ्जकत्वात् । सक्तुरसाभिव्यञ्जकोदकवत् । रसनेन्द्रियसन्निकर्षं
व्यभिचारवारणाय अत्रापि द्रव्यत्वं देयम् ।
सिन्धुसरित्समुद्रादिः जलीय विषय इत्युक्तम् । कासारः करका इत्यादय आदिपदग्राह्याः । नच हिमकरकयोः कठिनत्वात् पार्थिवत्वमेवेति वाच्यम् ऊष्मणा हिमकरकादौ विलीने तत्र द्रव्यान्तरोत्पादात् तत्र द्रवत्वजलत्वयो प्रत्यक्षत्वात् । पूर्वद्रव्यं च जलोपादानकमेव । यद्द्रव्यं यद्द्रव्यध्वंसजन्यं तत्तदुपादानोपादेयमिति व्याप्तेः हिमकरकादेरपि जलोपादानोपादेयत्वसिद्धेः । पार्थिवत्वाभावे कथं काठिन्यप्रत्ययोपपत्तिरिति वाच्यम् । द्रवत्वप्रतिरोधात् । तत्र काठिन्यप्रत्ययस्य भ्रमत्वात् ।
अथ तेजोनिरूपणम्
नच करकादे अदृष्टविशेषेण
उष्णस्पर्शवत् तेजः । तद् द्विविधम् । नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधम् । शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयः चतुर्विधः । भौमदिव्यौदर्याकरजभेदात् । तत्र भौमं वयादि । दिव्यमबिन्धनं विद्युदादि । भुक्तस्य परिणाम हेतुरौदर्यम् । आकरजं सुवर्णादि
उष्णस्पर्शनिष्ठाधेयतानिरूपिता
तेजसो लक्षणमाह-उष्णस्पर्शेति । धिकरणताश्रयत्वं तेजसो लक्षणम् । अत्रापि कालजलादौ अतिव्याप्तिवारणाय चन्द्रकिरणादी उत्पन्नविनष्टतेजसि च अव्याप्तिवारणाय समवायसम्वन्धाव च्छिन्नोष्णस्पर्शत्वावच्छिन्नाधेयता निरूपिताधिकरणतावद्वृत्तिद्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदकजातिमत्त्वमिति लक्षणं परिष्करणीयम् ।
उष्णत्वं नाम स्पर्शनिष्ठो जातिविशेषः प्रत्यक्षसिद्धः ।
इत्थं च जन्योष्णस्पर्शजनकतावच्छेदकं जन्यतेजस्त्वं तदवच्छिन्नजनकतावच्छेदकं च तेजस्त्वं
[[88]]
जातिविशेषः परमाणुसाधारणः पूर्ववत् सिध्यतीति वोध्यम् । नच उष्णस्पर्शवत्त्वं चन्द्रकिरणादावव्याप्तमिति वाच्यम्, तत्राप्युष्णस्पर्शस्य सत्त्वात् । किन्तु तदन्तःपातिजल स्पर्शेनाभिभवादग्रहः । एवं रत्नकिरणादौ पार्थिवस्पर्शनाभिभवात् चक्षुरादौ च अनुद्भूतत्वादग्रहः । शुक्लभास्वररूपं तेजस्येव । वैश्वानरे मरकत किरणादौ च पार्थिवरूपेण अभिभवात् शुक्लरूपाग्रहः । ननु तत्र तेजोरूपाग्रहे धर्मिणोरपि चाक्षुषत्वं न स्यादिति चेन्न ; पित्तद्रव्यगतपीतिम्ना शङ्खस्येव अन्यदीयरूपेणापि धर्मिणो ग्रहसम्भवात् । तेजः नैमित्तिकद्रवत्ववत् । सुवर्णादिरूपे तेजसि तत्सत्त्वात् । नच दहनादावव्याप्तेः, घृतादावतिव्याप्तेश्च नैमित्तिकद्रवत्वं न लक्षणमिति वाच्यम् । पृथिव्यवृत्तिनैमित्तिकद्रवत्ववद्वृत्तिद्रव्यत्वसाक्षाद्व्याप्यजातिमत्त्वमिति परिष्कारे
दोषाभावात् ।
रूपविषयकप्रत्यक्षजनकत्वे सति इन्द्रियत्वं चक्षुरिन्द्रियस्य लक्षणम् । विशेषणानुपादाने घ्राणादौ, विशेष्यानुपादाने आत्मनि च अतिव्याप्तिः । तैजसविषये अवान्तरभेदसत्त्वादाह - विषयश्चतुविध इति । भूमौ भवं भौमम् । दिवि भवं दिव्यम् । उदरे भवम् औदर्यम् । आकराज्जायत इति आकरजम् ।
आकराज्जायत इति आकरजम् । अत्र अनित्यविषयस्यैव विभागः कृतः ।
आकरजमिति स्पष्टमभिधानात् । भूमिसम्वन्धि भौममिति भूमिसम्बन्धात् तेजःपरमाणूनामपि सङ्ग्रहः सम्भवति । एवं दिव्यम् औदर्यमित्यत्रापीति तु न वाच्यम् । परमाणूनां सर्वत्र सञ्चारितया भौमत्वदिव्यत्वादिव्य वस्याकरणासम्भवात् । परमाणौ अविन्धनत्वासम्भवाच्च । अतः नित्यविषयस्य तेजसः पूर्वविभागेनैव जातप्रायतया अनित्यविषयस्यैव विभागः कृतः इति मन्तव्यम् । अविन्धनमिति । इन्धे अनेन इति व्युत्पत्त्या ’ ञिइन्धी दीप्ती’ इति रोधादिकात् धातोः निष्पन्नः इन्धनशब्दः दीप्तिकरणवाचकः । आपः इन्धनानि यस्य तत् इति विग्रहः । अवभिन्नकरण प्रयोज्यदीप्त्याश्रय इत्यर्थः । आदिना वडवानलपरिग्रहः । भुक्तस्येति । अयमेवाग्निः वैश्वानर इत्यभिधीयते । " अहं वैश्वानरो
अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । प्राणापानसमायुक्तः पचाभ्यन्नं चतुनिधम्” इति गान्तोक्तः । अस्मत्समवेतव्यापारजन्यगलाधस्संयोगाश्रयद्रव्यवृत्तिरूपान्तरोत्पत्तिनिरूपितकारणतावत् औदर्य तेजः इति बोधः । आकरजमिति । आकराज्जायत इत्याकरजम् । आकरः खनिः । आकरनिरूपितजन्यतावत् तेजः सुवर्णादिः । सुवर्णस्य तेजस्त्वं कथमिति तु उत्तरत वक्ष्यते ।
[[39]]
•
ननु इन्द्रियं रूपग्राहकं चक्षुः इत्युक्तम् । तत्र चक्षुषः तैजसत्वे किं मानम् इति चेत् चक्षुः तैजसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत् इत्यनुमानेन तत्सिद्धेः । परकीयरूपव्यञ्जकजले व्यभिचारवारणाय सत्यन्तं, गगनादौ व्यभिचारवारणाय विशेष्यम् । प्रदीपस्य स्वीयस्पर्शव्यञ्जकत्वादत्र दृष्टान्तेऽव्याप्तिवारणाय प्रथमं परकीयेति । घटादेः स्वीयरूपव्यञ्जकत्वाद् व्यभिचारवारणाय द्वितीय परकीयेति । अथवा प्रभायाः दृष्टान्तत्वसम्भवात् आद्यं परकीयेति न देयम् । नसरेणोस्त्वाचप्रत्यक्षस्यानभ्युपगमेन स्पर्शाद्यव्यञ्जकत्वे सति रूपव्यञ्जकत्वस्य सत्त्वात् पार्थिवतसरेण व्यभिचारवारणाय द्वितीयं परकीयेति विशेषणं तु देयमेव ! -
तु
नतु आकरजः तैजसविषयः सुवर्णादिरित्युक्तम् ! तस्य च तैजसत्वे कि मानमिति चेदुच्यते । सुवर्ण तैजसं असति प्रतिबन्धके अत्यन्तानलसंयोगे सत्यपि अनुच्छिद्यमानद्रवत्वात् यन्नैवं तन्नैवं यथा पृथिवीत्यनुमानेन सुवर्णे तैजसत्वसिद्धेः । एतेन सुवर्णं पार्थिवं नैमित्तिकद्रवत्ववत्त्वात् घृतवत् इत्यनुम्मानस्य पक्ष एव व्यभिचार उक्तो भवति । न चात्र पीतरूपवद्द्रव्यात्मकसुवर्णस्य पक्षत्वे बाधः, तैजससुवर्णस्य पक्षत्वे अनुमानात्पूर्वं तैजससुवर्णस्याप्रसिध्या पक्षा प्रसिद्धिः । सुवर्णपदवाच्यस्य पक्षत्वे ‘तोलकपरिमितं सुवर्णं दद्यात् इत्यादौ धर्मशास्त्रे पीतद्रव्येऽपि सुव गम्पदप्रयोगाद् बाघतादवस्थ्यमिति वाच्यम् । असति प्रतिबन्धके अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणस्यैव पक्षतया अदोषात् ।
" अस्मिन्ननुमाने जल मध्यस्यघृतादौ व्यभिचारवारणाय असति प्रतिबन्धक इति । असति प्रतिवन्धके अनुच्छिद्यमानद्रवत्वादित्येवोक्तौ अग्निसंयोग रहिते किञ्चिदग्निसंयुक्ते वा घृते अनुच्छिद्यमानद्रवत्वसत्त्वाद् व्यभिचारः । अतः अत्यन्तानल संयोगे ऽपीति । ननु उच्छिद्यमानः द्रवः यस्य स उच्छिद्यमानद्रवः, न उच्छिद्यमानद्रवः अनुच्छिद्यमानद्रवः, तस्य भावस्तत्त्वमिति व्युत्पत्त्या नाशप्रतियोगिद्रवत्वाधिकरणभिन्नत्वादित्यर्थो लभ्यते । ततश्चास्य हेतोर्गगने व्यभिचार इति चेन्न; न उच्छिद्यमानः अनुच्छिद्यमानः, तादृशः द्रवः यस्य सः, तस्य भावः तत्त्वम् इति व्युत्पत्त्या नाशाप्रतियोगिद्रवत्वाधिकरणत्वादिति हेतुलाभे, तादृशहेतोश्च गगनेऽभावान्न व्यभिचारः । न चाप्रयोजकमिदमनुमानम् । अग्नेरपत्यं प्रथमं हिरण्यम्’ इत्यागमस्य पृथिवीजन्यजलद्रवत्वस्य च अत्यन्ताग्निसंयोगनाश्यतया, सुवर्णद्रवत्वस्य च
द्रवत्वस्य,
'
‘अतथात्वानुभवस्य च अनुकूलतर्कस्य सत्वात् । ननु पीतिमगुरुत्वाश्रयस्य पार्थिवः भागस्यापि तदानीं द्रुतत्वात् तैजसत्वाभाववति तत्र हेतोः सत्त्वाद् व्यभिचार इति वन ; जलमध्यस्थभषीचूर्णवत् तस्य अद्भुतत्वेन तत्र हेतोरभावात् ।
अथवा प्रकारान्तरेण सुवर्णस्य तैजसत्वं साधयामः । सुवर्णे हि भागद्वयम्, पीतिमगुरुत्वाश्रयः पार्थिवभाग एकः, तैजसभागश्च अपरः । तत्र पीतिमगुरुत्वाश्रयस्य अत्यन्ताग्निसंयोगेऽपि पूर्वरूपापरावृत्तिदर्शनात् रूपपरावृत्तिप्रतिबन्धकं विजातीयद्रवद्रव्यं किञ्चित्कल्प्यते । तथाहि अत्यन्ताग्निसंयोगी पीतिमगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः अत्यन्ताग्निसंयोगे सत्यपि पूर्वरूपविजातीयरूपानाधारत्वात् जलमध्यस्थपीतपटवत्। पृथिव्याः पक्षीकृतपीतिमाश्रयतया जलस्य च तनासम्भवात् पृथिवीजल भिन्नस्य तस्य द्रवद्रव्यस्य तेजस्त्वसिद्धिः ।
ननु सुवर्णस्य तैजसत्वेऽन्धकारे कुतो न तद्ग्रहः ? सुवर्णरूपालोकसंयोगसत्त्वादिति चेन्न ; उद्भू तानभिभूतरूपविशिष्ट लोकसंयोगस्यैव द्रव्यप्रत्यक्षं हेतुत्वात्, सुवर्णरूपस्य तु अभिभूतत्वात् । अन्यदीयरूपग्रहणप्रयुक्तस्वकीयरूपाग्रहणम् अभिभवः ।
‘अथ वायुनिरूपणम्
रूपरहितः स्पशवान् वायुः । स द्विविधः । नित्योऽनित्यचेति । नित्यः परमाणुरूपः। अनित्यः कार्यरूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् ! शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवृत्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तरसञ्चारी वायुः प्राणः । स चैकोऽप्युपाधिभेदात् प्राणापानादिसञ्ज्ञां लभते ।
A
वायुं निरूपयतिरूपरहितेति । रूपेण रहितः रूपरहितः । तृतीयायाः प्रतियोगिता निरूपकत्वं, रह धातोः अत्यन्ताभावः क्तप्रत्ययस्य आश्रयत्वं चार्थः । रूपस्याधेयतासम्बन्धेन प्रतियोगितायामन्वयः । तथाच रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शवत्त्वं वायोर्लक्षणम् । यस्य अभाव उच्यते स प्रतियोगी इति न्यायेन रूपाभावं प्रति रूपस्य प्रतियोगित्वात् रूपनिष्ठप्रतियोगितानिरूपकः योsभावः वायौ रूपं नास्ति इति प्रतीतिसिद्धः रूपाभावः । तदाश्रयत्वे सति स्पर्शवत्त्वस्य वायौ सत्त्वात्लक्ष्ये लक्षणसमन्वयः । विशेषणमात्रोपादाने गगनादौ,
[[41]]
NP Sahitya
अतयात्वानुभवस्य च अनुकूलतर्कस्य सत्वात् । ननु पीतिमगुरुत्वाश्रयस्य पार्थिव भागस्यापि तदानीं द्रुतत्वात् तञ्जसत्वाभाववति तत्र हेतोः सत्त्वाद् व्यभिचार इद्रि चेत ; जलमध्यस्यमषीचूर्णवत् तस्य अद्भुतत्वेन तत्र हेतोरभावात् ।
अथवा प्रकारान्तरेण सुवर्णस्य तेजसत्वं साम्रयामः । सुवर्णे हि भागद्वयम्. पीतिमगुरुत्वाश्रयः पार्थिवभाग एकः, तैजसभागश्च अपरः । तत्र पीतिमगुरुत्वाश्रयस्य अत्यन्ताग्निसंयोगेऽपि पूर्वरूपापरावृत्तिदर्शनात् रूपपरावृत्तिप्रतिबन्धकं विजातीयद्रवद्रव्यं किञ्चित्कल्प्यते । तयाहि — अत्यन्ताग्निसंयोगी पीतिमगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः अत्यन्ताग्निसंयोगे सत्यपि पूर्वपविजातीयल्यानावारत्वात् जलमध्यस्थपीतपटवत् । पृथिव्याः पक्षीकृतपीतिमाश्रयतया जल च तत्त्रासम्भवात् पृथिवीजलभिन्नस्य तस्य द्रवद्रव्यस्य तेजस्त्वसिद्धिः ।
ननु सुवर्णस्य तैजसत्वेऽन्धकारे कुतो न उद्ग्रहः ? सुवर्णरूपालोकसङ्ग सत्त्वादिति चेन्न ; उद्भू तानभिभूतरूपविशिष्टालोकसंयोगस्यैव द्रव्यप्रत्यक्षे हेतुत्वात्, मुवर्णरूपस्य तु अभिभूतत्वात् । अन्यदीयरूपग्रहणप्रयुक्तस्वकीयरूपाग्रहणम् अभिभवः
अय वायुनिरूपणम्
रूपरहितः स्पशवान् वायुः । स द्विविधः । नित्योऽनित्यश्चेति । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् ! शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवृत्ति । द्विपयो वृक्षादिकम्पनहेतुः । शरीरान्तरसञ्चारी वायुः प्राणः । स चैकोऽप्युपाधिभेदात् प्राणापानादिसञ्ज्ञां लभते ।
वायुं निरूपयतिरूपरहितेति । रूपेण रहितः रूपरहितः । तृतीयायाः प्रतियोगितानिरूपकत्वं, रह धातोः अत्यन्ताभावः क्तप्रत्ययस्य आश्रयत्वं चार्थः । रूपस्याधेयतासम्बन्धेन प्रतियोगितायामन्वयः । तथाच रूपनिष्ठप्रतियोगितानिरूपकाभावाश्रयत्वे सति स्पर्शवत्त्वं वायोर्लक्षणम् । यस्थ अभाव उच्यते स प्रतियोगी इति न्यायेन रूपाभावं प्रति रूपस्य प्रतियोगित्वात् रूपनिष्ठप्रतियोगितानिरूपकः योऽभावः वायौ रूपं नास्ति इति प्रतीतिसिद्धः रूपाभावः । तदाश्रयत्वे सति स्पर्शवत्त्वस्य वायौ सत्त्वात्लक्ष्ये लक्षणसमन्वयः । विशेषणमात्रोपादाने गगनादी,
[[41]]
NP Sahitya
विशेष्यमात्रोपादाने पृथिव्यादौ चातिव्याप्तिरित्युभयोपादानम् । एवं च रूपनिष्ठप्रतियोगिताकाभावाश्रयत्वे सन्ति समवायसम्बन्धावच्छिन्न स्पर्शत्वावच्छिन्ना-
•
घेयतानिरूपिताधिकरणन्तावद्वृत्तिद्रव्यत्वाधिकरण वृत्तिभेदप्रतियोगितावच्छेदकजातिमत्त्वं वायोः निष्कृष्टं लक्षणम् । आधेयतायां समवायसम्बन्धावच्छिन्नत्वानिवेशे कालिकसम्बन्धावच्छिन्नाधेयतामादाय, स्पर्शत्वावच्छिन्नत्वानिवेशे गुणत्वावच्छिन्नाधेयतामादायं च कालेऽतिव्याप्तिः, तत्र रूपरहितत्वरूपविशेषणदलस्यापि सत्त्वात् । अतः तदुभयोपादानम् । जातिघटितपरिष्कारेण उत्पन्नविनष्टवायौ नाव्याप्तिः । सत्तादिजातिमादाय आकाशान्दावतिव्याप्तिवारणाय न्यूनदेशवृत्तित्वरूपद्रव्यत्वव्याप्यत्वनिवेशः । नोरूपपदार्थेषु दोषवारकतयैव स्पर्शवत्त्वदलघटक विशेषणानां प्रयोजनं वक्तव्यम् ।
अथ विशेषणदलविचारः
तन्त्र पृथिव्यादौ अतिव्याप्तिवारणाय रूपनिष्ठप्रतियोगितायां समवायसम्बन्धावच्छिन्नत्वं निवेश्यम् । अन्यथा संयोगेन रूपं नास्तीति प्रतीतिसिद्धसंयोगसम्बन्धावछिन्नरूपत्वावच्छिन्नप्रतियोगितानिरूपकाभावाश्रयत्वस्य पृथिव्यादावपि सत्त्वात् तत्त्रातिव्याप्तिः स्यात् । एकसत्त्वेऽपि द्वयं नास्तीति प्रतीत्या पटै रूपघटत्वोभयं नास्ति इति प्रतीतिसिद्ध रूपघटत्वोभयत्वावच्छिन्नप्रतियोगिता या अपि रूपत्वावच्छिन्नतया तादृशाभावाश्रयत्वस्य स्पर्शवत्त्वस्य च पटादौ सत्त्वादतिव्याप्तिः । अतः रूपत्वातिरिक्तधर्मानिवच्छिन्नत्वेन प्रतियोगिता निवेशनीया । तादृशोभयाभावीय प्रतियोगितायाः रूपत्वातिरिक्तोभयत्वरूपधर्मावच्छिन्नत्वेन तदनवच्छिन्नप्रतियोगिताकाभावपदेन रूपसामान्याभावस्यैव ग्राह्यतया तदाश्रयत्वस्य पृथिव्यामभावेन अतिव्याप्तिः परिहृता भवति । पृथिव्यादो कालिकसम्बन्धेन रूपाभावसत्त्वादतिव्याप्तिवारणाय अभावीयसम्बन्धः स्वरूपसम्बन्धः इति मन्तव्यम् । ननु तथापि उत्पत्तिक्षणावच्छिन्नघटे रूपरहितत्वस्य द्वितीयक्षणावच्छेदेन तत्त्व स्पर्शवत्त्वस्य च सत्वादिति वाच्यम् । रूपाभावनिष्ठाधिकरणतायां निरवच्छिन्नत्वनिवेशेन, घटादिनिष्टरूपाभावाधिकरणतायाः उत्पत्तिकालावच्छिन्नतया दोषाभावात् ।
न चैवमपि उत्पन्नविनष्टवायो अव्याप्तिवारणाय स्पर्शवत्त्वं स्पर्शदत्तिद्रव्यत्वव्याप्यजातिमत्त्वमिति परिष्करणीयतया उत्पन्नविनष्टघटेऽव्याप्तिस्तदवस्यैव । तत्र निरवच्छिन्न-
[[42]]
रूपाभावाधिकरणत्वस्य स्पर्शवद्वृत्तिद्रव्यत्वव्याप्यपृथिवीत्वजातिमत्त्वस्य च सत्त्वादिति वाच्यम् । रूपासमानाधिकरणस्पर्शसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वमिति परिहकारे दोषाभावात् । पृथिवीत्वजातेः रूपासमानाधिकरणत्वाभावान्नातिव्याप्तिः । न चैवं सति स्पर्शवत्त्वदलमनर्थकं एकव्यक्तिवृत्तितया गगनत्वादेर्जातित्वासम्भवेन द्रव्यत्वरूपतन्निष्ठजातेरूपासामानाधिकरण्यासम्भवात्, रूपासमानाधिकरणजातिमत्त्वमात्रनिवेशेनापि तत्नातिप्रसङ्गवारणात् इति वाच्यम् । रूपासमानाधिकरणगुणत्वजातिमादाय रूपादावतिव्याप्तिवारणाय स्पर्शवत्त्वश्लस्यावश्यकत्वात् । तन्निवेशे तु गुणे गुणाभावात् रूपादौ स्पर्शासम्भवान्नातिव्याप्तिः । न चैवमपि रूपासमानाधिकरणजातौ द्रव्यत्वव्याप्यत्व निवेशेनैव गुणत्वादिजातिमादाय रूपादावतिव्याप्तिवारण सम्भवात् स्पर्शवत्त्वदलं निरर्थकमेवेति वाच्यम् । रूपासमानाधिकरणद्रव्यत्वव्याप्यात्मत्वमनस्त्वजातिमादायातिव्याप्तिवारणेन सफलत्वात् । आत्मत्वमनस्त्वादो स्पर्शसामानाधिकरण्याभावात् तन्निवेशे नातिव्याप्तिः ।
तयाचं परिष्कृतं वायुलक्षणम् - समवायसम्बन्धावच्छिन्नरूपत्वातिरिक्तधर्मानवच्छिन्नप्रतियोगिताकाभा वनिष्ठस्वरूपसम्बन्धावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयत्वे सति समवायसम्वन्धावच्छिन्न स्पर्शत्वावच्छिन्नाधेयता निरूपिताधिकरणतावद्वृत्तिद्रव्यत्वाधिकरणवृत्तिभेदप्रतियोगितावच्छेदकी भूतजातिमत्त्वम्, रूपनिष्ठाधेयतानिरूपिताधिकरणतावदंवृत्तिस्पर्शनिष्ठाधेयतानिरूपिताधिकरणतावद्वृत्ति द्रव्यत्वव्याप्य-
जातिमत्त्वं वा पर्यवसन्न॑म् ।
अपाकजोऽनुष्णाशीतस्पर्शस्तु पवने मतः । इत्युक्तया अपाकजानुष्णाशीतस्पर्शवत्त्वमपि वायोर्लक्षणम् । अनुष्णाशीतस्पर्शस्य पृथिव्यामपि सत्त्वादुक्तमपाकज इति ।
अपाकजस्पर्शस्य जलादावपि सत्त्वादुक्तमनुष्णाशीतेति । अपाकजानुष्णाशीतस्पर्शवत्त्वं पटादावतिव्याप्तं तथापि अपाकजानुष्णाशीतस्पर्श-
बन्मात्तवृत्तिद्रव्यत्वसाक्षाद्वयाप्यजातिमत्त्वमिति
अपाकजानुष्णाशीतस्पर्शवन्मात्रवृत्तित्वाभावात्,
जातित्वाभावात् तद्वारणमिति बोध्यम् ।
यद्यपि
तदर्थोऽवसेयः ।
पृथिवीत्वस्य
पटत्वस्य द्रव्यत्वसाक्षाद्वयाप्य-
त्वगिन्द्रियलक्षणमाह - इन्द्रियमिति । तल्लक्षणं तु स्पर्शविषयक प्रत्यक्षजनकत्वे
सति इन्द्रियत्वम् । स्पर्शविषयकं यत्प्रत्यक्षम्, अयमुष्णः, अयं शीतः इत्याकारकं
[[43]]
प्रत्यक्षम्, तज्जनकत्वे सतीन्द्रियत्वस्य त्वगिन्द्रिये सत्त्वात्समन्वयः ।
विशेष्यमात्रो. पान्दाने चक्षुरादौ विशेषणमात्रोपादाने आत्मनि चातिव्याप्तिरित्युभयेोपादानम् । त्वगिन्द्रियस्य चक्षुरादिवत् एकप्रदेशत्वे अन्यावयवसंयुक्ततादशायां घटादेः स्पार्शनं २. स्यादतः सर्वशरीरवृत्तीत्युक्तम् । सर्वावयवावच्छेदेन शरीरवृत्ति इत्यर्थः । केश नखादीनां रक्तादिमलरूपतया नावयवत्वम् । वायवीयविषयमाह - विषय इति प्रशस्तपादीयभाष्ये –वायुः चतुविधः शरीरं इन्द्रियं विषयः प्राणश्चेति विभागात कथमिह वैविध्योक्तिरिति शङ्कायामाह - शरीरान्तरसञ्चारी वायुः प्राण इति । तथा वृक्षादिकम्पनहेतुः प्राणश्च विषय एव इति भावः । प्राणेऽपि शरीरेन्द्रियभिन्नत्व रूपविषयत्वस्य सत्त्वात् । अन्यत्र पृथगुक्तिस्तु बाह्यवायुविलक्षणकार्यकारितया शरीरान्तस्सञ्चारीति । शरीरस्यान्तरवयवेषु क्रियाविशेषनिर्वाहकः वायुः प्राणः स च एकोsपि स्थानक्रियादिरूपनिमित्तभेदात् प्राणादिसञ्ज्ञां लभते । हृदि प्राण गुदेऽपानः समानो नाभिसंस्थितः । उदानः कण्ठदेशस्थः व्यानः सर्वशरीरगः ॥ इति स्थानभेदः । मुखनासिकाभ्यां निस्सरणात् प्राणः । मूत्रपुरीषयोरधोनयनादपानः । नाडीमुखेषु वितननाद् व्यानः । ऊर्ध्वं नयनादुदानः ।
।
नयनात्
समानः । इति क्रियाभेदः ।
भुक्तस्य सम्य
एवमुपाधिभेदप्रयुक्तप्राणापानादिभिन्न-
सञ्ज्ञावानपि वस्तुतः एक एवेति भावः ।
वायुत्वजातिमत्त्वमपि वायोलक्षणम् ।
समवायसम्बन्धावच्छिन्नविजातीय-
स्पर्शत्वावच्छिन्न कार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्ना कारणता किश्विद्धर्माव च्विना कारणतात्वात् इत्यनुमानेन वायुत्त्रजातिः सिध्यति । परमाणुवृत्तित्वं तु तस्य जलत्वस्येवानुसन्ध्धेयम् । वायुः प्रायः तिर्यग्गमनवानेव ।
ननु स्पार्शनप्रत्यक्षे स्पर्शस्य कारणतास्वीकर्तॄणां नव्यानां मते वायोः त्वाच प्रत्यक्षविषयत्वेऽपि वहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे उद्भूतरूपस्य कारणतामभ्युपगच्छतां प्राचां मते वायोरप्रत्यक्षतया तत्र कि प्रमाणमिति चेत् उच्यते । विजातीय स्पर्शन, विलक्षणशब्देन, तृणादीनां धृत्या, शाखादीनां कम्पेन च वायुरनुमातव्यः । तथाहियोऽयं रूपवद्द्रव्यासमवेतः स्पर्शः सः क्वचिदाश्रितः स्पर्शत्वात् पृथिवीसमवेतस्पर्शवत् । पृथिवीस्पर्शे सिद्धसाधनवारणाय रूपवद्द्रव्यासमवेत इति । एवम् असति रूपवद् द्रव्याभिघाते योऽयं पर्णादिषु शब्दसन्तानः
सः स्पर्शवद्वेगवद्द्द्द्रव्यसंयोगजन्यः
[[1]]
अविभज्यमानावयवद्रव्यसम्वन्धिशब्दसन्तानत्वात् दण्डाभिहतभेरीशब्दसन्तानवत् । पृथिव्याद्यभिघातजन्ये सिद्धसाधनवारणाय असतीति । विभागजन्मनि शन्दे व्यभिचारवारणाय हेतौ अविभाज्यमानेति । एवं नभसि तृणतूलस्तनयित्नुविमानादीनां धृतिः स्पर्शवद्वेगवद्द्द्रव्यसंयोगहेतुका अस्मदाद्यनधिष्ठितद्रव्यधृतित्वात् नौकाधृतिवत् । जलादिगततृणादौ सिद्धसाधनवारणाय नभसीति । प्रयत्नवदात्मसंयोग-
हेतुकधृतौ व्यभिचारवारणाय अस्मदादीति । एवं रूपवद्रव्याभिघातमन्तरेण तृणे कर्म स्पर्शत्रद्वेगवद्द्रव्याभिघातजन्यं विजातीयकर्मत्वात् नदीपूराह्तकाशादिकर्मवत् इति । अन च नित्यतादि पूर्ववद्बोध्यम् । तत्र शरीरमयोनिजं पिशाचादीनाम् । परन्तु जलीयतैजसवायवीयशरीराणां पार्थिवभागोपष्टम्भादुपभोगक्षमत्वं, जलादीनां च प्राधान्याज्जलीयत्वादिकमिति बोध्यम् । अन इन्द्रिये विशेषः शरीरव्यापकं स्पर्शग्राहकमिन्द्रियं त्वक् । तच्च वायवीयम्, रूपादिषु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वात् अङ्गसङ्गिस जिलशैत्याभिव्यञ्जकव्यजनपवनवत् इति !
।
अथ आकाशनिरूपणम्
शब्दगुणकमाकाशम् । तचैकं विभुं नित्यं च ।
शब्द-
अन गुणपदम् आकाशे शब्दः एक एव विशेषगुणः इति द्योतनाय । निष्ठाधेयतानिरूपिताधिकरणताश्रयत्वमाकाशस्य लक्षणम् । अत्रापि कालिकसम्बन्धावच्छिन्नाधेयतामादाय काले, गुणत्वावच्छिन्नाधेयतामादाय जलादौ चातिव्याप्तिवारणाय क्रमेण समवायसम्बन्धावच्छिन्नत्वं शब्दत्वावच्छिन्नत्वं चाधेयतायां विशेषणं देयम् । उत्पन्न विनष्टाकाशस्याभावेन जातिघटितलक्षणावश्यकता नास्तिम् । आकाशगतं एकत्वं च स्वसजातीयव्यक्त्यन्तररहितत्वम् । सर्वमूर्तद्रव्यसंयोगित्वं त्रिभुत्वम् ! पृथिव्यप्तेजोवायुमनांसि मूर्तीनि । परममहत्परिमाणवत्त्वं वा विभुत्वम् । आकाशः परममहत्वरिभाणवान् स्पर्शशून्यत्वे सति प्रत्यक्षगुणाश्रयत्वात्, आत्मवत् इत्यनुमानेन तस्य विभुत्वं बोध्यम् । नित्यत्वं पूर्वमुक्तमेव ।
·
आकाशस्य तु विज्ञेयः शब्दो वैशेषिको गुणः । ’ इति कारिकायां शब्दाश्रयत्वं आकाशस्य लक्षणमित्युक्तम् ।
आकाशकालदिशामेकैकव्यक्तित्वादाकाशत्वादेः जातित्वाभावात् । विशेषगुणान्तरव्यवच्छेदाय वैशेषिक इति कथनम् ।
[[45]]
‘नन्बाकाशसद्भावे
किं मानमिति चेदुच्यते ।
शब्दः अष्टद्रव्यातिरिक्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वात् इत्यनुमानेन आकाश सिध्यति । नच विशेषणासिद्धिः इति वाच्यम् । -शब्दः न स्पर्शवद्विशेषगुणः
[[4]]
अग्निसंयोगासमवायिकारणकत्वाभावे सति अकारणगुणपूर्वकत्वे सति प्रत्यक्षत्वात सुखवत्, शब्दो न दिक्कालमनसां गुणः विशेषगुणत्वात् रूपवत्, नात्मविशेषगुणः बहिरिन्द्रिययोग्य न रूपवत् इत्यनुमानैः अष्टद्रव्यान वितत्वसिद्धया विशेषणासिद्धयभावात् । नच शषगुणत्वंस्य शब्देऽसिद्धत्वाद् देतीयानुमाने स्वरूपासिद्धिरिति वाच्यम् । शब्दः विशेषगुणः चक्षुर्ग्रहणायोग्यबहिरिन्द्रियग्राह्यजातिमत्त्वात् स्पर्शवत् इत्यनुमानेन शब्दे विशेषगुणत्व सिध्या स्वरूपासिध्यभावात् । नच शब्दे द्रव्याश्रितत्वासिद्ध्या आकाशसाधकहेतोविशेष्यासिद्धिरिति वाच्यम् । शब्दः द्रव्यसमवेतः गुणत्वात् संयोगवदित्यनुमानेन द्रव्याश्रितत्वसिद्धी विशेष्यासिद्धयभावात् ।
•
शब्दस्त
नच दाय्ववयवेषु सूक्ष्मशब्दक्रमेण वायौ कारणगुणपूर्वकः शब्दः उत्पद्यतामिति वाच्यम् । ।
अयावद्द्रव्यभांवित्वेन वायुविशेषगुणत्वाभावात् । यावद्द्रव्यस्थिति कालस्थितिकत्वं यात्रद्द्रव्यभावित्वम् । यथा पृथिव्याः गन्धादिगुणाः । आश्रयस्या काशस्य सत्त्वेऽपि नश्यतीति अयावद्द्रव्यभ । विगुणत्वान्न वायुगुणः तद्गुणानां यावद्द्रव्यभावित्वात् । आकाशीयमिन्द्रियं तु श्रोत्रम् । आकाशस्यैकत्वेऽपि तदुपाधेः कर्णशष्कुल्यादेर्भेदात् श्रोत्रं पुरुषभेदेन भिन्नं भवतीति बोध्यम् ।
अथ कालनिरूपणम्
अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ।
व्यवहारो नाम ज्ञानजनकशब्दप्रयोगः । तथाच अतीतादिवस्तुविषयक ज्ञान जनकशब्दप्रयोग निरूपित्तकारणताश्रयत्वं कालस्य लक्षणम् । अतीतो नाम वर्तमान कालवृत्तिध्वंसप्रतियोगी, अनागतो नाम वर्तमानकालवृत्तिप्रागभावप्रतियोगी। व्यवहा प्रति व्यवहर्तव्यतावच्छेदकं कारणमितिन्यायेन अतीतादिव्यवहर्त व्यकुक्षिप्रविष्ट कालः व्यवहर्तव्यतावच्छेदक इति तस्य तादृशव्यवहारकारणत्वं सिद्धमेव । व्यवहार हेतुत्वमात्रोक्ती व्यवहारं प्रति व्यवहर्तव्यस्यापि कारणत्वात् घटादावतिव्याप्तिः अतीतादिनिवेशेऽपि घटादिव्यवहर्तव्यतानपायादिति न शङ्कनीयम् । अतीता दिन व्यवहारनिष्ट कार्यतानिरूपितकारणतावज्ज्ञानीय मुख्य विशेष्यतानिरूपितप्रकारताश्रयत्व
[[46]]
मिति परिष्करणे दोषाभवात् । अतीतादिव्यवहारनिष्ठकार्यता निरूपितकारणतावज्ज्ञानम् अतीतादिकाल विशिष्टो घटः इत्यादिज्ञानम्, तन्निरूपितघटादिनिष्ठमुख्यविशेष्यतानिरूपितप्रकारताश्रयत्वस्य अतीतादिकाले सत्त्वाल्लक्षणसमन्वयः । तादृशप्रकारताश्रयत्वस्य घटादावभावेन नातिप्रसङ्गः । ननु तथापि घटत्वादावतिव्याप्तिः । तस्यापि तादृशव्यवहारीयघटादिनिष्ठमुख्यविशेष्यतानिरूपित प्रकारताश्रयत्वादिति चेत् न तादृशव्यवहारनिष्ठा तीतत्वादिविषयकत्वावच्छिन्न कार्यतानिरूपितासाधारणनिमित्तकारणताश्रयः काल इति लक्षणकरणे तात्पर्यात् । आदिपदं वर्तमानानागतादिकालाव्याप्तिवारणाय । एतल्लक्षणे कालस्यातीतादिव्यवहारासाधारणकारणत्वलाभात् न कार्यमानं प्रति साधारणकारणेश्वरादृष्टादावतिव्याप्तिशङ्केति ।
मुक्तम् ।
जन्यानां जनकः कालः जगतामाश्रयो मतः’ इति कारिकया कालिकसम्बन्धावच्छिन्नकार्यत्वावच्छिन्नकार्यतानिरूपितमधिकरणतया निमित्तत्वं काललक्षणकालिकसम्बन्धनिवेशाद्दिशि, अधिकरणतयेत्युक्त्या ईश्वरादृष्टयोर्नातिव्याप्तिः । नन्वेवं काललक्षणे कालिकसम्बन्धप्रवेशेन कालस्य घटकत्वादात्माश्रय इति चेन्न तस्य स्वरूप सम्बन्धविशेषपरत्वेन अदोषात् ।
ननु कार्यमात्र प्रति कालस्य निमित्तकारणत्वे किं मानमिति चेत् तदुत्पत्त्यधिकरणस्य तदुत्पत्तिहेतुत्वं तदुत्पत्तिहेतोश्च तद्धेतुत्वमिति नियम एव ।
अद्य घटो भविष्यति, श्वः पटो भविता इति प्रतीत्या कालस्य कार्योत्पत्त्यधिकरणत्वं तावत्. सिद्धमेव । तत्तत्कार्यविशेषं प्रति तत्तत्कालविशेषस्य हेतुत्वसिद्धावपि यद्विशेषयोः कार्यकारणभावः असति बाधके तत्सामान्ययोरपीति न्यायेन कार्यमात्रे कालस्य हेतुत्वं सिध्यति ।
कालस्य स्वसमवेतद्वित्व द्विपृथक्त्वादिकं समवायिकारणत्वेन समवायिः कारणभिन्नत्वघटितनिमित्तकारणत्वं न सम्भवतीति तु नाशङ्कनीयम् । कालस्य समवायसम्बन्धेन द्वित्वादिकं प्रति समवायिकारणत्वम्, कालिकसम्बन्धेन च निमित्तस्वमिति समवायिकारणत्वा समवायिकारणत्वभिन्नं कारणत्वात्मकनिमित्तकारणत्वं सम्भवत्येवेति ।
‘जगतामाश्रयो मतः’ इति कारिकांशेन कालः सर्ववानिति प्रतीत्या जगदाधारत्वेन कालः सिध्यतीति कालसद्भावे प्रमाणं सूचितम् । प्रतोतिरियं दिग्विषयिणोति तु न वक्तुं शक्यम् । प्रमाणान्तरेणकालसिद्धौ प्रकृतत्रतोतिबलेन कालस्य जगदाधारत्व-
[[47]]
कल्पनात् ।
कालसाधकप्रमाणान्तरं च इदानीं घटः इति प्रतीतिरेव
एवा
च प्रतीतिः सूर्यपरिस्पन्दविषयिणीति न शक्यं वक्तुम् । तथाहि —सूर्यपरिस्पन्दादिना घटादेनं संयोगः, द्रव्ययोरेव संयोग इति नियमात् । नापि समवायः, अन्यनिष्ठक्रियाया अन्यत्र समवायासम्भवात् । अपि तु स्वाश्रयतपनसंयोगिसंयोग एवं सम्वन्धो वाच्यः । स्वं सूर्यक्रिया, तदाश्रयः तपनः, तत्संयोगी कालः, तत्संयोगः घण्टे इति सम्बन्धघटकतया कालः सिध्यति । नच सम्वन्धघटकसंयोगि आकाशादिकमेवास्तामिति वाच्यम् । आकाशदिगात्मनां विनिगमनाविरहेण अतिरिक्तककालस्यैव संयोगिपदेन ग्रहणात् ।
परापरत्यहेतुः कालः । परत्वापरत्वबुद्धेरसाधारणं निमित्तं काल एव । कालिकपरत्वापरत्वे सासमवायिकारण के भावकार्यत्वात्, घटादिवत् इत्यनुमानेन कालिकपरत्वापरत्वयोरामवायिकारणं काल पिण्डसंयोगः सिध्यति । तादृशसंयोगा-
या बायसिद्धिः । नच पृथिवीपिण्डसंयोग एव परत्वापरत्वयोरसमवायिकारणवस्तु सा तालसिद्धिरिति वाच्यम् । पृथिव्यसंयुक्तपदार्थेऽपि कालिकपरत्वापरत्वयोरुत्पादेन व्यभिचारात् । आकाशदिगात्ममनोभिः पिण्डसंयोगस्य परत्वापरत्वा समवायिकारणत्वं विनिगमनाविरहः । अतो लाघवादतिरिक्तः एका छात्रः सिध्यतीति एतव्यम् ।
वे वासस्य सिद्धी क्षण-दिन मास वर्षादिसमयभेदः न स्यादिति चेन्न ; ज्या क्षणादिव्यवहारः सव्यति । तत्र क्षणोपाधेः चलारि. लक्षणानि । तथाहिस्वजन्य विभागप्रागभावकर्म, रणोपाधिः क्रिया, क्रियाती विभागः, विभागात् पूर्वदेशासंयोगनाशः ततः उत्तरदेशसंयोगः, ततः क्रियानाशः इति क्रमः । एवं च स्वं क्रिया तज्जन्यविभावविशिष्टं कर्म उपाधिः, तादृशत्रियोपलक्षितकालः प्रथमम। पूर्वसंविभागः द्वितीयक्षणोपाधिः । पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगपरागभावः तृतीयक्षणोपाधिः । उत्तरसंयोगावच्छिन्नं कर्म चतुर्थक्षणोपाधिः । अनोपाधित्यं नाम परिचायकत्वम् । नच उत्तरसंयोगानन्तरं क्षणव्यवहारो न स्यादिति वाच्यम् । कर्मान्तरस्यापि सत्त्वात् । नच महाप्रलये क्रियाभावात् भणादिव्यवहारः न स्यादिति वाच्यम् । महाप्रलये क्षणादिव्यवहारसत्त्वे अनायत्यां तत्र वक्षणादिव्यवहार उपपादनीयः । स्ववृत्तिध्वंसप्रतियोगि प्रतियोगिकयावद्fears a caोपाधिः । स्वं प्रलयः, तद्वत्तिध्वंसप्रतियोगिनः ये
एवं पटादयः यावतां तेषां विशिष्टः समयः स एवेति समन्वयः इति ।
[[48]]
घटन
अथ दिङ् निरूपणम्
प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका नित्या विस्वच । प्राच्यादिव्यवहारनिष्ठकार्यतानिरूपितका रणताश्रयत्वं दिशो लक्षणम् । प्राच्यादिव्यवहारनिष्ठा या कार्यता अयं प्राच्यः, अयं प्रतीच्यः, अयमुदीच्यः, अयमवाच्यः इत्याकारकव्यवहारे विद्यमाना कार्यता तन्निरूपितकारणताश्रयत्वं दिक्ष पर्तत हृतिरीत्या समन्वयः । व्यवहारहेतुत्वमात्रोक्तो घटादी, आदिपदाभावे प्रतीच्यादिषु च अव्याप्त्यतिव्याप्ती । पूर्ववद्दलनिवेशेऽपि घटादावतिव्याप्तिवारणाय प्राच्यादिव्यवहारनिष्ठकार्यतानिरूपितकारणतावज्ज्ञानीयमुख्यविशेष्यतानिरूपित प्रकारसाश्रयत्वं इति परिष्कृतं लक्षणम् । अन्यत्सर्वं पूर्वयत् ।
दूरान्तिकादिधीहेतुः दिक् ।
दूरत्वमन्तिकत्वं च दैशिकपरत्वापरत्वे, ते सासमवायिकारणके भावकार्यत्वात् इत्यनुमानेन दैशिकपरत्वापरत्वयो रसमवायिकारणं fararusiयोगः सिध्यति, तदाश्रयत्वेन दिक् सिध्यतीति । दिशं एकत्वेऽपि उपाधि-
भेदात् प्राचीप्रतीच्यादिव्यवहारः सिध्यति ।
यन्मूर्त तन्मूर्तावच्छिन्ना दिक् तन्मूर्तापेक्षया प्राची ।
व्यवहितं यन्मूर्त तन्मूर्तावच्छिन्ना दिक् तन्मूर्तापेक्षया
यन्मूर्तापेक्षया उदयगिरिसन्निहितं
V
एवं यन्मूतपेिक्षया उदयगिरि-
प्रतीच । एवं यन्मूर्तापेक्षया
सुमेरुगिरिसन्निहितं यन्मूर्त तन्मूनविच्छिन्ना दिक् तन्मृतपेक्षया उदीची । एवं यन्मूर्तापेक्षया सुमेरुगिरिव्यवहितं यन्मूर्तं तन्मूत विच्छिन्ना दिक् तन्मूर्तापेक्षया दक्षिणा । ‘सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः’ इति नियमात् ।
अथ आत्मनिरूपणम्
ज्ञानाधिकरणमात्मा । स द्विविधः परमात्मा जीवात्मा चेति । तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । जीवस्तु प्रतिशरीरं भिन्नः विभुर्नित्यश्च ।
आत्मानं लक्षयतिज्ञानाधिकरणमिति । अन्नाधिकरणपदं समवायेन ज्ञानाश्रयत्वलाभाय । अन्यथा कालादौ अतिव्याप्तेः । समवायसम्वन्धावच्छिन्नज्ञानत्वावच्छिन्नाधेयतानिरूपिताधिकरणताश्रयत्वमात्मनो लक्षणम् । कालिकसम्बन्धावच्छिशज्ञाननिष्ठाधेयतां गुणत्वावच्छिन्नाधेयतां चादाय कालादावतिव्याप्तिवारणाय अवच्छिन्नत्वद्वयम् । उत्पन्नविनष्टस्यात्मन अभावेन जातिघटित लक्षणपरिष्कारानवसरः ।
[[49]]
केचित्तु मुक्तात्मनि ज्ञानाभावात् तत्राव्याप्तिवारणाय जातिघटितं लक्षणं कर्तव्यम् । तथाच ज्ञानसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वमिति वक्तव्यमिति वदन्ति । वस्तुतस्तु जातिघटितलक्षणं विनापि अधिकरणपदेनैव अव्याप्तिवारणं भवति । मुक्तात्मनां शरीराभावेन अव्याप्यवृत्तिज्ञानस्यासम्भवेऽपि अधिकरणस्वरूपाया अधिकरणतायाः व्याप्यवृत्तेः सत्त्वात् । ज्ञानवान् आत्मा इत्युक्तेऽपि गुणगुणिनोस्समवायात् समवायसम्बन्धस्य लभ्यतया मुक्तात्मन्यव्याप्तिवारणस्य अधिकरणपदेनैव सम्भवात् इति ध्येयम् । सद्विविधः जीवात्मा परमात्मा चेति आत्मविभागः कृतः तन नित्यज्ञानाधिकरणत्वमीश्वरत्वम् । तत्तद्विषयकत्वेन सर्वविषयकज्ञानाश्रयत्वं वा । जीवस्तु प्रतिशरीरं भिन्न इति जीवस्य सुखदुःखादिवैलक्षण्येन शरीरभेदेन भेदः निश्चीयते इति ।
आत्मत्वजातिमत्त्वमात्मनो लक्षणम् । ननु स्वात्मनि स्वरूपतः आत्मनः मानसप्रत्यक्षविषयत्वेऽपि अन्यात्मनोsप्रत्यक्षत्वेन सकलात्मसाधारणमनुगतप्रत्यक्षं न सम्भवति । अनेकसमवेतत्वघटितजातित्वग्रहे अनेकव्यक्तिग्रहस्य हेतुत्वात् । आत्मत्वस्य स्वरूपतो ग्रहेऽपि तद्गतजातित्वस्याप्रत्यक्षत्वेन आत्मत्वस्य जातित्वे किं मानमिति चेन्न; समवायसम्बन्धावच्छिन्नसुखत्वावच्छिन्नकार्यतानिरूपिता तादात्म्यसम्बन्धावच्छिन्नात्मनिष्ठा कारणता किचिद्धमविच्छिन्ना कारणतात्वात् इत्यनुमानेनात्मत्वजातिसिद्धेः । नन्वीश्वरे सुखानुत्पादेन सुखसमवायिकारणत्वस्य तनाभावादीश्वरसाधारणी आत्मत्वजान्तिः कथं सिध्येदिति चेन्नं ; ईश्वरे फलोपधायकतारूपकारणताया असत्त्वेऽपि स्वरूपयोग्यतारूपकारणतायाः सत्त्वेन तदवच्छेदकतया सिध्यन्त्या आत्मत्वजातेरीश्वरसाधारण्यात् । नित्यस्य स्वरूपयोग्यत्वे फलावश्यम्भावनियम इति तु न शङ्कनीयम् जलपरमाणौ स्वरूपयोग्यतारूपकारणतायाः सत्त्वेऽपि स्नेहानुत्पादेन तस्य नियमस्याप्रयोजकत्वात् । ईश्वरे स्वरूपयोग्यता रूपकारणतासत्त्वेऽपि तत्र मिथ्याज्ञानाभावन सुखकारणीभूतादृष्टासम्भवेन सुखोत्पत्तिर्न सम्भवति । मुक्तात्मन्यदृष्टोत्पत्तिवारणाय मिथ्याज्ञानस्यादृष्टं प्रति हेतुत्वं अङ्गीकरणीयमेव । परे तु ईश्वरे आत्मत्वजातिर्नास्त्येव । नच तहि दशमद्रव्यत्वापत्तिरिति वाच्यम् ; पृथिव्यप्तेजोवाय्वाकाशकालदिगृज्ञानवन्मनांसीति ज्ञानवत्त्वेन विभजनात् । परन्तु ‘आत्मा वारे द्रष्टव्य’ इत्यादिवेदस्यात्मपदस्य ज्ञानवति लक्षणाकल्पनाप्रसङ्गादयं पक्षः न स्वारसिकः
[[50]]
हरि । ननु ’ सति धर्मणि धर्माश्चिन्त्या’ इति न्यायेन आत्मसद्भाव एव किं मानमिति चेन्न; जनकतासम्बन्धेन इन्द्रियाणां अवच्छेदकता सम्बन्धेन शरीरस्य च परम्परया चैतन्य सम्पादकत्वेन आत्मा तावदङ्गो करणीय एव यद्यपि अहं जाने, अहं सुखी इत्यादिप्रत्यक्ष विषयत्वमात्मनोऽस्ति, तथापि तादृशप्रतीतेः शरीराद्यतिरिक्तविपयत्वे’ विप्रतिपन्नं प्रति अनुमानप्रमाणेन आत्मा साध्यते । इन्द्रियाणि शरीरं च जधिष्ठितानि अचेतनत्वे सति करणत्वात् । यद्यदचेतनं करणं तत्सर्वं ज्ञातधिष्ठितं मावास्यादिः इत्यनुमानेन अतिरिक्तः कर्ता कल्प्यते ।
अथ चार्वाकमतविचारः
ते हि शरीरमेवात्मा इति मन्यन्ते । परन्तु मृतदेहे चैतन्याभावेन व्यभिचारात् नैतन्मतं साधु । ननु यथा न्यायमते मुक्तानां ज्ञानाभावेन ज्ञानाधिकरणत्वरूपचैतन्याभावः तद्वन्मम मतेऽपि स्यात् । मुक्तानां ज्ञानाभावे प्राणविशिष्टात्माभावः न्यायमते प्रयोजकः, मम मते तु प्राणाभाव एव ज्ञानाभावे प्रयोजक इति चेन्न ; शरीरस्य चैतन्ये बाल्ये विलोकितस्य स्थाविरे स्मरणं न स्यात् । शरीराणामवयवोपचयापचयैरुत्पादविनाशशालित्वात् । नच पूर्वशरीरोत्पन्न संस्कारेण द्वितीयशरीरे संस्कार उत्पद्यत इति वाच्यम् । अनन्तसंस्कारकल्पने गौरवात् । किञ्च शरीरस्य चैतन्ये बालकस्य प्राथमिकस्तन्यपाने कथं प्रवृत्तिः ? इष्टसाधनताज्ञानस्य तद्धेतुत्वेन तदानीमिष्टसाधनतास्मारकाभावात् । अस्मन्मते तु जन्मान्तरानुभूतस्येष्टसाधनत्वस्य तदानीं स्मरणात् प्रवृत्तिरुपपद्यते । उद्बोधकाभावाज्जन्मान्तरानुभूतमन्यन्न स्मर्यते । अत्र तु अनायत्या जीवनादृष्टमेव संस्कारोन्द्बोधकमिति कल्प्यते । इत्थं च संसारस्यानादितया आत्मनोऽनादित्वसिद्धौ अनादिभावस्य नाशासम्भवादात्मनः सिद्धं नित्यत्वम् ।
·
अथेन्द्रियात्मवादिनो वदन्ति चक्षुरादीनि इन्द्रियाण्येव ज्ञानकरणानि, कर्तॄणि च,
• कर्तृत्वकरणत्वयोरेकनिष्ठत्वे विरोधाभावात् इति चेन्न ; एवं सति चक्षुषा साक्षात्कृतानां चक्षुरभावे स्मरणं न स्यात् । अनुभवितुः चक्षूरूपस्यात्मनोऽभावात् । अन्यदृष्टम्यान्येन स्मरणायोगात् । यत्र समवायेन अनुभवः तत्रैवं समवायेन स्मरणमिति सामानाधिकरण्येन कार्यकारणभावात् ।
[[1]]
[[51]]
अय मनआत्मवादिन आहुः । अनित्यानां चक्षुरादीनां चैतन्यं भास्तु, नित्यस्य मनस एव ज्ञानाधिकरणत्वरूप चैतन्याङ्गीकारे को दोषः ? इति । परन्तु एतदपि न सम्भवति । मनसः अणुत्वात् प्रत्यक्षे महत्त्वस्य हेतुत्वात्, मनसि ज्ञानसुखादिसत्त्वे
तत्प्रत्यक्षं न स्यात् । यथा च मनसोऽणुत्वं तन्मनोनिरूपणे वक्ष्यते ।
अथ बौद्धमतविचारः
माध्यमिकाः, योगाचाराः वैभाषिकाः, सौतालिकाः इति वौद्धाः चतुविधाः । तत्र योगाचाराः क्षणिकविज्ञानवादिन इत्युच्यन्ते । तन्मते वस्तुमानमेव विज्ञानरूपम् । आत्मापि तथा । विज्ञानं न द्विविधम् । प्रवृत्तिविज्ञानमालयविज्ञानं च । अयं घट इत्यादिज्ञानं प्रवृत्तिविज्ञानम् । अहम् इत्याकारकं ज्ञानमालयविज्ञानम् । तदुक्तम् -
तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम् । .
तत्स्यात्प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ॥ इति ।
एतादृशं विज्ञानमेवात्मास्तु, कृतं ज्ञानाश्रयस्यात्मनः स्वीकारेण । तस्य च विज्ञानस्य स्वप्रकाशरूपत्वाच्चेतनत्वम् । ज्ञानसुखादिकं तु तस्यैवाका रविशेषः । विज्ञानं च भावः । एवं च भावाः क्षणिकाः भावत्वात् दीपशिखावत्, जलघरपटलवच्च इत्यनुमानेन तस्य क्षणिकत्वम् । तथाच क्षणिकविज्ञानमेवात्मा । नच सुषुप्तो आत्मा न सिध्येत् पूर्वोत्पन्नविज्ञानस्य क्षणिकत्वेन नष्टत्वात् । तदा पुरीतद्देश्थावच्छेदेन मनस्संयोगस्य सत्त्वेन ज्ञानकारणीभूत त्वङ्मनस्संयोगस्यासत्त्वेन विज्ञानान्तरस्योत्पत्तुमशक्यत्वादिति वाच्यम् । सुषुप्तौ घटः पटः इत्यादिप्रवृत्तिविज्ञानस्यासत्त्वेऽपि अहमित्याकारकालयविज्ञानस्य सत्वेन विज्ञानरूपात्मसिद्धेः सम्भवात् 1: ननु विज्ञानस्यात्मत्वे तस्य क्षणिकत्वेन तदाश्रितसंस्कारस्यापि क्षणिकत्वात् कालान्तरे स्मरणं न स्यादिति चेन्न । मृगमदवासनावासितवसन इव पूर्वपूर्वविज्ञानजनितसंस्काराणां उत्तरोत्तरविज्ञाने सङ्क्रमसम्भवेन स्मरणोपपतेः इति । इदं मतं नैयायिकाः नोरीकुर्वन्ति । तथाहि - विज्ञानमात्मेति वदतो मते तद्विज्ञानं जगद्विषयकं वा यत्किश्विद्विषयकं वा निविषयकं वा । आद्ये आत्मनां सर्वज्ञत्वापत्तिः । द्वितीये कि विषयकं विज्ञानमात्मा कि विषयकं नेत्यनिर्णयापत्तिः । कि चात्मस्वरूपविज्ञानस्य सविषयकत्वं सुषुप्तावपि विषयावभासप्रसङ्गः, ज्ञानस्यः
[[52]]
[[1]]
सविषयत्वात् । न तृतीयः, निर्विषयस्य ज्ञानत्वे मानाभावात् । अन्यथा निर्विषयत्वाविशेषात् घटादीनामपि ज्ञानत्वं स्यात् । एवं च सुषुप्तो निराकारा चित्सन्ततिरनुवर्तत इति न वक्तुं शक्यम् । विज्ञानव्यतिरिक्तवस्तुनोऽभावात् घटादेर्ज्ञानत्वे इष्टापत्तिरिति तु न वाच्यम् ।
विज्ञानव्यतिरिक्तस्य तस्यापलपितुमशक्यत्वात् । नन्वाकारविशेष एव विज्ञानस्य घटादिरिति चेत् तस्य विज्ञानातिरिक्तत्वे वस्तुमात्रं विज्ञानरूपमिति प्रतिज्ञाभङ्गः । अनतिरिक्तत्वे नीलपीते इति समूहालम्वनस्थले नीलाकारोsपि पीताकारः स्यात्, स्वरूपतो विज्ञानस्याविशेषात् । न चास्माभि र्नीलत्वा दिजातेरनङ्गीकारेऽपि अपोहरूपं नीलत्वं स्वीक्रियते । अपोह्यते इत्यपोह अन्तद्व्यावृत्तिः अर्थात् नीलेतराभावः । तद्रूपं नीलत्वं स्वीक्रियते तदेव विज्ञानधर्मः इति न दोष इति वाच्यम् । समूहालम्वनात्मकविज्ञाने विरुद्धयोनल व पीतत्वयोः समावेशासम्भवात् । नच समूहालम्बने नीलत्वापोतत्वे नाभ्युपगम्येते, अपि तु चित्रत्वमेव, तथाच न दोष इति वाच्यम् । एवमपि मानानुभूतस्य गर्भस्थेन स्मरणापत्तिभिया पूर्वविज्ञानवासनासङ्क्रमस्योत्तर विज्ञाने उपपादयितुमशक्यत्वेन कालान्तरेऽनुभूतस्य कालान्तरे स्मरणस्योपपादयितुमशक्यत्वात् । न चोपादानो, पादेयभावो वासनासङ्क्रमे प्रयोजकः, मातृपुत्रयोश्च नोपादानोपादेयभाव इति वाच्यम् । वासनाया अमूर्तायाः सङ्क्रमस्यैवासम्भवात् । नच पूर्वविज्ञानेन उत्तरविज्ञानं वासनाविशिष्टमेवोत्पद्यते इति वाच्यम् । वासनायां उत्पादकासम्भवात् । तत्तद्विज्ञानस्यैवोत्पादकत्वे अनन्त संस्कार कल्पनाप्रसङ्गः ।
अतः क्षणिकविज्ञानं नात्मेति सिद्धम् । यस्मि विज्ञाने संस्कारः, तत्पूर्वविज्ञाने अतिशयविशेषः कल्प्यत इत्यपि न साधु ।
अतिशयोत्पत्तौ प्रमाणाभावात् । अनन्तवासना-
·
- कल्पनाभाव एव प्रमाणमिति चेत्र ; क्षणिकविज्ञानवादिमते यत्र विज्ञाने स्मरणं,
स्मरणविषयीभूतपदार्थविषयकसंस्कारः,
तत्पूर्वविज्ञाने कल्पनीयेति गौरवम् ।
तदुत्पत्त्यनुकूलशक्तिश्च
ननु क्षणिकशरीरमेवात्मास्तु इति चेत् न ; गौरवात्, वासनासङ्क्रमासम्भवेन स्मरणानुपपतेश्च ।
ननु क्षेत्रस्थबीजादङ्कुर उत्पद्यते न कुसूलस्थबीजात् । अतोऽनुरत्वावच्छिन्नं प्रति कुर्वद्रूपत्वेन कारणता स्वीकर्तव्या । कुर्वद्रूपत्वं च अङ्कुरजनकतावच्छेदकतया
[[53]]
}
सिद्धो जातिविशेषः । स च फलोपघायके क्षेत्रस्थबीजे एव न कुसूलस्थबीजे एवं क्षणिकविज्ञाने क्षणिकशरीरे वा कुर्वद्रूपत्वेनैव उत्तरविज्ञाने उत्तरशरीरे वा वासनोत्पादकत्वं वक्तव्यमिति चेन्न । धरणिसलिलसंयोगादिरूपकारणसमवधाने अङ्कुरोत्पादः, न तदभाव इत्येव सिद्धे कुर्वनूपत्वेन कारणत्वाङ्गीकारे मानाभावादिति ।
अथ नित्यविज्ञानात्मवादिनः वेदान्तिन आहुः । ननु क्षणिकविज्ञानस्यात्मले घासनासङ्क्रमासम्भवेन स्मरणानुपपत्तावपि नित्यविज्ञानस्यात्मत्वे न कोऽपि दोषः । ’ अविनाशी वाsरेsयमात्मा’, ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति॒ श्रुतिरेवात्मनो ज्ञानरूपस्य नित्यत्वे मानम् इति चेन्न विज्ञानस्यात्मत्वासम्भवात् । तथाहिजगद्विषयकं, यत्किविद्विषयकं निर्विषयकं वा विज्ञानमात्मा । आद्ये जीवात्मनां सर्वज्ञत्वापत्तिः । द्वितोये विनिगमकाभावप्रसङ्गः । न तृतीयः । निर्विषयकस्य ज्ञानत्वे मानाभावात् । free आत्मनां ज्ञानरूपत्वे घटविषयकोsहं इत्यनुभवापत्तिः । घटविषयकज्ञानवानहमित्येव हि सिद्धोऽनुभवः । अतो ज्ञानादिभिन्नः नित्य आत्मेति सिद्धम् ।
•
नच ’ सत्यं ज्ञानमनन्तं ब्रह्म’, ’ नित्यं विज्ञानमानन्दं ब्रह्म’ इत्यादिश्रुतिभिः ज्ञानरूप आत्मेति निश्चीयत इति वाच्यम् । ’ यः सर्वज्ञः सर्ववित्’, ‘आनन्दं ब्रह्मणो विद्वान्’ इत्यादिश्रुत्यनुरोधेन नित्यं विज्ञानमानन्दं ब्रह्म’ इत्यादिश्रुतौ ज्ञानादिपदानां अर्श आद्यजन्तत्वाङ्गीकारेण आत्मनः ज्ञानसुखाद्याश्रयत्वमेव सिध्यति, न तु ज्ञानसुखादिरूपत्वम् । किव ‘सत्यं ज्ञानम्’ इति ब्रह्मपरम् । ज्ञानाज्ञानसुखदुःखादिभिः जीवानां परस्परभेदसिद्धौ सुतरामीश्वरभेदः सिध्यति । अन्यथा बन्धमोक्षव्यवस्थापि न स्यात् । ‘तत्त्वमसि’, ‘अहं ब्रह्मास्मि’ इत्यादिश्रुतयः अपि जीवात्मनि परमात्मनः सम्बन्धं प्रतिपादयन्ति । सर्वे आत्मनि समर्पिताः । इति श्रुतिरप्येवं सङ्गता भवति । भेदस्य नित्यत्वात् मोक्षदशायामभेदो जायत इत्यपि न वक्तुं शक्यम् । भेदनाशेऽपि व्यक्तिद्वयं स्थास्यत्येव । द्वित्वनाशाङ्गीकारेऽपि यथा वेदान्तिमते ब्रह्मणि सत्यत्वाभावेऽपि सत्यस्वरूपं तदितिवत् द्वित्वाभावेऽपि व्यक्तिद्वयं स्थास्यतीति वक्तुं शक्यत्वात् । अधिकरणीभतब्रह्मात्मक मिथ्यात्वाभाव एव सत्यत्वं न त्वतिरिक्तमिति चेत् तहि एकत्वाभाव एव द्वित्वम्, तस्याप्यधिकरणस्वरूपतायाः वक्तुं शक्यत्वात् । ‘ब्रह्मविद् ब्रह्मैव भवती ‘त्यादिश्रुतयस्तु निर्दुःखत्वादिना साम्य-
·
[[54]]
अत एव
प्रतिपादिकाः सम्पदाधिक्ये ‘पुरोहितोऽयं राजा संवृत्त इतिवत् । ‘निरञ्जनः परमं सामुपैती ‘ति श्रूयते । अतो न जीवेश्वरयोरैक्यमिति ।
अथ साङ्ख्या एवमाहुः-
मूलप्रकृ’तरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारों न प्रकृतिनं विकृतिः पुरुषः ।
इति वचनानुसारेण पञ्चविंशतितत्त्वानि प्रसिद्धानि । तत्र प्रथमा प्रकृतिः, (२) ततो महान् (बुद्धिः), (३) महतोऽहङ्कारः, (४-८) ततः शब्दादि पञ्चतन्मात्राणि, (९-१३) पञ्चतन्मात्त्रेभ्यः पञ्चभूतानि, ( १४ - १८) अहङ्क्रारादेव चक्षुः, रसना, घ्राणं, श्रोनं, त्वगाख्यानि पञ्च ज्ञानेन्द्रियाणि (१९-२३) वाक्पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाणि, (२४) मनः (ज्ञानकर्मेन्द्रियोभयात्मकं) एतानि जायन्ते । (२५) पुरुष : पञ्च विशः इति पञ्चविशति तत्त्वानि साङ्ख्यैरभ्युपगम्यन्ते । तन्मते च पुरुषाख्यः चेतनोऽपि ज्ञानरूप एव । अन्यथा तत्त्वाधिक्यापत्तिः । तन्मते प्रकृतिः कर्ती, पुरुषस्तु पुष्करपलाशवन्निर्लेपः, किन्तु चेतनः ज्ञानरूपः । तन्मते कार्यकारणयोरभेदात् कार्यनाशे सति कार्यरूपतया पुरुषनाशोऽपि मा भूदिति तस्य अकारणत्वम् । ‘चेतनोऽहं करोमि ’ इति बुद्धो चैतन्याभिमानान्यथानुपपत्त्या पुरुषः कल्प्यते । बुद्धिश्च प्रकृतेः परिणामः । सैव महत्तत्त्वम्, अन्तःकरणम् इत्युच्यते । बुद्धिसत्त्वासत्त्वाभ्यामेव पुरुषस्य संसारापवर्गोम् । बुद्धिः इन्द्रियरूपप्रणालीद्वारा घटादिना सम्म्बध्य ज्ञानरूपेण परिणमते । एवं च ज्ञानं बुद्धिपरिणामरूपः धर्मः, न त्वात्मधर्मः । पुरुषे ‘अहं कर्ता’ इत्यभिमानः, बुद्धी तनोऽमित्यभिमानश्च बुद्धिप्रतिबिम्बित पुरुषभेदाग्रहात् । ‘ममेदं कर्तव्यमिति’ प्रवर्तकज्ञाने ममेत्यंशः पुरुषोपरागः । अयं च स्वच्छायां बुद्धी प्रतिबिम्बितस्य पुरुषस्यावास्तविकः सम्बन्धः, दर्पणम्यमुखोपरागवत् ।
दर्पणम्थमुखोपरागवत् । निश्वासाभिहते दर्पणे वास्तविकं मालिन्यमिव इन्द्रियप्रणालिकया बुद्धेः परिणामविशेषः इदमिति विषयोपरागः । कर्तव्यमिति विषयाभिमुखी प्रवृत्तिः । यथा दर्पणमालिन्येन मुखस्यावास्तविकसम्बन्धः प्रतीयते तथा बुद्धिपरिणामेन ज्ञानेन पुरुषस्यावास्तविकः सम्बन्धः उपलब्धिरित्युच्यते । ज्ञानंवत सुखदुःखेच्छाद्वेषधर्माधर्मादयः अपि बुद्धिपरिणामा एव, कृत्या साकं प्रतीयन्ते । चैतन्यमेकं तु न बुद्धिनिष्ठम् । ‘बुद्धिर्न चेतना परिणामित्वात् घटवत्’ इत्यनुमानविरोधात् इति साङ्ख्यमतम् । अत्र तार्किका एवमाहुः-
[[55]]
कृत्यदृष्टमोगानामिव चैतन्यस्यापि कृतिसामानाधिकरण्येन प्रतीत्या चेतनभिन्नायां बुद्धी मानाभावात् । चेतनोऽहं करोमीतिप्रतीतेः चैतन्यां प्रमत्वे कृत्यऽम्पि भ्रमत्वं स्यात् । यदि चेतनः अन्यः कर्ती बुद्धिरूपा प्रकृतिरेव इत्यङ्गीक्रियते तदा बुद्धेरनित्यत्वे तदुत्पत्तेः पूर्वं संसाराभावप्रसङ्गः। नित्यत्वे पुरुषस्य सदा बुद्धिसम्बन्धस्यावर्जनीयतया मोक्षाभावप्रसङ्गः। नन्वचेतनायाः प्रकृतेः कार्यत्वात् कार्यकारणयोस्तादात्म्यात् बुद्धिरप्यचेतनेति चेन्न कार्यकारणयोस्तादात्म्यस्यासिद्धेः । कर्तुर्जन्यत्वे मानाभावात् । प्रत्युत वीतरागजन्मादर्शनात् एतज्जन्मनः पूर्वजम्मीयरागादिकं कारणमिति पूर्वपूर्वजन्म सिद्धघा कर्तुरनादित्वमेव सिध्यति । अनादिभावस्य नाशासम्भवाच्च कर्तुनित्यत्वम् । अतः कर्ता चेतनश्च एक एव ।
i
‘प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
ननु
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।’ इति गीतायां प्रकृतेर्गुणैः सत्त्वरजस्तमोरूपैः कर्माणि क्रियमाणानि भवन्ति । अहङ्कारेण चेतनोऽहं करोमीति प्रत्ययेन विमूढः आत्मा अन्तःकरणं यस्य स पुरुषः कर्ता अहमिति मन्यते इत्यर्थस्य सूचनात् प्रकृतिरेव कर्त्री, न पुरुषः, ‘असङ्गो ह्ययं पुरुषः ’ इतिश्रुत्या तस्याकारणत्वेन कर्तृत्वाभावात् । न चैतादृशपुरुषस्याङ्गीकारः व्यर्थः इति वाच्यम् । क्वचित्प्रसिद्धस्यैव चैतन्यस्य बुद्धावारोपसम्भवेन बुद्धिगत चैतन्याभिमानोपपत्तये तत्कल्पनम् । बुद्धिरेव महत्तत्त्वमन्तःकरणमित्युच्यते । नच पुरुषस्या कर्तृत्वे तव धर्माधर्मयोरुत्पादासं भवेन
पुरुषस्याकर्तृत्वे तदधीनमुखदुःखयोरपि तत्रानुत्पादात् दुःखध्वंसरूपो मोक्षः पुरुषस्य न स्यादिति नोक्षार्थं प्रकृतिपुरुषविवेकस्यापि नापेक्षेति तदर्थं क्रियमाणं साङ्ख्यशास्त्रमप्यनर्थकं स्यादिति वाच्यम् । बुद्धिसत्त्वे इन्द्रियद्वारा बुद्धिपरिणामेन घट इत्यादिज्ञानेन सम्बद्ध । घटादिविषयः घटाद्याकारज्ञानपरिणामिबुध्या सान्निध्यरूपदोषेण अगृहीत भेदवत्त्वसम्बन्धेन पुरुषनिष्ठः पुरुषस्वरूपति रोधायकः । पुरुषस्य संसारापादकोऽप्ययमेव । बुद्धिनाशे तु तत्परिणामस्य ज्ञानस्य अभावात् पुरुषस्य विषयावच्छेदकाभावेन कैवल्येन अवस्थानरूपो मोक्षः सम्भवति । दुःखसंवन्धतद्ध्वंसरूपी संसारमोक्षौ तु बुद्धेरेव न पुंसः । पुरुषः बृद्धिभेदाग्रहादेव अहं वद्ध इति, तद्भेदग्रहादेव अहं मुक्त इत्यभिमन्यते । अतः प्रकृतिपुरुषविवेकोद्बोधनेनं शास्त्रस्य सार्थक्यम् । एवं च धार्मिकोऽहं करोमीति कृतिसामानाधिकरण्येन प्रतीयमाना धर्मादयोऽपि चैतन्यमेकं पुरुषनिष्ठमिति साङ्ख्याः ।
[[56]]
बुद्धेरेव,
।
परन्तु नैतन्मतं सहन्ते न्यायविदः । चेतनोऽहं करोमीति ज्ञानसामानाधिकरण्येन प्रतीयमानायाः कृतेः, तथा कृतिसामानाधिकरण्येन प्रतीयमानानां धर्मादीनां च पुरुषनिष्ठत्वमेवोचितम् । नच ‘प्रकृतेः क्रियमाणानि ’ इति गीतावाक्येन बुद्धेः कर्तृत्व सिद्धी चेतनोऽहं करोमीति प्रतीतिः चैतन्यांशे भ्रमः, बुद्धेरचेतनप्रकृतिपरिणामित्वेन अचेतनत्वादिति वाच्यम् । प्रकृतेः अदृष्टस्य गुणैः तज्जन्येच्या दिभिः सर्वशः सर्वाणि कर्माणि क्रियमाणानि भवन्ति । परन्तु अहङ्कारेण अहमेव कर्ता इत्यभिमानन विमूढः आत्मा अन्तःकरणं यस्य सः तादृशः जीवः कर्ताहमेवेति मन्यते इति तदर्थः पूर्वमेवोक्तः । उत्तरत्राष्टादशे - ’ पञ्चैतानि महाबाहो कारणानि निबोध मे । अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाश्च पृथक् चेष्टा दैवं चैवात्र पञ्चमम् ॥ तत्त्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ इत्यादिना भगवता अयमाशयः स्पष्टीकृत इति ।
•
एवं च नैयायिकमते धर्माधर्माश्रियः आत्मा, शरीरस्य तदाश्रयत्वे देहान्तरकृतकर्मणां देहान्तरेण भोगानुपपत्तिः । अयं चात्मा ज्ञानसुखादियोग्यविशेषगुणसम्बन्धेन अहं जाने, अहं सुखी इत्यादिप्रत्यक्षविषयो भवति । परदेहादी तु — परदेहः आत्मवान् चेष्टावत्त्वात् रथवत् इत्यात्मसिद्धिरिति । न चेष्टानिष्टप्राप्तिपरिहारानुकूल ‘क्रियारूपचेष्टायाः रथेऽभावेग दृष्टान्तासिद्धिरिति वाच्यम् । चेष्टापदेन उत्तरदेश संयोगप्राप्तियोग्य क्रियाया विलक्षणेन अदोषात् । चेतनप्रयुक्ततादृशक्रियाया विवक्षणेन च जले व्यभिचाराभावात् । वस्तुतः ‘भीषास्माद्वातः पवते ’ इति श्रुत्या चेतनप्रयुक्ततादृशक्रियायाः, एवं आत्मवत्त्वस्य च तत्र सत्त्वेन व्यभिचारावाच्चेति । आत्मा च विभुः । परमात्माच संसारमहीरुह्स्य बीजभतः ।
ईश्वरवादः
नन्वीश्वरे प्रमाणाभावात्
“संसार-मही-रुह-निमित्त-कारणं स” इति कथनम् अयुक्तम् ।तथाहि - प्रत्यक्षं द्विविधं बाह्यं मानसं च ।
तत्र बहिर्-इन्द्रिय-जन्य-द्रव्य-प्रत्यक्षे
उद्भूत-रूपस्य-कारणत्वात्
ईश्वरस्य च रूपाभावान्, न तत्र बाह्य-प्रत्यक्ष-प्रसरः ।न वा तत्र मानस-प्रत्यक्षं सम्भवति -
परात्मनः परेण मानसप्रत्यक्षवारणायआत्म-मानस-प्रत्यक्षं प्रति
परात्म-व्यावृत्त-विजातीय-मनस्-संयोगः कारणम्इत्य् अभ्युपगमेन
ईश्वरे तद्-अभावात् । [[57]]नाप्य् अनुमानम् - लिङ्गाभावात् ।
नाप्य् उपमानं, ईश्वर-तुल्यस्य कस्यचिद् अभावेन प्रमाणागोचर ईश्वरः कथम् अङ्गीकार्य
इति चेन् न ;
कार्यं प्रति कृतेः कारणता-स्वीकारेण,
+++(क्षितेः प्रत्यक्ष-सावयत्वात् कार्यत्वे सिद्धे सति )+++
क्षितिः कृति-जन्या कार्यत्वात् - घटवद् इत्य् अनुमानेन
क्षितेः कृति-जन्यत्व-सिद्धौ
क्षिति-जनिका कृतिः यत्-किञ्चिद्-आत्म-समवेता, कृतित्वात्, अस्मदादि-कृतिवत्
इत्य् अनुमानेन
तादृश-कृत्य्-आश्रयीभूतः कश्चिद् आत्मा सिध्यति ।
स चास्मद्-आदिर् न सम्भवतीति रीत्या
ईश्वरः सिध्यति ।
ननु “क्षितिः कृतिजन्या कार्यत्वाद्” इत्य् अनुमानेन
पक्षतावच्छेदकावच्छेदेन +++(साध्येन)+++ पक्षतावच्छेदक-सामानाधिकरण्येन +++(साध्य-प्रयोगेण)+++ वा कृति-जन्यत्वं साध्यते ?नाद्यः - पक्षतावच्छेदकं क्षितित्वं,
तद्-अवच्छेदेन +++(→जाति-व्यापकत्वेन)+++ कृति-जन्यत्व-साधने
+++(अ-कृति-जन्ये क्षिति-)+++परमाणौ बाधः ।न द्वितीयः -
पक्षतावच्छेदकं क्षितित्वं,
+++(हेतुमत्त्व-सहित-)+++तत्-सामानाधिकरण्येन +++(व्यक्ति-रूप-पक्षे अधिकरणे)+++ कृति-जन्यत्व-साधने
घटादौ सिद्ध+++(-जीवीय-कृति-जन्यत्व)+++-साधनाद्
इति चेन् न।
एवं तर्हि -
अङ्कुरः कृति-जन्यः, कार्यत्वात्, घटवत्
इत्य् अनुमानेन +ईश्वरः साधनीयः ।
अत्र च अङ्कुरत्वावच्छेदेन कृति-जन्यत्व-साधने
न क्वापि बाधः,
नित्याङ्कुरस्याभावात् +++(न हेतोर् असिद्धिः)+++।
अङ्कुरत्व-सामानाधिकरण्येन वा कृति-जन्यत्व-साधने
न क्वापि सिद्ध-साधनं -
क्वाप्य् अङ्कुरे जीवीय-कृति-जन्यत्वाभावाद् इति ।
न च
अङ्कुरः कृति-जन्यत्वाभाववान् - शरीराजन्यत्वाद्, आकाशवद् इत्य् अनुमानेन सत्-प्रतिपक्ष
इति वाच्यम् ।
अन हेतुसाध्ययोरत्यन्ताभावरूपत्वेन नित्यत्वात् कार्यकारणभाव भङ्गप्रसङ्गरूपव्यभिचारशङ्कानिवर्तकतर्कशून्यत्वेन अस्यानुमानस्याप्रयोजकत्वात् । अस्माकं तु यदि कार्यत्वं कृतिजन्यत्वव्यभिचारि स्यात् तदा कृतिजन्यतावच्छेदकं न स्यादित्येवानुकूलस्तर्कः । यदि कार्यत्वेन कृतित्वेन सामान्यकार्यकारणभावमनङ्गीकृत्य कुलालादिकृतिघटादि • कार्याणामेव विशेषकार्यकारणभावोऽङ्गीक्रियते, तथाच न पूर्वोक्तानुमानेने श्वरसिद्धिरित्युच्यते तदा सर्गाद्यकालीनो घटः कुलालकृतिजन्यः घटत्वादित्यनुमानेनैवेश्वरः साघनीयः । ’ नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमः’ इति श्रुत्या ईश्वरस्य कुलालत्वं चेष्टमेवेति ।
अथ मनोनिरूपणम्
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ।
उपलब्धिर्नाम साक्षात्कारः । तथाच सुखादिविषयकप्रत्यक्षनिष्ठ कार्यतानिरूपितकारणताश्रयत्वे सति इन्द्रियत्वं मनसो लक्षणम् । सुखादिविषयकं अहं सुखीत्यादि-
[[58]]
सुखाद्युपलब्धिकारणत्वसत्त्वंsपि
तत्करणत्वाभावान्नातिव्याप्तिः । अत एव ’ साक्षात्कारे सुखादीनां करणं मन उच्यते ’ इति कारिकावली । तथापि मनसः इन्द्रियत्वमनङ्गीकुर्वतां वेदान्तिनां मतनिरासाय तथोक्तमिति ध्येयम् । अथवा स्पर्शरहितत्वे सति क्रियावत्त्वं मनसो लक्षणम् । मनो विभजते – तच्चेति । एकैकस्यात्मनः एकैकं मन इत्यात्मनामनेकत्वान्मनसोऽप्यनेकत्वमित्यर्थः । परमाणुरूपम्मिति । मध्यमपरिमाणवत्त्वेऽनित्यत्वप्रसङ्गात् ।
ननु सुखाद्युपलब्धिसाधनमिन्द्रियमिति मनोलक्षणे इन्द्रियत्वस्य ज्ञानकारणमन-स्संयोगाश्रयत्वघटितेन्द्रियलक्षणे मनस्त्वस्य च प्रवेशादन्योन्याश्रयत्वम्, एवं मनोलक्षणे इन्द्रियत्वस्य निवेशेन तस्य च मनः पदघटितत्वेन आत्माश्रयत्वं चेति चेत् इन्द्रियलक्षणप्रविष्टमनोवृत्तिमनस्त्वस्य जातित्वेन स्वरूपतो भानान्न दोषः । मनस्त्वजातिमत्त्वम्, सुखाद्युपलब्धिकरणत्वं वा मनोलक्षणमित्यङ्गीकारेण नात्माश्रयत्वम् ।
सुखसाक्षात्कारः सकरणकः जन्यसाक्षात्कारत्वात् चाक्षुषसाक्षात्कारवत् इत्यनुमानेन मनसः करणत्वसिद्धिः । न चैवं दुःखादिसाक्षात्काराणामपि करणान्तराणि स्युरिति वाच्यम् । लाघवात् एकस्यैव सकलसाक्षात्कारकरणतया सिद्धेः । एवं भावकार्यस्य सासमवायिकारणकत्वनियमेन सुखाद्यसमवायिकारणसंयोगाश्रयतथापि मनस्सिद्धिर्द्रष्टव्या । चाक्षुषरासनादिज्ञानानामयौगपद्यात्तस्याणुत्वम्
नानेन्द्रियाणां
विषयसन्निधाने सत्यपि यत्सम्बन्धादेकेनेन्द्रियेण ज्ञानमुत्पद्यते यदसम्बन्धाच्च परैर्ज्ञानं नोत्पद्यते, तस्य मनसो विभुत्वे तदसम्बन्धाभावेन ज्ञानयौगपद्यापत्त्या मनो न विभु । नच तदानीमदृष्टविशेषोद्बोधकविलम्बादेव तज्ज्ञानविलम्ब इति वाच्यम् । तथा सति चक्षुरादीनामप्यकल्पनापत्तेः ।
नच दीर्घशष्कुलीभक्षणार्दा नानावधानभाजां च कथमेकदाने केन्द्रियजन्यज्ञानमिति वाच्यम् । मनसोऽतिलाघवात् झटिति नानेन्द्रियसम्बन्धान्नानाज्ञानोत्पत्तेः । उत्पलपत्त्रशतस्य सूच्या वेध इव तत्र यौगपद्यप्रत्ययस्य भ्रान्तत्वात् । नच मनसः सङ्कोचे एकेन्द्रियमात्त्रसम्बन्धादेकमेव ज्ञानम्, विकासे तु नानेन्द्रियैर्मन॑स्सम्बन्धाद्युगपन्नानाज्ञानोत्पत्तिरिति वाच्यम् । नानावयवतन्नाशादिकल्पने गौरवात् । मनसोऽनित्यत्वा-
[[59]]
पत्त्या जन्मान्तरानुभूतानायतिकविषयस्मरणस्याप्यनुपपत्तेः । अनायतिकविषयाश्च बालस्य प्राथमिकस्तन्यपानादयः । ‘मनो हि जन्मान्तरसङ्गतिज्ञम्’, ‘तच्चेतसा स्मरति नूनमवोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि इति कालिदासेनाप्युक्तेः । वस्तुतस्तु स्पर्शरहितस्य मनोद्रव्यस्य आकाशवेद् विभुत्वाङ्गीकारे विभुद्वयसंयोगानङ्गीकारेण आत्ममनस्संयोगस्यासमवायिकारणस्याभावात् ज्ञानस्यैवानुत्पत्तिप्रसङ्गः । दिभुद्वरसंयोगाङ्गीकारे च तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गः । पुरीतद्व्यतिरिक्तदेशावच्छिन्नात्ममनस्संयोगस्यैव ज्ञानकारणत्वाभ्युपगमेन तस्य सर्वदा विद्यमानत्वात् । अणुत्वे तु यदा मनः पुरीतत्प्रविशति तदा सुषुप्तिः, यदा निस्सरति तदा ज्ञानोत्पत्तिरिति मनसोऽणुत्वं सिध्यतीति ।
अथ गुणप्रकरणे रूपनिरूपणम्
चक्षुर्मात्रग्रासो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरितकपिशभेदात् सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्ल जले भास्वरशुक्लं तेजसि ।
•
प्रथमोद्दिष्टं रूपं निरूपयति-चक्षुर्मात्रेति । चक्षुभिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं रूपस्य लक्षणम् । चक्षुभिन्नं त्वगिन्द्रियम्, तज्जन्यं अयमुष्णः इत्याद्याकारकं प्रत्यक्षम्, तद्विषयत्वं स्पर्शे, अविषयत्वं रूपे, एवं चक्षुरिन्द्रियजन्यं अयं शुक्लः इत्यादिस्वरूपं यत्प्रत्यक्षं तद्विषयत्वं गुणत्वं च रूपे अस्तीतिरीत्या लक्षणसमन्वयः । विशेष्यमात्नोपादाने रसादिगुणेषु, विशेषणमात्रोः पादाने येनेन्द्रियेण या व्यक्तिर्गृह्यते तन्निष्ठा जातिः तदभावश्च तेनैवेन्द्रियेण गृह्यते इति न्यायेन रूपत्वे रूपाभावे चातिव्याप्तिरित्युभयोपादानम् । मात्रपदं विना चक्षुर्ग्राह्यत्वमानोक्ती सङ्ख्यायामतिव्याप्तिः । अयमेकः, इमौ द्वौ इत्यादिचाक्षुषप्रत्यक्षे सङ्ख्या या विषयत्वात् । मात्रपदनिवेशे तु चक्षुभिन्नत्वगिन्द्रियजन्यप्रत्यक्षविषयत्वस्यैव सङ्ख्यायां सत्त्वान्नातिव्याप्तिः । प्रथमसत्यन्तमात्रोक्तौ अतीन्द्रियधर्माधर्मादी अतिव्याप्तिः । एवमपि ज्ञानमात्नस्य मनोजन्यत्वेन चक्षुभिन्नमन इन्द्रियग्राह्यत्वाद्रूपेऽसम्भव इति त्वगिन्द्रियजन्यप्रत्यक्षाविषयत्वे सति इति प्रथमसत्यन्तार्थः वक्तव्यः ।
रूपलक्षणे रूपत्वं लक्ष्यतावच्छेदकं जातिरूपं प्रत्यक्षसिद्धम् । रूपत्ववत् नीलत्वादिकमपि प्रत्यक्षसिद्धम् । नीलरूपादिव्यक्तीनामेकत्वान्नीलत्वादीनामेकैक
[[60]]
व्यक्तिवृत्तित्वान्न जातित्वमिति वाच्यम् । नीलो नष्टः रक्त उत्पन्न इति प्रतीत्या नीलादेकृयादविनाशशालित्वेन नानात्वात् । अन्यथा एकनीलनाशे जगदनीलमापद्येत । स एवायं नील इति प्रत्यक्षं तु सजातीयविषयम् । सैवेयं गुर्जरीतिवत् ।
ननु पूर्वोक्तरूपलक्षणस्य प्रभाभित्तिसंयोगेऽतिव्याप्तिः इति चेन्न ; तत्न गुणपदस्य विशेषगुणपरत्वेन दोषाभावात् । न चैवं विशेषगुणत्व दलेनैव सङ्ख्यादावतिव्याप्तिवारणात् सङ्ख्य’दावतिव्याप्तिवारकमात्त्रपदवैयर्थ्यमिति वाच्यम् ; चाक्षुपप्रत्यक्षविषय विशेषगुणे द्रवत्वे सांसिद्धिकेऽतिव्याप्तिवारकतया तत्सार्थक्यात् । परमाणुरूपेऽतिव्याप्तिवारणाय त्वगिन्द्रियजन्यप्रत्यक्षविषयतानवच्छेदकीभूता चक्षुरिन्द्रियजन्यप्रत्यक्ष विषयतावच्छेदकीभूता च या जातिः तद्वत्त्वमिति लक्षणं परिष्करणीयम् । वं परिष्कारे रूपत्वजाती जातिमत्त्वाभावेनातिव्याप्त्यभावात् गुणत्वदलं व्यर्थमिति प्रतिभाति । तथापि प्रभात्वजाति सुवर्णत्वजाति वा आदाय प्रभायां सुवर्णे वा अतिव्याप्तिवारकतया तत्सार्थक्यात् ।
अथ चित्ररूपविचारः
।
ननु कर्बुर किर्मीरादिपदवाच्यं चित्रं रूपं कथमतिरिक्तमिति चेदित्यम् - नीलपीताद्यवयवारब्धोऽवयवी न तावन्नीरूपः, अप्रत्यक्षत्वप्रसङ्गात् । न चाव्याप्यवृत्तिनीलादिसमुदाय एव चित्ररूपमस्तु इति वाच्यम् । रूपस्य व्याप्यवृत्तित्वनियमात् । नापि तत्र व्याप्यवृत्तिनीलादिरूपमुत्पद्यते । पीतावच्छेदेनापि नीलोपलब्धिप्रसङ्गात् । तस्मान्नानाजातीयरूपैग्वयविनि चित्त्रं रूपमारभ्यते । अत एवैकं चित्ररूपमित्यनुभवोsपि, नानारूपकल्पने गौरवात् । ननु चित्रः पटः इत्यादौ स्वाश्रयसमवेतत्वसम्बन्धेन अवयवरूपस्यैव प्रतीतिरिति चेन्न ; विषयतासम्बन्धेन द्रव्यचाक्षुषं प्रति समवायेन रूपस्य कारणत्वेन तत्र समवायेन रूपानङ्गीकारे पटादेरप्रत्यक्षत्वप्रसङ्गात् । नच स्वाश्रयसमवेतत्वसम्बन्धेन रूपं प्रत्यक्षविषयताप्रयोजकमस्तु इति वाच्यम् } गौरवात् । ‘तस्मात् पटस्य प्रत्यक्षत्वान्यथानुपपत्त्या चित्ररूपं सिध्यति । रसगन्धयोः द्रव्यचाक्षुष कारणत्वाभावेन द्रव्यचाक्षुषान्यथानुपपत्तेरभावान्न चित्ररसचित्रगन्धसिद्धेरापत्तिरिति ।
नव्यास्तु तव अव्याप्यवृत्त्येव नानारूपम्, नीलादेः पीतादिप्रतिबन्धकत्वकल्पने गौरवात् । अत एव ‘लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः । श्वेतः
[[61]]
खुरविषाणाभ्यां स नीलो वृष उच्यते ॥’ इत्यादिशास्त्रमप्युपपद्यते । नच व्याप्याव्याप्यवृत्ति जातीययोर्द्वयोविरोधः मानाभावात् । अनुभवविरोधेन ‘एकं रूपं ’ इति प्रतीतिरप्यबाधिकैव । अन्यथा घटादेरपि लाघवादैक्यं स्यादिति वदन्ति ।
अथ रसनिरूपणम्
रसनाग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्त मेदात् षड् विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां एड् विधः । जले तु मधुर एव । रसनेन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं रसस्य लक्षणम् । अयं मधुरः, अयमम्लः इत्याद्याकारकप्रत्यक्षविषयत्वस्य गुणत्वस्य च रसे सत्त्वात्ल क्षणसमन्वयः । गुणत्वमात्रोक्तौ रूपादौ तदनुपादाने रसत्वतदभावयोश्चातिव्याप्तिरिति दलद्वयोपादानम् । चित्ररसादौ न मानम् अवयवरसस्यैव अवयविनि प्रतीत्युपपत्तेः । जले मधुर एवेति । लवणादिप्रतीति. रोपाधिकीति ।
अथ गन्धनिरूपणम्
घ्राणग्राह्यो गुणो गन्धः । स द्विविधः । सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः
घ्राणेन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं गन्धस्य लक्षणम् । घ्राणेन्द्रियजन्यं यत्प्रत्यक्षं अयं सुरभिः इत्यादिप्रत्यक्षम् तद्विषयत्वं गुणत्वं च तत्रास्तीतिरीत्या लक्षणसमन्वयः । गुणत्वमात्रोत्तौ रूपादौ तदनुपादाने गन्धत्वगन्धाभावयोश्चातिव्याप्तिः । सर्वोsपि गन्धोऽनित्य एव ।
अथ स्पर्शनिरूपणम्
त्वगिन्द्रियमात्त्रग्राह्यो गुणः स्पर्शः । स त्रिविधः शीतोष्णानुष्णाशीतमेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ।
त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं स्पर्शस्य लक्षणम्। त्वग्भिनचक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं रूपे तदविषयत्वं स्पर्श, एवं त्वगिन्द्रियजन्यं यत् प्रत्यक्षं अयं शीतः, अयमुष्णः इत्यादिप्रत्यक्षं तद्विषयत्वं गुणत्वं च स्पर्शेऽस्तीतिरीत्या लक्षणसमन्वयः । गुणत्वमात्रोक्तौ रूपादी, गुणत्वानुपादाने स्पर्शत्वस्पर्शाभावयोः, मानपदानुपादाने सङ्ख्यादी
चातिव्याप्तिः ।
[[2062]]
त्वग्भिन्नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति गुणत्वमात्रोक्ती धर्माधर्माद्यतीन्द्रियगुणेष्वतिव्याप्तिरिति दलतयोपादानम् । रूपलक्षणवदनापि त्वग्भिन्नेन्द्रियपदेन मन आदाय असम्भववारणाय मात्र पदेन चक्षुरिन्द्रियजन्यप्रत्यक्षाविषयत्वे सति इति विवक्षणीयम् । रूपरसगन्धस्पर्शलक्षणेषु परमाणुगतरूपादी इन्द्रियग्राह्यत्वविरहेण अव्याप्तिपरिहाराय जातिघटितलक्षणं परिष्करणीयम् । तत्प्रकारो यथा-त्वगिन्द्रियजन्यप्रत्यक्षविषयतानवच्छेदकचक्षुरिन्द्रियजन्यप्रत्यक्षविषयतावच्छेदकजातिमत्त्वमिति रूपलक्षणे, रसनेन्द्रियजन्य प्रत्यक्ष विषयतावच्छेदकजातिमत्त्वमिति रसलक्षणे, प्राणेन्द्रियजन्यप्रत्यक्ष दिषयतावच्छेदकजातिमत्त्वमिति गन्धलक्षणे, चक्षुरिन्द्रियजन्यप्रत्यक्षविषयतास्पर्शलक्षणे च
नवच्छेदकत्वगिन्द्रियजन्यप्रत्यक्षविषयतावच्छेदकजातिमत्त्वभिति
जातिघटितः परिष्कारः कर्तव्यः ।
.
नन्वेवं सति गुणत्वदलमनर्थकम् । परमाणुरूपादिष्वव्याप्तिवारणाय रूपादिचतुष्टयलक्षणेषु जातिघटितपरिष्कारस्य कृततया रूपत्वादावतिव्याप्त्यनवकाशादिति चेत् न; रूपलक्षणे सुवर्णत्वजातिमादाय सुवर्णे, एवं वायोरूष्मणपच प्रत्यक्षतावादिमते स्पर्शलक्षणे वायुत्वजातिमुष्णत्वजाति चादाय वायूष्मणोश्चातिव्याप्तिवारणाय, रसलक्षणे मधुररसवत्फलमिति प्रत्यक्षविष्यतावच्छेदकफलत्वजाति, गन्धलक्षणे सुरभि कुसुममिति प्रत्यक्षविषयतावच्छेदककुसुमत्वजाति चादाय अन्तिव्याप्तिवारणाय गुणपदनिवेशस्य आवश्यकत्वात् । यदि रसगन्धलक्षणघटकप्रत्यक्षस्य लौकिकत्वेन निवेशात् फलकुसुमादावतिव्याप्तिर्नास्तीत्युच्यते तदा तल्लक्षणद्वये गुणपदं स्वरूपकीर्तनपरमिति ध्येयम् ।
रूपादिचतुष्टयमिति । रूपादिचतुष्टयस्य पृथिव्यां पाकजन्यतया नित्यानित्यपृथिवीसामान्ये विद्यमानं तत् यज्जन्यं तदनित्यमिति व्याप्त्या अनित्यमिति ज्ञायते । जलादो तु पाकासम्भवात् तत्र विद्यमानस्य रूपादेः नानित्यत्वनियमः । किन्तु आश्रयस्य परमाणोः नित्यत्वेन आधेयमपि नित्यम्, आश्रयस्य द्व्यणुकादेरनित्यत्वेन आधेयमप्यनित्यम्, आश्रयनाशादाश्रयिनाश इति नियमात् । अत रूपादि’चतुष्टयपदस्य रूपादिचतुष्टयघटक मित्यर्थः । अतः जलादो रूपादिचतुष्टयाभावेऽपि नासङ्गतिः । पृथिव्यां रूपादिचतुष्टयम् जले रूपरसस्पर्शवितयम्, तेजसि रूपस्पर्शद्वतयम्, वायी स्पर्शमातम् इति यथासम्भवं ग्राह्यम् ।
[[63]]
अत्रेदं वोध्यम् - पाको नाम पूर्वरूपपरावर्तकः रूपान्तरोत्पादक : विजातीयतेज-
।
स्संयोगः । स च पृथिव्यामेव सम्भवति । तत्र हि रूपरसगन्धस्पर्शपरावृत्तिः पावकसंयोगादुपलभ्यते । न हि शतधा ध्मायमानेऽपि जले रूपादिकं परावर्तते । जले सौरभमोष्ण्यं च अम्वयव्यतिरेकाभ्यां औपाधिकमेवेति निर्णीयते शीतस्पर्शादिवत् । पृथिव्यामपि पाकः नानाविधः रूपजनकः, रसजनकः, गन्धजनकः, स्पर्शजनकश्चेति । तृणपुञ्जनिक्षिप्ते आम्रादौ पूर्वहरितरूपनाशेन पीतरूपोत्पत्तिदर्शनात् हरितरूपनाशकः पीतरूपोत्पादकश्चेति द्वौ तेजस्संयोग, एवमेव यत्र रसगन्धस्पर्शपरावृत्तिः, अपरेषां तेषामुत्पत्तिश्च तत्र पूर्वरसादिनाशकः रसाद्यन्तरोत्पादकश्च विलक्षणः पाकः कल्पनीयः । तथाच तत्तत्कार्यवैलक्षण्येन तत्तत्कार्यानुकूलपाकनिर्णयः कार्यः । एतादृशपाकवैलक्षण्यादेव पार्थिवपरमाणूनां विलक्षणद्रव्यारम्भकत्वमुपपद्यते । तथाहितृणारम्भका एव परमाणवः दुग्धदधिनवनीतघृतारम्भकाः, दुग्धाद्यारम्भकाणां विजातीयानां परमाणूनां कल्पने मानाभावात्, प्रयोजनाभावाच्च । तथाच गोभुक्ततॄणादीनामापरमाण्वन्तं भङ्गे सति तत्परमाणुषु तृणनिष्ठरूपादिचतुष्टयनाशानन्तरं दुग्धनिष्ठरूपादिचतुष्टयसजातीयं रूपादिचतुष्टयं पाकेन जन्यते । तदनु दुग्धस्य आपरमाण्वन्तं भङ्गे तेषु परमाणुषु पाकेन पुनः दधिनिष्ठ रूपादिचतुष्टयसजातीय रूपादिचतुष्टयमुत्पद्यते । एवं नवनीतघृतयोश्चोत्पत्तिः ज्ञेया । अतो गुणान्तरोत्पत्ताविव द्रव्यान्तरोत्पत्तावपि पाकः कारणम् ।
·
पाकविषये मतभेदः
तन पीलुपाकवादिनः वैशेषिकाः, पिठरपाकवादिनः नैयामिकाः । पीलप परमाणुष्वेव पाकवादिनः वैशेषिकाः कणादमतानुसारिणः । अवयविनि घटादी द्वयणकत्र्यणुकादौ वा ते पाकं नाभ्युपगच्छन्ति । पिठरे अवयविनि घटादौ द्वयणुकब्यणुकादौ च पाकवादिनः नैयायिकाः गौतममतानुयायिनः । तत्र काणादानामयमाशयः—अतिवेगवता तेजसा परमाणूनामभिघातसंयोगे सति परमाणुषु पूर्वघटनाशक - क्रियाविभागादिक्रमेण पूर्वनीलघटस्य नाशे स्वतन्त्रेषु परमाणुषु पुनः रक्तघटारम्भकक्रियाविभागादिक्रमेण रक्तघटः उत्पद्यते । परमाणुषु पूर्वनीलघटनाशक्रियाक्षणमारम्य घटान्तरे रक्तरूपोत्पत्तिपर्यन्तं क्षणप्रक्रिया निरूप्यते । (१) बहेरभि-
• घातसंयोगात् प्रथमं परमाणुषु नीलघटनाशकक्रिया । (२) ततो नीलघटारम्भक।
‘64
।
संयोगनाशः । (३) ततः असमवायिकारणसंयोगनाशात् द्वघणुकनाशः, तदनु त्यणुकनाशादिक्रमेण घटनाशः । ( ४ ) ततः ‘आश्रयनाशात् आश्रयिनाशः’ इति न्यायानुसारण परमाणुगतनीलरूपनाशः । (५) ततः स्वतन्त्रेषु परमाणुषु रक्तरूपोत्पत्तिः । ( ६ ) ततः रक्तरूपविशिष्टेषु स्वतन्त्रेषु परमाणुषु रक्तघटारम्भानुगुणक्रिया । ( ७ ) ततः परमाणूनां देशान्तरेण विभागः । ( ८ ) ततः पूर्वदेश - संयोगनाशः । ( ९ ) ततः परमाणुद्वये रक्तद्व्यणुकारम्भकसंयोगः । (१०) ततः द्वयणुकोत्पत्तिः । ( ११ ) ततः द्व्यणुके रक्तरूपोत्पत्तिः । ( १२ ) एवं क्रमेण त्यणुर्कतद्रूपचतुरण्णुकतद्रूपोत्पत्तिः ग्राह्या । एतन्मते सोऽयं घट इति प्रत्यभिज्ञा न वास्तवघटाभेदविषयिणी, किन्तु घटत्वजात्यालम्बनैव । अन्न पूर्वोत्तरघटयोः भेदादिति ।
अवयविनि अवयवेषु च पाकमङ्गीकुर्वन्तो नैयायिकाः एवमाशेरते - परमाणू नां तेजसा अभिघातसंयोगे सति नियमेन सर्वपरमाणुषु द्रव्यनाशक क्रिया जायत इत्यत्र मानाभावेन अवयविन्यपि पाकः स्वीकर्तव्यः । अत एव ‘सोऽयं घट’ इति प्रत्यभिज्ञा प्रमात्मिकेति वक्तुं शक्यते, पूर्वोत्तरघटयोरभेदात् । द्वचणुकल्यणुकाद्यनन्तावयत्रितन्नाशतत्प्रागभावादिकल्पनायाश्चाभावेन काणादमतापेक्षया लाघवं च । क्षणप्रक्रिया यथा - ( १ ) प्रथमक्षणे वेगातिशयवता तेजसा सह अवयवेषु अवयविषु च एकदैव तेजस्संयोगः । (२) ततः तेषु पूर्वश्यामादिरूपनाशः । (३) ततः सर्वत्र रक्तरूपोत्पत्तिः इति ।
अत च
- रूपादिचतुष्टयमुद्भूतं प्रत्यक्षम्, अनुद्भूतमप्रत्यक्षम् । उद्भूतत्वं च प्रत्यक्षत्वप्रयोजकः धर्मविशेषः । घटादिगतरूपादेः प्रत्यक्षविषयतासम्पादकत्वात् तत्प्रयोजकत्वम् । एतच्चोद्भू तत्वं जातिः, गुणगतसाङ्कर्यस्य नवीनैरदोषत्वाङ्गीकारात् शुक्लत्वादिना नो तत्वस्य जातित्व भङ्गः । केचित्तु ’ शुक्लत्वादिव्याप्यमनुद्भूतत्वं जातिविशेषः, तद भावकूटवत्त्वमेवोद्भूतत्वम् । तच्च न जाति ‘रिति वदन्ति ।
अथ सख्याप्रकरणम्
एकत्वादिव्यवहारहेतुः सङ्ख्या । नवद्रव्यवृत्तिः । एकत्वादिपरार्धपर्यन्ता । एकत्वं द्विविधं नित्यमनित्यं च । नित्यगतं नित्यमनित्यगतम नित्यम् । द्वित्वादिकं सर्वत्रानित्यमेव ।
[[65]]
सङ्ख्यालक्षणं तु एकत्वादिव्यवहारनिष्ठकार्यतानिरूपित कारणताश्रयत्वम् व्यवहारहेतुत्वमात्रोक्तौ घटादौ अतिव्याप्तिः ! आदिपदाभावे द्वित्वादी अव्याप्तिः । अत ’ एको घट’ इति व्यवहारहेतुत्वस्य एकत्व इव घटेऽपि सत्त्वात्तला तिव्याप्तिवारणाय एकत्वादिव्यवहारीयैकत्वादिविषयकत्वावच्छिन्न कार्यतानिरूपितकारणतावज्ज्ञानीय मुख्य विशेष्यतानिरूपितप्रकारताश्रयत्वं इति लक्षणं परिष्कर्तव्यम् । एकत्वत्वन्द्वित्वत्वादौ अतिव्याप्तिवारणाय विशेष्यतायां मुख्यत्वनिवेशः ।
प्रकारत्वानव-
च्छिन्नत्वं मुख्यत्वम् । आकाशादिगातमेकत्वं नित्यम्, घटादिगतमेकत्वमनित्यम् । द्वित्वादिकं तु ‘अयमेकः, अयमेकः, इमौ द्वौ ’ इत्यपेक्षाबुद्धिजन्यम्, क्षणत्रयावस्थाय्यपेक्षा बुद्धिनाशे द्वित्वादीनामपि नाशः । अन्यथा कालान्तरे ’ अपेक्षाबुद्धि विनापि चिरस्थायिन्या द्वित्वादिसङ्ख्ययैव तत्प्रत्यक्षापत्तिः स्यात् इति ।
द्वित्वादिविचारः
द्वित्ववित्वादयः अनेकाश्रयपर्याप्ताः । ’ अनेकाश्रयपर्याप्ता एते तु परिकीर्तिताः ’ इत्युक्तः । यद्यपि द्वित्वादिसम्बन्धः समवायेन प्रत्येकं घटादावपि वर्तते । तथापि एको द्वावितिप्रत्ययाभावात् एको न द्वावितिप्रत्ययसद्भावाच्च द्वित्वादीनां पर्याप्तिनामकः कश्चन सम्बन्धः अनेकाश्रयोऽभ्युपेयते । (१) प्रथमम् ’ अयमेकः, अयमेकः ’ इत्याकारकापेक्षाबुद्धिः, ‘अनेकैकत्वबुद्धिर्या सापेक्षा बुद्धिरुच्यते ’ इत्युक्तः । (२) ततः द्वित्वोत्पत्तिः । (३) ततो विशेषणज्ञानं द्वित्वत्वनिर्विकल्पकात्मकम् । (४) तदनु द्वित्वत्वविशिष्टद्वित्वसविकल्पकप्रत्यक्षं, अपेक्षावुद्धिनाशश्च । (५) ततो द्वित्वनाश इति क्रमः । यद्यपि ज्ञानानां द्विक्षणमात्रस्थायित्वं, योग्यविभुविशेषगुणानां स्वोत्तरवृत्तिगुणनाश्यत्वात् । तथाप्यपेक्षाबुद्धेः क्षणतयावस्थायित्वं कल्प्यते, तस्या अपि क्षणद्वय मानावस्यायित्वाङ्गीकारे द्वित्वनिर्विकल्पकप्रत्यक्षकाले तन्नाशात् द्वित्वस विकल्पककाले हित्वनाशात् विषयाभावेन द्वित्वम्प्रत्यक्षं न स्यात् । विद्यमानस्यैव चक्षुरादिना ज्ञानजननोपगमात् । अतः द्वित्वप्रत्यक्षमपेक्षाबुद्धेर्नाशक मित्यङ्गीकृत्य तस्याः विक्षणा`वस्थायित्वमप्यङ्गीकरणीयम् । कालान्तरे द्वित्वप्रत्यक्षाभावात् अपेक्षा बुद्धिमाशात द्वित्वनाः इति कल्प्यते । अपेक्षाबुद्धिस्तु द्वित्वोत्पादिका तन्नाशात् तनाशः । तत्पुरुषीयापेक्षा बुद्धिजन्यद्वित्वादिकं तेनैव गृह्यते । अतीन्द्रिये द्वणुका दो योगिना -मपेक्षाबुद्धिः, सर्गादिकालीनपरमाण्वादी ईश्वरीयापेक्षा बुद्धिः, ब्रह्माण्डान्तरवतियोगितामपेक्षा बुद्धिर्वा कारणमिति ।
[[66]]
.
अथ परिमाण प्रकरणम्
मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति । तच्चतुर्विधम्
अणु महद् दीर्घं ह्रस्वं चेति ।
मानव्यवहारनिष्ठ कार्यतानिरूपिता साधारणकारणताश्रयत्वं
श्रयत्वस्य
तत्तत्परिमाणे
तल्लक्षणम् ।
अयमणुः अयं महान इत्यादिशब्दप्रयोगरूपव्यवहारनिष्ठ कार्यतानिरूपितकारणतासत्त्वात्समन्वयः । व्यवहारहेतुत्वमानोक्तो घटादौ, असाधारणकारणत्वानिवेशे ईश्वरेच्चादृष्टादी चातिप्रसङ्गः। एवं च मानव्यवहारत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वस्य तत्त्राभावान्न दोषः । परिमाणं विभजतेतच्चतुर्विधमिति । अन भावप्रधाननिर्देशेन अन्वादिपदानां अणुत्वादिकमर्थः । धर्मवोधेच्छया धर्मिवाचकपदोच्चारणं भावप्रधान निर्देशः । अणुत्वत्वादिकं जातिः । तद्वदणुत्वादिकपरिमाणम् । अणु परमाण्वादि द्रव्यम् । अणुत्वं मनः परमाणुवृत्ति नित्यम्, द्व्यणुकवृत्त्यनित्यम् । इदमेव पारिमाण्डल्यमित्युच्यते । महत्सु अपि सर्वपतिलादी तत्प्रकर्षाभावप्रयुक्तः अणुत्वव्यवहारः गौणः । महत्त्वत्त्वजातिमन्महत्त्वं, आकाशादिगतं नित्यं, त्रसरेण्वादिगतम नित्यम् । दीर्घत्वत्वजातिमत् दीर्घत्वम् । ह्रस्वत्वत्वजातिमत् ह्रस्वत्वम् । दीर्घत्वं तसरेण्वादावेव न त्वाकाशादौ । द्वितीयं द्वणुक एवेति सम्प्रदायः । केचित्तु हस्वत्वदीर्घत्वे नित्यानित्यभेदेन द्विविधे । तत परमहस्वत्वपरमदीर्घत्वे परमाणगगनादौ । अनित्ये च ते अनित्यवृत्तिनी इति । ‘क्रोशावधिकमहान् पन्थाः इति व्यवहाराभावात् ‘क्रोशावधिकदीर्घोऽयं पन्याः इति व्यवहारसत्त्वाच्च ह्रस्वत्वदीर्घत्वे अणुत्वमहत्त्वयोः नान्तर्भवतः इति बोध्यम् ।
परिमाणे विशेषविचारः
[[1]]
[[4]]
अनित्यपरिमाणं सङ्ख्याजन्यं परिमाणजन्यं प्रचयजन्यं चेति त्रिविधम् । ‘अनित्यं द्वयणुकादौ तु सङ्ख्याजन्यमुदाहृतम्’ इत्युक्तवा द्व्यणुकस्य तसरेणोश्च परिमाणं प्रति, परमाणुपरिमाणं द्वयणुकपरिमाणं वा न कारणुम् । परिमाणस्य स्वसमानजातीयोत्कृष्टपरिमाणजनकत्व नियमात् । अणुजन्यस्थाणुत रत्वप्रसङ्गात् । द्वघणुकस्याणुपरिमाणं परमाण्वणुत्वापेक्षया नोत्कृष्टम् । ‘अणोरणुतरमुत्कृष्टम्, महतो महत्तरमुत्कृष्ट ‘मिति नियमात् । वसरेणुपरिमाणं तु न सजातीयम् । अतः अणुपरिमाणस्य स्वाश्रयारब्धद्रव्यपरिमाणारम्भकत्वासम्भवात् परमाणुगत द्वित्वसङ्ख्यामा तं द्वयणुकपरिमाणस्य,
[[67]]
।
।
।
द्वयणुकगततित्वसङ्ख्यामात्रं तसरेणुपरिमाणस्य, असमवायिकारणमित्यर्थः । कपालपरिमाणजन्यं घटपरिमाणं द्वितीयम् । प्रचयजन्यं तूलकादिपरिमाणं तृतीयम् । शिथिलाख्यः संयोगविशेषः प्रचय इत्युच्यते । परिमाणाश्रयस्य, अवयविनः नाशात् परिमाणमपि नश्यति । नच अवयविनाशः कथं परिमाणनाशकः, सत्यप्यवयविनि त्रिचतुरादिपरमाणुविश्लेषे तदुपचये च अवयविनः प्रत्यभिज्ञानेऽपि परिमाणान्तरस्य प्रत्यक्षसिद्धत्वादिति वाच्यम् । परमाणुविश्लेषे द्रयणुकनाशः, तन्नाशे च व्यणुकनाशः, एवं क्रमेण महावयविनाशस्य आवश्यकत्वात् । सति च नाशके अनभ्युपगममात्रेण अपलपितुमशक्यत्वात् । अवयविनः प्रत्यभिज्ञानं तु साजात्येन दीपकलिकादिवत् । अतः अवयविनाशात् परिमाणनाशोऽवश्यमभ्युपेय इति ।
अथ पृथक्त्वप्रकरणम्
पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति ।
पृथक्त्वं लक्षयति – पृथगिति । पृथग्व्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वं पृथक्त्वस्य लक्षणम् । ‘अयमस्मात् पृथगिति ’ व्यवहारनिष्ठकार्थतानिरूपितकारणताश्रयत्वस्य पृथक्त्वे सत्त्वाल्लक्षणसमन्वयः ।
अवधित्वं च
पृथक्त्वस्य सावधिकत्वेन सप्रतियोगिकान्योन्याभावाद् भेदः । प्रतियोगित्वादन्य एव स्वरूपसम्बन्धविशेषः । पृथक्त्वस्य अन्योन्याभावरूपत्वे पटः घटात् पृथगतिवत् पटः घटात् न इति प्रयोगापत्तिः । न हि कश्चित् तथा प्रयुक्ते । तस्माद्यदर्थयोगे पञ्चमी सोऽर्थः नञर्थान्योन्याभावतोऽन्यः गुणान्तरं तच्च पृथक्त्वमिति । तदुक्तं भाषापरिच्छेदे – ‘अन्योन्याभावतो नास्य चरितार्थत्वमिष्यते । अस्मात् पृथगिदं नेति प्रतीतिहि विलक्षणा ॥’ इति ।
पृथक्त्वे विशेषविचारः
नव्या एवमाहुः - पृथक् पदस्य भेदवान् अर्थः । न तु भेदमात्रम् । तथाच घटात् पटो न इति व्यवहारस्य अप्रामाणिकत्वेऽपि घटाद्भिन्नः इति व्यवहारस्य घटातु पृथगितिवत् प्रामाणिकतया पृथक्त्वमन्योन्याभावरूपमेव इति वदन्ति । वस्तुतस्तु पृथक्पदस्य असाहित्ययर्थः । न तु पृथक्त्वगुणवदिति । पृथगप्यनङ्गः’ इत्यादी असाहित्यस्यैव प्रतीतेः । अतः पृथक्त्वं गुणान्तरमेवेति गदाधरभट्टाचार्याः । इदं च पृथवत्वम् एकपृथवत्वानेकपृथवत्वभेदेन द्विविधम् ।
(68)
दुनोति चन्द्रात्
। तत्र
एकपृथक्त्वं नित्यद्रव्यवृत्ति नित्यम् । अनित्यद्रव्यवृति अनित्यम् । अनेक पृथक्त्वं तु ‘घटपटी मठात् पृथक्’ इत्यादिप्रतीतिसिद्धम् उभयादिसमवेतम् । तच्च सर्वमनित्यम् । अनेक पृथक्त्वं प्रति असमवायिकारणानि प्रत्येकपदार्थगर्तक पृथक्त्वानि । निमित्तकारणं चापेक्षा बुद्धिः । नव्यास्तु - अनेकपृथक्त्वे मानाभावः पूर्वोक्तप्रतीतेः प्रत्येकपृथक्त्वमादायैवोपपतेः । अन्यथा ‘चैत्रमैत्री देवदत्तात् परी, घटपटौ ‘रूपवन्ती’ इत्यादिप्रतीतिवलेन तुल्ययुक्त्या द्विपर्याप्ताने कपरत्वद्विपर्याप्तने करूपादीनां सिध्यापत्तेः इति वदन्ति ॥
[[1]]
अथ संयोगनिरूपणम्
संयुक्तव्यवहारहेतुः संयोगः ।
संयुक्तव्यवहारनिष्ठकार्यतानिरूपित कारणताश्रयत्वं संयोगस्य लक्षणम् । ‘इमो संयुक्ती’ इतिव्यवहारनिष्ठ कार्यतानिरूपित कारणताश्रयत्वस्य संयोगे सत्त्वात्समन्वयः । स चायं द्विविधः कर्मजः संयोगजश्चेति । कर्मजोऽपि द्विविधः, अन्यतरकमञ्जोभयकर्मजभेदात् । आदिमः श्येनशैलसंयोगः, भित्तिहस्तसंयोगः इत्यादिः । द्वितीयः मेषद्वयसंयोगादिः । संयोगजसंयोगस्तु हस्तपुस्तकंसंयोगात् कायपुस्तकसंयोगः, कपालवृक्षसंयोगात् घटवृक्षसंयोगः इत्यादिः । कर्मजसंयोगः पुनः द्विविधः – अभिघातः, नोदनं चेति । तत्र शब्दहेतुः संयोगः अभिघात : ( Impact ), शब्दाहेतुः संयोगः नोदनम्
· (Contact) । शिथिलत्वनिबिडत्वमृदुत्वकठिनत्वादयः संयोगत्वावान्तरजातयः । तत्त्र मृदुत्वकठिनत्वे पृथिवीमात्रवृत्तिसंयोगवृत्तिजातिविशेषौ । वैशेषिकास्तु – इमौ स्पर्शवृत्तिजातिविशेषी इति वदन्ति ।
सर्वोऽपि संयोगः जन्य एव । संयोगत्वावच्छिन्नं प्रति द्रव्यत्वेन हेतुत्वात् । क्वचिद्विभागात् क्वचिदाश्रयनाशाच्च संयोगनाशः । सर्वोऽपि संयोगोऽव्याप्यवृत्तिः । तत्त्वं च स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् । स्वं संयागः । संयोगस्य एकनिष्ठत्वासम्भवात् अनेकाश्रितोऽयं गुणः ।
अथ विभागनिरूपणम्
संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः । संयोगनिष्ठप्रतियोगितानिरूपकध्वंसजनकत्वे सति गुणत्वं विभागस्य लक्षणम् । संयुक्तद्रव्येषु प्रथमं क्रिया, क्रियातो विभागः, विभागात् पूर्वदेशसंयोगनाशः,
[[69]]
•
पूर्वदेशसंयोगनाशादुत्तरदेशसंयोगोत्पत्तिः इतिक्रमानुसारेण संयोगप्रतियोगिकनाशजनकत्वं गुणत्वं च विभागे वर्तत इति रीत्या समन्वयः । गुणत्वमात्रोक्ती रुपादी, तदनुपादाने क्रियायामपि परम्परया संयोगनाशकतया तत्वातिव्याप्तिरित्युभयोपादानम् । नच तथापि ध्वंसं प्रति प्रतियोगिनः कारणत्वेन संयोगेऽतिव्याप्तिरिति वाच्यम् । जनकतायां समवायसम्बन्धावच्छिन्नत्वस्य जन्यतायां प्रतियोगिता सम्बन्धानवच्छिन्नत्वस्य वा निवेशे दोषाभावात् । स्वरूपसम्बन्धेन जायमानसंयोगनाशं प्रति तादात्म्यसम्बन्धेन प्रतियोगिनः संयोगस्य कारणत्वेन, संयोगनाशनिष्ठकार्यतायाः प्रतियोगितासम्बन्धावच्छिन्नत्वेन संयोगनिष्ठकारणतायाः तादात्म्यसम्बन्धावच्छिन्नत्वेन च तत्र नातिव्याप्तिः ।
नच विभागस्य संयोगाभावरूपत्वमेवास्तु इति शङ्क्यम् । स हि प्रागभावो वा, ध्वंसो वा अत्यन्ताभावो वा, अन्योन्याभावो वा । नाद्यः, संयोगोत्पादात् प्रागपि विभक्तः इति व्यवहारापत्तेः । अत एव न ं तृतीयः । रूपरसयोरपि विभक्ताविति प्रत्ययापत्तेः । तन्तुपटयोः संयोगाभावेन तत्त्रापि तथा प्रतीत्यापत्तेः । न द्वितीयः विभज्यसंयुक्तेऽपि तथा प्रतीत्यापत्तेः, तत्रापि संयोगध्वंसंसत्त्वात् । ध्वंसप्रागभावयोःः
सामान्याभावत्वानङ्गीकारात् । न चतुर्थः, सर्वत्रापि तदापत्तेः ।
विभागः द्विविधः कर्मजः विभागजश्चेति । कर्मजविभागोऽपि द्विविधःएककर्मजन्यः, उभयकर्मजन्यश्चेति । आद्यः श्येनशैलविभागः । द्वितीयः मेषद्वयविभागः । विभागजविभागोऽपि द्विविधः – कारणमात्र विभागजन्यः, कारणाकारणविभागजन्यश्चेति । तत्त्र आद्यः तावत् यत्न एककपाले कर्म, ततः कपालद्वयविभागः, ततो घटारम्भकसंयोगनाशः, ततः घटनाशः, ततः तेन कपालविभागेनैव सकर्मणः कपालस्य आकाशविभागः जन्यते, ततः आकाशसंयोगनाशः, ततः उत्तरदेशसंयोगः,. ततः कर्मनाशः इति । अयमेव कारणमात्रजन्यः विभागः । नच कपालद्वयविभागजनकप्रथमकर्मणैव कपालाकाशविभागः जन्यतामिति वाच्यम् । आरम्भकसंयोगप्रतिद्वन्द्विविभागजनकत्वस्य अनारम्भकसंयोगप्रतिद्वन्द्विविभागजनकत्वस्य च विरोधात् । आरम्भकसंयोगः कपालद्वयसंयोगः, अनारम्भकसंयोगः कपालाकाश। संयोगः । उभयविभागजनककर्मणः ऐक्ये विकसत्कमलकुड्मल नाशप्रसङ्गः । तत्राग्रावच्छेदेन अनारम्भकसंयोग प्रतिद्वन्द्विविभागजन ककर्मणः सत्त्वात् तेनैव कर्मणाः
[[70]]
एकस्य कर्मणः
भूलावच्छिन्नारम्भकसंयोगविरोधिविभागोत्पत्ती आरम्भकसंयोगनाशे
स्यादिति ।
कमलनाशा
द्वितीयः यथा - यन्त्र हस्तक्रियया हस्ततरुविभागः, ततः शरीरतरुविभागः, तव शरीरे क्रियाभावात् हस्तवृत्तिक्रियाजन्यविभागेन शरीरे विभागो जन्यत इति कारणाकारण विभागजन्यः कार्याकार्यविभागः । एवं च विभागजविभागाङ्गीकारस्य आवश्यकत्वादेव विभागः अतिरिक्तगुणः, न संयोगध्वंसरूपः ।
अन्यथा शरीरं वृक्षाद्विभक्तमिति प्रत्ययो न स्यात् । तस्य संयोगध्वंसरूपत्वे हस्तक्रियाजन्यः हस्ततरुसंयोगध्वंसस्य शरीरावृत्तित्वात् शरीरे क्रियाया अमावाच्च, शरीरतरुसंयोगध्वंसोत्पत्त्यसम्भवेन’ विषयाभावात् शरीरं विभक्तमिति प्रत्यय एव न स्यात् ।
अथ परत्वापरत्वनिरूपणम्
परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तिनी । ते च द्विविधे दिकृते कालकृते चेति । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे
दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ।
परत्वापरत्वयोर्लक्षणमाहपरापरेति । परव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वं परत्वस्य लक्षणम्, अपरव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वमपरत्वस्य लक्षणम् । दैशिकं परत्वम्, दैशिकमपरत्वम्, कालिकं परत्वम्, कालिक-मपरत्वमिति तद्विभागः ।
पाटलीपुत्रात् काशीमपेक्ष्य प्रयागः परः इत्यनुभवात् प्रयागे पाटलीपुत्रावधिकं काशीनिरूपितपरत्वमङ्गीकार्यम् । तच्च परत्वं ‘पाटलीपुत्रात् प्रयागो दूरस्थः इत्यपेक्षा बुद्ध्यात्मकप्रयागनिष्ठदूरस्थत्वज्ञानात् पाटलीपुत्रावधिकं काशीनिरूपितं प्रयागे जायते । एवं ‘पाटलीपुत्त्रात् प्रयागमपेक्ष्य काशी समीपस्था’ इत्यपेक्षाबुद्धघात्मककाशीनिष्ठसमीपस्थत्वज्ञानात् पाटलीपुत्रावधिकप्रयागनिरूपितमपरत्वं काश्यां जायते। दैशिकपरत्वे एकस्यां दिश्यवस्थितयोः सन्निकृष्टमवधिं कृत्वा " अयमस्माद्विप्रकृष्टः’ इत्येवं परत्वाधारे या बुद्धिरुत्पद्यते सा निमित्तकारणम् । पिण्ड पर दिक्संयोगः असमवायिकारणम् । अपरत्वे विप्रकृष्टमवधिं कृत्वा अयमस्मात् सनिकृष्टः इति बुद्धिनिमित्तम् । सन्निकृष्टदिक्संयोगः असमवायिकारणम् ।
.
[[71]]
मूलावच्छिन्नारम्भकसंयोगविरोधिविभागोत्पत्ती आरम्भकसंयोगनाशे
स्यादिति ।
कमलनाशा
द्वितीयः यथा-यत्र हस्तक्रियया हस्ततरुविभागः, ततः शरीरतरुविभागः, तव शरीरं क्रियाभावात् हरतवृत्तिक्रियाजन्यविभागेन शरीरे विभागो जन्यत इति
•कारणाकारण विभागजन्यः कार्याकार्यविभागः । आवश्यकत्वादेव विभागः अतिरिक्तगुणः, न
एवं च विभागजविभागाङ्गीकारस्य संयोगध्वंसरूपः । अन्यथा शरीरं
- वृक्षाद्विभक्तमिति प्रत्ययो न स्यात् । तस्य संयोगध्वंसरूपत्वे हस्तक्रियाजन्यः हस्ततरुसंयोगध्वंसस्य शरीरावृत्तित्वात् शरीरे क्रियाया अमावाच्च, शरीरतरुसंयोगध्वंसोत्पत्त्यसम्भवेन’ विषयाभावात् शरीरं विभक्तमिति प्रत्यय एव न स्यात् ।
अथ परत्वापरत्वनिरूपणम्
परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टयमनोवृत्तिनी । ते च द्विविधे दिकृते कालकृते येति । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ।
परत्वापरत्वयोर्लक्षणमाहपरापरेति ।
परव्यवहारनिष्ठकार्यतानिरूपित-
कारणताश्रयत्वं परत्वस्य लक्षणम्, अपरव्यवहारनिष्ठकार्यतानिरूपितकारणताश्रयत्वमपरत्वस्य लक्षणम् । दैशिकं परत्वम्, दैशिकमपरत्वम्, कालिकं परत्वम्, कालिक-मपरत्वमिति तद्विभागः ।
पाटलीपुत्रात् काशीमपेक्ष्य प्रयागः परः इत्यनुभवात् प्रयागे पाटलीपुत्रावधिकं काशीनिरूपितपरत्वमङ्गीकार्यम् । तच्च परत्वं ’ पाटलीपुत्रात् प्रयागो दूरस्थ : ’ इत्यपेक्षा बुद्धयात्मक प्रयागनिष्ठदूरस्थत्वज्ञानात् पाटलीपुत्रावधिकं काशोनिरूपितं प्रयागे जायते । एवं पाटलीपुत्त्रात् प्रयागमपेक्ष्य काशी समीपस्था’ इत्यपेक्षाबुद्धघात्मककाशीनिष्ठसमीपस्थत्वज्ञानात् पाटलीपुत्रावधिकप्रयागनिरूपितमपरत्वं काश्यां जायते। दैशिकपरत्वे एकस्यां दिश्यवस्थितयोः सन्निकृष्टमवधिं कृत्वा अयमस्माद्विप्रकृष्टः’ इत्येवं परत्वाधारे या बुद्धिरुत्पद्यते सा निमित्तकारणम् । पिण्ड-परदिक्संयोगः असमवायिकारणम् । अपरत्वे विप्रकृष्टमवधिं कृत्वा अयमस्मात् सनिकृष्टः इति बुद्धिनिमित्तम् । सन्निकृष्टदिक्संयोगः असमवायिकारणम् ।
.
•
[[71]]
एवं चैत्रो मैत्रात्पर इत्यनुभवात् मैनावधिकम्परत्वं चतऽगीकार्यम् । तच्च चैत्रो मैनात् ज्येष्ठः इत्यपेक्षाबुद्धिरूपात् चैत्रवृत्तिज्येष्ठत्वज्ञानात् जायते । एवं मैतः चैत्रादपरः इत्यनुभवात् मैले चैतावधिकमपरत्वं स्वीकार्यम् । तच्च मैत्रः चैत्रात्कनिष्ठः इति मैत्रवृत्तिकनिष्ठत्वज्ञानात् अपेक्षा बुद्धिरूपाज्जायते । अनियतदिगव-. स्थितयोः युवस्थविरयोः अयमस्मात् अल्पत रतपन परिस्पन्दान्तरितजन्मा, अयमस्मात् प्रचुरत रतपनपरिस्पन्दान्तरितजन्मा इत्येवं बुद्धी कालिकप्ररत्वापरत्वयोः निमित्तकारणे । तत्तत्पिण्डतत्तत्कालसंयोगी असमवायिकारणे अपेक्षा बुद्धिनाशादेतन्नाशः इति ।
।
अथ गुरुत्वनिरूपणम्
आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति । आद्यपतननिष्ठकार्यतानिरूपितासमवायिकारणताश्रयत्वं गुरुत्वस्य लक्षणम् ।
आद्यपदाभावे द्वितीयादिपतनासमवायिकारणे वेगेऽतिव्याप्तिः । असमवायित्वानुपादाने पतनसमवायिकारणे फलादौ निमित्तकारणे वाय्वादों च अतिव्याप्तिः । इदश्व अतीन्द्रियं पतनरूपकार्यानुमेयम्, नित्यवृत्ति नित्यम्, अनित्यवृत्त्यनित्यम्, कारणगुणप्रक्रमोत्पत्ति, आश्रयनाशनाश्यश्च । उक्तच भाषापरिच्छेदे-
"
अतीन्द्रियं गुरुत्वं स्यात् पृथिव्यादिद्वये तु तत् ।
अनित्ये तदनित्यं स्यान्नित्ये नित्यमुदाहृतम्
तदेवासमवायि स्यात् पतनाख्ये तु कर्मणि । इति ।
पतने आद्यत्वं च स्वसम्मानाधिकरणपतनप्रतियोगिक ध्वंससमान कालिकं यत् तद्भिन्नत्वम् । स्वपदेन द्वितीयादिपतनं ग्राह्यम् । स्वपदेन नाद्यपतनं ग्रहीतुं शक्यते, तत्समानाधिकरणपतनप्रतियोगिकध्वंससमानकालिकत्वस्य तत्रासम्भवात् । द्वितीयपतनादीनां प्राथमिकध्वंससमानकालिकत्वेन निरासः ।
अथ द्रवत्वनिरूपणम्
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिवीजलतेजोवृत्ति । तद्विविधं सांसिद्धिकं नैमित्तिकं चेति । सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसो। पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ।
[[72]]
आद्यस्यन्दननिष्ठकार्यता निरूपिता समवायिकारणताश्रयत्वं द्रवत्वस्य लक्षणम् । आद्यपदाभावे द्वितीयादिस्यन्दनमादाय वेगेऽतिव्याप्तिः । असमवायिपदाभावे
समवायिकारणे जले, निमित्तकारणे निम्नदेशवावादी चातिव्याप्तिः ।
अव लक्षणद्वये ( गुरुत्व द्रवत्वलक्षणयोः) असमवायिकारणत्वं आद्यपतनादिनिष्ठ कार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वरूपमेव, कार्यतावच्छेदकसम्वन्धस्य विवक्षणे प्रयोजनाभावात् समवायसम्बन्धावच्छिन्न कार्यतानिरूपितत्वं न निवेशनीयम् ।
अथ स्नेहनिरूपणम्
चूर्णादिपिण्डीभावहेतुः गुणः स्नेहः । जलमात्रवृत्तिः ।
पिण्डीभावो नाम चूर्णादेः धारणाकर्षणहेतुभूतः विलक्षणसंयोगः । तव स्नेह एवासाधारणकारणं, न तु जलादिगतद्रवत्वम् । तथा सति द्रुतसुवर्णस्य पिण्डीभावहेतुत्वं स्यात् । एवं च सक्तुकादिसंयोगविशेषे स्नेहसहितं द्रवत्वं निमित्तम् । स्नेहः असमवायी ।
·
तथाच चूर्णादिपिण्डीभावनिष्ठ कार्यतानिरूपितकारणताश्रयत्वे सति गुणत्वं स्नेहस्य लक्षणम् । विशेष्यमात्त्रोक्तौ रूपादौ विशेषणमात्रोपादाने कालेश्वरादी च अतिव्याप्तिः । न चादृष्टस्य सर्वकार्यनिमित्तकारणत्वात्तत्वातिव्याप्तिः दुर्वारेति वाच्यम् ।
। असाधारणकारणत्वनिवेशेन तद्वारणात् । तदा गुणपदं चूर्णेऽतिव्याप्तिवारकतया सार्थकम् । अथवा स्नेहो विशेषगुण इति द्योतनाय गुणपदम् । ‘बुद्धयादिषट्कं स्पर्शान्ताः स्नेहः सांसिद्धिको द्रवः । अदृष्ट भावनाशब्दाः अमी वैशेषिकागुणाः । इत्युक्तेः । अदृष्टस्य सर्वकार्यसाधारणकारणत्वाभावपक्षे असाधारणत्वं न विवक्षणीयम् । गुणपदं तु कालवारणायेति बोध्यम् ।
अत्र स्नेहस्य पिण्डी मावहेतुत्वं स्वाश्रयसंयुक्तत्व सम्बन्धेन । स्वं स्नेहः, स्वाश्रयो जलं, तत्संयुक्तः चूर्णादिः इति । द्रुतजलसंयोगस्यापि पिण्डीभावे निमित्तत्वात् तस्य च समवायसम्बन्धेन हेतुत्वम् । अतः लाघवात् द्रुतजलसंयोग एव साक्षात पिण्डीभावहेतुरिति बहूनामाणयः । ननु पृथिव्यामपि तैले स्नेह उपलभ्यते । न चासो जलीयः, तथा सति दहनप्रातिकूल्यप्रसङ्गादिति चेन्न तैले उपलभ्यमानः स्नेहः जलीय एव तस्य प्रकृष्टत्वाद् दहनानुकूल्यम् । जलवृत्तिरप्रकृष्टस्नेह : दहनविनाशकः इत्यङ्गीकारात् ।
NP Sahitya
।
[[73]]
[[6]]
M.
अथ शब्द निरूपणम्
श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधः ध्वन्यात्मकः वर्णात्मकश्चेति । ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ।
"
श्रोत्त्रेन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वं शब्दस्य लक्षणम् । विशेष्यमात्रोपादाने रूपादौ विशेषणमात्रोपादाने शब्दत्वादौ चातिव्याप्तिः । अत्र अन्तिमशब्दस्यैव श्रोत्रं न्द्रियग्राह्यतया आदिमादिशब्दे तल्लक्षणाभावादव्याप्तिरिति श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयतावच्छेदकजातिमद्गुणत्वं विवक्षणीयम् । तादृशजातिमत्त्वस्य आद्यादिशब्देष्वपि सत्त्वान्न दोषः । न चैवं शब्दत्वादौ जातिमत्त्वाभावेन गुणत्वदलवैयथ्यन्निति वाच्यम् । भेर्यादावतिव्याप्तिवारकतया तत्सार्थक्यात् । तथाहिश्रोत्रेद्रियजन्यं यत् प्रत्यक्षं अयं भेरीशब्दः इत्यादि तद्विषयतावच्छेदकभेरीत्वजातिमत्त्वस्य भेर्यां सत्त्वादतिव्याप्तिः * । गुणत्वनिवेशे तु तवं गुणत्वाभावान्नातिव्याप्तिः । यदि ओतेन्द्रियजन्यत्वं न प्रत्यक्षविशेपणम्, अपि तु श्रोत्रेन्द्रियप्रयोज्यत्वं प्रत्यक्षविषयतः विशेषणमित्यङ्गी क्रियते तदा भेर्यादिनिष्ठविषयतायाः श्रोवेन्द्रियप्रयोज्यताविरहेण उक्तलक्षणातिव्याप्तेरभावात् गुणपदं व्यर्थमित्युच्यते, तर्हि तत् स्वरूपकीर्तनपरमिति वोध्यम् । ध्वन्यात्मक इति । निः आत्मा स्वरूपं यस्य सः इति । प्रकारान्तरेणापि शब्दः त्रिविधः संयोगजः, विभागजः, शब्दजश्चेति । आचः भेोदण्डसंयोगजन्यः। द्वितीयः वंशे पाट्यमाने दलद्वयविभागजन्यः चटचटाशब्दः भेर्यादिदेशमारभ्य श्रोत्र देशपर्यन्तं वीचीतरङ्गन्यायेन शब्दाच्छन्दान्तरोत्पत्तिर्जायते स शब्दः तृतीयः । तत्र संयोगजशब्दं प्रति गगनं समवायिकारणं, भेर्याकाशसंयोगः असमवायिकारणं, भेरीदण्डसंयोगप्रभृतयः निमित्तकारणानि । विभागजशब्दं प्रति गगनं समवायिकारणं, वंशाकाशविभागः असमवायिकारणम्, कालेश्वरादयः निमित्तकारणानि । शब्दजशब्दं प्रति गगनं समवायिकारणं, पूर्वपूर्वशब्दाः असमवायिकारणानि पतनप्रभृतीनि निमित्तकारणानीति ।
सर्वः शब्दः नभस्समवेतः । परन्तु शब्दाच्छन्दान्तरोत्पत्तिक्रमेण यदा कर्णशष्कुल्यवच्छित्राकाशे श्रोत्ररूपे शब्दः उत्पद्यते तन स साक्षात्कारविषयोभवति । * शब्दांशे भेर्याः विशेषणतया विषयतावच्छेदकत्वेन अवच्छेदककोटिप्रविष्टस्य - प्यवच्छेदकत्वेन विषयत्वात् ।
[[74]]
मनु मृदङ्गाद्यवच्छिन्नाकाशे उत्पन्नः शब्दः श्रोते कथमुत्पद्यत इति चेत् अत्र द्वयो रीतिः । वीचीत रङ्गन्यायेन कदम्बमुकुलन्यायेन वा शब्दात् शब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशोत्पन्नः शब्दः गृह्यत इति । तडागादी उत्पन्ना वीचिः यथा सर्वदिगवच्छेदेन एकदा तरङ्गान् जनयति, परन्तु यद्दशदिङ्गभिमुखो वायुः तद्देशदिगवच्छेदेन अधिकतरङ्गान् जनयति तथा भेरीमृदङ्गाद्यवच्छेदेन जायमानः शब्दः भेर्यादिनिन्नदेशा वच्छेदेन सर्वदिगवच्छेदेन च एकदैव शब्दान् जनयति । परन्तु यद्देशदिगभिमुखो वायुः तद्देशदिगवच्छेदेनाधिकशब्दान् जनयति इति वीचीतरङ्गन्यायेन शब्दोत्पत्तिक्रमः - इति । अथवा एक कदम्वपुष्पं स्वनालमूतदेशे प्रागाद्यष्टदिक्षु सजातीयपुष्पाणि जनयति । तानि च पुष्पाणि तत्रैव समी देशे पुनरन्यानि पुष्पगि जनयन्ति । एवं भेर्यवच्छिन्नः शब्दः तत्समीपदेशावच्छेदेन दशदिक्षु दशशब्दान् जनयति ते च शब्दाः पुनस्तत्समीपदेशावच्छेदेन सर्वदिगवच्छेदेन च वहून् शब्दान् जनयन्ति । एवंरीत्या श्रोत्नावच्छेदेनोत्पन्नशब्दो गृह्यते । अयमेव कदम्बमुकुलन्यायेनोत्पत्तिक्रमः । पक्षद्वयेऽप्याद्यशब्दोऽतीन्द्रियः । एतच्चोक्तं भाषापरिच्छेदे - ’ वीचीतरङ्गन्यायेन तदुत्पत्तिस्तु कीर्तिता । कदम्बगोल कन्यायादुत्पत्तिः कस्यचिन्मते ॥ ’ इति ।
ननु शब्दस्य नित्यत्वादुत्पत्तिकथन मसङ्गत मिति चेन्न ; उत्पन्नः कः, विनष्टः कः इति उत्पादविनाशप्रत्ययात् शब्दोऽनित्य एव । नच ’ स एवायं ककारः’ इत्यादिप्रत्यभिज्ञानाच्छन्दः नित्योऽस्तु । उत्पादविनाशबुद्धिश्च भ्रमरूपेति वाच्यम् । प्रत्यभिज्ञा न व्यक्तयभेदविषया, किन्तु तत्सजातीय विषयेत्यङ्गीकारेण अदोषात् । एवं च द्वे अपि प्रतीती अभ्रमरूपे एव । नच सजातीये प्रत्यभिज्ञा अदृष्टचरीति वाच्यम् । यदेवौषधं मया कृतं तदेवौषधमन्येनापि कृतमिति लोके व्यवहारदर्शनेन तत्र साजात्यविषयतयैव प्रत्यभिज्ञाया उपपादनीयत्वात्, प्रकृतेऽपि तथैवाङ्गीकरणीयत्वात् । तस्मादनित्या एव वर्णाः इति तार्किकमतम् ।
अथ बुद्धिनिरूपणम्
सर्वव्यवहारहेतुगुणी बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्चेति ।
बुद्धि निरूपयति - सर्वेति । व्यवहारः शब्दवाक्ययोः प्रयोगः । ’ अर्थ बुध्वा शब्दरचना’ इति न्यायात अर्थज्ञानं शब्दप्रयोगं प्रति कारणम् । अथवा व्यवहारः प्रवृत्तिः । जानाति, इच्छति यतते इति क्रमात् प्रयत्नापरपर्याये प्रवृत्तिसामान्ये ज्ञानं
,
[[75]]
कारणम् । सर्वव्यवहारनिष्ठकार्यता निरूपित कारणताश्रयत्वं बुद्धेर्लक्षणम् । अत्र सर्वे ये व्यवहाराः तद्धेतुत्वमिति विग्रहागोकारे कस्याप्येकस्य ज्ञानस्य सर्वव्यवहारहेतुत्वाभावात् असम्भवप्रसङ्गः । अतः सर्वमिति यो व्यवहारस्तद्धेतुत्वमिति विग्रहमङ्गीकृत्य सर्वमितिज्ञानमात्रस्य सर्वत्वप्रका रकव्यवहारहेतुतया तदतिरिक्तघटपटादिज्ञानेष्वव्याप्तिवारणाय सर्वत्वप्रकारकज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपित कारणतावद्वृत्तिजातिमत्त्वमिति परिष्करणीयम् । ज्ञानत्वजातिमादाय लक्षणसमन्वयः । जातौ गुणत्व-
नच तादृशगुणत्वजातिमादाय रूपादौ अतिव्याप्तिरिति वाच्यम् । व्याप्यत्वस्य निवेशेन तद्दोषवारणात् ।
·
अथवा सर्वपदस्य स्वरूपकीर्तनमात्त्रपरत्वेन व्यवहारहेतुत्वमात्रं बुद्धेर्लक्षणम् । शब्दप्रयोगं प्रति ज्ञानस्यैव साक्षाद्धेतुतया घटादीनां ज्ञानद्वारैव कारणतया साक्षात्कारणत्वकयनेनैव घटादौ अतिव्याप्तिवारणसम्भवात् न पूर्वोक्तविग्रहविकल्पावकाशोऽपि कालेश्वरादौ अतिव्याप्तिवारणाय गुणत्वं देयम् । तथाप्यदृष्टेऽति-
व्याप्तिरिति चत् व्यवहारासाधारणकारणत्व निवेशान्न दोषः । तदा च गुणपदं स्वरूपकीर्तनमात्रपरम् । ज्ञानपदं सञ्ज्ञान्तरकथनाय । साङ्ख्यादिमत इव बुद्धेर्व्यापारः
ज्ञानमिति न मन्तव्यम् ।
अथवा इदमहं जानामीत्यनुव्यवसाय सिद्धज्ञानत्वजातिमत्त्वं बुद्धेर्लक्षणम् । एतसूचनायैव ज्ञानपदमुपात्तम् । सर्वव्यवहारहेतुरिति स्वरूपकथनम् ।
अथ स्मृतिनिरूपणम्
संस्कारमात्रजन्यं ज्ञानं स्मृतिः ।
स्मृतिरनुभवश्चेति बुद्धिः द्वेधा विभक्ता । तत्र स्मृतेर्लक्षणमनेनोच्यते । प्रथममनुभवः, ततः भावनाख्यसंस्कारः, ततः उद्बोधकसामग्रीस हितसंस्कारात् स्मृतिरिति क्रमः । ततश्च संस्कारेतरजन्यत्वाभाव विशिष्ट संस्कारजन्यत्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम् । संस्कारेतरचक्षुराद्यजन्यतया संस्कारजन्यतया ज्ञानत्वेन च स्मृतौ लक्षणसमन्वयः । ज्ञानत्वमात्रोक्तो अनुभवे, ज्ञानत्वानुपादाने ध्वंसे चातिव्याप्तिः । द्वितीयसत्येन्तानुपादाने अजन्ये ईश्वरज्ञानेऽतिव्याप्तिः । सोऽयं घट इति प्रत्यभिज्ञावारणाय प्रथमसत्यन्तम् । संस्कारसन्निकर्षाभ्यां जायमानं ज्ञानं प्रत्यभिज्ञानम्। संस्कारे-
[[76]]
तरात्ममनस्स्संयोगादिजन्यत्वात् संस्कारेतरसाक्षादजन्यत्वे सतीति वक्तव्यम् । अन्यथा असम्भवप्रसङ्गात् । साक्षादित्यस्याव्यवधानेनेत्यर्थः । अनुभवज्ञन्या स्मृतिहेतुर्भावनेति वक्ष्यमाणत्वात् अनुभवजन्यभावना आत्मनि सूक्ष्मरूपेण चिरं तिष्ठति । कदाचित्सदृशादिदर्शनेन तत्संस्कारोद्बोधो भवति । तदव्यवहितक्षणमेव स्मृति रुत्पद्यते । आत्ममनस्स्संयोगस्तु जाग्रदवस्थायां सदा तिष्ठत्येवेति न साक्षात्कारणम् । अथवा संस्कारेतरमनोजन्यतया असम्भववारणाय संस्कारेतरपदं वहिरिन्द्रियपरम्, लौकिकविषयतापरं वा । तथाच लौकिक विषयताशून्यत्वे सति संस्कारजन्यत्वे सति ज्ञानत्वं स्मृतलक्षणम् इति ।
स्मणं प्रति पूर्वानुभवः कारणमित्युक्तम् । केचित्तु - अनुभवत्वेन न कारणत्वं, किन्तु ज्ञानत्वेनैव । अन्यथा स्मरणोत्तरं स्मरणं न स्यात् । समानप्रकारकस्मरणेन पूर्वसंस्कारस्य विनष्टत्वात् । अस्मन्मते तु तेनैव स्मरणेन संस्कारान्तरद्वारा स्मरणान्तरं जायते इत्याहुः । तन्न । यत्र घटपटादिसमूहालम्वनोत्तरं घटपटादीनां क्रमेण स्मरणमजनिष्ट, सर्वविषयकं तु स्मरणं नाभूत् तत्र कालस्य, रोगस्य, चरमफलस्य वा संस्कारनाशकत्वं वाच्यम् । तथाच न क्रमिकस्मरणानुपपत्तिः । एवं स्मरणोत्तरस्मरणस्यापि नानुपपत्तिः । नच पुनः पुनः स्मरणात् दृढतरसंस्कारानुपपत्तिरिति वाच्यम् । झटिति उद्बोधकसमवधानस्यैव दाढर्थपदार्थत्वात् । नच विनिगमनाविरहादेव ज्ञानत्वेनापि जनकत्वं स्यादिति वाच्यम् । विशेषधर्मेण कारणत्वग्रहे व्यभिचाराज्ञाने सामान्यधर्मेण कारणत्वस्यान्यथासिद्धत्वात् । अन्यथा दण्डस्य भ्रमिद्वारा द्रव्यत्वेन रूपेण घटकारणत्वं स्यात् । न चान्तरालिकस्मरणानां संस्कारनाशकत्वसंशयाद् व्यभिचारसंशय
इति वाच्यम् ।
अनन्तसंस्कारतन्नाशकल्पनापेक्षया
चरमस्मरणस्यैव लाघवात् संस्कारनाशकत्वकल्पनेन व्यभिचारसंशयाभावादिति । अतोऽनुभवत्वेन स्मरणं प्रति कारणत्वे न कोऽपि दोष इति ।
अथानुभवनिरूपणम्
तद्भिन्नं ज्ञानमनुभवः । स द्विविधः यथार्थोऽयथार्थश्च ।
।
स्मृतिभिन्नत्वे सति ज्ञानत्वमनुभवस्य लक्षणम् । ज्ञानत्वमात्रोक्तौ स्मृतौ, स्मृति-
त्वमा घटादौ चातिव्याप्तिरित्युभयोपादानम् ।
प्रत्यभिज्ञापि अनुभव
वान्तति । न स्मृतिरूपा सा, संस्कारमात्र जन्यत्वाभावादिति पूर्वमेवोक्तम् ।
[[77]]
यथार्थानुभवः
तद्वति तत्प्रकारकोऽनुभवो यथार्थः । सैव प्रमेत्युच्यते । यथा रजते इदं रजतमितिज्ञानम् ।
यथार्थानुभवस्य लक्षणमाहतद्वतीति । तद्वन्निष्ठविशेष्यता निरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम् । रजते इदं रजतमिति ज्ञाने लक्षणसमन्वयः । तत्पदेन प्रकारीभूतो धर्मः ग्राह्यः । तत् रजतत्वम् । तद्वत् रजतम् । तन्निष्ठविशेष्यता निरूपकत्वे सति तत्पदग्राह्यरजतत्वनिष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वस्य सत्त्वाल्लक्षणसमन्वयः । उभयत्र एकस्यैव तत्पदेन परामर्शः इति न विस्मर्तव्यम् । इदं रजतमिति भ्रमे रजतत्वस्य प्रकारत्वेन अतिव्याप्तिवारणाय प्रथमं सत्यन्तम् । भ्रमे एव शुक्तित्ववच्छुक्तिविशेष्यकत्व सत्त्वेन अतिव्याप्तिवारणाय द्वितीयं सत्यन्तम् । स्मृतिवारणाय विशेष्यम् । ननु तथापि रङ्गरजतयोरिमे रजतरङ्गे इति समूहालम्बनात्मक भ्रमे रङ्गत्ववद्रङ्गस्य रजतत्व व व्रजतस्य च विशेष्यत्वेन रङ्गत्व रजतत्वयोः प्रकारत्वेन च अतिव्याप्तिरिति चेन्न ; तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकार ताशालित्वे सति अनुभवत्वमिति लक्षणपरिष्कारेण दोषाभावात् । तत्र रङ्गनिष्ठविशेष्यतानिरूपिता रङ्गत्वनिष्ठप्रकारता न भवति, किन्तु रजतत्वनिष्ठप्रकारतैवेति नातिव्याप्तिः । न चैवमपि पर्वतो वह्निमान्, हृदो वह्निमान् इति समूहालम्बन भ्रमेऽतिव्याप्तिः । तत्र पर्वतो वह्निमानित्यंशस्य यथार्थतया तत्र पूर्वोक्तलक्षणसमन्वयादिति वाच्यम् । भ्रमभिन्नत्वेनाप्यनुभवस्य विशेषणीयत्वात् । एवमपि निर्विकल्पक प्रत्यक्षेऽव्याप्तिः । तत्र प्रकारताविशेष्यतयोरभावादिति चेत् ; सत्यम्, तद्वन्निष्ठविशेष्यता निरूपिततन्निष्ठप्रकारताशा लिज्ञानवृत्त्यनुभवत्वव्याप्यजातिमत्त्वस्य विवक्षितत्वेन निर्विकल्पकप्रत्यक्षेऽपि तादृशयथार्थानुभवत्वजातेः सत्त्वान्नाव्याप्तिः ।
अनेदमवधेयम् । विषयता त्रिविधाः विशेष्यता, प्रकारता, संसर्गता चेति । प्रकारता विशेषणता इति चानर्थान्तरम् । संयोगसम्वन्धेन कन्दुकवद् भूतलमित्यत्त भून्तले ज्ञाननिरूपिता विशेष्यता, कन्दुके प्रकारता, संयोगसम्बन्धे संसर्गता वर्तते । एवमेव ज्ञानेच्छाकृतिद्वेषभावनारूपगुणपञ्चके तत्तन्निरूपितविपयतात्रयं बोध्यम् । अनुमितनिरूपितविशेष्यताप्रकारतयोः उद्देश्यता विधेयताभ्यां व्यवहारः । यथा
[[78]]
पर्वतो वह्निमानित्यत्र पर्वत निष्ठा उद्देश्यता, वह्निनिष्ठा विधेयता इति । निर्विकल्पकज्ञाने एतद्विपयतात्रयं नाङ्गीक्रियते । अयं घटः इति सविकल्पकात्पूर्वं जायमानघटः दिविषयक निर्विकल्पक प्रत्यक्षे विषयीभूतेषु घटघटत्वसमवायेषु त्रिष्वपि तुरीया कावनवियता अङ्गीक्रियते । कृतिनिरूपिताः अन्याः उद्देश्यताविधेयताउपादानताख्याः तिस्रो विषयताः सन्ति । यथा जलानयनाय कपालाभ्यां घटं करोति इत्यत जलानयने उद्देश्यता, कपालयोरुपादानता, घटे विधेयता वर्तत इति बोध्यम् ।
अयथार्थानुभवः
तदभाववति तत्प्रकारको ऽनुभवोऽयथार्थः । सैवाप्रमेत्युच्यते । यथा शुक्तौ इदं रजतमिति ज्ञानम् ।
अयार्थानुभवलक्षणमाह - तदभावयतीति । तदभाववन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपत्वे सति अनुभवत्वमयथार्थानुभवस्य लक्षणम् । शुक्तौ इदं रजनमितिज्ञाने तत्पदग्राह्यरजतत्वाभाववच्छुक्तिनिष्ठविशेष्यतानिरूपकत्वे सति तत्पदग्राहारजतत्वनिष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वस्य सत्त्वाल्लक्षणसमन्वयः । अनुभवत्वमात्रोक्त यथार्थानुभवे, तदनुपादाने अयथार्थस्मृत्यादौ अतिव्याप्तिः । द्वितीयसत्यन्तानुक्तौ रजते इदं रजतमिति यथार्थज्ञानेऽतिव्याप्तिः । तत्पदेन रङ्गत्वं गृहीत्वा, तदभाववद्रजतनिष्ठविशेष्यता निरूपकत्वस्य तत्र सत्त्वात् । प्रथमसत्यन्तानुक्तावपि तत्रैवातिव्याप्तिः । एवमपि वृक्षः कपिसंयोगी, पर्वतो वह्निमान्निति प्रमायां चातिव्याप्तिः । प्रथमप्रमायां मूलावच्छेदेन तदभाववद्विशेष्यकत्वस्य, द्वितीयस्यां समवायसम्बन्धावच्छिन्न प्रतियोगिताकवह्न्यभाववद्विशेष्यकत्वस्य सत्त्वात् । अतः तदभावः निरवच्छिन्नवृत्तिकः प्रकारतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकश्च ग्राह्यः । तथाच वृक्षः कपिसंयोगीत्यत्र अभावः मूलदेशावच्छिन्नवृत्तिकः, न तु निरवच्छिन्नवृत्तिकः, पर्वतो वह्निमान् इत्यत्र समवायसम्बन्धः न प्रकारतावच्छेदकः, किन्तु संयोग इति नातिव्याप्तिः । ननु यद्यभावस्य निरवच्छिन्नवृत्तिकत्वं निवेश्यते, तर्हि मूलावच्छेदेन वृक्षः कपिसंयोगीति भ्रमेऽव्याप्तिः, कपिसंयोगाभावस्य सावच्छिन्नवृत्तिकत्वात् इति चेन्न, यदवच्छेदेन यस्मिन् यदभावः तदवच्छेदेन तस्मिन् तत्प्रकारका नुभवत्वं अयथार्थानुभवत्वमिति परिष्कारे पात्पर्यात् ।
ननु रङ्गरजतयोः इमे रङ्गरञ्जते इति समूहालम्बनप्रमायामतिव्याप्तिः । तत रङ्गत्वाभाववतः रजतस्य, रजतत्वाभाववतः रङ्गस्य च विशेष्यत्वात् रजतत्व रङ्गत्वयोः तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वे
प्रकारत्वाच्चेति चेत् न ;
सति अनुभवत्वमिति परिष्कारे दोषाभावात्
यथार्थानुभवतत्करणविभागः
यथार्थानुभवश्चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणमपि
चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात् ।
अत्रेदं बोध्यम् । अनुभूतिः प्रत्यक्षमेकमेवेति चार्वाकाः । अनुमितिरपीति काणादाः, बौद्धाश्च । उपमितिरपीति केचित्तार्किकाः शब्दोऽपीति गौतमीयाः नैयायिकाः । अर्थापत्तिरपीति प्राभाकराः । अनुपलब्धिरपीति भाट्टाः, अद्वैतवेदान्तिनश्च । सम्भवैतिह्ये अपीति पौराणिकाः । प्रत्यक्षानुमित्युपमितिशाब्दभेदेन अनुभवः चतुविध एवेति न्यायसिद्धान्तिनः । एतेषां चतुर्णामनुभवानां करणानि चत्वारि-’ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ’ इति सूत्रोक्तानि । अन्येषामनुभवानां तत्करणानाश्वान्तर्भावः क्लृप्तेष्वेव भवतीति । प्रमाकरणत्वं प्रमाणसामान्यलक्षणमिति बोध्यम् ।
करणलक्षणम्
व्यापारवदसाधारणं कारणं करणम् ।
व्यापारवत्त्वं व्यापारजनकत्वम् । व्यापारजनकत्वे सति असाधारणकारणत्वं करणलक्षणम् । असाधारणकारणत्वं च कार्यत्वव्याप्यधर्मावच्छिन्नकार्यतानिरूपितकारणत्वम् । दण्डः घटं प्रत्यसाधारणं कारणम् । कार्यत्वव्याप्यः यः घटत्वरूपः धर्मः, तदवच्छिन्नकार्यतानिरूपित कारणतायाः दण्डे वर्तमानत्वात् । तदाश्रयत्वं भ्रमणरूपव्यापारजनकत्वं च दण्डे वर्तत इति लक्ष्ये लक्षणसमन्वयः । इदमेव
साधकतमं करण ‘मिति व्याकरणसूत्रोपदिष्टम् ।
तज्जन्यत्वे सति तज्जन्यजनकत्वं व्यापारत्वम् तत्पदं कारणत्वेनाभिमतदण्डादिपरम् । मात्रोक्तौ भ्रमणादी, विशेषणमात्रोक्तौ ईश्वरादृष्टादी अतिव्याप्तिः ।
[[80]]
अत्नासाधारणकारणत्व-
उपरि प्राचीनभतं निर्दिष्टम् । मवीनमते तु असाधारणं कारणं करणम् । कालादृष्णादिवारणाय असाधारणेति । यद्विलम्वात् तदितरसमग्रसामग्रीसत्त्वेऽपि व्यापारत्वेनाभिमतेन्द्रियार्थ-
कार्यानुत्पादः तत्कारणमेव असाधारणकारणम् । संयोगादेः भ्रमणादेर्वा करणत्वमिष्टमेव । अत एव तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणमिति । स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणमित्युत्तरग्रन्थोऽपि लगति । तथाच फलायोगव्यवच्छिन्नं कारणं करणमिति नवीनमतं बोध्यम् । नच प्राचीनमते प्रत्यक्षे इन्द्रियं करणं, सन्निकर्षो व्यापारः इति
वक्तव्यम् ।
ततश्च श्रोत्रेन्द्रिय शब्दसमवायरूपें सन्निकर्षे जन्यत्वघटितव्यापारत्वाभावादव्याप्तिरिति वाच्यम् । श्रोत्रमनस्संयोगस्य तन व्यापारत्वात् । अथवा सन्निकर्षः सम्बन्धः, तज्जनकत्वं च तद्वयञ्जकत्वमेवेति वोध्यम् ।
अथ कारण्णलक्षणम्
अनन्यथासिद्धत्वे सति कार्यनियतपूर्ववृत्ति कारणम् । यथा घटादिकं
। प्रति दण्डादिः ।
•
कारणं लक्षयति-अनन्यथासिद्धत्व इति । अनन्यथासिद्धत्वे सति कार्यनियतत्वे सति कार्य पूर्ववृत्तित्वं कारणस्य लक्षणम् । कार्यनियतत्वं च कार्यव्यापकत्वम् । तच्च कार्यताबच्छेदकसम्बन्धेन कार्याधिकरणे कार्याव्यवहितप्राक्क्षणावच्छेदेन वर्तमानात्यन्ताभावीयकारणतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितानवच्छेदकधर्मवत्त्वम् । इदानीं कार्य पूर्ववृत्तित्वदलं प्रत्येकं नोपादेयम् । अनन्यथासिद्धत्वं च अन्यथासिद्धभिन्नत्वम् । अन्यथासिद्धत्वं च क्लृप्तकारणबहिर्भूतत्वम् । एवं च क्लृप्तकारणान्तर्गतत्वे सति पूर्वोक्तकार्यव्यापकत्वं कारणस्य लक्षणम् । दण्डे क्लृप्तकारणान्तर्गतत्वमस्ति । एवं समवायरूपकार्यतावच्छेदकसम्बन्धेन कार्यस्य घटस्याधिकरणं कपाले वर्तमानाभाव - ’ प्रतियोगितानवच्छेदकदण्डत्ववत्त्वमपि दण्डे वर्तते । कपाले स्वजन्यभ्रमिजन्यभ्रमिमत्तासम्बन्धेन दण्डाभावस्य वक्तुमशक्यत्वात् । किन्तु उदासीनपटाद्यभाव एव वक्तव्य इति । अत कार्य पूर्ववृत्तित्वमानोक्तौ रासभादी, कार्यव्यापकत्वमात्रोक्तौ घटादौ तदुभयोक्तावपि दण्डरूपादावतिव्याप्तिरिति यथाश्रुतकारणलक्षणघटकदलतयोपादानम् ।
।
[[81]]
(१) अन्यथासिद्धिः पञ्चविधा । यत्कार्यं प्रति कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते तत्कार्य प्रति तद्रूपमन्यथासिद्धम् । यथा घटं प्रति दण्डत्वम् ।
(२) ’ यस्य स्वातन्त्र्येण अन्वयव्यतिरेकौ न स्तः, किन्तु कारणमादायैव अन्वयव्यतिरेकौ गृह्येते तदन्यथासिद्धम् । यथा दण्डरूपम् । तस्य हि स्वाश्रयदण्डद्वारेव
अन्वयव्यतिरेकौ ।
(३) अन्यं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यं प्रत्यन्यथासिद्धत्वम् । यथा घटं प्रत्याकाशस्य । तस्य शब्द प्रति पूर्ववृत्तित्वं गृहीत्वैव घटं प्रति पूर्ववृत्तित्वग्रहणात् ।
तस्य
(४) यत्कार्यजनकं प्रति पूर्ववृत्तित्वं गृहीत्वैव यस्य यत्कार्यं प्रति पूर्ववृत्तित्वं गृह्यते तस्य तत्कार्यं प्रत्यन्यथासिद्धत्वम् । यथा कुलालपितुर्घटं प्रति । घटजनककुलालं प्रति पूर्ववृत्तित्वं गृहीत्वैव घटं प्रति पूर्ववृत्तित्वं ग्राह्यम् ।
(५) अवश्यक्लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नत्वं अन्यथासिद्धत्वम् । यथा - घटं प्रति रासभः अन्यथासिद्धः । एतेषु पञ्चसु अन्यथासिद्धेषु पञ्चमोऽन्यथासिद्ध आवश्यकः । तेनैव परेषां चरितार्थत्वात् । तथाहि - दण्डादिभिः अवश्यक्लृप्तनियतपूर्ववतिभिरेव कार्यसम्भवे दण्डत्वादिकम् अन्यथासिद्धम् । नच वैपरीत्ये कि विनिङ्गमकमिति वाच्यम् । दण्डत्वस्य स्वाश्रयभ्रमिजन्य भ्रमिमत्तासम्बन्धेन कारणत्वेन गौरवात् । एवमन्येषामप्यनेनैव चरितार्थत्वं सम्भवति ।
अथ कार्यस्वरूपम्
कार्य प्रागभावप्रतियोगि ।
कार्यत्वं नाम प्रागभावप्रतियोगित्वम् ।
घटोत्पत्तेः पूर्वं भविष्यतीति
प्रतीतिविषयः प्रागभावः । तत्प्रतियोगित्वं कार्ये घटादी । उत्पत्तिमत्त्वं कार्यत्वमिति पर्यवसन्नम् । अभावप्रतियोगित्वमात्रोक्तो गगनाभावप्रतियोगित्वमादाय गगनेऽतिअतः प्रागभावेति । प्रागभावस्तु अनादिरिति मन्तव्यम् ।
व्याप्तिः ।
अथ त्रिविधकारणनिरूपणम्
कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् ।
।
यत्समवेतं कार्यम्
उत्पद्यते तत्समवायिकारणम् । पथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः ।
[[82]]
समवायिकारणलक्षणन्तु समवायसम्बन्धावच्छिन्न कार्यतानिरूपिततादात्म्यसम्बन्धावच्छिनकारणताश्रयत्वम् इति । समवायेनोत्पद्यमानघटपटादिकं प्रति तादात्म्येन कपालतन्त्वादेः कारणत्वात् समवायसम्बन्धावच्छिन्नघटत्वपटत्वाद्यवच्छिन्नकार्यतानिरूपिततादात्म्य सम्बन्धावच्छिन्नकपालत्वतन्तुत्वाद्यवच्छिन्नकारणताश्रयत्वस्य कपालतन्त्वादिषु सत्त्वात् लक्षणसमन्वयः । कार्यतायां समवायसम्बन्धावच्छिन्नत्वानिवेशे विषयतासम्बन्धेन जायमानघटप्रत्यक्षं प्रति तादात्म्येन घटस्य कारणत्वात् घटप्रत्यक्षनिमित्तकारणे घटेऽतिव्याप्तिः । कारणतायां सम्बन्धानिवेशेऽसमवायिकारणेऽतिव्याप्तिः । पटश्च स्वगतरूपादेरिति गुणात्मक कार्यस्थलोदाहरणम् । नच सव्येतरगोविषाणवद् गुणगुणिनोः समानकालिकतया कार्यकारणभावस्यैवाभावात् घटादेः स्वगतरूपादिकं प्रति कारणत्वं न सम्भवतीति वाच्यम् । ‘उत्पन्नं द्रव्यं क्षणमगुणमक्रियाक ‘मिति न्यायः । गुणादिकं द्रव्यकार्यमित्यनुभवेन कारणस्य च कार्य पूर्ववृत्तित्वनियमात् प्रथमक्षणे निर्गुणा एव घटादयः जायन्ते । प्रथमक्षणे घटादि । रूपाभावात् न चाक्षुषप्रत्यक्षविषयः इति ।
कार्येण कारणेन वा सह एकस्मिन्नर्थे समवेतं सत् कारणम् असमवायिकारणम् । यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटगतरूपस्य च ।
कार्येण सह एकस्मिन्नर्थे समवेतं सत् कारणम् असमवायिकारणमित्येकं, कारणेन सह एकस्मिन्नर्थे समवेतं सत् कारणमसमवायिकारणमित्यपरम् । तथाच कार्ये कार्यप्रत्यासत्त्या, कारणैकार्थप्रत्यासत्त्या च असमवायिकारणं द्विविधम् । घटं प्रति कपालद्वयसंयोगः, पटं प्रति तन्तुसंयोगः इत्यादिकं प्रथमम् । कार्येण घटादिना सह एकस्मिन् कपालाद्यर्थे समवायसम्बन्धेन स्थितं सत् कपालसंयोगादिकं घटादिकं प्रति कारण भवति । कपाले कार्यकारणयोः सामानाधिकरण्यम् । तथाच समवायसम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणताश्रयत्वं प्रथमासमवायिकारणलक्षणम् । कार्यतायां सम्बन्धानिवेशे घटप्रत्यक्षनिमित्तकारणीभतघटरूपे विषयतासम्वन्धावच्छिन्नघटप्रत्यक्षनिरूपितकारण्णत्वसत्त्वादतिव्याप्तिः । कारणतायां सम्वन्धानिवेशे समवायिकारणेऽतिव्याप्तिः । समवायसम्बन्धावच्छिन्न कार्यतानिरूपितस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नकारणताश्रयत्वं द्वितीयासमवायिकारणलक्षणम् । अतं कार्यस्य पटरूपस्य समवायेनाधिकरणं पटः । तत्र स्वसमवायिसमवेतत्वसम्बन्धेन तन्तुरूपमस्तिा । स्वं तन्तुरूपं, तत्समवायी तन्तुः, तत्समवेतत्वं पटे इति । अत कार्यतायां
[[83]]
तत्सम्बन्धानिवेशे घटगतरूपप्रत्यक्षकारणमहत्त्व विषयतासम्बन्धायच्छिन्तादृशप्रत्यक्षनिरूपित स्वेत्यादिसम्बन्धावच्छिन्नकारणतायाः सत्त्वादतिव्याप्तिः । कारणताया तत्सम्बन्धानिर्वेशे समवायिकारणे, प्रथमासमवायिकारणे चातिव्याप्तिः इति ।
,
·
तदुभयमिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य । तदेतत्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ।
अथवा
समवायिकारणभिन्नत्वे सति असमवायिकारणभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणम् । ं समवाय्यसमवायिकारणयोः कारणत्वशून्यपारिमाण्डल्यादिषु च अतिव्याप्तिवारणाय क्रमेण दलत्त्रयम् । न चैवमपि घटनिमित्तकारणदण्डस्य स्वीयरूपादिकं प्रति समवायिकारणत्वात् तन समवायिकारणभिन्नत्वाभावादव्याप्तिरिति वाच्यम्, प्रकृतसमवाय्यसमवायिकारणभिन्नत्वनिवेशेन दोषाभावात् । समवायिकारणताभिन्ना असमवायिकारणताभिन्ना या कारणता तदाश्रत्वस्य विवक्षितत्वान्न दोषः । एवं कारणशब्दार्थं सामान्यतो विशेषतश्च निरूप्य तद्घटितकरणलक्षणमुपसंहरति — तदेतदिति । अत्र व्यापारवत्त्वे सतीत्यपि पूरणीयम् । अन्यथा कपालसंयोग-तन्तुसंयोगादिरूपंव्यापारे अतिव्याप्तिः स्यात् । व्यापारजनकत्वतदजनकत्वाभ्यां करणकारणयोर्भेदोऽवगन्तव्यः । इदं च कारणतयं भावकार्यं प्रत्येव । अभावेषु ध्वंसस्य निमित्तकारणमात्रमित्यवगन्तव्यम् ।
अथ प्रत्यक्षलक्षणम्
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।
प्रत्यक्षप्रमाणं लक्षयतिप्रत्यक्षेति । आत्मा मनसा संयुज्यते, मन इन्द्रियेण इन्द्रियमर्थेन ततः प्रत्यक्षमुत्पद्यते इति क्रमेण प्रत्यक्षव्यापारजनकत्वे सति प्रत्यक्षज्ञानत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं प्रत्यक्षप्रमाणस्य लक्षणम् । अमं
घटः इत्यादिप्रत्यक्षज्ञाननिष्ठप्रत्यक्षज्ञानत्वावच्छिन्नकार्यतानिरूपितचक्षुरादिप्रमाणनिष्ठकार्यतानिरूपितकारणताश्रयत्वं चक्षुर्घटसंयोगादिव्यापारजनकत्वं च चक्षुरादौ वर्तत इति समन्वयः । व्यापारजनकत्वमात्रोक्ती ईश्वरकालादृष्टा दो, असाधारणकारणत्वमानोक्तौ व्यापारे चातिव्याप्तिः । ननुं रसर सत्वादिप्रत्यक्षे रसनसंयुक्तसमवायादिः सन्निकर्षः । तन जन्यत्वघटित व्यापारत्वाभावात् रसनादी अव्याप्तिरिति चेन्न; तव इन्द्रियमनस्संयोगस्यैव व्यापारत्वाङ्गीकारेण तत्न च जन्यत्वघटितव्यापारत्वसम्भवात् ।
1-
ननु प्रमातृप्रमेयावीन्यपि प्रमाकरणानि इति वक्तुं शक्यत इति चेत् सत्यम् ; सत्यपि प्रमातरि प्रमेये च प्रमानुत्पत्तेः, इन्द्रियसंयोगादी सति अविलम्बेन प्रमोत्पत्तेः इन्द्रियतत्संयोगयोरेव प्रमाकरणत्वव्यवहारः । प्रमां प्रति साधकत्वांविशेषेऽपि अनेनैवोत्कर्षेण तयोः प्रमान्नादिभ्योऽतिशयितत्वम् । अतिशयितं साधकं साधकतमम् । तदेव करणम् । अतः इन्द्रियतत्संयोगादिष्वेव प्रमाकरणत्वमुपपचते, न प्रमानादिष्विति ।
इन्द्रियार्थस विकजन्यं ज्ञानं प्रत्यक्षम् ।
प्रत्यक्षज्ञानकरणमित्यत्न प्रत्यक्षज्ञानं किमिति जिज्ञासायामाह - इन्द्रियार्थेति । ‘इन्द्रियं च चक्षुरादिः अर्थः घटादिः, तयोः सन्निकर्षः संयोगादिः, तज्जन्यं ज्ञानं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यत्वे सति ज्ञानत्वं प्रत्यक्षज्ञानस्य लक्षणम् । विशेषणमानोक्तौ इन्द्रियार्थसन्निकर्षध्वंसे, विशेष्यमात्रोक्ती अनुमित्यादी चातिव्याप्तिरित्युभयोपादानम् । ! न चानुमित्यादावपि आत्मरूपार्थ मनइन्द्रियसंयोगजन्यत्वज्ञानत्वयोः सत्त्वात्, आत्ममनस्संयोगस्य ज्ञानसामान्य कारणत्वादतिव्याप्तिरिति वाच्यम् । अर्थपदेन प्रकृतज्ञान - विषयस्य विवक्षणात् । आत्मनः प्रकृतघटपटादिज्ञानविषयत्वाभावान्नातिव्याप्तिः ।
प्रत्यक्षलक्षणे विशेषविचारः
ननु जीवात्मा परमात्मभिन्नः इत्यात्मविषयकानुमितो प्रकृतज्ञानविषयत्वस्याप्यात्मनि सत्त्वेन पुनरतिव्याप्तिरात्मनीति चेन्न – इन्द्रियार्थसन्निकर्षत्वावच्छिन्नजनकतानिरूपितजन्यतावच्छेदकी भूतज्ञानत्वभिन्नजातिमत्त्वस्य लक्षणत्वाङ्गीकारात् । इदानीमिन्द्रियार्थसन्निकर्षपदेन आत्ममनस्संयोगस्य ग्रहणेऽपि तज्जन्यतावच्छेदकीभूतजातिः न ज्ञानत्वभिन्ना, नापि इन्द्रियार्थसन्निकर्षजन्यतावच्छेदिका । अतो न तनातिव्याप्तिः । प्रकृते तद्भिन्नप्रत्यक्षत्वादिजातिमादाय लक्षणसमन्वयः । एतेन जातिघटितलक्षणेन यथाश्रुतलक्षणे ज्ञायमानलिङ्गस्यानुमितिकरणतावादिमते इन्द्रियार्थसन्निकर्षजन्यानुमितो अतिव्याप्तिशङ्का, ईश्वरप्रत्यक्षस्य नित्यतया जन्यत्वाभावात् तनाव्याप्तिशङ्का च निरस्ते । आद्ये अनुमितित्वजातौ तादृशजन्यतावच्छेदकत्वाभावात्, ईश्वरप्रत्यक्षे च तादृशजातिमत्त्वसत्त्वादिति ज्ञेयम् । परन्तु प्रत्यक्षत्वजातेः अजन्येश्वरप्रत्यक्षसाधारणतया जन्यतावच्छेदकत्वासम्भवात् असम्भवापत्त्या ‘इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ’ इति गौतमसूत्रानुरोधेन ईश्वरप्रत्यक्षमलक्ष्य मित्येव मन्तव्यम् ।
[[85]]
एवमिन्द्रियजन्यत्वे सति ज्ञानत्वमपि प्रत्यक्षलक्षणम् । इन्द्रियरूपादी, अनुमित्यादौ च. अतिव्याप्तिवारणाय विशेष्यविशेषणे । अत्रापि सर्वेषां ज्ञानानां मनोरूपेन्द्रियजन्यत्वादतिव्याप्तिशङ्का भवति । तथापि इन्द्रियत्वावच्छिन्नजनकतानिरूपितजन्यवावत्त्वे सति ज्ञानत्वमिति परिष्कारे न दोषः । अनुमित्यादौ व्याप्तिज्ञानत्वाद्यवच्छिन्नमनकतानिरूपितजन्यत्वस्यैव सत्त्वात् । एतन्मतेऽपि ईश्वरप्रत्यक्षमलक्ष्यमेव ।
अथवा ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् । अनुमितौ व्याप्तिज्ञानस्य, उपमितौ सादृश्यज्ञानस्य, शाब्दबोधे पदज्ञानस्य, स्मृती अनुभवस्य " कारणत्वात्तत्र तत्र नातिव्याप्तिः । इदं लक्षणमीश्वरप्रत्यक्षसाधारणम् । अत च लक्षणे घटादौ अतिव्याप्तिवारणाय विशेष्यम्, अनुमित्यादावतिव्याप्तिवारणाय विशेषणम् । ननु ज्ञानाकरणकमित्यपहाय ज्ञानाजन्यमित्येवोच्यतामिति चेन्न; विशिष्टज्ञानमात्रस्य विशेषणज्ञानजन्यत्वादतिव्याप्त्यापत्तेः । नच निदिध्यासनद्वारा मननादिज्ञानकरणके योगिप्रत्यक्षे इदं लक्षणमव्याप्तमिति वाच्यम् । ज्ञानकरणकत्वाव्यभिचारिजातिशून्यज्ञानत्वस्यैव प्रत्यक्षत्वाभ्युपगमेनादोषात् । तादृशी च जातिः अनुमितित्वादिरेव, प्रत्यक्षत्वं तु ज्ञानकरणकत्वव्यभिचार्येवेति न दोषः ।
वाच्यम् ।
एवं परामर्शजन्यं ज्ञानमनुमितिः । यद्यपि परामर्शप्रत्यक्षादिकमपि परामर्शजन्यमेव । वह्निव्याप्यधूमवान् पर्वतः इति ज्ञानवानहम् इति परामर्शप्रत्यक्षे विषय - विघया परामर्शस्य कारणत्वात् । तथापि परामर्शजन्यं हेत्वविषयकं यज्ज्ञानं तदेवानुमितिरिति वक्तव्यम् । नच ( कदाचित् हेतुविषयिण्यां) धूमवान् पर्वतो वह्निमान् इति पक्षतावच्छेदकविधया हेतुविषयिण्यां कादाचित्कहेतुविषयकानुमितौ अव्याप्तिरिति परामर्शजन्यहेत्वविषयकज्ञानवृत्त्यनुभवत्वव्याप्यजातिमत्त्वस्य विवक्षिव्रत्वात् । ‘पर्वतो वह्निमान् ’ इति ज्ञानं परामर्शजन्यहेत्वविषयकं तद्वृत्तिः अनुभवत्वव्याप्या या जातिः अनुमितित्वरूपा जातिः, तद्वत्त्वं धूमवान् पर्वतो वह्निमान् इति हेतुविषयकानुमितावपीति लक्षणसमन्वयः । अत्र घटज्ञानेऽतिव्याप्तिवारणाय जन्यान्तं, परामर्शप्रत्यक्षेऽतिव्याप्तिवारणाय हेत्वविषयकमिति, परामर्शध्वंसेऽतिव्याप्तिवारणाय ज्ञानपदम् । सत्तामादाय प्रत्यक्षादो अतिव्याप्तिवारणाय हेत्वविषयकमिति ।
अथवा परामर्शाघटितं व्याप्तिज्ञानकरणकं ज्ञानमनुमितिरित्येवास्तु । एवं सादृश्यज्ञानकरणकं ज्ञानमुपमितिः । पदज्ञानकरणकं ज्ञानं शाब्दबोधः । यदि
[[86]]
अनुमिति प्रति न व्याप्तिज्ञानत्वेन करणत्वं अपि तु ज्ञानत्वेन मनस्त्वेन वा उपमित्यादावप्येवम् । सामग्रीवैलक्षण्यादेव ज्ञानवैलक्षण्योपपत्तिः । तथाच पूर्वलक्षणस्यासम्भव इत्युच्यते तर्हि यत्किञ्चिदनुमितिव्यक्तिवृत्तिप्रत्यक्षावृत्तिजातिमत्त्वमनुमितित्वम् । एवं यत्किञ्चित्प्रत्यक्षादिकमादाय तद्व्यक्तिवृत्ति
अनुमित्यवृत्तिजातिमत्त्वं प्रत्यक्षत्वादिकं वाच्यमिति । इदं तु ध्येयम् । प्रत्यक्षशब्दः फले, करणे, विषये च वर्तते । तत्र फलकरणयोः नपुंसकः । प्रत्यक्षं ज्ञानं, प्रत्यक्षं चक्षुः इति । विषये विशेष्यनिघ्नः । प्रत्यक्षः पुरुषः, प्रत्यक्षा जनता, प्रत्यक्षं जनवृन्दम् इति ।
।
तद् द्विविधं निर्विकल्पकं, सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम्, सप्रकारकं ज्ञानं सविकल्पकम् । यथा -डित्थोऽयम्, ब्राह्मणोऽयम्, श्यामोऽयम्, पाचकोऽयमिति ।
प्रकारत्वानिरूपकत्वे सति ज्ञानत्वं निर्विकल्पकस्य लक्षणम् । ज्ञानत्वमात्रोक्तौ सविकल्पके, तदनुक्तौ घटादी चातिव्याप्तिः । प्रथमं विषयेन्द्रियसन्निकर्षः । तदनु निर्विकल्पकम् । ततः सविकल्पकमिति क्रमः । निर्विकल्पकज्ञाने प्रमाणं तु - ’ अयं घटः’ इत्यादिघटत्वादिविशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात्, दण्डीति विशिष्टज्ञानवत् इत्यनुमानम् । नात्र अप्रयोजकत्वशङ्का । विशिष्टज्ञानविशेषणज्ञानयोः कार्यकारणभावभङ्गप्रसङ्गस्यैव अनुकूलतर्कत्वात् । अत्रायमभिप्रायः । अयं घटः, अयं पटः इत्यादिज्ञानं तावत् घटादिविशेष्यकं घटत्वादिप्रकारकं, समवायादिसंसर्गकं चेत्यनुभवसिद्धम् । एतादृशज्ञानस्य विशेषणविशेष्यसंसर्गविषयकत्वात् विशिष्टज्ञानमिति सञ्ज्ञा । विशिष्टज्ञाने च विशेषणज्ञानं कारणम् । नहि दण्डमजानानः दण्डी पुरुष इति प्रत्ययवान् भवति । ततश्चात प्रथममेकं ज्ञानं भवतीति वक्तव्यम् । तच्च न विशिष्टज्ञानं, तत्पूर्वं कस्यचिद्विशेषणज्ञानस्याभावात् । निर्विषयत्वे ज्ञानत्वस्यैवाभावात् अत्र प्रकारतादिभिन्ना तुरीयविषयताङ्गीक्रियते । एतदेव निर्विकल्पकज्ञानम् । तस्य चानङ्गीकारे सविकल्पक प्रत्यक्षस्यैवानुपपत्तिः, कारणीभूतविशेषणज्ञानाभावात् । निर्विकल्पकस्य विशिष्ट बुद्धित्वाभावेनैव ज्ञानान्तरापेक्षाभावात् नानवस्था । इन्द्रियार्थसन्निकर्षजन्यतया चास्य प्रत्यक्षत्वमिति ।
।
[[87]]
निर्विकल्पके विशेषविचारः
ज्ञानं यन्निविकल्पाख्यं तदतीन्द्रियमिष्यते ।
इति भाषापरिच्छेदः । चक्षुस्संयोगसमनन्तरमेव अयं घट इत्याकारकं घटत्वादिविशिष्टज्ञानं न सम्भवति, पूर्वं विशेषणस्य घटत्वादेर्ज्ञानाभावात् ; विशिष्टबुद्धौ तथाच घटघटत्वयोः प्रथमतः वैशिष्ट्यात्मक-
। तच्च न
विशेषणज्ञानस्य कारणत्वात् । सांसर्गिकविषयतानवगाह्येव ज्ञानं जायते । तदेव निर्विकल्पकम् । प्रत्यक्षम् । तथाहि — ज्ञानस्य प्रत्यक्षं वैशिष्ट्यानवगाहि न भवति । घटविषयकज्ञानवानहमित्येव हि प्रत्ययः । तत्नात्मनि ज्ञानं तत्र घटः, तन घटत्वं प्रकारः । स एव विशेषणमित्युच्यते । विशेषणे यद्विशेषणं तद्विशेषणतावच्छेदकम् । विशेषणतावच्छेदकप्रकारकज्ञानं विना विशिष्टवैशिष्टयावगाहि बुद्धिर्न भवति । तच्च ज्ञानं न प्रकारताद्यवगाहीति वक्तुं शक्यते, अनवस्थाप्रसङ्गात् । अतः घटघटत्वतत्संसर्गेषु तुरीयविषयताङ्गीक्रियते । घटत्वाद्यप्रकारकं च घटादिज्ञानं न भवति । जात्यखण्डोपाध्यतिरिक्तपदार्थज्ञानस्य किश्विद्धर्मप्रकारकत्व नियमात् । अतो निर्विकल्पकमङ्गीकार्यम् । निर्विकल्पकस्य नानुव्यवसायात्मकं प्रत्यक्षम् । रक्तः पटः, घटो द्रव्यम् इति समूहालम्बनानन्तरं रक्तघटज्ञानवानहम् इत्यनुव्यवसायवारणाय विशिष्टवैशिष्ट्यावगाहिविषयताशून्यज्ञानस्य अनुव्यवसायानङ्गीकारात् । अतो न निर्विकल्पकं ज्ञानं प्रत्यक्षमिति ।
प्रकारतानिरूपकत्वे सति ज्ञानत्वं सविकल्पकस्य लक्षणम् । अन विशेष्यानुपादाने इच्छाकृत्यादिषु, विशेषणानुपादाने निर्विकल्पके चातिव्याप्तिः । अनुमित्यादावतिव्याप्तिवारणाय इन्द्रियार्थसन्निकर्षजन्यत्वं विशेषणीयम् । इदानीं ज्ञानत्वदलस्य वैयर्थ्यात् इन्द्रियार्थसन्निकर्षजन्यत्वमपहाय ज्ञानाजन्यत्वं निवेशनीयम् । सविकल्पकस्य निर्विकल्पकजन्यत्वेनाव्याप्तिरिति चेत् तर्हि ज्ञानाकरणकत्वं निवेश्यताम् । निर्विकल्पकं च सविकल्पके न करणम्, किन्तु विशेषणज्ञानंविधया कारणम् । अनुमित्यादेः ज्ञानकरणक़त्वात् तद्वयावृत्तिः । अनुभवस्य संस्कारं प्रत्येव कारणत्वमिति स्मृतेः संस्कारमात्तजन्यत्वेन ज्ञानाकरणकत्वघटितलक्षणस्य तनातिव्याप्तिरिति चेत् तदा ज्ञानाकरणकत्वं विहाय प्रत्यक्षत्वजातिमत्त्वं निवेश्यम् । इदानीं ज्ञानत्वदलं तात्पर्यग्राहकमेव । इच्छादीनां प्रत्यक्षत्वदलेनेव वारणात् ।
[[88]]
[[1]]
डित्थोऽय-
इदं च
तत्र
तयाच प्रकारता निरूपकत्वे सति प्रत्यक्षत्वजातिमत्त्वं सविकल्पकप्रत्यक्षस्य लक्षणम् । एवं विशेष्यतानिरूपकज्ञानत्वं संसर्गतानिरूपक ज्ञानत्वं च लक्षणम् । मित्यादिना नामजातिगुणक्रिया प्रकारकं सविकल्पक ज्ञानं प्रदशितम् । जन्यप्रत्यक्षं घ्राणजं, रासनं चाक्षुपं, स्पार्शनं श्रौतं, मानसमिति षड्विधम् । घ्राणस्य गन्धः, गन्धत्वं, सुरभित्वं गन्धाभावः इत्यादयो विषयाः । रसरसत्वादयः रसनायाः । शब्दशब्दत्वादयः श्रवणस्य । तत्र गन्धो रसश्च उद्भूतः वोध्यः । उद्भूतरूपं तद्वन्ति द्रव्याणि, पृथक्त्वं, सङ्ख्या, विभागः, संयोगः परत्वापरत्वे, स्नेहः, नवत्वं परिमाणं, क्रिया, जाति, योग्यवृत्तिः समवायश्च चक्षुर्ग्राह्यः । उद्भूतस्पर्शः. तद्वद्द्द्रव्यं, रूपभिन्नं चक्षुर्योग्यं सर्वमपि त्वचो योग्यम् । सुखं दुःखं, इच्छा, द्वेषः, ज्ञानं, कृतिः, सुखत्वादिजातयः, आत्मा च मनोग्राह्याः । षड्विधप्रत्यक्षज्ञानेष्वपि इन्द्रियं करणम् । इन्द्रियार्थसन्निकर्षः व्यापारः ।
प्रत्यक्षज्ञानहेतुः इन्द्रियार्थसन्निकर्षः पड़विधः । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षे संयुक्तसमवायः सन्निकर्षः, चक्षु संयुक्त घण्टे रूपस्य समवायात् । रूपत्वसामान्य प्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः, चक्षुस्संयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः । कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात् शब्दस्य आकाशगुणत्वाद, गुणगुणिनोश्च समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः, श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभाव प्रत्यक्षे विशेषणविशेष्यभावः
अभावप्रत्यक्षे सन्निकर्षः । भूतलं घटाभाववत् इत्यत्र चक्षुस्संयुक्ते भूतले घटाभावस्य विशेषणत्वात् । एवं सन्निकर्षपट्कजन्यं ज्ञानं प्रत्यधम्, तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ।
इत्यन्नम्भट्टविरचितं तर्कसङ्ग्रहे प्रत्यक्षपरिच्छेदः
प्रत्यक्षविषयपदार्थे नियमेन सन्निकर्षः आवश्यकः । अत्र सर्वतापि सन्निकर्षेषु आदौ इन्द्रियपदं योजनीयम् । द्रव्यप्रत्यक्षे संयोगः सन्निकर्षः । चक्षुस्त्वम्मनांसि
N. P. Sahity
[[89]]
12 7
शब्दत्वे । यथा-भूतलं
गुणादिवृत्ति-
[[1]]
द्रव्यप्रत्यक्षकरणानि । द्रव्यवृत्तिगुणप्रत्यक्षे इन्द्रियसंयुक्तसमवायः । जातिप्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवायः । तत्र घ्राणरसनयोः गुणतद्गतजातिमातग्राहकत्वात् द्वितीयसन्निकर्षो ।
श्रोत्रेण शब्दतद्गतजातिसाक्षात्कारः । तत्र समवायसमवेतसमवायौ सन्निकर्षो । श्रोतसमवायः शब्दे, तत्समवेतसमवायः
विशेषणविशेष्यभावो नाम विशेषणविशेष्यतारूपः सन्निकर्षः
घटाभाववदित्यत घटाभावस्य विशेषणत्वेन चक्षुस्संयुक्तभूतलनिरूपितविशेषणतासन्निकर्षः । ‘भूतले घटाभावः " इत्यत्र घटाभावे चक्षुस्संयुक्तभूतलनिरूपितविशेष्यता सन्निकर्षः । एवं इन्द्रियसंयुक्तसमवेतपदं, इन्द्रियसंयुक्तसमवेतसमवेतपदं, समवेतपदं, समवेतसमवेतपदं च स्थलभेदेन संयोज्य तत्तदभावस्थले निर्वाह्यम् । तथाच शुक्लरूपं कृष्णत्वाभाववदित्यत्र चक्षुस्संयुक्तघटसमवेतशुक्लरूपनिरूपितविशेषणता कृष्णत्वाभावप्रत्यक्ष सन्निकर्षः । शुक्लत्वे कृष्णत्वाभावप्रत्यक्षे चक्षुस्संयुक्तघटसमवेतशुक्लसमवेत शुक्ल त्वनिरूपितविशेषणतासन्निकर्षः । शब्दाभावप्रत्यक्षे विशेषणता । ककारे खत्वाभावप्रत्यक्षे समवेतविशेषणता । कर्णशष्कुल्यवच्छिन्नाकाशरूपश्रोतसमवेतककारे खत्वाभावस्य विशेषणत्वात् । कत्वे खत्वाभावप्रत्यक्षे समवेतसमवेतविशेषणता । घटाभावे घटाभावप्रत्यक्षे चक्षुस्संयुक्तभूतल विशेषणघटाभाव विशेषणता सन्निकर्षः कत्वाभावे खत्वाभावप्रत्यक्ष समवेतविशेषण विशेषणतासन्निकर्षः इत्याद्यूह्यम् ।
वैशेषिकमते समवायः न प्रत्यक्षः । न्यायमते प्रत्यक्षत्वात् पटसमवायवन्तः तन्तवः इत्यादी चक्षुस्संयुक्तविशेषणता इत्यादिसन्निकर्षो बोध्यः ।
।
वहिरिन्द्रियजन्यद्रव्यप्रत्यक्षे रूपस्य कारणत्वविचारः
।
प्राचीनाः वहिरिन्द्रियजन्यद्रव्यप्रत्यक्ष सामान्ये रूपं कारणम्। त्वाचप्रत्यक्षे स्पर्शस्य, चाक्षुषप्रत्यक्षे रूपस्य कारणत्वे गौरवात्, लाङ्घव्रानुसारेण बहिरिन्द्रियजन्यद्रव्य प्रत्यक्ष सामान्ये रूपमेव कारणम् ! नच वायोस्त्वाचप्रत्यक्षं न स्यादिति वाच्यम्, इष्टापत्तेः । वाह्यद्रव्यप्रत्यक्षे स्पर्शस्यैव कारणत्वे प्रभायाः चाक्षुषत्वं न स्यादिति वदन्ति ।
नव्यास्तु प्रभां पश्यामीतिवत् वायुं स्पृशामीतिप्रत्ययस्यापि सद्भावात् चाक्षुषप्रत्यक्ष रूपस्य, स्पार्शनप्रत्यक्षे स्पर्शस्य कारणता अन्वयव्यतिरेकबलादवसीयते । बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे तु आत्मावृत्तिशब्दभिन्नविशेषगुणवत्त्वं प्रयोजकम् ।
[[90]]
रूपस्य कारणत्वे लाघवमिति
.
चेन्न ;
वायोस्त्वगिन्द्रियेणाग्रहणप्रसङ्गात् ।
इष्टापत्तिरिति चेत् उद्भूतस्पर्श एवं लाघवात् कारणमस्तु प्रभाया अप्रत्यक्षत्वे तु इष्टापत्तिरेवेति किं नेष्यते । अतः पूर्वोक्तक्रम एव ज्यायान् । नच वायोः स्पार्शनप्रत्यक्षाङ्गीकारे तद्गतसङ्ख्याया अपि प्रत्यक्षं स्यादिति वाच्यम् । प्रभागतद्वित्वैकत्वयोरिव वायुगत द्वित्वैकत्वयोरपि प्रत्यक्षस्येष्टत्वात् । क्वचित् सजातीयसंवलनरूपदोषात् न सङ्ख्यादीनां ग्रहणमित्याहुः ।
त्वङ्मनस्संयोगस्य ज्ञानसामान्यकारणत्वविचारः
सुषुप्तिकाले त्वचं त्यक्त्वा पुरीतति (मिद्धानाड्यां) वर्तमानेन मनसा ज्ञानाजननात् त्वङ्मनस्संयोगः ज्ञानसामान्ये कारणमित्यङ्गीकर्तव्यम् । ननु सुषुप्तिकाले अनुभवसामग्रयभावात् अनुभवात्मकं ज्ञानं न भवितुमर्हति । तथाहि - प्रत्यक्षे चक्षुरादिना मनस्संयोगस्य हेतुत्वात् तदभावादेव न चाक्षुषादिप्रत्यक्षम् । ज्ञानादे-रभावादेव न मानसम् । ज्ञानाद्यभावे चात्मनोऽपि न प्रत्यक्षम् । एवं व्याप्तिज्ञानसादृश्यज्ञानपदज्ञानानामभावान्नानुमित्युपमितिशाब्दबोधाः । एवमनुभवसामग्रयभावान्नानुभवः । उद्बोधकाभावाच्च न स्मरणम् इति चेन्न ; सुषुप्तिप्राक्क्षणोत्पन्नज्ञानव्यक्तेः तत्सम्बन्धेन आत्मनश्च प्रत्यक्षत्वप्रसङ्गात् । तदतीन्द्रियत्वे मानाभावात् । सुषुप्त्यव्यवहितप्राक्क्षणीयज्ञानं निर्विकल्पकमेवेत्यत्रापि प्रमाणाभावात् ।
अथ ज्ञानमात्रे त्वङ्मनस्संयोगस्य कारणत्वे रासनचाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षमपि युगपत् स्यात्, विषयत्वक्संयोगस्य त्वङ्मनस्संयोगस्य च सत्त्वात् । चाक्षुषसामग्रयाः स्पार्शनप्रतिबन्धकत्वे एकमपि न स्यात् इति ।
अन केचित् - पूर्वोक्तयुक्तया त्वङ्मनोयोगस्य ज्ञानहेतुत्वे सिद्धे चाक्षुषादिसामग्रयाः स्पार्शनादिप्रतिबन्धकत्वमनुभवानुरोधात् कल्पनीयम् । अन्यथा चाक्षुषादिप्रत्यक्षस्य सर्वथोच्छेदः स्यात् इति वदन्ति । अन्ये तु सुषुप्तौ ज्ञानानुत्पादानुरोधेन चर्ममनस्संयोगस्य ज्ञानहेतुत्वं कल्प्यते । तथाच चाक्षुषादिप्रत्यक्षकाले त्वङ्मनस्संयोगाभावान्न स्पार्शनप्रत्यक्षमिति वदन्ति ।
द्रव्यप्रत्यक्षे महत्त्वस्य कारणत्वविचारः
विषयतासम्बन्धेन द्रव्यप्रत्यक्षे समवायसम्बन्धेन महत्त्वं कारणम् । द्रव्यसमवेतानां गुणकर्मसामान्यानां प्रत्यक्षे स्वाश्रयसमवायसम्बन्धेन कारणम् । `स्वं
[[91]]
I
महत्वं, तदाश्रयः द्रव्यम्, तत्सभवायः रूपादौ । द्रव्यसमवेतसमवेतानां गुणत्वकर्मत्वादीनां प्रत्यक्ष स्वाश्रयसमवेतसमवायसम्बन्धेन महत्त्वं कारणम् । उभयत्रापि कारणता"वच्छेदकसम्बन्धः विषयतैव । ननु श्रावणे महत्त्वस्य हेतुत्वे प्रयोजनाभाव इति चेन्न; ‘पूर्वोक्तसामान्य कारणतास्वीकारे लाघवात् । अन्यथा श्रावणान्यद्रव्यसमवेत प्रत्यक्षत्वस्य कार्यतावच्छेदकत्वाङ्गीकारे गौरवमिति
चाक्षुषप्रत्यक्ष आलोकसंयोगोद्भूतरूपयोः कारणत्वविचारः
आलोकसंयोगः उद्भूतरूपं च चाक्षुषप्रत्यक्षे कारणम् । तत्र द्रव्यचाक्षुषं प्रति तयोः समवायसम्बन्धेन कारणत्वम्, द्रव्यसमवेतरूपादिप्रत्यक्षे स्वाश्रयसमवायसम्वन्धेन, द्रव्यसमवेतसमवेतरूपत्वादिप्रत्यक्ष स्वाश्रयसमवेतसमवायसम्बन्धेन कारणत्वम् । सर्वत्र कार्यतावच्छेदकसम्बन्धः विषयता । पिशाचादीनां प्रत्यक्षवारणाय उद्भूतरूपस्य, अन्धकारे घटादिप्रत्यक्षवारणाय आलोकसंयोगस्य च चाक्षुषप्रत्यक्षं प्रति कारणता वक्तव्येति ।
प्रत्यक्षं सन्निकर्षविचारः
प्रत्यक्षे इन्द्रियं करणं, विषयेन्द्विग्नसम्बन्धः व्यापारः । स च संयोगादिः षड्विधः इत्युक्तम् । अन व्यापारः सन्निकर्षः । तज्जन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारत्वस्य श्रोतशब्दसम्बन्धे समवायेऽसम्भवात् । द्रव्यप्रत्यक्षं इन्द्रियसंयोग`जन्यम्, द्रव्यसमवेतप्रत्यक्षं इन्द्रियसंयुक्तसमवायजन्यम् इत्यादिरीत्या बोध्यम् ।
ननु द्रव्यप्रत्यक्षे इन्द्रियसम्बन्धत्वेन हेतुत्वे त्वक्प्रभासंयोगात् चाक्षुषापत्तिः, अन्धकारे घटचक्षुस्संयोगात् त्वाचप्रत्यक्षापत्तिश्चेति चेन्न ; द्रव्यचाक्षुषं प्रति चक्षुस्संयोगः कारणं, द्रव्यसमवेतचाक्षुषं प्रति चक्षुस्संयुक्तसमवेतसमवायः कारणम् । एवमन्यत्रापि विशिष्यैव कार्यकारणभावः ।
ពី៥
·
परन्तु पृथिवीपरमाणुनीले नीलत्वं पृथिवीपरमाणौ पृथिवीत्वं च चक्षुषा कथं न गृह्यते । तत्र स्वाश्रयसमवेतसमवेतत्वरूपपरम्परासम्बन्धेन उद्भूतरूपस्य महत्त्वस्य च सत्त्वात् । तथाहि —नोले नीलत्वजातिरेकैव घटनीले, परमाणुनीले ज वर्तते ।
तथाच स्वं उद्भूतरूपं तदाश्रयो घटः, तत्समवेतं नीलरूपं, तत्समवायः नीलत्वं, एवं स्वं उद्भूतरूपं तदाश्रयः कपालः, तत्समवेतः घटः, तत्समवायः पृथिवीत्वे । एवं महत्त्वसम्बन्धोऽपि पृथिवीत्वे नीलत्वे च वोध्यः । स्वं महत्त्वं तदाश्रयो घटः,
अन्तत्समवेतं नीलरूपं, तत्समवायः नीलत्वे । एवं कपालद्वारा पृथिवीत्वे महत्त्वम् । एवं वाय तदीयस्पर्शादी च सत्तायाः चाक्षुषं स्यात् । अतः उद्भूतरूपावच्छिन्नः महत्त्वा ‘वच्छिन्नः यः चक्षुस्संयोगः तद्वत्समवायः द्रव्यसमवेतचाक्षुषे कारणम् ।
·
यत्र चक्षुसंयोगः समवायेन तत्रैव महत्त्वोद्भूतरूपे अपेक्षिते । तथाच परमाणौ चक्षुस्संयोगः, तत्रोद्भूतरूपसत्त्वेऽपि महत्त्वाभावात्, वायो महत्त्वत्सत्त्वेऽपि उद्भूतरूपाभावात् न परमाणी पृथिवीत्वादेः, वायो सत्ताया वा चाक्षुषमिति । एवं यत्त्र घटस्य मध्यावच्छेदे - नालोकसंयोगः, चक्षुस्संयोगस्तु बाह्यावच्छेदेन तत्न घटप्रत्यक्षाभावात् आलोकसंयोगावच्छिनत्वं चक्षुस्संयोगे देयम् ।
एवं द्रव्यस्पार्शनप्रत्यक्षे त्वक्संयोगः, द्रव्यसमवेतस्पार्शनप्रत्यक्षे त्ववसंयुक्तद्रव्यसमवेतसमवेतस्पार्शनप्रत्यक्षे त्वक्संयुक्तसमवेतसमवायः कारणम् ।
समवायः,
अत्रापि महत्त्वावच्छिन्नत्वमुद्भूतस्पर्शावच्छिन्नत्वं च पूर्ववदेव बोध्यम् ।
एवं गन्धप्रत्यक्षे घ्राणसंयुक्तसमवायः, गन्धसमवेतगन्धत्वादिप्रत्यक्षे घ्राणसंयुक्तसमवेतसमवायः कारणम् ।
एवं रसप्रत्यक्षे रसनासंयुक्तसमवायः रसत्वादिप्रत्यक्षे रसनासंयुक्तसमवेतसमवायः कारणम् ।
शब्दप्रत्यक्षे श्रोत्रावच्छिन्नसमवायः, शब्दसमवेतश्रावणप्रत्यक्षे श्रोत्रावच्छिन्नसमवेतसमवायः कारणम् ।
।
अत्र च सर्व प्रत्यक्षं लौकिकं ग्राह्यम् । वक्ष्यमाणमलौकिकप्रत्यक्षं तु इन्द्रियसंयोगादिकं विनापि भवति । एवमात्मप्रत्यक्षे मनस्संयोगः, आत्मसमवेतमानसप्रत्यक्षे मनस्संयुक्तसमवायः, आत्मसमवेतसमवेतमानसप्रत्यक्षे मनस्संयुक्तसमवेतसमवायः ‘कार्णम् । अभावप्रत्यक्ष समवायप्रत्यक्षे च इन्द्रियसम्बद्धविशेषणता हेतुः । वैशेषिकमते समवायः न प्रत्यक्षः । घटाकाशसंयोगस्य प्रत्यक्षवारणाय सम्बन्ध प्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वात् । नैयायिकास्तु संयोगप्रत्यक्षं प्रत्येव यावदाश्रयप्रत्यक्षस्य हेतुता स्वीकारेण तद्दोषवारणसम्भवात् समवायः प्रत्यक्ष एवेत्यभ्युपगच्छन्ति ।
अत्र यद्यपि विशेषणता नानाविधा - भूतलादी घटाद्यभावः स्वसंयुक्तविशेषणतया, सङ्ख्यादौ रूपाद्यभावः स्वसंयुक्तसमवेतविशेषणतया, सङ्ख्यात्वादौ रूपाद्यभावः स्वसंयुक्तसमवेतसमवेतविशेषणतया, शब्दाभावः केवलश्रोत्नावच्छिन्नविशेषणतया, कान्दौ खत्वाद्यभावः श्रोत्रावच्छिन्नसमवेतविशेषणतया एवं कत्वाद्यवच्छिन्नभावे
[[1]]
[[93]]
!
चक्षुस्संयुक्त विशेषणविशेषणतया एवमन्यदाप ।
·
अस विशेषणतास्वरूपस बधाव शषः
स्वपदेन चक्षुर्ग्राह्यमिति । तथापि विशेषणतात्वेन रूपेण एकैव सा गृह्यते । अन्यथा ‘पोढा सन्निकर्ष’ इति प्राचां प्रवादो व्याहन्येतेति ।
अनुपलब्धेः प्रमाणान्तरत्वनिरासः, तत्स्वरूपवर्णनपूर्वकं तस्य प्रत्यक्षे
सहकारित्ववर्णनच
मीमांसकास्तु अभावप्रत्यक्षे यदि प्रत्यक्षं प्रमाणं स्यात् तदा तदनुरोधेन विशेषणतापि सन्निकर्षः स्यात् । परन्तु अभावः न प्रत्यक्षः । किन्तु अनुपलब्धिप्रमाणजन्यानुपलम्भात्मकप्रमितिविषय एव । नच समवायप्रत्यक्षानुरोधात् विशेषणतासन्निकर्षः स्वीकार्य इति वाच्यम् । तस्यैवानङ्गीकारात् इति वदन्ति । तदसत् । भावप्रत्यक्ष इवाभावप्रत्यक्षेऽपि इन्द्रियमेव करणम् । सन्निकर्षस्तु विशेषणताख्यः उक्त एव परन्तु योग्यानुपलब्धिः तत्र सहकारिणी । तावतैवोपपत्तौ अतिरिक्तप्रमाणकल्पनमनुचितम् । याङ्ग्या चासौ अनुपलब्धिश्च योग्यानुपलब्धिः । अनुपलब्धिर्नाम प्रतियोग्युपलम्भाभावः । यथा - घटोपलम्भाभावः घटाभावप्रत्यक्षे सहकारिकारणम् । तादृशाभावे योग्यताप्यपेक्षिता । सा च प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितप्रतियोगिकत्वरूपा । प्रतियोगिनः घटस्य सत्त्वप्रसक्त्या अस्तित्वापादनेन प्रसञ्जितः आपादितः उपलम्भरूपः प्रतियोगी यस्य सः, तादृशः उपलम्भाभावः अभावप्रत्यक्षे हेतुः । यत्त आलोकसंयोगचक्षुस्संयोगादिकं वर्तते तत्र यद्यत्र घटः स्यात् तहि उपलभ्येत इत्यापादयितुं शक्यते । तत्व घटाभावादिप्रत्यक्षं भवति । अन्धकारे एतादृशापादनस्य कर्तुमशक्यत्वात् तत्त्र घटाभावादिचाक्षुषप्रत्यक्षं न भवति । स्पार्शनप्रत्यक्षं तु भवत्येव । आलोकसंयोगं विनापि स्पार्शनप्रत्यक्षस्य आपादयितुं शक्यत्वात् । गुरुत्वादिकं यदयोग्यं तदभावस्तु न प्रत्यक्षः, तत्र गुरुत्वादिप्रत्यक्षस्य आपादयितुमशक्यत्वात् । वायौ रूपाभावः, पाषाणे सौरभाभावः, गुडे तिक्ताभावः, श्रोते शब्दाभावः, आत्मनि सुखाभावः एवमादयः तत्तदिन्द्रियैर्गृह्यन्ते, तत्तत्प्रत्यक्षस्य आपादयितुं शक्यत्वात् । एवं संसर्गाभावप्रत्यक्षे प्रतियोगिनः पूर्वोक्तयोग्यतापेक्षिता । अन्योन्याभावप्रत्यक्षं तु अधिकरणयोग्यतापेक्षिता । अतः स्तम्भे पिशाचभेदः पिशाचे स्तम्भभेदस्तु न तथा, तन भेदाधिकरणे पिशाचस्यायोग्यत्वादिति ।
[[94]]
चाक्षुषः,
अथालौकिकसन्निकर्षविचारः
प्रत्यक्षं लौकिकमलौकिकं चेति द्विविधम् । तत्र लौकिकप्रत्यक्षे पोढा सन्निकर्षो वर्णितः । अलौकिकप्रत्यक्षहेतुभूतः अलौकिकसन्निकर्षः त्रिविधः । सामान्य लक्षणः, ज्ञानलक्षणः, योगजश्चेति ।
सामान्यलक्षणसन्निकर्षः
तत्र महानसचत्वरादी धूमदर्शने घूमा इत्येवं रूपं सकलधूमविषयकं ज्ञानं जायते । तत्रापि इन्द्रियं करणम् । सामान्यलक्षणः सन्निकर्षः । तत्र प्राचीनमतानुसारेण लक्षणशब्दस्य स्वरूपार्थकत्वात् सामान्यं लक्षणं स्वरूपं यस्य सः इति विग्रहेण सामान्यस्वरूपा प्रत्यासत्तिरित्यर्थो लभ्यते । प्रत्यासत्तिः सन्निकर्षः । तच्च सामान्यं इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतं बोध्यम् । इन्द्रियसम्बद्धः धूमः तद्विशेष्यकं घूम इति ज्ञानं तत्र प्रकारीभूतं धूमत्वं तेन सन्निकर्षेण सकलधूमविषयकं धूमा इत्येवं ज्ञानं जायते । इदमेवालौकिकप्रत्यक्षं फलम् । अत्र इन्द्रियसम्बद्धं सामान्यं प्रत्यासत्तिः इत्येव यद्युच्येत तदा धूलीपटले घूमत्व भ्रमानन्तरं सकलधूमविषयकं ज्ञानं न स्यात्, तत्र घूमत्वेन सह इन्द्रियसम्बन्धाभावात् । पूर्वोक्तरीत्यनुसरणे तु इन्द्रियसम्वद्धं धूलीपटलं तद्विशेष्य के धूम इति ज्ञाने प्रकारीभूतं घूमत्वं सन्निकर्षः सम्भवति । अत इन्द्रियसम्बन्धः लौकिकः बोध्यः । इदं च बहिरिन्द्रियस्थले । मानसस्यले तु ज्ञानप्रकारीभूतं सामान्यमानं प्रत्यासत्तिः । अत सामान्यपदेन समानानां भावः सामान्यमिति व्युत्पत्त्या धर्ममात्रं गृह्यते । न तु जातिमानम् । धूमत्वं नित्यसामान्यम् । घटादिकमनित्यसामान्यम् । संयोगेन भूतले, समवायेन कपाले ‘वा यत्र एको घटः ज्ञातः, ततः इन्द्रियसम्बद्धविशेष्यकज्ञानप्रकारीभूतेन तद्धररूपसामान्येन सर्वेषां तद्घटवतां भूतलादीनां कपालादीनां वा ज्ञानं भवति । तवेदमनित्यसामान्यं बोध्यम् ।
ननु यत्र तद्घटना शानन्तरं तद्घटवतः स्मरणं जातं तत्र सामान्यलक्षणसन्निकर्षेण सर्वेषां तद्घटवतां स्मरणं न स्यात्, घटरूपस्य सामान्यस्य तदानीमभावात् । किश्व यत्र अद्य इन्द्रियसम्बद्धविशेष्यकं घट इति ज्ञानं जातं, श्वः तत्र इन्द्रियसम्बन्धं विनापि इन्द्रियसम्बद्ध विशेष्यकज्ञानप्रकारीभूतसामान्यस्व सत्त्वात्. घटत्वप्रक। रकसर्वघट विशेष्यकमलौकिकप्रत्यक्षं कुतो न जन्यत इति चेन्न ; सामान्य-
[[95]]
लक्षण इत्यत्र लक्षणशब्दस्य विषयोऽर्थः । सामान्यं लक्षणं विषयो यस्य ज्ञानस्य सः सामान्यलक्षण इति स्वीकारेण सामान्यज्ञानरूपप्रत्यासत्तेलाभिन पटरूपसामान्यस्याभावेऽपि तज्ज्ञानरूपप्रत्यासत्तेः सत्त्वेन अदोषात् । एवं इन्द्रियसम्बद्ध विशेष्यकज्ञानप्रकारीभूतवटत्वरूप सामान्यसत्त्वेऽपि तज्ज्ञानाभावात् न परदिने घटविषयकालौकिकप्रत्यक्षम् इति । परन्तु चक्षुस्संयोगं विना अनुमानादिना सामान्यज्ञानसत्त्वे समस्तपटालौकिकचाक्षुषप्रत्यक्षस्याभावात् यदा बहिरिन्द्रियेण सामान्यलक्षणया ज्ञानं जननीयं तदा यत्किचिद्धर्मिणि तत्सामान्यस्य तदिन्द्रियजन्यज्ञानस्य सामग्री अपेक्षिता । सामग्री चक्षुस्संयोगालोकसंयोगादिरूपा । अत एवं सामान्यज्ञानसत्त्वेऽपि अन्धकारादौ चक्षुषा अलौकिकसन्निकर्षजन्यं समस्तघटविषयकं चाक्षुषज्ञानं न जायते ।
ज्ञानलक्षणासन्निकर्षविचारः
सा च
दूरात् चन्दनखण्डस्य चक्षुस्सन्निकर्षे सति सौरभज्ञाने स्मरणादिरूपे जाते सौरभज्ञानरूपसन्निकर्षेण सुरभिः चन्दनखण्डः इति सौरभांशे अलौकिकप्रत्यक्षं जायते । एतत्सन्निकर्षानङ्गीकारे चक्षुषः चन्दनेन स्व ( चक्षुः ) संयुक्तसमवायसत्त्वेऽपि योग्यसन्निकर्षाभावात् तत्र सौरभभानं न स्यात् । अतः ज्ञानस्वरूपात्मिका ज्ञानलक्षणाप्रत्यासत्तिरङ्गी कार्या । यद्यपि सौरभभानं सौरभत्वज्ञानरूपसामान्यलक्षणसन्निकर्षेणापि भवति । तथापि स्वरूपतः सौरभत्वस्य ज्ञानं ज्ञानलक्षणप्रत्यासत्त्यैव । एवं च सौरभांश, सौरभत्वांशे वा चक्षुषोऽलौकिकसन्निकर्षः । चन्दनांशे लौकिकः । ज्ञानलक्षणासन्निकर्षश्च स्वसंयुक्तमनस्संयुक्तात्मसमवेतज्ञानविषयत्वरूपः । स्वं चक्षुरिति ।
ननु यदि सामान्यलक्षणाप्रत्यासत्तिर्ज्ञानरूपा ज्ञानलक्षणापि ज्ञानरूपा तदा तयोर्भेदो न स्यात् इति चेन्न ; सामान्यलक्षणा प्रत्यासत्तिहि यद्विषयकं ज्ञानं तदाश्रयस्य ज्ञानं जनयति, ज्ञानलक्षणा तु यद्विषयकं ज्ञानं तस्यैव प्रत्यासत्तिरिति तयोर्भेदात् ।
ननु सामान्यलक्षणाप्रत्यासत्तिः किमर्थमङ्गीकरणीया इति चेदुच्यते । प्रत्यक्ष सन्निकर्ष दिना मानं न सम्भवति । तथाच सामान्यलक्षणां विना प्रत्यक्षधूमे वह्निसम्न्धस्य गृहीतत्वेऽपि धूमान्तरस्य अनुपस्थितत्वात् पर्वते धूमदर्शनानन्तरं घूमो वह्निव्याप्यो न वां इति संशयः न स्यात् । अतः महानसादौ व्याप्तिग्रहणस्थले धूमवह्निदर्शनवेलायां घूमत्वेन सकलधूमानां, वह्नित्वेन सकलवह्नीनां भानार्थं सामान्य-
[[96]]
लक्षणसत्रिकर्षोऽगीकर्तव्यः
तदा च कालान्तरीयदेशान्तरीयधूमेऽपि वह्निव्याप्यत्व-
सन्देहः सम्भवति । नच सामान्यलक्षणास्वीकारे प्रमेयत्वेन सकलम्प्रमेयज्ञाने जाते सार्वश्यापत्तिरिति वाच्यम् । प्रमेयत्वेन सकलप्रमेयज्ञाने जातेऽपि विशिष्य सकलपदार्थानामज्ञातत्वेन सार्वज्ञ्याभावात् इति ।
योगजसन्निकर्षः
योगाभ्यासजनितः श्रुतिपुराणादिप्रतिपाद्यः धर्मविशेष एव योगजसन्निकर्षः ॥ स द्विविधः - युक्तमनिसन्निकर्षः, युज्जानयोगिसन्निकर्षश्चेति । युक्तः सिद्धः, युञ्जानः साधकः । योगारूडः, आरुरुक्षुः इति गीतायामुक्तो योगिना विमावेव । तत्र युक्तयोगी तावद् योगजधर्मरूपसशिकर्षसहायेन आकाश परमाण्वादिनिखिलपदार्थजातं सर्वदा साक्षात्कतु अर्हति । युञ्जानयोगी तु चिन्ताविशेष सहकृतयोगजधर्मसहकारेण तत् पदार्थजातं साक्षात्कर्तुमर्हतीति ।
नी
इति प्रत्यक्षपरिच्छेदः
अथानुमानपरिच्छेदः
अनुमितिकरणम् अनुमानम् ।
प्रत्यक्षज्ञानं प्रति इन्द्रियं करणम् । इन्द्रियार्थसन्निकर्षो व्यापारः । चाक्षुषादिप्रत्यक्षं फलम् ।
अनुमिति प्रति पक्षधर्मताज्ञानानन्तरं जायमानं व्याप्तिज्ञानं करणम् । परामर्शो व्यापारः । अनुमितिः फलम् । फलोपधायकं करणं ( फलायोगव्यवच्छिन्नं कारणम् करणम् ) इति मतानुसारेण लिङ्गपरामर्शो वा करणम् । उभयथापि पक्षधर्मताज्ञानं परामर्शश्च प्रत्यक्षज्ञानमेव । तज्जन्यत्वं अनुमिताविति प्रत्यक्ष निरूपणानन्तरमनुमितिः निरूप्यते । किञ्च चार्वाकव्यतिरिक्तसर्वदार्शनिकैः अनुमानप्रमाणस्याङ्गीकृतत्वेन सर्वाङ्गीकृतप्रत्यक्षनिरूपणानन्तरं अनुमानं निरूप्यते ।
अनुमित्यसाधारणकारणत्वमनुमानस्य लक्षणम् । अनुमितित्वावच्छिन्नकार्यतानिरूपित कारणताश्रयत्वे सति अनुमितिजनकव्यापारजनकत्व मनुमानस्य लक्षणम् । पर्वतो वह्निमान् इत्याद्यनुमितित्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं अनुमितिजनकपरामर्शरूपव्यापारजनकत्वं च व्याप्तिज्ञानरूपेऽनुमाने वर्तत इतिरीत्या
"
[[97]]
लक्षणसमन्वयः । विशेष्यमावोक्तो ईश्वरादृष्टकालेषु, विशेषणमात्रोक्ती परामर्शे च अतिव्याप्तिरित्युभयोपादानम् । अनुमितिनिष्ठकार्यतानिरूपितका रणताश्रयत्वे सति तादृशव्यापारजनकत्वस्य ईश्वरादौ सत्त्वात् पुनरतिव्याप्तिरिति अनुमितित्वावच्छिन्नकार्यतानिवेशः । ) ननु व्यापारत्वावच्छिन्नकार्यता निरूपितकारणताश्रयत्वविवक्षयैव कालादावतिव्याप्त्यभावात् किमर्थमनुमित्यसाधारणकारणत्वनिवेश इति चेत् — व्यापारत्वेन व्याप्तिज्ञानत्वेन कार्यकारणभावाभावादसम्भवापत्तेः । परामर्शत्वावच्छिन्नकार्यतानिरूपितका रणताश्रयत्वनिवेशे पूर्वोक्तासम्भवस्य कालादो अतिव्याप्तेश्चाभावेऽपि परामर्शकारणपक्षधर्मताज्ञानेऽतिव्याप्तिः । व्याप्तिज्ञानपक्षधर्मताज्ञानाभ्यां परामर्शजननात्म् । पूर्वोक्तपरिष्कारे तु पक्षधर्मताज्ञानस्य परामर्शं प्रत्येव हेतुतया अनुमित्यसाधारणकारणत्वाभावात् नातिव्याप्तिः ।
व्याप्तिज्ञानस्य तु अनुमितिकरणत्वप्रतीत्या तत्त्र लक्षणसमन्वयः । नच सिद्धिसमानकालिके सिषाधयिषाविरहविशिष्टव्याप्तिज्ञाने अनुमितिकरणत्वाभावात् तत्त्राव्याप्तिरिति वाच्यम् । अनुमितिजनकज्ञानवृत्तिधर्मवत्त्वस्य विवक्षणात् । नच अनुमितिजनकज्ञानवृत्तिप्रमेयत्वधर्मवत्त्वस्य व्यापारजनकत्वस्य च कालादी सत्त्वात् पुनरतिव्याप्तिरिति वाच्यम् । अनुमितित्वावच्छिन्नजनकतावच्छेदकः व्यापारजनकतावच्छेदकश्च यो धर्मः तद्वत्त्वस्य विवक्षितत्वात् । सिद्धिसमानकालिकव्याप्तिज्ञानेऽपि तादृशव्याप्तिज्ञानत्वरूपधर्मसत्त्वात् समन्वयः । कालेश्वरादौ तस्याभावान्नातिव्याप्तिः । वस्तुतस्तु पक्षतासहकृतव्याप्तिज्ञानस्यैवानुमानत्वाङ्गीकारात् सिद्धिसमानकालिकस्य अनुमित्यनुपधायकत्वेऽपि न क्षतिः, तत्र अनुमानत्वस्यैवानङ्गीकारात् ।
अनुमित्युत्पत्तिक्रमः
प्रथमं महानसादौ धूमं पश्यन् तत्र वह्नि च पश्यन् तयोः साहचयं गृहीत्वा पुनः पुनस्तयोर्भूयो दर्शनेन व्यभिचाराभावं च गृहीत्वा ‘यत्र धूमः तत्र वह्निः’ इति धूमे वह्निनिरूपितां व्याप्ति गृह्णाति । ततश्च कदाचित् पर्वतसमीपं गतस्य पर्वते धूमं पश्यतः पर्वतो धूमवान्’ इति पक्षघर्मताज्ञानं जायते । ततः पूर्वोत्पन्नव्याप्त्यनुभवजन्यसंस्कारोद्बोधात् व्याप्तिस्मरणं भवति । उभाभ्यामाभ्यां ज्ञानाभ्यां ‘वह्निव्याप्यघूमवानयं पर्वतः’ इति परामर्शः । ततः ’ पर्वतो वह्निमान्’ इत्यनुमितिः । इत्येवं व्याप्तिस्मृतिपरामर्शानुमितीनामुत्पत्तिक्रमः ।
[[98]]
प्रत्यक्षनिरूपणानन्तरमनुमाननिरूपणे सङ्गतिश्चोपजीव्योपजीवकभावः । उप-
जीव्यते आश्रीयते कार्यायेत्युपजीव्यं कारणम् । उपजीवत्युत्पद्यते इति उपजीवकं अनुमानस्य व्याप्तिज्ञानादेः चक्षुरादिप्रत्यक्षेण जननान्त् तयोः सङ्गतिअनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयस्मरणानुकूलसम्बन्धत्वं
कार्यम् ।
।
रुपपद्यते ।
सङ्गतिसामान्यलक्षणम् ।
निर्वाह-
।
प्रत्यक्षनिरूपणानन्तरमनुमानाभिधाने प्रयोजकजिज्ञासा ’ अनुमानज्ञानं मे भवतु’ इत्याकारिका, तज्जनकञ्ज्ञानम् ’ अनुमानज्ञानं मदिष्टसाधनम्’ इत्याकारकं, तद्विषयः अनुमानम्, तत्स्मरणानुकूलसम्बन्धः अनुमाननिष्ठप्रत्यक्षकार्यत्वम् इति । एषा च सङ्गतिः षोढा - ’ सप्रसङ्ग उपोद्घातः हेतुतावसरस्तथा । कैक्यकार्येक्ये षोढा सङ्गतिरिष्यते ॥’ इत्युक्तेः । तन उपोद्घातादिभिन्नः उपेक्षानहंस्मरणप्रयोजकसम्बन्धः प्रसङ्गः। प्रकृतोपपादकत्वमुपोद्घातः । हेतुता कारणता । अवसरः प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तौं अनन्तरवक्तव्यत्वम् । निर्वाहकैक्यं एकप्रयोजकप्रयोज्यत्वम् । कार्यैक्यं एककार्यानुकूलत्वमिति ।
।
[[1]]
कश्चित्पुरुषः महानसादौ धूमे वह्निव्याप्ति गृह्णाति । पश्चात् स एव पुरुषः क्वचित्पर्वतादावविच्छिन्नमूलां धूमरेखां पश्यति । ततः ‘धूमो वह्निव्याप्यः’ इति व्याप्ति स्मरति । पश्चाच्च ’ वह्निव्याप्यधूमवानयं पर्वतः ’ इति परामर्शात्मकं ज्ञानमुत्पद्यते । तदनन्तरं पर्वतो वह्निमानित्यनुमितिर्जायते ।
अनुमितो व्याप्यलिङ्गविषयकज्ञानं करणम् । प्राचीन स्तु व्याप्यत्वेन ज्ञायमानं लिङ्गं करणमिति वदन्ति । तन्न युक्तम् । तथा सति अनागतेन, विनष्टेन च लिङ्गेन अनुमितिर्न स्यात् । ’ इयं यज्ञशाला अतीतवह्निमती अतीतधूमात्’
महानसः भविष्यद्वह्निमान् भविष्यद्ध मात्’ इति तत्राप्यनुमितिदर्शनात् ।
परामर्शजन्यं ज्ञानमनुमितिः ।
एवम् ‘अयं
घटितज्ञानं प्रति घटकज्ञानस्य हेतुत्वात् अन्योन्याश्रयम्भिया अनुमानजन्यत्वा-
घटितं अनुमानलक्षणघटकानुमितिलक्षणमाह - परामर्शेति ।
परामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम् । विशेषणमात्रोक्तौ परामर्शध्वंसे, विशेष्यमात्रोक्तौ प्रत्यक्षादिज्ञानेऽतिव्याप्तिः । नच परामर्शनिष्ठजनकतायां समवायसम्बन्धावच्छिन्नत्वनिवेशे’
[[99]]
परामर्शध्वंसे नातिव्याप्तिः । प्रतियोगितासम्बन्धेन ध्वंसं प्रति तादात्म्यसम्बन्धेनैव प्रतियोगिनः कारणत्वात्, समवायसम्बन्धावच्छिन्नपरामर्शनिष्ठकारणता निरूपितकार्यत्वस्य परामर्शध्वंसेऽभावात् ज्ञानत्वदलमनर्थकमेदेति वाच्यम् । समानविषयक संस्कारे समानविषयकानुभवस्य समवायसम्बन्धेनैव हेतुत्वात् साध्यव्याप्यहेतुमत्पक्ष विषयकसंस्कारेऽतिव्याप्तिवारकतया ज्ञानत्वदलसार्थक्यात् । नच ‘वह्निव्याप्यधूमवत्सर्वतवानयं देशः’ इति निरुक्तधूम विशिष्ट पर्वतवं शिष्टयावगाहिबुद्धी विशेषणतावच्छेदकप्रकारकज्ञानमुद्रया ‘वह्निव्याप्यधूमवान् पर्वतः’ इति निश्चयस्य कारणत्वेन तादृश विशिष्टवैशिष्ट्यावगाहिबुद्धी परामर्शजन्यत्वघटितलक्षणसत्त्वादतिव्याप्तिरिति वाच्यम् । हेत्वविषयकत्वदलस्यापि तत्र स्वातन्त्र्येण निवेशनीयत्वात्, तत्र हेतुविषयकत्वस्यैव सत्त्वान्नातिव्याप्तिः । नच धूमवत्पर्वतो वह्निमानिति धूमधर्मितावच्छेदककानुभितो हेत्वविषयकत्वाभावादव्याप्तिरिति वाच्यम् । परामर्शजन्यं हेत्वविषयकं यज्ज्ञानं तद्वृत्तिः अनुभवत्वव्याप्या या जातिः तद्वत्त्वस्यैव विवक्षितत्वात् । अनुमितित्वजातिमादाय च समन्वयो ग्राह्यः ।
ननु यत्त्रायं स्थाणुः पुरुषो वा इति संशयः ततः पुरुषत्वव्याप्यकरादिमानयमिति परामर्शे सति पुरुष एवेति प्रत्यक्षं जायते । तत्र संशयोत्तरप्रत्यक्षेऽपि परामर्श - ’ जन्यत्वसत्त्वादतिव्याप्तिः । न चावानुमितिरेवेति वाच्यम् । पुरुषं साक्षात्करोमीत्यनुव्यवसायविरोधात् इति चेन्न पक्षतासहकृतपरामर्शजन्यत्वस्य विवक्षितत्वात् । सन्थयोत्तरप्रत्यक्षे परामर्शस्य कारणत्वेऽपि पक्षतायाः कारणत्वाभावेन तादृशलक्षणाभावान्नातिव्याप्तिः ।
अथ परामर्शलक्षणम्
व्याप्तिविशिष्टपचधर्मताज्ञानं परामर्शः । यथा – वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानं परामर्शः । तञ्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ।
व्याप्तिनिष्ठ
अनुमितिलक्षणघटकपरामर्शलक्षणमाह-व्याप्तिविशिष्टेति । प्रकारतानिरूपकत्वे सति पक्षसम्बन्धविषयकत्वे सति ज्ञानत्वं परामश य लक्षणम् वह्निव्याप्यधूमवान् पर्वत इति परामर्शात्मकज्ञाने व्याप्तिः धू विशेषणम् । अतः व्याप्तिनिष्ठप्रकारतानिरूपकत्वं ज्ञानस्य । यत्र ज्ञानं विशेषणविशेष्यावगाहि तन्त्र तयोः संसर्गश्च नियमेन भासते । एवं चात्र धूमस्य पर्वतशेि विशेषणत्वेन
[[100]]
धूमपर्वतयोः स्य संयोगस्यापि विषयत्वात् पक्षसम्बन्धविषयकत्वं ज्ञानत्वं च गत परामर्श वर्तत इति समन्वयः । ज्ञानत्वानुपादाने वह्निव्याप्यधूमवत्पर्वत विषयकसंस्कारे, ज्ञानत्वमात्रोत्तावनुमित्यादावतिव्याप्तिः । पक्षसम्बन्धविषयकत्वे सति ज्ञानत्वमात्रोक्ती ‘धूमवान् पर्वतः ’ इति केवलपक्षधर्मताज्ञाने, पक्षसम्बन्ध विषयकत्वानुपादाने ‘वह्निव्याप्यो धूमः’ इति व्याप्तिस्मृतिरूपानुमितिकरणे च अतिव्याप्तिः इति दलप्रयोजनानि । ननु ’ वह्निव्याप्यो धूमः आलोकवान् पर्वतः’ इति समूहालम्बनज्ञानेऽपि व्याप्तिविषयकत्वपक्षसम्बन्धविषयकत्वयोः सत्त्वेन परामर्शभिन्ने तस्मि नतिव्याप्तिरिति वाच्यम् । साध्यतावच्छेदकावच्छिन्नप्रकारतानिरूपितव्याप्तित्वावच्छिन्नप्रकारतानिरूपितं हेतुतावच्छेदकधर्म सम्बन्धावच्छिन्न प्रकारतानिरूपित पक्षतावच्छेदकावच्छिन्न विशेष्यताशालिनिश्चयत्वस्य परामर्शलक्षणत्वेन विवक्षिततया अत्र समूहालम्बनज्ञाने धूमांशे व्याप्तेः प्रकारत्वेऽपि पर्वतांशे तादृशधूमस्याप्रकारत्वेन निरुक्तलक्षणस्य तत्राभावेन दोषाभावात् । अत एव ‘वह्निव्याप्यो धूमः धूमवान् पर्वतः’ इति समूहालम्बनेऽपि नातिव्याप्तिः । पर्वतत्वावच्छिन्नविशेष्यतानिरूपितघूमत्वावच्छिन्नप्रकारतायां व्याप्तित्वावच्छिन्नप्रकारतानिरूपितत्वाभावात् । परामर्शे . तु साध्यस्य व्याप्तौ व्याप्तेः हेतौ, हेतोः पक्षे च यथाक्रमं प्रकारतया समन्वयः ।
व्याप्त्यवच्छिन्नविषयतानिरूपितपक्षतावच्छेदकावच्छिन्नविषयताशालिनिश्चयत्वं परामर्शत्वम् । स च निश्चयः पक्षे व्याप्य इति ज्ञानं, पक्षो व्याप्यवानिति ज्ञानं च । अनुमितिस्तु प्रथमज्ञानात् पक्षे साध्यम्मित्याकारिका, द्वितीयस्मात् पक्षः साध्यवानित्याकारिका । द्विविधादपि परामर्शात् पक्षः साध्यवानित्येवानुमितिरित्यन्ये ।
मीमांसकमतविमर्शः
अन ’ वह्निव्याप्यधूमवान् पर्वतः ’ इति ज्ञानं विनापि यत्नं पर्वतो धूमवानिति प्रत्यक्ष ततो वह्निव्याप्यो धूमः इति स्मरणं तस्मिन्नात्मनि विशिष्टज्ञानं विमापि ज्ञानद्वयादेव अनुमितिदर्शनात् तार्किकोक्ततादृशनिश्चयः न सर्वत्रानुमितौ कारणम्, व्यतिरेकव्यभिचारात् । किन्तु व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानमेवानुमिति प्रति कारुणम् । ज्ञानद्वयस्थलेऽपि विशिष्टज्ञानकल्पनेन व्यभिचारवारणे च गौरवमिति मीमांसकाः वदन्ति । परन्तु धूमत्वालोकत्वादिरूपव्याप्यतावच्छेदकप्रकारक निश्चयाभावेऽपि वह्निव्याप्यवान् पर्वतः इतिज्ञानादनुमित्युत्पत्तेः नोक्तमतं साधु । किव
[[101]]
व्याप्यतावच्छेदकप्रकारकत्यापेक्षया व्याप्तिप्रकारकत्वस्य लघुत्वात् पूर्वोक्तं व्याप्तिप्रकारकपक्षधर्मताज्ञानमेव हेतुः । किञ्च तदुक्तज्ञानस्य कारणत्वे धूमवान् पर्वतः इति ज्ञानादनुमित्यापत्तिः, व्याप्यतावच्छेदकीभूतघूमत्वप्रकारकपक्षधर्मताज्ञानस्य सत्त्वात् । नच गृह्यमाणव्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानं हेतुः । अतः कालान्तरीयज्ञानविषयत्वमादाय न दोष इति वाच्यम् । चैत्रस्य व्याप्तिग्रहे मैले पक्षधर्मताज्ञानात अनुमित्यापत्तेः । यदि तत्पुरुषीयगृह्यमाणव्याप्यतावच्छेदकप्रकारकं तत्पुरुषीयपक्षधर्मताज्ञानं तत्पुरुषीयानुमितौ हेतुरित्युच्यते तदा पुरुषभेदेन अनन्तकार्यकारणभावः । न्यायमते तु यत्न समवायसम्बन्धेन व्याप्तिप्रकारकपक्षधर्मताज्ञानं तत्रैव समवायसम्बन्धेन अनुमितिरिति नानन्तकार्यकारणभावः । यदि समवायेन अनुमिति प्रति व्याप्तिप्रकारकनिश्चयः, पक्षधर्मताविषयकनिश्चयश्चेति द्वयं समवायेन स्वतन्त्र कारणमित्युच्यते तदा गौरवम् । वह्निव्योप्यो धूमः, आलोकवान् पर्वतः इति निश्चयद्वयादप्यनुमितिः स्यात् । न्यायमते तु ज्ञानद्वयस्थले विशिष्टज्ञानकल्पनेऽपि न गौरवम् । फलमुखगौरवस्यादोषत्वात् । पूर्वोक्तरीत्या विशिष्टज्ञानत्वेन कारणत्वस्यावश्यकत्वात् । तदनन्तरं ज्ञानद्वयस्थले विशिष्टज्ञानकल्पनेऽपि पूर्वोत्पन्नविशिष्टज्ञानकारणताग्रहस्य प्रतिवन्धः न सम्भवति इति ।
यत्र यत्र धूमः तत्र वह्निरिति साहचर्यनियमो व्याप्तिः ।
परामर्शघटकव्याप्तिलक्षणमाह-यत्र यत्नेति । साहचर्यनियमस्य व्याप्तित्वे जुल्यवित्तिवेद्यतया नियतं साहचर्यं व्याप्तिरित्यायातम् । नियतत्वं च व्यापकत्वं, साहचर्यं सामानाधिकरण्यम् । एवं च धूमव्यापकवह्निसामानाधिकरण्यं व्याप्तिरित्यर्थः । यत्न यत्नेति व्याप्तेरभिलापः । तथा च घूमाधिकरणवृत्त्यत्यन्ताभावाप्रतियोगिवह्नयधिकरणवृत्तित्वं व्याप्तिः । इदं च पर्वतो वह्निमान् धूमादित्यादिस्थलविशेषे लक्षणम् । सामान्यलक्षणं तु हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् इति । पर्वतो वह्निमान् धूमादित्यत्र धूमरूपे सद्धेतौ लक्षण-समन्वयः । हेतुः धूमः, तदधिकरणं पर्वतः, तद्वृत्तिः यः अत्यन्ताभावः घटात्यन्ताभावः, न तु वह्नयत्यन्ताभावः, तादृशाभावप्रतियोगी घटः, अप्रतियोगिसाध्यं वह्नयात्मकं, तदधिकरणं पर्वतः, तद्वृत्तित्वं धूमे इति । पर्वतो धूमवान् वह्ने । इत्यत्र वह्निरूपे असद्धेतौ नातिव्याप्तिः । तत्र हेतुः वह्निः, तदधिकरणं तप्तायोगोलकमपि । तद्वृत्तिः योऽत्यन्ताभावः धूमात्यन्ताभावः, तत्प्रतियोग्येव साध्यं धूमः अप्रतियोगि न भवतीति ।
[[102]]
[[4]]
व्याप्तिः साध्यवदन्यस्मिन्नसम्बन्ध उदाहृतः ’ इति कारिकावली । ‘साध्यवदन्यावृत्तित्वम् व्याप्तिः इति तदर्थः । पर्वतो वह्निमान् धूमादित्यत्न साध्यो वह्निः, साध्यवान् पर्वतमहानसादिः, तदन्यः जलह्रदादिः, तद्वृत्तित्वं जलशैवालादो, अवृत्तित्वं धूमे इक्तिरीत्या लक्षणसमन्वयः । पर्वतो धूमवान् वह्नेरित्यत्र व्यभिचारिणि साध्यवदन्यः तप्तायः पिण्डोऽपि तत्र वह्नेः सत्त्वान्नातिव्याप्तिः । अन साध्यतावच्छेदकसम्बन्धेन साध्यवान् वोध्यः । येन सम्वन्धेन साध्यं पक्षे वर्तते स सम्वन्धः साध्यतावच्छेदकसम्बन्धः । एतत्सम्बन्धानिवेशे समवायसम्बन्धेन वह्निमान् वह्नेरवयवः, तदन्यस्मिन् महानसादौ धूमस्य विद्यमानत्वादव्याप्तिप्रसङ्गात् । साध्यवदन्यश्च साध्यवत्सामान्यप्रतियोगिकभेदवान् वोध्यः । साध्यवत्त्वावच्छिन्नप्रतियोगिताकभेदवन्दवृत्तित्वं इति लक्षणं परिष्करणीयमिति यावत् । अन्यथा साध्यपदेन महानसीयवह्निमादाय . तद्वतः महानसाद् भिन्ने पर्वते धूमस्य सत्त्वादव्याप्तिः स्यात् । साध्यवदन्यनिरूपितवृत्तित्वाभावघटकं वृत्तित्वं हेतुतावच्छेदकसम्बन्धेन वोध्यम् । येन सम्बन्धेन पक्षे हेतुः वर्तते स सम्वन्धः हेतुतावच्छेदकसम्वन्धः । एतत्सम्बन्धानिवेशे साध्यवदन्यस्मिन् धूमावयवे समवायेन धूमस्य वृत्तित्वादव्याप्तिः स्यात् । साध्यवदन्यनिरूपितवृत्तित्वाभावः तादृशवृत्तित्वसामान्याभावः धोध्यः । अन्यथा व्यभिचारिणि वह्नितौ साध्यवदन्यहृदनिरूपितवृत्तित्वाभाव सत्त्वेनातिव्याप्तिः स्यात् । तथाच साध्यनिष्ठसाध्यतावच्छेदकसम्बन्धावच्छिन्नावच्छेदकताक प्रतियोगिताकभेदघनिरूपितहेतुतावच्छेदकसंवन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः व्याप्तिरिति फलति । अत्र च द्रव्यं गुणकर्मान्यत्वविशिष्टसत्त्वादित्यत्न विशिष्टसत्तांयाः शुद्धसत्तायाश्चैक्येन साध्यवदन्यगुणादिनिरूपितवृत्तित्वाभावः विशिष्टसत्तायां वक्तुं न शक्यत इति अव्याप्तिः प्रसज्यते । तथापि हेतुतावच्छेदकरूपेण हेतोः साध्यवदन्यस्मिन् अवृत्तित्वं वोध्यम् । विशिष्टसत्तात्वरूपेण विशिष्टसत्तायाः गुणादाववृत्तित्वान्नाव्याप्तिः । तादृशभेदवन्निरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तितानवच्छेदकः यः हेतुतावच्छेदकधर्मः तद्धर्मवत्त्वं व्याप्तिरिति निष्कर्षः । एवमेव साध्याभाववदवृत्तित्वं इति व्याप्तिलक्षणं लक्ष्ये योज्यम्, तत्परिष्कारश्च कर्तव्यः । इयं च पूर्वपक्षव्याप्तिरित्युच्यते । इदं वाच्यं ज्ञेयत्वादित्यादी केवलान्वयिसाध्यकसद्धेतौ साध्यवदन्यस्य साध्याभावस्य च अप्रसिद्धधा, एवं सत्तावान् जातेरित्यादौ
•
।
[[103]]
साध्यवदन्यसामान्यादिनिरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वाप्रसिध्या
अतः व्याप्तेरिमां रीति परित्यज्य सिद्धान्तव्याप्तिरनुसृता ।
सिद्धान्तव्याप्तिः
च ।
’ अथवा हेतुमन्निष्ठविरहाप्रतियोगिना । साध्येन हेतोरैकाधिकरण्यं व्याप्तिरुच्यते ॥’ इति सिद्धान्तव्याप्तिस्वरूपं कारिकावल्यामभिहितम् । हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिरिति तदर्थः ।
लक्षणसमन्वयः, अतिव्याप्तिवारणं च पूर्वमभिभाषितम् । अत्र । यद्यपि वह्निमान् धूमादित्यादौ हेतुपदेन तत्तद् धूमादेरुपादाने तदधिकरणम्पर्वतादिवृत्त्यभावप्रतियोगित्वं तत्तद्वयादेरस्ती - त्यव्याप्तिः । समानाधिकरणयोर्वधूमयोरेव व्याप्तिरित्युक्तावपि तद्धमाधिकरणपर्वतादिवृत्तितद्वह्निषटो भयाभावमादाय एवं पूर्वक्षणवृत्तित्वविशिष्टवलयभावमादाय चाव्याप्तिः । वैशिष्ट्यव्यासवृत्तिधर्मानवच्छिन्न प्रतियोगिताकाभावनिवेशेन तद्वारणेऽपि गुणवान् द्रव्यत्वादित्यादौ हेतोरेकव्यक्तितया समानाधिकरणयोरेव व्याप्तिरित्युक्तावप्यनिस्तारात् बव्याप्तिरेव । अतः हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकं यत् साध्यतावच्छेदकं तदवच्छिन्नसामानाधिकरण्यं व्याप्तिरिति वक्तव्यम् ।
ननु तथापि रूपत्वव्याप्यजातिमत्वान् पृथिवीत्वादित्यादौ साध्यतावच्छेदिकाः रूपत्वव्याप्यनीलत्वपीतत्वादिजातयः, तासां च शुक्लघट । दिवृत्त्यभावप्रतियोगितावच्छेदकत्वादव्याप्तिरिति चेन्न तन स्वाश्रयसमवायसम्बन्धेन रूपत्वव्याप्यजातित्वमेव साध्यतावच्छेदकम् । न हि तादृशधर्मावच्छिन्नाभावः क्वापि पृथिव्यामस्ति । रूपत्वव्याप्यजातिमान्नास्तीति प्रतीत्यापत्तेः । अपरे तु साध्यादिभेदेन व्याप्तेर्भेदात् तत्र हेतुसमानाधिकरणाभावप्र’तयोगितावच्छेदकतानवच्छेदकं यत् साध्यतावच्छेदकतावच्छेदकं तदवच्छिन्नविशिष्टसाध्यसामानाधिकरण्यं व्याप्तिरिति वदन्ति ।
हेत्वधिकरणं च हेतुतावच्छेदकधर्मावच्छिन्नाधिकरणं वाच्यम् । तेन द्रव्यं गुणकर्मान्यत्व विशिष्टसत्त्वादित्यादी शुद्धसत्तान्धिकरणगुणां दिनिष्ठाभावप्रतियोगित्वेऽपि द्रव्यत्वस्य नाव्याप्तिः । हेत्वधिकरणं च हेतुतावच्छेदकसम्वन्धेन बोध्यम् । तेन समवायसम्बन्धेन धूमाधिकरणतदवयव निष्ठाभावप्रतियोगित्वेऽपि वह्नेर्नाव्याप्तिः t हेतुसमानाधिकरणेऽत्यन्ताभावे प्रतियोगिव्यधिकरणत्वं च विशेषणं बोध्यम् । तेनं
[[104]]
कम्पिसंयोगी एतदृक्षत्वादित्यन्न मूलावच्छेदेन एतद्वृक्षवृत्तिक पिसंयोगाभावप्रतियोगित्वेऽपि कपिसंयोगस्य नाव्याप्तिः । नञ्च प्रतिव्यधिकरणत्वं यदि स्वप्रतियोग्यनधिकरणवृत्तित्वं स्वपदोपात्तकपिसंयोगाभावप्रतियोगिनः कपिसंयोगस्यानधिकरणे गुणे वर्तमानः यः कपिसंयोगाभावः तस्यैव वृक्षे मूलावच्छेदेन सत्त्वादव्याप्तिः । यदि स्वप्रतियोग्यधिकरणावृत्तित्वं तदर्थः तदा संयोगी सत्त्वादित्यत्न सत्त्वाधिकरणगुणवृत्तिः यः संयोगाभावः तस्य स्वप्रतियोग्यधिकरणद्रव्यवृत्तित्वेन व्यभिचारिणि तत्र साध्याभावस्य उपादातुमशक्यतया उदासीनाभावमादाया तिव्याप्तिरिति वाच्यम् । स्वप्रतियोग्यनधिकरणवृत्तित्वविशिष्टः हेत्वधिकरणवृत्तिर्योऽभावः इति विवक्षया दोषाभावात् । स्वप्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यत्यन्ताभावेत्यादिकं लक्षणार्थः । अत्र च प्रतियोग्यनधिकरणत्वं प्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वं वाच्यम् । तेन विशिष्टसत्तावान् जातेरित्यत्न जात्यधिकरणगुणवृत्तिः यः विशिष्टसत्ताभावः, तस्य स्वप्रतियोगिसत्ताधिकरणगुणवृत्तित्वेऽपि नातिव्याप्तिः ।
[[१]]
स्वप्रतियोगितावच्छेदकी-
भूत विशिष्टसत्तात्वावच्छिन्नानधिकरणीभूतहेत्वधिकरणगुणवृत्तित्वेन इदानीं विशिष्ट - सत्ताभावस्यापि लक्षणघटकत्वात् । अन च साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्वं बोध्यम् । तेन ज्ञानवान् सत्त्वादित्यत्न सत्ताधिकरणघटादिषु विषयतासम्बन्धेन ज्ञानस्य सत्त्वेन ज्ञानाभावस्य प्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभावपदेन ग्रहीतुमशक्यत्वेन समवायेन उदासीनपटाद्यभावमादाय नातिव्याप्तिः । साध्यतावच्छेदकसमवायसम्बन्धेन प्रतियोगिनो ज्ञानस्यानधिकरणे हेत्वधिकरणे घटे ज्ञानाभावस्य सत्त्वेन तस्योपादातुं शक्यत्वात् । यद्यपि ज्ञानवान् सत्त्वादित्यत्न प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणत्वघटितलक्षणकरणेनैव अतिव्याप्ति वारणं सम्भवति । तथापि वह्निमान् धूमादित्यत्त धूमाधिकरणे समवायेन वह्नयभावमादाय तस्य प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिवैयधिकरण्यात्, तादृशाभावप्रतियोगितावच्छेदकत्वात् ‘वह्नित्वस्याव्याप्तिः स्यादित्येवमुक्तम् । साध्यतावच्छेदङ्कसम्वन्धावच्छिन्नत्वेनाग्रिमप्रतियोगिताविशेषणे तु सम्बन्धद्वयप्रवेशेन
गौरवम् ।
.
ननु प्रतियोगितावच्छेदकावच्छिन्नानधिकरणेत्यत प्रतियोगितावच्छिन्नस्य यस्य कस्यचित् प्रतियोगिनोऽनधिकरणत्वं प्रतियोगितावच्छेदकावच्चिन्तसामान्यस्य वा,
[[105]]
NP Sahitya
[[8]]
प्रतियोगितावच्छेदकं यत्किञ्चित् तदवच्छिन्नसामान्यानधिकरणत्वं वा विवक्षितम् ? आद्ये कपिसंयोगी एतद्वृक्षत्वादित्यत्न कपिसंयोगाभावप्रतियो गितावच्छेदकावच्छिन्नः यः कश्चित् इत्युक्तौ वृक्षावृत्तिकपिसंयोगोऽपि तदनधिकरणं वृक्ष इति कपिसंयोगाभावमादायाव्याप्तिः । द्वितीये सर्वत्र प्रतियोगिव्यधिकरणाभावाप्रसिद्धिः । सर्वस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वाभावात्मकप्रतियोगिसमानाधिकरणत्वात् । तथाच घटाभावस्य प्रतियोगी पूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावोऽपि तदात्मकप्रतियोग्यधिकरणत्वस्यैव सर्वन सत्त्वेन प्रतियोगिव्यधिकरणाभावाप्रसिद्धिः । नच वह्निमान् धुनादित्यादौ उक्तरीत्या तादृशप्रतियोग्यधिकरणत्वेऽपि साध्यतावच्छेदकसम्बन्धेन तत्प्रतियोग्यनधिकरणत्वं सम्भवत्येवेति वाच्यम् । अभावाधिकरणकाभावः अधिकरणीभूताभावस्वरूप इति न्यायेन घटाभावे वर्तमानस्य वह्नयभावस्य घटाभावात्मकतया घटाभावस्य वह्निरपि प्रतियोगी तदधिकरणं च पर्वतादिरित्येवं क्रमेण’ प्रतियोगिव्यधिकरणाभावस्याप्रसिद्धत्वात् । यदि घटाभावादौ वह्नयभावादिः भिन्न इत्युच्यते तथापि धूमाभाववान् वह्न्यभावादित्यत्राव्याप्तिः । तत्र स्वरूपसम्वन्धस्य साध्यतावच्छेदकसम्बन्धत्वेन
सर्वस्यैवाभावस्य पूर्वक्षणवृत्तित्वविशिष्टस्वाभावात्मकप्रतियोग्यधिकरणवृत्तित्वेन प्रतियोगिव्यधिकरणाभावाप्रसिद्धेः । तृतीये तु कपिसंयोगाभाववान् आत्मत्वादित्यत्राव्याप्तिः । तत्र हेत्वधिकरणात्मवृत्तिः कपिसंयोगाभावाभावः कपिमंयोगात्मकः, तस्य गुणत्वात् तत्प्रतियोगितावच्छेदकं यत्किञ्चित् गुणसामान्याभावत्वमपि तदवच्छिन्नानधिकरणत्वात् हेत्वन्धिकरणस्यात्मन इति । मैवम् । तृतीयपक्षानुन रणे दोपाभावात् । यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणं हेत्वधि - करणं तद्वृत्तीत्यादि व्याप्तिलक्षणम् । आत्मत्वहेतुकस्थले हेत्वधिकरणवृत्तिंरभावः गुषणसामान्याभावाभावः, यादृशप्रतियोगितावच्छेदकं गुणसामान्याभावत्वं तदवच्छिन्नानधिकरणं हेत्वधिकरणमिति ।
ननु कालो घटवान् कालपरिमाणादित्यत प्रतियोगिव्यधिकरणाभावाप्रसिद्धिः । हेत्वधिकरणस्य महाकालस्य जगदाधारतया तद्वृत्तीनां सर्वेषामभावानां साध्यतावच्छेदकालिक विशेषणतासम्वन्धेन प्रतियोग्यधिकरणवृत्तित्वात् प्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभावाप्रसिद्धिः । अन केचित् कालिकविशेषणतादैशिक्तविशेषणतोभयघटितसामानाधिकरण्यसम्बन्धेन महाकालान्यत्वविशिष्टघटस्य कालिकसम्वन्धेन योऽनावः स एव प्रतियोगिव्यधिकरणः । तथाच विशेषणविशेष्योभयसम्बन्धाभ्यां
[[106]]
यत्र विशेषणविशेष्योभयसत्त्वं तत्रैव विशिष्टाधिकरणत्वमिति नियमात् दैशिकविशेषणतया महाकाले महाकालभेदासत्त्वेन महाकालान्यत्वविशिष्टघटाधिकरणत्वं न सम्भवतीति खण्डकाले प्रसिद्धतादृशविशिष्टाधिकरणत्वस्याभावः हेत्वधिकरणे महाकाले वर्तत इति तादृशप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेद के सत्त्वान्नाव्याप्तिरिति वदन्ति ।
वस्तुतस्तु प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभावप्रतियोगितासामान्ये
यत्सम्वन्धावच्छिन्नत्वयद्धर्मावच्छिन्नत्वोभयाभावा तत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नसामानाधिकरण्यं व्याप्तिरिति वक्तव्यम् । वह्निमान् धूमादित्यत्र संयोगेन घटाभावप्रतियोगितामादाय लक्षणसमन्वयः । संयोगेन घटाभावप्रतियोगितायां साध्यतावच्छेदकसंयोगसम्बन्धावच्छिन्नत्वसत्त्वात्, समवायेन वह्नयभावप्रतियोगितायां साध्यतावच्छेदकवह्नित्वावच्छिन्नत्वसत्त्वात् वह्निमान् धूमादित्यादावव्याप्तिवारणाय यत्सम्बन्धावच्छिन्नत्वयद्धर्मावच्छिन्नत्वयोनिवेशः । संयोगेन घटाभावप्रतियोगितायां धूमत्वावच्छिन्नत्वघटितोभयाभावसत्त्वादत्तिव्याप्तिवारणाय सामान्यपदम् । इत्थं च कालों घटवान् कालपरिमाणादित्यत प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोग्यनधिकरणीभूतहेत्वधिकरणवृत्त्यभावपदेन संयोगेन घटाभावस्योपादाने, तदीयप्रतियोगितायां कालिकसम्बन्धावच्छिन्नत्वघटत्वावच्छिन्नत्वोभयाभावसत्त्वान्नाव्याप्ति । । ननु प्रमेयवह्निमान् धूमादित्यादो साध्यतावच्छेदकत्वं प्रमेयवह्नित्वे न सम्भवति, गुरुधर्मस्याभावप्रतियोगित्वा वच्छेदकत्वाभावात् इति चेन्न; कम्बुग्रीवादिमान्नास्तीति प्रतीत्या कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगितायाः विषयीकरणेन गुरुधर्मस्याप्यवच्छेदकत्वं स्वीकार्यमेव । तत्र कम्बुग्रीवादिमत्त्वे प्रतियोगितावच्छेदकत्वं नावगाह्यते, किन्तु कम्बुग्रीवादिमत्प्रतियोगिका भाव एव तत्प्रतीतिविषय इत्युच्यते तदा यत्किञ्चिद्घटवत्यपि घटान्तरासत्त्वाभिप्रायेण कम्बुग्रीवादिमान् नास्तीति वाक्यप्रयोगापत्तिरिति ॥
व्याप्यस्व पर्वतादिवृत्तित्वं पक्ष
।
व्याप्तिविशिष्ट पक्षधर्मताज्ञानं परामर्शः इत्यत्र पटकीभूतां पक्षधर्मतां निरूपयतिव्याप्यस्येति । वस्तुतो व्याप्यो यो धूमादिः तत्रिष्ठपर्वतादिनिरूपितवृत्तित्वं पक्षधर्मता । पर्वतस्येवान्येषामपि पक्षत्वं सम्भवतीत्यत आदिपवम् । यत् अनुमीयते तत्साध्यम् । पेन साध्यते स हेतुः । यत्र साध्यते स पङ्क्षः । हेतोः पक्षे सत्यें पक्षधर्मतेति विवेकः ।
LOZ
·
स्वार्थानुमानम्
अनुमानं द्विविधं स्वार्थ परार्थं चेति । स्वार्थं स्वानुमितिहेतुः । तथाहि स्वयमेव भूगोदर्शनेन यत्र धूमस्तत्र वह्निरिति महानसादौ धूमे वह्निव्याप्तिं गृहीत्वा पर्वतसम्मीपं गतः तद्गते चानौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति यत्र धूमस्तत्राग्निरिति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वतः इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमानित्यनुमितिरुत्पद्यते । तदेतत् स्वार्थानुमानम्
लिगपरामर्श एव अनुमितिकरणमित्युक्तम् । तत्र च अनुमितिः कतिविधा ? अनुमितिसामान्ये लिङ्गपरामर्शः कथं करणम् ? इन्त्यादिशङ्काः परिजिहीर्षुः अनुमानं विभज्य द्विविधातुमित्योरपि लिगपरामर्शस्य करणत्वप्रदर्शनार्थमुत्तरग्रन्थं आरभते ।
नैयायिकैरनुमानपदेन व्यवह्रियमाणं विभाजकधर्मद्वयवत् । स्वस्यार्थः प्रयोजनं यस्मात् तत् स्वार्थम्, परस्यार्थः प्रयोजनं यस्मात् तत् परार्थम् । अथवा स्वः स्वकीयः अर्थः साध्यसंशयनिवृत्तिरूपः प्रयोजनविशेषः यस्मात् तदिति व्युत्पत्त्या स्वीयसंशयनिवृत्तिजनकमित्यर्थः । एवमेव परार्थमिति । स्वपरशब्दयोरात्मात्मीया-
। न्यान्यदायपरतया आर्थिकव्यधिकरणवहुव्रीह्यपेक्षया श्रौतसमानाधिकरणवहुव्रीहेरेव न्याय्यत्वात् । प्रथमपक्षे स्वसमवेतानुमित्तिमात हेतुरित्यर्थः । मात्रपदेन परार्थानुमानव्यावृत्तिः । न्यायाप्रयोज्यत्वे सति अनुमानत्वं स्वार्थानुमानस्य लक्षणम् । न्यायः वक्ष्यमाणपञ्चावयववाक्यसमूहः । अनुमानत्वमात्रोक्तौ परार्थानुमाने, न्यायाप्रयोज्यत्वमात्रोक्तौ घटादौ चातिव्याप्तिः । तथाहीत्याद्युपपादकवाक्यै रयं क्रमः प्रदर्शितः । प्रथमं भूयोदर्शनम् । तदनु महानसाद्यवच्छेदेन हेतौ व्याप्तिग्रहः, ततः साध्यसंशयरूपपक्षता, ततः पक्षधर्मताज्ञानं ततः व्याप्तिस्मृतिः, ततः परामर्शः, तदन्वनुमित्रिति ।
भूयोदर्शनं नाम व्यभिचारज्ञानाभावसहकृतसाध्यसामानाधिकरण्यज्ञानमित्यर्थः । न तु वाहुल्येन साहचर्यज्ञानं तदर्थः । तस्य व्याप्तिग्राहकत्वाभावात् । पार्थिवत्वः लोहलेख्यत्वयोः शतशः साहचर्यदर्शनेऽपि हीरके व्यभिचारात् । तच्च व्यभिचारज्ञानं निश्चयः सन्देहश्च । व्यभिचारसंशयस्यापि व्याप्तिग्रहप्रतिबन्धकत्वानुभवात् । तद्विरहस्तु इदं वाच्यं प्रमेयत्वादित्यादौ स्वतस्सिद्धत्वान्न तर्कमपेक्षते । वह्निमान धूमादित्यादौ तु धूमाग्न्योर्व्याप्तिग्रहे उत्पत्स्यमाने तर्कः व्यभिचारशङ्कानिवर्तकः ।
[[108]]
यदि वह्निर्न स्यात् तर्हि घूमोऽपि न स्थात्, तयोः कार्यकारणभावादिति व्यभिचारशङ्कैव अप्रयोजकशङ्केत्युच्यते । तन्निवारकः यदि धूमो वह्निव्यभिचारी स्यात् तहि वह्निजन्यो न स्यादित्याकारकः कार्यकारणभावभङ्गलक्षणः तर्कः । ननु महानंसीयवह्निधूमयोः सन्निकृष्टत्वेन सहचारप्रत्यक्षेऽपि सर्वेषां वह्निघूमानां असन्निकृष्टत्वेन प्रत्यक्षासम्भवात् कथं पर्वतीय वह्निधूमयोर्व्याप्तिस्मरणम् । स्मरणस्य संस्कारजन्यत्वेन, संस्कारस्य प्रत्यक्षजन्यत्वेन पूर्वं पर्वतीयवह्निधूमव्याप्तेः प्रत्यक्षाभावादिति चेन्न ; सकल वधूमेषु लौकिकसन्निकर्षाभावेऽपि सामान्यलक्षणप्रत्यासत्तिरूपालीकिकसन्निकर्षसत्त्वात् वह्नित्वावच्छिन्नसामानाधिकरण्यत्वेन निखिलवह्निधूमप्रत्यक्षसम्भवात्, पर्वतीयधूमेऽपि व्याप्तेर्गृहीतत्वेन व्याप्तिस्मरणसम्भवात् परामर्शोपपत्तेः ।
,
परार्थानुमानम्
यत्तु स्वयमेव धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुक्ते तत्परार्थानुमानम् यथा - ’ पर्वतो वह्निमान् धूमवत्त्वात् । यो यो धूमवान् स वह्निमान् यथा महानसः । तथा चायम् । तस्मात्तथा ’ इति । अनेन वाक्येन प्रतिपादिताल्लिङ्गात् परोऽप्यग्निं प्रतिपद्यते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्त्वादिति हेतुः । यो यो धूमवान् स वह्निमान् यथा महानस इत्युदाहरणम् । “ तथा चायमित्युपनयः तस्मात्तथेति निगमनम् । स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् । तस्मालिङ्गपरामर्शो ऽनुमानम् ।
,
स्वज्ञानानन्तरमेव परप्रतिपत्तिः सम्पादयितुं शक्यत इति अभिप्रेत्य परार्थानुमानं व्युत्पादयति-यत्त्विति । उपर्युक्तपञ्चावयववाक्यप्रयोज्य मानसपरामर्शव्यापारकं मानसव्याप्तिज्ञानं परार्थानुमानम् । नवीनमते तु मानसलिङ्गपरामर्श एवानुमानम् । ‘न्यायप्रयोज्यत्वे सति ज्ञानत्वं परार्थानुमानस्य लक्षणम् । प्रतिज्ञाद्यवयवपञ्चकसमुदायत्वं
न्यायत्वम् ।
"
।
उचितानुपूर्वीकप्रतिज्ञाद्यवयवपञ्चकसमुदायत्वं न्यायत्वम् । तादृशसमुदायत्वस्य समुदायः प्रत्येकान्नातिरिच्यते " इति न्यायेन प्रत्येकावयवे सत्त्वेऽपि तादृशसमुदायत्वपर्याप्त्यधिकरणत्वस्य लक्षणत्वेन न तत्नातिव्याप्तिः । वस्तुतस्तु
V
●
[[3199]]
अनुमितिचरमकारण्णलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यत्व न्यायलक्षणम् । अनुमिति वरमकारणं यः लिङ्गपरामर्शः वह्निष्याप्यधूमवानयमिति परामर्शः, सत्प्रयोजकं यच्छाब्दज्ञानं वाक्यार्थपञ्चकविषयकं समूहालम्बनज्ञानं, तज्जनकवाक्यत्वभेतद्वाक्यसमुदाये इति समन्वयः । अत्र पूर्वपूर्ववाक्यार्थबोधोत्पन्नसंस्कारसहितात् चरमवाक्यात् वाक्यार्थपञ्चकविषयकः समूहालम्बनबोधो जायते, ततो मानसिको लिगपरामर्शः, ततोऽनुमितिरिति क्रमः । न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतमत्वमवयवत्वम् । न्यायवहिर्भूतप्रतिज्ञादिषु अतिव्याप्तिवारणाय न्यायान्तर्गतत्वनिवेशः न्यायत्वं तु पूर्वोक्तमेव । वस्तुतस्तु अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजक शाब्दज्ञानजनकशाब्दज्ञानजनकवाक्यत्वमवयवत्वम् ।
न्यायलक्षणवदेव । विशेषस्तु तादृशशाब्दज्ञानजनकं यच्छाब्दज्ञानं प्रत्येकावयवजन्यज्ञानं, वाक्यार्थ पञ्चकविषयकसमूहालम्बनबोधे प्रत्येकवाक्यार्थबोधस्य हेतुत्वात् । तज्जनकवाक्यत्वं प्रत्येकावयवे वर्तत इति ।
समन्वयः
[[1]]
साध्यवत्तया पक्षवचनं प्रतिज्ञा । पर्वतो वह्निमानिति प्रतिज्ञा । ततः वह्निमदभिन्नः पर्वतः इति वोघः । पञ्चम्यन्तं लिङ्गप्रतिपादकं वचनं हेतुः धूमवस्वादिति । तत्र पञ्चम्याः ज्ञानज्ञाप्यत्वमर्थः । ज्ञाने विषयितया धूमस्यान्वये धूम्रविषयकं ज्ञानज्ञाप्यत्वमिति बोधः । व्याप्तिप्रतिपादकं वचनमुदाहरणम् - यो यो धूमवान् स स वह्निमान्, व्यथा महानस इति । ततः धूमवान् धूमव्यापकवह्निमानिति वोधः । व्याप्तिविशिष्टलिगप्रतिपादकं वचनमुपनयः । तथा चायमित्युपनयः । वह्निव्याप्यभूमवान् पर्वतः इति ततः बोधः । हेतुमत्तया पक्षप्रतिपादकं वचनं निगमनम् । तस्मात्तथा इति निगमनवाक्यम् । वह्निव्याप्यधूमवत्त्वात् पर्वतो वह्निमान् इति तदर्थः । उपनयस्थायम्पदस्य तत्नानुषङ्गः । वह्निव्याप्यधूमज्ञानज्ञानज्ञाप्यवह्निमदभिन्नः पर्वतः इति ततः बोधः । पक्षे साध्यज्ञानं प्रतिज्ञाप्रयोजनम् । लिङ्गज्ञानं हेतुप्रयोजनम् । व्याप्तिज्ञान उदाहरणप्रयोजनम् । पक्षधर्मताज्ञानमुपनयप्रयोजनम् । अवाधितत्वासत्प्रतिपक्षितत्वज्ञाने निगमनप्रयोजने । एवमेतैः पञ्चभिर्वाक्यैः पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वाबाधितत्वासत्प्रतिपक्षितत्वरूपपञ्चरूपाणि सद्धेतौ विद्यमानानि प्रदर्शितानि भवन्ति
!
लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा नाही साध्ये धूमवच्चम्
[[110]]
!
यत्र धूमस्तत्र वहिः यथा महानसः हस्वग्वयव्याप्तिः । यत्र वहिर्नाति तत्र धूमोऽपि नास्ति यथा महाहद इति व्यतिरेकव्याप्तिः ।
लिङ्गं विभजतेलिङ्गमिति । अन्वयनिरूपितव्याप्तिमत्त्वे सति व्यतिरेकनिरूपितव्याप्तिमत्त्वम् अन्वयव्यतिरेकिलिङ्गलक्षणम् । अन्वयव्याप्तिमत्त्वं च हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् । धूमसमानाधिकरणात्यन्ताभावप्रतियोगी घटादिः, अप्रतियोगिवह्निसामानाधिकरण्यं धूमे इति । एवं व्यतिरेकव्याप्तिमत्त्वं च साध्याभावव्यापकीभूताभावप्रतियोगित्वम् । वह्न्यभावव्यापकीभूतः योऽभावः धूमाभावः तत्प्रतियोगित्वं धूम इति । अव सत्यन्तमालोती घटोऽभिधेयः प्रमेयत्वादित्यत्र केवलान्वयिनि प्रमेयत्वेऽतिव्याप्तिः । विशेष्यमाarat पृथिवी इतरभिन्ना गन्धवस्वादित्यत्र गन्धवस्वरूप केवलव्यतिरेकिहेतावतिव्याप्तिः । अतः दलद्वयोपादानम् ।
अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा - घटोऽभिधेयः प्रमेयत्वात्, पटवदित्यत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ।
केवलान्वयिलिङ्गं लक्षयतिअन्वयेति । व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्त्वं केवलान्वयिनो लक्षणम् । प्रमेयत्वं नाम प्रमाविषयत्वं, ईश्वरीयप्रमाविषयत्वस्य सर्वपदाभिधेयत्वस्य च सर्वन सत्त्वात् तदभावाप्रसिद्धघा अत्यन्ताभावाप्रतियोगित्वरूपकेवलान्वयित्वस्य हेतौ सत्त्वात् । अतः अत्यन्ताभावप्रतियोगित्वरूपव्यतिरेकस्यात्राभावात् व्यतिरेकव्याप्तिशून्यत्वं यत्त्र प्रमेयत्वं तत्त्राभिधेयत्वमिति अन्वयव्याप्तेश्च सत्त्वाल्लक्षणसमन्वयः । विशेष्यमात्तोक्तौ अन्वयव्यतिरेकिण्यतिव्याप्तिः । विशेषणमात्रोक्तो व्यभिचारिष्यतिव्याप्तिरित्युभयोपादानम् ।
·
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा - पृथिवी इतरेभ्यो भिद्यते गन्धवच्चात् । यत् इतरेभ्यो न भिद्यते न तद् गन्धवत्, यथा जलम् । न चेयं तथा । तस्मान्न तथा । अत्र यद्गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात् ।
[[111]]
केवलव्यतिरेकिणो लक्षणमाह-व्यतिरेकेति ।
.
अन्ययव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकिणो लक्षणम् । अन लक्षणे निश्चितान्वयव्याज़िशून्यत्वस्यैव निवेशनीयतया अत सर्वपृथिव्याः पक्षत्वेन, जलादी हेतुसाध्ययोरभावेन च यत्न गन्धः तत्र इतरभेदः इत्यन्वयदृष्टान्ताभावेन अन्वयव्याप्तिनिश्चयासम्भवेन निश्चितान्वयव्याप्तिशून्यत्वमस्ति । एवं साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिमत्त्वं चास्तीतिरीत्या लक्षणसमन्वयः । सत्यन्तमात्रोतौ पर्वतो धूमवान् वह्नेः इत्यत्त व्यभिचारिहेतावतिव्याप्तिः । विशेष्यमात्रोक्तौ अन्वयव्यतिरेकिण्यतिव्याप्तिरिति दलद्वयोपादानम् । । केवनव्यतिरेकिस्थले पञ्चावयववाक्यान्युदाहृतानि यथेत्यादिना । यत् = जलं, इतरेभ्यो न भिद्यते = इतरभेदाभाववत्, तत् जलं न गन्धवत्=गन्घाभाववत्, न चेयं तथा = इयं पृथिवी न तथा गन्धाभाववती न, किन्तु गन्धाभावाभाववती, गन्धवतीति फलितोऽर्थः । तस्मात् = गन्धाभावाभाववत्त्वात् =गन्धवत्त्वात् न तथा = इतरभेदाभाववती न, किन्तु इतरभेदाभावाभाववती, इतरभेदवती इति फलितोऽर्थः ।
बदं वोध्यम् । अनुमानं हि त्रिविधम् । केवलान्वयिकेवनव्यतिरेक्यन्वयव्यतिरेकिभेदात् । तत्नासद्विपक्षः केवलान्वयी । यथा - घटोऽभिधेयः प्रमेयत्वादित्यादी । तत्र हि सर्वस्यैवाभिधेयत्वाद्विपक्षासत्त्वम् । असत्सपक्षः केवलव्यतिरेकी । यथा पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ तत्र हि जलादित्रयोदशभेदस्य पूर्वमसिद्धतया निश्चितसाध्यवतः सपक्षस्य अभावः । सत्सपक्षविपक्षः अन्वयव्यतिरेकी । यथावह्निमान् धूमादित्यादी तत्न सपक्षस्य महानसादेः, विपक्षस्य जलहदादेश्च सत्त्वात् । वन व्यतिरेकिणि व्यतिरेकव्याप्तिज्ञानं कारणम् । साध्याभावव्यापकीभूताभाव-
प्रतियोगित्वं व्यतिरेकव्याप्तिः ।
·
नन्वत्र व्यतिरेकिणि इतरभेदः प्रसिद्धो न वा, आन्धे यत प्रसिद्धः तत्र हेतुसत्त्वे अन्वयित्वम्, असत्त्वेऽसाधारण्यम् । द्वितीये साध्यज्ञानाभावात् कथं तद्विशिष्टानुमितिः, विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात्, प्रतियोगिज्ञानाभावात् व्यतिरेकव्याप्तिज्ञानमपि न स्यात् इति चेन्न; जलादित्रयोदशान्योन्याभावानां त्रयोदशंसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यां साध्यते । त्रयोदशत्वावच्छिन्नभेदात्मकसाध्यस्य एकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये । प्रत्येकाधिकरणप्रसिध्या साध्यविशिष्टानुमितिः व्यतिरेकव्याप्तिनिरूपणं च युज्यते । नन्वत्र चतुर्दशान्योन्याभावेति वक्तव्ये
[[1112]]
।
कथं जलादित्रयोदशान्योन्याभावेत्युक्तमिति चेत् न; अभावस्याधिकरणात्मकताङ्गीकर्तन् प्राभाकरानाक्षेप्तुं तथोक्तत्वात् । अथवा जलमादिर्येषां ते जलादयः, ते च ते तयोदश चेति विग्रहे चतुर्दशान्योन्याभावा लभ्यन्त इति न दोषः ।
इदं पुनरिहावधेयम् । यत्सम्बन्धेन यदवच्छिन्नं प्रति येन सम्वन्धेन येन रूपेण व्यापकता गृह्यते तत्सम्बन्धावच्छिन्नप्रतियोगिताकतद्धर्मावच्छिन्नाभाववत्ताज्ञानात् तत्सम्बन्धावच्छिन्नप्रतियोगिताकतद्धर्मावच्छिन्नाभाव सिद्धिरिति । इत्थं च यत्र विशेषणतादिसम्वन्धेनेतरत्वव्यापकत्वं गन्धात्यन्ताभावे गृह्यते तत्र गन्धाभावाभावेन इतरत्वात्यन्ताभावः सिध्यति । यत्र तु तादात्म्यसम्वन्धेन इतरव्यापकत्वं गन्धाभावस्य गृह्यते तत्र तादात्म्यसम्बन्धेनेतराभावः सिध्यति स एवान्योन्याभावः । एवं यत्त संयोगसम्वन्धेन धूमं प्रति संयोगसम्बन्धेन वह्नेर्व्यापकता गृह्यते तन्न संयोगसम्बन्धावच्छिन्नप्रतियोगिताकवह्न्यभावेन जलहदे संयोगसम्बन्धावच्छिन्नप्रतियोगिताक़घूमाभांवः सिद्धयति । अत्र च व्यतिरेकव्याप्तिग्रहे व्यतिरेकसहचारज्ञानं कारणम् । आचार्यमतानुयायिनस्तु - अनुमितिसामान्ये हेतुसमानाधिकरणेत्याद्यन्वयव्याप्तिज्ञानमेव कारणम्, सर्वमतसिद्धत्वात् । न तु साध्याभावव्यापकीभूताभावप्रतियोगित्वज्ञानं कारणम्, अन्यथासिद्धत्वात्, केवलान्वयित्वग्रहकालीनानुमितौ व्यभिचाराच्च । अत एव न तादृशप्रतियोगित्वस्य व्याप्तिस्वरूपत्वम् । नच पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वादित्यादावनुमित्यनुपपत्तिः । तत्र अन्वयसहचारग्रहाभावेन अन्वयव्याप्तिग्रहासम्भवादिति वाच्यम् । तत्र व्यतिरेकसहचारज्ञानेनैव अन्वयव्याप्तिज्ञानसम्भवात् । न तु व्यतिरेकव्याप्तिज्ञानमपि तन कारणम् । यत्र व्यतिरेकसहचाराद्वयाप्तिग्रहः तद्व्यतिरेकीत्युच्यते । साध्यप्रसिद्धिस्तु घटादावेव जायते, पश्चात् पृथिवीत्वावच्छेदेन साध्यते । एवं च साध्यसाधनसहचारज्ञानजन्यतदन्यसहचारज्ञानाजन्यव्याप्तिज्ञानविशेष्यत्वं केवलान्वयिलिङ्गत्वम् । अन्वयसहचारज्ञानाजन्य व्यतिरेकसह चारज्ञानजन्यव्याप्तिग्रहविशेष्यत्वं केवलव्यतिरेकिलिङ्गत्वम् । उम्भयसहचारज्ञानजन्यव्याप्तिग्रहविशेष्यत्वमन्वयव्यतिरेकित्वमिति लिङ्गस्य त्रैविध्यं बोध्यमिति वदन्ति ।
।
सन्दिग्धसाध्यवान् पक्षः । यथा — धूमवत्वे हेतौ पर्वतः ।
पक्षलक्षणं प्रसङ्गादाह— सन्दिग्धेति । सन्देहविषयसाध्याश्रयत्वं पक्षस्य लक्षणम् । पर्वतो वह्निमान् न वा इति सन्देहविषयीभूतसाध्याश्रयत्वं पर्वते वर्तत इतिरीत्या लक्षण-
i13
समन्वयः । सन्दिग्धपदानुपादाने सपक्षे बत्तिव्याप्तिः । एवमपि पर्वते सन्दिग्धस्य साम्यस्याश्रये महानसेऽतिव्याप्तिवारणाय साध्यप्रकारक सन्देह विशेष्यत्वं पक्षलक्षणं वक्तव्यम् । तथापि पर्वतो वह्निमान् न वा, भूतलं घटवन्न वा, इत्यादि समूहालंवनसंशये साध्यप्रकारकस शय विशेष्यत्वस्य भूतलादी सत्त्वात्तनातिव्याप्तिरिति चेन्न; साध्यनिष्ठप्रकारतानिरूपितसंशयमुख्यविशेष्यत्वमिति परिष्कारे दोषाभावात् । अत्र सन्देहः साध्यपारतन्त्र्येण धर्मिम्यन्वेतीति विशेष्यता सम्वन्धेन साध्यप्रकारकसन्देहः पक्षता इत्युक्तिरेव ज्यायती । इदं च लक्षणं अनुमितेः पूर्वं साध्यसन्देहो नियमेन जायते इत्यभिप्रायेण प्राचीनंः
कृतम् । गगनविशेप्यकमेघप्रकारकसन्देहाभावदशायामपि गृह्वमध्यस्यपुरुषस्य घनगर्जितश्रवणेन गगनं मेघवदित्याकारकगगनत्वावच्छिन्नोद्देश्यतानिरूपितमेघत्वावच्छिन्नविधेयवाकानुमितिदर्शनात् इदं लक्षणं न साधु । अत एव सिषाधयिषामात्वमपि न पक्षता, विनापि सिषाधयिषां पूर्वोक्तानुमानात् । सिषाधयिषाविरहविशिष्टसिध्यभावः पक्षता इति नवीनाः । सिषाधयिषा अनुमिनुयामितीच्या । सिद्धिः पक्षे साध्यनिश्चयः । पर्वतो वह्निमानित्यनुमिति, प्रति साध्यनिश्चयः प्रतिवन्धकः । सिषाधयिषा उत्तेजिका । अतः प्रतिबन्धकसत्त्वेऽपि उत्तेजकवलात् अनुमितिर्जायत इति सिषाधयिषाभाव विशिष्टसिद्धिरेव प्रतिबन्धिका । यत्र सिषाधयिषा सिद्धिश्च तत्र सिषाधयिषाविरहविशिष्टसिध्यभावसत्त्वादनुमितिः । अनुमित्युद्देश्यत्वं पक्षत्वमित्यपरे ।
पक्षतायां विशेषविचारः
अतः
अनुमित्युद्देश्यत्वस्य पक्षतात्वे अनुमितेः पूर्वं तदुद्देश्यत्वस्याभावेन तद्रूपायाः पर्वतायाः तत्पूर्ववर्तित्वघटितकारणत्वानुपपत्तेः केवलसिषाधयिषाग्राः पक्षतात्वे सिषाधयिषाभावकाले केवलपरामर्शदशायामनुमित्यनुत्पत्तिप्रसङ्गात् सिषाधयिषाविरहविशिष्टसिध्यभाव एवं पलता इत्यङ्गीकरणीयम् । सिद्धौ सत्यामपि सिषाधयिषासत्वेऽनुमितिर्भवत्येव । अतः सिषाधयिषाविरहविशिष्टत्वं सिद्धौ विशेषणम् । तथाच यत्र सिद्धिर्नास्ति तत्र सिषाधयिषायां सत्यां विशेषणविशेष्योभयाभावप्रयुक्तः असत्यां विशेष्याभावमात्रप्रयुक्तो विशिष्टाभावः सम्भवति । यत्न सिषाधयिषास्ति तत्र सिद्धी सत्यां विशेषणाभावमानप्रयुक्तः, सिद्धावसत्यामुभयाभावप्रयुक्तः विशिष्टाभावः । यत्र सिद्धिरस्ति सिषाधयिषा च नास्ति तत्र न पक्षता, सिषाधयिपाविरह-
-114
.
नन्वत
विशिष्टेसिद्धेरेव सरवेन तेदभावरूपपक्षताया अभावात् । सिद्धौं सिषाधविषाविरहवैशिष्ट्यं षं स्वरूपसमवायोभयघटितसामानाधिकरण्यसम्बन्धेन । सिषाधयिषाकालिकसिद्धिदशायामनुमित्यभावप्रसङ्गवारणेन सिद्धी सिषाधयिषाविरहवैशिष्ट्यस्य प्रयोजनं वक्तव्यम् । तच्च न घटते । तथाहि यत्र क्रमेण परामर्शसिद्धिसिषाधयिषाः तत्र सिषाधयिषाकाले परामर्शनाशान्नानुमितिः, यत्र सिद्धिपरामर्शसिषाधयिषाः क्रमेण भवन्ति तत्र सिषाधयिषाकाले सिद्धेर्नाशात् प्रतिबन्धकाभावादेवानुमितिः, यत्र सिषाधयिषां सिद्धिपरामर्शाः तत्न परामर्शकाले सिषाधयिषाया एवाभावात् नानुमितिः । एवं सिषाधयिषापरामर्शसिद्धयः सिद्धिसिषाधयिषापरामर्शाः, परामर्श सिषाधयिषासिद्धयो वां यत्न क्रमेण भवन्ति तत्रापि सिद्धिकाले परामर्शकाले च न सिषाधयिषा योग्यविभुविशेषगुणानां स्वोत्तरोत्पन्नविभु गुणनाश्यत्वेन ज्ञानेन्द्रयोः द्विक्षणावस्थायित्वस्याङ्गी कर्तव्यतया यौगपद्याभावात् । अतः सिषाधयिषाविरहविशिष्टत्वसिद्धौ कथं विशेषणमिति चेन्न; यक्ष वह्निव्याप्यधूमवान् पर्वतो वह्निमानिति प्रत्यक्षं स्मरणं वा ततः सिषाधयिषा तत्र पक्षतासम्पत्तये तद्विशेषणस्यावश्यकत्वात् ।
इदं तु बोध्यम् । यादृशयादृशसिषाधयिषासत्त्वे, सिद्धिसत्त्वे यल्लिङ्गकानुमितिः तादृशतादृशसिषाधयिषाविरहविशिष्टसिध्यभावः तल्लिङ्गकानुमितौ पक्षता । तेन सिद्धिपरामर्शसत्त्वे यत्किञ्चिज्ज्ञानं जायतामितीञ्च्छायामपि नानुमितिः । तदिच्छायाः तद्वयक्तित्वेनोत्तेजकत्वामुपगमात् ।
वह्निव्याप्यधूमवान् पर्वतो वह्निमानिति प्रत्यक्षसत्त्वे प्रत्यक्षातिरिक्तं ज्ञानं जायतामितीच्छायां तु भवत्येव । अन तल्लिङ्गकत्व - स्यापि प्रवेशात् धूमपरामर्शसत्त्वे आलोकेन वह्निमनुमिनुयामितीच्छायामपि नानुमित्यापत्तिः । एवं सिषाधयिषाविरहकाले यादृशसिद्धिसत्त्वे नानुमितिः तादृशी सिद्धिः विशिष्यैवानुमितिप्रतिबन्धिका वक्तव्या । तेन पर्वतः तेजस्वी पाषाणमयो वह्निमान् इति ज्ञानसत्त्वेऽप्यनुमितेनं विरोधः ।
·
परन्तु पक्षतावच्छेदकसामानाधिकरण्येनानुमितावपि तदवच्छेदेनानुमितेर्दर्शनात् पक्षतावच्छेदकावच्छेदेनानुमिति प्रति पक्षतावच्छेदकावच्छेदेन सिद्धिरेव प्रतिबन्धिका । पक्षतावच्छेदकसामानाधिकरण्येनानुमिति प्रति तु सिद्धिमानं विरोधि ।
इदं चानावधेयम् । यत्त्रायं पुरुषो न वेति संशयः, ततः पुरुषत्वव्याप्यादिमानयमिति विशेषदर्शनं तत्र पुरुषत्वानुमितिसामग्रधाः सत्त्वेऽपि अनुमित्साविरह-
-115
विशिष्टसमानविषयकप्रत्यक्षसामप्रथाः कामिनीजिज्ञासादिवत् स्वातन्त्र्येण प्रतिबन्धकत्वात् तत्व पुरुषत्वप्रत्यक्षं भवति, न त्वनुमितिः। एवं परामर्शानन्तरं प्रत्यक्षेच्छां विना पक्षादेः प्रत्यक्षानुत्पत्तेः प्रत्यक्षेच्छाविरहविशिष्टानुमितिसामग्री भिन्न विषयकप्रत्यक्षे प्रतिबन्धिकेति ।
निश्चितसाध्यवान् सपक्षः । यथा - अत्रैव महानसः ।
.
।
साध्यप्रकारकनिश्चय विशेष्यत्वं सपक्षत्वम् । यथा – महानसो वह्निमानिति निश्चये पूर्ववत् निश्चय विषय साध्याश्रयत्वमित्येवोक्तौ पक्षेऽतिव्याप्तिः स्यादिति बोध्यम् । अत्रापि वह्निनिष्ठवह्नित्व निरूपितविशेष्यतामादाय वह्नौ, महानसः वह्निनिष्ठवह्नित्वनिरूपितविशेष्यतामादाय वह्निमान् भूतलं घटवत् इति समूहालम्बन निश्चयविशेष्यतामादाय भूतलादौ चातिव्याप्तिवारणाय साध्य निष्ठप्रकारतानिरूपित निश्चयीयमुख्यविशेष्यताश्रयत्वमिति परिष्करणीयम् ।
। अत
निश्चितसाध्याभाववान् विपक्षः । यथा अत्रैव महाहृदः । वनापि यथाश्रुते निश्चयविषयसाध्याभावाश्रयत्वं विपक्षलक्षणम् । निश्चितपदाभावे हृदो वह्निमानित्यनुमितिकाले पक्षीभूतहदेऽपि साध्याभावाश्रयत्वस्य सत्त्वादतिव्याप्तिः स्यात् । एवमपि हृदो वह्निमान् इत्यनुमितिकाले पक्षरूपदेऽपि घटपटाद्यन्तर्भावेण निश्चयविषयवह्न्यभावस्य वर्तमानतया अतिव्याप्तिवारणाय साध्याभावप्रकारकनिश्चयविशेष्यत्वं विवक्षणीयम् । तथाच अनुमितिकाले साध्याभावप्रकारकनिश्चयविशेष्यत्वस्य ह्रदेऽभावान्नातिव्याप्तिः । अत्रापि पूर्ववत् साध्यादौ अतिव्याप्तिवारणाय गुणो वह्न्यभाववान् ह्रदो जलवान् इति समूहालंवननिश्चयविषयीभूते ह्रदेऽतिव्याप्तिवारणाय च साध्याभावत्वावच्छिन्न प्रकारता निरूपितनिश्चयीयमुख्यविशेष्यतात्रयत्वपर्यन्तं लक्षणं वक्तव्यम् । पूर्वोक्तज्ञाने वह्न्यभाव॑स्य हृदांशेऽप्रकारत्वान्नातिव्याप्तिः । एवं सद्धेतवो निरूपिताः । व्याप्तिपक्षधर्मताविशिष्टत्वं सद्धेतुसामान्यलक्षणम् ।
अथ हेत्वाभासाः
संव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ।
प्रसङ्गात् सद्धेतुनिरूपणानन्तरं प्रतिपक्षिणा प्रयुक्तहेतौ दोपोद्भावनाय ‘असद्धेतून्—— सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः’ इति सूत्र:
[[2116]]
क्रमानुरोधेन विभजतेसव्यभिचारेति । सूत्राक्तः प्रकरणसमः सत्प्रतिपक्षः, साध्यसमः असिद्धः, अतीतकालः वाधः इति वोध्यम् । अनैकान्तो विरुद्धश्चाप्यसिद्धः
प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा’ इति कारिकावल्यामप्येत एव हेत्वाभासा उक्ताः । तत्र अनैकान्तः सव्यभिचारः कालात्ययापदिष्टः वाधित इति ज्ञातव्यम् । हेतुवदाभासन्ते इति हेत्वाभासाः । हेतुभिन्नत्वे सति हेतुनिष्ठधर्मप्रकारक भ्रमविषयाः इति हेत्वाभासपदार्थः । ते च सव्यभिचारादयः पञ्च । इमे एव दुष्टहेतवः इति व्यपदिश्यन्ते । दुष्टत्वं च दोषविशिष्टत्वम् । दोषाः व्यभिचारादयः । व्याप्तिपक्षधर्मत्वोभयाभाववत्त्वमसद्धेतूनां लक्षणम् । व्याप्त्यभाववत्त्वमात्रोक्तौ ह्रदो वह्निमान् धूमादित्यत वाधितहेती, पक्षधर्मत्वाभाववत्त्वमात्रोक्तौ पर्वतो धूमवान् वह्नेरिति व्यभिचारिहेतावन्याप्तिरित्युभयाभावनिवेशः । व्याप्तिपक्षधर्मतान्यतराभावोक्तावपि वाधितव्यभिचारिणोः तदन्यतरस्य सत्त्वात् अव्याप्तिः स्यात् । उभयाभाववत्त्वविवक्षणे तु बाधितव्यभिचारिणोरपिं एकसत्त्वेऽपि द्वयं नास्तीति प्रतीत्या उभयाभाववत्त्वस्याक्षतत्वेन न कुनाप्यव्याप्तिः ।
हेत्वाभाससामान्यलक्षणं तु अनुमितितत्करणान्यतरप्रतिवन्धकयथार्थज्ञानविषय त्वम् । हृदो वह्निमान् धूमादित्यत वह्नयभाववद्धदरूपे वाधे लक्षणसमन्वयः । तद्वत्ताबुद्धि प्रति तदभाववत्तानिश्चयः, तदभावव्याप्यवत्तानिश्चयश्च प्रतिबन्धकः इति न्यायात् ह्रदो वह्निमानित्यनुमितिप्रतिबन्धकं यद् यथार्थज्ञानं हृदो वह्न्यभाववान् इति वाधनिश्चयात्मकं यथार्थज्ञानं तद्विषयत्वं वह्न्यभाववद्धुदे वाधे इति । एवं ह्रदो वह्निमान् इत्यनुमिति प्रति वह्न्यभावव्याप्यजलवान् हन्दः इति सत्प्रतिपक्षनिश्चयस्य पूर्वोक्तरीत्या तदभावव्याप्यवत्ताज्ञानमुद्रया प्रतिबन्धकत्वात् प्रतिबन्धकयथार्थज्ञानविषयीभूते
सत्प्रतिपक्षेऽपि लक्षणसमन्वयः । अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वमात्रोक्तो पर्वतो वह्निमान् प्रमेयत्वादित्यत्र वह्नयभाववद्वृत्तिप्रमेयत्वे व्यभिचाररूपेऽव्याप्तिः । तन्निश्चयस्य वह्न्यभाववदवृत्तिप्रमेयत्वमिति व्याप्तिज्ञानं प्रत्येव तद्वत्ताबुद्धि प्रति तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकतया अनुमितिप्रतिबन्धकत्वाभावात् । अतः करणपदम् । एतन्निश्चयस्य अनुमितिकरणव्याप्तिज्ञानप्रतिबन्धकतया व्यभिचारेऽपि लक्षण-
समन्वयः ।
अनुमितिकरणप्रतिबन्धकयथार्थज्ञानविषयत्वमातोक्तौ वाधेऽव्याप्तिः । तस्य अनुमितिप्रतिबन्धकतया तत्करणप्रतिबन्धकत्वाभावात् । अतः अनुमितितत्करणा-
[[117]]
न्यतरेति । तन्निवेशे तु बाधनिश्चयस्य अनुमितिप्रतिबन्धकत्वेन अन्यतरप्रतिबन्धकत्वात् समन्वयः । दोषाणां हेतुनिष्ठत्वं च स्वज्ञानविषयप्रकृतहेतुतावच्छेदकधर्मवत्त्वसम्बन्धेन । हृदो वृद्धिमान् धूमादित्यत्र स्वं वह्नघभाववद्धदः, तद्विषयकं ज्ञानं वह्नघभाववान् ह्रदः धूमश्च इति समूहालम्बनात्मकं ज्ञानं तद्विषयीभूतप्रकृत हे तुतावच्छेदकधर्मः धूमत्वं, तद्वत्त्वसम्वन्धेन वह्नयभाववद्धदः धूमे । अतः हेतूनां दुष्टत्वव्यवहारः ।
।
च
तत्त्वनिर्णय विजयरूपैककार्यकारित्वात् सद्धेतुनिरूपणानन्तरमसद्धेतूनां निरूपणम् । तल्लक्षणं तु यद्विषयकत्वेन ज्ञानस्यानुमितिविरोधित्वं तत्त्वम् इति मुक्तावली । दोषलक्षणोक्त्या दोषवत्त्वरूपं दुष्टलक्षणमप्युक्तप्रायम् । अत्र अनुमितिपदेन पक्षः साध्यवान् साध्यव्याप्यहेतुमांश्चेति समूहालम्बनानुमितेः ग्रह्णात् ह्रदो वह्नयभाववान् इति ज्ञानस्य वह्नधभाववद्ध दविषयकत्वेन समूहालम्बनानुमितिघटक ह्रदो वह्निमानित्यंशे प्रतिबन्धकत्वात्, धूमाभाववद्वृत्तित्वविशिष्टवह्निरूपव्यभिचारनिश्चयस्य तादृशवह्निविषयकत्वेन समूहालं वनानुमितिघटकव्याप्तिज्ञानांशें प्रतिबन्धकत्वात् तखं बाधे व्यभिचारे च वर्तत इतिरीत्या लक्षणसमन्वयः । ननु यद्विषयकत्वेनेत्यत्र तृतीयार्थोऽवच्छेदकत्वं, स च यदि स्वरूपसम्बन्धविशेषः तदा वह्निमान् धूमादित्यादौ बह्नघभावादावतिव्याप्तिः, पर्वतो वह्निमानित्यनुमिति प्रति पर्वतः बह्वघभाववान् इति निश्चयस्य प्रतिबन्धकतया वह्नघभावविषयकत्वस्यापि प्रतिबन्धकतावच्छेदककोटिप्रविष्टत्वात्, यद्विषयकत्वं तादृशप्रतिबन्धकतानिरूपितस्वरूपसम्बन्धरूपावच्छेदकतापर्याप्त्यधिकरणं तत्त्वमिति परिष्कारे च केवलवह्वघभाव विषयतायाः पर्याप्त्यनधिकरणत्वेन अतिव्याप्तिवारणेऽपि असम्भवः स्यात् ।
अप्रामाण्यज्ञाना-
नास्कन्दितत्वान्तर्भाविन, अवच्छेदकतापर्याप्तिसत्त्वेन केवलवह्नयभाववद्धदविषयतायाः
• तत्पर्याप्त्यनधिकरणत्वात् । अत एवानतिरिक्तंवृत्तित्वरूपावच्छेदकत्वमपि न लक्षणघटकम् । विशिष्टहृदस्य केवलह्रदानतिरिक्तत्वेन प्रतिबन्धकताशून्ये हृद इति ज्ञानेऽपि वह्नधभावविशिष्टह्रदविषयत्वसत्त्वादिति चेन्न ; यद्विषयकत्वं च यादृशविशिष्टविषयकत्वम् । यद्रूपावच्छिन्नविषयतानिरूपितविषयित्वमिति यावत् । एवं च तत्त्वमित्यस्यापि तद्रूपावच्छिन्नत्वमर्थः । तथाच यद्रूपावच्छिन्नविषयतानिरूपितविषयिता प्रकृतानुमितिनिष्ठप्रतिवध्यतानिरूपित प्रतिबन्धकतानतिरिक्तवृत्तिः तद्रूपाबच्छिन्नत्वं दोषसामान्यलक्षणमित्यर्थलाभाव हृदो वह्निमान् धूमादित्यादी केवल-
[[118]]
●
•
ह्रदत्वावच्छिन्न विषयतानिरूपितविषयितायाः ह्रद इति ज्ञानवृत्तित्वेन प्रकृतानुमितिप्रतिबन्धकतातिरिक्तवृत्तिन्वेऽपि वह्नघभाववतु दत्वावच्छिन्नविपयतानिरूपितविषयतायाः हद इति ज्ञानावृत्तित्वेन प्रतिबन्धकतानतिरिक्तवृत्तितया तादृशवलयभावविशिष्टहदत्वमादाय तादृशहदे लक्षणसमन्वयः सम्भवति । अन प्रकृतानुमितिप्रतिवन्धकताशून्येच्छादावपि वह्नयभाववद्ध दत्वावच्छिन्नविषयताया। सत्वेन अनतिरिक्तवृत्तित्वाभावादसम्भववारणाय ज्ञानवृत्तित्वार्थकं ज्ञानस्येति पदमुपात्तम् । ननु तथापि तादृशप्रतिबन्धकताशून्ये हृदो वह्निमान्न वेति संशये वह्निमान् हदो वह्न्यभाववान् इत्याहार्यज्ञाने, ह्रदो वह्न्यभाववान् इदं ज्ञानमप्रमा इत्यप्रामाण्यज्ञानास्कन्दितज्ञाने च वह्नयभाववद्ध दत्वावच्छिन्न विषयतायाः सत्त्वेन असम्भवतादवस्थ्यमिति चेन्न ; ज्ञानपदस्य अनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयपरत्वस्वीकारेण पूर्वोक्तज्ञानानामतादृशत्वान्नोक्तदोषः । अनतिरिक्तवृत्तित्वं च स्वव्यापकतत्कत्वम् । स्वं विषयिता । तथाच अनाहार्येत्यादिनिश्चयवृत्तित्वविशिष्टयद्रूपावच्छिन्ननिरूपितविषयिताव्यापिका प्रकृतानुमितित्वव्यापकप्रतिवध्यतानिरूपितप्रतिवन्धकता, तद्रूपावच्छिन्नत्वं हेत्वाभाससामान्यलक्षणं फलितम् । तेन बाधभ्रमस्यानुमितिविरोधित्वेऽपि न क्षतिः । तत्र पर्वतो वह्न्यभाववानिति विशिष्टस्य । प्रसिद्धत्वान्न हेतुदोषः । नच प्राचीनमते सत्प्रतिपक्षस्यानित्यदोषत्वात् वह्नघभावव्याप्यपाषाणमयत्ववानिति परामर्शकाले वह्निव्याप्यधूमस्याभासत्वं न स्यात् । तत्र वह्नयभावव्याप्यवान् पक्षः इति विशिष्टस्याप्रसिद्धत्वादिति वाच्यम् ; इप्टापत्तेः । अन्यथा सद्धेतुस्थलेऽपि वाधभ्रमसम्भवेन वाधस्याप्यनित्यदोषत्वं स्यात् । तस्मात्तत्त वह्नयभावव्याप्यपाषाणमयत्ववानिति परामर्शकाले वह्निव्याप्यधूमस्य नाभासत्वम् । भ्रमादनुमितिप्रतिवन्धमानम् । हेतुस्तु न दुष्टः । इत्यं च साध्याभाववद्वृत्तिहेत्वादिकं दोष । तद्वत्त्वं च एकज्ञानविषयत्वेन हेताविति नवीनानां मतम् ।
•
प्राञ्चस्तु दुष्टानामेव हेतूनां विभजनात् तेषामेव लक्षणं वक्तव्यम् । तदुपयोगितयैव दोषस्वरूपनिर्वचनम् । एवं च यद्विषयकत्वेन ज्ञानस्यानुमितिविरोधित्वं ! तद्वत्त्वं हेत्वाभासत्वम् । सत्प्रतिपक्षस्थले विरोधिव्याप्तिरेव यत्पदेनोपादेया । तद्वत्त्वं च हेतोर्ज्ञानरूपसम्वन्धेन ।
न चैवं वह्निमान् धूमादित्यादौ पक्षे बाधभ्रमस्य साध्याभावविषयकत्वेन अनुमितिविरोधित्वात् ज्ञानरूपसम्वन्धेन साध्याभाववत्त्वस्यापि सत्त्वात् सद्धेतोरपि
बाघितत्वापत्तिरिति वाच्यम् । बाघ श्रम कालानधूमादिसद्धेतौ ज्ञानस्य सम्वन्धत्वाकल्पनात् । प्रतिपरामर्शकालीने धूमादिसद्धेतौ तु सत्प्रतिपक्षित इति व्यवहारेण ज्ञानस्य सम्वन्धत्वकल्पनात् । बाघभ्रमकालीनसद्धेतौ बाधित इति व्यवहाराभावात्, प्रत्युतायं न वाधितः पुरुषस्तु भ्रान्त इत्येव व्यवहारादित्याहुः । दोषज्ञानं च यद्धेतुविषयकं तद्धेतुकानुमितो प्रतिबन्धकम् । एवं हेतुविशेषान्तर्भावेण प्रतिवध्यप्रतिबन्धकभावस्वीकारेण वह्नौ धूमव्यभिचारित्वग्रहेऽपि आलोके धूमाव्यभिचारित्वग्रहेण अनुमित्युत्पत्तेः तदा व्यभिचारज्ञानस्य तदभावानवगाहित्वात् अनुमितिविरोधित्वाभावेऽपि नाव्याप्तिः । अनायं विशेषविचारः । बाधज्ञानकालीनेच्छाजन्यं ज्ञानमाहार्यज्ञानम् । स्वविरोधिधर्मधर्मितावच्छेदकक स्वप्रक। रकज्ञानमिति यावत् । हेत्वाभाससामान्यलक्षणे च प्रकृतपक्षतावच्छेदकावच्छिन्न पक्षकप्रकृतसाध्यतावच्छेदकावच्छिन्नसाध्यकप्रकृतहेतुतावच्छेदकावच्छिन्नाहेतुकानुमितिप्रतिबन्धकत्वस्य निवेशः आवश्यकः । अन्यथा पर्वतो वह्निमान् धूमादित्यत पर्वतादेः काञ्चनमयत्वाभावः हेत्वाभासः स्यात् । एवं च निर्वह्निः पर्वतो वह्निमान् धूमादित्यादौ न कोऽपि हेत्वाभासः स्यात् । तादृशानुमितेरप्रसिद्धत्वात् । आहार्यम्परोक्षानभ्युपगमात्, यादृशसाध्यपक्षकहेतो यावन्तो दोषास्सम्भवन्ति तावदन्यान्यत्वं तत्नत्यदोषसामान्यलक्षणम् । पूर्वोक्तस्थले च वह्निविशिष्टः पर्वतः आश्रयासिद्धिः । हेत्वाभासानां पञ्चत्वकथनं तु वायुर्गन्धवान् स्नेहात् इत्यादी पञ्चानामपि सम्भवाभिप्रायेणेति ।
सव्यमिचारोऽनैकान्तिकः । स त्रिविधः साधारणासाधारणानुपसंहारिमेदात् । तत्र साध्याभाववद्वृत्तिः साधारणः । यथा – पर्वतो वह्निमान् प्रमेयत्वादिति । व्यत्र प्रमेयत्वस्य वह्न्यभाववति हृदे विद्यमानत्वात् ।
साध्यनिष्ठप्रतियोगिता-
सव्यभिचारस्यैव अनैकान्तिक इति सञ्ज्ञान्तरम् । निरूपकाभावाधिकरणनिरूपितवृत्तित्वं साधारणस्य लक्षणम् । अस्य च ज्ञानस्य तद्वत्ताबुद्धि प्रति तदभाववत्तानिश्चयमुद्रया व्याप्तिज्ञानप्रतिबन्धकत्वम् । वह्नयभाववद्वृत्ति प्रमेयत्वमिति ज्ञाने सति वह्न्यभाववदवृत्तिप्रमेयत्वमिति व्याप्तिज्ञाना’जननात् ।
निरवच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्न-
प्रतियोगिताकाभाववन्निरूपितहेतुतावच्छेदकसम्वन्धावच्छिन्नवृत्तित्वमिति साधारण्यलक्षणपरिष्कारः कर्तव्यः । वह्निमान् धूमादित्यादी समवायादिना वह्न्यभावमादाय
[[120]]
अतिव्याप्तिवारणाय साध्यतावच्छेदकसम्वन्धावच्छिन्नत्वं कपिसंयोगी एतद्वृक्षवादित्यनातिव्याप्तिवारणाय निरवच्छिन्नत्वं च निवेशितम् । वह्निमान् द्रव्यत्वादित्यत संयोगसम्बन्धमादायाव्याप्तिवारणाय हेतुतावच्छेदकसम्वन्धावच्छिन्नत्वम् ।
लक्षणम् । साध्यवदन्यवृत्तित्वं
साधारण्यमेव ।
इदमुप-
हेतुसमानाधिकरणाभावप्रतियोगित्वमित्याद्यपि
अत्नायं विषयः बोध्यः । — आद्यः
साधारणस्तु स्यादसाधरणकोऽपरः ।
तथैवानुपसंहारी विधानैकान्तिको भवेत् ॥’ इति कारिकावल्यां सव्यभिचारं तेधा विभज्य यः सम्प्रक्षे विपक्षे च भवेत्साधारणस्तु सः’ इति साधारणसव्यभिचारः लक्षितः । सपक्षविपक्षवृत्तिः साधारणः इति तदर्थः । सपक्षः निश्चितसाध्यवान् । विपक्षः साध्यवद्भिन्नः । विरुद्धवारणाय सपक्षवृत्तित्वमुक्तम् । वस्तुतः विपक्ष-
। वृत्तित्वमात्रं साधारण्यम् । अव्यभिचारज्ञानप्रतिबन्धसामानाधिकरण्यग्रहप्रतिबन्धरूपदूषकतावीजस्य भिन्नत्वेन विरुद्धस्य साधारणत्वेऽपि पार्थक्यं मन्तव्यम् ।
सर्वसपक्षविपक्षव्यावृत्तः हेतु रसाधारणः । यथा - शब्दो नित्यः शब्दत्वात् इति । अत्र शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति ।
सर्वसपक्षनिरूपितवृत्तित्वाभाववत्त्वे सति सर्वविपक्षनिरूपितवृत्तित्वाभाववत्त्वम् असाधारणस्य लक्षणम् । शब्दो नित्यः शब्दत्वादित्यत्र निश्चितसाध्यवत् गगनं सपक्षः, तन्निरूपितवृत्तित्वाभावः शब्दत्वे, निश्चितसाध्याभाववान् घटादिः, तदवृत्तित्वं च शब्दत्वे इति समन्वयः । विशेषणमात्रोक्तौ शब्दः नित्यः कार्यत्वादित्यत्र विरुद्धहेतावतिव्याप्तिः । विशेष्यमात्त्रोक्तौ सद्धेतौ धूमादावतिव्याप्तिरित्युभयोपादानम् । सपक्षे सर्वत्वानिवेशे पर्वतो वह्निमान् धूमादित्यत्र धूमस्य अयोगोलकरूपयत्किविसपक्षव्यावृत्तत्वादतिव्याप्तिः । विपक्षे सर्वत्वानिवेशे पर्वतो वह्निमान् जलादिति विरुद्धे गुणादियत्किञ्चिद्विपक्षव्यावृत्तत्वसत्त्वादतिव्याप्तिः । ननु एवमपि सर्वसपक्षवृत्तित्वघटत्वोभयाभावमादाय धूमे सद्धेतौ, सर्वविपक्षवृत्तित्वघटत्वोभयाभावमादाय शब्दो नित्यः कार्यत्वादिति विरुद्धे चातिव्याप्तिरिति चेन्न ; घटः शब्दवान् घटत्वादित्यत सपक्षे गगने अनेकत्वरूपसर्वत्वाप्रसिद्धया, घटः शब्दाभाववान् घटत्वादित्यत्र विपक्षे गगने चानेकत्वरूपसर्वत्वाप्रसिध्या अव्याप्तिवारणाय उभयत्रापि सर्वपदस्य सपक्षनिरूपितवृत्तित्वसामान्याभावविपक्षनिरूपितवृत्तित्वसामान्याभावद्योतकत्वेन
N. P. Sahit
.
दोषाभावात् ।
[[121]]
[[9]]
एवमपि धूमे सद्धेतौ अतिव्याप्तिः । धूमस्याधिकरणभेदेन भिन्नतया पर्वतीयधूमस्य सर्वसपक्षेषु महानसादिषु सर्वविपक्षेषु ह्रदादिषु च अवृत्तितया अतिव्याप्तिः । अतः सपक्षनिरूपितवृत्तितानवच्छेदकं विपक्ष निरूपितवृत्तितानवच्छेदकं यद्धेतुतावच्छेदकमिति विवक्षणीयम् ।
अन चासाधारणः सामानाधिकरण्यग्र प्रतिवन्धकः । हेतुव्यापकसाध्यसामानाधिकरण्यस्य व्याप्तितया नित्यत्वासमानाधिकरणं शब्दत्वमिति असाधारण्य निर्णयस्य तदभाववत्तानिश्चयविधया नित्यत्वसमानाधिकरणं शब्दत्वमिति व्याप्तिघटकसामानाधिकरण्यङ्ग्रविघटकतया अनुमितिकरणप्रतिबन्धकत्वम् ।
नवीनमते साध्यासमानाधिकरणो हेतुरसाधारणः । तेन साध्यसामानाधिकरम्यग्रहः प्रतिबध्यते इति पूर्वमुक्तम् । ’ यस्तूभयस्माद्वयावृत्तः स त्वसाधारणो मतः ’ इति कारिकानुसारेण सपक्षविपक्षव्यावृत्तः असाधारणः । निश्चितसाध्यवद्वयावृत्तत्वे सति निश्चितसाध्याभाववद्वयावृत्तत्वं असाधारण्यम् । शब्दोऽनित्यः शब्दत्वादित्यादौ यदा शब्देऽनित्यत्वस्य सन्देहः तदा सपक्षत्वं विपक्षत्वं च घटादीनामेव । तद्वयावृत्तं च शब्दत्वमिति तदा तदसाधारणम् । यद्रा शब्देऽनित्यत्वनिश्चयः तदा नासाधारण्यम् । एवमसाधारणः अनित्यदोष इति प्राञ्चः ।
.
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा – सर्वमनित्यं प्रमेयत्वात् । अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति ।
दृष्टान्ताभावप्रयुक्तसाध्यानुमितिजनकत्वशून्यः अनुपसंहारीत्यर्थः । अन्वयव्यतिरेकदृष्टान्तप्रतियोगिकाभाववान अनुपसंहारी । सर्वमनित्यं प्रमेयत्वादित्यत्र सर्वत्वावच्छिन्नस्य पक्षत्वेन पद्मव्यतिरिक्तस्यैवाप्रसिध्या अन्वयव्यतिरेकदृष्टान्तयोरभावेन प्रमेयत्वहेतौ द्विविधदृष्टान्न्ताभावाल्लक्षणसमन्वयः । ननु अन्वयव्यतिरेकदृष्टान्तरहितत्वस्य साधारणासाधारणयोरपि सम्भवात्तत्नातिव्याप्तिः । तत्त्रान्वयव्यतिरेकव्याप्त्योरभावादिति चेन्न ; अन अन्वयदृष्टान्तः पक्ष भिन्नत्वे सति साध्यसाधनोभयाश्रयः, व्यतिरेकदृष्टान्तः पक्षभिन्नत्वे सति साध्याभावहेत्वभावाश्रयः । अतोऽन अन्वयव्यतिरेकव्याप्योरप्रविष्टत्वेन, साधारणासाधारणयोरन्वयव्यतिरेकव्याप्त्योरेकतरस्य सत्त्वेन अन्वयदृष्टान्तरहितत्वे सति व्यतिरेकदृष्टान्त रहितत्वस्य असम्भवात् अन्वयव्यतिरेकव्याप्यभावेऽपि दोषाभावात् । अत्र अनुपसंहारिस्थले सर्वस्यापि
[[122]]
पक्षत्वेन सर्वावच्छेदेन संशयसामग्रीसत्त्वात् न कुत्रापि साध्यनिश्चयसम्भवः इति व्यापकसामानाधिकरण्यरूपव्याप्तिग्रहो न भवतीति अनुपसंहारिणः व्याप्तिज्ञानप्रतिबन्धकतया हेत्वाभासत्वम् । न तु साक्षादनुमितिप्रतिबन्धकज्ञानविषयत्वेनेति ज्ञेयम् ।
पूर्वं प्राचीनमतमुक्तम् । नव्यास्तु केवलान्वयिसाध्यकत्वं केवलान्वयिहेतुकत्वं वा अनुपसंहारित्वम् । अत्यन्ताभावाप्रतियोगिसाध्यकः तादृशहेतुर्वेति यावत् । अनेन च व्यतिरेकव्याप्तिज्ञानप्रतिवन्धः क्रियते । घटोऽभिधेयः प्रमेयत्वादित्यादौ च अन्वयव्याप्तिज्ञानादेवानुमितिरिति भावः ।
साध्याभावव्याप्तो हेतुर्विरुद्धः । शब्दो नित्यः कार्यत्वात् इति ।
कार्यत्वं नित्यत्वाभावेन अनित्यत्वेन व्याप्तम् ।
अत्र
साध्याभावव्याप्तिः साध्याभावनिरूपितव्यतिरेकव्याप्तिः । तथाच साध्याभावाभावव्यापकीभूताभावप्रतियोगी हेतुविरुद्ध इति फलितम् । नित्यत्वाभावाभावः नित्यत्वं, तद्वयापकीभूतः योऽभावः कार्यत्वाभावः, तत्प्रतियोगि कार्यत्वम् । कार्यत्ववान् शब्दः इति निश्चयविशिष्टस्य नित्यत्वव्यापकीभूताभावप्रतियोगिकार्यत्वमिति निश्चयस्य तदभावव्याप्यवत्तानिश्चयत्वेन शब्दो नित्य इत्याकारकानुमितिप्रतिबन्धकतया तादृशनिश्चयविषयीभूते नित्यत्वव्यापकीभूताभावप्रतियोगिकार्यत्वरूपविरुद्ध हेत्वाभासत्वमुपपद्यत इति ।
कारिकावल्यां ’ यः साध्यवति नैवास्ति स विरुद्ध उदाहृतः’ इत्युक्तम् । एवकारेण साध्यवत्त्वावच्छेदेन हेत्वभावो बोधित इति साध्यव्यापकीभूता भावप्रतियोगित्वं विरोध
अतोऽसाधारणे नातिव्याप्तिः । अस्य च
साध्याभावग्रहसामग्रीत्वेन पूर्ववत् प्रतिबन्धकत्वम् ।
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा— शब्दो नित्यः श्रावणत्वात्, शब्दत्ववत्, शब्दोऽनित्यः कार्यत्वात्, घटवत् इति ।
।
सन् प्रतिपक्षः यस्य सः इति विग्रहे सत्प्रतिपक्षशब्दस्य दुष्टपरत्वम् । संश्चासौ प्रतिपक्षश्चेति विग्रहे दोषपरत्वम् । केनचित् भ्रान्तेन शब्दे नित्यत्वसाधनाय शब्दो नित्यः श्रावणत्वादिति श्रावणत्वहेतौ प्रयुक्ते, अभ्रान्तोऽन्यः श्रावणत्वहेतुना शब्दे नित्यत्वं साधयितुं न शक्यमिति जानन् प्रतिपक्षिप्रयुक्तश्रावणत्वहेतौ दोषोद्भावनाय शब्दे
[[123]]
नित्यत्वाभावसाधकं कार्यत्वरूपहेत्वन्तरं प्रयुक्ते ।
।
प्रथमः श्रावणत्वहेतुः सत्प्रतिपक्षः । अस्यैव सत्प्रतिपक्षितः इति नाम । एवं च साध्याभावव्याप्यप्रतिहेतुमत्पक्षः सत्प्रतिपक्षः इति फलितम् । इदं दुष्टहेतुलक्षणम् । दोषलक्षणं तु साध्याभावव्याप्यवत्पक्षत्वम् । एवं च अनित्यत्वव्याप्यकार्यत्ववान् शब्द इति निश्चयस्य - शब्दो नित्य इत्यनुमिति प्रति तदभावव्याप्यवत्तानिश्चयमुद्रया प्रतिबन्धकत्वेन पूर्वोक्तसत्प्रतिपक्षस्य तादृशनिश्चयविषयत्वेन हेत्वाभासत्वमुपपद्यते । इदं च नव्यानां मतम् । प्राचीनमते तु साध्याभावव्याप्यप्रतिहेतुमत्ताम्परामर्शकालीनसाध्यव्याप्यप्रकृत हेतुमत्तापरामर्शविषयत्वं सत्प्रतिपक्षत्वम् । प्रकृते साध्याभावव्याप्यप्रतिहेतुमत्तापरामर्शः अनित्यत्वव्याप्यकार्यत्ववान् शब्दः इति परामर्शः । तदानीन्तनः साध्यव्याप्यप्रकृतहेतुमत्तापरामर्शः नित्यत्वव्याप्यश्रावणत्ववान् शब्दः इत्याकारकः, तद्विषयत्वं श्रावणत्वरूपहेतौ इति समन्वयः । जन साध्यव्याप्यप्रकृतहेतुमत्तापरामर्शस्य साध्याभावानुमिति प्रति, साध्याभावव्याप्यप्रतिहेतुमत्तापरामर्शस्य च साध्यानुमिति प्रति तदभावव्याप्यवत्तानिश्चयमुद्रया परस्परं प्रतिवन्धकत्वात् परस्पराभावव्याप्यवत्तानिश्चयात् परस्परानुमितिप्रतिबन्धः फलमिति मन्तव्यम् ।
ननु साध्याभावव्याप्तिविशिष्टहेतुरेव सत्प्रतिपक्षोऽस्तु ; लाघवात् । न तु तादृशव्याप्तिविशिष्टहेतुविशिष्टपक्षः, गौरवात् । उक्तरीत्या तज्ज्ञानस्य परस्परानुमितिप्रतिबन्धकत्वसम्भवात् । एवं सति कथमनयोविरुद्धसत्प्रतिपक्षयोर्भेद इति चेन्न ; सत्प्रतिपक्षे प्रतिहेतुः साध्याभावसाधकः, विरोधे तु एक एव हेतुरिति तयोर्विशेषः । विरोधे साध्याभावसाधक एव हेतुः साध्यसाधकत्वेनोपन्यस्तः इत्यशक्तिविशेषोपस्थापकत्वाच्च विशेषः ।
सत्प्रतिपक्षविषये रत्नकोशकाराः – यथा घटाभावव्याप्यवत्ताज्ञानेऽपि घटचक्षुसंयोगे सति घटवत्ताज्ञानं जायते, यया वा शङ्खे पीतत्वाभावव्याप्यशङ्खत्ववत्ताज्ञाने सत्यपि पित्तादिदोषे पीतः शङ्खः इति बुद्धिरुदेति, एवं कोटिद्वयव्याप्यदर्शनेऽपि कोटिद्वयस्य प्रत्यक्षरूपः संशयः स्याणुर्न वेत्यादिरूपः भवत्येव । एवमनुमिति प्रत्यपि तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धकत्वे मानाभावात् क्लृप्ततत्तदभावानुमितिसामग्रीभ्यां विरुद्धपरामर्शरूपाभ्यामेव तत्तदभावकोटिक संशयानुमितिरुत्पद्यते । संशयानुमिति प्रति उभयव्याप्यवत्तानिश्चयत्वेन अतिरिक्तहेतुताकल्पनाप्रयुक्तगौरवाभावाच्च सत्प्रतिपक्षस्य संशयजनकर्तव दूषकताबीजम् नानुमितिप्रतिबन्धकतेति सत्प्रतिपक्षस्थले
[[124]]
[[1]]
संशयाकारानुमितिर्भवत्येव । यत्न च एककोटिव्याप्यदर्शनं तत्राधिकवलतया द्वितीयकोटिभान प्रतिबन्धान्न संशयः । फलवलेन च अधिकवलसमवलभावः कल्प्यते । अतः पीतत्वशुक्लत्वोभयस्मृतावपि पित्तादिदोषसत्त्वे पीतत्वसाक्षात्कारस्यैवानुभाविकतया पीतत्वसाक्षात्कारसामग्रया अधिकवलवत्त्वम् । एवं दूरत्वदोषे सत्यपि स्थाणुत्वपुरुषत्वयोः स्मृती संशयस्यैवोदयात् तत्सामग्रचाः समवलत्वं कल्प्यते । एवं प्रकृतेऽपीति वदन्ति । तन्न युक्तम् । पृथक्प्रतिवध्यप्रतिवन्धकभावे प्रतिवन्धकाभावानां प्रतिवध्यतावच्छेदकभेद प्रयुक्तपृथक्कारणतागौरवात्, तदभावव्याप्यवत्ताज्ञाने सति सामान्यतः लौकिकसन्निकर्षाजन्यदोष-
तदुपनीतभानविशेषशाब्दवोधादेरनुदयात्, विशेषाजन्यतद्वत्ताबुद्धिसामान्यं प्रति तदभावव्याप्यवत्तानिश्चयस्य एकैव प्रतिवन्धकता, लाघवात् । न तूपनीतभानविशेषे शाब्दबोधे च पृथक् प्रतिबन्धकता, गौरवात् । तथा चानुमितेरपि तत्प्रतिवध्यतावच्छेदकाक्रान्तत्वात् प्रतिवन्धकसत्त्वेन कथं संशयानुमितिरिति ।
असिद्धः त्रिविधः आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धश्चेति । तत्राश्रयासिद्धो यथा — गगनारविन्दं सुरभि अरविन्दत्वात्, सरोजार विन्दवत् । अत्र गगनारविन्दमाश्रयः । स च नास्त्येव । ।
आश्रयासिद्ध्याद्यन्यतमत्वं असिद्धसामान्यलक्षणम् । असिद्धत्वमसिद्धयाश्रयत्वम्, अभावाश्रयत्वमिति यावत् । अभावनिरूपिताश्रयत्वं च एकज्ञानविषयत्वसम्वन्धेन । अभावश्च आश्रय स्वरूपव्याप्यत्वान्यतमप्रतियोगिकः । आश्रयस्य प्रकृतहेत्वाश्रयपक्षस्याभावः । पक्षतावच्छेदकाभाववत्पक्षकत्वम् आश्रयासिद्धस्य लक्षणम् । पक्षतावच्छेदकाभाववत्पक्षः गगनवृत्तित्वाभाववदरविन्दम् । अयं च निश्चयः पक्षतावच्छेदकविशिष्टपक्षज्ञानं विघटयन् अनुमितेः परामर्शस्य वा प्रतिवन्धकः भवति ।
स्वरूपासिद्धो यथा शब्दो गुणः चाक्षुपत्वात्, रूपवत् । अत्र चाक्षुषत्वं
शब्दे नास्ति, शब्दस्य श्रावणत्वात् ।
हेत्वभाववत्पक्षः स्वरूपासिद्धिः ।
चाक्षुषत्वाभाववान् शब्दः इति स्वरूपा -
‘सिद्धिनिश्चयः गुणत्वव्याप्यचाक्षुषत्ववान् शब्दः इति परामर्शीयहेतुवैशिष्ट्यांशे तदभाववत्तानिश्चयमुद्रया विरोधीति तादृशनिश्चयविषयत्वस्य चाक्षुषत्वाभाववच्छब्दरूप-
[[125]]
स्वरूपासिद्धौ सत्त्वात् तस्य हेत्वाभासत्वोपपत्तिः । हृदो द्रव्यं धूमवत्त्वादित्यादावप्येवमेव ।
सोपाधिको हेतुः व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधना व्यापकत्वझुपाधित्वम्म् । साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साघनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । यथा -पर्वतो धूमवान् वहे’ इत्यत्र आर्द्रेन्धनसंयोग उपाधिः । यत्र धूमः तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकत्वम् । यत्र वह्निः तत्रार्द्रेन्धनसंयोगो नास्ति, अयोगोलके आर्द्रेन्धनसंयोगाभावात् इति साधनाव्यापकत्वम् । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वात् आर्द्रेन्धनसंयोगः उपाधिः । सोपाधिकत्वात् वह्निमत्त्वं व्याप्यत्वासिद्धम् ।
उपाधिवैशिष्ट्यं च हेतौ
उपाधिविशिष्टत्वं व्याप्यत्वासिद्धस्य लक्षणम् । स्वाभाववद्वृत्तित्वसम्बन्धेन । यद्वैशिष्ट्यं यत भासते स एव स्वपदार्थः । हेतौ उपाधिवैशिष्टयस्य भाने उपाधिरेव स्वपदग्राह्यः । तथाच धूमवान् वह्नेः इत्यत आर्द्रेन्धनसंयोगरूपोपाधेः स्वपदेन ग्रहणात् स्वाभावः आर्द्रेन्धनसंयोगाभावः, तद्वदयोगोलकम् । तद्वृत्तित्वत्वस्य वह्नौ सत्त्वेन स्वेत्यादिसम्वन्धेन वह्नौ उपाधिविशिष्टत्वमिति सः वह्निरूपहेतुर्व्याप्यत्वासिद्धः । उपाधिलक्षणे विशेष्यमानोक्तौ धूमरूपसद्धेतौ रासभस्याप्युपाधित्वं स्यात् । तस्य महानसादिनिष्ठाभावप्रतियोगित्वात् । विशेषणमात्नोपान्दाने वह्नेरपि वह्निव्यापकत्वेन पर्वतो वह्निमान् धूमादित्यत्र वह्निरूपसाध्येऽतिव्याप्तिः । अतः दलद्वयनिवेशः ।
साध्याभाववदवृत्तित्वाभाववद्धेतुः व्याप्यत्वासिद्धः । धूमाभाववदवृत्तिवह्निमान् इति परामर्शे धूमाभाववदवृत्तिः वह्निः इति व्याप्त्यंशे घूमाभाववदवृत्तित्वाभाववान् वह्निः इति निश्चयस्य प्रतिबन्धकत्वेन धूमाभाववदवृत्तित्वाभाववद्बह्निरूपव्याप्यत्वासिद्धेः तादृशनिश्चयविषयत्वेन हेत्वाभासत्वम्म् । अन साध्याभाववदवृत्तित्वाभावस्य साध्याभाववद्वृत्तित्वरूपतया व्यभिचार एवायमन्तर्भवतीति न मन्तव्यम् । दोषयोरैक्येऽपि दोषतावच्छेदकयोः साध्याभाववदवृत्तित्वाभावत्व - साध्याभाववद्वृत्तित्वयोसाध्याभाववदवृत्तित्वाभावत्व-साध्याभाववद्वृत्तित्वयोभेदात् । दोषदोषतावच्छेदकोभयैक्य एव पृथग्गणनं न युक्तमिति मन्तव्यम् ।
[[126]]
·
व्याप्यत्वमव्यभिचरितत्वमसिद्धं यत्नेति व्युत्पत्त्या व्याप्यत्वासिद्धपदस्य व्यभिचारीत्यर्थः । तथाच उपाधिना स्वव्यभिचारिणि हेतौ साध्यव्यभिचारस्यैवोनयनान् व्यभिचारस्यैव तत्र दोषत्वेन परमुखनिरीक्षकत्वेन उपाधेर्न हेत्वाभासत्वम् । अनुमानप्रकारच वह्निर्धूमव्यभिचारी तद्वयापकाद्वैन्धनसंयोगव्यभिचारित्वात् । यो यद्वधापकव्यभिचारी स तद्व्यभिचारी । यथा - घटत्वव्यापकपृथिवीत्वव्यभिचारिगुणत्वं घटत्वव्यभिचारीति । साध्यव्यापकोपाधिव्यभिचारिणः साधनस्य साध्यव्यभिचारावश्यम्भावात् । उपाधिश्चतुविधः शुद्धसाध्यव्यापकत्वे सति साधनाव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकः, साधनावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकत्वे सति साधनाव्यापकश्चेति । आद्य आर्द्रेन्धनसंयोगः । द्वितीयः यथा - वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्न बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भ ूतरूपवत्त्वम् । तृतीयो यथा - प्रागभावो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् । चतुर्थो यथाप्रागभावो विनाशी प्रमेयत्वादित्यत जन्यत्वावच्छिन्नानित्यत्वव्यपकं भावत्वम् i
केचित्तु सत्प्रतिपक्षोत्थापनमुपाधेः फलम् । तथाहि — अयोगोलकं धूमवद्वह्नेरित्यादौ अयोगोलकं धूमाभाववत् आर्द्रेन्धनाभावादिति सत्प्रतिपक्षसम्भवात् । इत्थं च साधनव्याप कोऽपि क्वचिदुपाधिः । यथा - करका पृथिवी कठिनसंयोगवत्त्वादित्यादी अनुष्णाशीतस्पर्शवत्त्वम् । न चात्र स्वरूपासिद्धिरेव दूषणमिति वाच्यम् । सर्वत्रोपाधेः दूषणान्तरसाङ्कर्यात् । अत्न व साध्यव्यापकः पक्षावृत्तिरुपाधिरित्याहुः ।
साध्याप्रसिध्यादयस्तु व्याप्यत्वासिद्धिमध्येऽन्तर्भूताः । साध्ये साध्यतावच्छेदकस्याभावः साध्याप्रसिद्धिः काञ्चनमयवह्नी साध्ये काञ्चनमयत्वाभाववद्वह्निः, एतन्निश्चयस्य साध्यतावच्छेदकविशिष्टसाध्यपरामर्शप्रतिबन्धः फलम् । एवं हेतौ हेतुतावच्छेदकाभावः साधनाप्रसिद्धिः । यथा - काञ्चनमयधूमादित्यादी अत हेतुतावच्छेदकविशिष्ट हेतुज्ञानाभावात् तद्धेतुकव्याप्तिज्ञानादेरभावः फलम् । एवं वह्निमान् नीलधूमादित्यादौ गुरुतया नीलधूमत्वस्य हेतुतानवच्छेदकत्वमपि व्याप्यत्वासिद्धिः । नीलधूमत्वं हि गुरुतया न हेतुतावच्छेदकं स्वसमानाधिकरणव्याप्यतावच्छेदकधर्मान्तराघटितस्यैव व्याप्यतावच्छेदकत्वात् । अत स्वसमानाधिकरणेत्यस्यानिवेशे व्याप्यतावच्छेद की भूतधूमत्वघटितत्वेन धूमप्रागभावस्य सङ्ग्रहो न स्यात् इति ।
[[127]]
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वहिरनुष्णः पदार्थत्वात् जलवत् । अत्र अनुष्णत्वं साध्यम् । तदभावः उष्णत्वं त्वाच - प्रत्यक्षेण गृह्यत इति बोध्यम् ।
साध्याभाववत्पक्षः वाधः । अनुष्णत्वाभाववान् वह्निः इति वाधनिश्चयस्य वह्निरनुष्णः इत्यनुमिति प्रति तदभाववत्तानिश्चयमुद्रया प्रतिवन्धकत्वेन तादृश निश्चयविषयानुष्णत्वाभाववद्वह्नौ हेत्वाभासत्वमुपपन्नम् । पक्षावृत्तिसाध्य - साध्यानधिकरणपक्ष-पक्षवृत्तिसाध्याभावादीनां पक्षविशेष्यकसाध्यप्रकारकानुमितिप्रतिवन्धकत्वेन विशेषणविशेष्यभावव्यत्ययेऽपि वाघ एवान्तर्भावः । एवं व्यभिचारादिसर्वहेत्वाभासेषु विशेषणविशेष्यभाववैपरीत्येन प्राप्तानां रूपान्तराणामपि यथायथं तेषु तेष्वेवान्तर्भावः । एवमेव बाधसत्प्रतिपक्षभिन्नानां तत्तद्धेत्वाभासव्याप्यानां तत्तद्धेत्वाभासेष्वन्तर्भावः कार्यः । यथा साध्याभाववद्वृत्तित्त्वशिष्टहेतोर्व्यभिचारित्वे साध्याभाववद्वृत्तिव्याप्यहेतुरपि व्यभिचार्येव । हेत्वभाववत्पक्ष द्भव हेत्वभावव्याप्यवपक्षोऽपि स्वरूपासिद्धिरेव । एवमन्यत्रापि व्याप्यानां दोषत्वमूह्यम् । वाधव्याप्यस्य सत्प्रतिपक्षरूपतया न बाधेऽन्तर्भावः । सत्प्रतिपक्षव्याप्यस्य हृदो वह्निमानित्यादौ बल्लभभावव्याप्यव्याप्यवद्धुदादेः अनुमितितत्करणान्यतरप्रतिवन्धकयथार्थज्ञानविषयत्वाभावेन न हेत्वाभासत्वम् । एवं चेत् अनुमितितत्करणान्यतरप्रतिबन्धकत्वेन द्विधा विभाग एवोचितः । बाघविरुद्धसत्प्रतिपक्षाणामनुमितिप्रतिवन्धकत्वेन अन्येषां च अनुमितिकरणप्रतिवन्धकतया ऐक्यादिति न मन्तव्यम्, स्वतन्त्रेच्छस्य मुनेः नियोगपर्यनुयोगानर्हत्वात् । ( नियोगः प्रश्नः, पर्यनुयोग : निन्दा । )
तु
[[11]]
’ साध्यशून्यो यत्न पक्षस्त्वसौ बाघ उदाहृतः । उत्पत्तिकालीनघटे गन्धादिर्यत साध्यते ॥ ’ इति कारिकावती । साध्याभाववत्पक्षः, साध्यवदन्यपक्षो वा बाधः इति पूर्वमुक्तम् । तन्निश्चयस्य अनुमितिप्रतिबन्धः फलमित्यप्युक्तम् । अनाहार्यलौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्धर्मावच्छिन्नतत्सम्बन्धावच्छिन्नप्रकारता निरूपिततद्धर्मावछिन्नविशेष्यताशालिबुद्धित्वावच्छिन्नं प्रति अनाहार्याप्रामाण्यज्ञानानास्कन्दिततद्धर्मावच्छिन्नविशेष्यतानिरूपिततद्धर्मावच्छिन्नतत्सम्वन्धावच्छिन्नप्रतियोगिताकाभावनिश्चयः प्रतिबन्धकः इति, तद्वत्ताबुद्धि प्रति तदभाववत्तानिश्चयः प्रतिबन्धक ’ इति प्रतिबध्यप्रतिबन्धकभावस्य निष्कर्षः ।
[[128]]
नच वाघस्यले पक्षे हेतुसत्त्वे व्यभिचारः, पक्षे हेत्वभांवे स्वरूपासिद्धिरेव दोषः इति वाच्यम् ।
वाधज्ञानस्य व्यभिचारज्ञानादेर्भेदात् । बाघज्ञानस्यानुमितिप्रतिबन्धकत्वात्, व्यभिचारज्ञानस्य अव्यभिचारांशग्रहप्रतिबन्धकत्वात् स्वरूपासिद्धिज्ञानस्य पक्षधर्मताज्ञान प्रतिबन्धकत्वाच्च त्रयाणां फलभेदात् बाघस्य हेत्वाभासत्वं व्यभिचारादिभिन्नदोषत्वं चाङ्गीकर्तव्यम् । किञ्च परामर्शोत्तरकालीनवाधज्ञानस्थले व्यभिचारज्ञानादेः व्याप्तिज्ञानप्रतिबन्धद्वारा अनुमित्यनुत्पादफलत्वाभावेन तत्नानुमित्यापत्त्या हेतोर्दुष्टत्वानुपपत्त्या च बाधज्ञानस्यानुमितिप्रतिबन्धकत्वं तद्विषयवाधरूपदोषमादायैव हेतोर्दुष्टत्वं चोपपादनीयम् । अपि च यत्नोत्पत्तिक्षणावच्छिन्ने घटादी गन्धव्याप्यपृथिवीत्ववत्ताज्ञानं तत्र वाघस्यैव प्रतिवन्धकत्वं वाच्यम् । अतः वाधस्थले व्यभिचारस्वरूपासिध्यन्यतरनियमस्यापि स्थलविशेषे भङ्गात् तस्य पृथग्घेत्वाभासत्वम् । नत्र पक्षे घटे गन्धसत्त्वात् कथं वाध इति वाच्चम् ; पक्षतावच्छेदकदेशकालावच्छेदेनानुमितेरप्यनुभवसिद्धत्वात् । एतादृशमसङ्कीर्णम्बाधोदाहरणमेव – ’ उत्पत्तिकालीनघटे गन्धादिर्यन्त साध्यते’ इति कारिकायां प्रदर्शितम् । एवं मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यत्रापि वाधस्यैव हेत्वाभासत्वं वक्तव्यमिति ।
/
इत्यनुमानपरिच्छेदः
अथोपमानपरिच्छेदः
उपमितिकरणमुपमानम् । सञ्ज्ञासञ्ज्ञिसम्बन्धिज्ञानम्म्रुपमितिः । तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणं व्यापारः ।
अवसरप्राप्तं उपमानप्रमाणं निरूपयतिउपमितीति । उपमितिनिरूपितकरणत्वमुपमानस्य लक्षणम् । उपमितित्वावच्छिन्नकार्यतानिरूपितकारणतांश्रयत्वे सति उपमितिजनकव्यापारजनकत्वमिति यावत् । उपमितित्वावच्छिन्ना या कार्यता गवयः ( अयं ) गवयपदवाच्यः इत्याकारकगवयत्वावच्छिन्नविशेष्यकगवयपदवाच्यत्वप्रकारकोपमितौ विद्यमाना कार्यता, तन्निरूपिता या कारणता गोसदृशो गवयपदवाच्य इत्याकारकगोसदृशत्वावच्छिन्नविशेष्यकङ्गवयपदवाच्यत्वप्रकारकज्ञानात्मकोपमान निष्ठा
कारणता, तदाश्रयत्वस्य, गोसदृशो गवयपदवाच्यः
इत्याकारकातिदेशवाक्यार्थविषयकस्मरणरूपव्यापारजनकत्वस्य च गोसदृशो गवयपदवाच्य इत्याकारकातिदेश-
[[129]]
वाक्यार्थज्ञानरूपोपमाने सत्त्वाल्लक्षणसमन्वयः ।
गवयः गवयपदवाच्यः इति ज्ञानमुपमितिः । गोसदृशो गवयपदवाच्यः इत्यतिदेशवाक्यार्थस्मरणं व्यापारः । गोसदृशो गवयपदवाच्यः इत्यतिदेशवाक्यार्थज्ञानमुपमानम् । उपमानलक्षणे विशेष्यमात्रोक्ती ईश्वरादृष्टादौ विशेषणमात्रोक्तौ व्यापारे चातिव्याप्तिरिति दलद्वयोपादानम् । प्रतिबन्धकवशात् यत्र उपमानोत्पत्त्यनन्तरम् उपमितिर्न जाता तत्रोपमितिकरण त्वाभावादव्याप्तिः प्राप्ता । तथापि फलोपधायकत्वाभावेऽपि स्वरूपयोग्यत्वरूपकारणत्वमव्याहतमिति बोध्यम् । सञ्ज्ञा नाम वाचकः शब्दः ।
सञ्ज्ञा नाम वाचकः शब्दः । सञ्ज्ञी वाच्यार्थः । सञ्ज्ञासञ्ज्ञिनोः सम्बन्धः वाच्यवाचकभावरूपः तस्य ज्ञानम् । तथाच पदवाच्यत्वप्रकारकज्ञानविशेषः उपमितिशब्दवाच्य इति भावः । अनेन तुल्यत्वज्ञानरूपा उपमितिः प्रकृते न विवक्षितेति सूचितम् । पदपदार्थसम्बन्धविषयकत्वे सति ज्ञानत्वमुपम्मितेर्लक्षणम् । अयं गवयपदवाच्य इत्युपम्मितौ पदपदार्थसम्बन्धरूपवाच्यत्वविषयकत्वस्य ज्ञानत्वस्य च सत्त्वात्समन्वयः । ज्ञानत्वमात्रोक्त अनुमित्यादौ तदनुक्तौ पदपदार्थविषयकसंस्कारे चातिव्याप्तिरित्युभयोपादानम् । सादृश्यज्ञानं करणमित्युक्तया च सादृश्यविशिष्टपिण्डदर्शनं करणमिति, अतिदेशवाक्यार्थशाब्दबोधः करणमिति, अतिदेशवाक्यार्थस्मरणं अव्यवहितपूर्ववृत्तितया करणमिति मतत्रयस्यापि सङ्ग्रहः ।
तथाहि — कश्चित् गवयपदार्थमजानन् कुतश्चिदारण्यकपुरुषात् गोसदृशो गवयः इति श्रुत्वा वनं गतो वाक्यार्थ स्मरन् गोसदृशं पिण्डं पश्यति । तदनन्तरं ‘अयं गवयपदवाच्यः’ इत्युपमितिरुत्पद्यते ।
अनेन वाक्यसमुदायेन उपमित्युत्पत्तिप्रकारः उपपादितः । इयं च साधम्योम्पमितिरित्युच्यते । वैधम्र्म्यापमितिरपि अनुभूयते । यथा - अतिदीर्घकण्ठत्वादि - पश्चन्तरवैधर्म्यज्ञानात् उष्ट्रे करभपदवाच्यत्वग्रहो भवति ।
·
नेदमवधेयम् । ’ सम्बन्धस्य परिच्छेदः सञ्ज्ञायाः सञ्ज्ञिना सह । प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥’ इत्युदयनाचार्यैः उपमानस्य प्रमाणान्तरत्वं व्यवस्थापितम् । सम्बन्धपरिच्छेदो नाम सम्बन्धविषयकनिश्चयात्मकज्ञानम् । सम्बन्धश्च वाच्यवाचकभाव इति ।
वाच्यवाचकभावरूपशक्तिपरिच्छित्तिरुपमानफलमित्युक्तं भवति । कार्यकारणभावपरिच्छित्तिरूपाप्युपमितिः । तथा हि - ’ मुद्गपर्णीसदृशौषधिः
[[130]]
ज्वरहरा’ इति वैद्यस्य वाक्यं श्रुत्वा तदर्थबोधानन्तरं मुद्गपर्णीसादृश्य विशिष्टौषधिदर्शनेन
मुद्गपर्णीसादृश्य विशिष्टं विशेष्यकज्वरहरत्वप्रकारकातिदेशवाक्यार्थस्मरणानन्तरं ’ इयं ज्वरहरा’ इत्याकारककार्यकारणभावपरिच्छेदात्मकोपमितिमङ्गीकुर्वन्ति दीधितिकाराः । तन्मते सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानत्वस्य लक्षणत्वेन वक्तुमशक्यतया उपमितित्वजातिमत्त्वमेव लक्षणम् ।
इत्युप मितिपरिच्छेदः
अथ शब्दपरिच्छेदः
आप्तवाक्यं शब्दः ।
अथ शब्दप्रमाणं निरूप्यते । किं नाम शब्दप्रमाणम् ? न ध्वनिः ( Sound), न वर्णः (Letter), न केवलशब्दः (Single word ), तस्य शाब्दबोधजनकत्वाभावात् नाप्यनाप्तवाक्यम्, तस्य शाब्दप्रमाजनकत्वाभावात् । अतः ‘आप्तोपदेशः शब्दः ’ इति गौतमसूत्रानुसारेण शब्दप्रमाणलक्षणमाह - ’ आप्तवाक्यं शब्दः’ इति ।
आप्तप्रयुक्तत्वे सति वाक्पत्वं शब्दप्रमाणस्य लक्षणम् । गामानयेत्यादिप्रमाणवाक्येषु लक्षणसमन्वयः । विशेष्यमात्त्रोक्तौ अनाप्तोच्चरितवाक्ये, विशेषणमानोक्तौ हयवरडादौ अतिव्याप्तिरित्युभयोपादानम् । । अत्र प्रमाणशब्दत्वमेव लक्ष्यतावच्छेदकम् । शब्दत्वमात्तस्य तथात्वे वह्निना सिञ्चतीत्य प्रमाणवाक्यस्यापि लक्ष्यत्वप्राप्त्या तत्नोक्तलक्षणासत्त्वादव्याप्तिः स्यात् । प्रमाणशब्दत्वस्य लक्ष्यतावच्छेदकत्वे निरुक्तवाक्यस्यालक्ष्यतया नोक्तदोषः । नन्वेवमपि यथार्थज्ञानजनकशब्दप्रयोगकर्ता प्रथमं महानसो वह्निमानित्युक्त्वा, तदनन्तरं हृदो वह्निमान् इत्युक्ते तत्नाप्तोच्चरितत्ववाक्यत्वयोः सत्त्वादतिव्याप्तिरिति चेत् न; अत प्रकृतप्रयोगहेतुभूतयथार्थज्ञानवत्प्रयुक्तवाक्यत्वस्य विवक्षणात् । हृदो वह्निमानिति वाक्यं प्रति भ्रमज्ञानस्यैव कारणत्वात् यथार्थज्ञानवत्प्रयुक्तवाक्यत्वाभावान्नातिव्याप्तिः ।
पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः । शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ॥’ इति कारिकोक्तदिशा पदज्ञानं शब्दज्ञानपदवाच्यमेव शब्दप्रमाणम्, न तु शब्दः । तथा सति ज्ञायमानशब्दस्य करणत्वं वक्तव्यमिति पदाभावेऽपि मौनिश्लोकादौ शाब्दबोधात् व्यतिरेकव्यभिचारः स्यात् । पदजन्यपदार्थस्मरणं व्यापारः ।
[[131]]
तस्य हि पदज्ञानजन्यत्वात् पदज्ञानजन्यशाब्दबोधजनकत्वाच्चं व्यापारत्वम् । एतादृशव्यापारानङ्गीकारे पदज्ञानवतः प्रत्यक्षादिना पदार्थोपस्थितावपि शाब्दबोधापत्तिः । तत्रापि वृत्त्या पदजन्यत्वं बोध्यम् । अन्यथा घटादिपदात् समवायसम्बन्धेन आकाशस्मरणे जाते आकाशस्यापि शाब्दबोधापत्तिः इति बोध्यम् ।
आप्तस्तु यथार्थवक्ता ।
‘आप्तवाक्यं शब्दः ’ इत्यत्र आप्तः न केवलं मितं, न वा यथार्थज्ञानयुक्तः, ‘विप्रलम्भनेच्छ्या तदुक्तः अयथार्थत्वसम्भवात् । अतः आप्तलक्षणमाह - आप्तस्तु इति । अबाधितार्थविषयकज्ञानजनक शब्दप्रयोगाश्रयः आप्तः । महानसो वह्निमान् इति शब्दप्रयोक्तरि अबाधितार्थविषयकज्ञानजनकशब्दप्रयोक्तृत्वसत्त्वात् समन्वयः । ननु महानसो वह्निमानिति पूर्वकालावच्छेदेन प्रयोक्तरि, हदो वह्निमान् इति इदानीं वक्तरि अनाप्ते अतिव्याप्तिः । तस्यापि पूर्वं यथार्थज्ञानजनक शब्दप्रयोक्तृत्वादिति वाच्यम् । यस्मिन् काले यः यथार्थवक्ता तदानीं स आप्त इत्यङ्गीकारात् । प्रकृतप्रयोगकाले अयथार्थवक्तरि अनाप्तत्वमेवेति न दोषः ।
वाक्यं तु पदसमूहः । यथा - गामानयेति ।
वाक्यमिति
शब्दप्रमाणलक्षणघटकवाक्यं निर्वक्ति - वाक्यं त्विति । गोपद-द्वितीयाविभक्तिबाङ् पूर्वकनीघातु-लोट्प्रत्ययरूपपदसमुदायरूपत्वादस्य वाक्यत्वम् । अन तार्किकमते किञ्चिदर्थबोधकं पदम् । तदेव शक्तमित्युच्यते । शक्तपदसमूह एव वाक्यम् । वैयाकरणास्तु परस्परान्वयिभावापन्नक्रियाकारकवाचकपदसमुदायः वदन्ति । ताकिकमते तु पदसमूहमात्तस्य वाक्यत्वेन क्रियापदसमभिव्याहारनियमाभावात् ‘नीलो घटः’ इति क्रियावाचकपदप्रयोगविरहस्थलेऽपि वाक्यत्वं सम्मतमेव । वस्तुतः ‘घटः’ इत्यपि तार्किकमते वाक्यमेव । सुप्रत्ययेन एकत्वस्य, घट्पदेन घटस्य च बोधेन एकत्वविशिष्टो घटः इति विशिष्टवोधजननात् । क्रियां विना वाक्यपरिसमाप्तेरभावात् नीलो घट इत्यादि स्थले क्रियाध्याहारः तैः क्रियते इति ।
शक्तं पदम् । अस्मात् पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः ।
वाक्यं तु पदसमूह इत्यत्न पदं सुप्तिङन्तमिति परिभाषितं वा ? अथवा पद्यते गम्य॒ते अर्थः अनेनेति व्युत्पत्त्या अर्थप्रत्यायकवर्णमात्रम् ? इति शङ्कायां तर्कानुसारे-
[[132]]
गाह - शक्तमिति । शक्त्या किञ्चिदर्थबोधकत्वं पदलक्षणम् । तार्किकाणां मते अवयव - शक्तया (योगेन) अर्थाङ्गीकारात् केवलविभक्तीनां कृत्तद्धितादिप्रत्ययानां, प्रकृतीनां च पदत्वं निर्विवादम् । सुप्तिङन्तं पदमिति आतिष्ठमाना वैयाकरणाः प्रकृतिप्रत्ययसमुदाय एव पदमित्यभ्युपगच्छन्ति । तेषां मते ’ शिवः रक्षति’ इत्यादीनामेव पदत्वम् । नैयायिकानां मते शिवेति प्रकृतिरेकं पदम् । सुप्रत्ययः पदान्तरम् ।
रक्षेति
लक्षणया अर्थबोधकं लाक्षणिकम् ।
प्रकृतिरेकं पदम् । तिप्रत्ययः पदान्तरम् । अन यद्यपि शक्तं पदमित्युक्तम् । तथापि तत् लाक्षणिक पदस्याप्युपलक्षकम् ।
। अतश्च पदं द्विविधं शक्तं, लाक्षणिकं चेति !
शक्त्या अर्थवोधकं शक्तम् । एवमर्थोऽपि द्विविधः शक्यो लक्ष्यश्चेति । शक्त्या बोध्यः शक्यः, लक्षणया बोध्यः लक्ष्यः । शब्दबोधोपयिकः पदपदार्थयोः सम्वन्धः वृत्तिः । सापि द्विविधा शक्तिर्लक्षणा चेति । तन्त्र शक्तिस्वरूपमुक्तम् - अस्मात्पदादिति । ईश्वरसङ्केतो नाम ईश्वरेच्छा । एतत्पदजन्यबोधविषयत्वप्रकारिका एतदर्थविशेष्यिका ईश्वरेच्छा शक्तिरित्यर्थः। एतादृशेच्छारूपशक्तौ अर्थस्य विशेष्यतया शक्तिर्निरूपितमुख्यविशेष्यतायत्वं शक्यत्वमिति सिद्धम् । शक्तौ परम्परया पदस्य प्रकारत्वेन शक्तिनिरूपितपरम्परासम्वन्धावच्छिन्न प्रकारताश्रयत्वं शक्तत्वम् । शक्तिनिरूपितपरम्परासम्वन्धावच्छिन्नप्रकारत्वं नाम शक्तिनिरूपितमुख्यविशेष्यतानिरूपित प्रकारतानिरूपितप्रकारतानिरूपितप्रकारताश्रयत्वम् । अयमर्थः एतत्पदजन्यबोधविषयो भवतु
इतीश्वरे-
छायाः शक्तिरूपतया शक्तिनिरूपिता मुख्यविशेष्यता अर्थनिष्ठा, तन्निरूपिता प्रकारता विषयत्वनिष्ठा, तन्निरूपिता प्रकारता बोधनिष्ठा, तन्निरूपिता प्रकारता जन्यत्वनिष्ठा, तन्निरूपिता प्रकारता पदनिष्ठा, तदाश्रयत्वं पदे । अत विशेष्यतायां मुख्यत्वानिवेशे बोधांशे विषयत्वस्यापि विशेष्यतया शक्तिनिरूपितविशेष्यतापदेन विषयत्वनिष्ठविशेष्यतायाः परिग्रहे तन्निरूपितनिरुक्तप्रकारताश्रयत्वस्य तत्तत्प दत्व रूपानुपूर्व्या तत्तत्पदत्वरूपानुपूर्व्या “सत्त्वात् आनुपूर्व्यामपि तदर्थशक्तताव्यवहारप्रसङ्गः । विशेष्यतायां मुख्यत्वनिवेशे तु विषयत्वनिष्ठा विशेष्यता न मुख्या भवतीति नातिव्याप्तिः । विशेष्यतायां मुख्यत्वं च प्रकारत्वानवच्छिन्नत्वम् ।
जलमानयति चैत्र । इत्यन शक्तिज्ञानजन्यशाब्दबोधसामग्री निरूप्यते । प्रथम तदनु शक्तिज्ञानम् । उभाभ्यामाभ्यां पदजन्यपदार्थोपस्थितिः ।
पदज्ञानम् ।
[[1]]
[[133]]
[[9]]
ร
तदनु शाब्दबोधः । यथा प्रकृते प्रथमं जलपदज्ञानम् ।
यथा प्रकृते प्रथमं जलपदज्ञानम् । ततः अम्पदज्ञानम् । तदन्नु आङ्पूर्वकेनीधातुज्ञानम् । तदनु आख्यातज्ञानम् । इदमेव पदज्ञानमित्युच्यते । ततः जलपदस्य जले शक्तिः, अम्पदस्यं कर्मत्वे शक्तिः, आङ्पूर्वकनयतेरानयने शक्तिः, आख्यातस्य कृतौ शक्तिरितिज्ञानं शक्तिज्ञानम् । तदनु जलपदात् जलोपस्थितिः, अम्पदात् कर्मत्वोपस्थितिः, आङ्पूर्वकनीधातोः आनयनोपस्थितिः, आख्यातात् कृतेरुपस्थितिः । तदनु आकाङ्क्षायोग्यतासन्निधितात्पर्यज्ञानादिसामग्रीबलात् जलकर्मकानयनानुकूलकृतिमान् चैत्रः इति जलकर्मकानयनानुकूलकृति प्रकारकः चैत्रविशेष्यकः बोधो जायते ।
अथ लक्षणा निरूप्यते । शक्यसम्बन्धो लक्षणा । स च सम्बन्धः क्वचित् साक्षात् । क्वचित् परम्परया । यथा - गङ्गायां घोषः इत्यत्र गङ्गापदशक्य प्रवाहस्य संयोगरूपसाक्षात्सम्बन्धः तीरे । अतः गङ्गापदात् तीरबोधे साक्षात्सम्बन्धः प्रयोजकः । मचाः क्रोशन्ति, यष्टीः प्रवेशय इत्यादिस्थलेष्वपि स्वशक्यमश्वयष्टघादिसंयोगरूपसाक्षात्सम्वन्धः पुरुषबोधोपयोगी । काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदशक्यकाकानां स्वनिष्ठदध्युपघातकत्वाश्रयत्वरूपपरम्परासम्बन्धः दध्युपघातके दध्युपघातकत्वा-. वच्छिन्नबोधोपयोगी ।
एवं द्विरेफपदशक्यरेफद्वयस्यं स्वघटितपदवाच्यत्वरूपपरम्परासम्बन्धः द्विरेफपदात् भ्रमरवोधे समुपयुज्यते । एवं रीत्या स्थलान्तरेष्वपि साक्षात्परम्परासम्वन्धानां लक्षणात्वं वोध्यम् ।
लक्षणा द्विविधा जहत्स्वार्था, अजहत्स्वार्था चेति । शक्यार्थत्यागपूर्वकं तत्सम्वन्धिनोऽन्यार्थस्य
यत तात्पर्यं सा जहल्लक्षणा ।
शक्यतावच्छेदकाप्रकारकलक्ष्यतावच्छेदकप्रकारकवोधप्रयोजिका जहल्लक्षणा इति यावत् । यथागङ्गायां घोष इत्यत्र शक्यतावच्छेदकप्रवाहत्वा प्रकारकलक्ष्यतावच्छेदकती रत्वप्रकारक - वोधजननात् समन्वयः । अन तीरे घोष इति वोधो जायते । शक्यार्थपरित्यागे सत्यन्यार्थग्रहणं जहल्लक्षणयेति तात्पर्यम् ।
लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयार्थबोधप्रयोजिका लक्षणा अजहल्लक्षणा । काकेभ्यो दधि रक्ष्यतामित्यन्न दध्युपघातकत्वरूपेण काककुक्कुटविडालादिशक्यलक्ष्योभयबोधप्रयोजिका अजहल्लक्षणा । शक्यार्थापरित्यागेन अन्यार्थग्रहणमनहल्लक्षणयेति
[[134]]
तात्पर्यम् । . न्यायमते जहदजहल्लक्षणा नाङ्गीक्रियते ।
। क्वचित् तत्त्वमसीत्यादौ जंहदजहल्लक्षणाप्रतिपादनं तु वेदान्तिमतानुसारेण । गोणी वृत्तिः सिंहो माणवक इत्यादी । सापि लक्षणायामन्तर्भवति ।
शक्तिविचारः
नन्नु ईश्वरेच्छायाः ऐक्यात् नित्यत्वाच्च ‘घटपदाद् घटो वोद्धव्यः’, ‘पटपदात् पटो वोद्धव्यः’ इति समूहालम्बनात्मकेश्वरेच्छायाः पटेऽपि सत्त्वेन पटस्य घटपदवाच्यत्वापत्तिः । एवं गङ्गापदजन्यबोधविषयत्वप्रकारकेश्वरेच्छायाः तीरेऽपि सत्त्वेन शक्त्यैव तीरवोधे लक्षणोच्छेदापत्तिश्चेति चेन्न ।
तत्पदजन्य बोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन ईश्वरेच्छैव तत्पदंशक्तिरिति स्वीकारेण, तीरं बोधविषयो भवतु, बोधः गङ्गापदजन्यो भवतु इति विशृङ्खलेच्छायाः लक्षणास्थले स्वीकारेण तीरनिष्ठविषयतायाः बोधविषयतात्वावच्छिन्न प्रकारतानिरूपितत्वेऽपि गङ्गापदजन्यबोधविषयतात्वावच्छिन्नप्रकारन्ता-. निरूपितत्वाभावात् न तादृशसम्बन्धेन ईश्वरेच्छावत्त्वं तीरस्येति न लक्षणोच्छेदः । घटो घटपदाद् वोद्धव्यः, पटः पटपदाद् बोद्धव्यः ईदृश्या ईश्वरेच्छायाः शक्तिस्थले स्वीकारेण घटपदजन्यवोधविषयतात्वावच्छिन्न प्रकारतानिरूपित विशेष्यता सम्वन्धेन ईश्वरेच्छायाः घण्ट एव सत्त्वेन पटे न घटपदवाच्यत्वव्यवहारः इत्याशयात् ।
ईश्वरसङ्केतः शक्तिरित्यत्र सङ्केत इच्छा । आधुनिकैः पित्रादिभिः एकादशेऽह्नि सङ्केतिते नाम्नि चैत्र मैनादावपि शक्तिरस्त्येव । एकादशेऽहनि पिता नाम कुर्यादिति एकादशाहकालीनपिनुच्चारणविषयनामत्वेन सामान्यरूपेण ईश्वरेच्छायाः सत्त्वात् । आधुनिकमातसङ्केतिते नदीवृद्धयादिपदे तु न शक्तिः, तत्र शक्तिभ्रमादेवं बोध इति ।
नव्यास्तु ईश्वरेच्छा न शक्तिः, किन्तु इच्चैव ।
नदीवृद्धयादिपदादपि शाब्दबोधोपपत्तिः इत्याहुः । गर्गर्यादिपदाद्बोधस्तु शक्तिभ्रमादेव । अतः शांव्दवोधोपपत्तिः इति ।
अतः आधुनिकमात्त्रसङ्केतिताउभयमतेऽपि अपभ्रंशात्मक-
संस्कृतेतराधुनिकभांषाभ्योऽपि
अत्रेदमवर्धयम् । पदेनार्थबोधे वृत्तिः सहकारिणी। सा च निरूपकतासम्वन्धेन पदनिष्ठा, विषयतासम्बन्धेनार्थनिष्ठा । वृत्तिद्वेधा शक्तिर्लक्षणा चेति । च व्याकरणादिना भवति-
शक्तिज्ञानं
[[135]]
शक्तिग्रहं व्याकरणोपमान कोशाप्तवाक्याद्वयवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥ इत्युक्तः ।
डु
धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद्भवति ।
यथा भू सत्तायः, पचष् पाके इति व्याकरणात् भू आदि धातूनां सत्तादौ शक्तिग्रहः । ‘लः कर्मणि च भावे चाकर्मकेभ्यः ’ इति सूत्रेण लकाराणां कृतौ शक्तिग्रहः । ’ वर्तमाने लट् ’ इति. लटः वर्तमाने शक्तिग्राहकं व्याकरणम् ।
उपमानात् शक्तिग्रहस्तुक्त एव । ‘अप्येकदन्तहेरम्बलम्बोदरगजाननाः’ इति कोशात् हेरम्वपदस्य गणेशे शक्तिग्रहः ।
एवमाप्तवाक्यादपि शक्तिग्रहः । यथा - कोकिलः पिकपदवाच्यः, हंसो मरालपदवाच्यः इत्यादिवाक्यात् पिकमरालादिपदानां कोकिलहंसादौ शक्तिग्रहः ।
व्यवहारः क्रिया । यथा— प्रयोजकवृद्धः गामानय इति वदति । तच्छ्रुत्वा प्रयोज्यवृद्धः गामानयति । तदवधार्य पार्श्वस्थो वालः गवानयनरूपं कार्यं गामानयेति शब्दप्रयोज्यमित्यवधारयति । ततश्च ग़ां नय, अश्वमानय इत्यादिवाक्यादावापोद्वापाभ्यां गोपदस्याश्वपदस्य च सांस्त्रादिमत्त्वैकशफत्वादिविशिष्टव्यक्तिविशेषयोः शक्ति गृह्णाति ।
[[1]]
वाक्यशेषात् शक्तिग्रहो यथा - ’ यवमयः चरुर्भवति’ इत्यत्न यवशब्दः वृद्धव्यवहारात् दीर्घशुकविशिष्टव्रीहिवाचकः अथवा म्लेच्छव्यवहारात् प्रियङ्गुवाचकः अथवा कर्नाटव्यवहारात् क्षेत्रगोधूमवाचकः इति संशये ‘वसन्ते सर्वसस्यानां जायते सन्नशातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः’ इति वाक्यशेषात् दीर्घशूक विशिष्टे शक्तिग्रहः । वाक्यशेषो नाम शिष्टवाक्यं, परिसङ्ख्यावाक्यमिति यावत् । तादृशवाक्यजन्यशाब्दबोधात् शक्तिग्रहः भवतीत्यर्थः ।
विवरणात् यथा-पचतीत्यस्य पाकं करोतीति विवरणात् आख्यातस्य यत्ने शक्तिग्रहः । यया वा घटोऽस्तीत्यस्य कलशोऽस्तीति विवरणात् शक्तिग्रहः ।
सिद्धपदसान्निध्याद्यथा - इह सहकारतरौ मधुरं पिको रोतीत्यादौ सहकारतरौ मधुररावकर्ता कोकिल एवेति निश्चयवतः पिकशब्दस्य कोकिले शक्तिग्रहः । यथा वा वाडवो वेदपाठक इत्यत्र वेदपाठकत्वसमानाधिकरणत्वात् वाडवपदवाच्यत्वं ब्राह्मणे गृह्णाति । अन पाठकत्वमध्यापकत्वं तेन क्षत्रियादिवारणम् ।
[[136]]
यथा—’ लः क्वचित् सति वाधके व्याकरणादिगृहीतः अपि सङ्केतः त्यज्यते । कर्मणि च भावे चाकर्मकेभ्यः ’ इतिसूत्रे ’ कर्तरि कृत् ’ इतिसूत्नात् कर्तरि इत्यनुवृत्त्या वैयाकरणाः आख्यातस्य कर्तरि शक्ति ब्रुवन्ति । चैत्रः पचतीत्यादौ कर्ता सह चैत्रस्याभेदान्वयः ।
एवं च देवदत्तस्तण्डुलं पचतीत्यत्र देवदत्ताभिन्नैकत्वावच्छिन्नाश्रयवृत्तिः तण्डुलनिष्ठ विक्लित्त्यनुकूलः वर्तमानकालिको व्यापार इति बोधः । देवदत्तेन तण्डुलः पच्यते इत्यत्र देवदत्ताभिन्नकर्तृ वृत्तिवर्तमानकालिकव्यापारजन्यतण्डुलाभिन्नैकत्वावच्छिन्नाश्रयवृत्तिः विक्लित्तिः इति बोध इति वैयाकरणाः । परन्तु कर्तरि कर्मणि च शक्तिस्वीकारे कर्तृत्वं कर्मत्वं च शक्यतावच्छेदकम् । कर्तृ त्वं च कृतिमत्त्वं, तच्च कृतिरेव । कर्मत्वं फलवत्त्वं तच्च फलमेव । ततश्चानन्तकृतीनां फलानां च शक्यतावच्छेदकत्वस्वीकारेण गौरवम् । कृतौ, फले च शक्तिस्वीकारे कृतित्वफलत्वयोरनुगतयोः शक्यतावच्छेदकत्वेन लाघवम् । अतो नैयायिकैः कृतौ फले च शक्तिरुपेयते । एतन्मतानुसारेण देवदत्तस्तण्डुलं पचतीत्यत्र तण्डुलवृत्तिविविलत्यनुकूलव्यापारानुकूलवर्तमानकालिककृतिमानेकत्वावच्छिन्नो देवदत्त इति वोधः । देवदत्तेन तण्डुलः पच्यते इत्यत्र च देवदत्तवृत्तिकृतिजन्यव्यापारजन्यवि क्लित्त्याश्रयः एकत्वावच्छिन्नस्तण्डुल इति वोधः ।
न चैवमाख्यातेन कर्तुरनभिधानात् चैत्रादिपदोत्तरं ‘अनभिहिते’ इत्यधिकारीयेण ’ कर्त करणयोस्तृतीया’ इतिसूत्रेण तृतीया स्यादिति वाच्यम् । कर्तृसङ्ख्यानभिधानस्यैव तृतीयायां प्रयोजकत्वात् । अनभिहिते इत्यस्य कर्तृकरणयोस्तृतीयेत्येतदेकवाक्यतापन्नाभ्यां ’ द्वयेकयोद्विवचनैकवचने, बहुषु वहुवचनम्’ इत्येताभ्यां सङ्ख्यावाक्याभ्याम् अन्वयात् कर्तृगतैकत्वे अनभिहिते तृतीयैकवचनम् इत्यादिरर्थः, न तु अनभिहिते कर्तरि इत्यादिरर्थः । एवं च कर्तृसङ्ख्यानभिधानमेव तृतीयाप्रयोजकमिति ।
सङ्ख्याभिधाऩयोग्यश्च कर्मत्वाद्यनवरुद्धः प्रथमान्तपदोपस्थाप्यः ।
यथा— चैत्रः पचतीत्यत्र चैत्रस्य प्रथमान्तपदोपस्थाप्यत्वाच्च आख्यातवोधितैकत्वस्य तत्त्रान्वयः । चैत्रः पचति तण्डुलः इति कर्मत्वादिलाक्षणिकप्रथमान्तपदोपस्थाप्ये तण्डुलादौ सङ्ख्यान्वयवारणाय कर्मत्वाद्यनवरुद्ध इति दलम् । ननु चैत्र इव मैत्रो गच्छतीत्यत्र चैतस्य इवार्थसादृश्ये प्रतियोगितासम्बन्धेन, सादृश्यस्य च अनुयोगितासम्बन्धेन मैतेऽन्वयात् संयोग।नुकूलव्यापारानुकूलकृतिमान् चैत्रसदृशो मँत्रः इति बोधः । तत्र तिबर्येकत्वस्य
NP Sahitya
[[10]]
[[137]]
चैतेऽन्वयः स्यात् । चैतस्य कर्मत्यादिकार कार्य प्रतियोगित्वानुयोगित्वरूपसम्बन्धाभावेन कर्मत्वाद्यनवरुद्धत्वात् प्रथमान्तपदोपस्थाप्यत्वाच्च ।
किस पक्वमन्त्र भुज्यते इत्यत्न पाककर्मत्वस्यान्ने अन्वयेन प्रथमान्तपदोपस्थाप्यत्वेऽपि कर्मत्वावरुद्धत्वात् बन्ने सङ्ख्यान्वयानुपपत्तिरिति चेन्न; कर्मत्वाद्यनवरुद्धत्वं नाम इतरविशेषणत्वेन तात्पर्याविषयत्वम् । चैत्र इव मैत्रो गच्छतीत्यत्र चैत्रस्यैवार्थविशेषणत्वेन तात्पर्य - विषयत्वान्न तत्र सङ्ख्यान्वयः । पक्वमन्नं भुज्यत इत्यत्र अन्नस्येतर विशेषणत्वेनं तात्पर्यविषयत्वाभावात् सङ्ख्यान्वयोपपत्तिः । अत्र च विशेषणत्वतात्पर्याविषयत्वमात्रं प्रथमदलार्थः, इतरस्यापि न विवक्षा इति वोध्यम् ।
ननु चैत्र एव पचन्तीत्यत्र चैवेतरावृत्तिपाककृतिमान् चैत्रः इति बोधात् चैत्रस्य विशेषणत्वेन तात्पर्यविषयत्वात् तत्र सङ्ख्यान्वयानुपपत्तिः किव चैत्रश्चैतं पश्यतीत्यत्र चैत्रवृत्तिचक्षुस्संयोगजन्यज्ञानाश्रयश्चैतः इति बोधे चैत्रस्य विशेषणत्वेन तात्पर्य - विषयत्वात् चैत्रे सङ्ख्यान्वयानुपपत्तिश्चेति चेन्न । इतरविशेषणत्वमात्रेण तात्पर्याविषयत्वमित्यर्थस्वीकारे स्थलद्वयेऽपि चैते विशेष्यत्वस्यापि सत्त्वेन विशेषणत्वमुख्यविशेष्यत्वाभ्यां तात्पर्यविषयत्वात् विशेषणत्वमात्रेण तात्पर्याविषयत्वसत्त्वेन सङ्ख्यान्वये बाधकाभावात् । एवं च तण्डुलं पचतीत्यादौ यत्र विशेषणत्वमुख्यविशेष्यत्वाभ्यां तण्डुलस्यैवान्वयो विवक्षितः तत्र तण्डुले सङ्ख्यान्वयवारणाय प्रथमान्तेति दलम् । किव चैत्रेण सुप्यते इत्यत्र भावे प्रयोगे आख्यातस्य निरर्थकत्वेन चैत्रकर्तृकः स्वापः इत्यर्थबोधात् तन्न धात्वर्थस्वापे सङ्ख्यान्वयवारणाय प्रथमान्तेति दलम् ।
अथवा धात्वर्थातिरिक्ताविशेषणत्वं प्रथमदलार्थः ।
1 तेन चैन इंव मैत्रो गच्छतीत्यत्र चन्द्रादेर्वारणम् । स्तोकं पचतीत्यादी स्तोकादेर्वारणाय द्वितीयदलम् । तन स्तोकपदार्थस्य अभेदेन धात्वर्थविक्लित्तावन्वयेन धात्वर्थातिरिक्ता विशेषणत्वरूपप्रथमदलसत्त्वात् । विशेष्यदलनिवेशे तु क्रियाविशेषणानां कर्मत्वं क्लीवता चेत्यनुशासनेन स्तोकपदार्थस्य कर्मद्वितीयान्तपदोपस्याप्यत्वाद्वारणमिति ।
·
केचित् मीमांसकैकदेशिनः फलं धात्वर्थः, व्यापारः प्रत्ययार्थः इति वदन्ति । तदपि न समञ्जसम् । कृतित्वापेक्षया व्यापारसमूहरूपक्रियायाः वाच्यत्वे गौरवात् ।
यद्यपि रथो गच्छतीत्यादी आख्यातस्य यत्नार्थकत्वं न सम्भवति । तथापि तत्र व्यापारे आश्रयत्वे वा लक्षणा । प्रथमपक्षे तन संयोगानुकूलव्यापारानुकूलव्यापारवान्
[[138]]
रथः इति बोधः । द्वितीयपक्षे संयोगानुकूलव्यापाराश्रयो रथः इति बोधः । कृतेः रथेऽन्वयानुपपत्तिरेवेह लक्षणाबीजम् । एवं चैत्रो जानातीत्यत्र आश्रयत्वे आख्यातस्य लक्षणया ज्ञानाश्रयः चैत्र इति बोधः । घटो नश्यतीत्यत आख्यातस्य प्रतियोगित्वे निरूढलक्षणया ध्वंसप्रतियोगी घट इति बोधः ।
.
कोशात् शक्तिग्रहप्रकार उक्तः । परन्तु सति बाधके क्वचित् त्यज्यते । यथा ‘गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति’ इति कोशेन शुक्लनीलादिपदानां शुक्लरूपनीलरूपादौ शुक्लरूपनीलरूपादिविशिष्टे च शक्तिः व्युत्पादिता । तथापि शुक्लरूपादौ शक्तिस्वीकारे शुक्लरूपत्वादिकं शक्यतावच्छेदकमिति लाघवम्, शुक्लरूपादिविशिष्टे शक्तिस्वीकारे शुक्लरूपादिकं शक्यतावच्छेदकमिति गौरवम् । अतः शुक्लादावेव शक्तिः, तद्विशिष्टे तु लक्षणेति बोध्यम् ।
घटं नय, गामानय
तच्च
व्यवहारात् शक्तिग्रहप्रकारः पूर्वमुक्तः । तन प्राभाकरा एवमाहुः । घट’मानयेति प्रयोजकवृद्धवाक्यं श्रुत्वा प्रयोज्यवृद्धः घटमानयति । इत्यादी आवापोद्वापाभ्यां घटनयन-गवानयनादिकं करोति । तदा च पार्श्वस्यो बालः घटानयनं प्रवृत्तिजन्यं चेष्टात्वात् मदीयस्तनपानादिचेष्टावत् इति घटानयनविषयकप्रवृत्तिमनुमाय, सा च प्रवृत्तिः कार्यताज्ञानजन्या घटानयनधर्मिकप्रवृत्तित्वात्, मदीयप्रवृत्तिवत् इत्यनुमानेन घटानयना दिर्धार्मिककार्यताज्ञानमनुमिमीते । कार्यताज्ञानं पदज्ञानजन्यं तदन्वयव्यतिरेकानुविधायित्वात् इत्यनुमानेन किञ्चित्पदज्ञानजन्यतामनुमाय तद्दृष्टान्तेन पदत्वावच्छेदेन कार्यताज्ञानजनकत्वं निश्चिनोति । इत्थं च लिङ्लोट्तव्यप्रत्ययादीनां कार्यताबोधकपदानामभावे भूतले नीलो घटः इत्यादिवाक्यान्न शाब्दबोधः । घटादिपदानां कार्यान्वितघटादिबोधे सामर्थ्यावन्धारणात्, कार्यतां बोधं प्रति च लिङादीनां सामर्थ्यात् तदभावान्न शाब्दबोधः । अत्र प्राभाकराः शक्तिद्विधा उपस्थापिका, आनुभाविकी च । तत्र घटादिपदानां घटत्वादिजातावुपस्थापिका शक्तिः, सैव स्मारकशक्तिरित्युच्यते । कार्यान्वितघटादी `त्वानुभाविकी शक्तिः, शाब्दबोधप्रयोजिका शक्तिरिति यावत् । एवं च कार्यत्वान्वित - घटशाब्दत्वावच्छिन्नं प्रति लिङादिसहितघटादिपदज्ञानं कारणमिति । . अतः नैयायिकोक्तसाधारणव्यवहारान्न शक्तिग्रहः इति वदन्ति ।
तन्न ।
प्रथमतः कार्यान्वितघटादी शक्तिग्रहेऽपि लाघवेन पश्चात्तस्य । परित्यागौचित्यात् । कार्यान्वितघटशाब्दत्वापेक्षया घटशान्दत्वस्य घटादिपदज्ञानङ्कार्यता-
[[139]]
।
बच्चे लाघवात् । अत एवं चैत्र पुत्रस्ते जातः कन्या ते गर्भिणी इत्यादी सानुमातिन्याभ्यां हेतुभ्यां चैते सुखदुःखे अनुमाय तत्कारणत्वेन परिशेषानिर्णपति, तद्धेतुतया च तं शब्दमवधारयति । यथा— सन्तवृत्ति यं दुःखं वायवोधतरकारणाजन्यत्वे सति कारणजन्यत्वात् । स
दुःखाभुवः शाब्दबोधः, प्रतापयजन्यः, अन्ययातिद्ध्यनिरूपप्रकृतवाक्यानन्तरविमानकारो बोज्यः । तथा चात्र व्यभिचारात् न कार्यान्विते शक्तिः । तत तं पश्येत्यादिव्यान्तरमध्याहार्यम् । अध्याहारे भानाभावात् । चैत्र पुत्रस्ते जातः, मृतश्चेत्यादौ तदभावाच्च ।
मीमांसकैकदेशिवस्तु एवं वदन्ति - घटादिपदानां जातौ शक्तिः, व्यक्तिबोरचाक्षेपात् । अत्वयस्य अशक्यत्वात् त्राक्षेपासम्भवाच्च अशक्यस्य अलक्ष्यस्य च शाब्दबोधे भातोपने अङ्गिः स्यादिति अन्ययेऽपि शक्तिरङ्गीकार्येति ।
एनि समय अन्वितघटशाब्दत्वस्य पदज्ञानजन्यतावच्छेदकत्वापेक्षा स्वाव्यत्वस्य तज्जन्यतावच्छेदकत्वे लाघवात् अन्वयाञ्चे शक्तेरकत्पनात् । अन्यपोऽस्तु शाकांशमा ताकिरुमते, भाट्टमते च लक्षणयेति बोध्यम् ।
[[2]]
मीमांसकास्तु जातावेव शक्तिः न तु व्यक्ती इति वदन्ति । तेषामयमाशयःशातिविशिष्टव्यक्ती शक्तिस्वीकारे ‘नागृहीतविशेषणा बुद्धिः विशेष्यमधिगच्छति इतिन्यायात् जाती शक्तिग्रहस्यावश्यकतया जातावेव शक्तिलघवात् । न तु वातिविशिष्टव्यक्ती । तदुक्तं ‘विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिविशेषणे ’ इति । तच व्यक्तावेव शक्तिरस्तु न जाताविति वाच्यम् । व्यक्तिशक्तिपक्षे एकस्यां व्यक्तौ शक्ति सर्वासु वा ? नाद्यः ; अगृहीतशक्तिकव्यक्तावपि विषयतासम्वन्धेनं शाब्दवोधरूपकार्थसत्त्वेन शक्तिग्रहरूपकारणाभावेन व्यतिरेकव्यभिचारात् । न द्वितीयः ; व्यक्तिभेदेन शक्तिभेदात् शक्त्यानन्त्यप्रसङ्गात् । जातिशक्तिपक्षे तु न व्यभिचारः, न वा शक्तयानन्त्यमिति । न चैवं गामानयेत्यादी जातेरानयनान्वयानुपपत्त्या व्यक्तस्तु भासकसामग्रयभावेनाभानादन्वयानुपपत्तिः । जातिभासकसामग्रया एवं व्यक्तिभासकत्वात् । व्यक्तिविशेष्यकजातिप्रकार कशाब्दबोधे जातिनिपयकशक्तिज्ञानस्य हेतुतया व्यक्ति बिना जातिभानासम्भवात् । तथाच जातिविशेष्यकशक्तिज्ञानमेव वोधे जातिभासकं व्यक्तिभासकं चेति ।
[[140]]
·
वृत्या
तदिदं न विचारसहम् ।
पदजन्यपदार्थोपस्थितेः शाब्दबोधे हेतुतया व्यक्तौ शक्ति विना तद्भानानुपपत्तेः । नच व्यक्ती लक्षणा ; तया च वृत्तिप्रयोज्य - पदार्थोपस्थितेः सत्त्वेन व्यक्तिबोधसम्भवादिति वाच्यम् । गामानयेत्यादौ गोत्वे
आनयनान्वयानुपपत्त्या गोपदस्य गोव्यक्ती लक्षणासम्भवेऽपि गौरस्तीत्यादी गोत्वेऽस्तित्वान्वयानुपपत्त्यभावेन अन्वयानुपपत्तिरूपलक्षणावीजाभावेनं लक्षणासम्भवात् । नच तात्पर्यानुपपत्तेरपि लक्षणाबीजत्वेन तत्रापि लक्षणा सम्भवतीति वाच्यम् ; तन्मते वेदस्यापौरुषेयतया इच्छारूपतात्पर्यस्याभावेन ‘आदित्यो यूपः’ इत्यत्त तात्पर्यानुपपत्त्यभावेन लक्षणाभावप्रसङ्गात् ।
ननु शक्ति विनापि व्यक्तिभानं भविष्यति, सर्वत्र पदजन्यपदार्थोपस्थितेर्हेतुत्वे मानाभावात् । कथमन्यथा शाब्दबोधे संसर्गभानम् । न चैवं पदानुपस्थितघटादेरपि शाब्दबोधे भानापत्तिरिति वाच्यम् । गोविशेष्यकगोत्वप्रकारकशब्दबोधं प्रति गोत्वशक्तिज्ञानत्वेन हेतुत्वस्याङ्गीकारेणादोषात् इति चेन्न ; गौः शक्या इति तार्किकाभिमतं शक्तिज्ञानं प्रमात्मकमेव । प्राभाकरमतेऽन्यथाख्यात्यभावात् प्रमायाश्च वस्तुसाधकत्वात् गोत्वं शक्यमिति शक्तिग्रहे तु गोत्वस्य विशेष्यत्वेन गोत्वप्रकारकपदार्थस्मरणं शाब्दबोधश्च न स्यात् । तादृशस्मरणं, शाब्दबोधं च प्रति गोत्वप्रकारकश्चक्तिज्ञानस्य हेतुत्वात् तस्य चाभावात् । अत एव अपूर्ववादे ( प्राभाकरैः ) अपूर्वस्य पूर्वमनुपस्थितत्वात् कथं तत्र शक्तिग्रह इत्याशङ्क्य कार्यत्वेन घटादिषु शक्तिग्रहात् कार्यतया शाब्दबोधे अपूर्वभानमित्युक्तम् ।
ननु
कार्यत्वाद्युपाधिप्रकारकशाब्दबोधस्थले समानप्रकारकशक्तिज्ञानस्य
।
हेतुत्वेऽपि जातिप्रकारकशाब्दबोधस्थले समानप्रकारकशक्तिज्ञानस्याहेतुत्वान्नायं दोष इति चेन्न ; गोत्वस्य शक्यत्वे गोत्वत्वं शक्यतावच्छेदकं वाच्यम् ।
तच्च गवेतरासमवेतत्वे सति सकलगोसमवेतत्वम् । तथाच सकलगोव्यक्तीनां शक्यतावच्छेदकेऽनुप्रवेशेन मीमांसकमते महद्गौरवम् । तकम्मते तु शक्तिग्रहे गोत्वस्य स्वरूपतः प्रकारत्वेन न सकलगोव्यक्तिभानावश्यकतेति । तस्मात् तत्तज्जात्याकृतिविशिष्टतत्तद्वयक्तिबोधानुपपत्त्या कल्प्यमाना शक्तिः जात्याकृतिविशिष्टव्यक्तौ विश्राम्यतीति ।
शक्तं पदमित्युक्तम् । तच्चतुर्विधम् -: यौगिकम्, रूढम्, योगरूढम्, यौगिकरूढं चेति । शक्तिरपि चतुविधा :योगः, रूढिः, योगरूढिः, यौगिकरूढिरिति । तन्निरूपकत्वादेव
[[141]]
पदानां चातुर्विध्यम् । अवयवार्थानुसन्धानेनैव अर्धबोधिका शक्तिर्योगः । यत्र अवयवार्थ एव बुध्यते तद्योगिकम् । यथा पाचकादिपदम् । अवयवार्थानुसन्धानमन्तरा अर्थबोधिका शक्ती रूढिः । तादृशावयवशक्तिनैरपेक्ष्येण समुदायशक्तिमात्रेणार्थबोधकं रूढम् । यथा गोमण्डलादिपदम् । अवयवार्थसमुदायार्थोभयबोधिका शक्तिः योगरूढिः । तथा यत्न अवयवशक्तिविषये समुदायशक्तिरप्यस्ति तादृशोभयशक्त्या अर्थबोधकं योगरूढम् । यथा पङ्कजादिपदम् । तत्र अवयवशक्त्या पङ्कजनिकर्तृ रूपार्थबोधः । समुदायशक्त्या पद्मबोधः ।
यत्र तु यौगिकार्थरूढ्यर्थयोः स्वातन्त्र्येण वोधः तद्यौगिकरूढम् । तत्र स्वातन्त्र्यं नाम विशेषणविशेष्यभावानवगाहित्वम् । यथा उद्भित्कुशलादिपदानि । तत्र हि योगेन उद्भेदनकर्ता तरुगुल्मादिरपि बुध्यते, रूढया यागविशेषोऽपि । कुशलपदं तु अवयवशक्त्या कुंशादानकर्तारं रूढया निपुणं च बोधयति । अथ विशेषविचारः
[[1]]
,
नच
पङ्कजपदमवयवशक्त्या पङ्कजनिकर्तृ रूपमर्थं समुदायशक्त्या पद्मत्वेन पद्मं बोधयतीत्युक्तम् । नच केवलया अवयवशक्त्या पङ्कजपदस्य कुमुदेऽपि प्रयोगः स्यादिति वाच्यम् ।
रूढिज्ञानस्य केवलयौगिकार्थज्ञाने प्रतिबन्धकत्वात् । रूढिज्ञानस्य यौगिकार्थबुद्धि प्रति प्रतिबन्धकत्वे पङ्कजशब्दात् पद्ममित्येव वोधः स्यात्, न तु पङ्कजनिकर्तभिन्नं पद्ममिति इति वाच्यम् । पद्मत्वावच्छिन्नविशेष्यत्वानिरूपितपङ्कजनिकर्तृ त्वावच्छिन्नविषयताकशाब्दबुद्धित्वावच्छिन्नं प्रति रूढिज्ञानस्य प्रतिबन्धकत्वेन पद्मविशेष्यकयौगिकार्थबुद्धेः प्रतिवध्यतावच्छेदकानाक्रान्तत्वेन अदोषात् इति प्राखः 1 परन्तु एवं
प्रतिबध्य प्रतिबन्धकभाव स्वीकारे विरोधिविषयकज्ञानस्य प्रतिबन्धकत्वं जनकज्ञानविघटकत्वेनैवेति नियमभङ्गरूपोऽस्वरसः स्फुरति । अतः मणिकारा एवमाहुः – समुदायशक्त्युपस्थित अवयवार्थपङ्कजनिकर्तुरन्वयः सान्निध्यात् । स्यर्थस्य वाधप्रतिसन्धाने लक्षणया कुमुदादेर्वोधः । कुमुदत्वेन रूपेण बोधे तात्पर्यज्ञानाभावदशायां पद्मत्वस्य च वाधप्रतिसन्धाने अवयव - शक्तिमात्रेण निर्वाह इति ।
अवेदमपि बोध्यम् । यत्र स्थलपद्मादी अवयवार्थबाधः तव समुदायणवत्या पद्मत्वेन रूपेण बोधः । यदि तु स्थलपङ्कजं विजातीयमेव तदा लक्षणयैव वोध इति । सर्वनामसञ्ज्ञकशब्दानां शक्तिग्रहः सङ्क्षेपेणोच्यते । इदमः प्रत्यक्षबुद्धिविषये शक्तिः । एतदः समीपतरप्रत्यक्ष बुद्धिविषये शक्तिः । अदसः विप्रकृष्टप्रत्यक्षबुद्धिविषये
[[142]]
शक्तिः । तदः परोक्षबुद्धिविषये शक्तिः । तदुक्तमभियुक्तैः -’ इदमः प्रत्यक्षगतं समीप-
.
तरवति वैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥’ इति । सर्वपदस्य व्यापकत्वे शक्तिः । सर्वे
किम्पदस्य जिज्ञासाविषयत्वविशिष्टे शक्तिः ।
घटा रूपवन्त इत्यत्र घटत्वव्यापकं रूपवत्त्वमिति वोधात् । भेदविशिष्टे । त्वम्पदस्य तत्कालीन संवोध्ये चैन्नादौ ।
स्वतन्त्रोच्चारयितरि ।
मत्पदान्न’ कवेर्बोधः इति ।
अन्येतरादिपदानां
अहम्पदस्य तत्कालीन-
स्वातन्त्र्योक्त्या च ‘वाच्यस्त्वया मद्वचनात्स राजा’ इत्यत
अथ तच्छन्दविशेषविचारः
स राज्यं गुरुणा दत्तमित्यादौ तच्छब्दस्य वक्तृबुद्धिविषयतावच्छेद की भूतरघुत्वाद्यवच्छिन्ने शक्तिः । ननु तत्पदे रघुत्वघटत्वादीनां शक्यतावच्छेदकत्वे शक्यतावच्छेदकभेदाच्छक्तिभेदापत्तिः । नच शक्यतावच्छेदकानां भिन्नत्वेऽपि शक्यतावच्छेदकतावच्छेदकस्य बुद्धिविषयतावच्छेदकत्वस्यैक्यात् न शक्तिभेद इति वाच्यम् । तस्य शक्यतावच्छेदकतावच्छेदकत्वे शाब्दवोधे तद्भानापत्तेः इति चेन्न ; बुद्धिविषयतावच्छेदकत्वस्य उपलक्षणतया शक्यतावच्छेदकतावच्छेदकत्वात् उपलक्षणस्य शाब्दबोधे भानानङ्गीकारात् । विशेषणस्यैव शाब्दबोधे भानाङ्गीकारात् । उपलक्षणत्वं च तत्पदजन्य वोधविषयत्वेन शक्त्यविषयत्वम् । विशेषणत्वं च तत्पदजन्यवोधविषयत्वेन शक्तिविषयत्वम् ।
सन्धवादिपदानां तु विनिगमनाविरहात् नानाशक्तिः लवणाश्वयोः ।
न चैकत लक्षणा । परस्परसम्बन्धाभावात् । शक्यसम्बन्धो हि लक्षणा । विनिगमनाविरहाच्च । अनेकार्थकपदस्थले वक्तृविवक्षिते शक्तिग्रहे संयोगादिः सहकारी । तदुक्तं भर्तृहरिणा-
संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति ।
(१) संयोगो नाम नानार्थशब्दशक्यान्तरवृत्तितया अप्रसिद्धत्वे सति तच्छक्यवृत्तितया प्रसिद्धस्सम्वन्धः । यथा - सशङ्खचक्रो हरिः पूज्य इत्यत शङ्खचक्रयोः संयोगः भगवद्विष्णुनिष्ठतया प्रसिद्धः यमाद्यर्थान्तराद्धरिपदं व्यावर्तयन् विष्णौ तात्पर्यं ग्राहयति ।
[[143]]
(२) विप्रयोगो नाम विश्लेषः ।
यथा— अशङ्खचक्रो हरिरित्यक्ष शङ्खचक्रयोविश्लेषः तत्संयोगपूर्वकः हरिशब्दमिन्द्राद्यर्थान्तराद्वय़ावर्तयन् विष्णौ नियमयति । (३) साहचर्यं नाम एकस्मिन् कार्ये परस्परापेक्षित्वम् । यथा - रामलक्ष्मणौ, सीतारामौ, रामहनूमन्ती, रामदशरथावित्यत्र सीतालक्ष्मणादीनां तत्तत्साहचर्य रामशब्द परशुरामादितो व्यावर्तयन् दाशरथावेव नियमयति । (४) विरोधिता नाम प्रसिद्धं वैरं, सहानवस्थानं च । यथा - रामार्जुनावित्यत्र भार्गवकार्तवीर्यार्जुनयोर्वैरं रामपदं दाशरथिरामादितो व्यावर्तयन् तद्विरोधिनि भार्गव एव नियमयति । (५) अर्थो नाम चतुर्थ्याद्यभिधेयं प्रयोजनम् । यथा - ’ कृष्णं भज भवच्छिदे’ त्यादौ भवच्छेदनादिरूपार्थः कृष्णपदं वासुदेव एव नियमयति । ( ६ ) प्रकरणं नाम वक्तृश्रोतृबुद्धिस्यत्वम् । यथा—राजानं सम्बोध्य केनचिद्भ त्येन ’ सर्वं जानाति देवः ’ इत्युक्ते सति निरुक्तं प्रकरणं देवपदं भूपालार्थे नियमयति । ( ७ ) लिङ्गं नाम स्ववाच्यैकवृत्तिः तदन्यावृत्तिर्धर्मः । यथा - ’ आत्मभूः केन जप्योऽयं कुपितो मकरध्वजः ’ इत्यन बात्मभूशब्दस्य कामब्रह्मोभयवाचकत्वेऽपि मकरध्वजत्वलिङ्गात् मन्मथबोधः । (८) प्रसिद्धपदसमभिव्याहारः शब्दस्यान्यस्य सन्निधिः । यथा - रामं सीतापति भजे । (९) सामर्थ्यं कारणत्वम् । यथा - मत्तोऽयं मधुना पिक इत्यत्र पिकमदहेतुत्वज्ञानान्मधुशब्दाद्वसन्तबोधः । (१०) अौचिती अन्वययोग्यत्वम् । यथा - गच्छत्यारुह्य सन्धवम् । (११) देशः पुरादिः । यथा - राजा नगरे राजते इत्यत्र राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्योः’ इति कोशसत्त्वेऽपि राजपदेन नृपः गृह्यते । ( १२ ) कालः दिवस निशादिः । यथा— चित्रभानुर्दिने भाति, रात्री चित्रभानुः प्रकाशते, चातुर्मास्ये हरिः शेते । (१३) पुल्लिङ्गादिर्व्यक्तिः । यथा - मित्रों भाति । नभाः भाति, मित्रनभश्शब्दो सखिगगनवाचकत्वे नपुंसकलिगे, सूर्यश्रावणवाचकत्वे पुल्लिङ्गे । (१४) स्वर उदात्तादिः। यया–इन्द्रशत्रो वर्धस्व । आद्युदात्तत्वे षष्ठीतत्पुरुषः, अन्तोदात्तत्वे बहुव्रीहिः । आदिना अभिनयनेनसूचनादयो ग्राह्याः ।
अथ लक्षणायां विशेषविचारः
पूर्वं लक्षणा सामान्यतः निरूपिता । ‘लक्षणा शक्य सम्वन्धस्तात्पर्यानुपपत्तितः इति कारिका । गङ्गायां घोष इत्यादी गङ्गापदस्य शवयार्थे प्रवाहरूपे घोषस्य अन्वयानुपपत्तिस्तात्पर्यानुपपत्तिर्वा यत्र प्रतिसन्धीयते तत्र लक्षणया तीरस्य वोधः । ननु गङ्गापदात् शक्त्यैव तीरबोधे किमिति लक्षणाङ्गीकरणीयेति चेन्न तथा सति तीरे
[[144]]
गङ्गापदस्य स्वारसिकप्रयोगापत्तेः । गङ्गात्वापेक्षया गङ्गातीरत्वस्य गुरुतया शक्यता - वच्छेदकत्वकल्पनानौचित्याच्च । नच नानार्थस्थलेsपि एकत्र शक्तिरन्यत्र लक्षणास्त्विति वाञ्च्यम् । विनिगमकाभावेन सर्वत्र शक्तिसिद्धेः । यत्र तु लाघवादिकं विनिगमकं तत्र न नानाशक्तिकल्पनम् । यथा नीलादिपदे इति । एवं च गङ्गायां घोष इत्यत्र प्रवाहरूपशक्यार्थसम्वन्धस्य तीरे गृहीतत्वात् तीरस्य स्मरणम्, ततः शाब्दबोध इति । परन्तु यद्यन्वयानुपपत्तिर्लक्षणावीजं स्यात् तदा यष्टीः प्रवेशयेत्यत्र लक्षणा न स्यात् । यष्टिषु प्रदेशान्वयानुपपत्तेरभावात् । तेन यष्टिप्रवेशे भोजनतात्पर्यानुपपत्त्या यष्टिधरेषु लक्षणा । एवं काकेभ्यो दधि रक्ष्यतामित्यादी काकपदस्य दध्युपघात के लक्षणा । सर्वतो दधिरक्षायास्तात्पर्यविषयत्वात् । एवं छेत्रिणो यान्तीत्यादौ छत्रिपदस्य एकसार्थवाहित्वे लक्षणा । एकसार्थवाहित्वं नाम सहगमनकर्तृत्वम् । इयमेवाजहत्स्वार्था लक्षणा । एकसार्थवाहित्वेन छत्रितदन्ययोर्वोधात् । परन्तु इदं वाक्यलक्षणावादिमीमांसकमताभिप्रायेण । न्यायमते तु छत्रपदस्यैव एकसार्थवाहित्वे लक्षणा । प्रत्ययार्थश्च सम्बन्धी । एकसार्थवन्तो गच्छन्तीत्यर्थः । एकसार्थवाहित्वं नाम एकसार्थं एव । न त्वेकसार्थगन्तृत्वं, निराकाङ्क्षतया यान्तीत्यस्य अनन्वयापत्तेः इति बोध्यम् । एवं च पूर्वोक्तरीत्या तात्पर्यानुपपत्तेरेव लक्षणावीजत्वं वाच्यम् । किञ्च अन्वयानुपपत्तेरेव लक्षणावीजत्वे, गङ्गायां घोषः इत्यत्रैव क्वचिद् गङ्गापदस्य तीरे, क्वचिद्घोषपदस्य मत्स्यादौ लक्षणेति नियमो न स्यादित्यपि बोध्यम् ।.
।
इदन्तु वोध्यम् । शक्यार्थसम्बन्धः यदि तीरत्वेन रूपेण गृहीतः तदा तीरत्वेन तीरवोधः । यदि तु गङ्गातीरत्वेन रूपेण गृहीतः तदा तेनैव रूपेण स्मरणम् । अत एव लक्ष्यतावच्छेदके न लक्षणा तत्प्रकारकवोधस्यं तत्र लक्षणां विनाप्युपपत्तेः । परन्तु लक्ष्यतावच्छेदके लक्षणाया अनङ्गीकारेऽपि तीरं गङ्गातीरं वा प्रवाहसंयोगवदिति लक्षणाग्रहेण कदाचित् तीरत्वेन कदाचिद् गङ्गातीरत्वेन वोघो भवतीति यथोच्यते तथा शक्यतावच्छेदकेऽपि शक्तिर्न स्यात् । एवं च सति पृथिवीपदात् कदाचित् अष्टद्रव्यातिरिक्तद्रव्यत्वेन कदाचिद्गन्धवत्त्वेन कदाचित्पृथिवीत्वेन वोधापत्तिः । पृथिवी पृथिवीपदशक्येतिवत् अष्टद्रव्यातिरिक्तद्रव्यं पृथिवीपदशक्यम् इत्यादेरपि शक्तिग्रहस्य सम्भवात् । तथा च यथा लक्षणया यत्किश्विदेकधर्मावच्छिन्नविषयक एव शाब्दबोध इति न नियमः तथा शक्यार्थवोधेऽपि अनियमः स्यादिति शक्यतावच्छेदके शक्तिस्वीकार आवश्यकः । शक्यतावच्छेदकश्च शक्यताऽन्यूनानतिरिक्तवृत्तिलङ्घुधर्म एवेति
[[145]]
- पृथिवीत्वादेरेव शक्यतावच्छेदकत्वं न त्वष्टद्रव्यातिरिक्तद्रव्यत्वादेः गौरवादिति वोध्यम् । परन्तु तद्धर्मावच्छिन्ने शक्तिज्ञानं तद्धर्मावच्छिन्नविशेष्यकशाब्दबोधे हेतुः, अन्यथा गवादिपदात् गोत्वादेः शाब्दबोधे प्रकारत्वं न स्यात् । एवं च शक्यतावच्छेदके शक्त्यभावेऽपि पृथिवीपदशक्तिप्रमया पृथिवीत्वप्रकारक एव शाब्दबोधः । शक्तिभ्रमे तु गन्धवत्त्वादिनाऽपि बोध। भवत्येवेति शक्यतावच्छेदके पृथक् शक्त्यनङ्गीकारेऽपि न दोष इति सुवचम् !
यत्र तु शक्यार्थस्य परम्परासम्वन्धरूपा लक्षणा सा लक्षितलक्षणा । यथा द्विरेकं पश्येत्यत्त्र स्ववाच्यरेफद्वयघटितपदवाच्यत्वरूपपरम्परासम्बन्धेन द्विरेफपदात् भ्रमरदोघः । स्वं द्विरेफपदं, तत्सम्बन्धः भ्रमरपदे, तत्सम्बन्धश्च भ्रमर इति ।
ननु तच्छाब्दबोधे तच्छक्तज्ञानत्वेन हेतुत्वात्लाक्षणिकाच्छाब्दबोधः कथमिति चेत्सत्यम् ; लाक्षणिकं पदं बानुभावकम् । लाक्षणिकार्थस्य शाब्दबोधे तु समभिव्याहृतं शक्तं पदान्तरं कारणम् । शक्तिलक्षणान्यतरसम्वन्धेन इतरपदार्थान्वितस्वशवयार्थशाब्दबोधं प्रति पदानां सामर्थ्यावधारणात् । अन नवीनाः - कुमतिः पशुः इत्यादौ सर्वलाक्षणिकस्यले शाब्दबोधस्यानुभवसिद्धतया लाक्षणिक पदमप्यनुभावकमित्यङ्गीकरणीयम् । तत्र हि मतिशब्दस्य कुत्सितमतिमति लक्षणा, कुपदं तात्पर्यग्राहकं, पशुशब्दस्य च पशुसदृशे लक्षणेति सर्वलाक्षणिकत्वादिति वदन्ति ।
वाक्ये तु शक्तेरभावात् शक्यसम्वन्धरूपा लक्षणापि नास्ति ।
ननु गभीरायां नद्यां घोष इत्यत्र नदीपदस्य नदीतीरे लक्षणायां गभीरपदार्थस्यैकदेशान्वयापत्तिः । अतो वाक्यलक्षणाङ्गीकर्तव्येति चेन्न ; तत्र नदीपदस्य नदीतीरे लक्षणा, गभीरपदार्थस्य नद्या सहाभेदेनान्वयः । चैनस्य गुरुकुलमित्यादौ षष्ठ्यर्थनिरूपितत्वस्य स्वरूपेण गुरुत्वेऽन्वयेन चैन्ननिरूपितं यद्गुरुत्वं तदाश्रयः कुलमित्यर्थवोधेन क्वचिदेकदेशान्वयस्यापि दर्शनेन अविरोधात् ।
यदि तत्र एकदेशान्वयः न स्वीक्रियते तदा नदीपदस्य गभीरनदीतीरे लक्षणा, गभीरपदं तात्पर्यग्राहकम् ।
वन मीमांसकाः । वाक्यलक्षणयैव निर्वाह गभीरपदस्य तात्पर्यग्राहकत्वकल्पनमयुक्तम् । नच वाक्ये शक्तेरभावात् शक्यसम्वन्धरूपा लक्षणा न सम्भवतीति वाच्यम् । स्ववोध्यसम्बन्धस्यैवं लक्षणापदार्थत्वेन अदोषात् । एवं च गभीरायां नद्यामिति वाक्यवोध्या गभीराभिन्ना नदी, तत्सम्बन्धस्तीरे इति तीरबोधोपपत्तिरित्याहुः ।
[[146]]
तन्न । स्ववोध्यसम्बन्धो लक्षणेत्यत्र स्ववोध्यत्वं यदि स्वजन्यशाब्दवोध विषयत्वं तदा गङ्गायां घोष इत्यत्र लक्षणानुपपत्तिः । तत्र गङ्गापदेन प्रवाहविषयक शाब्दबोधाजननेन प्रवाहस्य गङ्गापदवीध्यत्वाभावात् । किन्तु शक्तया स्वजन्यज्ञानविषयत्वं तदिति वक्तव्यम् । एवं च वाक्ये न लक्षणा, शक्तयभावात् इति । नच स्वजन्यज्ञानविषयत्वमात्रं स्ववोध्यत्वं तत्त्र शक्तिप्रयोज्यत्वस्याप्रवेशेन दोषाभावादिति वाच्यम् । घटपदश्रवणानन्तरं समवायरूपसम्बन्धेन आकाशस्मरणे तस्यापि स्ववोध्यत्वापत्तौ तत्सम्बन्धस्य समवायस्य पटादावपि सत्त्वेन तस्यापि घटपदाद्बोधाम्पत्तेरित्यलम् ।
बहुव्रीहिसमासे चित्रगुरित्यादौ यदा एकदेशान्वयः स्वीक्रियते, तदा गोपदस्य गोस्वामिनि लक्षणा । गवि चित्राभेदान्वयः । यदि तत्रैकदेशान्वयः न स्वीक्रियते, तदा गोपदस्य चित्रगोस्वामिनि लक्षणा, चित्रपदं तात्पर्यग्राहकम् । एवमारूढवानरो वृक्षः इत्यत्र वानरपदस्य वानरारोहण कर्मणि लक्षणा, आरूढपदं तात्पर्यग्राहकम् । एवमन्यत्रापि वोध्यम् ।
तत्पुरुषे तु पूर्वपदे लक्षणा । तथाहि - राजपुरुष इत्यादी राजपदार्थेन पुरुषपदार्थस्य साक्षान्नान्वयः । निपातातिरिक्तनामार्थयोः साक्षादभेदेनान्वयस्य अव्युत्पन्नत्वमिति नियमात् । अन्यथा राजा पुरुष इत्यनापि भेदेन अन्वयबोधः स्यात् । साक्षादित्यस्य प्रत्ययार्थमद्वारी कृत्येत्यर्थः । घटो नं पट इत्यादौ घटपटाभ्यां नञः साक्षादेवान्वयान्निपातातिरिक्तेति । नीलो घट इत्यादी नामार्थयोरभेदसम्वन्धेन अन्वयाद् भेदेनेति ।
पीताम्बर इत्यादिबहुव्रीहौ तु सर्वत्र लक्षणैवेत्युक्तम् । नच राजपुरुष इत्यादौ लुप्तविभक्तेः स्मरणं कल्प्यमिति वाच्यम् । अस्मृतविभक्तेरपि ततो वोधोदयात् । तस्माद्राजपदादौ राजसम्बन्धिनि लक्षणा, तस्य च पुरुषेण सहाभेदा-
राजसम्वन्ध्यभिन्नः पुरुष इति वोधः ।
न्दयः ।
.
द्वन्द्वे तु धवखदिरौ छिन्धीत्यादौ धवः खदिरश्च विभक्तयर्थद्वित्व प्रकारेण बुध्यते, तत्र न लक्षणा । अत्र मीमांसकाः - आकाशघटगतद्वित्वस्य आकाशेऽपि सत्त्वात् आकाशावित्यस्य प्रामाण्यवारणाय सुपां उद्देश्यतावच्छेदकव्याप्यसङ्ख्यावोधकत्वं स्वीक्रियते । यदि धवत्वं खदिरत्वं च प्रत्येकमुद्देश्यतावच्छेदकं स्यात् तदा धवद्वयस्य खदिरद्वयस्य च वोधापत्तिरिति धवखदिरपदस्य धवखदिरसाहित्याश्रये लक्षणा स्वीक्रियते । एवं च उद्देश्यतावच्छेदकीभूतसाहित्यव्याप्यत्वं न धवगतद्वित्वस्य,
[[147]]
नापि खदिरङ्गतद्वित्वस्य, किन्तु धवखदिरगतद्वित्वस्यैवेति न धवद्वयादेर्बोधः इति वदन्ति ।
तन्न । साहित्याश्रये लक्षणेत्यत्र साहित्यं नाम सहवृत्तित्वरूपं वा एकक्रियान्वयित्वं वा ।
नाद्यः; साहित्यशून्ययोरपि इमे घटत्वपटत्वे इति द्वन्द्वदर्शनात् । न द्वितीयः ; क्रियाभेदेsपि धवखदिरौ पश्य छिन्धि इत्यादिदर्शनात् । वस्तुगत्या एकक्रियान्वयित्वरूपसाहित्यस्य धवखदिरयोः सत्त्वेऽपि एकक्रियान्वयित्वस्य शाब्दबोधे भानाभावात् । एवं च द्वन्द्वे लक्षणाभावादेव राजपुरोहितौ सायुज्यकामौ यजेयातामित्यत्र लक्षणाभावात् द्वन्द्व आश्रीयते । तस्मात् साहित्यं नार्थः । ननु तहि द्वन्द्वकर्मधारययोः को भेदः इति चेत् वास्तवो भेदो यत्न तत्त्र द्वन्द्वः । तथाहि - ’ चार्थे द्वन्द्वः इति पाणिनीयं सूवम्म् । तत्र चार्थाः समुच्चयान्वाचयेतरेतरयोगसमाहारभेदाच्चत्वारः । तत्र इतरेतरयोग इत्यस्य इतरस्य इतरस्मिन् योगः सम्बन्धः इतरेतरयोगः इति भेदे इन्द्र इति लभ्यते । तत्र पदभेदे, पदार्थभेदे, पदार्थतावच्छेदकभेदे वा द्वन्द्वः । नीलोत्पलमित्यन्नापि पदभेदस्य पदार्थतावच्छेदकभेदस्य च सत्त्वेन द्वन्द्वप्रसङ्गात् । अतः परिशेषात् पदार्थभेदे द्वन्द्व इति लभ्यते इति तत्त्वम् । नच नीलघटयोरभेद इत्यादौ कथं द्वन्द्वः पदार्थभेदाभावादिति वाच्यम्; तत्र नीलपदस्य नीलत्वे, घटपदस्य घटत्वे लक्षणा, अभेद इत्यस्य चाश्रयाभेद इत्यर्थात् ।
समाहारदृन्द्वे तु यदि समाहारोऽप्यनुभूयत इत्युच्यते तदा अहिनकुलमित्यादौ परपदे समाहारे लक्षणा, पूर्वपदं तु तात्पर्यग्राहकम् । नच भेरीमृदङ्गं वादय इत्यत्र कथं समाहारस्यान्वयः, तस्य अपेक्षा बुद्धिविशेषरूपस्य वादनासम्भवादिति वाच्यम् । तन स्वविषयवृत्तित्वरूपपरम्परासम्बन्धेन समाहारस्य वादनेऽन्वयात् । स्वं समाहारः, तद्विषयः भेरीमृदङ्गादिः, तद्वृत्तित्वं वादने इति ।
नवीनास्तु तन्न समाहारः न बुध्यते किन्तु केवलं अहिः नकुलश्च, प्रत्येकमेकत्वान्वयः । परन्तु समाहारसञ्ज्ञा तत्रैव भवति, यत्न ‘द्वन्द्वश्च प्राणितूयें-’’ त्यादिसूत्रेण एकत्वं नपुंसकत्वं चोच्यते । अन्यत्र एकवचनमसाधु इत्याहुः । पितरौ श्वशुरावित्यादी पितृपदे जनकदम्पत्योः श्वशुरपदे स्त्रीजनकदम्पत्योर्लक्षणा । एवं हंसावित्यादिस्यलेष्वपि । घटा इत्यादी न लक्षणा, घटत्वेन रूपेण नानाघटोपस्थिति-
सम्भवात् ।
[[148]]
कर्मधारयस्थले तु, नीलोत्पल मित्यादावभेदसम्वन्धेन नीलपदार्थ उत्पलपदार्थे प्रकारः, अभेदसम्बन्धेन नीलविशिष्टमुत्पलम्, नीलाभिन्नोत्पलमिति वा बोधः, तत्र न लक्षणा । कर्मधारये लक्षणाभावादेव ’ निषादस्थपति याजयेदि ‘त्यत्र लक्षणाभावात्कर्मधारय एवाश्रीयते । तथाहि - ’ वास्तुमयं रौद्रं चरुं निर्वपेदि’ ति प्रकृत्य श्रूयते - ‘एतया निषादस्थपति याजयेदि ‘ति । तत्र निषादानां स्थपतिरिति विग्रहेण रौद्रेष्टी यागकर्तत्वं कस्यचित् त्रैवर्णिकस्य ? निषादश्चासौ स्थपतिश्चेति विग्रहेण सङ्करजात्यवच्छिन्नस्य वा ? इति संशये सङ्करजातिविशेषावच्छिन्नस्य शूद्रतया वेदानधिकारात् षष्ठीतत्पुरुषस्यैवौचित्येन त्रैवर्णिकस्यैव यागकर्तृत्वमिति पूर्वपक्षः । परन्तु कर्मधारये पूर्वपदस्य निषादसम्वन्धिनि लक्षणायां गौरवात् लाघवात् कर्मधारयस्यैवौचित्येन सङ्करजात्यवच्छिन्न एवं कर्ता इति सिद्धान्तः । ततश्च श्रुतिबलात् तात्कालिकाचार्यो पदेशादिना विद्यां सम्पाद्य धनिको निषादः रौद्रयागं कुर्यादिति तात्पर्यम् । निषादस्य विद्याधिकारकल्पनायां गौरवमिति तु न वक्तव्यम् । लक्षणाभावरूपलाघवेन कर्मधारयसमासमङ्गीकृत्य मुख्यार्थस्यान्वये पश्चादनुपपत्त्या निषादस्य वेदविद्याधिकारकल्पनायाः फलमुखगौरवतया अदोषत्वात् ।
,
उपकुम्भम्, अर्धपिप्पलीत्यादौ परपदे तत्सम्बन्धिनि लक्षणा । तस्य च पूर्वपदार्थे अभेदेन अन्वयात्, पूर्वपदार्थप्रधानतया चान्वयबोधः । कुम्भसम्बन्ध्यभिन्नं समीपमित्यादिर्बोधः । इत्थं च समासे न क्वापि शक्तिः, पदशक्तयैव निर्वाहादिति ।
आकाङ्क्षा योग्यता सन्निधिश्व वाक्यार्थज्ञाने हेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा ।
।
पदज्ञानं वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिद्वारा शाब्दबोधजनकम् इत्युक्तम् । तदा ‘घटः कर्मत्वमानयनं कृतिः ’ इत्यादितः शाब्दबोधापत्तिः । तत्नापि घटादिपदज्ञानस्य वृत्तिज्ञानसहकृतघटादिपदज्ञानजन्यपदार्थोपस्थितिरूपव्यापारसहितस्य सत्त्वादिति शङ्कायामाह - आकाङ्क्षेति । पदज्ञानं, पदार्थोपस्थितिः, तात्पर्यज्ञानं, आकाङ्क्षादयः त्रयः इत्येते षट् मिलित्वा शाब्दबोधं जनयन्ति । एवं च घटः कर्मत्वम् इत्यादौ वक्ष्यमाणाकाङ्क्षाया अभावात् न शाब्दबोधः । स्वरूपसत्या आकाङ्क्षाया अप्रयोजकत्वात् आकाङ्क्षाज्ञानमेव शाब्दवोधं प्रति कारणमिति वक्तव्यम् ।
[[149]]
ननु आकाङ्क्षा नाम इच्छा, योग्यता नाम उत्कर्षसम्पादकसद्गुणवत्त्वम्, सन्निधिः ‘सामीप्यम्, द्वयोरेकत समावेश : इति यावत् । एते चाचेतने शब्दे कथं स्युः ? किञ्च श्रोतृनिष्ठानामेतेषां कारणत्वे शाब्दबोधेच्छा रहितस्य, अयोग्यस्य, वक्तृसमावेशरहितस्यापि शाब्दबोधोत्पत्त्या नैतेषां कारणत्वकथनं युक्तमिति शङ्कायां क्रमेणाकाङ्क्षादीन् निर्वक्ति - पदस्येति । यत्पदनिष्ठशाब्दवोधजनकत्वाभावः यत्पदान्तराभावप्रयुक्तः तत्पदे तत्पदवत्त्वमाकाङ्क्षा इति तदर्थः । तत्पदे तत्पदवत्त्वं च स्वाव्यवहितोत्तरत्वस्वाव्यवहितपूर्वत्वान्यतरसम्वन्धेन तत्पदविशिष्टत्वम् । घटमानयेत्यत्र घटपदनिष्ठः घटीयं कर्मत्वमिति शाब्दबोधजनकत्वाभावः अम्पदाभावप्रयुक्तः, अम्पदाभावे घटपदमात्त्रसत्त्वेऽपि घटनिष्ठं कर्मत्वमिति वोधानुदयात् । अतः घटपदे अम्पदवत्त्वं, अम्पदे घटपदवत्त्वं वा वर्तत इति तस्मिन् वाक्यें नाकाङ्क्षायाः क्षतिः ।
अर्थाबाधो योग्यता ।
योग्यतां लक्षयतिअर्थावाध इति । अर्थस्य अवाधः वाधनिश्चयाभावः । एकपदार्थे इत्यध्याहार्यम् । एकपदार्थे अपरपदार्थवाध निश्चयाभावः योग्यता इति पर्यवसितम् ।
एकपदार्थविशेष्यकः अपरपदार्थप्रतियोगिकाभावप्रकारकश्च यो निश्चयः तदभावः योग्यता इति फलितम् । अग्निना सिश्वतीत्यत्र अग्निकरणकत्वाभाववत् सेचनम् इति सेचनविशेष्यका ग्निकरणकत्वाभावप्रकारकवाध निश्चयसद्भावेन तन्निश्चयाभावरूपयोग्यताया अभावेन अग्निकरणकं सेचनं इति प्रमात्मकवोधो न जायते । जलेन सिचतीत्यत्न जलकरणकत्वाभाववत्सेचनमिति वाधनिश्चयाभावेन जलकरणकं सेचनमिति प्रमात्मकवोधो जायते । अतो योग्यतापि शाब्दबोधे कारणमिति सिद्धम् ।
पदानामविलम्बेनोच्चारणं सन्निधिः ।
सन्निधि निरूपयति-पदानामिति । अविलम्वितप्रवृत्तिकं पदोच्चारणं सन्निधिः । प्रहरे प्रहरेऽस होच्चारितानां गामानयेत्यादिपदानां निरुक्तसान्निध्याभावेन न तादृशवाक्याच्छाब्दबोधः । वस्तुतस्तु अविलम्बेन पदार्थोपस्थितिरेव सन्निधिः । उच्चारणं तु तदुपयोगितयोक्तम् । उच्चारणस्यैव सन्निधित्वे मौनिश्लोकादिस्थले कण्ठताल्वाद्यभिघातसंयोगजन्यध्वनिरूपस्य उच्चारणस्य असम्भवेन शाब्दबोधा-
नुपपत्तिः ।
[[150]]
●
आकाङ्क्षादिरहितं वाक्यं न प्रमाणम् । यथा — गौरवः पुरुषो हस्तीति वाक्यं न प्रमाणम्, आकाङ्क्षा विरहात् । अग्निना सिञ्चतीति वाक्यं न प्रमाणम्, योग्यताविरहात् । प्रहरे प्रहरे असहोच्चरितानि गामानयेत्यादिपदानि न प्रमाणम्, सान्निध्याभावात् । वाक्यं द्विविधं वैदिकं लौकिकं चेति । वैदिकमीश्वरोक्तत्वात् सर्वमपि प्रमाणम् । लौकिकन्तु .
आप्तवाक्यं प्रमाणम् । अन्यदप्रमाणम् । वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः । एवं यथार्थानुभवो निरूपितः । आकाङ्क्षाद्यभावे शाब्दवोधाभावं क्रमेण स्थलभेदेन निर्दिशति – यथा - गौरश्व
इत्यादिना ।
आकाङ्क्षादीनां शाब्दवोधहेतुत्वं व्यतिरेकमुखेन प्रदर्शयति - आकाङ्क्षेति । ननु गौरश्व इत्यादी गवादिपदार्थस्य अन्वयसमर्पकस्य ’ चरति, धावती ‘त्यादेरभावादप्रमाणत्वम् ? उताश्वादिपदार्थान्वयेऽप्रमाणत्वम् ? नाद्यः ; चरति धावतीत्यादिपदसन्निध्यभावेन तन्त्र सन्निधिरूपकारणाभावेन अप्रमाणत्वनिर्वाहात् । न द्वितीय; गवाभेदस्य अश्वे वाधितत्वेन योग्यताभावादेव तत्र शाब्दवोधानापत्तेः । अत इदमुदाहरणम समञ्जसमिति चेन्न ; नोदाहरणमा दर्तव्यमिति न्यायेन अत्र घटः कर्मत्वमानयनं कृतिः इत्यादिक - मेवादाहरणं वोध्यम् । ननु यथा घटमानय इतिवाक्येन प्रातिपदिकार्थो घटः, प्रत्ययार्थः कर्मत्वम्, धात्वर्थः आनयनम्, आख्यातार्थः कृतिरिति पदार्था उपस्थाप्यन्ते, तथा ते सर्वे घटः कर्मत्वमानयनं कृतिरिति वाक्येनापि । अतः सन्निधिः योग्यता च वर्तेते ।
तथापि कुतो न आधेयतासम्वन्धेन घटविशिष्टकर्मत्वंस्य, आनयनविषयक - कृतेर्वा वोधः ? इति चेत् तादृशान्वयवोधप्रयोजकाकाङ्क्षायाः तत्राभावात् । घटपदस्य तादृशान्वयाननुभावकत्वं न कर्मत्वपदाभावात्, किन्तु अम्पदाभावात् । सन्निधौ पदनियमः पौर्वापर्यनियमश्च नास्ति । पर्वतो वह्निमान् गिरिरग्निमान् वह्निमान गिरिः इति यथेच्छं प्रयोगात् । आकाङ्क्षायां स नियमोऽवश्यमङ्गीकार्यः । यथा - घटपदोत्तरमेव अम्पदमेव प्रयोक्तव्यम्, न कर्मत्वपदम् नापि पूर्वनेति । प्रहरे प्रहरे ‘असहोच्चारितानीत्यन असह परस्परासमानाधिकरणसमये उच्चारितानि इत्यर्थः ।
अयमेव कालः दर्शितः प्रहरे प्रहरे इति ।
।
तर्कसङ्ग्रहे आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञाने हेतुरित्युक्तम् । भाषापरिच्छेदे तु ‘आसत्तिर्योग्यताकाङ्क्षा तात्पर्यज्ञानमिष्यते । कारणम्’ - इति कारिकायां
[[151]]
विपरीतक्रमेण एत एवोक्ताः । आसत्तिज्ञानं, योग्यताज्ञानं, आकाङ्क्षाज्ञानं, तात्पर्यज्ञानं च शाब्दबोधे कारणम् इति तदर्थः । आसत्तिर्नाम अन्वयप्रतियोग्यनुयोगिपदयोः अव्यवधानम् । तत्र ‘गिरिर्भुक्तमनिमान् देवदत्तेन’ इत्यत गिरिपदाग्निमत्पदयोः अव्यवधानभ्रमेण शाब्दबोधदर्शनात् स्वरूपसत्या आसत्तेः न शाब्दबोधकारणत्वम्, अपि तु आसत्तिज्ञानस्यैवेति बोध्यम् । वस्तुतस्तु अव्यवधानज्ञानस्य अनपेक्षितत्वात् यत्पदार्थेन यत्पदार्थस्यान्ययोऽपेक्षितः तयोरव्यवधानेन उपस्थितिः शाब्दबोधे कारणम् । तेन गिरिभुक्तमग्निमान् देवदत्तेन इत्यादौ न शाब्दबोधः । ’ नीलो घटः द्रव्यं पटः ’ इत्यादौ आतत्तिभ्रमात् शाब्दयामीत्यनुव्यवसाय भ्रमः । एवं च भ्रमाच्छाब्दबोधमातं, न तु तवासत्तिः । नच तत्र यद्यासत्तिभ्रमः तदा शाब्दबोधः भ्रमात्मकः स्यात् । न चेष्टापत्तिः । घटे नीलस्य सत्त्वेन विषयवाधाभावात् । आसत्तिभ्रमात् शाब्दप्रमाङ्गीकारे च आसत्तिभ्रमाच्छाब्दभ्रम इति प्राचीनगायाविरुद्ध इति वाच्यम् । आसत्तिभ्रमस्य शाब्दभ्रमजनकत्वानङ्गीकारात् प्राचीनगाथा तु नियुक्तिकत्वेन अश्रद्धेयैवेति ।
ननु अव्यवधानेन पदोपस्थितिः शाब्दबोधे कारणमित्युक्तम् । तन्न सम्भवति; अनेकपदघटितवाक्यस्थले अव्यवधानेन पदोपस्थित्यभावादिति । तथाहि यत्र ‘छती कुण्डली बासस्वी देवदत्त ’ इत्याद्युक्तं तत्रोत्तरपदस्मरणेन पूर्वपदस्मरणस्य नाशात् अव्यवधानेन तदुत्तरपदस्नरणासम्भवात् इति चेन्न । यथा घटचक्षुस्संयोगस्य पटप्रत्यक्षे कारणत्वाभावेऽपि श्रचक्षुस्संयोगाभ्यां एकं समूहालंवनात्मकं प्रत्यक्षं जायते, तथा तत्तत्पदश्रीरसंस्कारस्य भिन्नविषयकत्वांशेऽजनकत्वेऽपि तत्तत्संस्कारजन्यमेकमेव स्मरणं जायते, नानासंस्काराणामेकस्मरणजनकत्वाभावे कथं नानावर्णैरपि
बाधकाभावात् ।
एकपदम्मरणम् ?
परन्तु तावत्पदार्थानां स्मरणादेकदेव ’ खले कपोत ‘न्यायेन तावत्पदार्थानां क्रियाकर्मभावेन अन्वयरूपः शाब्दबोधः भवतीति केचित् । तन्दा हुरुदयनाचार्याः-
वृद्धा युवानः शिशवः कपोताः खले यथामी युगपत्पतन्ति ।
तथैव सर्वे युगपदार्थाः परस्परेणान्वयिनो भवन्ति ॥ इति ।
प्राचीनमते -नानापदविषयक कस्मरणकल्पने, चरमवर्णज्ञानस्य तदुद्बोधकत्वकल्पने, नानापदार्थविषयकैकर मरणकल्पनेच गौरवमित्यस्वरमात् नवीना एवमाहुः ।
[[152]]
इति
तथाहि-
मद्यपाकाङ्क्षितं योग्यं सन्निधानं प्रपद्यते ।
तेन तेनान्वितः स्वार्थः पदैरेवावगम्यते ॥
कणादसूत्रभाष्यकर्तॄणां प्रशस्तपादाचार्याणां वचनम् । घटादिपदार्थाकाङ्क्षितं घटोपस्थितिजन्यं किं घटीयम् इति जिज्ञासाविषयीभूतं योग्यं योग्यताज्ञानाधीनं कर्मत्वादि यद्यत् सन्निधानं प्रपद्यते स्वार्थोपस्थितिविषयो भवति तेन तेनैव अन्वितः स्वार्थः पदै. प्रथममनुभाव्यते इति तदर्थः । तथाच आनयनरूपार्थोपस्थितेः प्रथममेव घटम्’ इति वाक्यात् घटीयं कर्मत्वमिति बोधो भवति, तदनन्तरं च घटकर्मकमानयनमिति महावाक्यार्थबोधः । तथाच खण्डवाक्यार्थबोधानन्तरं तथैव पदार्थस्मृत्यामहावाक्यार्थवोधात् पूर्वोक्तसमूहालम्बनात्मक पदार्थज्ञानं विनापि निर्वाह इति ।
अत्र वैयाकरणाः-घट इति समुदायो न वाचकः, उत्पन्नानामभिव्यक्तानां वा वर्णानां समुदायस्य एकदा प्रत्यक्षासम्भवात् । नापि प्रत्येकं वर्णा वाचकाः, द्वितीयादिवर्णोच्चारणवैयर्थ्यापत्तेः । अतः पूर्वपूर्ववर्णानुभवजन्यसंस्कार सध्रीचीनचरमवर्णानुभवजन्यसंस्कारेण अभिव्यक्तः स्फोट एव वाचक इति वदन्ति । तन्न; पूर्वपूर्ववर्णानुभवजन्यसंस्कारसध्रीचीनचरमवर्णानुभवजन्य संस्कारेण क्रमिकवर्णविशिष्टपदस्मरणेनैव घटाद्यर्थबोधोपपत्तौ स्फोटाङ्गी कारवैयर्थ्यात् ।
अथ प्राभाकरा एवमाहुः - पदजन्यपदार्थोपस्थितिः शाब्दबोधे न कारणम् ; किन्तु लाघवात् पदार्थोपस्थितिरेव कारणम् । अत एव यत्न केवलं ’ द्वारम् ’ इत्युक्तं न तत्र पिधेहीति पदाध्याहारः, किन्तु पिधानरूपार्थाध्याहार एवेति । तन्त्र ; तत्र पिधेहीत्यादिपदाध्याहारादेव बोधः, न तु पिधानादिरूपार्थज्ञानात् । तत्तत्पदजन्यतत्तत्पदार्थोपस्थितेः तत्तच्छाब्दबोधे हेतुत्वात् । पदार्थोपस्थितिमात्रस्य हेतुत्वे प्रत्यक्षोपस्थितघटादेरपि शाब्दबोधे भानापत्तेः । नच तात्पर्याभावादेव न प्रत्यक्षोपस्थित घटादेः शाब्दबोधे भानम् । तात्पर्यसत्त्वे त्विष्टापत्तिरिति वाच्यम् । तथापि क्रियाकर्मपदानां तत्तदानुपूर्वी विशिष्टरूपेणैवाकाङ्क्षितत्वात् लोडन्त - अपीत्युपसर्गसमभिव्याहृत पाधातुपदं विना द्वितीयान्तद्वारपदमात्रेण कथं बोधः स्यात् ?
तथा पुष्पेभ्य इत्यादी स्पृहयतीति पदाध्याहारं विना चतुर्थ्यनुपपत्तेः पदाध्याहारः
आवश्यकः इति ।
N. P. Sahitya
[[153]]
11-
कारिकायां–’ पदार्थों तव तद्वत्ता योग्यता परिकीर्तिता’ इति योग्यतानिर्वचनं कृतम् । एकपदार्थे अपरपदार्थसम्बन्धः योग्यतेति तदर्थः । तज्ज्ञानाभावाच्च वह्निना सितीत्यादी न शाब्दबोधः ।
नन्वेतादृशयोग्यतायाः ज्ञानं न शाब्दबोधात् प्राक् सर्वत्र सम्भवति । सर्वत्र वाक्यार्थस्य अपूर्वत्वेव शाब्दबोधात्पूर्वमनिश्चितत्वात् इति चेन्न ; तत्तत्पदार्थस्मरणे सति क्वचित्संशयरूपस्य क्वचिन्निश्चयरूपस्य योग्यताज्ञानस्य सम्भवात् ।
चिन्तामणिकारास्तुयोग्यताज्ञानं न शाब्दबोधकारणम्, किन्तु वह्निना सिश्वतीत्यादी सेके वह्निकरण कत्वाभावरूपा योग्यतानिश्चयेन प्रतिबन्धान्न शाब्दबोधः । लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्वत्ताबुद्धिसामान्यं प्रति तदभाववत्ता निश्चयस्य प्रतिबन्धकत्वात् शाब्दबोधं प्रत्यपि प्रतिबन्धकत्वं सिद्धम् । शङ्खो न पीत इति निश्चयसत्त्वेऽपि पित्तादिदोषवशात् ‘पीतः शङ्ख’ इति शङ्ख पीतत्ववत्ताप्रत्यक्षबुद्धेरुत्पत्त्या प्रतिबध्यतावच्छेदककोटौ लौकिकसन्निकर्षाजन्येति । शुक्तौ नेदं रजतमिति ज्ञानसत्त्वेऽपि मण्डूकवसाञ्जनादिदोषेण इदं रजतमिति भ्रमस्योदयादुक्तम्दोषविशेषाजन्येति । तत्र यत्न न योग्यताज्ञानं तत्र शाब्दबोधापत्तिरिति वाच्यम् ; इष्टापत्तेः । योग्यताज्ञानविलम्बाच्छाब्दबोधस्यासिद्धेः इति वदन्ति ।
’ यत्पदेन विना यस्याननुभावकता भवेत् । आकाङ्क्षा’ - इति कारिकायां व्याकाङ्क्षार्निर्वचनं कृतम् । येन पदेन विना यत्पदस्यान्वयाननुभावकत्वं तेन पदेन सह तस्याकाङ्क्षा । त्रियापदं विना कारकपदं नान्वयबोधं जनयतीति तेन तस्याकाङ्क्षा ।
वस्तुतस्तु एकपदे अपरपदवत्त्वं नाम अपरपदाव्यवहितोत्तरत्वम् । तत्र च अव्यवधानस्यासत्त्यैव लाभः, आसत्तेः पदाव्यवधानंरूपतायाः पूर्वमुपदर्शितत्वात् । उत्तरत्वं च क्रियाकारकपदयोनपिक्षितम् । चैत्रः पचति पचति चैत्र इति वाक्यद्वयादपि दोधात् त्रियाकारकपदयोनाङ्काङ्क्षा, किन्तु प्रकृत्यव्यवहितोत्तरत्व मेवाकाङ्क्षा । तत्र अव्यवधानांशस्यासत्त्यैव लाभात् प्रत्यये प्रकृत्युत्तरत्वरूपाकाङ्क्षाज्ञानं कारणम् ।
•
नच अयमेति पुन्ना राज्ञः पुरुषोऽपसार्यतामित्यादौ अन्वयबोधानुत्पत्तिदशायां राजपदस्य पुत्रपदेनेव पुरुषपदेनाप्याकाङ्क्षासत्त्वात् राज्ञः पुरुष इत्यन्वयबोधः स्यादिति वाच्यम् । पुत्रेण सह राजपदस्य तात्पर्यग्रहसत्त्वे तेनैवान्वयबोधः । एवं च राजपदपुरुषपदयोराकाङ्क्षायाः सत्त्वेऽपि तात्पर्याभावान्न तथान्वयबोधः । पुरुपेण सह
[[154]]
तात्पर्यग्रहे तु तेन सह. अन्वयवोधः स्यादेवेति । इदं च यथाश्रुताकाङ्क्षा भिप्रायेणेति बोध्यम् ।
कारिकायां ’ वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम् ’ इत्युक्तम् । तथाच तात्पर्यज्ञानमपि शाब्दबोधं प्रति कारणम् । यदि तात्पर्यज्ञानं कारणं न स्यात् तदा सैन्धवमानयेत्यादौ क्वचिदश्वस्य क्वचिल्लवणस्य बोध इति न स्यात् । नच तात्पर्यग्राहकप्रकरणादीनां शाब्दबोधे कारणत्वमस्त्विति वाच्यम् ; तेषामननुगमात् । ज्ञानजनकत्वेन तेषामनुगमे तु तात्पर्यज्ञानमेव लाघवात् कारणमस्तु । स्वरूपाणि, उदाहरणानि च ‘संयोगो
’ संयोगो विप्रयोगश्चे ‘ति श्लोकव्याख्यापुरस्सेरं
प्रदशितानि ।
तात्पर्य-
प्रकरणादि-
इत्थं च वेदस्थलेऽपि तात्पर्यज्ञानार्थमीश्वरः कल्प्यते । नच तत्र अध्यापकतात्पर्यज्ञानं कारणमिति वाच्यम् ।
सर्गादौं अध्यापकाभावात् । नच प्रलय एव नास्ति, कुतः सर्गादिरिति वाच्यम् । प्रलयस्यागमेषु प्रतिपाद्यत्वात् । (नाहो न रात्रिः न नभो न भूमिः नासीत्तमो ज्योतिरभून्न चान्यत् इत्याद्याः । ) इत्थं च शुकवाक्येsपि ईश्वरीयतात्पर्यज्ञानं कारणम् ।
विसंवादिशुकवाक्ये तु शिक्षयितुरेव तात्पर्यज्ञानं
कारणम् । ईश्वरेच्छायाः विसंवादित्वे ईश्वरस्य सत्यसङ्कल्पत्वक्षतेः ।
अन्ये तु नानार्थादौ क्वचिदेव तात्पर्यज्ञानं कारणम् । तथाच शुकवाक्ये विनैव तात्पर्यज्ञानं शाब्दबोधः । वेदे तु अनादिमीमांसया परिशोधितैः लाघवज्ञानात्मकतकैः अर्थावधारणम् । यथा ‘कपिञ्जलानालभेत ’ इत्यत्न बहुवचनार्थः त्रित्वं, बहुवचनवाच्यत्वात् इत्यनुमानेन लाघवज्ञानसहकृतेन वित्वानुमितिः । चतुष्ट्वादेरपि बहुवचन वाच्यत्वात् इति ।
इति शब्दपरिच्छेदः
अयथार्थानुभवः त्रिविधः संशय विपर्ययतर्कभेदात् । एकस्मिन् धर्मिणि विरुद्धनानाधर्म वैशिष्टयावगाहिज्ञानं संशयः । यथा -स्थाणुर्वा पुरुषो वा इति ।
प्रत्यक्षादीनामनुभवानां यथार्थायथार्थभेदेन द्वैविध्यं पूर्वमुक्तम् । तत्र यथार्थ - प्रत्यक्षादयः निरूपिताः । इदानीमयथार्थानुभवं विभजते–अयथार्थानुभव इत्यादिना । तव संशयं लक्षयति - एकस्मिन्निति । एकधर्मिविशेष्यकत्वे सति विरुद्धनानाधर्म-
15.5.
प्रकारकत्वे सति ज्ञानत्वं संशयस्य लक्षणम् । स्थाणुर्वा पुरुषो वेति संशये पुरोयतवस्तुरूपकधर्मिविशेष्यकत्वस्य स्थाणुत्व पुरुषत्वरूपविरुद्धनानाधर्मप्रकारकत्वस्य ज्ञानत्वस्य च सत्त्वात् समन्वयः । ज्ञानत्वमात्रोक्तौ विपर्ययादी, ज्ञानत्वानुपादाने संशयजन्यसंस्कारे, स्थाणुर्वा पुरुषो वेति संशयो मे भूयादितीच्छायां वा अतिव्याप्तिः । प्रथमसत्यन्तानुपादाने पर्वतो वह्निमान् ह्रदो वह्नयभाववान् इति समूहालम्बनभ्रमे बतिव्याप्तिः । तव वह्निवह्नयभावरूपविरुद्धनानाधर्मयोः प्रकारत्वात् । एकधर्मविशेष्यकन्त्वस्योपादाने तु तज्ज्ञानस्य धर्मिद्वयमुख्य विशेष्यकतया नातिव्याप्तिः । नानापदानुपादाने पर्वतो वह्नधभावविरुद्धवह्निमानितिज्ञानेऽतिव्याप्तिः । तत्र पर्वतरूपङ्कधर्मिविशेष्यकवह्न्यभावविरुद्धवह्निरूपविरुद्धधर्मप्रकारकत्वस्य च सत्त्वात् । अतो नानापदम् । तन्निवेशे तु तत्र वह्नघभावविरुद्ध वह्निरूपैकधर्मस्यैव प्रकारत्वेन नानाधर्मप्रकारकत्वाभावात् । न चैत्रमपि पर्वतो वह्नयभावविरुद्धवह्निधूमवान् इति वह्निधूमोभयांशेऽपि वह्न्यभावविरुद्धत्वावगाहिनि निश्चयेऽतिव्याप्तिः इति वाच्यम् । मुख्यप्रकारीभूतनानाधर्मयोः परस्परं विरोधस्य विवक्षितत्वात् । पूर्वोक्तज्ञान्नीयवह्निषूमयोः परस्परमविरुद्धत्वात् । विरुद्धपदानुपादाने घटपटवद्भ तलमिति एकत्र द्वयमितिरीत्यावगाहिज्ञाने एकधर्मिविशेष्यकत्वनानाधर्मप्रकारकत्वज्ञानत्वानां सत्त्वादतिव्याप्तिः । विरुद्धपदनिवेशे तु घटपटयोविरुद्धत्वाभावान्नातिव्याप्तिः ।
नन्वेवमपि शते पञ्चाशन्न्यायेन पर्वतो वह्निमान् हृदो वह्नयभाववान् इति समूहालम्बने एकधर्मिविशेष्यकत्वस्यापि सत्त्वादतिव्याप्तिरिति चेन्न एकधर्मिनिष्ठविशेष्यतानिरूपिताः विरुद्धनानाधर्मनिष्ठाः याः प्रकारता : तन्निरूपकत्वस्यैव विवक्षितत्वात् । प्रवृते च एकधर्मनिष्ठविशेष्यतानिरूपिता न नानाधर्मप्रकारता इति नातिव्याप्तिः । एवमपि द्रव्यं वह्निमत् ह्रदो वह्न्यभाववान् इति समूहालम्बने द्रव्यत्वेन रूपेण हृदस्यापि विशेष्यतया एकस्मिन् हृदरूपे धर्मिणि वह्नितदभावयोः प्रकारत्वेन अतिव्याप्तितादवस्थ्यम् । तद्वारणाय एकधर्मावच्छिन्नविशेष्यतानिरूपत्वं विरुद्ध रानाधर्मनिष्ठप्रकारतासु विशेषणीयम् । तत्र च द्रव्यत्वहदत्वाभ्यां भासमानहदधमिणि नानाधर्नयोः प्रकारत्वेऽपि एकधर्मावच्नेि तयोः प्रकारत्वाभावात् नातिव्याप्तिः ।
[[156]]
(अवायं विचारः-
बुद्धेः प्रपञ्चः प्रागेव प्रायशो विनिरूपितः । अथावशिष्टोऽप्यपरः प्रकारः परिदर्श्यते ॥ अप्रमा च प्रमा चेति ज्ञान द्विविधमिष्यते । तच्छून्ये तन्मतिर्या स्यादप्रमा सा निरूपिता ॥ तत्प्रपञ्चो विपर्यासः संशयोऽपि प्रकीर्तितः ।
इति कारिकावल्युक्तदिशा बुद्धिविचारः पूर्वं निरूपित एव । तस्याश्च प्रमा अप्रमा चेति हौ भेदौ । प्रमा यथार्थानुभवः, अप्रपा अयथार्थानुभवः इत्युच्यते । तदभाववति तत्प्रकारकं ज्ञानं अयथार्थानुभवः इति पूर्वमेवोक्तम् । तस्य हौ भेदौ विपर्यासः, संशयश्चेति । अत्र तनुपलक्षणीयः ।
आद्यो देहेष्वात्मबुद्धिः शङ्खादी पीततामतिः । भवेन्निश्चयरूपा या संशयोऽथ प्रदर्श्यते ॥ किं स्विन्नरो वा स्थाणुर्वेत्यादि बुद्धिस्तु शयः । तदभावाप्रकारा धीः तत्प्रकारा तु निश्चयः । स संशयो मतिर्या स्यादेकत्वाभावभावयोः । साधारणादिधर्मस्य ज्ञानं संशयकारणम् ॥
आभिः कारिकाभिः विपर्ययादीनामुदाहरणानि, संशयकारणानि च प्रपश्वितानि । शरीरादी निश्चयरूपं यदात्मत्वप्रकारकज्ञानं गौरोऽहमित्याकारकम् एवं शङ्खादी पीतः शङ्खः इत्याकारकं यत् ज्ञानं निश्चयरूपं तद् भ्रम इति । किं स्विदयं नरो वा स्थाणुर्वा इत्यादिबुद्धिः संशयः । किं स्विदिति वितर्कार्थकः शब्दः । तदभावाप्रकारकं तत्प्रकारकं ज्ञानं निश्चयः । नच ‘स संशयो मतिर्या स्यादेकत्राभावभावयोः ’ इति मूलात् एकवृत्तिभावाभावविषयकज्ञानत्वं संशयत्वमित्यर्थो लभ्यते । तच्च न सम्भवति, वृक्षः कपिसंयोगतदभाववान् इति ज्ञानेऽतिव्याप्तेः इति वाच्यम् । धर्मिकविरुद्धभावाभावप्रकारकज्ञानं संशयः इति तदर्थस्वीकारात् । तदभावयोश्च विरोधाभावात् ।
एक-
कपिसंयोग-
विरुद्धेत्यस्य विरोधसंसर्गावगाहीत्यर्थः । तेन हृदो वह्निमान् वह्नघभाववांश्चेति समुच्चयज्ञाने नातिव्याप्तिः । पुरुषो वा स्थाणुर्वेत्यादौ संशयाभिलापकवाक्ये पुरुषस्थाणुपदयोः पुरुषत्वं स्थाणुत्वं चार्थः । बाकारयोः
[[157]]
।
पुरुषत्वाभावः स्याणुत्वाभावश्चार्थः । तथाच स्थाणुत्वस्याणुत्वा भाव पुरुषत्वपुरुषत्वाभावकोटिकः संशयः इत्येकं मतम् । अथवा स्थाणुपदस्य स्थाणुत्वं, पुरुषपदस्य स्याणुत्वाभावः अर्थः । अथवा पुरुषपदस्य पुरुषत्वं, स्थाणुपदस्य पुरुषत्वाभावः अर्थः । वाकारद्वयं प्रकारताद्वयनिरूपितङ्कविशेष्यता सूचकम् । तथाच स्थाणुत्वस्याणुत्वाभावकोटिकः, पुरुषत्वपुरुषत्वाभावकोटिको वा संशय इत्यन्यन्मतम् । मतद्वयेऽपि भावद्वयकोटिकः संशयो नास्ति । भावद्वयकोटिकसंशयाङ्गीकर्तृमते तु स्थाणुपुरुषपदयोः स्याणुत्वपुरुषत्वार्थकत्वं वाकारद्वयं च ‘अयं स्थाणुः पुरुषश्च’ इति समुच्चयव्यावृत्तप्रकारताद्वयनिरूपितैकविशेष्यताकत्वसूचनाय । तन्मते च स्थाणुत्वपुरुषत्वकोटिकः संशयः । भावद्वय कोटिकसंशयमते विरुद्धनानाधर्मपदेन स्थाणुत्वपुरुषश्वरूपी धमो मतान्तरे च स्याणुत्वस्थाणुत्वाभावपुरुषत्वपुरुषत्वाभावादिविरुद्धभावाभावो चादाय समन्वय इति ।
मिथ्याज्ञानं विपर्ययः । यथा शुक्तौ इदं रजतमिति ज्ञानम् ।
तथापि
।
पूर्व प्रत्यक्षपरिच्छेदे अयथार्थानुभवः सोदाहरणं निरूपितः । प्रकरणानुराधात् पुनः विशदीक्रियते । मिध्या च तत् ज्ञानं च मिथ्याज्ञानम् । ज्ञानेमिध्यात्वं च तदभाववद्विशेष्यकत्वविशिष्टतत्प्रकारकत्वम् । तथाच तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताकत्वे सति ज्ञानत्वं विपर्ययलक्षणम् । शुक्ताविदं रजतमिति ज्ञाने तत्पदग्राह्यरजतत्वाभाववच्छुक्तिनिष्ठविशेष्यतानिरूपित रजतत्वनिष्ठप्रकारताकत्वज्ञानत्वयोः सत्त्वात्समन्वयः । नन्वेवं सति स्थाणुर्वा पुरुषो वेति संशये, यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यादिति तर्फे च एतल्लक्षणस्यातिव्याप्तिरिति तर्कभिन्नत्वनिश्चयत्वयोनिवेशात् । वस्तुतस्तु तर्कभिन्नत्वं लक्षणे म निवेशनीयम् । किन्तु आहार्यत्वानाहार्यत्वे लक्षणकोट्यप्रविष्टे संशयविपर्यययोः भेदके इति बोध्यम् ।
चेन
संशयस्य स्वरूपं लक्षणं चोपपादितम् । इदानीं तस्य सामग्री निरूप्यते । उभयसाधारणो यो धर्मः तज्ज्ञानं संशयकारणम् । तद्वृत्तित्वे सति तदितरवृत्तित्वं साधारणत्वम् । यथा उच्चैस्त्वं स्थाणुपुरुषसाधारणं गृहीत्वा अयं स्थाणुर्न वा इति सन्दिग्धे । एवमसाधारणधर्मज्ञानमपि कारणम् । तच्च कोटिद्वयाधिकरणावृत्तित्वेन गृह्यमाणधर्मप्रकारकनिश्चयः । यथा - शब्दत्वस्य नित्यानित्यव्यावृत्तत्वं गृहीत्वा शब्दो नित्यों न वा इति सन्दिग्धे
[[158]]
विरुद्धकोटिद्वयप्रतिपादकवाक्यद्वयं विप्रतिपत्तिः ।
सा च शब्दात्मिका न संशयकारणम् । व्याप्तिज्ञानातिदेशवाक्यार्थज्ञानयोरिव शब्दज्ञानस्यापि निश्चयं प्रत्येवं जनकत्वात् । परन्तु विप्रतिपत्तिस्थले शक्तिज्ञानसहकृतशब्दज्ञानेन भावाभावरूपको टिद्वयस्मरणमात्रं जन्यते । संशयस्तु मनःकरणक एव न विप्रतिपत्तिकरणकः । अतः विप्रतिपत्तेः संशयप्रयोजकत्वमेव, न कारणत्वमिति ।
अयं
स्थाणुः इति ज्ञानोत्तरं इदं ज्ञानं प्रमाणं न वा इति ज्ञाने प्रामाण्यसंशयात् अयं स्थाणुर्न वा इति विषयसंशयः । एवमप्रामाण्यसन्देहोऽपि विषयसन्देहे स्वातन्त्र्येण हेतुः । एवं व्याप्यस्य धूमादेः संशयात् व्यापकवह्नयादिसंशयः । महानसे हुताशनः न जलहदे इति स्मरतां पर्वतादिकमपि पश्यतां धूमादिसंशयभावाभावाभ्यां हुताशनसंशयभावाभावदर्शनात् तस्यापि तद्धेतुत्वम् । एवं संशये धर्मिज्ञानम्, धर्मीन्द्रियसन्निकर्षो वा पृथक्कारणमिति ।
दोषोऽप्रमायाः जनकः प्रमायास्तु गुणो भवेत् ।
पित्तदूरत्वादिरूपो दोषो नानाविधो मतः ॥
अप्रमां प्रति दोषः कारणम्, प्रमां प्रति गुणः कारणम् । तत्रापि पित्तादिरूपा ये दोषा अननुगताः तेषां कारणत्वमन्वयव्यतिरेकसहता रज्ञान सहकृतप्रत्यक्षप्रमाणादेव सिद्धम् । गुणस्य प्रमाजनकत्वं तु अनुमानात्, प्रत्यक्षाच्च सिद्धम् । अनुमानं यथा—प्रमा ज्ञानसामान्यकारणभिन्नकारणजन्या जन्यज्ञानत्वात् अप्रभावत् इति । नच दोषाभाव एव कारणमस्तु इति वाच्यम् । पीतः शङ्खः इति ज्ञानस्थलेऽपि पित्तरूपदोषसत्त्वात् शङ्खप्रमानुत्पत्तिप्रसङ्गात् । नच पित्तद्रव्यरूपदोषसत्त्वे शुक्लत्वप्रकारक - प्रमाया एवानुत्पत्तिः, न शङ्खत्वप्रकारकप्रमायाः इत्यनुभवबलात् शुक्लत्वप्रकारकप्रमां प्रत्येव दोषाभावस्य हेतुत्वस्वीकारात् तादृशदोषसत्ताकाले शङ्खत्वप्रमोत्पत्ती बाधकाभाव इति वाच्यम् । विनिगमनाविरहात् अनन्तदोषाभावकारणत्त्रमपेक्ष्य गुणस्य कारणतायाः न्याय्यत्वात् । नच गुणसत्त्वेऽपि पित्तेन प्रतिबन्धात् शङ्ख न वैत्यज्ञानम् । अतः पित्तादिदोपाभावानां कारणत्वमवश्यं वाच्यम् । तथाच कि गुणस्य हेतुत्वकल्पनेनेति वाच्यम् । तथापि अन्वयव्यतिरेकाभ्यां गुणस्यापि हेतुत्वसिद्धेः । गुणश्च विशेषणवद्विशेष्यसन्निकर्षादिरिति वक्ष्यते । गुणस्यान्वयव्यतिरेकसत्वेऽपि अन्यथासिद्धत्वे भ्रमं प्रति गुणाभावः एव कारणमित्यपि सुवचं स्यात् । तत्र दोषाः के ? इत्याकाङ्क्षायामुक्तम् - पित्तेति । क्वचित् पीतादिभ्रमे पित्त दोषः । क्वचिन्चन्द्रादेः
।
[[159]]
स्वल्पपरिमाणमे दूरत्वं दोषः । वर्वाचिच्च वंशोरगभ्रमं मण्डूकवसाञ्जनम् इत्येवंरूपा अननुगता एवं दोषाः भ्रान्तिजनका इत्यर्थः ।
अथ के गुणा इत्याकाङ्क्षायां प्रत्यक्षादौ क्रमेण गुणाः कारिकायां सङ्गृहीताः-
प्रत्यक्षं तु विशेष्येण विशेषणत्रता समम् । सन्निकर्षो गुणस्तु स्यादथ त्वनुमितौ पुनः ॥ पक्षे साध्यविशिष्टे तु परामशों गुणो भवेत् । शक्ये साम्यवृद्धिस्तु भवेदुपमितौ गुणः ॥ शाब्दबोधे योग्यतायाः तात्पर्यस्याथवा प्रेमा ।
गुणः स्यात् भ्रमभिन्नं तु ज्ञानभवोच्यते प्रमा ॥ इति ।
.
तथा
प्रत्यक्षे विशेषणवद्विशेष्यसन्निकर्षः गुणः । अनुमितौ साध्यवति साध्यव्याप्यवैशिष्ट्यं गुणः । एवमग्रे ऽप्यूह्यम् । अवेदमप्यवधेयम् । प्रमात्मकप्रत्यक्षे उक्तः लौकिकसन्निकर्षः, भ्रमात्मके पित्तकामलादिदोषश्च कारणम् । प्रमात्मकानुमितिस्तु प्रमात्मकपरामर्शात् भ्रमात्मक परामर्शाच्च जायते । यथा वह्निव्याप्यधूमवान् पर्वतः इति प्रमात्मकपरामर्शात् पर्वतो वह्निमानित्यनुमितिः प्रमात्मिका जायते, धूमव्यप्यवह्निमान् पर्वतः इति भ्रमात्मकपरामर्शादपि पर्वतो धूमवानिति प्रमा कानुमितिः जायते । भ्रमात्मकानुमितिस्तु भ्रमात्मकपरामर्शादेव जायते, हदो वह्निमान्, हृदो धूमवान् इत्याद्यनुमितीनां व्याप्त्यंशे पक्षधर्मत्वांशे अंशद्वयेऽपि वा भ्रमात्मकपरामर्शरेवोत्पद्यमानत्वात् । प्रमात्मकशाब्दवोधस्तु शक्तिप्रमातः शक्तिभ्रमाच्च जायते । पर्वतो वह्निमानितिवाक्यस्थले शक्तिप्रमातः वह्निमदभिन्नः पर्वतः इति प्रमात्मकवोधो जायते । हृदो वह्निमानितिंवाक्यस्थले हृदपदस्य पर्वते शक्तिरिति शक्तिभ्रमात् वह्निमदभिन्नः पर्वतः इति प्रमात्मकबोधो जायते इति ।
ननु मभिन्नं ज्ञानं प्रमा इत्युक्तम् । यत्न शुक्तिरजतयोः इमे रजते इति ज्ञानं जातं तत्र रजतांशेऽपि प्रमा न स्यात् ।
तज्ज्ञानस्य भ्रमभिन्नत्वाभावादिति चेन्न ; तद्वद्विशेष्यकत्वे सति तत्प्रकारकं ज्ञानं प्रमा । पूर्वोक्तं च ज्ञानं रजतांशे प्रमेव । परं तु न तत् सर्वाशि प्रमात्मकं ज्ञानम् । रजते इदं रजतमिति पर्वतो वह्निमानित्यादिज्ञानं तु सर्वाशि प्रमात्मकम् । पर्वता वह्निमान् ह्रदो वह्निमान् इत्यादि समूहालम्वनात्मकं ज्ञानं न सर्वाणि प्रमात्मकम् ये वह्नचंशे भ्रमात्मकत्वात्तस्य । एवं शुक्तिरजतयोः
[[160]]
इमे रजते इति ज्ञानमपि । सर्वाशे प्रमात्वं च स्वव्यधिकरणप्रकारावच्छिन्ना या या स्वात्मिका विशेष्यता तत्तदनिरूपकत्वम् । स्वपदं विशेष्यतापरम् । स्वव्यधिकरणप्रकारावच्छिन्नत्वं च स्वव्यधिकरणनिष्ठ प्रकारता निरूपकत्वम् । तथाच पूर्वोक्तसमूहालम्बने स्वपदेन’ हृदनिष्ठ विशेष्यतायाः परिग्रहे स्वव्यधिकरणवह्निनिष्ठप्रकारतानिरूपित विशेष्यतानिरूपकत्वमेव तत्र वर्तत इति न तस्य सर्वांशे प्रमात्वम् ।
ननु पूर्वोक्तप्रमालक्षणस्य स्मृतावपि सत्त्वेन तस्या अपि प्रमात्वं स्यात् । ततः किमिति चेत् । तथा सति स्मृतिकरणस्यापि प्रमाणान्तरत्वं स्यादिति चेन्न ; यथार्थानुभवकरणस्यैवात्र प्रमाणत्वेन विवक्षितत्वात् स्मृतिभिन्नज्ञानस्यैव अनुभवत्वेन स्मृति-करणस्य प्रमाणान्तरत्वायोगात् ।
इदन्तु बोध्यम्—तद्वद्विशेष्यकत्वे सति तत्प्रकारत्वे सति ज्ञानत्वमिति प्रमालक्षणे येन सम्बन्धेन यद्वत्ता तेन सम्बन्धेन तद्वद्विशेष्यकत्वं तेन सम्वन्धेन तत्प्रकारकत्वं च वाच्यम् । तेन कपालादौ संयोगादिना घटादिज्ञाने नातिव्याप्तिः । न चैवं सति निर्विकल्पकं प्रमा न स्यात्, तस्य सप्रकारकत्वाभावादिति वाच्यम् । ‘न प्रमा नापि भ्रमः स्यान्निर्विकल्पकम्’ इत्युक्तदिशा निर्विकल्पकस्य प्रमाभिन्नत्वस्येष्टत्वात् । प्रकारतादिशून्यत्वात्तस्य सम्वन्धानवगाहित्वाच्च । नच तहि यथार्थानुभववैविध्यापत्तिः, पूर्वोक्तभ्रमभिन्नत्व रूपप्रमात्वस्य तत् सत्त्वात् ।
ननु वृक्षः कपिसंयोगी इतिज्ञानं भ्रमः प्रमा च स्यादिति चेन्न प्रतियोगिव्यधिकरणकपिसंयोगाभाववति कपिसंयोगज्ञानस्यैव भ्रमत्वात् । तथाच कपिसंयोगानधि-. करणं यत् कपिसंयोगाभाववत् तद्विशेष्यककपिसंयोगप्रकारकज्ञानस्यैव भ्रमत्वेनं तस्य च वृक्षः कपिसंयोगी इति ज्ञाने असत्त्वेन नोक्तापत्तिः । नच मूले वृक्षः कपिसंयोगी इति वृक्षे कपिसंयोगाभावावच्छेदेन कपिसंयोगज्ञानं भ्रमो न स्यात् । तत्र संयोगाभावस्य ‘प्रतियोगिसमानाधिकरणत्वादिति वाच्यम् । अव्याप्यवृत्तिधर्मप्रकारकप्रमस्थले तद्वति तद्विशेष्य कतदनवच्छेदकाव च्छेद्यतत्त्रकारकज्ञानत्वमेव भ्रमत्वम् । व्याप्यवृत्त्यव्याप्यवृत्तिधर्मप्रकारक भ्रमस्य लक्ष्यस्याननुगमात् लक्षणस्याननुगमेऽपि न क्षतिः ।
अथ प्रामाण्यवादः
पूर्वोक्तं प्रमात्वं नैयायिकमते परतो ग्राह्यम् । मीमांसकमते तत्र मीमांसकमतनिरासाय तन्मतं तावत् प्रथमतः अनूद्यते ।
स्वतोग्राह्यम् ॥ मीमांसका हि
[[161]]
तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वरूपं पर्यवसितं प्रमात्वं स्वतो ग्राह्यमिति वदन्ति ।
तत्र प्राभाकरमीमांसकानां मते सर्वं ज्ञानम् - अयं घटो घटमहं जानामीत्याकारकम् । तच्च ज्ञानं स्वप्रकाशं, स्वविषयकम्, स्वाभिन्नज्ञानविषयकमिति यावत् । तत्र ज्ञानस्य तद्गतप्रामाण्यस्य वा ज्ञानान्तरग्राह्यत्वे तादृशज्ञानान्तरस्य तद्गतप्रामाण्यस्य च ग्रहार्थं ज्ञानान्तरापेक्षायामनवस्थापत्त्या स्वप्रकाश रूपत्वमवश्यमङ्गीकर्तव्यम् ।
तत्र ज्ञानप्रामाण्यं तदप्रामाण्या ग्राहक यावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा इति विप्रतिपत्तौ विधिकोटिः स्वतस्त्वं निषेधकोटिः परतस्त्वम् । स्वतस्त्वं अथवा स्वतोग्राह्यत्वं नाम ज्ञानसामात्यग्राहकसामग्री जन्यग्रहविषयत्वम्, परतस्त्वं अथवा परतो - ग्राह्यत्वं नाम अनुमानादिप्रमाणान्तराधीनग्रह विषयत्वम् । अत प्रामाण्यमिति पक्षबोधकपदम्, सामग्रीग्राह्यं न वेति साध्यबोधकम्, प्रामाण्यत्वादिः हेतुः । अन प्रत्यक्षादिप्रमाणधर्मस्य प्रमाकरणत्वरूपप्रामाण्यस्य व्युदासाय ज्ञानप्रदप्रयोगः । एवं च फलसाधारणं प्रनात्वमेव प्रामाण्यं पक्षभूतमिति लभ्यते । तत्र विधिकोटि : गुरुमिश्रमट्टानां निषेधकोटिः । नैयायिकस्य । तथाच तदप्रामाण्याग्राहकयव॑ज्ज्ञानग्राहकंसामग्रीग्राह्यत्वं स्वतस्त्वमिति लभ्यते । तथाच ज्ञानप्रामाण्यस्य स्वतस्त्ववादिना गुरुणां, मुरारिमिश्राणां, भाट्टानां च मते समन्वयप्रकारो यथा - तदप्रामाण्याग्राहिका यावती ज्ञानग्राहिका सामग्री तज्जन्यग्रहविषयीभूतत्वं स्वतस्त्वम् । यावती ज्ञानग्राहिका सामग्री विशेषणज्ञानात्ममनस्संयोगादिरूपा सामग्री, तज्जन्यो यो ग्रहः गुरुमते व्यवसायः मुरारिमिश्रमतेऽनुव्यवसायः, भाट्टमते ज्ञाततालिगकानुमितिः तद्विषयत्वं मत्तन्नयेऽपि प्रामाण्ये सम्भवति । तयाहिगुरुमते सर्वस्मिन्नपि ज्ञाने ज्ञानज्ञातृज्ञेयैतत्त्रितयं भासते । इदमेव त्रिपुटीप्रत्यक्षमित्युच्यते । पूर्वोक्तरीत्या ‘अयं घटः घटमहं जानामि इति वा घटमहं जानामीत्येव वा तन्मते व्यवसायः । अस्मिन् ज्ञाने, ज्ञानांशे ज्ञानत्वस्येव तत्समशील तत्समानाधिकरणप्रामाण्यस्यापि भानमङ्गीक्रियते । एतन्मते विशिष्टबुद्धि प्रति विशेषणज्ञानस्य कारणत्वानङ्गीकारेण विशेषणज्ञानादिकारणसामग्रयभावेऽपि प्रामाण्यस्य भाने बाधकाभावात् । तथाच तज्ज्ञानसामग्री या वर्तते सेव तद्गतप्रामाण्यभानोपयोगिनी, न तु प्रामाण्यभानोपयोगि क। रणान्तरमङ्गीक्रियते । तथाच तज्ज्ञानग्राहकसामग्री जन्यस्व । त्मकव्यवसाय रूपग्रविषयत्वमेव
सम्भवति ।
[[162]]
स्वतस्त्वं
प्रामाण्ये
मुरारिमिश्रमते तु अयं घट इति ज्ञानोत्तरं घटत्वेन घटमहं जानामीति ज्ञानविषयकः लौकिक मानसरूपः अनुव्यवसाय उत्पद्यते । अन्नानुव्यवसायेऽपि तज्ज्ञानग्राहकसामग्रयेव प्रयोजिका । नैयायिकमतेऽप्यनुव्यवसायं प्रति तज्ञानविशेषणज्ञानात्नमनस्संयोगादिभिन्नस्य कारणस्यानङ्गीकारात् । एवं च तज्जन्यानुव्यवसायात्मकग्रहविषयत्वं गुरुमत इव ज्ञानत्वसमशीलप्रामाण्ये विद्यत एव । अत्रापि प्रामाण्यभाने कारणान्तरापेक्षाभावः विशिष्टबुद्धि प्रति विशेषणज्ञानं कारणमिति नियमाङ्गीकरणाभावप्रयुक्त एव ।
भाट्टमते अयं घट इति ज्ञानं अतीन्द्रियम्, तज्जन्यां ज्ञातता प्रत्यक्षा, तया च ज्ञानमनुमीयते, अनुमितौ च प्रामाण्यं विषयः, एषा ज्ञातता घट विशेष्यक घटत्वप्रकारकज्ञानजन्या घटसमवेतघटत्वप्रकारकज्ञाततात्वात्, घटसमवेतघटत्वप्रकारङ्क-
ज्ञाततान्तरवत्, इत्यनुमानेन ज्ञानं, तद्गतप्रामाण्यं च सिध्यति । ज्ञातता च सविषयकः ज्ञानजन्योऽतिरिक्तः पदार्थः इति विवेकः । तत्रापि तज्ज्ञानसामग्रयेव प्रयोजिका । तथाच तद्वद्विशेष्यकतत्प्रकारकज्ञानत्वरूपप्रामाण्यस्य साक्षादेवानुमितिविषयत्वमेतन्मते सम्भवति । तथाच तादृशसामग्रीजन्य निरुक्तानुमित्यात्मकग्रहविषयत्वं प्रामाण्येऽक्षत-
मिति मततयेऽपि समन्वयो बोध्यः । सर्वेषां मतेऽपि ज्ञानविषयकप्रायमिकज्ञाने प्रामाण्यं विषयो भवति । अत एवोक्तम् -’ सर्वेषामपि मते तज्ज्ञानविषयकज्ञानेन तज्ज्ञानप्रामाण्यं गुह्यते ’ इति । ननु ज्ञानज्ञानस्य विषयाविषयकत्वात् कथं विषयघटितप्रामाण्यं तस्य विषयः इति चेन्न ; विषयनिरूप्यं हि ज्ञानम्, ज्ञानवित्तिवेद्यो विषयः, तज्ज्ञाननिष्ठलौकिकविषयताशालि प्रत्यक्षं तज्ज्ञानविषयविषयकमिति यावत् । अतः विषयघटितप्रमात्वस्य ज्ञानविषयकज्ञाने भानमविरुद्धम् । भाट्टमते च प्रत्यक्षस्थानाभिषिक्ता ज्ञाततालिङ्गकानुमितिरेव बोध्या ।
नैयायिकमते विशिष्टबुद्धिविशेषणज्ञानयोः कार्यकारणभावाङ्गीकारेण प्रामाण्यग्राहकविशेषणज्ञानाभावेन, न ज्ञानग्राहकसामग्रीमात्रैणं प्रामाण्यग्रहोत्पत्तिः । सर्वत्र सत्तज्ज्ञानोत्तरं ज्ञातता लिगकानुमित्यनङ्गीकारेण च न पूर्वमत इव प्रामाण्यग्रहोऽङ्गीक्रियते, किं त्वनुमानेनैव तत्सिद्धिर्ब्राह्या । तत्प्रकारो यथा - इदं ज्ञानं प्रमा संवादिप्रवृत्तिजनकत्वात् इतिरीत्या प्रामाण्यसिद्धिः, इदं ज्ञानमप्रमा विसंवादिप्रवृत्ति-
सनकत्वात् इतिरीत्या अप्रामाण्यसिद्धिः ।
T-
[[163]]
यदि ज्ञानस्य प्रामाण्यं स्वतोग्राह्यं स्यात् तदानभ्यासदशापन्नज्ञाने प्रामाण्यसंशयो न स्यात्, तत्र हि यदि ज्ञानं ज्ञातं तदा त्वन्मते प्रामाण्यं ज्ञातमेवेति कथं संशयः ? यदि तु ज्ञानं न ज्ञातं तर्हि धर्मिज्ञानाभावात् कथं संशयः ? तस्मात् ज्ञाने प्रामाण्यमनुमेयम् । इदं ज्ञानं प्रमा, संवादिप्रवृत्तिजनकत्वादित्यनुमानं पूर्वमुक्तम् । तत्र यन्नैवं तन्नैवं यथा अप्रमा इति व्यतिरेकोदाहरणम् । इदं पृथिवीत्वप्रकारकं ज्ञानं प्रमा गन्धवति पृथिवीत्वप्रकारकज्ञानत्वात्, एवमिदं जलत्वप्रकारकं ज्ञानं प्रमा, सेहवति जलत्वप्रकारकज्ञानत्वात् इत्यादि । नच हेतुज्ञानं कथं जातमिति वाच्यम् । तत्र पृथिवीत्वप्रकारकत्वस्थ स्वतोग्राह्यत्वात् । तत्र पुरोवृत्ती गन्धग्रहेण गन्धवद्विशेष्यकत्वस्यापि सुग्रहत्वात् । पृथिवीत्ववद्विशेष्यकत्वावच्छिन्नपृथिवीत्वप्रकारकत्वं परं न गृह्यते, संशयानुरोधात् ।
ननु सर्वेषां ज्ञानानां यथार्थत्वात् प्रमालक्षणे तद्वद्विशेष्यकत्व विशेषणं व्यर्थम् । अलक्ष्यस्यैवाभावात् । न च रङ्गे रजतार्थिनः प्रवृत्तिभ्रम्मजन्या न स्यात् तव मते भ्रमस्य अभावादिति वाच्यम् । तत्र हि दोषाधीनस्य पुरोवर्तिनि स्वतन्त्रोपस्थितरजतभेदाग्रहस्य हेतुत्वात् । सत्यरजतस्थले तु विशिष्टज्ञानस्य सत्त्वात्तदेव कारणम् । अस्तु वा तन्नापि रजतभेदाग्रहः स एव कारणमिति । भवदुक्ता अन्यथाख्यातिस्तु न सम्भवति । रजतप्रत्यक्षकारणस्य रजतेन्द्रियसन्निकर्षस्य अभावात्, रङ्गे रजतबुद्धेरनुपपत्तेः इति चेन्न ; सत्यरजतस्थले प्रवृत्ति प्रति विशिष्टज्ञानस्य हेतुतायाः क्लृप्तत्वात् अन्यन्नापि तत्कल्पनात् । नच संवादिप्रवृत्तौ तत्कारणम्, विसंवादिप्रवृत्तौ च भेदाग्रहः कारणमिति त्राच्यम् । प्रवृत्तिमावे तस्य हेतुत्वकल्पनात् । इत्थं च रङ्गे रजतत्वविशिष्टवुध्यनुरोधेन ज्ञानलक्षणाप्रत्यासत्त्या रजतत्वं भासते इत्यङ्गीक्रियते । ज्ञानलक्षणाप्रत्यासत्तेः कल्पनेऽपि न गौरवम् । फलमुखगौरवस्य अदोषत्वात् । किं च यन्न रङ्गरजतयोः इमे रजते रङ्गे वेति ज्ञानं जातं तत्र न कारणवाघोऽपि चक्षुस्संयुक्तसमवायरूपसन्निकर्षस्य ज्ञानलक्षणासन्निकर्षस्य च सम्भवात् । अपि च यत्र रङ्गरजतयोरिमे रजतरङ्गे इति ज्ञानं तन्नोभयत्न प्रवृत्तिनिवृत्ती स्याताम् । रङ्गे रङ्गभेदग्रहे, रजतभेदग्रहे न अन्यथाख्यातिभयात् तन्मते दोषादेव रङ्गे रजतभेदाग्रहस्य, रजते रङ्गभेदाग्रहस्य च सत्त्वात् । कि चानुमिति प्रति भेदाग्रहस्य हेतुत्वे जल हदे वह्निव्याप्यधूमवदाग्रहादनुमितिर्निराबाधा। यदि च विशिष्टज्ञानं कारणं तदायोगोलके वह्निव्याप्यधूमज्ञानं भ्रमात्मकानुमित्यनुरोधादः पतितम् । सेयमुभयतः पाशा रज्जुः । इत्ये
[[164]]
रजते
च अन्यथाख्यातौ प्रत्यक्षमेव प्रमाणम् ।
रङ्गं रजततया अवेदिषमित्यनुभवात्
इति ।
व्याप्यारोपेण व्याप कारोपस्तर्कः ।
धूमोऽपि न स्यादिति ।
यथा - यदि वह्निर्न स्यात् तर्हि
तर्कं लक्षयति-व्याप्येति । व्याप्यस्य आरोपः, व्यापकस्यारोपः इत्युभयन्त षष्ठीतत्पुरुषः । आरोपो नाम आहार्यभ्रमः । स च वाघकालीनेच्छाजन्यज्ञानम् । बाधज्ञाने सत्येव इच्छयोत्पादितविपरीतज्ञानम् । यथा - मुखे पद्मत्वारोपः अपनृत्वज्ञानकालिकेच्छाजनितः। तथाच तर्कं प्रति वह्न्यभावधूमाभावरूपयोः व्याप्यव्यापकंयोः वाघनिश्चयः कारणम् । अन्यथा पर्वते धूमोऽस्तु, वह्निर्मास्तु इत्यप्रयोजक शङ्कावतरणे इष्टापत्तिरभ्युपगम्येत । ततश्च तर्कानुत्पत्तिप्रसङ्ग इति तस्य कारणत्वं स्वीकार्यम् । व्याप्यविषयकाहार्य भ्रमजन्यव्यापक विषयकाहार्यं भ्रमत्वं तर्कस्य लक्षणम् । व्याप्यविषयकः यः भ्रमः यदि वह्निर्न स्यादितिं भ्रमः, तज्जन्यः यः व्यापकविषयकः भ्रमः तर्हि धूमोऽपि न स्यादिति भ्रमः । तादृशम्भ्रमत्वस्य यदि वह्न्यभाववान् स्यादिति भ्रमजन्ये तर्हि धूमाभाववान् स्यादिति भ्रमे वर्तमानत्वात् समन्वयः । व्यापकविषयकाहार्यज्ञानत्वमात्रोक्ती मुखे चन्द्रत्वारोपात्मकाहार्यज्ञानेऽतिव्याप्तिः । । चन्द्रत्वादेः यत्किञ्चिद्वयापकत्वात् । व्याप्यारोपजन्यत्वनिवेशे तु चन्द्रत्वाद्यारोपः केवलेच्छाजन्यः, न पुनरारोपान्तरजन्य इति न दोषः इत्यूह्यम् । पर्वतो वह्निमान् धूमात् इति धूमेन वह्निसाधनेच्छया केनचिदनुमाने प्रयुक्तें घूमोऽस्तु वह्निर्मास्तु इत्यन्येनाप्रयोजकशङ्काय कृतायां, अनुमानप्रयोक्ता - धूमं प्रति वह्निः कारणम् । कारणाभावात् कार्याभावः इति नियमेन यदि वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात् इति कार्यकारणभावप्रसङ्गरूपेणानुकूलतर्केण धूमरूप हेतुरव्यभिचारीति निश्चिनोति । अतस्तर्कः प्रमाणानु-
ग्राहकः ।
स्वप्नात्मकं ज्ञानं च अनुभूतपदार्थविषयकसंस्कारेण, कफपित्तादिधातूनां दोषात्, शुभाशुभादृष्टेर्वा जायते । तस्य वाधितार्थविषयकस्य मानसविपर्ययरूपतया न वैविध्येन विभागानुपपत्तिः ।
I
P
[-
न
तु
म
पे
[[1]]
[[165]]
.
अवेदमवश्यमवर्धयम् । पूर्वं व्याप्तिरुक्ता । तद्ग्रहोपायस्तु न दर्शितः । इदानीं तदुपायप्रदर्शनपूर्वकं तर्कस्योपयोगोऽपि स्फुटीक्रियते । व्यभिचाराग्रहः, वह नारग्रहश्च व्याप्तिग्रहे कारणम् । व्यभिचारग्रहस्य व्याप्तिग्रहे प्रतिबन्धकत्वात तदभावः कारणम्। एवमन्वयव्यतिरेकाभ्यां सहचारग्रहस्यापि हेतुता । भूयोदर्शनं तु न कारणम् । व्यभिचारास्मृती सकृद्दर्शनेऽपि क्वचिद्वयाप्तिग्रहात् क्वचिद्वयभिचारशङ्काविधूननद्वारा भूयोदर्शनमुपयुज्यते । यत्र तु भूयोदर्शनादपि शङ्का नापैति तत्र विपक्षे बाघकत कोऽपेक्षितः । तथाहि - वह्निविरहिण्यपि धूमः स्यादिति यद्याशङ्का भवति तदा सा वह्निधूमयोः कार्यकारणभावस्य प्रतिसन्धानान्नानिवर्तते । यद्ययं वह्निमान् न स्यात् तदा धूमवान् न स्यात कारणं विना कार्यानुत्पत्तेः । यदि व क्वचित् कारणं विनापि कार्यं भविष्यति तदाहेतुक एव भविष्यतीति यद्याशङ्का भवेत् तदा सा स्वक्रियाव्याघातादपसारणीया । यदि हि कारणं विना कार्यं स्यात् तदा धूमाथं वह्नेः तृप्त्यर्थं भोजनस्य च नियमत उपादानं तवैव न स्यात् । यत्त स्वत एव शङ्का नावतरति तत्र तकभिक्षाऽपि न भवति । तदिदमुक्तं भाषापरिच्छेदे -
तर्कः क्वचिच्छङ्कानिवर्तकः’ इति ।
इदानीं व्यभिचारानुमापकत्वेन उपाधेः स्मरणात् स निरूप्यते । साध्यत्वाभिमतव्यापकत्वे सति साधनत्वाभिमताव्यापकत्वमुपाधेर्लक्षणम् । अयोगोलकं धूमवत् बह्नेरित्यत्र आन्धनसंयोगरूपोपाधी महानसाद्यन्तर्भावेण साध्यव्यापकत्वम्, पक्षान्तभवेिण साधनाव्यापकत्व च बोध्यम् । ननु स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजन्यत्वं नोपाधिः स्यात्, तस्य साध्यव्यापकत्वाभावात् श्यामत्वस्य घटादावपि सत्त्वात् । एवं वायुः प्रत्यक्षः, प्रत्यक्षस्पर्शाश्रयत्वादित्यत्न उद्भूतरूपवत्त्वं नोपाधिः स्यात् । प्रत्यक्षत्वस्य आत्मादिषु सत्त्वात् तत्र च रूपाभावात् । एवं ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वं नोपाधिः स्यात् । विनाशित्वस्य प्रागभावेऽपि सत्त्वात् तत्र च भावत्वाभावादिति चेन्न यद्धर्मावच्छिन्न साध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाव्यापकत्वमित्यर्थे तात्पर्यात् । मिनातनयत्वावच्छिन्नश्यामत्वस्य व्यापकं शाकपाकजत्वं तदवच्छिन्नसाधनाव्यापमं च । एवं पक्षधर्मबहिनं व्यत्वावच्छिन्नप्रत्यक्षत्वस्य व्यापकमुद्भूतरूपवत्त्वं एवं बहिर्द्रव्यत्वावच्छिन्नसाधनस्याव्यापकं च । एवं ध्वंसो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नसाध्यव्यापकं भावत्वम् । सद्धेतौ
[[166]]
तु
.
एतादृशधर्मो नास्ति यदवच्छिन्नस्य साध्यस्य व्यापकं तदवच्छिन्नस्य साधनस्य चाव्यापकं किश्वित् स्यात् ।
व्यभिचारिणि तु उपाध्यधिकरणं यत् साध्याधिकरणं यच्चोपाधिशून्यं साध्यव्यभिचाराधिकरणं तदन्यतरत्वावच्छिन्नस्य साध्यस्य व्यापकत्वं साधनस्य चाव्यापकत्वमुपाधेरन्ततः सम्भवति ।
उपाधेर्दूषकत्वं तु एवम् — उपाधिव्यभिचारेण हेतो साध्यव्यभिचारः अनुमीयते । तथाहि–यत्र शुद्धसाध्यव्यापक उपाधिः तत्र शुद्धेनैव उपाधिव्यभिचारेण साध्यव्यभिचारानुमानम् । यथा धूमवान् वह्नेरित्यादी वह्निः धूमव्यभिचारी धनव्याम्पकार्द्रेन्धनसंयोगव्यभिचारित्वात् इति । व्यापकव्यभिचारिणः व्याप्यव्यभिचारावश्यम्भावात् । यत्र तु किचिद्धर्मावच्छिन्नसाध्यव्यापक उपाधिः तत्र तद्धर्मवति उपाधिव्यभिचारेण साध्यव्यभिचारानुमानम् । यथा स श्यामः मित्रातनयत्वादित्याद। मिनातनयत्वं श्यामत्वव्यभिचारि, मित्रातनये शाकपाकजत्वव्यभिचारित्वादिति । वाधानुन्नीतपक्षेतरस्तु साध्यव्यापकताग्राहकप्रमाणाभावात् स्वव्याघातकत्वाच्च नोपाधिः । पक्षेतरत्वस्य उपाधित्वे हि सर्वत्रानुमाने पक्षेतरत्वस्योपाधेः सम्भवात् अनुमानमात्त्रोच्छेदापत्त्या व्यभिचारानुमानाधीनस्योपाधेर्दूषकत्वस्यासम्भवात् । वाधोनीतस्तु उपाधिर्भवत्येव । यथा - वह्निरनुष्णः कृतकत्वादित्यादौ प्रत्यक्षेण वह्नावुष्णत्वग्रहे वह्नीतरत्वमुपाधिः । यस्योपाधेः साध्यव्यापकता सन्दिह्यते स सन्दिग्धोपाधिः । पक्षेतरस्तु सन्दिग्धोपाधिरपि नोद्भावनीयः कथकसम्प्रदायानुरोधात् ।
।
केचित्तु –सत्प्रतिपक्षोत्थापनमुपाधेः फलम् । तथाहि —अयोगोलकं धूमवद्वह्नेरित्यादी अयोगोलकं धूमाभाववत् आर्द्रेन्धनसंयोगाभावादिति सत्प्रतिपक्षसम्म्भवात् । इत्थं च साधनव्यापकोsपि क्वचिदुपाधिः । यथा - करका पृथिवी कठिनसंयोगवत्त्वादित्यादी अनुष्णाशीतस्पर्शवत्त्वम् । न चात्र स्वरूपासिद्धिः, बाधः सत्प्रतिपक्षो वा दूषणमिति वाच्यम् । सर्वत्रोपाधेः दूषणान्तरसाङ्कर्यात् । एवं च उपाधेः सत्प्रतिपक्षोत्थापन त्वस्य दूषकताबीजत्वपक्षे साध्यव्यापकः पक्षावृत्तिरुपाधिरित्याहुः ।
अत्र वैशेषिका : - प्रत्यक्षमनुमानं चेति द्वे एव प्रमाणे । शब्दोपमानयोस्तु अनुमान विधयैव प्रामाण्यम् । तथाहि - दण्डेन गामानय इत्यादिलौकिकपदानि, यजेतेत्यादिवै दिकपदानि वा तात्पर्यविषयस्मारितपदार्थसंसर्गप्रमापूर्वकाणि आकाङ्क्षा दिमत्पन्दकदम्बकत्वात् घटमानयेतिपदकदम्बकवत् । यद्वा एते पदार्थाः मिथस्संसर्गवन्तः
[[167]]
i
Allयोग्यतादिमत्पदोपस्थापितत्वात्
पटमानयेत्यादिवाक्यबोध्यपटकर्मत्वादिपदार्थवत् ।
दृष्टान्तेऽपि दृष्टान्तान्तरेण साध्यसिद्धिरिति ।
एवं गवयव्यक्तिप्रत्यक्षानन्तरं गवयपदं गवयत्वप्रवृत्तिनिमित्तकं असति वृत्त्यन्तरे वृद्धेस्तत्व प्रयुज्यमानत्वात् । असति च वृत्त्यन्तरे वृद्धेर्यत्र यत्प्रयुज्यते तत्र तत् तत्प्रवृत्तिनिमित्तकम् । यथा — गोपदं गोत्वप्रवृत्तिनिमित्तकम् । यद्वा गवयपदं सप्रवृत्तिनिमित्तकं साधुपदत्वादित्यनुमानेन पक्षधर्मतावलात् गवयत्वप्रवृत्तिनिमित्तकत्वं सिष्यति । अतः शब्दोपमानयोरनुमानेन गतार्थत्वाद् द्वे एव प्रमाणे इति वदन्ति ।
तन्त्र । व्याप्तिज्ञानं विनापि शाब्दबोधस्यानुभवसिद्धत्वात् न हि सर्वत्र शब्दश्रवणानन्तरं व्याप्तिज्ञाने प्रमाणमस्तीति । किश्व सर्वत्र शाब्दस्थले यदि व्याप्ति.. ज्ञानं कल्प्यते तदा सर्वत्रानुमितिस्थले पदज्ञानं कल्पयित्वा शाब्दबोध एव किं न स्वीक्रियताम् । अतः शब्दोपमाने पृथक्प्रमाणे अङ्गीकरणीये इति । तदिदं समग्राहि भाषापरिच्छेदे-
शब्दोपमानयोर्नेव पृथक् प्रामाण्यमिष्यते ।
अनुमानगतार्थत्वादिति वैशेषिकं मतम् ॥
तत्र सम्यग्विना व्याप्तिबोधं शाब्दादिबोधतः ॥ इति ।
मीमांसकाः - अर्थापत्ति प्रमाणान्तरं मन्यन्ते । तथाहि —-यत्र देवदत्तस्य शतवर्षजीवित्वं ज्योतिश्शास्त्रादवगतं जीविनस्तस्य गृहासत्त्वं च प्रत्यक्षादवङ्गते, तत्र शतवर्षजीविनः गृहासत्त्वं बहिस्स॒त्त्वं विना अनुपपन्नमिति बहिस्सत्त्वं कल्प्यत इति । साप्यनुमानेन गतार्थत्वान्न प्रमाणान्तरम् । तथाहि —यत्र जीवित्त्वस्य बहिस्सत्त्वगृहसत्त्वान्यतरव्याप्यत्वं गृहीतं तत्रान्यतरसिद्धौ जायमानायां गृहसत्त्वबाधाद् वहिस्सत्त्वमनुमितौ भासते । शतवर्षजीवी वहिस्सत्त्वगृहसत्त्वान्यतरवान् जीवित्वात्, यो निरुक्तान्यतराभाववान् स जीवित्वाभाववान् यथा घटत्वमिति न्यायप्रयोगोऽत्र बोध्यः । एवं श्रुतार्थान्यथानुपपत्तेरनुमानभिन्नप्रमाणत्वं निरस्य दृष्टार्यान्यथानुपपत्तेरपि तत्रैवान्तभावं प्रसाधयन्ति न्यायविदः । यथा-पीनो देवदत्तः दिवा न भुङ्क्ते इत्यादी पीनत्वस्य भोजनव्याप्यत्वावगमात् भोजनसिद्धों दिवा भोजनवाधे रात्रिभोजनं सिध्यति । श्रीनः दिवाभोजनरात्रिभोजनान्यतरवान् पीनत्वात्, यो यस्तादृशान्न्यतराभाववान् सः
[[168]]
पनित्वाभाववान् ।
यथा-मासोपवासी तापसः इत्यादिव्यतिरेकिन्यायप्रयोगोs
बोध्यः । तदिदमुक्तं भाषापरिच्छेदे-
’ अर्थापत्तिस्तु नैवेह प्रमाणान्तरमिष्यते ।
व्यतिरेकव्याप्तिबुध्यां चरितार्थासा यतः ॥’ इति ।
अनुपलम्भोऽपि न प्रमाणान्तरम् । अभाववत्यक्षस्य चक्षुराद्रिकरणकत्वेनैवानुभवसिद्धत्वात् । किन्तु तस्य सहकारिकारणत्वं तावदङ्गीतुं शक्यते । किच अनुपलम्भस्याज्ञातस्य हेतुत्वे ज्ञानाकरणकत्वात् तज्जन्यज्ञानस्य प्रत्यक्षत्वमेव । ग्रदि ज्ञातस्यानुपलम्भस्य हेतुत्वं तदा तत्राप्यनुपलम्भान्तरापेक्षेत्यनवस्था ।
एवं चेष्टापि न प्रमाणान्तरम् । तस्याः सङ्केत ग्राहकशब्दस्मारकत्वेन लिप्यादिसमशीलत्वात् शब्द एवान्तर्भावः । यदि तु व्याप्त्यादिग्रहस्ततानुभवसिद्धः तदानुमितिरेवेति बोध्यम् ॥
‘स्मृतिरपि द्विविधा यथार्था अयथार्था चेति । प्रमाजन्या यथार्था । अप्रमाजन्या अयथार्था ।
•
पूर्वं संस्कारमात्रजन्यं ज्ञानं स्मृतिरिति तल्लक्षणमुक्तम् । ततः स्मृतिभिन्नज्ञानानि निरूपितानि । इदानीं क्रमप्राप्तः स्मृतिविभागादिः कर्तव्यः । तत्र प्रमाजन्यत्वे सति स्मृतित्वं यथार्थस्मृतेर्लक्षणम् । प्रमाध्वंसे अययार्यस्मृतो चातिव्याप्तिवारणाय दलद्वयम् । गुणत्वद लेनैव · ध्वंसेऽतिव्याप्तिवारणसङ्घ प्रमाजन्यसंस्कारेऽतिव्याप्तिवारणाय स्मृतिस्वदलम् । यद्यपि ज्ञानत्वदलेनैव संस्कारेऽतिव्याप्तिः सुपरिहरा । तथापि विशिष्टज्ञानं प्रति विशेषणज्ञावस्य कारणतया दण्डी पुरुषः इति विशिष्टज्ञाने दण्डरूपविशेषणप्रमाजन्यत्वज्ञानत्वयोः सत्त्वादतिव्याप्तिवारकतया स्मृतित्वदवं सार्थकम् । ननु ध्वंसं प्रति प्रतियोगिनः प्रतियोगित्वेन तत्तद्वयक्तित्वेन वा कारणत्म्य । या विशिष्टबुद्धि प्रति विशेषणज्ञानमेव कारणम् । न तु विशेषणप्रमा । अतः तब कारणतावच्छेदकं न प्रमात्वम् । किन्तु बुद्धित्वमेव । एवं च तवातिव्याप्तिवारणं प्रमात्वावच्छिन्नजनकतानिरूपितजन्यत्व दलेनैव सम्भवति । अतः स्मृतित्वदलं व्यर्थप्रायमिति चेन्न ; इष्टापत्तेः । एतदभिप्रायेणैव मूले स्मृतित्वं विहाय प्रमाजन्या यथार्था इत्यैवोक्तम् । अप्रमे॑ति । भ्रमजन्यत्वे सति स्मृतित्वमयथायंस्मृतेर्लक्षणम् । दलप्रयोजनादिकं पूर्ववत् ।
N. P.-Sahitya
।
[[12]]
[[169]]
अथ सुखनिरूपणम्
सर्वेषामनुकूलतया वेदनीयं सुखम् ।
सर्वपदाभावे
सर्वजीवसमवेतानुकूलत्वप्रकारकज्ञानविषयत्वं सुखस्य लक्षणम् । अत विषयत्वं विशेष्यतारूपम् । नो चेत् प्रकारतामादायानुकूलत्वादावतिव्याप्तिः । केषाञ्चित् घटो मदनुकूलः इत्यादिज्ञानसत्त्वाद् घटादावतिव्याप्तिः ।
नन्वेवमपि वैषयिके सुखे विरक्तानां द्वेषदर्शनात् वैरिणां सुखे अविवेकिनां द्वेषदर्शनाच्च सर्वसमवेतानुकूलत्वप्रकार का नुकूलत्वप्रकारकज्ञानविषयत्वाभावादव्याप्तिः । इतरेच्छानधोने च्छाविषयत्वं सुखस्य निर्दुष्टं लक्षणम् । लोके सुखेच्छेव प्रथममुत्पद्यते, तत्साधनतया धनभोजनधर्मादिविषयकेच्छाः । अतः सुखेच्छाधीनाः सर्वाः साधनेच्छाः इतरेच्छाधीनाः । सुखेच्छा सर्वथा इतरेच्छानधीनेति इतरेच्छानधीनेच्छाविषयत्वं सुखे वर्तते इतिरीत्या समन्वयः । सुखातिरिक्तेषूक्तलक्षणाभावानातिव्याप्तिः । इच्छाविषयत्वमात्रोक्तौ भोजनादावतिव्याप्तिः । अतः इतरेच्छानधीनत्वांशनिवेशः । सुखं च द्विविधं वैषयिकं, मानोरथिकं च । तत्राद्यस्य स्रक्चन्दनवनितादिविषयसम्पर्कः निमित्तम् । मानोरथिके च ज्ञानं निमित्तम् । उभयत्र आत्ममनस्संयोगः असमवायिकारणम् । आत्मा समवायिकारणम् । धर्मस्तु सुखसम्पादकः । सुखं सर्वमनित्यं द्विक्षणावस्थायि च नित्यसुखानङ्गीकारात् । क्षित्यादिकतं त्वेन ईश्वरस्य नित्यज्ञानादिसिद्धावपि तस्य नित्यसुखाद्यसिद्धिरिति प्राञ्चः । ’ नित्यं विज्ञानमानन्दं ब्रह्म’ इति श्रुत्या ईश्वरे नित्यसुखसिद्धिरिति नव्याः ।
‘सुखं तु जगतामेव काम्यं धर्मेण जायते ।
इति भाषापरिच्छेदे सर्वेषामभिलाषविषयः सुखमित्युक्तम् । तथाच सर्वसमवेतानुकूलुत्वप्रकारकज्ञानविषयत्वं इत्येव सुखलक्षणं लभ्यते । - तस्य च शत्रुसुखादो पूर्वोक्तरीत्या अव्याप्तिप्रसक्तिरस्त्येवेति अहं सुखीतिप्रती तिसा क्षिकसुखत्वजातिमत्त्वं सुचस्य लक्षणमिति वक्तव्यम् । ‘सुखं तु जगतामेककाम्यं धर्मेण जायते ’ इति पाठे सर्वेषां जगतामेककाम्यं मुख्यकामनाविषयः सुखमित्यर्थलाभात् अन्यविषयकेच्छानधीनेच्छाविषयत्वमेव सुखलक्षणं लभ्यत इति वोध्यम् । तच्च निरतिशयं स्वर्गादिसुखं धर्मेण जायते । समवायेन सुखं प्रति समवायेन धर्मः कारणमिति कार्यकारणभावात् ।
[[170]]
अथ दुःखनिरूपणम्
सर्वेषां प्रतिकूलवेदनीयं दुःखम् ।
सर्वंसमवेतप्रतिकूलत्वप्रकारकज्ञानविषयत्वं दुःखस्य लक्षणम् । दुःखं मत्प्रतिकूलमिति ज्ञाने दुःखस्य विशेष्यतया लक्षणसमन्वयः । विरक्तानां वैषयिकसुखे प्रतिकूलत्वज्ञानात् तत्नातिव्याप्तिवारणाय सर्वपदम् । अत्रापि इन्तरद्वेषानधीनद्वेषविषयत्वमिति परिष्करणीयम् । अन्यथा शत्रुसुखे सर्पव्याघ्रादौ च सर्वसमवेतप्रतिकूलत्वप्रकारकज्ञानविशेष्यतासत्त्वादतिव्याप्तिः स्यात् । प्रथमं दुःखे द्वेषः, ततः तत्साधनसर्पादौ द्वेष इति दुःखसाधनसर्पादिविषयकद्वेषाणां दुःखद्वेषाधीनतया नातिव्याप्तिः । दुःखद्वेषस्तु इदं दुःखमिति तत्स्वरूपानुभवादेवोत्पद्यत इति तत्र इतरद्वेषानधीनद्वेषविषयत्वसत्त्वात्. समन्वयः । शत्रुसुखेऽपि दुःखद्वेषानधीनद्वेषविषयत्वं नास्तीति नातिव्याप्तिः । द्वेषविषयत्वमात्रोक्तो. सर्पादावतिव्याप्तिः । अतः इतरद्वेषानधीनत्वम् । तथाच सर्पद्वेषः दुःखद्वेषाधीन इति नातिव्याप्तिः । सुखदुःखयोः फलरूपतया सर्वत्र फलेच्छाद्वेषी फलज्ञानजन्यौ, उपायेच्छाद्वेषौ प्रति फलेच्छाद्वेषौ कारणम् । दुःखमपि वैषयिक मानसिकं चेति द्विविधम् । वैषयिके कण्टकादिसंयोगः निमित्तम् । मानसिके प्रियवस्तुनाशचिन्तितालाभव्याघ्रसर्पातताय्यादिज्ञानं कारणम् । सर्वत्राधर्मः प्रयोजकः ।
"
अधर्मजन्यं दुःखं स्यात् प्रतिकूलं सचेतसाम् ।’ इति कारिकावली । अताप्यधर्मत्वेन दुःखत्वेन कार्यकारणभावः । दुःखत्वज्ञानादेव सर्वेषां द्वेषविषयः दुःखमिति ।
इच्छा कामः क्रोधः द्वेषः, कृतिः प्रयत्नः ।
प्रयत्नं प्रति इच्छा कारणम्, इच्छां प्रति ज्ञानं कारणम् । जानाति, इच्छति, करोति इति नियमात् । परन्तु सर्वं ज्ञानं न इच्छाजनकम्, दुःखे तदुपाये च द्वेषस्यैव जननात् । अतः सुखं दुःखं वा जानाति, इच्छति, द्वेष्टि वा तदनु तदनुसारेण यतते इति वक्तव्यम् ।
तथाच ज्ञानेच्छाद्वेषाणां सविषयकपदार्थानां मध्ये ज्ञानस्यैवेतरकारणतया प्रथमं ज्ञानं निरूप्य तस्य सुखविषयकत्वे इच्छाजनकत्वम्, दुःखविषयकत्वे द्वेषजनकत्वमित्यनुभवात्, ज्ञानानन्तरं सुखदुःखे च निरूप्य, तज्जन्येच्छाद्वेषी तत्कार्यम्भूतं प्रयत्नं च क्रमशो निरूपयतिइच्छेत्यादिना । अहमिच्छामि, अहं द्वेष्मि अहं करोमीति प्रतीतिविषयतावच्छेदकानि इच्छात्वद्वेषत्व कृतित्वानि लक्षणानि । कामः क्रोधः, कृतिरिति निर्वचनमात्रम् । जानाति इच्छति, द्वेष्टि वा करोति, निवर्तते वा इति क्रमात् ज्ञानजन्यत्वे सति कृतिजनकत्वमिच्छायाः, ज्ञानजन्यत्वे सति निवृत्तिजनकत्वं द्वेषस्य ।
[[171]]
T
व
न-
T
इच्छाविषयेऽवश्यं ज्ञेयमिदम् -
निर्दुःखत्वे सुखे चेच्छा तज्जानादेव जायते ।
इच्छा तु तदुपाये स्यादिष्टोपायत्वन्धीर्यदि ॥ इति कारिका । जहमिच्छामीति प्रत्यक्ष सिद्धेच्छा त्वजातिमत्त्वमिच्छासामान्यस्य
लक्षणम् । भगवदिच्छायामपि तादृशजातिः स्वीक्रियते, तत्वापीच्छापदप्रयोगात् । अतो न चाव्याप्तिः । सा इच्छा द्विविधा फलेच्छा, उपायेच्छा च । तत्र निर्दुःखत्वसुखान्यतरात्मकफलविशेष्य केच्छात्वं फलेच्छासामान्य लक्षणम् । उपायविषयकेच्छात्वं उपायेच्छासा नान्यलक्षणम् । तब फलेच्छां प्रति फलज्ञानं कारणम् । फलज्ञानस्य फलेच्छ प्रति हेतुत्वादेव सुखं दुःखाभावश्च पुरुषार्थः भवति । यत् ज्ञातं सत् स्ववृत्तितया इष्यते स पुरुषार्थं इति तत्क्षणात् । इतरेच्छान धोनेच्छा विषयत्वं पुरुषार्थत्वमिति यावत् । उपायेच्छां प्रति इष्टसाधनताज्ञानं कारणम् ।
,
·
तव लोके पार्क कृत्या साधयामीति या कृतिसाध्यत्वप्रकारिका कृतिसाध्यविषयिणी चिकीर्षा जायते तां प्रति कृतिसाध्यताज्ञानम्, इष्टसाधनताज्ञानं च रणम्। अत एव वृष्ट्यादी कृतिसाध्यताज्ञानाभावान्न चिकीर्षा । बलवदनिष्टानुबन्धित्वज्ञानं च तत्र प्रतिबन्धकम् । अतो मधुविषसम्पृक्तान्नभोजने न चिकीर्षा । अन्ये तु बलवद्विष्टसाधनत्वज्ञानाधीनः वलवद्द्द्वेषः प्रतिबन्धक इति वदन्ति । केचित्तु बलवदनिष्टाजनकत्वज्ञानं चिकीर्षा प्रति कारणमिति वदन्ति ।
दुःखोपायविषयकं द्वेषं प्रति बलवद्विष्टसाधनताज्ञानं कारणम् । बलवदिष्टसाधनताज्ञानं प्रतिबन्धकम् । तेन नान्तरीयकदुःखजनके पाकादौ न द्वेषः ।
प्रयत्नश्च प्रवृत्तिः, निवृत्तिः, जीवनयोनियत्नः इति त्रिविधः । तत्र प्रवृत्ति प्रति चिकीर्षा, कृतिसाध्यताज्ञानं, इष्टसाधनताज्ञानं, उपादानविषयकप्रत्यक्षं च कारणम् । मत्कृत्या साधयामीति इच्छां विना प्रवृत्तेरदर्शनात् चिकीर्षा प्रवृत्तौ हेतुः । कृत्यसाध्ये चन्द्रस्पर्शे प्रवृत्त्यदर्शनात् कृतिसाध्यताज्ञानं हेतुः कृतिसाध्यत्वज्ञानेऽपि विषभक्षणादौ प्रवृत्त्यदर्शनात् इष्टसाधनताज्ञानं हेतुः । तदुभयसत्त्वेऽपि परोक्षे प्रवृत्त्यदर्शनात् उपादानप्रत्यनं हेतुः । उपादानं समवायिकारणम् । वस्तुतस्तु उपादानपदमत्रा - धिष्ठानमात्रपरम् । अन्यथा शब्दसाध्यकप्रवृत्तिमं दङ्गादो न स्यात्, शब्दसमवायिकारणस्य गगनस्यातीन्द्रियत्वात् । तथाच तत्साध्यकप्रवृत्ति प्रति तदधिष्ठानगोचरलौकिकप्रत्यक्षं हेतुरिति पर्यवसितम् । यद्यपि मधुविषसम्पृक्तान्न भोजने प्रवृत्तिवारणाय
[[172]]
ननु तहि व्यापारेण
प्रवृत्तौ बलवदनिष्टानुवन्धित्वज्ञानाभावोऽपि हेतुर्वक्तुं युक्तः । तथापि स नोक्तः, चिकीष प्रति तस्य हेतुतया तत्त्रं चिकीर्षाभावादेवं न प्रवृत्तिर्भवतीति । कृतिसाध्यताज्ञानादेरपि चिकीर्षायामेव हेतुत्वं स्यान्न प्रवृत्ताविति चेन्न ; व्यापारिणः अनन्यथासिद्धत्वात् । अत एव कृतिसाध्यताज्ञानादिवत् वलवदनिष्टानन्नुवन्धित्वज्ञानमपि स्वतन्त्रान्वयव्यतिरेकाभ्यां कारणमित्यपि वदन्ति ।
अत्र प्राभाकराः कार्यताज्ञानमेव प्रवृत्ति प्रति कारणम्, न तु तार्किकोक्तचिकीर्षादिसमुदायः ॥ तथाहि - ज्ञानस्य प्रवृत्ती. जननीयायां न चिकीर्षातिरिक्तं कारणमपेक्षितमस्ति । चिकीर्षा च कृतिसाध्यताज्ञानसाध्या, इच्छायाः स्वप्रकारचिकीर्षा हि कृतिसाध्यत्वप्रकारकेच्छा । तत्र तत्प्रकारकं ज्ञानं चिकीर्षायां तद्द्द्वारा प्रवृत्तौ
प्रकारकधी साध्यत्वनियमात् । कृतिसाध्यत्वं प्रकारः ।
च हेतुः । न तु इष्टसाधनताज्ञानं तत्र हेतुः । चन्द्रमण्डलानयनोदी प्रवृत्त्यापत्तेः ।
C
कृत्यसाध्येsपि
नचे कृत्यसाध्यताज्ञानं प्रतिवन्धकमिति वाच्यम् । तदभावापेक्षया कृतिसाध्यत्वज्ञानस्य लघुत्वात् ।
नच द्वयोरपि हेतुत्वम्, गौरवात् । ननु त्वन्मन्तेऽपि मधुविषसम्पृक्तान्न भोजने, चैत्यवन्दने च प्रवृत्त्यापत्तिः, कार्यताज्ञानस्य सत्त्वादिति चेन्न ; स्व विशेषणवत्ताप्रतिसन्धानजन्यकार्यताज्ञानस्य प्रवर्तकत्वात् । काम्ये हि पाकयागादौ कामना स्वविशेषणं, ततश्च वलवदनिष्टाननुवन्धिकाम्यसाधनताज्ञानेन कार्यताज्ञानं ततश्च प्रवृत्तिः । तृप्तश्च भोजने न प्रवर्तते, तदानीं कामनायाः पुरुषविशेषणत्वाभावात् । नित्ये च शौचादिकं पुरुषविशेषणम् । तेन शौचादिज्ञानाधीनकृतिसाध्यताज्ञानात् तत्र प्रवृत्तिः । ननु तदपेक्षया लाघवेन बलवदनिष्टाननुबन्धिइष्टसाधनताज्ञानविशिष्टकार्यताज्ञानत्वेनैव हेतुत्वमस्तु । बलवदनिष्टाननुबन्धित्वं च इष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखाजनकत्वम्, बलवद्द्द्द्द्वेषविषयदुःखाजनकत्वं वेति चेन्न ; इष्टसाधनत्वकृतिसाध्यत्वयोर्युगपज्ज्ञातुमशक्यत्वात् . साध्यत्वसाधनत्वयोविरोधित्वात् । असिद्धस्य हि साध्यत्वम्, सिद्धस्य च साधनत्वम् । न चैकमेकेनैकदा सिद्धमसिद्धं चेति ज्ञायते, कालभेदादेवोभयं ज्ञायत इति वदन्ति ।
मैत्रम् । लाघवेन बलवदनिष्टाननुबन्धीष्टसाधनत्वे सति कृतिसाध्यताज्ञानस्य नच साध्यत्वसाधनत्वयोविरोधः, यदाकदाचित् साध्यत्वसाधन-
एकदा साध्यत्यसाधनत्वविषयकज्ञानसम्भवात् इति ।
तन हेतुत्वात् । त्वयोरविरोधात्
[[173]]
E
नव्यास्तु - ममेदं कृतिसाध्यमितिज्ञानं न प्रवर्तकम् ।
अनागते तस्य ज्ञातुमशक्यत्वात् । किन्तु यादृशस्य पुंसः कृतिसाध्यं यद्दृष्टं तादृशत्वं स्वस्य प्रतिसन्धाय तत्र प्रवर्तते । तेन ओदनकामस्य तत्साधनताज्ञानवतः, तदुपकरणवतः पाकः कृतिसाध्यः, तादृशश्चाहमिति प्रतिसन्धानात् प्रवृत्तिरित्याहुः । तन्न ; स्वकल्पितलिप्यादिप्रवृत्तौ, यौवने कामोद्भेदादिना सम्भोगादौ च तदभावात् ।
इदमन बोध्यम् । इदानीन्तनमिष्टसाधनताज्ञानं इदानीन्तन कृतिसाध्यताज्ञानं च प्रवर्तकम् । तृप्तश्च भोजने न प्रवर्तते, तदानीमिष्टसाधनत्वाज्ञानात् । भावियौवराज्ये वालम्य न प्रवृत्तिः, कृतिसाध्यताज्ञानाभावात् । रोषदूषितचित्तः विषादिभक्षणे प्रवर्तते, तदानीं वलवदनिष्टाननुबन्धित्वज्ञानात् । नच आस्तिकस्य - अगम्यागमनशबुवधादिप्रवृत्तौ कथं बलवदनिष्टाननुबन्धित्वबुद्धिः, नरकसाधनत्वज्ञानादिति वाच्यम् ; उत्कटरागादिना नरकसाधनताधीतिरोधानात् । वृष्ट्यादौ तु कृतिसाध्यताज्ञानाभावात्, न चिकीर्षाप्रवृत्ती, किन्तु इष्टसाधनताज्ञानात् इच्छामात्तम् । कृतिश्चात प्रवृत्तिरूपा । तेन जीवनयोनियत्नसाध्ये प्राणपञ्चकसञ्चारे न प्रवृत्तिः । इत्थं च प्रवर्तकत्वानुरोधात् विधेरपि इष्टसाधनत्वादिकमेवार्थः । अतश्च ‘विश्वजिता यजेते’ त्यादौ यत फलं न श्रूयते तत्रापि स्वर्गः पालं कल्प्यते ।
P
नन्वहरहः सन्ध्यामुपासीतेत्यादौ इष्टानुत्पत्तेः प्रवृत्तिः कथम् ? नच ‘सन्ध्यामुपासते ये तु सततं संशितव्रताः । विधूतपापास्ते यान्ति ब्रह्मलोकमनामयम् ॥’
इत्यर्थवादबोधितं ब्रह्मलोकादि, प्रत्यवायाभावो वा फलमिति वाच्यम् ।
बान्धित-
तथा सति काम्यत्वेन नित्यत्वहान्यापत्तेः । कामनाभावे च अकरणापत्तेः । इत्थं च यत्त्र फलश्रुतिस्तत्रार्थवादमात्रमिति चेन्न । ग्रहणश्राद्धादों नित्यत्वनैमित्तिकत्वयोरिव नित्यत्वकाम्युत्वयोरप्यविरोधात् । नच कामनाभावेऽकरणापत्तिः । त्रिकालस्तवपाठादाविव कामनासद्भावस्यैव कल्पनात् । वेदेन कार्यताज्ञानात् प्रवृत्तिरिति मीमांसकमतं तु न साधीयः । स्वेष्टसाधनत्वमविज्ञाय तादृशकार्यताज्ञानसहस्रेणापि प्रवृत्तेरसम्भवात् । केचित्तु सन्ध्यावन्दनादिनित्यस्थले पष्टापूर्व फलमिति वदन्ति । तन्न ; कामनाभावेऽकरणापत्तेस्तोल्यात् । कामनाकल्पनेतु आर्थवादिकं ब्रह्मलोकादिकमेव रात्रिसन्नन्यायात् फलं कल्प्यताम् । अन्यथा प्रवृत्त्यनुपपत्तेः ।
[[174]]
तन सन्ध्यावन्दनादौ नित्यकर्मणि प्रत्यवायानुत्पत्तिरेव फलमिति के चिन्मन्यन्ते । परन्तु ‘सन्ध्यामुपासते.’ इत्यादिनोक्तं ब्रह्मलोकादिकमेव तत्र फलमस्तु । एवं ‘दद्यादहरहः श्राद्धं पितृभ्यः प्रीतिमावहन्’ इत्याद्युक्ता पितृप्रीतिरेव श्राद्धफलमस्तु । नच प्रीतिः कथं फलम् ? श्राद्धव्यधिकरणत्वादिति वाच्यम् ; गया श्राद्धादाविव उद्देश्यतासंवन्धेन श्राद्धस्य समवायेन पितृनिष्ठप्रीतिजनकत्वात् । अत एवोक्तं शास्त्रदर्शितं फलमनुष्ठातरीत्युत्सर्ग इति । यदि पितरो मुक्ताः तदा स्वस्यैव स्वर्गादि फलम्, यावतां नित्यनैमित्तिकानामनुष्ठानस्य सामान्यतः स्वर्गजनकत्वात् । पण्डापूर्वार्थं प्रवृत्तिस्तु न सम्भवति । न हि तत् सुखवत् दुःखाभाववन्द स्वतः पुरुषार्थः, न वा तत्साधनम् । अथ प्रत्यवायानुत्पत्तेः फलत्वपक्षे कथं तत्र प्रवृत्तिः इति चेदित्थम् । यथाहि नित्ये कृते प्रत्यवायाभावस्तिष्ठति, सन्ध्यावन्दनादिनित्याभावे च प्रत्यवायाभावाभावः । एवं प्रत्यवायाभावसत्त्वे दुःखप्रागभाव सत्त्वम्, प्रत्यवायाभावाभावे दुःखप्रागभावाभावः दुःखरूपः । इत्येवं योगक्षेमसाधारणकारणतावाः दुःखप्रागभावं प्रत्यपि सुवचत्वात् एवमेव प्रायश्चित्तमपि दुःखप्रागभावहेतुरिति मन्तव्यम् ।
ननु न कल भक्षयेदित्यत्त विध्यर्थे कथं नञर्थान्वयः । तवेष्टसाधनत्वाभावस्य कृतिसाध्यत्वाभावस्य च वाधिततया नञ्ञ समभिव्याहृतलिङा बोधयितु’ मशक्यत्वादिति चेन्न । तत्र वाधात् इष्टसाधनत्वं, कृतिसाध्यत्वं च न विध्यर्थः । किन्तु बलवदनिष्टाननुबन्धित्वमात्रम् । तदभावश्च नत्रा वोध्यत इत्यङ्गीकारात् । अथवा वलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनत्वे सति कृतिसाध्यत्वं विध्यर्थः । तदभावश्च नञा वोध्यमानः विशिष्टाभावरूपः । स च विशेष्यवति वोध्यमानः सन् वलवदनिष्टाननुबन्धित्वरूपविशेषणाभावे पर्यवस्यति । ननु ’ श्येनेनाभिचरन् यजेते’ त्यादौ कथं वलवदनिष्टाननुवन्धित्वमर्थः ; श्येनस्य मरणानुकूलव्यापारस्य हिंसात्वेन नरकसाधनत्वात् । नच वैधत्वान्न निषेध इति वाच्यम् ; अभिचारे प्रायश्चित्तोपदेशात् । नच मरणानुकूलव्यापारमात्रं यदि हिंसा तदा खड्गकारस्य, कूपकर्तुश्च हिंसकत्वापत्तिः । गललग्नान्नभक्षणजन्यमरणे आत्मवधत्वापत्तिश्चेति वाच्यम् ; मरणोद्देश्यकमरणानुकूलव्यापारस्यैव हिसात्वेन दृष्टान्ते हिंसात्वाभावात् । नच तर्हि अन्योद्देश्येन क्षिप्तनाराचेन ब्राह्मणमृतौ प्रायश्चित्तं न स्यात्, तस्य हिंसात्वाभावेन प्रायश्चित्तविधानस्य चानुपपत्तेः इति वाच्यम् । तत्र मा हिंस्यादिति निषेधविषयतया न प्रायश्चित्तं विहितम् । किन्तु ‘सेतौ च स्नानमात्रेण ब्रह्महत्यां व्यपोहति’ इति वाचनिकं प्रायश्चित्तं तत्र विधीयते । किं चान्यो-
.
[[175]]
T
द्देश्यकनार’चप्रक्षेपस्थ मरणोद्देश्यकत्वाभावेन मा हिस्यादिति निषेधशास्त्राविषयत्वेऽपि ब्राह्मणं न हन्यादिति विशेषनिषेधेन ब्राह्मणहननमावस्य निषेधप्रतिपादनात् तस्य हिसात्वं तत्कर्तुः प्रायश्चित्तविधानं चोपपन्नम् इति ।
अत्रोच्यते । अदृष्टाद्वारक मरणोद्देश्य कमरणानुकूलव्यापारः हिंसा इति हिसालक्षणनिर्वचनेन श्येनस्य अदृष्टद्वारैव वैरिमरणसाधनत्वान्न हिंसात्वम् । अत एव काशीमरणार्थं कृतशिवपूजादेरपि न हिसात्वम् । नच साक्षान्मरणजनकस्यैव हिसात्वम् । श्येनस्तु न तथा । किन्तु तज्जन्यापूर्वमिति वाच्यम् । खड्गाघातेन ब्राह्मणे व्रणपाकपरम्परया मृते हिंसात्वानापत्तेः ।
·
केचित्तु श्येनस्य हिंसा फलम् न मरणम्, श्येनजन्यखड्गघातादिरूपा हिंसा अभिचारपदार्थः । तस्यैव च पापजनकत्वम् । अतः श्येनस्य वैधत्वात् पापाजनकत्वेऽपि अग्रिमपापं प्रतिसन्धाय सन्तः तत्र न प्रवर्तन्ते इत्याहुः ।
उदयनाचार्यास्तु एवमाहुः – आप्ताभिप्रायो विध्यर्थः । पाकं कुर्या इत्यादौ आज्ञादिरूपेच्छावाचित्ववत् लिङ्मात्रस्येच्छावाचित्वम् । वलवदनिष्टाननुबन्धित्वत्वादिरूपधस्य शक्यतावच्छेदकत्वकल्पनापेक्षया एकेच्छात्वस्य शक्यतावच्छेदकत्वे लाघवात् । एवं च ’ स्वर्गकामो यजेते ‘त्यादौ यागः स्वर्गका मकृतिसाध्यतया आप्तेष्ट इत्यर्थः । ततश्च यागः मम स्वर्गकामस्य बलवदनिष्टाननुबन्धीष्टसाधनं मत्कृतिसाध्यतया बाप्तेनेष्यमाणत्वात्, मन्मात्रकृतिसाध्यतया इष्यमाणमद्भोजनवत् इतीष्टसाधनत्वादिकमनुमाय प्रवर्तते । कलञ्जभक्षणे तु कृतिसाध्यतया आप्तेष्टत्वाभावान्न
तु प्रवर्तते ।
ननु वेदस्य अपौरुषेयत्वरूपनित्यत्वेन वक्तुरभावात् कृतिसाध्यतया आप्तेष्टत्वरूपविध्यर्थासिघ्या तल्लिङ्गकनिरुक्तप्रवर्तकज्ञानानुत्पत्तेः कथं यागादी प्रवृत्तिरिति चेन्न; वेदस्य पौरुषेयत्वाङ्गीकारेण दोषाभावात् । वेदस्थः यजेतेत्यादिविधिरेव श्रुतिकुमार्याः ईश्वररूपपुरुसम्बन्धे मानम् । आप्ताभिप्रायस्यैवोक्तयुक्त्या विध्यर्थत्वात् तत्र चाप्तस्यैश्वरभिन्नस्य वक्तुमशक्यत्वात् । नच वेदे कर्तस्मरणं बाधकम् । कपिलकणादादिभिरद्यपर्यन्तं कर्तृस्मरणस्यैव प्रतीयमानत्वात् । अन्यथा स्मृतीनामप्यकर्तृफेत्वापत्तेः । ननु स्मृतिष्वैव कर्तस्मरणमस्तीति चेत् — वेदेऽपि ‘छन्दांसि जज्ञिरे तस्मात् ’ इति कर्तस्मरणमस्त्येव । एवं ’ प्रतिमन्वन्तरं चैषा स्मृतिरन्या विधीयते’ इत्यपि वेदस्य पौरुषेयत्वे प्रमाणं द्रष्टव्यम् । वेदः पौरुषेयः वाक्यसमूहत्वात् भारतादिवत् इत्यनुमानेनापि पौरुषेयत्वसिद्धेः । नच स्मर्यमाणकर्तृकत्वमुपाधिः, गौतमादिभिः वेदेऽपि
[[176]]
·
कर्तुंस्मरणेन साधनव्यापकत्वात् । तस्मात्तेपानात् वयो वेदा अजायन्त इति श्रुतेश्च । ततश्च ‘स्वयम्भूरेष भगवान् वेदो गीतस्त्वया पुरा। शिवादिऋषिपर्यन्ताः स्मर्तारोऽस्य न कारकाः ॥’ इति तु स्तुतिमात्रम् । नच पौरुषेयत्वे भ्रमादिसम्भवादप्रामाण्यं स्यादिति वाच्यम् । नित्यसर्वज्ञत्वेन निर्दोषत्वात् । अत एव पुरुषान्तरस्य भ्रमादिसम्भवात् न कपिलादेरपि वेदकर्तृत्वम् । किञ्च वर्णानित्यत्वस्य प्रतिपादितत्वात् तत्सन्दर्भस्य वेदस्य सुतरामनित्यत्वमिति सङ्क्षेपः ।
एवं प्रवृत्तिरूपः प्रयत्नः सविस्तरं निरूपितः । द्विष्टसाधनताज्ञानात् निवृत्तिरूपः प्रयत्नः भवति । निवृत्ति प्रति अन्वयव्यतिरेकाभ्यां द्विष्टसाधनताज्ञानस्य हेतुत्वावधारणात् ।
.
तृतीयः जीवनयोनियत्नस्तु यावज्जीवनमनुवर्तते स चातीन्द्रियः । अधिकन्यूनसमा दिप्राणसञ्चारस्य प्रयत्नसाध्यत्वात् प्रवृत्तिनिवृत्तिभिन्नस्य तस्य जीवनयोन्याख्ययत्नसाध्यत्वावधारणात्, प्रत्यक्ष प्रयत्न वाधाच्चातीन्द्रियत्वसिद्धिः ।
अथ धर्मनिरूपणम् विहितकर्मजन्यो धर्मः ।
विहितकर्मजन्यत्वं धर्मस्य लक्षणम् । देवतानमस्कारस्तोत्रपाठादिविहितकर्मजन्यत्वस्य धर्मे सत्त्वात् समन्वयः । विहितकर्मप्रत्यक्षं विहितकर्मध्वंसे च अतिव्याप्तिवारणाय अतीन्द्रियगुङ्गत्वमपि लक्षणे देयम् । ध्वंसे गुणत्वाभावा प्रदक्षिणनमस्कारादिविहितकर्मविषयकप्रत्यक्षे अतीन्द्रियत्वाभावाच्च नातिव्याप्तिः ।
धर्मस्य
वस्तुतस्तु विहितकर्मणां शरीरस्थत्वेन अदृष्टस्यात्मगुणत्वेन च वैयधिकरण्यात् विहितकर्मजन्यत्वं नाम विहितकर्मानुकूलकृतिजन्यत्वमेव वक्तव्यम् । एवं च चैत्रीययागदानादिकृत्या मैत्रात्मनि अदृष्टोत्पत्तिवारणाय समवायेन अदृष्टोत्पत्ति प्रति समवायेन तादृशकृतेः कारणत्वं वक्तव्यम् । तथाच विहितकर्मानुकूलकृति निष्ठसमवायसम्बन्धावच्छिन्नननकता निरूपितसमवायसम्वन्धावच्छिन्नजन्यताश्रयत्वमेव लक्षणमिति वक्तव्यम् । एवं सति विहितकर्म प्रत्यक्षे विहितकर्मध्वंसे च नातिव्याप्तिः । कर्मणः स्वप्रत्यक्षं प्रति, स्वध्वंसं प्रति च क्रमेण विषयतासम्बन्धेन, प्रतियोगिता सम्बन्धेन च कारणत्वात् अतीन्द्रियगुणत्वदलोपादानं व्यर्थमेवेति वोध्यम् । एवमेवाधर्मलक्षणमपि परिष्कर्तव्यम् । - धर्माधर्मयोरुभयोर्मिलित्वा अदृष्टमिति नाम ।
[[177]]
[
T
॥
AINY
f
धर्माधर्मावदृष्ट स्याद्धर्मः स्वर्गादिकारणम् । गङ्गास्नानादियागादिव्यापारः स तु कीर्तितः । कर्मनाशाजलस्पर्शादिना नाश्यत्वसौ मत ॥
इति कारिका । स्वर्गादिसकल सुखानां स्वर्गसाधनीभूतशरीरादीनां च साधनं धर्मः । स च धर्मः यागादिव्यापारतया कल्प्यते । अन्यथा यागादीनां चिरविनष्टतया, निर्व्यापारतया च कालान्तरभाविस्वर्गजनकत्वं न स्यात् । तदुक्तमुदयनाचार्यैः-
चिरध्वस्तं फलायालं न कर्मातिशयं विना ’ इति ।
ननु यागध्वंस एव व्यापारोऽस्तु प्रतियोगिध्वंसयां रेकार्याजनकत्वनियमे च मानाभावात् । नच यागध्वंसस्य नाशाभावेन फलानन्त्यम् ।
धर्मकल्पने तु चरमफलस्यैव धर्मात्मकापूर्वनाशकत्वान्न तथात्वमिति वाच्यम् । · कालविशेषस्य सहकारित्वाङ्गीकारेण तादृशकालाभावेन फलानन्त्यप्रसङ्गाभावात् इति चेन्न ; गङ्गास्नानस्य हि स्वर्गजनकत्वं शास्त्रसिद्धम् । तन्त्र तन्द्ध्वंसस्यैव व्यापारत्वे गङ्गास्न तस्य जलसंयोगरूपतया अनन्तानां जलसंयोगध्वंसानां व्यापारत्वं कल्पनीयम् । तदपेक्षया लाघवात् धर्मनामकमेकमेवापूर्व कल्प्यते ।
|
ननु ध्वंसोऽपि न व्यापारोऽस्तु । नच निव्र्व्यापारस्य चिरध्वस्तस्य कथं कारणत्वं इति वाच्यम् ; अनन्य वासिद्धनियतपूर्ववर्तित्वस्य यागेऽव्याहतत्वात् । अव्यवहितपूर्वचतित्वं हि चक्षुस्संयोगादेः कारणत्वे, न तु सर्वत्र । व्यापारभिन्ननिष्ठ-
तु कारणतायां अव्यवहितपूर्ववृत्तित्वस्य घटकत्वे मानाभावात् । यथाहि कार्यकाल - वृत्तित्वं समवायिकारणमात्रघटकम्, न तु कारणसामान्यान्तर्गतम्, प्रागभावनिष्ठकारणतायां तदभावात् । अतः याग एव स्वर्गजनकः, न तत्र व्यापारकल्पनापेक्षेति चेन्न ।
यदि यागादिव्यापारतया अपूर्वं न कल्प्यते तदा-
कर्मनाशाजलस्पर्शात् करतोयातिलङ्घनात् । गण्डकीबाहुतरणात् धर्मः क्षरति कीर्तनात् ॥
इत्याद्युक्तं जलस्पर्शादिनाश्यत्वं धर्मस्य न स्यात् । न हि तेन यागादेर्नाशः प्रतिबन्धो वा कर्तुं शक्यते । तस्य पूर्वमेव वृत्तत्वात् । अतः धर्माधर्माख्यमपूर्वमवश्यं कल्पनीयमेव ।
एतेन देवताप्रीतेरेव फलत्वमित्यप्यपास्तम् ; जलस्पर्शादिनाश्यत्वासम्भवात् गङ्गास्नानादी सर्वत्र देवताप्रीतेरसम्भवाच्च देवतायाः चेतनत्वेन तत्प्रीतेः सम्भवेऽपि तस्याः अनुद्देश्यत्वात् । किन्व प्रीतेः सुखरूपत्वेन विष्णुप्रीत्यादौ तदसम्भवात् ।
[[178]]
जन्यसुखस्य तत्नाभावात् ।
यत्रापि विष्ण्वादिप्रीतिः फामित्युच्यते तवापि विष्णु-
समवेतेच्छारूपप्रीतिजन्यपराभिमतम्वर्गादिरेव विष्णुप्रीतिशब्देन लक्ष्यते इति बोध्यम् ।
अथाधर्मनिरूपणम्
निषिद्धकर्मजन्योऽधर्मः ।
·
निषिद्धकर्मजन्यत्वे सति अतीन्द्रियगुणत्वं यथाश्रुते अधर्मलक्षणम् । अन्यत्तु पूर्वपद्बोध्यम् । अत्र यद्यपि अदृष्टत्वेन धर्माधर्मयोरैक्यम् । तथापि तयोः परस्परविरुद्धतया अत्यन्तं स्पृहणीया स्पृहणीय सुखदुःखकारणतया च विहितनिषिद्ध मञ्जः यतया चैवं पृथग्विभागः कृतः । नच धर्माभाव एवाधर्मोऽस्तु इति वाच्यम् निन्दितकर्मजन्मनः नरकादिप्राप्तिहेतोः भावरूपगुणस्यैव अधर्मत्वात् । ततश्च विहितनिषिद्धक्रियाजन्यतावच्छेदकसुखदुःखासाधारणकारणतावच्छेदकजातिमन्तौ धर्माधर्माविति फलितम् । मिथ्याज्ञानजन्यवासनाजन्यतावच्छेदकजातिस्तु अदृष्टत्वरूपा उभयसाधारणी ज्ञेया । उभयमप्येतदतीन्द्रियम् ।
[[1]]
।
नव धर्माधर्मयोः सत्त्वे प्रमाणाभावः । आशुविनाशियागनिष्ठा वेदबोधिता कालान्तरभाविस्वर्गसाधनता सद्वारा साक्षादसाधनतात्वे सति साधनतात्वात् इत्यनुमानस्यैव प्रमाणत्वात् ।
ननु यागध्वंस एव व्यापारोऽस्तु । न चैवं यागस्य स्वर्गप्रतिबन्धकत्वापत्तिः, कारणीभूताभावप्रतियोगित्वस्यैव प्रतिबन्धकत्वात् । स्वर्गकारणीभूतयागध्वंसरूपाभावप्रतियोगित्वस्य यागे सत्त्वात् । अत एवं समाप्ति प्रति विघ्नध्वंसः कारणम् । विनः प्रतिबन्धक इत्युच्यते । प्रकृते यागस्य प्रतिवन्धकत्वं श्रुतिविरुद्धमिति वाच्यम् । प्रतिबन्धकलक्षणं कारणीभूताभावस्य अत्यन्ताभावत्वेनैव ग्रहणात् । अन्यथा घटध्वंसं प्रति कारणीभूतः यः अभावः कपालध्वंसः तत्प्रतियोगिनः कपालस्य घटध्वंसं प्रति प्रतिबन्धकत्वापत्तिः । समाप्ति प्रति विध्वंसस्य संसर्गाभावत्वेनैव कारणत्वम् । घटध्वंसं प्रति कपालध्वंसस्य ध्वंसत्वेनैव कारणत्वम्, न त्वत्यन्ताभावत्वेन । एवं चात्रापि यागध्वंसस्य ध्वंसत्वेनैव कारणत्वमित्यदोषादिति चेन्न ; विहितकर्मणः यागादेः ध्वंसस्य द्वारत्वे तस्य कीर्तनादिनाश्यत्वानुपपत्तेः । ध्वंसस्य ध्वंसानङ्गीकारात् । नच धर्मः क्षरति कीर्तनादित्यस्य विहितक्रिया कीर्तनात् फलं नोत्पादयतीत्यर्थकतया कीर्तनस्य प्रतिबन्धकत्वान्न दोष इति वाच्यम् । चिरातीतेन कीर्तनादिना कालान्तरभावि स्वर्गफलं प्रति प्रतिबन्धायोगात् । एवं प्रायश्चित्तादिनाश्यत्वेन दुरितापूर्वसिद्धिः । ध्वंसस्य निषिद्धकर्मव्यापारत्वे प्रायश्चित्तानुष्ठातुरपि नरकपातप्रसङ्गः । एवं तत्त्व-
[[179]]
।
ज्ञाननाश्यतयापि भावरूपस्यादृष्टस्य सिद्धिः । गङ्गास्नानादी देवताप्रीतेरभावेन, स्वमते ईश्वरे प्रीतेरभावेन च देवताप्रीतेः द्वारत्वमप्यसम्भावितमेवेति दिक् ।
।
अवेदमवधेयम् । विधिनिषेधयोः नराधिकारिकत्वात् विहितनिन्दितकर्माणि श्रेयस्कामैरवश्यमवगन्तव्यानि । तथा सत्येवेष्टप्राप्तिरनिष्टपरिहारश्च सम्पादयितुं
शस्यते ।
सुखार्थाः सर्वजन्तूनां मताः सर्वाः प्रवृत्तयः सुखं च न विना धर्मात्तस्माद्धर्मपरो भवेत् ॥ इत्याचार्यंवाग्भटवचनम् । सर्वेऽपि सुखमिच्छन्ति ।
।
न कोsपि दुःखमिच्छति ।
भारापगमे सुखी संवृत्तोऽहमित्यनुभवेन दुःखध्वंसोऽपि सुखत्वेनोपचर्यते । ‘धर्मज्ञसमयः प्रमाणम्, वेदाश्च’ इत्यापस्तम्ववचनात्,
यमार्याः क्रियमाणं तु शंसन्त्यागमवेदिनः ।
स धर्मो यं विगर्हन्ते तमधर्मं प्रचक्षते ॥
इत्यादि महर्षिवचनाच्च श्रुतिस्मृतिसदाचारादिभिः धर्मं सम्यगधिगम्य सर्वैः सत्कर्म -निरतंर्भाव्यम् । एवं सत्कर्मजन्यधर्मविशेषात् शास्त्रे प्रवृत्तिः । ततः प्रतियोगिभूतात्मेतरपदार्थतत्त्वज्ञानात् आत्मस्वरूपावधारणम् । ततो दुःखध्वंस इति धर्माधर्मस्वरूपज्ञानमत्यावश्यकमिति ध्येयम् ।
।
अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः ।
प्रायश्चित्तादिनाश्योऽसौ जीववृत्ती त्विमो गुणी ॥
इति भाषापरिच्छेदानुसारेण नरकादिसकलदुःखानां नारकीयशरीराणां च साधनमधर्मः । यदि चाधर्मो न स्यात् तदा प्रायश्चित्तादिना नाश्यत्वमपि न स्यात् । न हि तेन ब्रह्महननादीनां नाशः प्रतिबन्धो वा कर्तुं शक्यते, तस्य पूर्वमेव विनष्टत्वात् । इमौ च धर्माधन जीवमात्रवृत्ति गुणौ, ईश्वरस्य धर्माधर्माभावात् ।
इस च मिज्ञानवासनाजन्यौ । तत्त्वज्ञानेन मिथ्याज्ञानवासनानाशे ज्ञानिना कृते अपि सुकृतदुष्कृतकर्मणी न फैलाय प्रभवतः । इमी च तत्त्वज्ञानात् भोगाच्च
नश्यतः ।
ननु तत्त्वज्ञानस्य कथं धर्माधर्मनाशकत्वम् । ‘नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । इतिवचनविरोधात् । न चैवं निरुक्तवचनानुरोधात् भोगस्यैव धर्माधर्मनाशकत्वस्वीकारे तत्त्वज्ञानानन्तरं मोक्षो न स्यात्, धर्मादिनाशकाभावादिति वाच्यम । केषाञ्चन तत्त्वज्ञानिनां झटिति कायव्यूहेन एकदानेकशरीरस्वीकाररूपेण
[[180]]
निखिलधर्माणां भोगेन क्षयः । अन्येषां तु क्रमेणानेकशरीरपरिग्रहाद्भोगेन क्षय इति
तु चेन्न । नाभुक्तं क्षीयते कर्मेत्यत्र भोगपदस्य वेदबोधिततत्त्वज्ञानोपलक्षकत्वेन तत्त्वज्ञानस्यापि धर्मादिनाशकत्वे नानुपपत्तिः । कथमन्यथा प्रायश्चित्तादिना कर्मणां नाशः । तत्त्वज्ञानस्यादृष्टनाशकत्ये स्मृतिः श्रुतिश्च भवतः - ’ ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन’, ‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’ इति । ननु तत्त्वज्ञानिनस्तहि शरीरावस्थानं सुखदुःखादिकं च न स्यात् । सवषां कमण नाशादिति चेन्न ; प्रारब्धेतरकर्मणामेव नाशात् । तत्तच्छरीरभोगजनकं यत्कर्म तत् प्रारब्धम् । तदभिप्रायमेव नाभुक्तं क्षीयते कर्मेति वचनमिति ।
.
बुध्यादयोऽष्टावात्ममात्रवृत्तिगुणाः । बुद्धीच्छा प्रयत्ना नित्या अनित्याश्च ।
नित्या ईश्वरस्य । अनित्या जीवस्य ।
बुध्यान्दयष्टावात्मेतरावृत्तिगुणाः इत्यर्थः ।
आत्मवृत्तित्वांशस्य प्रवेशे
प्रयोजनाभावात् । सुखदुःखद्वेषधर्माधर्माणामीश्वरेऽनङ्गीकारात् । जीवमात्रनिष्ठानां कर्माधीनानां तेषामनित्यत्वमेव । बुद्धीच्छा प्रयत्नाना ईश्वरीयाणां नित्यत्वं, जीवीयानामनित्यत्वं च वोधयति-बुद्धीच्छाप्रयत्ना इति । ईश्वरस्य शरीराभावात् तदीयबुध्यादेः शरीरनिरपेक्षतया तस्य सर्वप्रकर्तृत्वानुरोधेन विनिगमनाविरहेण यस्सर्वज्ञस्सर्ववि ‘दिति श्रुत्यनुरोधेन च सर्वविषयकत्वम् । जीववर्तिनां नाशप्रतीतिबलात् ईश्वरभिन्नवृत्तिविभुविशेषगुणानां स्वोत्तरोत्पन्नविभुविशेषगुणनाश्यत्वनियमाच्च अनित्यत्वद्विक्षणावस्थायित्वयोः सिद्धावपि ईश्वरवर्तिनां तेषामनित्यत्वसाधकमानाभावात् नित्यत्वमेव । केचन ईश्वरस्य नित्यसुखमप्यङ्गो कुर्वन्ति ।
।
संस्कारः त्रिविधः वेगः भावना स्थितिस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः ।
संस्कारत्वजातिमत्त्वं संस्कारसामान्यलक्षणं बोध्यम् । त्रिविधसंस्कारे वेगः पृथिव्यादिचतुष्टये मनसि च वर्तते । इष्वादिपु जायमाना या प्रयत्नवदात्मसंयोगजन्या प्रथमक्रिया तज्जन्यः द्वितीयक्रियाजनकः मुर्तरत्तिः वेगः । एतच्च स्वरूपकीर्तनम् । लक्षण तु मनावृत्तित्वमिति । अमृतवृत्तित्वे सतीति विशेषणात् न सङ्ख्यायामतिव्याप्ति । रूपादावतिव्याप्तिवारणाय विशेष्यदलम् । वस्तुतस्तु क्रियायां परत्वापरत्वयोश्चैतल्लक्षणमतिव्भप्तम् । ‘क्षितिर्जलं तथा तेजः पवनो मत एव च । परापरत्वमूर्तत्वक्रिया वेगाश्रया अमी’ इति वचनात् । इष्वादिगतवेगे
[[181]]
।
।
मनस्समवे॒तत्वाभावेन अव्याप्तेश्च । अतः प्रत्यक्षसिद्ध वेगत्वजातिमत्त्वमेव वेगलक्षणमति बोध्यम् । वेगश्च कारणगुणाज्जायत । क्वचित्कर्मणोऽपि । कर्म जनकश्च । अयं क्वचिद्विलक्षणसंयोगाद्विनश्यति । क्वचिदाश्रयनाशात् क्वचित् स्वजन्यकर्मणश्च । नच क्रिप्रातिरिके वेगे मानाभावः । वेगेन चलतीति प्रत्यक्षस्यंव प्रमाणत्वात् ।
अनुभवजन्या स्मृतिहेतुर्भावना ।
दृष्टश्रुतानुमितेष्वर्थेषु स्मृतिप्रत्यभिज्ञानहेतुः (भावना ) इति भाष्यानुरोधात् भावनालक्षणमाह-अनुभवेति । अनुभूतमेव स्मर्वते, नाननुभूतम् ।
। अनुभवे नष्टेऽपि कालान्तरे स्मृतिजननात् मध्ये कश्चन व्यापारः कल्प्यः । स एव भावना । अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनायाः लक्षणम् । प्रथममनुभवः, ततः भावनाख्यः संस्कारः, ततः स्मृतिरिति समन्वयः । अनुभवजन्यत्वमात्रोक्तौ तद्ध्वंसे, स्मृतिहेतुत्वमात्त्रोक्तौ आत्मादौ चातिव्याप्तिः । अतो दलद्वयोपादानम् । ननु ध्वंसं प्रति प्रतियोगिनः तादात्म्येनैव कारणतया अनुभवनिष्ठसमवायसम्बन्धावच्छिन्नकार गता निरूपितकार्यताश्रयत्वविवक्षणादेव ध्वंसेऽतिव्याप्तिवारणात् स्मृतिहेतुत्वदलं व्यर्थमिति चैत न; स्मृतिं प्रत्यनुभवस्य समवायेनैव कारणत्वात् स्मृतावतिव्याप्तिवारकतया तद्द्लसार्थन्त्र्यात्. ॥ एतेन गुणत्वदलेनैव ध्वंसेऽतिव्याप्त्यभावात् स्मृतिहेतुत्वदलं किमर्थमिति शङ्कानवकाशः । स्मृतावतिव्याप्तिवारकतया तत्सार्थक्यस्योक्तत्वात् । नच विशिष्टबुद्धि प्रति विशेषणज्ञानस्य कारणत्वात् विशेषणज्ञानात्मकदण्डानुभवजन्यत्वस्य दण्डी पुरुष इति स्मृतिकारणत्वस्य च दण्डी पुरुष इति विशिष्टबुद्धी सत्त्वात् ‘अतिव्याप्तिरिति वाच्यम् । यतोऽन अनुभवजन्यत्वं अनुभवत्वावच्छिन्नकारणतानिरूपित कार्य ताश्रयत्वरूपम् । न तु अनुभवनिष्ठकारणतानिरूपित कार्यताश्रयत्वम् । तथाच विशिष्टबुद्धि प्रति विशेषणानुभवस्यापि ज्ञानत्वेनैव कारणतया ज्ञानत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्यैव विशिष्टबुद्धौ सत्त्वेन अनुभवत्वावच्छिन्नकारणत्वाभावान्नातिव्याप्तिः । विशेषणानुभवादिव विशेषणस्मरणादपि दण्डी पुरुष इत्यादिविशिष्टज्ञानस्योदयात् स्मृत्यनुभवसाधारणज्ञानत्वेनैव तन्त्र कारणता । अत्र तु अनुभवत्वेनैवेति विशेषः ।
वस्तुतस्तु स्मृतेरपि स्मृत्युत्पत्त्या स्मृतेरपि भावनोत्पत्त्या च स्मृतिजनकत्वं ’ स्मृत्यन्तर इति स्मृतावेवातिव्याप्तिः । स्मृतिजन्यत्वं च भावनाविशेष सम्भवतीति अव्याप्तिश्चेति पूर्वोक्तानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य लक्षणत्व-
[[182]]
मङ्गीकर्तुं
न शक्यते । अतः स्मृत्यनुभवसाधारण्येन ज्ञानत्वेनैव कारणत्वं वक्तव्यम् । एवं च ज्ञानत्वावच्छिन्नकारणताश्रयत्वमित्युक्ते इच्छादिकं प्रत्यपि ज्ञानस्य कारणतया तत्रातिव्याप्तिवारणाय स्मृतिहेतुत्वमिति । स्मृतिसाधारणकारकालादावतिव्याप्तिवारणाय स्मृतित्वावच्छिन्न जन्यतानिरूपितजनकताश्रयत्वं वक्तव्यम् । तथापि पूर्वोक्तरीत्या स्मृतेरपि स्मृतिसम्भवात् पुनरपि तस्य संस्कारद्वारा स्मृतिहेतुत्वात् स्मृतावतिव्याप्तिः तदवस्थैव । तदर्थं ज्ञानस्य अव्यवहितपूर्वक्षणावच्छिन्नजनकत्वं ‘निवेशनीयम् । ज्ञानस्य स्मृति प्रति संस्कारद्वारैव कारणतया संस्कारं प्रत्येवाव्यवहितकारणतया न दोषः । अत एव ग्रन्थकारः अनुभवस्य प्रयोजकत्वरूपकारणता-निरासाय अनुभवजन्या इति निरदिक्षत् ।
अयं च भावनाख्यः गुणोऽतीन्द्रियः । स्मृतिरूपस्वीयफलेनैवानुमेयः । अत एव रघुवंशे ‘फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ’ इति महाकविः कालिदासः ।
अन्यथाकृतस्य पुनः तादवस्थ्यसम्पादकः स्थितिस्थापकः । कटादिपृथिवी-
मात्रवृत्तिः ।
स्थितिस्थापकस्य लक्षणमाहअन्यथेति । स्थितेः पूर्वकालसम्वन्धिविलक्षणसंस्थानजातीयायाः स्थापकः पुनरुत्पत्तिजनक : इत्यर्थः । आत्ममनोऽवृत्तिसंस्कारत्वं तल्लक्षणम्। पूर्वावस्थानभिन्नावस्थानाश्रयत्वप्रकारक कृतिनिरूपितविषयताविशिष्टवस्तुनिष्ठपूर्वावस्थान सम्पादकत्वं वा मूलोक्तं लक्षण म् ।
अतीन्द्रियोऽयं नित्यगतो नित्यः, अनित्यगतोऽनित्यः ।
कारणगुणजन्यः क्रियाविशेषहेतुश्च । तत्र नायं साक्षात् पूर्वावस्थानसम्पादकः, किन्तु वेग इव कटादौ तादृशसंयोगानुकूल क्रियामुत्पादयति । सा च क्रिया विद्यमानसंयोगविशेषं नाशयित्वा पूर्वस्थितिजातीय संयोगं जनयति इति विवेकः । वेगस्तु स्वदेशोत्तरसंयोगजनकक्रियामात्रजनक इति भेदः । स्थितिस्थापकस्य अप्रत्यक्षत्वेऽपि बलादुन्नमितधनुगाखादित्रिया स्वाश्रयस्य यथापूर्वसंयोगजनकविलक्षणकारणवती विलक्षणत्रियात्वात् त्यनुमानेन तत्सिद्धिः । स च सिध्यन् पृथिव्यामेव सिध्यति, तत्रैव कार्योत्पत्तेर्दर्शनात् । अत एवोक्तम् — कटादिपृथिवीमात्रवृत्तिरिति । तालपत्त्रकाशादिरचितः कटः आकुञ्चित वि रक्षितः, कदाचित् प्रसारितोऽपि संस्कारवशात् पुनरपि वेष्टितो भवति । एवं नुषि शाखायां, रब्बर्-द्रव्येऽपि गुणोऽयमनुभवसिद्धः ।
कर्मज़वेगजभेदात् वेगः द्विविधः । शरीरादौ नोदनजनितेन कर्मणा वेगो जन्यते । न च पूर्वकमनाशः । ततः उत्तरकर्म । एवमग्रेऽपि । विना च वेगं कर्मणः कर्मप्रति-
[[183]]
बन्धकत्वात् पूर्वकर्मनाशे उत्तरकर्मोत्पत्तिर्न रयात् । यत्र च वेगवता कपालेन जनिते
घटे वेगा जायते स वेगजो वेगः ।
तस्य च उपेक्षानात्मकनिश्चयः
भावनाख्यः संस्कारः जीववृत्तिरतीन्द्रियः । कारणम् । उपेक्षात्मकज्ञानात् संशयाच्च संस्कारानुत्पत्तेः ।
W
ननु स्मरणं प्रति उपेक्षान्यनिश्चयत्वेन हेतुतास्तु । तेन उपेक्षास्थले न स्मरणम् । इत्थं च संस्कारं प्रति ज्ञानत्वेनैव हेतुतास्त्विति चेन्न विनिगमनाविरहेणापि संस्कारं प्रति उपेक्षान्यनिश्चयत्वेन हेतुत्तायाः सिद्धत्वात् । कि चोपेक्षास्थले संस्कार कल्पनायाः गुरुत्वात् संस्कारं प्रति उपेक्षान्यत्वेन हेतुता सिद्धयति । स्मरणप्रत्यभिज्ञानजनकतया संस्कारः कल्प्यते । विना व्यापारं पूर्वानुभवस्य स्मरणादिजननासामथ् स्व-स्वव्यापारान्यतराभावे कारणत्वासम्भवात् ।
नच प्रत्यभिज्ञां प्रति तत्तत्संस्कारस्य हेतुत्वे प्रत्यभिज्ञायाः संस्कारजन्यत्वे स्मृतित्वापत्तिरिति वाच्यम् । न हि संस्कारजन्यत्वं स्मृतित्वप्रयोजकम् । तद्ध्वंस स्यापि स्मृतित्वापत्तेः । किन्तु संस्कारेतराव्यापारकत्वसंस्कारव्यापारकत्वोभयमे स्मृतित्वप्रयोजकम् । तादृशोभयस्य प्रत्यभिज्ञायामसत्त्वात् न कोऽपि दोषः "
मणिकृतस्तु अनुद्बुद्धसंस्कारात् प्रत्यभिज्ञाऽनुदयात् उद्भद्धसंस्कारस्य हेतुत्वा पेक्षया तत्तत्स्मरणस्यैव प्रत्यभिज्ञां प्रति हेतुत्वं कल्प्यत इत्याहुः ।
स्थितिस्थापकसंस्कारः पृथिवीमात्रवृत्तिरित्युक्तम् । अन्यथाकृतेषु जलादिषु पूर्वावस्थानप्राप्त्यदर्शनात् तेषु तत्प्राप्त्यनुमेयस्थितिस्थापकाख्यगुणकल्पने मानाभाव इति वदतां नव्यानामभिप्रायानुसारेणैवमुक्तम् ।
स्थितिस्थापकस्तु स्पर्शवद्द्रव्येषु वर्तमानः’ इति भाष्यवचनं प्रमाणीकुर्वन्त
प्राचीनास्तु अयं गुणः पृथिव्यादिचतुष्टये वर्तत इत्याहुः । संस्कारः क्षितौ केचिच्चतुर्ष्वपि ’ इति कारिकावली ।
इति न्यायप्रदीपः
अत एव ‘स्थितिस्थापन परन्तु तदप्रमाणमिति ।
दया परदुःखप्रहाणेच्छा, सौन्दर्य कान्तिविशेषः, औदार्य द्रव्यत्यागेच्छा, काठिन्यमृदुत्वादयः अवयवसंयोगविशेषाः । एवमन्येषामपि पदार्था मुक्तेष्वेवान्तर्भावात् सप्तैव पदार्था इति सिद्धम् । एतेषां पदार्थानां त निःश्रेयसाधिगम इति महर्षयः मन्यन्ते इति शम् ।
इति तर्कसग्रहः
T
ನ್ಯಾಯಪ್ರದೀಪಃ
(ತರ್ಕ-ಸಂಸ್ಕೃತ ಸಾಹಿತ್ಯ ತರಗತಿಗಳಿಗೆ)
kangaro
भागः ४-अ
मूलक र्तव्यानि
SANSKRIT
51ज मूल कर्तव्याति :एकैकस्यापि भारतीयनागरिकन्य कर्तव्यं भवेत् :-
(क) भारतसंविधानस्य परिपालनम् तस्य आदर्शभावानां संस्थापनानां राष्ट्रध्वजस्य राष्ट्रगीतस्य च ममादरणम् ;
नच
ख) अम्माकं राष्ट्रस्य स्वातन्त्र्यसङ्ग्रामः यैः सवोदितः तेषाम् उन्नतादर्शभावानां सन्धारणम् अनुपालनं च;
(ग) भारतराष्ट्रस्य प्रभुतायाः एकतायाः अखण्डतायाश्च समर्थनः-
संरक्षण च;
जन्य
र
द
व
अव्य
[[182]]
(घ) निर्देशप्राप्ती सत्या राष्ट्ररक्षाकरणं राष्ट्रसेवाकरणं च;
(7) धर्म, भाषा, प्रदेश, वर्ग च आश्रितान् भेदभावान् दूरीकृत्य सर्वासु ‘प्रजासु समरसतायाः समान भ्रातृभावस्य च प्रवर्धनम् ; स्त्रीगौरवविरोधिनां
राणां प्रत्याख्यानम् ;
(च) अस्माकं सुसङ्घटितायाः सुनम्पनायाश्च संस्कृतिपरम्परायाः सम्मानं
क्षण च
(छ) बनानि सरोवरा, नथ, अरिच देयप्राणिनः - एतैः साकं प्राकृतिकपरिसरम्य परिरक्षणं परिवर्तनं च सर्वभूतहिताचरणं च;
(ज) वैज्ञानिकदृष्टेः मानवीयभावनायाः संशोधननिष्ठायाः परिष्कारप्रवृत्तेश्च संवर्धनम् ;
(म) सार्वजनिकम्पले रक्षण, हिसानाः परिवर्जनं प
(ग) व्यक्तिगतेषु सामूहिनेषु च सर्वेष्वपि कार्यक्षेत्रेषु उत्कर्षप्राप्त येन राष्ट्र प्रयत्नातं मुनिम् ।
tr.
co
ए