नीलकण्ठं गुरुं वन्दे दक्षिणामूर्तिरूपिणम्।
यदबोधसमुद्भूतमिन्द्रजालमिदं जगत्॥
अथ प्रारिप्सितस्यास्य ग्रन्थस्य प्रत्यूहव्यूहापोहाय स्वीयनानाविधनिबन्धनसाधारणं स्वमुद्रारूपमभीष्टदायकगुरुवन्दनप्रतिपादकमङ्गलं शिष्यशिक्षायै ग्रन्थादौ पदवाक्यप्रमाणपारावारीणपण्डितेन्द्रनीलकण्ठशर्मा ग्रन्थकृन्निबध्नाति—-वन्देगुरुमिति । कथम्भूतं, शिवं परब्रह्मस्वरूपम्, “शिवमद्वैतं चतुर्थ” मन्यन्ते इत्यादिश्रुतेः “गुरुरेव परब्रह्मा” इत्यदिस्मृतेर्गुरुपरब्रह्माणोरैक्यं गुरोरेव परब्रह्मसाक्षात्कारहेतुत्वात्प्रथमं तदुपादानम्। वन्देरभिवादनार्थस्य स्वावधिकोत्कृष्टत्वप्रकारकज्ञानजनकव्यापारार्थत्वेन, उत्कृष्टत्वप्रकारकज्ञानस्य गुणवत्त्वप्रकारकज्ञानाधीनत्वेन, निराकारे ब्रह्मणि तदसम्भव दूरीकर्तुं—साम्यमिति। अम्बया सहितं, मायोपहितचैतन्यम्, साकारमित्यर्थः। केचित्तु शेते यस्मिञ्जगदि व्युत्पत्त्या तल्लयाधिष्ठानत्वेन साकारत्वोपपत्तौ साम्बमिति नतिकालिकविजातीयानन्दातिशयद्योतनायेत्याहुः। इतरव्यावृत्त्यर्थं—दक्षिणामूर्तिमिति। साकारत्वे “अस्ति जायते वर्धतेऽपक्षीयते विपरिणमते नश्यती"ति षङ्भावविकारप्राप्तिं वारयति अव्ययमिति। न व्येतीत्यव्ययमति व्युत्पत्तोक्तषड्भावविकारविरहिणमित्यर्थः(1-साकारस्य कल्पितत्वेऽपि शुद्धचैतन्यस्याव्ययत्वेऽविरोध इति भावः।) वन्दनफलं दर्शयति—यद्वन्दनेनेति। यस्य वन्दनेन मन्दोऽपि मूढोऽपि गुरोर्बृहस्पतेः समानतां विन्देत्प्राप्नुयात्। “विदुलाभे”। अथवा मन्दत्वं मूलाज्ञानोत्थितदेहाद्यात्माध्यासेन शोकमोहसुखदुःखाद्यभिमानित्वं ततो गुरुपदेशादध्यारोपापवादन्यायपुरस्सरं परिशोधिततत्त्वमस्यादिमहावाक्यैर्जीवपरब्रह्मणोरैक्यरूपमखण्डार्थ विदित्वा ब्रह्माकारेणावस्थितिर्गुरुसमानतेति। तथाच श्रुतिः—“ब्रह्मविद्ब्रह्मैव भवति” इति। ईशानः (-“ईशानः सर्वविधानामीश्वरः सर्वभूताना"मिति।) इति श्रुतिबोधितसकलविद्याधीशत्वेन गुरुत्वं शिवस्यैवेति विद्याकमैरवश्यानुष्ठेयत्वं तद्वन्दनस्येति व्यज्यत इत्यलम्॥ अथेदानीमीश्वरनत्यात्मकस्यास्यादृष्टद्वारेणैव दृष्टसाधनत्वे दृष्टस्य कस्यचिदप्रसिद्धेरदृष्टमात्रस्यान्यथासिद्धेरेतद्वैयर्थ्यमापादयन्तम्, किञ्चास्तु वा प्रकृतिविध्नध्वंसमङ्गलयोर्विशेषरूपेण कार्यकारणभावस्तथापि तस्य त्रैविध्याल्लाघवान्मानसिकेन कायिकेन वान्यथासिद्धिमुद्ग्रावनयन्तं प्रत्याह—प्रारिप्सितस्येत्यादि। प्रपूर्वकस्यारभेराद्यकृतिः, सन इच्छा क्तस्य च विषयत्वमर्थः, तथाचाद्यकृतिविषयत्वेनेच्छाविषयस्य ग्रन्थस्येत्यर्थः। निर्विघ्नपरिसमाप्तय इति। निर्गता विघ्ना यस्या इति व्युत्पत्त्या चरमवर्णध्वंसरूपसमाप्तिपर्यन्तं विघ्नध्वंसलाभेन विघ्नध्वंसपूर्वकसमाप्तिरूपफललाभेत्यर्थः। इदं प्राचीनमतानुगतमूलोक्तार्थानुरोधेन । नैतत्सम्मतमेतद्ग्रन्थकृताम् । अतएव “एतत्तत्त्वमस्मदीयचिन्तामणिव्याख्यायामनुसन्धेयम्” इति वक्ष्यमाणं सङ्गच्छते। निबध्नन्निति। पूर्वार्थेनेत्यादिः। चिकीर्षितं कृतिसाध्यत्वेनेच्छाविषयीभूतम्। प्रतिजानीते उत्तरार्थेनत्यादिः । विश्वेश्वरमिति। जगन्नियन्तारं पुण्यपापानुसारेण सुखदुःखफलदातारमित्यर्थः। सप्रमाणं पाठद्वयं मत्वा विवृणोति—गिरां गुरुमिति। पार्थक्येन क्रियाविशेषणत्वे विद्याविशेषगुरुपरत्वमसम्भवदुक्तिकमिति तात्पर्येणाह—इदमपि विश्वेश्वरे विशेषणमिति। अपिरेवार्थे स च भिन्नक्रमः। तथाचेदं विश्वेश्वर एव विशेषणमित्यन्वयः। तेन विद्यागुरुपरत्वाभावो ध्वन्यते। अन्यथा “इदमपि” इत्याद्युक्तिस्वारस्यभङ्गापत्तिरित्यवसेयम्। गिरं गुरुमिति पाठस्याप्युचितत्वं स्फुटयितुं तुशब्दं प्रतिक्षिपति—पाठे त्विति। ननु तर्कसङ्ग्रहदीपिकामित्यनुपपन्नं,तर्कसङ्ग्रहस्य शब्दकदम्बात्मकस्य शब्दप्रकाशयत्वासम्भवादित्याशङ्कां मनसिकृत्वा मूलकृन्न्यूनतामर्थपदमन्तर्भाव्य विवरणेनार्थप्रकाशिकामित्यनेन निराचष्टे—तर्कसङ्ग्रहार्थप्रकाशिकामिति। प्रतिज्ञायाः शुश्रूषोद्देश्यकत्वेन तद्वाचकप्रयोगेन प्राप्ताज्ञानतापरिहाराय शिष्यावधानायेति पूरयति आदौ शिष्यावधानायेत्यादिरिति। उद्देश्यवाचकानां विधेयवाचकपूर्वत्वस्यौत्सार्गिकत्वमित्याशयात्। कारणत्वस्यान्वयव्यतिरेकसहकृतत्वेन तव्द्यभिचारप्रदर्शनपरमूलाशयं वर्णयितुमाशङ्कते–नन्विति। व्याभिचारादिति। ययोः कार्यकारणभावस्तत्सत्तयोर्व्याप्यव्यापकभावरूपान्वयसहचारज्ञानस्य (-उदयनाचार्यस्य।)तदभावसत्तयोर्व्याप्यव्यापकभावरूपव्यतिरेकसहचारज्ञानस्य च घटे दण्ड इव प्रकृते न सद्ग्राव इति तदाशयः। अभिसन्धिः अभिप्रायः। कादम्बर्यादौ प्राप्तान्वयव्यभिचारवारणपरमूलं विघ्नबाहुल्यकल्पकं, समसङ्ख्याकस्य बलवत्तरस्य वा मङ्गलस्य कारणत्वस्फोरकमित्याशयेन भाववर्णनमित्यवसेयम्॥ ननु किरणावलीप्रणेतुरास्तिकत्वेन कायिकमानसिकमङ्गलजनितदुरितध्वंसद्वारा माप्तिकल्पनेन व्यतिरेकव्यभिचारवारणेऽपि प्रत्यक्षातिरिक्तवस्तुसत्ताविद्वेषिणश्चार्वाकस्य ग्रन्थे यथाश्रुतमूलार्थे व्यभिचारवारणसम्भवान्मूलन्यूनता स्यादित्यतो “बहिरेव” इति मूलं जन्मान्तरपरतयोन्नेयमित्याह—जन्मान्तर एवेति। इत्थं प्रत्यक्षातिरिक्तवस्तुसत्ताविद्वेषिणो लोकायतिकस्य मतसरणिः—प्रत्यक्षमेव प्रमामं नातिरिक्तं, मानाभावात्। नास्ति परलोको, नास्ति चैतन्यविशिष्टदेहादतिरिक्त आत्मा, नापि चाङ्गनालिङ्गनादिजन्यसुखातिरिक्तनित्याद्वितीयब्रह्मानन्दात्मकः परमपुरुषार्थः, नापि च राजातिरिक्त ईश्वरः, नापि च देहोच्छेदातिरिक्तो मोक्षः। देहात्मवाद एव कृशोऽहम्, कृष्णोऽहमित्यादि सामानाधिकरण्योपपत्तिः। मम शरीरमित्यादिभेदव्यवहारस्तु “राहोः शिर” इत्यादिवदौपचारिक एव। तदुक्तम्—अत्र चत्वारि भूतानि भूमिवार्यनलानिलाः। चतुर्भ्यः खलु भूतेभ्यश्चैतन्यमुपजायते ॥ किण्वादिभ्यः(-क्रमुकादीति पाठान्तरम्। तण्डुलादिद्रव्यकृतसुराबीजं किण्वं, क्रमुकस्तु गुवाकः, सुपारीति प्रसिद्धः।) समेतेभ्यो द्रव्येभ्यो मदशक्तिवत्। अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्यतः॥2॥ देहः(2- तस्मात्.पा.)स्थौल्यादियोगाच्च स एवात्मा न चापरः। मम देहोऽयमित्युक्तिः सम्भवेदौपचारिकी ।।३।।(3-राहोः शिर इत्यादिवदभेदेऽप्यारोपितभेदाववगाहिनी।)॥3॥ यावज्जीदं सुखं जीवोन्नास्ति मृत्योर्गोचरः।(4-अविषय इत्यर्थः।)भस्मीभूतस्य देहस्य पुनरागमनं कुतः॥4॥ अग्निरुष्णो जलं शीतं शीतस्पर्शस्तथानिलः। केनेदं चित्रितं तस्मात्सत्स्वभावात्तव्द्यवस्थितिः॥ 5॥” तदेतत्सर्व सुरगुरुणापि समग्राहि। “न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः। नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकः॥” अग्निहोत्रं त्रयो वेदास्त्रिदण्डं, भस्मगुण्ञनम्। (5-पुण्ड्रम्. पा.)बुद्धिपौरुषहीनानां जीविका धातृनिर्मिता॥2॥ पशुश्चेन्निहितः स्वर्ग ज्योतिष्टोमे गमिष्यति। स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते॥3॥ मृतानामपि “जन्तूनां श्राद्धं चेत्तृप्तिकारणम्। गच्छतामिह जन्तूनां व्यर्थ पाथेयकल्पनम्॥4॥ स्वर्गे स्थिता यदा तृप्तिं गच्छेयुस्त्वत्र दानतः। प्रासादस्योपरिस्थानामिह कस्मान्न दीयते॥ 5॥” इत्यादि। नचाङ्गनालिङ्गनादिजन्यसुखस्य यत्किञ्चिदनुचितान्तरपरिबरब्धत्वेन दुःखसम्भिन्नतया पुरुषार्थत्वमेव नास्तीति वाच्यम् अवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैवोपादेयत्वाद्दुःखभयान्नानुकूलवेदनीयं सुखं त्यक्तुमुचितमिति सिद्धम्। नहि मृगाः सन्तीति शालयो नोप्यन्ते, नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रियन्ते।तदुक्तम्–“त्याज्यं सुखं विषयसङ्गमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचारणैषा। व्रीहीञ्जहासति सितोत्तमतण्डुलाढ्यान्को नाम भोस्तुषकणोपहितान्हितार्थी” ॥इति। ननु स्यादेष ते मनोरथो यद्यनुमानादेः प्रामाण्यं न स्यात्। अस्ति च प्रामाण्यम्, कथमन्यथा धूमचाक्षुषानन्तरं धूमेन साध्ये प्रेक्षावतां प्रवृत्तिरुपपद्येत। एवं नद्यास्तीरे फलानि सन्तीत्याप्तोक्तशब्दश्रवणानन्तरं फलार्थिनां तीरे प्रवृत्तिर्न स्यादिति चेत्। न। भवन्नये व्याप्तिपक्षधर्मताशालिलिङ्गमनुमितिजनकम्। व्याप्तिश्चोभयविधोपाधिविधुरः सम्बन्धविशेषः। स च चक्षुरादिवत्स्वरूपेण नाङ्गभावं भजते, किन्तु ज्ञाततया, तथाच चक्षुःसंयुक्तयोर्वर्तमानवह्निधूमयोरैकाधिकरणस्य चक्षुःसंयुक्तविशेषणतया तद्विषयकेन्द्रियप्रत्यक्षविषयत्वेऽपि तदसंयुक्तभूतभविष्यदैकाधिकरण्यज्ञानविषयत्वेन व्याप्तेःसर्वोपसंहारवत्त्वस्यासर्वज्ञदुर्ज्ञेयत्वात्। नच सामान्यलक्षणया तज्ज्ञानं सुलभमिति वाच्यम्। अन्तःकरणस्य बहिरिन्द्रियसापेक्षतया बाह्यऽर्थे स्वातन्त्र्येणाप्रवृत्तेः। तदुक्तम्–“चक्षुराद्युक्तविषयं परतन्त्र्यं बहिर्मनः” इति। नापि शब्दोपमाने, कणादमतानुसारेणानुमान एवान्तर्भावात् तन्निरासेनैव तन्निरासात्।(नैयायिकनये पृथक् प्रमाणत्वेऽपीश्वरानङ्गीकर्तृमते तस्य प्रामाण्यसाधकहेतोः स्वरूपासिद्धत्वात्। आप्तोक्ते तु तदावश्यकतैव। शब्दत्वसामानाधिकरण्येनैव तदसिद्धेः। तत्तत्प्राप्त्यर्थककल्पनावश्यकत्वात्।) इत्यास्तां तावदप्रस्तुतविचारेण॥ कुत्रचिदिति। तेन किरणावल्या नास्तिकेतरकृतिविषयत्वं सूचितम्। ननु कर्तुरनास्तिकत्वे ग्रन्थाद्बहिः कायिकमानसिकमङ्गलकरणसम्भावनया जन्मान्तरानुसन्धानानावश्यककत्वेन नास्तिकानुतिष्ठितग्रन्थे व्यतिरेकव्यभिचारवारणप्रयुक्तन्यूनतापरिहाराय बहिरेवेतिमूलस्य जन्मान्तरार्थकत्वे(१)पि(१-शब्दोपमानप्रमाणान्तरत्वस्य निराकरणात्।) किरणावल्यादौ तदपरिहारेण तुन्दिलप्रिया(2-“तुन्दिलो मैथुनं कुर्वश्चुम्बनायप्रदर्शितः। इतो भ्रष्टस्ततो भ्रष्टो नैको लब्धो न चापरः॥” इति।रतिप्रस्तावप्रसङ्ग इति चेत्। इदमजहल्लक्षणाऽभिप्रायकमित्यतो(3-तथाच ग्रन्थाद्वह्निर्यत्रकुत्रचिदत्र जन्मनि जन्मान्तरे वेति लभ्यते।) न दोषलेशस्याप्यवसर इति भावः॥ अत इत्यस्योपसंहारबोधकवाक्यघटकत्वेन प्रकृतहेतुपरामर्शकतया प्रकृतोपसंहारार्थत्वं स्फुटयति–तादृशस्येत्यादिना। तादृशस्य कायिकमानसिकान्तरस्य। व्यभिचारद्वयवारणसिद्धफलं दर्शयति–एवं चेत्यादिना। उपसंहारवाक्यघटकव्यभिचारपदस्यान्वयव्यतिरेकव्यभिचारोभयपराहतत्ववश्यकतया तद्वारकपूर्वपूर्वहेतुद्वयान्वयानुविधायित्वादपकर्षे तत्तदन्वयस्य गौरवपराहतत्वाभिमानेन स्वोत्प्रेक्षितार्थं बोधयितुमाह—परे त्विति। मणिकृतस्त्विति। कार्यमात्रे प्रतिबन्धकसंसर्गभावस्य हेतुत्वेन प्रतिबन्धकनिरासेनैव कार्यसम्पत्तेर्लाघवं नव्यमते। समाप्तिहेतुत्ववादिनां प्राचां मते तु प्रतिबन्धकनिवृत्तिमन्तरेण (४)व्यूहस्यराजकरावलन्वनन्यायेन (4-यथा व्यूहस्यस्य राज्ञः करावलन्वनमरातिना व्यूहमनिरास्याशक्यं, तथा प्रकृतेऽपि प्रतिबन्धकनिरासमन्तरा समाप्तिर्दुःशकेति भावः।)तद्धेतुत्वासङ्गतेरुभयहेतुत्वाद्गौरवम्। मूलं तु प्राचीनमतानुसारेण। एतत्तत्त्वमिति। प्रथमोपस्थितविघ्नध्वंसं प्रत्येव कारणत्वं (इति)हृदयम्। अधिकं तु प्रकाशकर्तृपदवाक्यप्रमाणपारावारीणपण्डितेन्द्रनीलकण्ठविद्वन्मणीयव्याख्यायामभिनवप्राभाख्यायामधिकजिज्ञासुभिरनुसन्धेयं बुद्धिकुशलैरिति समुदितार्थः। मङ्गलस्य कर्तव्यत्वे शिष्टाचारानुमितश्रुतेरेव प्रमाणतयोपन्यासः, इदानीं लोके पठ्यमानप्रचलितवेदे “समाप्तिकामो मङ्गलमाचरेत्” इत्यानुपूर्वीकायाः श्रुतेरदर्शनात्, तत्र चानुमितत्वमेवानुपपन्नं, विधेयतावच्छेदकत्वादिति सति “कुड्ये चित्रम्” इति न्यायप्रसरमूलकानुपपत्तिमुद्दिधीर्षुस्तदाशयं वर्णयति–अत्रायमाशय इति। श्रुतेरनुमितेः पूर्वमसिद्धत्वादिति। नच “अनन्ता वै वेदाः” इत्यतः सिद्धत्वम्। सामान्यज्ञानं हि न बोधोपयोगि, अन्यथा “सर्वे सर्वार्थवाचकाः” इत्यभ्युपगममात्रेणास्तदादौनामसर्वशब्दार्थज्ञानानां सर्ववज्ञात्वापत्तेरन्यत्राभिधानात्। नहि सामान्यज्ञानकत्वेन तद्वोध्यकर्तव्यताकत्वं विधातुं शक्यम्। तद्विपरीतवादिना तदनाचरणत्वे श्रुतेरुपन्यसितुं शक्यत्वेन प्रमाणप्रतीतस्यैव सार्थकत्वौचित्यादित्याशयात्। एतेनेति। विधेयकोटिप्रविष्टस्य विधेयत्वाभ्युपगमेऽनुमितेः पूर्वमसिद्धत्वोपपादनेनेत्यर्थः। तदनुपपादने वह्नित्वावच्छिन्नवह्नेः साध्यतया विशिष्टस्य विशेषणविशेष्यानतिरेकित्वेन वह्नित्वस्य विधेयतावच्छेदकविधायानुमितिविषयत्वेनानुमितत्वप्रामाणिकव्यवहारापत्तिरूपशङ्का निरस्ता, श्रुतेरिव वह्नित्वस्यासिध्द्यभावात्। संयुक्तसमवायसन्निकर्षेण अपरोक्षज्ञानविषयत्वादित्यनुसन्धेयम्॥ नच श्रुतेः समाप्तिफलत्वेनोपादानात्कथं नव्यमतनिरुक्तिरिति वाच्यम्। समाप्तिकामोक्त्या समाप्त्युद्देशेन मङ्गलस्य विघ्नध्वंसफलकत्वानपायात्॥ तादृशव्यवहारे श्रुतावनुमितत्वव्यवहारे। एवकारस्येतरव्यवच्छेदार्थकत्वेऽप्रसिद्धिरनुमानान्तरप्रमाणसद्ग्रावादित्यसम्भवस्य पारेहारायाह—एवकारोऽप्यर्थक इति। अपेरर्थो यस्येति व्यधिकरणबहुव्रीहिः। तथाचाप्यर्थवाचक एवकार इति बोधः सामासिकः। वैग्रहिकस्तु अर्थविशेष्यकः षष्ट्यर्थो वाच्यवाचकभावः सम्बन्धः। तथाच यन्निष्ठवाचकतानिरूपितवाच्यतावानप्यर्थ इत्येवम् अर्थेन वाच्यवाचकभावसम्बन्धान्निपातानां वाचकत्वसमर्थनं तावत्तार्किकाणाम्। वैयाकरणमते तु द्योत्यद्योतकभावसम्बन्धोऽर्थनिपातयोः तथाचोक्तबोधकद्वयोपपत्तिर्विशेषणविशेष्यभावव्यत्यासात्। अत्रायं निष्कर्षो द्योतकत्ववाचकत्वयोरविधेयः। तार्किकाः खलु निपाता वाचका इति मन्यन्ते। अत्र शाब्दिकाः—-अनुभूयते सुखमित्यादौ धातोः सकर्मकक्रियापरत्वं विना कर्मणि लकारासम्भवेनानुभवाद्यर्थकत्वे स्थिते तात्पर्यग्राहकत्वरूपं द्योतकत्वमुपसर्गाणामङ्गीकृत्य वाचकत्वाभावे साधनीये उपसर्गत्वापेक्षया निपातत्वस्याधिकवृत्तितया तदवच्छेदेनैव वाचकत्वाभावसाधनं युक्तम् “प्रमाणानां सामान्ये पक्षपातः” इति न्यायात्। अत एव साक्षात्क्रियते गुरुरित्यादि सङ्गच्छते। निपातत्वमखण्डोपाधिरूपं, शक्तिसम्बन्धेन निपातपदवत्त्वं वेत्याहुः॥ तत्रच “अथ शब्दानुशासनम्” इति भाष्य आरम्भवाचकाथपदोपादानविरोधः। किञ्च स्वरित्यादीनां स्वर्गादिवाचकत्वस्य सर्वसम्मतत्वात्। किञ्च महाभाष्यस्य एव ननेत्याद्याभावो नेत्याद्यभावो नेत्यर्थोपादानात्। किञ्च पर्वतादा इत्यादौ पर्वतादर्वागित्यर्थप्रतीतेरर्वागर्थकत्वमेवान्यथा पञ्चम्यनुपपत्तेर्निरुक्ते स्पष्टत्वात्। किञ्च “पार्थ एव धनुर्धर” इत्यादौ एवकारस्येतरवृत्तित्वेऽभावे च खण्डशः शक्तिमङ्गीकृत्य व्युत्पत्तिवैचित्र्येण समभिव्याहृतपदार्थस्येतरत्वांशेन वृत्तित्वस्य चाभावेनान्वयेन पार्थेतरावृत्तिधनुर्धरत्ववान्पार्थ इति बोधः। द्योतकत्वे समभिव्याहृतपदानामनन्तानां शक्तिकल्पने गौरवोपन्यासविरोधापत्तेः। किञ्च न तावत्प्रमाणानामिति न्यायोपन्यसनं, निपातत्वापेक्षया अव्ययत्वस्याधिकवृत्तितया तदवच्छेदेन तदापत्तेः। समुच्चयपदोपस्थाप्यसमुच्चये शोभनान्वयवत् शोभनश्चेत्यापत्तेस्तु शब्दशक्तिस्वाभाव्येन नित्यपरतन्त्रतया चादिभिः स्वार्थस्य परविशेषणत्वेनैवावबोधेन वारणीयत्वात्। तस्मात्क्रियाविशेषणद्योतकातिरिक्तनिपातानां यथायथं वाचकत्वस्वीकारेणोभयनये (-द्योतकत्ववाचकत्वानये। नापत्त्यनुपपत्तिलेशशङ्कावसर इति॥ अग्रिमग्रन्थस्याप्यत्रैव तात्पर्यमिति। तथाहीति वक्ष्यमाणानुमितिग्रन्थस्यापि श्रुतावनुमितत्वसाधन एव तात्पर्यमित्यर्थः। अ६ाप्येवकारो।़त्यर्थ एव। तेन श्रुतावनुमितत्वस्य मङ्गले तद्वोधितकृतिविषयत्वस्य च तत्सिद्धिः। अलोकिकपदं व्याचष्टे–विधिमन्तरा रागादिप्राप्तभिन्नेत्यर्थ इति। विधिं विना अवश्यप्राप्तभिन्नेमित्यर्थः। नञूद्वयस्य दार्ढ्यार्थप्रतिपादकत्वस्य येन नाप्राप्तिन्यायविषये दृष्टचरत्वात् तत्पर्यायके तथैवानुभवात्। विधिबोधितावश्यकप्राप्तिविषय इति यावत्। शिष्टपदं व्याचष्टे–वेदोक्ततत्त्वज्ञानेन वेदविहितकर्मकारीत्यर्थ इति। ननु यत्किञ्चिद्वेदोक्ततत्त्वज्ञानं यावद्वेदोक्ततत्त्वज्ञानं वा विवक्षितम्। एवं यत्किञ्चिद्वेदविहितकर्मकारित्वं यावद्वेदविहितकर्मकारित्वं वा विवक्षितम्। आदौ यत्किञ्चिदथर्वोक्ताभिशापाबाधितज्ञानवत्त्वेन तद्विहिततन्मात्रकर्मकारिणि तदापत्तेः। द्वितीये तु यावद्वेदविहितकर्मकारित्वासम्भव एव। अतोऽस्यैवं पर्यवसानमवसेयम्–वेदोक्ताबाधितप्रामाणिकार्थाभ्युपगन्तुत्वे सति वेदविहिताऽकरणप्रत्यवसायफलककर्मकारित्वमिति॥ ज्योतिष्ठोमादिकर्मकारित्वं तु पुरुषार्थसाधकमेव। केचित्तु फलसाधनतांशे भ्रान्तिरहितं तत्त्वमिति। तन्न। “स्वर्गकामो यजेत” इत्यादिविधीनां यागे स्वर्गरूपफलसाधकतया प्रामाण्याभ्युपगन्तुत्वमात्रेण लोके सर्वेषामशिष्टव्यवहारवर्तिनां तदापत्तेरवश्यं वारणीयत्वात्॥ स्वोक्तलक्षणघटकतृतीयान्तपदोपादानफलं दर्शयति—-अहिंसाकर्तरि बौद्धेऽतिव्याप्तिवारणायेति। तन्मते हि अहिंसायाः कुलधर्मत्वम्। तथाहि—सर्वथाऽवद्ययोगानां (-अवद्या गर्ह्या ये योगा उपायास्तेषाम्।)त्यागश्चारित्रमुच्यते। कीर्तितं तदहिंसादिव्रतभेदेन पञ्चथा ॥ अहिंसा सूनृताऽस्तेयब्रह्मचर्याऽपरिर्ग्रहाः।(2-जीवितस्य प्राणस्य व्यपरोपणं नाशनम्।) (3-प्रियैः धनं नृणां बाह्या बहिर्भवाः प्राणा भवन्ति, तमर्थ हरता पुंसा ते नरा हता हि इति निश्चयेन। उद्देश्यविधेययोः सामानाधिकरण्येऽपि समानलिङ्गवचनतानियमो नास्ति।) (4-ब्रह्मचर्यम्।) नयत्प्रमादयोगेन जीवितव्यपरोपणम्॥2॥ चराणां स्थावराणां च तदहिंसाव्रतं मतम्। प्रियं पथ्यं वचस्तथ्यं सूनृतव्रतमुच्यते॥3॥ तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत्। अनादानमदस्तस्यास्तेयव्रतमुदीरितम्॥ 4॥ बाह्याः प्राणा नृणामर्थो हरता तं हता हि ते। दिव्यौदारिककामानां कृतानुमतकारितैः॥ 5॥ मनोवाक्कायतस्त्यागो ब्राह्याष्टदशधा मतम्। सर्वभावेषु मूर्च्छायास्त्यागः स्यादपरिग्रहः॥ 6॥ यदत्स्वपि जायेत मूर्च्छया चित्तविप्लवः। भावनाभिर्भावितानि पञ्चभिः पञ्चधा क्रमात्॥ क्ष॥ महाव्रतानि लोकस्य साधयन्त्यव्ययं पदम्। इति।भावनापञ्चकप्रपञ्चनं च स्वरूपितम्(5-स्वरूपतो निदर्शितम्।)—“हास्यमहाभालोभभयक्रोधप्रत्याख्यानैर्निरन्तरम्। आलोच्य भाषणेनापि भावयेत्सूनृतं व्रतम्॥” इत्यादिना।। एतानि सम्यग्दर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणं न प्रत्येकमित्यादि स्थितं बौद्धसिद्धान्ते॥ (6-अत्र बौद्धशब्देन समानधर्मतया आर्हतो ग्राह्यः। सर्वज्ञमाधवाचार्यः तदेतत्सप्रपञ्चमुक्तमर्हतेत्युक्त्वा उक्तवचनजातानामार्हतदर्शन एवोपन्यसनात्।) मूले अविगीत इत्यस्य प्रयोजनं रात्रिश्राद्धदौ व्यभिचारवारणं दर्शितम्। कथं तावत्तस्यालौकिकशिष्टाचारविषयत्वम्। निषिद्धन्वेनाशिष्टाचारविषयत्वात्। अत्रायमाशयः—अविगीतविशेषणान्तर्भावेण तस्यानतिप्रयोजनकत्वेन वैयर्थ्यस्य वक्ष्यमाणतया तदघटितत्वेन शङ्कोत्तरे इति। विधेयतया आचारविषयत्वार्थकमिति। “ज्योतिष्टोमेन स्वर्गकामो यजेत” इति वाक्याज्योतिष्टोमाभिन्नयागैककरणिका स्वर्गोद्देशयकभावनेति बोधात् श्रुतौ “स्वर्गकाम” इत्यनेन स्वर्गस्येच्छाविषयत्वप्रतीतेः। तदुद्देश्यताख्यमेव नतु विधेयताख्यम्। तस्य पूर्वत्वादिति भावः। उपादानरूपसङ्ग्रहस्येति। “अनित्यानि शरीराणि” इति श्लोके सङ्ग्रहपदस्योपादनरूपार्थप्रसिद्धेः॥ स्वरूपकथनम् इति मूलस्थस्वरूपशब्देनाकृतेर्बोधात्तस्य चार्थरूपत्वेन ताल्वोष्टपुटसंयोगानुकूलव्यापारविषयत्वाभावेन न्यूनतां परिहरति—स्वरूपज्ञानानुकूलः शब्द इति। एतावतेति। तर्कसङ्ग्रहपदस्योक्तार्थकरणेनेत्यर्थ॥ सूचितमिति। विषयमात्रप्रतिपादनेऽपि इतरेषां ध्वनितत्वं बोध्यम्। यद्यपि सुखबोधायेति वाक्यस्य षष्ठीतत्पुरुषघटितत्वसम्भावनया षष्ठ्याश्च विषयविषयिभावार्थत्वेन चतुर्विंशतिगुणत्वेन सुखविषयकबोधकत्वात्सम्भवति सम्भवदुक्तिकत्वं तथापि द्रव्यादिपदार्थानां प्रतिपाद्यत्वेन प्रतिज्ञाहानेर्दुरपह्रवत्वादित्याशयेनाह—भ्रमवारणायेति। भाष्यादिग्रन्थानामिति। वैशेषिकनैयायिकभाष्याणामित्यर्थः। मूले सप्तपदार्था इतीति। सप्तैव पदार्था इत्यर्थः। प्रमाणादीनां सप्तखेवान्तर्भावत्तस्यात्रैव वक्ष्यमाणत्वात्।(नन्वेवं सति घटः इत्यादिधारावाहिकबुद्धिविषयधर्मिभेदस्य धर्मभेदाप्रयोज्यत्वादुक्तुनियमभङ्गगप्रसङ्ग इति चेत्। न। विभिन्नबुद्धिविषयतादृशधर्मिभेदस्यैव धर्मभेद । प्रकृते धारावाहिकबुद्धेः सर्वमत एवाभिन्नत्वाभ्युपगमात्)। द्रव्यत्वादिरूपा ये पदार्थविभाजकाः सप्तोपाधयस्तदन्यतमवन्तः पदार्था इत्यर्थ इति। सप्तत्वस्य प्रत्येकवृत्तित्वेन गुणे गुणानङ्गीकार न्याये विरोधं मनसिकृत्याह—सप्तत्वमपेक्षाबुद्धिविशेषविषयित्वमिति न सङ्ख्यारूपमित्यर्थः॥ एवमेवाग्रिमग्रन्थस्यापि, रूपादिचतुर्विंशतिगुणा इति वक्ष्यमाणग्रन्थस्यापि। अत्रैव, चतुर्विंशतित्वस्याप्यपेक्षाबुद्धिविशेषविषयत्व एव। पर्यवसानं तात्पर्यमवसेयं बोध्यमित्यर्थः॥ पदस्यार्थः पदार्थ इति योगमर्यादयाभिधेयत्वलक्षणवर्णनपरमूलाशयं वर्णयितुमाशङ्ककते–नत्विति। विशेषजिज्ञासां प्रति विशेषधर्मप्रकारकजिज्ञासां प्रति । पदसम्बन्धित्वांशस्याव्यावर्तकत्वादिति(4-अव्यावर्तकत्वेन विशेषणानर्हत्वादिति तदर्थः।)ताल्वोष्टपुटसंयोगानुकूलव्यापारविषयत्वरूपाभिधानविषयत्वस्य पदसम्बन्धित्वाल्लक्ष्यस्य लक्षणावाचकपदबोधविषयत्वादित्याकूतम्। “अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्ति(5-भवन्तीति पूर्वाचार्याणां लटः सञ्ज्ञा, भुवो झिच् औणादिकस्ततो ङीष् प्रत्यये भवन्ती इति भवति।) इति कात्यायनस्मरणात् “नहि क्रियाविनिर्मुक्तंवाक्यमस्ति” इति महाभाष्याच्च प्राप्तन्यूनतां परिहरति–लभ्यत इति शेषपूरणेन। ननूद्देश्यविधेयभावस्थले उद्देश्यतावच्छेदके विधेयव्याप्यत्वभानस्य स्वाभाविकत्वाभिमतत्वे विप्रकृष्टपर्वतत्वे वह्निव्याप्यत्वापात इति चेत्, न अनुमितेर्व्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यत्वादव्याप्तिमद्धूमवत्पर्वतत्वत्वावच्छेदेनैव विधेयव्याप्यत्वमिति तात्पर्यात्। “अधिकसङ्ख्याव्यवच्छेदार्थत्वात्” इति पूर्वग्रन्थस्थव्यवच्छेदपदस्य निषेधार्थकत्ववर्णनात्प्रकृते तदसम्भवप्रयुक्तमूलन्यूनतानिरासयार्थान्तरमाचष्टे–व्ययच्छेदे निर्णयविशेष इति। “द्रव्यादिभेदसप्तकाभाववत्त्वम्” इति मूलस्य सप्तेतरासिद्धिपरत्वे “क्षितेऽपि लशुने च शान्तो व्याधिः इति” न्यायेन द्रव्यादीनां ये भेदाः सप्त ते यस्मिन्नित्यन्यपदार्थप्रधानकसमासेनेतरबोधेनाप्रसिद्धिशङ्काया अनिरासात् तदाशयं वर्णयति—द्रव्यादिभेदानामित्यादिना। भेदसप्तकत्वावच्छिन्नेति। प्रत्येकं भेदाः सप्त यस्मिन् भेदसमुदाये स तादृशभेदसप्तकः। तादृशसमुदायत्वावच्छिन्नाभावस्यावयवेषु प्रसिद्धिरिति तदाशयः। स्वोत्प्रेक्षितार्थमाचष्टे—-वस्तुतस्त्विति। द्रव्याणीत्यादावपीत्यर्थ इति। द्रव्यमिति जात्येकवचनमिति। द्रव्यपदोत्तरैकवचनार्थैकत्वस्य व्यक्तावन्वये पृथिव्यादिरूपैकद्रव्यस्य घटत्वपटत्वादिना तद्विभागसम्भवेऽपि पृथिवीत्वादिना द्रव्यत्वावच्छिन्नानां तद्विभागानुपपत्तेर्जात्यन्वयि। तथाच सर्वानुगतैकद्रव्यत्वावच्छिन्नपृथिव्यादिधर्मिकपृथिवीत्याद्यवान्तरधर्मप्रकारकप्रतिपादनानुकूल वर्तमानकालिककृतिमानेकत्वाश्रयो मूलकार इति बोधः॥ “जात्याख्यायाम्” एतत्पाणिनीयं नापूर्वम्। जात्यान्वयविवक्षायामेकवचनं व्यक्त्यन्वयविवक्षायां बहुवचनं च साध्वित्यभिहितं भाष्य इति ध्येयम्। सङ्ग्रहे तत्रेत्यादि। नवैवेति। द्रव्यत्वं पृथिवीत्वादिनवोपाध्यन्यमतमव्याप्यं बोध्यमित्यर्थः। मीमांसकमतं दूषयितुमुपन्यस्यतीति। दूषयस्योपन्यासपूर्वकत्व एव निर्विचिकित्सं प्रेक्षावत्प्रवर्तकत्वमिति भावः। तदुक्तं(2-दूषणमित्यनेनान्वेति।) तैर्नैयायिकमते तमसस्तेजोभावरूपत्वे दूषणम् यदि तमस्तेजोऽभावः स्यात्तर्हि रत्नादिषु तेजःसमानाधिकरण्येन छायाधीर्न स्यात्। किञ्च रश्मिरग्निरजश्छाया गौरश्वो वसुधानिलः। विप्रुषो मक्षिकास्पर्शे वत्सः प्रस्रवणे शुचिः इति स्मृतिष्वेतच्छायायाः शुचित्वस्य, चण्डालपतितच्छायां स्पृष्ट्वा स्नानं समाचरेत् इत्युक्तेश्चण्डालच्छायायाश्चाशुचित्वस्य व्यवस्था घटेद्यदि मूर्तद्रव्यत्वं तमसो भवानभ्युपगच्छेत्, मूर्तद्रव्यस्पर्शस्य दोषजनकतानियमादिति। ननु तमो यदि नीलं तमश्चलतीति प्रतीत्या रूपि द्रव्यं स्यात्तर्हि आलोकनिरपेक्षचक्षुर्गाह्यं न स्याद्रूपिद्रव्यप्रत्यक्षे आलोकसापेक्षचक्षुषः कारणत्वनियमादिति चेत्। न। यथा भवन्नये रूपवदभावस्यालोकसापेक्षचक्षुर्ग्राह्यत्वनियमेऽप्यालोकाभावे तत्त्यागः एवं ममापीत्यदोषः। ननु आलोके आलोकापेक्षाभावात्तदभावग्रहेऽपि नालोकापेक्षा। योग्यानुपलब्ध्याऽभावग्रहः। प्रतियोगितद्व्याप्तेतरयावत्प्रतियागिग्राहकसामग्रीसमवधानं च योग्यता। आलोकाभावग्रहे चालोकस्य प्रतियोगित्वेन तत्सत्त्वे योग्यताविरहादिति चेत्।न। आलोके आलोकापेक्षाभावे त्वदुक्तव्याप्तेस्तत्रैव व्यभिचारात्॥ तत्राप्यस्त्येवावयवरूपालोक इति चेत्तर्ह्यवयवभूतालोकस्य प्रतियोगिताद्व्याप्येतरत्वात्कथं तेन विनाऽऽलोकाभावाश्चाक्षुषः स्यादित्युभयतः पाशा रज्जुः। एवं तमः आरब्धं द्रव्यं महत्त्वे सति रूपवत्त्वात्॥ नचासिद्धिः। प्रत्ययस्य सार्वजनीनत्वात्। नचैतस्य भ्रान्तत्वं, विनिगमनाविरहेण तवैव किं न स्यादिति॥ अपि च तेजोभावं तमो वदन्प्रष्टव्यः। कस्तमोरूप भावः। न प्रागाभावध्वंसौ, सौरलोके प्रदीपोत्पत्तिविनाशाभ्यां प्रागूर्ध्वं च तमोबुध्यापत्तेः। तेजः सामान्याभावरूपत्वं तु दुर्वचमेव। तमस्वत्यपि देशे तेजःपरमाणुत्तत्तावश्यकत्वात् विशेषदर्शनेऽपि सामान्यदर्शनात्। अत एव नान्योन्याभावात्यन्ताभावौ। किञ्च तेजस एव तमोभावत्वं किं न स्यात् विनिगमनाविरहात्। अत एव विवरणे भट्टनये तमसो द्रव्यत्वमुक्तम्। तदुक्तम्–“तमः खलु चलं नीलं पराशरविभागवत्।(?) प्रसिद्धद्रव्यवैधर्म्यान्नवभ्यो भेत्तुमर्हति” इति। तस्मात्सिद्धं तमसोऽतिरिक्तद्रव्यत्वम् इदानीं प्रतीत्यैव तत्साधयतः प्रतीतावबाधितत्वविशेषणफलं दर्शयति—बाधितप्रतीतेर्विषयासाधकत्वादिति। यथा चाकचक्यादीनां शुक्तौ रजतत्वज्ञानोत्तरकाले नीलपृष्टत्वादिविशेषज्ञानेन बाधावतारान्न रजतत्वनिश्चयः, एवं तमसि विदुषां गमनतलमलिनत्ववन्नीलरूपवत्त्वप्रतीतेर्दीपापसारणोपाधिकक्रियाप्रतीतेश्च भ्रमविषयत्वेन बाधितत्वात् बाधितप्रतीतेर्न विषयसाधकत्वमित्याशयेनायमुल्लेखः। प्रात्यक्षिकप्रतीतिबलादिति। एतस्यास्तु नाप्रामाण्यबाधितत्वेन निखिलभूयोऽनुभावात्॥ “प्रत्यक्षाकलितमप्यर्थमनुमानेनैव बुभुत्सन्न्ते(-बोद्धुमिच्छन्ति, इति चिन्तामणिकारस्य गङ्गेशोपाध्यायस्य मैथिलस्य वचनम्।) तर्करसिकाः” इति मणिकारोक्तेः स्वस्य तर्करसिकत्वबोधनायाह—तस्य तमसः। द्रव्यत्वे विधेयतया तत्त्वे। अनुमानात्। तमो द्रव्यत्ववत्, रूपवत्त्वात्, क्रियावत्त्वात् पृथिवीवत् इति। प्रमाणयति। प्रमाणत्वेन इच्छति। ननु कथं नीरूपनिष्क्रियत्ववत्याकाशे द्रव्यत्वसिद्धिरिति चेत्, न। गुणवत्त्वस्यैव द्रव्यत्वसाधकत्वात्। अत्र रूपस्य गुणरूपत्वात्। अत एव वक्ष्यमाणद्रव्यसामान्यलक्षणे गुणवत्त्वभिधानं, क्रियावत्त्वाभिधानं त्वभ्युञ्चयमात्रं वेदितव्यम्। एवमग्रेऽपि बोध्यमिति। क्रियाधारत्वमपि समवायेनैव बोध्यमित्यर्थः। समानगुणकानामेवान्तर्भावनैयत्यादभावादनन्तर्भावमभिव्यञ्जयितुमभिहितं मूले स्पर्शाभावादिति हेत्वन्तरम्। तच्च सम्बन्धभेदाभिप्रायकमित्याह–सम्बन्धभेदाभिप्रायेणाहेति(2-समवायेन पूर्वत्र, इह च स्वरूपेणेति भेदः।)। स्पर्शः संयोगजन्यो गुणविशेषः। स च वाय्वादाविव तमसि समवायेन नानुभवविषय इति नान्तर्भावाशङ्कागम इति तदाशय इति बोध्यम्। ध्वंसप्रागभावयोरधिकरणेऽत्यन्ताभावो नाङ्गीक्रियत इति प्राचीनमताभिप्रायेणेति। तेषां त्वयमाशयः। ध्वंसप्रागभावाधिकरणे घटो नास्तीति नात्यन्ताभावावगाहिप्रत्ययः ध्वंसो भविष्यतीति प्रत्ययाद्विरोधितया न स इति। नव्यास्तु। घटो नास्तीत्यविशेषप्रत्ययाद्ध्वंसप्रागभावात्यन्ताभावानां नञूपदवाच्यत्वमावश्यकम्। एतदभिप्रायेणैवात्यन्ताभाव इत्युपेक्ष्य संसर्गाभावो नञोऽर्थं इत्युक्तं दीधितिकृता नञ्पदशक्तिनिरूपण इति। तत्र घटो नास्तीत्यादौ यद्यभावत्वेनैव बोधस्तदाऽभावत्वादिकं नञ्पदशक्यतावच्छेदकम्। यदि चात्यन्ताभावत्वादिना बोधस्तदात्यन्ताभावत्वादिकं नञ्पदशक्यतावच्छेदकमिति न विरोधप्रसङ्ग इत्याहुः। न चैवं यत्किञ्चिद्धटवत्यपि घटान्तराभावसत्त्वाद् घटो नास्तीति प्रत्ययापत्तिरिति वाच्यम्। नञ्समभिव्याहारेऽन्वयितावच्छेदकावच्छिन्नप्रतियोगितानिरूपितानुयोगितासम्बन्धेनैवाभावांशे प्रतियोगिनो भानस्य व्युत्पत्तिसिद्धतयाऽदोषात्। न च कम्बुग्रीवादिमान्नास्ति प्रमेयघटो नास्तीत्यादौ कम्बुग्रीवादिमत्त्वावच्छिन्नप्रतियोगित्वाप्रसिद्ध्योक्तव्युत्पत्तिभङ्ग इति वाच्यम्। गुरुधर्मस्याप्यनुभवबलेन प्रतियोगितावच्छेदकत्वाङ्गीकारात्। नच पीतः शङ्खो नास्तीत्यादावगतिः। पीतशङ्खत्वादेरन्वयितावच्छेदकस्याप्रसिद्धेरिति वाच्यम्।तत्र पीतपदस्य पीतत्वप्रकारकज्ञानविषये लाक्षणिकतयाऽप्रसिद्ध्यभाव इति नव्याः। अधिकमधिकजिज्ञासुभिरन्यत्र द्रष्टव्यम्। स्पर्शाभावरूपहेतुनाऽनन्तर्भावस्य सिद्धतया सदागतिमत्त्वाभावादिति हेतोर्वैफल्यं मनसिकृत्य तदाशयं वर्णयति–विषयमव्याप्तं (स्वव्यापकसाध्याधिकरणवृत्त्यभावप्रतियोगिधूमादिर्विषमव्याप्तः। तादृशभाव प्रतियोगिगन्धवत्त्वादि समव्याप्तम्।) हेतुमभिधाय समव्याप्तं तमाहेति। विषमव्याप्तत्वं च साध्यमात्रव्याप्तिकत्वम्। समव्याप्तिकत्वं च हेतुव्यापकसाध्यव्याप्तिकत्वम्। समव्याप्तिकत्वं च हेतुव्यापकसाध्यव्याप्तिकत्वं बोध्यम्। प्रौढप्रकाशकतेजोऽभावरूपत्वाङ्गीकारादित्यर्थ इति। तथाचोक्तं मीमांसकैः। तमसस्तेजोऽभावरूपत्वे रत्नादिषु तेजःसमानाधिकरण्येन छायादीर्न स्यादिति। तदतीवाविचारसहम्। तेजस्तिमिरयोः समानाधिकरण्यस्याबालवृद्धप्रत्ययविषयत्वात्। यदपि ऋते मूर्तद्रव्यत्वं छायाया निषिद्धानिषिद्धत्वस्मार्तविधानानुपपत्तिरिति। तदप्यकिञ्चित्करम्। तत्तच्छायायास्तत्तदाकारत्वेन तत्सम्बन्धित्वभ्रमेणोरगस्य सुवर्णच्छायाया भयजनकत्ववदेतच्छायायास्तदाकारस्पर्शभ्रममूलकव्यवहारविषयत्वेन दोषजनकत्वबोधकस्मार्तविधेरनिषिद्धप्रसरत्वात्। अपिचोक्तं न प्रागभावध्वंसान्योन्याभावात्यन्ताभावान्यतमरूपत्वं, सौरालोके प्रदीपोत्पत्तिविनाशाभ्यां चन्द्रालोकभेदतदत्यन्ताभावाभ्यां च तद्व्यहारप्रसक्तेरप्रत्यूहत्वादिति। तदप्यविचारतः। प्रौढप्रकाशकतेजस्त्वसामान्यधर्मावच्छिन्नाभावत्वाभ्युपगमेनादोषात्। यदपि तेजोऽभावरूपत्वे विनिगमनविरह इति तदप्यविचारत एव। सौरादितेजस उष्णस्पर्शाश्रयस्य भावत्वेनानुभवस्यैव विनिगमकत्वात्। यदपि उदाजह्नुः “तमः खल्वि"त्यादि भाट्टवचनं तमसोऽतिरिक्तत्वविवरणे, तदुक्तगोरवादेव निरस्तमित्यलम्॥ घटादिषु व्यभिचारवारणायालोकासहकृतेतीति। “चक्षुर्गाह्यत्वविशेषणमिती"ति शेषः। उपनयमर्यादयेति। ज्ञानलक्षणप्रत्यासत्त्येति तदर्थः। विशेषाभावं दृष्टान्तयतीति। सामान्याभावस्य तत्त्वे इह भूतले घटो नास्तीति प्रतीतिविषयघटाभावे “येनेन्द्रियेणे"तिन्यायेनालोकसहकृतचक्षुर्गाह्यत्वमन्धकारे तु तत्संशयो नतु निश्चयः। एवं च रूपवदभावप्रत्यक्षे आलोकसहकृतचक्षुषः कारणत्वेन तत्सम्भवतात्पर्येण विशेषाभावदृष्टान्तानुधावनमिति भावः।(केनचित्तर्कशून्येन व्याप्यमात्रावस्थानेन व्यापकविरहशङ्कायां तर्कज्ञः किल तर्कयति। व्याप्यस्यालोकसहकृतविशेषितत्वेनालोकसहकृतचक्षुषश्च रूपिद्रव्यचाक्षुष एव कारणत्वात्तेन व्यापकरूपिद्रव्यत्वाभावारोपः सिध्यतीत्याशयकमूलतात्पर्यं बोधयितुमाह–अप्रयोजकत्वशङ्कां वारयतीति।) प्रमाणपदप्रयोजनं दर्शयति–आलोकं विनेत्यादिना। रूपवत्त्वेन तमोविषयकचाक्षुषभ्रमोदयादिति। एतेनाभावान्तर्भावो ध्वनितः। तुष्यतु दुर्जनन्यायेन दोषमभिधात्यनन्तावयवेत्यादिबोध्यमित्यन्तेन। मुक्तिसाधनीभूतपदार्थतत्त्वज्ञानमिति। तत्त्वज्ञानमबाधितार्थज्ञानं लक्षणज्ञानाधीनमित्याशयेनाह—लक्षणज्ञानं विनेति। विभागबोधकमादिपदमुपस्थापयति–संयोगादीति। गुणवत्त्वलक्षणमवतारयितुमाशङ्कते—नन्विति। न्यूनतापिनेति। द्रव्यविभागन्यूनतापि नेति तदर्थः। सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासां प्रति हेतुत्वादिति भावः। द्रव्यलक्षणस्य दलैकात्मकत्वेन तत्र प्रयोजनाभावेनासङ्गत्याऽव्याप्त्यादिदोषत्रयस्वरूपनिर्वचनमप्रासङ्गिकमित्याशङ्काआमपनोदयन् सप्रयोजनकत्वं व्यवस्थापयितुमाह–दूषणत्रयेत्यादिना। लक्षणतावच्छेदकत्वाभिमत सम्बन्धेन किञ्चिल्लक्क्ष्यावृत्तित्वमित्यर्थः इति। लक्षणं हि न सम्बन्धसामान्येनाभिधीयतेऽति प्रसक्तेरप्रसक्तेरसम्भवाच्च. किन्तु यस्य यल्लक्षणं गुणरूपं क्रियारूपमन्यतररूपं वा तस्य यथायथं सम्भवति सम्बन्धो लक्षणतावच्छेदक इति भण्यते। तेन लक्ष्यैकदेशावृत्तित्वं विवक्षितमित्यर्थः। तेन कपिलत्वस्य कालिकेन गोमात्रवृत्तितया नाव्याप्तत्वाभावावसरः। कृत्स्नार्थकमिति। अन्ययोगव्यवच्छेदार्थत्वं तु न सम्भवति। पार्थ एव धनुर्धर इत्यत्र धनुर्धरत्वे पार्थेतरावृत्तित्ववल्लक्षणे लक्ष्येतरावृत्तित्वबोधापत्तेरसत्त्वपदवैयर्थ्यापत्तेश्चेति तद्धृदयं ज्ञेयम्। सम्बन्धवेशेषेति। लक्ष्यतावच्छेदकत्वाभिमतेत्यादिः। तेन कालिकेन नासम्भवाभाव इति भावः॥ असम्भवाक्रान्ते एकशफत्वेऽलक्ष्यवृत्तित्वेनातिव्याप्तिदोषस्यापि सत्वात्साङ्कर्यमाशङ्कते– नचेति। समाधत्ते–दुष्टसङ्करेऽपीति। व्यभिचारादिदोषाणां कुत्रचिद्धेतौ सम्भवेन साङ्कर्यमाशङ्क्य दुष्टसकरेऽपि दोषासङ्करादिति ग्रन्थकारोक्तप्रकारेणेहापि बोध्यमिति भावः। स एवेति मूलमवतारयितुमाशङ्कते—नन्विति। स एवेतीति। योऽयमुक्तदूषणत्रयाभावविशिष्टो धर्मो लक्षणात्मा स एवासाधारणधर्मात्मा, असाधारण्यस्य दूषणत्रयराहित्यरूपत्वात्। मूले असाधारणपदस्य साधारणाभावरूपार्थकत्वं विमुच्यान्यादृशपारिभाषिकार्थान्तरार्थकत्वपुरस्कारे फलजिज्ञासायां तन्निदर्शयितुं पूर्वोक्तदूषणत्रयराहित्यधर्मो लक्षणमिति ग्रन्थविरोधमाशङ्कते–नन्विति। अव्याप्त्यादिदोषग्रस्तधर्मेऽपीति। लक्ष्यालक्ष्यवृत्तित्वरूपसाधारणत्वस्य लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वरूपत्वेन सत्यन्तघटिततया सप्तम्या विशिष्टार्थकत्वेन लक्ष्यवृत्तित्वविशिष्टालक्ष्यव्यावृत्तत्वरूपपर्यवसितार्थकलक्षणस्याव्याप्तिग्रस्तधर्मे गोः कपिलत्वरूपे केवलमलक्ष्यवृत्तित्वेऽपि गोवृत्तित्वविशिष्टं सत्कपिलत्वं गोभिन्नवृत्ति न भवतीति तदभावरूपासाधारणत्वस्यापत्तिरव्याप्तिग्रस्तधर्मे कपिलत्व इति भावः। एवमतिव्याप्तिग्रस्तधर्मे श्रुङ्गित्वेऽपि एकशफत्वरूपेऽलक्ष्यमात्रवृत्तित्वेनासाधारणत्वं बोध्यम्। लक्षणलक्षणं लक्ष्यतावच्छेदकसमनियतत्वं परिष्करोति–लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वमित्यर्थ इति। लक्ष्यतावच्छेदकव्यापकत्वं च लक्षणे लक्ष्यतावच्छेदकगोत्वत्ववद् गोनिष्ठात्यन्ताभावप्रतियोगितावच्छेदकोदासीनघटत्वादिधर्मभिन्नधर्मवत्त्वमस्ति गवासाधारणे श्रुङ्गित्वे सति सास्रालाङ्गूलरूप इत्यर्थः। लक्ष्यतावच्छेदकव्याप्यत्वं च लक्षणस्य लक्ष्येतरावृत्तित्वम्। तथा च गोर्लक्षणे गोत्वव्यापके सास्रालाङ्गूलवत्त्वरूपे गवेतरमहिषाद्यवृत्तित्वेनासाधारणत्वसमन्वयः। धर्मपदप्रवेशनतात्पर्यं दर्शयति–धर्मेति। नन्वस्य पारिभाषिकत्वे स एवासाधारणधर्म इत्येतद्ग्रन्थानुपपत्तिः। दूषणत्रयराहित्यस्यानुपयोगित्वादिति तदुपयोगित्वसङ्गतिं बोधयति– अत्रेदं बोध्यमिति। ननु व्यभिचारादिहेतुदोषेषु पञ्चस्वेषामनन्तर्भावात्कथं दोषत्वमिति शङ्कायामाह– एतेषां दूषकताबीजं त्विति। अतिव्याप्तौ व्यबिचार इति। गौः इतरभिन्ना श्रुङ्गित्वादितीतरभेदानुमापके साधने साध्याभाववद्वृत्तित्वरूपातिव्याप्त्या सत्याम्। व्यभिचारः। व्यभिचाररूपो दोष इत्यर्थः । बोध्य इति शेषः। एवमन्यत्रापि। एवं चैषां दूषकत्वं व्यभिचारसिद्धाभ्यां, न स्वत इति भावः। व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावतिव्याप्त्यशङ्कमुपपादयति–नन्विति। लक्षणलक्षणत्व इति। लक्षणसामान्यलक्षणलक्षणत्व इत्यर्थः। “व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम्” इति श्रुतेर्व्यवहारस्याप्यलक्ष्यतया तस्मिन्शङ्कासमाधानाकरणन्यूनतानिरासाय तन्मताशयं दर्शयति–व्यावृत्तिरेव प्रयोजनमिति। एतेन व्याहारस्य व्यवच्छेदस्तेन न न्यूनतेति भावः। तन्मतानुसारेणैवेति। व्यावृत्तिरेव प्रयोजनमिति मतानुसारेणैवेत्यर्थः। निराकरोतीति। व्यावृत्तावव्याप्तिं निषेधतीत्यर्थः। इतरभेदानुमितिजनकस्यैवेत्यर्थ इति। इतरभेदानुमितिजनकता विषयत्रितयपर्याप्तेत्यतस्तावन्निष्कृष्टार्थमाह—इतरभेदेत्यादिना। अत्र विषयताश्रयस्येत्येतावन्मात्रोपादाने पक्षविषयतामादायापत्तेर्वारणाय विषयताविशेषेति। तथाप्यभिमतत्वाद्धेतुविषयताविशेषस्यैव ग्रहणान्न दोषः। व्यवहारिकस्येति। स्वरूपनिदर्शनपरस्येत्यर्थः। प्रसङ्गानुरोधेनाह–गवादीति। लक्षणत्व इत्येतद्विवृणोति–उक्तलक्षणलक्षणस्य लक्ष्यत्व इति। उक्तं यल्लक्षणलक्षणं लक्ष्यतावच्छेदकसमनियतत्वरूपं तस्य लक्ष्यत्व इत्यर्थः। निरूपितत्वं षष्ठ्यर्थः। तथा च तन्निरूपितलक्ष्यत्वं व्यावर्तकस्यैवेति पूर्वेणान्वयः। लक्ष्यत्व इति पाठेऽपीति। अत्र लक्ष्यत्व इत्यस्य व्यावर्तकस्यैवेत्यनेनान्वयः। ननु व्यावर्तकस्य लक्ष्यत्वं किन्निरूपितमिति निरूपकजिज्ञासायामाह—अयमेवार्थो बोध्य इति। लक्ष्यलक्षणस्येति शेषपूरणेन बोध्यः ज्ञेय इत्यर्थः। अयमेव पाठः सुगमः। लक्षणलक्षण इति। लक्ष्यतावच्छेदकसमनियतत्वरूपे इत्यर्थः। निवेशनीयम्। धर्मविशेषणतयेति शेषः। व्यावृत्त्यादिद्वितयसाधारणातिव्याप्तिपरकग्रन्थस्य पाश्चात्तिकोपसंहारग्रन्थैकवाक्यतया प्रातिस्विकेन तत्कथनाशयमुपवर्णितुमादायाशह्कते–यद्यपीति। व्यावृत्तेरपि व्यावहारिकत्वस्येति। शास्त्रे पदार्थसामान्येऽभिधेयत्वमस्तीति योऽयमस्तित्वप्रकारकाभिधाविषयत्वविशेष्यताको व्यवहारस्तद्विषयत्वस्याभिधेयत्वादाविव व्यावृत्तौ व्यावृत्तिरस्तीति व्यवहारविषयत्वरूपव्यवहारिकत्वस्य सत्त्वमित्याशयः। वक्ष्यमाणतयेति। व्यावृत्तेरपि व्यवहारसाधनत्वादितिग्रन्थेनेति शेषः। तेनैव रूपेणेति। व्यावहारिकत्वेनैव रूपेणेत्यर्थः। सर्वेषां व्यावृत्त्यभिधेयत्वादीनाम्। सङ्ग्रहसम्भवादिति। एकरूपेण सम्यग्ज्ञानसम्भवादित्यर्थः। पृथगभिधानमनुचितमिति। व्यावर्तकस्यैव लक्षणत्वेऽभिमते व्यावहारिकेऽतिव्याप्तिरित्युक्त्यैव सामञ्जस्ये पृथग्व्यावृत्त्यादिक्रमेणातिव्याप्त्यभिधानं मूलकृतोऽनुचितमित्यर्थः। हेतुसाध्ययोरैक्य इति। गौरितरभिन्ना इतरभेदादितीह हेतुसाध्ययोरेकस्वरूपत्वं बोध्यम्। हेतुमत्तानिश्चयकाल इति। पक्षे हेतुवृत्तित्वनिश्चयकाल इत्यर्थः। साध्यसंशयरूपपक्षताया असत्वेनेति। साध्यस्य हेतुरूपत्वेन साध्यनिश्यात्पक्षे तदभावकोटिकज्ञानानुदयेन तद् घटितपक्षताया अभावादिति भावः। इतरभेदस्य व्यावर्तकत्वाभावेनेति। इतरभेदस्येतरभेदानुमितिजनकत्वाभावेनेत्यर्थः। व्यावर्तकत्वेनेति। इतरभेदानुमापकत्वेनेत्यर्थः। इतरभेदविधेयकानुमितिजनकतावच्छेदकविषयताविशेषाश्रयत्वेनेति यावत्। लक्ष्यतयेति। लक्षणलक्षणोद्देश्यतावच्छेदकाक्रान्ततयेत्यर्थः। इत्यावेदयितुं पृथक्कथनमिति। अयं भावः। व्यावृत्त्यभिधेयत्वादीनां व्यावहारिकत्वेनालक्ष्यत्वेऽपि प्राचीननवीनमतभेदेन लक्ष्यत्वालक्ष्यत्वाभ्यां पाक्षिकालक्ष्यत्वं व्यावृत्तेः, अभिधेयत्वादीनां तु जगन्मात्रवृत्तितयेतराप्रसिद्ध्या सार्वदिकालक्ष्यत्वमिति सूचयितुं मूले पृथक्कथनमिति। अत्र लक्षणे तत्तद्धर्मावच्छिन्नेतरभेदरूपव्यावृत्त्यादिभिन्नत्वनिवेशनस्य करिष्यमाणसिद्धान्तविषयत्वेन तव्द्यवस्थापयितुमादावाश्ङक्तते–नन्विति। पृच्छति–किमिदं नाम–व्यावर्तकत्वमिति। तच्च लक्षणलक्षणलक्ष्यतावच्छेदकव्यावर्तकस्य लक्ष्यतावच्छेदकसमनियतत्वरूपलक्ष्यलक्षणलक्ष्यत्वात्। यत्किञ्चिदुभयत्वाद्यवच्छिन्नप्रतियोगिताकभेदानुमापकत्वेनेति। गोः गोमहिषोभयत्वावच्छिन्नप्रतियोगिताकभेदवान्। अभिधेयत्वात्। इति रीत्या भेदानुमापकत्वरूपव्यावर्तकत्वेनेत्यर्थः। व्यावर्तकत्वस्य सामान्यतो भेदानुमापकत्वरूपत्वे दोषान्तरमाह—सर्वेषामित्यादिग्रन्थेन। व्यतिरेकधर्माणाम्। अव्याप्तिदोषग्रस्तकपिलत्वादिधर्माणाम्। यत्किञ्चिव्द्यावर्तकतयेति। गोत्वावच्छिन्नश्वेतादिव्यावर्तकतया लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेदकव्याप्यत्वरूपलक्ष्यतावच्छेदकसमनियतत्वस्वरूपासाधारण्यघटकव्यापकत्वस्याव्याप्यधर्मव्यावर्तकत्वस्योक्तत्वेन लक्ष्यतया तद् व्यावर्तकसत्यन्तव्यापकत्वरूपविशेषणदलस्यालक्ष्यव्यावर्तकत्वाभावेनाजागलस्तनायमानत्वापातादित्येवं समुदितार्थः। लक्षणलक्षणलक्ष्यतावच्छेदकव्यावर्तकत्वमेतदपि नेत्याह–नापीति। विशिष्यतत्तद्धर्मावच्छिन्नेतरभेदानुमापकत्वमिति। ननु तत्त्वेन सास्रादिमत्वे लक्ष्येतरभेदानुमापकत्वे बोधनीये गोत्वादीनां श्रुङ्गग्राहिकान्यायेन विशेषत एवोपसङ्ग्रहाद्विशिष्येति पदमनर्थकं विशिष्टेत्यस्य तत्त्वेनोपसङ्ग्रहतात्पर्यार्थस्य प्रसिद्धत्वादिति चेन्न। तात्पर्यग्राहकतयैवोपयोगो नास्यापूर्वं फलमित्याशयात्। गोत्वादिसमनैयत्यस्य तत्रासत्त्वादिति। लक्ष्यतावच्छेदकसमनियतत्वरूपलक्षणलक्षणघटकव्याप्यत्वरूपविशेष्यांशकुक्षिनिक्षिप्तेतराप्रसिद्धेरिति भावः। विशेषव्याप्तावन्वयदृष्टान्तालाभेनेति। तत्साध्य–तद्धेतु–तत्पक्ष–सदृशपक्षाभावेनेति भावः। सिद्धसाधनाप्रसिद्धिभ्यामिति। यथासङ्ख्यमव्यावर्तकत्वं व्यावृत्त्यभिधेयत्वयोर्बोध्यम्।(अयं भावः। यद्गोवृत्तिव्यावृत्तिः यद्धर्मसमनियतं गोवृत्तिगोत्वरूपधर्मसमनियतं तद्व्यवृत्तिः तदवच्छिन्नव्यावर्तकं गोत्वावच्छिन्नगोव्यावर्तकं गवेतरभेदानुमापकमिति रीत्या व्यावृत्तावितरभेदानुमापकत्वे गोवृत्तितया साधनीये तद्धर्मसमनैयत्यहेतुके पूर्वस्मिन्सिद्धसाधनं परस्मिन्नप्रसिद्धिरिति॥) तत्तद्धर्मसमनैयत्यरूपप्रकृतहेतुतुल्यहेतोः सत्त्वेनेति। यथा सास्रादिमत्वे साध्ये तद्धर्मसमनियतत्वं हेतुः। एवं व्यावृत्त्यभिधेयत्वयोस्तत्साधने तथाभूतहेतोस्तद्धर्मसमनियतत्वरूपस्य सत्त्वेनेत्यर्थः। पूर्वोक्तदोषावसर इति। नन्वित्यारभ्य मैवमित्यन्तेनोक्तदोषावकाश इत्यर्थः। अधिकविचारस्त्वन्यत्रानुसन्धेय इति। अन्यत्र अस्मदीयचिन्तामणिव्याख्यायामभिनवप्रभाख्यायामनुसन्धेयः। बुद्धिकुशलैरिति शेषः। लक्षणस्य व्यवहारप्रयोजकत्वपरमूलाशयं वर्णयति—लक्षणस्येत्यादिना। तेन रूपेण। सास्रादिमत्त्वरूपेण। व्यवहर्तव्यत्वज्ञानम्। व्यवहारविषयत्वज्ञानं गवादेरित्यादिः। ईश्वरेच्छारूपशक्तिविशेषसम्बन्धेन गोत्वादिप्रकारकगवादिविशेष्यकशाब्दबोधीयविषयत्वज्ञानमिति यावत्। तद्रूपावच्छिन्नबोधकशब्दरूपव्यवहारसम्भवात्, सास्रालाङ्गूलवल्लक्षणशब्दरूपवर्णाभिव्यक्तिजनकताल्वोष्ठपुटसंयोगानुकूलयत्नरूपव्यापारासम्भवादित्यर्थः। एवं च। लक्षणस्य व्यावहारिकत्वसिद्धौ च। व्यावृत्तेरपीति ग्रन्थमवतारयितुमाशङ्कते–नन्विति। दृष्टान्तलाभायेति। अभिधेयत्वादीनां घटोऽभिधेय इत्येवमभिधाविषयत्वेन घटादेरभिधेयत्वव्यवहारस्य प्रसिद्धत्वात् प्रसिद्धस्यैव दृष्टान्तत्वाभ्युपगमात्तल्लाभायेत्यर्थः। पूर्वदर्शिताविषयेऽव्याप्तेर्दुरुद्धरतया स्थलान्तरानुधावनं निष्फलमित्याशङ्कां निराकुर्वन् पूर्वस्मिन्दोषं वारयति–कालान्तरावच्छिन्ने तत्सत्त्वमक्षतमिति। द्वितीयक्षणे तत्सत्त्वेन द्रव्यत्वावच्छेदेन गुणवत्त्वसत्त्वान्नाव्याप्तिरिति भावः। द्रव्यस्योत्पत्तिविनाशव्यवस्थाप्रकारं दर्शयति–यादृशद्रव्यारम्भकेत्यादिना। तृतीयक्षणे संयोगोत्पत्त्यव्यवहितोत्तरक्षणेऽवयवान्तरे नतु संयोगजनकक्रियोत्पत्त्याधिकरणावयवे। तथैव शास्त्रकृतामनुभवविषयत्वात्। सर्वक्ष न तथा क्रिया जायते अदृष्टाभावात्। अदृष्टं द्विविधं। पुण्यरूपं पापरूपं च। तत्र पूर्वं यद्यददृष्टाधीनमिति न्यायेन विषयद्वारा सुखसाक्षात्कारं जनयति। अपरं विषयविघटनद्वारा दुःखसाक्षात्कारं जनयतीति। प्रकृते विषयद्वारकजलाहरणनिमित्तकजलतृप्तिसुखविघटनप्रयोजकदुरितादृष्टजन्या उत्पन्नविनष्टावयवक्रियेति ध्येयम्॥ अथ नवीनमतमुपन्यस्यति—नवीना इति। असमवायिकारणस्य संयोगस्य कार्यसहभावेनावयविरूपकार्यसामानाधिकरण्येन कारणत्वमवष्टभ्य नाङ्गीकुर्वन्तीत्यर्थः। जातिघटितलक्षणघटकदलप्रयोजनमाह—गुणादावित्यादिना। आदिना कर्मसङ्ग्रहः। सत्तामादायातिव्याप्तिवारणायेति। गुणाधिकरणद्रव्यवृत्तिसत्ताजातेर्गुणकर्मणोः सत्त्वात्तत्रैवातिव्याप्तिरित्यर्थः। तथाच जातिग्रहणमनर्थकं गुणसमानाधिकरणसत्ताभेदस्य जातावेवाभ्युपगमादित्याशङ्काविनिगमनाविरहेण द्रव्यगुणान्यतरत्वधर्मेऽपि सत्त्वात्तस्य गुणे सत्त्वादतिव्याप्तिरित्याशयः।(-एतत्तत्त्वमन्यत्रानुसन्धेयम् इत्यधिकः पाठः पुस्तकान्तरे।)गुणे गुणानङ्गीकारादिति मूलस्य भावार्थमाह–तथाचेत्यादिना। क्लृप्तेन समवायघटितसमानाधिकरण्येन(2-स्वसमवायिसमवेतत्वेन।) एको नीलघटः घटात्पृथगित्यादौ समवायेन समानाधिकरणवृत्तित्वस्य एकत्वे नीले पृथक्त्वे च क्लृप्ततया तद्दिशैवैतत्प्रतीत्युपपत्तावन्यविषयत्वेन गुणे गुणवत्ताबोधनमदृष्टचरत्वेनान्याय्यमित्याशयः। मूले गुणं विभजत इति। गुणमिति जात्येकवचनमेकत्वविशिष्टगुणत्वावान्तरजात्यवच्छिन्नधर्मिप्रतिपादानानुकूलकृतिमान्ग्रन्थकार इति बोधः। मूले द्रव्यकर्मभिन्नत्वे सति सामान्यवान्गुण इति। अत्र सत्यन्तं न सामान्यान्वयिनां व्यर्थत्वात्। किन्तु द्रव्यकर्मभेदविशिष्टो यः सामान्यवान्स गुण इत्यभिप्रायकोऽयं ग्रन्थः। एतदभिप्रायेणैवोक्तं—गुण इति लक्ष्यनिर्देश इति। तत्र सामान्यवत्त्वस्य समवायविशेषसम्बन्धविवक्षाफलं दर्शयति–तेनेत्यादिना। अयं भावः। ध्वंसस्य स्वस्वरूपेण वृत्तितया ध्वंसे च घटादेरनुपयोगितयैव वृत्तितयानुयोगिताप्रतियोगितान्यतरसम्बन्धेन समवायाभाववत्त्वाद्ध्वंसवृत्त्यभावत्वं न जातिः। कालिकेन तु सर्वं सर्वस्मिन्निति तेन सम्बन्धेन तद्वत्त्वापत्तिरिति॥(2-द्रव्यत्वादेरपि तत्र सत्त्वात्।) एतदग्रे स्वयमेव स्फुटीकरिष्यते। समानाधिकरण्यसम्बन्धेन द्रव्यकर्मभेदविशिष्टसमान्यावांश्च गुण एवेति किं गुणेनेत्याशङ्क्य गुणपदं सार्थकयति—गुण इति लक्ष्यनिर्देश इति। यद्यपि जातेस्त्रिष्वेव सत्त्वात्तल्लाभेऽपि लक्षणेनेतरभेदे विधेये उद्देशस्य नाम्ना वस्तुसङ्कीर्तनरूपस्यावश्यकतेत्यभिप्रायेण तत्कथनमिति तद्धृदयं बोध्यम्॥ अस्मिंश्च लक्षणे सामान्यपदेन प्रमेयत्वादेरेव ग्रहणे गुणत्वस्य गुणपदशक्यतावच्छेदकतया साधनपरदीधितिग्रन्थासङ्गतिरन्यूनानतिरिक्तवृत्तिमत एवावच्छेदकत्वावलम्बनसङ्गतिश्च भेदाघटितत्वेन लाघवमूलकमेतल्लक्षणमवतारयति—लाघवादाहेति। प्रोक्तलक्षणस्य भेदघटिततया गौरवमुद्ग्राव्य लघु लक्षणमाहेत्यर्थः। गुणत्वजातिमान्वेतीति। द्रव्यस्याप्येवं वक्तुं शक्यतया गुणाश्रयत्वं क्रियाश्रयत्वं वेति लक्षणपुरस्कारो गौरवग्रस्त एवेति ध्वनितम्॥ नन्वेवं सति(3-गुणत्वरूपहेतुवृत्ति यल्लक्षणत्वरूपधर्मितावच्छेदकं तद्विशिष्टं लक्षणं हेतुधर्मितावच्छेदकं तस्मिल्लक्षणे साध्यनिश्चयस्यावगतेतरभेदरूपसाध्यसामानाधिकरण्यनिश्चयस्यानियतत्वात् असत्त्वात्।) लक्षणस्य व्यावर्तकत्वबोधनात् प्रकृते गुणाः गुणेतरव्यावृत्ताः गुणत्वजातिमत्त्वादित्येवं गुणत्वजातिहेतुनेतरभेदे साध्ये गुणत्वरूपहेतौ लक्ष्यतावच्छेदकरूपे साध्यसामानाधिकरण्यस्य सिद्धतया तत्साधनमसङ्गतिकमतो नैतल्लक्षणं मूलकृतो लाघवमूलकं महनीयशोभमित्येवं तात्पर्येण यद्यपीत्याशङ्क्य मूलाशयं वर्णयति—तथापीति। हेतुधर्मितावच्छेदकसाध्यनिश्चयस्यानियतत्वाभिप्रायेणेति। अयं भावः। साध्यसन्देहरूपप्राचीनोक्तपक्षतासत्त्वान्न लक्षणेनेतरभेदव्याघात इति। एवमग्रेऽपि बोध्यमिति। कर्मापि कर्मत्वजातिमत्त्वेन लक्षयित्वा कर्मत्वरूपलक्षणेन कर्मत्वावच्छिन्न कर्मणि उक्तरीत्या कर्मेतरभेदसाधनं बोध्यमवगन्तव्यमित्यर्थः। गुणत्वजातेर्घटादिरूपादौ संयुक्तसमवेतसमवायेन प्रत्यक्षप्रमितिविषयत्वेऽपि अतीन्द्रियवृत्तिजातेस्तदभावेन तदसिद्धेरनुमानेन या गुणवृत्तिकारणता सा किञ्चिद्धर्मावच्छिन्ना कारणतात्वाद् घटनिरूपितदण्डनिष्ठकारणतावत् इति तत्सिद्धिरिति न यावद्गुणीयकारणतावच्छेदकस्यैकस्य विरहात्॥ न च चतुर्विंशतिगुणेषु प्रत्येकं याः कारणतास्तासामेव पक्षतया तादृशसकलकारणता अनुगतद्रव्यकर्मान्यसामान्यवद् वृत्तित्वेवामुपगम्य(?)))))))गुणत्वजातिरिति वाच्यम्। तथासति पारिमाण्डल्यस्य क्काप्यकारणतया गुणत्वस्यातिप्रसक्ततया कारणतानवच्छेदकत्वाच्च॥ गुणत्वजातिसिद्धिर्गुणपदशक्यतावच्छेदकतयैव नेतरा गतिरित्यभिप्रायेणाह– गुणत्वजातिसिद्धिस्त्वित्याद्याचार्यान्तम्। अथ विनिगमनाविरहाद्विभुपदशक्यतावच्छेदकतया सिद्धिं विभुत्वं जातिः स्याद्भूतत्वमेव जातिर्न सिद्ध्येदिति चेदाह–जातित्वाभिमतसङ्करस्यैव जातित्वबाधकत्वादिति। तस्य जातित्वाभिमतिस्तु वृद्धव्यवहारादेवेति ध्येयम्। न च मूर्तत्वसाङ्कर्यवद्भूतत्वमपि न जातिरिति विभुत्वं जातिः सिद्ध्येदेवेति वाच्यम्। भूतत्वस्य जातित्वङ्गीकृत्य मूर्तत्वस्यैव जातित्वस्वीकारात्। विभुत्वस्याजातित्वे युक्त्यन्तरमन्यत्राभिहितमीश्वरजीवातिरिक्तस्य विभुत्वे मानाभावेन विभुत्वस्यात्मत्वतुल्यवृत्तितया आत्मत्वातिरिक्तजातित्वे तुल्यव्यक्ति वृत्तित्वरूपजातिबाधकसत्त्वेन विभुत्वस्य जातित्वानङ्गीकारादिति। न च विनिगमनाविरहाद्विभुत्वस्यैव जातित्वमङ्गीकुर्वन्तु त्यज्यतामात्मत्वस्य जातित्वमिति वाच्यम्। आत्मत्ववानात्मेत्येवमबाधितप्रतीतिबलात्तत्त्वमिति चेत्कथमीश्वरजीववृत्त्यात्मत्वस्यैकव्यक्तिवृत्तित्वात्तत्त्वाभ्युपगम इत्याशङ्कायामात्मपदशक्यतावच्छेदकत्वं विनेश्वरसाधारणात्मत्वजातौ युक्त्यन्तराभावेन तथा व्यपदेशासाङ्गत्यापत्तेः। इदं “पूर्णाय परमात्मने” इत्यत्रेश्वरव्यपदेशं कुर्वतो दीधितिकृतोऽपि सम्मतमेव। साङ्कर्यस्य जातिबाधकत्वे यदाहुर्मानं स्वसामानाधिकरण्यस्वाभावसामानाधिकरण्योभयसम्बन्धेन जातिविशिष्टजातित्वावच्छेदेन स्वसामानाधिकणाभावप्रतियोगित्वाभाव इत्येतन्नियमपक्षं मत्वा। तादृशनियमे मानाभावेन साङ्कर्यस्य जातिबाधकत्वं न क्षमन्ते नवीनाः। एवं विशेषानपि। यथैव विशेषाणां स्ववृत्तिधर्मं विना व्यावृत्तत्वमेवं नित्यद्रव्याणामपि विशेषानङ्गीकारेण व्यावृत्तिसम्भवादिति सङ्क्षेपः॥ कर्मलक्षणप्रविष्टसत्यन्तदलप्रयोजनमाह—–संयोगेत्यादिना। कर्यत्वावच्छिन्नं प्रति द्रव्यस्य समवायिकरणत्वनियमात्तत्प्रत्यासन्नत्वेन संयोगस्य संयोगकार्यकारणत्वाद्धस्तपुस्तकसंयोगे कायपुस्तकसंयोगजनकेऽतिव्याप्तिवारणाय तदिति भावः। सामान्यलक्षणेन सामान्यधर्मप्रकारकज्ञाने सति विशेषधर्मप्रकारकजिज्ञासोदयाद्विभागो युक्तः कथमिदानीं तदनुक्त्या तद्युक्ततेत्याशङ्कां परिहरति–लक्षणमग्रे मूलकृतैव वक्ष्यत इति। रूपसमवायसत्त्वेऽपि रूपाभावेनेति। अयं भावः। स्पर्शसमवायः वायौ तदीयरूपसमवायादभिन्नः समवायस्यैकत्वात्तेन रूपेण वायौ रूपसमवायसत्त्वेऽपि न रूपप्रतियोगिकसमवायः रूपभावादिति। मूले–अभावं विभजत इति। अभावत्वावान्तरधर्मावच्छिन्नधर्मिप्रतिपादनानुकूलकृतिमान्ग्रन्थकार इति बोधः॥ तत्र विनाश्यभावत्वं प्रागभावत्वमित्यादि तत्तल्लक्षणानि सिद्धान्तमुक्तावल्यां स्फुटान्येव। इदं त्वत्रावधेयम्॥ अथ प्रागभावे किं मानं, न तावदध्यक्षम्, इहेदानीं घटप्रागभाव इति प्रत्यक्षसिद्धेः घटो भविष्यतीति प्रत्यक्षस्य च वर्तमानकालोत्तरकालोत्पत्तिकत्वावलम्बनत्वेनैवोपपत्तेः प्रागभावसाधकत्वात्। नचाभावत्वं विनाशिवृत्ति, पदार्थविभाजकोपाधित्वात् भावत्ववदित्यनुमानात्तत्सिद्धिरिति वाच्यम्। तादृशानुमानस्याप्रयोजकत्वात्। अथ प्रागभावानङ्गीकारे उत्पन्नस्य पुनरुत्पादापत्तिः। नचोत्पन्नपुनरुत्पादस्तदुत्पादोत्तरकालीनस्तदुत्पादः स च नापादयितुं शक्यते अप्रसिद्धत्वादिति वाच्यम्। तद्घटाद्युत्पत्त्युत्तरक्षणादिकं पक्षीकृत्य तत्सामग्र्यव्यवहितोत्तरत्वेन प्रथमक्षणे प्रसिद्धस्य तदुत्पादस्यैवापादनीयत्वात् तदाकारश्चैतद्धटाद्युत्पत्तिद्वितीयक्षणः यद्येतद्धटसामग्र्यव्यवहितोत्तरः स्यात् एतद्धटोत्पादवान्स्यादिति चेन्न। यो यद्धर्मावच्छिन्नसामग्र्यव्यवहितोत्तरक्षणः स तद्धर्मावच्छिन्नोत्पादवानित्येतादृशसामग्रीव्याप्तिरेव नाभ्युपेयते–येन तद्वलादुत्पत्तिरापादनीया यो यद्धर्मावच्छिन्नसामग्र्यव्यवहितोत्तरः स तद्धर्मावच्छिन्नवानित्येव सामग्रीव्याप्तेः एतादृशव्याप्तिबलात्तद्धर्मावच्छिन्नवत्त्वे सिद्धेऽर्थत एवाद्यक्षणसम्बन्धरूपोत्पत्तेर्निर्वाहात्। उत्पत्त्यनन्तर्भावेण व्याप्त्यभ्युपगमे क्षतिविरहात्। एवं च तद्धटोत्पत्तिद्वितीयक्षणे तदापत्तिरितिचेन्न जन्यद्रव्यत्वावच्छिन्नं प्रति द्रव्यत्वेन प्रतिबन्धकत्वाभ्युपगमात्॥ तद्व्यक्तित्वावच्छिन्नं प्रति तत्तत्प्रागभावत्वेनानन्तकारणतानामन्तप्रागभावाणां च कल्पनापेक्षया एतादृशप्रतिबन्ध्यप्रतिबन्धकभावकल्पनाया एव न्याय्यत्वात्। एतद्धटनाशानन्तरं खण्डघटोत्पत्तिकाले एतद्धटोत्पत्तिवारणाय प्रागभावहेतुत्वकल्पनमावश्यकमिति नाशङ्कनीयम्। तत्र यादृशसंयोगनाशात्पूर्वं घटनाशस्तत्संयोगव्यक्तेरेव हेतुत्वोपगमेन तदभावादेव खण्डघटोत्पत्तिकाले तदापत्तिवारणात्। न च यत्र शतसंयोगारब्धघटस्य दशसंयोगानाशानन्तरं नाशः खण्डघटोत्पत्तिकाले तदापत्तिवारणाय विनिगमनाविरहेण दशसंयोगहेतुत्वकल्पनापेक्षया तत्प्रागभावस्यैकस्य हेतुत्वकल्पनमेवोचितमिति वाच्यम्। तत्र तद्धटनाशस्यैव प्रतिबन्धकत्वकल्पनात्। नच तत्तद्धटम्प्रति तत्तद्धटाभावस्य जन्यद्रव्यत्वावच्छिन्नम्प्रति जन्यद्रव्यत्वावच्छिन्नाभावस्य च सामान्यविशेषरूपेण हेतुद्वयकल्पनापेक्षया तद्धटं प्रति तद्धटप्रागभावहेतुत्वकल्पनमुचितमिति वाच्यम्। यत्र महाघटनाशानन्तरं खण्डघटो नोत्पद्यते आरम्भकसंयोगविरहातत्र प्रागभावहेतुत्वकल्पनापेक्षया द्रव्यभावादिहेतुताया एव द्वितीयादिक्षणे तदापत्तिवारणाय क्लृप्तत्वात्तत एवोपपत्तेः प्रकृते तद्धेतुतया अनाधिक्यात्॥ प्रागभावादेर्हेतुत्वेऽपि भाविखण्डघटादेरेव तत्तद्धटादिद्वितीयक्षणे आपत्तिवारणाय द्रव्यभावहेतुताया आवश्यकत्वात्। नच भाविखण्डघटादीनां महाघटोत्पत्तिकाल उत्पादवारणाय तत्र महाघटादिनाशस्य हेतुताया आवश्यकत्वात् द्वितीयक्षणे तदापत्तिवारणसम्भवात्किं द्रव्याभावहेतुतयेति वाच्यम्। यदा महाघटसत्त्व एव तदारम्भकाले कपालान्तरसंयोगस्तदनन्तरं घटनाशे अन्तरासंयुक्तकपालसहितं महाघटारम्भककपालैः खण्डघटारम्भस्तत्र महाघटोत्पत्तिकाले खण्डघटहेत्वन्तरोत्पन्नसंयोगविरहेणापत्तिविरहात्। महाघटनाशस्य हेतुताया अनावश्यकत्वात् द्वितीयादिक्षणे आपत्तिवारणाय द्रव्याभावहेतुताया आवश्यकत्वात् । नच द्रव्याभावहेतुत्वमुभयवादिसिद्धं तथापि तत्तद्धटं प्रति तत्तद्धटनाशाभावहेतुत्वापेक्षया प्रागभावहेतुत्वमेवोचितं तत्तद्धटनाशाभावहेतुत्वे तत्तद्धटनाशकालोत्पन्नपदार्थान्तरनाशभावमादाय विनिगमनविरहादिति वाच्यम्। तन्मतेऽपि तत्तद्धटसमानकालोत्पन्नपदार्थान्तरप्रागभावमादाय विनिगमनविरहसम्भवादिति। एतेन ज्ञानादिस्थलेऽत्युत्पन्नस्य पुनरुत्पादो निरस्तः। उत्पत्तिद्वितीयतृतीयक्षणे तदुत्पत्तेस्तत्तद्व्यक्तित्वावच्छिन्नजनकतावच्छेदकीभूततत्तद्व्यक्तित्वावच्छिन्नविशेषणज्ञानविरहेणापादानासम्भवात्। प्रागभावहेतुत्वेऽपि तत्तद्व्यक्तेः पूर्वमुत्पादवारणाय विशेषणज्ञानादीनां तत्त्वेन हेतुताया आवश्यकत्वात्। नच धारावाहिकस्थले नर्विकल्पकस्यैव चतुर्थादिक्षणे आपत्तिवारणाय प्रागभावहेतुत्वमावश्यकम्। तत्र विशेषणज्ञानादीनामहेतुत्वात् चक्षुः संयोगादीनां तृतीयक्षणेऽपि सत्त्वादिति वाच्यम्। तत्र तन्नाशाभावस्यापि हेतुत्वोपगमात्। नच तत्तद्व्यक्तित्वावच्छिन्नं प्रति तत्तद्व्यक्तित्वावच्छिन्नाभावस्य नाशत्वावच्छिन्नाभावस्य चोभयकारणत्वकल्पनापेक्षया तत्तद्व्यक्तित्वावच्छिन्नं प्रति तत्तद्व्यक्तिप्रागभावत्वेनैकमेव हेतुत्वमुचितमिति वाच्यम्। प्रागभावहेतुत्वेऽपि अतिरिक्तप्रागभावे तदन्यथासिद्धत्वनियतपूर्ववृत्तित्वयोः कल्पनीयतया क्लृप्तयोः क्लृप्तनियतपूर्ववृत्तित्वयोरन्यथासिद्धित्वकल्पनाया एवोचितत्वात्। अथवा कालिकसम्बन्धेन तज्ज्ञानाधिकरणध्वंसस्यैकमेव प्रतिबन्धकत्वं कल्प्यते। अतएव तृतीयक्षणादौ न तदापत्तिः। नच द्वितीयक्षणे तदापत्तिरिति वाच्यम्। उत्पत्त्यन्तर्भावेण सामग्रीव्याप्तेरनभ्युपगमात् तद्वत्त्वस्य च तदानीमिष्टत्वात्। अस्तु वा तादृशध्वंसाभावस्य कार्यसहभावेन हेतुता अत उत्पत्त्यन्तर्भावेण सामग्रीव्याप्तेरभ्युपगमेऽपि द्वितीयादिक्षणे न तदुत्पादापत्तिः। तदधिकरणसमयध्वंसस्य तदानीं सत्त्वात्। वस्तुतस्तु सामान्यतो निष्प्रकारकतद्विषयज्ञानत्वावच्छिन्नं प्रति तद्विषयकत्वज्ञानेन प्रतिबन्धकत्वकल्पनात् विशिष्टबुध्यादिक्षणे न तदापत्तिः सम्भवतीति ध्येयम्॥ यत्तु उत्पन्नतत्त्वज्ञानस्य धर्माधर्मोत्पादवारणाय अदृष्टत्वावच्छिन्नं प्रति आद्यतत्त्वज्ञानप्रागभावत्वेन हेतुतया प्रागभावप्रसिद्धिः। आद्यत्वं च न स्वसमानाधिकरणतत्त्वज्ञानाधिकरणसमयध्वंसासमानकालीत्वं स्वत्वाननुगमात्। भेदकूटनिवेशे चात्यन्तगौरवात्। किं तु स्वसमानाधिकरण्य–स्वाधिकरणसमयध्वंसवत्त्वोभयसम्बन्धेन तत्त्वज्ञानवद्भिन्नत्वम्। वस्तुतस्तु स्वसमानाधिकरण्यकालिकविशेषणतावच्छिन्नस्ववृत्तित्वोभयसम्बन्धेन तत्त्वज्ञानवदन्यत्वं प्रागभाव एव विशेषणीयम्। तदप्यसत्। तत्त्वज्ञानध्वंसप्रतिबन्धकतामभ्युपगम्य तत्त्वज्ञानवतामदृष्टवारणसम्भवात्। अथैवं तत्त्वज्ञानोत्पादक्षणे तद्वितीयक्षणे चादृष्टोत्पत्त्यापत्तिः। नच तत्त्वज्ञानोत्पत्तिकाले भवन्मतेऽपि तदुत्पादप्रसङ्ग इति वाच्यम्। तादृशप्रागभावस्य कार्यसहभावेन हेतुत्वोपगमादिति चेन्न। तत्त्वज्ञानध्वंसस्येव तत्त्वज्ञानस्य प्रतिबन्धकत्वोपगमात्। एवमपि पूर्वोक्तरीत्या कल्पनालाघवसम्भवात्। तादृशतत्वज्ञानत्ववदन्यत्वज्ञानप्रागभावत्वादिना हेतुत्वे तत्वज्ञानत्ववदन्यत्वप्रागभाव योर्विशेषणविशेष्यभावे विननिगमनाविरहेण कारणतात्वस्य भवन्मतेऽप्यावश्यकत्वाच्च। वस्तुतस्तु। अदृष्ट्वत्वावच्छिन्नम्प्रति वासनात्वेनैव हेतुत्वं कल्प्यते। अतो न तत्त्वज्ञानं विना धर्माद्यनुत्पत्तिः। तत्त्वज्ञानेन वासनाशात्। वासनात्वं च मिथ्याज्ञानगतो जातिविशेषः। नच पटुतरत्वजात्या साङ्कर्यमिति वाच्यम्। तादृशजातौ मानाभावात्। एवं च तत्त्वज्ञानाभावहेतुतापि न स्वीक्रियते, वासनायाः कार्यसहभावेनैव हेतुत्वोपगमात्। तत्त्वज्ञानोत्पत्तिद्वितीयक्षणेऽदृष्टोत्पत्तिसम्भवात्। प्रथमक्षणेऽदृष्टोत्पादाभ्युपगमे क्षतिविरहात्। नच तत्त्वज्ञानिनां वासनोत्पादवारणाय वासनां प्रत्येवाद्यतत्त्वज्ञानप्रागभावत्वेन हेतुत्वमावश्यकमिति वाच्यम्। मिथ्याज्ञानरूपकारणविरहेणैव तत्त्वज्ञानिनां वासनानुत्पादात्। मिथ्याज्ञानं प्रत्यपि वासनान्तरस्य हेतुतयोत्पन्नतत्त्वज्ञानस्य मिथ्याज्ञानानुत्पादादिति। यत्तु–आत्मविशेषगुणानां क्षणिकतावारणाय विभुसमवेतयोग्यविशेषगुणनाशत्वावच्छिन्नम्प्रति स्वानन्तरोत्पन्नगुणस्य हेतुता वाच्या। तत्र च तादृशगुणत्वेन हेतुत्वं न सम्भवति। स्वत्वाननुगमात्। अतः पूर्वत्वसम्बन्धेन स्वत्वेन गुणत्वेन वा हेतुता वाच्या। स्वपूर्वत्वं च न स्वोत्पत्तिक्षणवृत्तिध्वंसप्रतियोगिसमयवृत्तित्वम्। उत्पत्त्यादेरननुगतत्वात्। किन्तु कालिकविशेषणतया प्रागभावत्वमित्येतादृशयुक्त्या प्रागभावः सेत्स्यतीति। तदप्यसत्। प्रतियोगितासम्बन्धेन तादृशनाशत्वावच्छिन्नं प्रति स्वप्रतियोगित्वसम्बन्धेन तत्त्वेन हेतुताकल्पनात्। पदार्थमात्रस्यैव क्षणिकतावारणसम्भवात्। ज्ञानानन्तरोत्पन्नस्वविशेषणगुणस्य योग्यविशेषगुणनाशकत्वानभ्युपगमात्। यत्तु प्रागभावानभ्युपगमे पाकजरूपरसगन्धस्पर्शानां सामग्रीभेदाभावादभेदापत्तिः। सामग्र्यभेदस्य कार्यभेदप्रयोजकत्वात्। प्रागभावहेतुत्वेन तु स्वप्रागभावस्य स्वसामग्रीघटकतया तद्भेदादेव सामग्रीभेद इति। तदप्यसत्। रूपरसादिकं प्रति रूपरसात्यन्ताभावस्य हेतुतात्तद्भेदेनैव सामग्रीभेदात्। नच रसात्यन्ताभावस्य रूपादिहेतुतामादाय विनिगमनाविरहादिति वाच्यम्, यस्मिन्यस्मिन्यस्य यस्यात्यन्ताभावस्तस्य तस्यैव तं तं प्रति हेतुताभ्युपगमेनोक्तदोषवारणादतिरिक्तप्रागाभावाङ्गीकारे फलविशेषादर्शनात्प्रागाभावाङ्गीकारो न युक्तिसह इत्याकलनीयं तर्ककर्कशविचारचातुरीधुरीणैरिति॥ अत्र तृतीयार्थोऽभेद इति। प्रकृत्यादिभ्य इत्यर्थसामान्यविधायकसर्वविभक्त्यपवादकानुशासनविहिततृतीयार्थोऽभेद इत्यर्थः। फलितार्थमाह—तथाचेति। भक्षितेऽपि लशुनन्यायेन घटरूपवस्तुप्रतिपादकाभिन्ननाममात्रत्वाद्धटपदेऽतिव्याप्तेस्तादवस्थ्यादाह—वस्तुपदं लक्षणीयवस्तुपरमिति। नन्वेवं कम्बुग्रीवादिमत्त्वमपि घटस्य लक्षणमिति ततादवस्थ्यमिति चेन्न। प्रकृतलक्षणीयवस्तुपरत्वाद्वस्तुपदस्य, वस्तुतस्त्विष्यत एव तयोर्लक्ष्यलक्षणभावे चिकीर्षत इति सङ्क्षेपः॥ नामपदं सार्थक्यमिति–प्रमेयपदे इति। भक्षितेऽपि लशुनन्यायेन प्रकृतलक्षणीयपृथिव्यादिवस्तुप्रतिपादकनामाभेदात्प्रमेयपदेऽतिव्याप्तितादवस्थ्यादाह—नामपदं लक्ष्यतावच्छेदकावच्छिन्नपरमिति। लक्ष्यतावच्छेदकावच्छिन्नबोधकमित्यर्थः। मात्रपदं सार्थक्यमिति–लक्षणवाक्य इति। अस्य चावधारणमर्थः। तथाच प्रकृतलक्षणीयवस्तुप्रतिपादकाभिन्नलक्ष्यतावच्छेदकावच्छिन्ननाममात्रमुद्देश इति फलितम्।एवं च लक्षणवाक्ये लक्षणबोधकनामसत्त्वात्तद्व्यवच्छेदः। परस्परविरोधे नैकमपि सिध्यतीतिन्यायेन(-सुन्दोपसुन्दन्यायेन। यथा सुन्दोपसुन्दनामानावसुरौ सोदर्यौ परस्परं स्थिरप्रेमाणौ गौरीहरणलालसौ युवयोर्मध्ये योऽधिकबलः स्यात्तमहं वरिष्य इति गौर्याऽभिहितौ परस्परं युध्यमानौ कालधर्ममुपगताविति पौराणिकी कथानुसन्धेयान्न।) सुरभिगन्धस्यासुरभिगन्धस्य वा न भानमतोऽव्याप्त्यर्थकं मूलं विवृणेति—सुरभिगन्धं प्रतीति॥ अप्रतिबध्य इति। अतिरिक्तचित्रगन्धस्वीकारे परस्परविरोधरूपप्रतिबन्धकाभावादिति भावः॥ स्वाश्रयसमवेतत्वसम्बन्धेनेत्यादिरिति। आदिः पूरणीय इति शेषः। अवयवगन्धस्यावयविनि सत्त्वे सम्बन्धविशेषाङ्क्षितत्वेन तदनुक्तौ स्पष्ठप्रतिपत्तिर्न भवतीत्येतत्प्रतिपत्तये तदादिपूरणमावश्यकमित्याशयेन तदुक्तिरिति निष्कर्षः। अत्रोत्पन्नविनष्टद्रव्यस्य नव्यमतेऽनङ्गीकारस्योक्तत्वेन तत्राव्याप्तिकथनं मूलकृतोऽनुपपन्नं तथापि प्राचीनान्निरोधेन मूलकृतोऽप्यमितत्वादित्याशयेन “किञ्चेति” मूलमवतारयति–तुष्यत्विति॥ द्रव्यत्वन्यूनेति॥ तथाच, गन्धाधिकरणपृथिवीवृत्तिद्रव्यत्वन्यूनवृत्तिर्जातिर्हि पृथिवीत्वजातिरेव तामादाय नाव्याप्तिरित्यर्थः। नचैवमपि गन्धाधिकरणवृत्तिद्रव्यत्वन्यूनवृत्तिघटत्वजातिमादाय सुवर्णघटेऽतिव्याप्तितादवस्थ्यमिति वाच्यम्। प्राचीनमते पृथिवीत्वजात्या साङ्कर्याद्धटत्वस्य जातित्वानभ्युपगमात्॥ साङ्कर्यस्य जातिबाधकत्वानभ्युपगन्तृनव्यमते तु साक्षाद्रव्यत्वन्यूनवृत्तित्वरूपार्थपरत्वेन दोषवारणसम्भवात्॥ स्वाश्रयसंयुक्तत्वसम्बन्धेनेत्यादिरिति। स्वं गन्धः तदाश्रयः पृथिवी तत्संयुक्तत्वं जले। अनेन सम्बन्धेनेत्यर्थः। अत्रापि पूरणीय इति शेषः। अनुगतरूपेणेति। लक्षणताघटकसम्बन्धानां यथायथं समवायादीनामनुग्राहकं रूपं सर्वाधारताप्रयोजकसम्बन्धभिन्नत्वं न तु समवायत्वादिकम्। तत्तद्रूपेण लक्षणताघटकत्वेऽननुगतत्वेन गौरवात्। सर्वाधारताप्रयोजककालिकेन कालस्य लक्ष्यतया वा नाव्याप्तिरिति भावः। लक्षणं हि समवायत्वाद्यवच्छिन्नसमवायादिनैव चिकीर्षितम्। अन्यथा अनुल्लेख्यप्रतीतिस्थले तत्तद्रूपेण संसर्गत्वायोगात्तत्तत्तद्रूपेण तत्तल्लक्षणघटकत्वे कालेऽतिव्याप्तिः सुपरिहार्यैवेत्याशयेनाह—वस्तुतस्त्विति॥ नित्यपृथिवीत्वादिरूपलक्षणेति॥ नच गन्धवत्त्वरूपस्योक्तत्वान्नित्यत्वाभ्यां विभागमात्रत्वेन च विरुद्धमिति वाच्यम्॥ स्वरूपलक्षणत्वाभिमानात्॥ पृथिवीमित्यनुषज्यत इति॥ विभजनस्य सकर्मकत्वेन प्रकारान्तरपदस्वारस्यात्सामान्यानुषङ्ग एव न्याय्य इत्यभिप्रेत्यात्रार्थे मूलमपि प्रामाणयति—मूले इति॥ केचित्त्विति। अत्रारुचिबीजं तु परमाणुरूपाया नित्यायाः साक्षादुपभोगसाधनत्वरूपविषयत्वासम्भवः। नित्यानित्योभयसाधारणपृथिवीत्वावच्छेदेन त्रैविध्यकथनं व्याख्यामूलयोः प्रकारान्तरपुनः पदयोः स्वारस्यादिति बोध्यम्। पादादीनामवच्छेदकत्वेऽपीति। पादे मे सुखं, शिरसि मे वेदनेत्यबाधितसार्वजनीनप्रतीतेर्यदवच्छेदेन सुखदुःखानुभवस्तदवच्छेदकत्वेऽपीति भावः। न जातिरिति। किं तु चेष्टाश्रयत्वं, चेष्टा च हिताहितप्राप्तिपरिहारानुकूला क्रिया तदाश्रयत्वात्स्थावरजङ्गमादिषु शरीरव्यपदेशः। तथा इन्द्रियत्वमिति। शरीरत्वं न जातिर्यथा तथेत्यर्थः। नवीनमते शरीरत्वरूपजातेरेव परिचायकरूपमिदमिति बोध्यम्। उद्भूतत्वस्य नानात्वे तत्तदुद्भूतरूपत्वेनैव कारणता कल्पनीया स्यात्। तथाचानुगतकारणतावच्छेकत्वाभावादेकरूपेण कारणत्वानुपपत्तेः किं तदुद्भूतत्वमित्याशङ्क्य परिहरति—किन्त्विति॥ तच्च संयोगादावपीति। संयोगस्य प्रत्यक्षत्वादिति भावः। असम्भववारणायेति। सर्वेषामेवेन्द्रियाणां शब्देतरोद्भूतविषयेन्द्रियसंयोगरूपसामान्यगुणामाश्रयत्वाद्विशेषेति पदं लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वरूपासम्भवरूपदोषवारणायेत्यर्थः। सर्वाधारतानियामकसम्बन्धभिन्नसम्बन्धेन लक्षणस्य चिकीर्षिततया लक्षणघटकीभूतविशेषणादिदलानामपि यथायथं क्लृप्तसम्बन्धेनैव सत्त्वं विवक्षितमिति कालेऽतिव्याप्तिवारकविशेष्यदलप्रयोजनकथनं बोध्यम्। अन्यथा कालस्य जगदाधारतया शब्देतरोद्भूतविशेषगुणाश्रयतया च तदसङ्गतिरिति सर्वत्रैवं योजनीयम्॥ तत्रैवेति॥ काल एवेत्यर्थः।जगदाधारतया कालस्य मनः संयोगाश्रयत्वेऽपि न ज्ञानकारणत्वं सर्वदैव ज्ञानोत्पत्तेरपि तु विषयेन्द्रियसंयोग एवेत्यर्थद्योतकं ज्ञानकारणेतीति। कालादाविति। काले रूपाभावप्रत्यक्षं संयुक्तविशेषणतयैवेति चक्षुः संयुक्तविशेषणतासन्निकर्षघटकचक्षुः संयोगाश्रयतया अभावप्रत्यक्षज्ञानकारणसंयोगाश्रयत्वेन काले तदापत्तिवारणाय मनःपदमित्यर्थः। लाघवमभिप्रेत्य शङ्कते–नचेति। एवं सति चर्ममनःसंयोगस्य जन्यज्ञानत्वावच्छिन्नं प्रति कारणत्वाङ्कीकर्तृनये चर्मण्यापत्तेरुक्तविशेषणे तु स्पर्शरूपविशेषणगुणत्वान्नापत्तिः। काचित्त्वक्संयोगस्य शरीरसंयोगस्य च कारणत्वमाहुः॥ ॥ अथ त्वङ् मनोवादः॥ ॥ इदं त्ववधेयम्। त्वङ्मनोयोगस्य ज्ञानत्वावच्छिन्नं प्रति जन्यज्ञानत्वावच्छिन्नं प्रति वा हेतुत्वे मानाभावः। अथ स्वापोत्तरं द्वितीयादिक्षणे ज्ञानोत्पत्तिवारणाय जन्यज्ञानमात्रं प्रति त्वङानोयोगस्य हेतुत्वमावश्यकम्, आत्मनो विभुत्वेन पुरीतति मनःसंयोगात्मकसुषुप्त्युत्पत्तिसमये पुरीतत्यवच्छेदेनात्ममनः संयोगस्याप्युत्पत्तेः आत्ममनःसंयोगंविना श्वासप्रश्वासहेतुजीवनयोनियत्नानुत्पत्तेश्च। एतेनात्ममनः संयोगस्यानात्ममनःसंयोगत्वेन मनः संयोगत्वेन वा नासमवायिकारणत्वं गौरवादिति तु वैजात्येन सुष्वापकालीनात्ममनोयोगे च नैतादृशं वैजात्यं तस्य फलबलकल्प्यत्वात्। अतः सुषुप्तौ न ज्ञानोत्पत्तिरित्यपि परास्तम्। विजातीयात्ममनः संयोगस्यासमवायिकारणस्य कार्यतावच्छेदकं न जन्यज्ञानत्वं, किन्तु लाघवाज्ज्ञानेच्छादिसाधारणं जन्यात्मविशेषगुणत्वं, तथाच श्वासप्रश्वासहेतुजीवनयोनियत्नान्यथानुपपत्त्या विजातीयमनः संयोगस्यापि तदानीमावश्यकत्वात्। त्वङ्मनःसंयोगश्च तदा नास्ति यदा मनस्त्वचमपि परिहृत्य पुरीततिमनुविशति तदा सुषुप्तिरित्यभिधानात्। नच सुषुप्तिदशायां ज्ञानोत्पादवारणाय जन्यज्ञानमात्रं प्रति प्राणमनः संयोग एव कारणमभ्युपेयते नतु त्वङ्मनः संयोग इति वाच्यम्। त्वक्त्वप्राणत्वयोरुभयोरेव जातिरूपतया विनिगमकभावादिति। मैवम्। सुषुप्तादिदशायां कीदृशं ज्ञानमापाद्यते। न वा तच्चाक्षुषादि, चक्षुरादिमनःसंयोगविरहादेव तदानीं तदनुत्पत्तेः। नाप्यनुमित्यादि, परामर्शादीनामभावात्। नापि स्मृतिः उद्बोधकस्य फलबलकल्प्यत्वात्। न चात्ममनःसंयोगस्य सत्त्वादात्मादिमानसापत्तिः तद्वारणाय जन्यज्ञानत्वावच्छिन्नं प्रति मानसत्वावच्छिन्नम्प्रति वा त्वङ्मनोयोगस्य हेतुत्वमावश्यकमिति वाच्यम्॥ ज्ञानाद्यात्मकविशेषगुणविषयकात्मादिमानस्यालीकतया सुषुत्युत्पत्तिकाले ज्ञानादिविरहादेव सुषुप्त्यनन्तरमानसानुत्पत्तेः। सुष्वापप्रयोजकमनःक्रियोत्पत्तिकाले तादृशमनःपूर्वदेशविभागोत्पत्तिकाले वा जातस्य ज्ञानादेराशुविनाशितया सुषुप्तिसमयेऽसत्वात् सुषुत्युत्पत्तिकाले चात्ममनःसंयोगस्यासमवायिकारणस्य पूर्वमभावादेव तादृशज्ञानाद्यनुपपत्तेः। नच मनःपूर्वदेशविभागकालोत्पन्नस्यापेक्षाबुद्ध्यात्मकज्ञानस्य सुषुत्युत्पत्तिकालेऽवस्थानं सम्भवतीति वाच्यम्। तदानीमपेक्षाबुद्ध्यात्मकज्ञानोत्पादे मानाभावात्। अपेक्षाबुद्धेरपि क्षणत्रयावस्थायित्वे मानाभावाच्च। नच सुष्वापप्रयोजकमनःपूर्वदेशसंयोगनाशकालोत्पन्नज्ञानादेः सुष्वापोत्पाददशायामवस्थानं सम्भवतीति वाच्यम्। असमवायिकारणस्य कार्यसहभावेन हेतुतया मनःपूर्वदेशसंयोगनाशदशायां ज्ञानोत्पादसम्भवात्। नच यस्यासमवायिकारणनाशात्कार्यनाशस्तस्यैव कार्यसहभावेन हेतुतया मनःसंयोगस्य कार्यसहभावेनासमवायिकाणत्वे मानाभाव इति वाच्यम्। त्वङ्मनोयोगस्यातिरिक्तकारणत्वापेक्षया तावन्मात्रस्य कल्पनाया लघुत्वात्।। नचात्ममनःसंयोगस्यात्ममनःसंयोगत्ववेन मनःसंयोगत्वेन वा नासमवायिकारणत्वम्। किन्तु लाघवात्संयोगत्वेन। तथाच यत्किचित्संयोगस्य कार्यसहवृत्तित्वमवस्त्येवेति वाच्यम्। त्वङ्मनोयोगस्यातिरिक्तकारणत्वकल्पनामपेक्ष्यात्ममनःसंयोगत्वेनात्ममनःसंयोगवृत्तिवैजात्येन वा कार्यसहवृत्तितयाऽसमवायिकारणत्वमात्रकल्पनाया लघुत्वात्॥ न चात्ममनःसंयोगस्य कार्यसहवृत्तितया हेतुत्वेऽपि यत्र मनःक्रियाया न पुरीतति मनःसंयोगात्मकसुषुत्प्युत्पादः किन्तु पूर्वदेशसंयुक्त एव मनसि क्रियाया पुरीतति संयोगरूपः सुष्वापस्तत्र स्वापोत्पत्तिप्राक्काले ज्ञानोत्पत्तिसम्भव इति वाच्यम्। तादृशपुरीतति संयोगस्य सुषुप्तित्वविरहात्। यदा मनस्त्वचमपि परिहृत्य परीततिमनुविशति तदा सुषुप्तिरित्यभिधानात्॥ केचित्तु स्वापानन्तरं ज्ञानोत्पादवारणाय जन्यज्ञात्वावच्छिन्नम्प्रति आत्ममनःसंयोगस्यैव स्वापाकालीनमनःसंयोगव्यावृतवैजात्येन हेतुत्वमुपेयते न तु त्वङ्मनोयोगस्य। न च विनिगमकाभावात्त्वङ्जनोयोगस्यापि वैजात्येन हेतुत्वं दुर्वारम्। ज्ञानेच्छादिसाधारणजन्यात्मविशेषगुणत्वावच्छिन्नम्प्रति आत्ममनःसंयोगस्य पृथगसमवायिकारणतायास्तवाप्यावश्यकत्वादिति वाच्यम्। आत्ममनःसंयोगस्य वैजात्येन हेतुत्वे समवायस्य प्रत्यासत्तितया प्रत्यासत्तिलाघवात्। त्वङ्मनोयोगस्य हेतुत्वेऽवच्छेदकस्यैव प्रत्यासत्तित्वे प्रत्यासत्तिगौरवात्। कर्मसंयोगजन्यतावच्छेदकव्याप्यवैजात्यद्वयस्याधिकस्य कल्पने गौरवापत्तेश्चेत्याहुः। तदसत्। उक्तक्रमेणैव सुषुत्प्यनन्तरं ज्ञानोत्पत्तिवारणसम्भवेनात्ममनःसंयोगस्याप्यतिरिक्तकारणत्वेन कल्पने मानाभावात्। मिश्रास्तु सुषुत्प्यनन्तरं ज्ञानोत्पत्तिवारणाय चर्ममनःसंयोगएव ज्ञानसामान्ये त्वङ्ज्ञानोयोगस्य हेतुरभ्युपेयते नतु त्वङ्ज्ञानोयोगः। नच विनिगमनाविरहः, जन्यज्ञानसामान्ये त्वङ्मनोयोगस्य हेतुत्वे रसादिसाक्षात्कारकाले त्वचा द्रव्यसाक्षात्कारापत्तेः। सामान्यसामग्र्या त्वङ्मनोयोगस्यावश्यकत्वात् रसादिसाक्षात्कारसामग्र्याः प्रतिबन्धकत्वोपगमेऽतिगौरवादित्याहुः। तदसत्। रसादिसाक्षात्कारकाले द्रव्येण समं त्वक्सन्निकर्ष एव मानाभावेन तदभावादेव त्वचा द्रव्यसाक्षात्कारापत्तेरभावात्। तावतामानसत्वावच्छिन्नं प्रति त्वङ्मनोयोगस्य हेतुत्वे बाधकाभावात्। उक्तक्रमेणैव सुषुत्प्यनन्तरं ज्ञानोत्पत्तिवारणसम्भवे चर्ममनःसंयोगस्यापि हेतुत्वे मानाभावाच्च। केचित्तु सुषुत्प्यनन्तरं ज्ञानोत्पत्तिवारणाय शरीरमनःसंयोग एव जन्यज्ञानसामान्ये मानससामान्ये वा हेतुरुपेयते नतु त्वमनःसंयोगः। शरीरसंयोगस्य त्वक्संयोगव्याप्यतया सुषुप्तिदशायां त्वङ्मनोयोगस्येव शरीरमनोयोगस्याप्यभावात्। न च शरीरत्वमपेक्ष्य त्वक्त्वस्य जातिरूपतया लघुत्वेन त्वङ्ज्ञानोयोग एव हेतुरुचित इति वाच्यम् शरीरमनःसंयोगस्य हि शरीरमनःसंयोगत्वेन न हेतुत्वं येन शरीरत्वप्रवेशः। अपि तु शरीरनिष्ठतया मनःसंयोगत्वेन समवायावच्छेदकत्वघटितसामानाधिकरण्यं प्रत्यासत्तिः कारणदिशि समवायः कार्यदिशि अवच्छेदकत्वम्। यद्वा संयोगसम्बन्धेन शरीरनिष्ठतया मनस्त्वेन हेतुत्वं कार्यतावच्छेदकसम्बन्धश्चावच्छेदकत्वं, त्वङ्मनोयोगस्य हेतुत्वे त्वक्त्वक्संयोगत्वयोरवच्छेदककोटिप्रवेशस्यावश्यकतया गौरवात्। नच त्वङ्मनोयोगस्यापि त्वङ्मनोयोगत्वेन न हेतुत्वमपि तु वैजात्येन। अतो न त्वक्संयोगत्वयोः प्रवेश इति वाच्यम् तथाप्यतिरिक्तवैजात्यकल्पनामपेक्ष्य मनस्त्वेनैव हेतुताया लघुत्वादिति प्राहुः। तदसत्। स्वापोत्तरं ज्ञानोत्पादप्रसङ्गस्योक्तक्रमेणैव वारणसम्भवात् शरीरमनःसंयोगस्यापि अतिरिक्तकारणत्वे मानाभावादिति सङ्क्षेपः॥ इति त्वङ्मनोवादः॥
॥पृथिव्याः गन्धवत्त्वलक्षणत्वात्तस्या एव शरीरत्वादिभेदेन भेदात्तल्लक्षणनिर्वाहे ग्राहकपदं सार्थकयितुं प्रवृत्तं मूलमवतारयितुमाशङ्कते–नन्विति। गन्धवत्त्वप्रवेशेनैवेति। गन्धवत्त्वलक्षणलक्षितत्वेनैवेत्यर्थः। पूर्वोक्तरीत्येति। गन्धसमानाधिकरणेत्यादिलक्षणोक्तपदप्रयोजनवदित्यर्थः। स्नेहजनकतावच्छेदकतयेति। ननु चूर्णादिपिण्डीभावहेतुगुणरूपस्नेहस्य जलमात्रवृत्तित्वेन जलवृत्तिसांसिद्धिकद्रवत्वेनैव चूर्णादिपिण्डीभावसम्भवे स्नेहस्यानावश्यकतया कथं तदवच्छेदकतया जलत्वजातिसिद्धिरिति चेन्न। स्निग्धमित्यबाधितप्रतीतिविषयत्वेनावश्यकतेत्यभिप्रायात्। यत्तु जलस्यैव पिण्डीभावहेतुत्वे संसिद्धिकद्रवत्वमेव निःप्रयोजनं, येन भवान् शङ्केत स्नेहो नेतीति। तदतीव रभसात्। करकादीनामपि जलस्वरूपत्वेन तैश्चूर्णादिपिण्डीभावापत्तेः, किञ्च द्रवत्ववदित्यबाधितप्रतीतेश्च द्रवत्वगुणाङ्गीकारणन्तेरणासम्भवात्। द्रवत्वविशिष्टजलस्यैव चूर्णादिपिण्डीभावहेतुत्वाभ्युपगमेन करकादिभिस्तदापत्तेर्वारणीयत्वात्। ननु तथापि चूर्णादिपिण्डीभावहेतुत्वं घृतादेरपीति चेन्न। घृतादावपि जलांशस्य सत्त्वात् स्नेहोत्कर्षेण च न दाहकव्याघात इत्यलम्॥ सङ्ग्रहस्थमबिन्धनपदं षष्ठीतत्पुरुषमिति भ्रमं निरसितुं कर्मधारयसमासतात्पर्यकत्वेन विवृणेति—आप एवेति। नन्वपां कथमुद्दीपकत्वं श्रुतौ अग्रेरापः इत्यग्रेरेवोद्दीपकत्वं श्रूयत इति चेन्न। तच्छ्रुतेः सुष्टिक्रमविषयत्वात्। एवमपि कथमुद्दीपकत्वं अपां तेजोनाशकत्वप्रसिद्धेरिति चेदित्थम्। भौमतेजसो भौमाण्वारब्धत्वेऽपि फलबलाद्वैजात्यपुरस्कारेण दोषवारणमिति। अतएव बडबानलस्याप्स्थानत्वसङ्गतिः। मूले विद्युदादीति। आदिपदादशनिसङ्ग्रहः। पार्थिवत्वसाधकं पीतत्वहेतुमुक्त्वेत्यादि। क्त्वाप्रत्ययस्य लाघवात्प्रागभावे शक्तिः कर्तरि निरूढलक्षणा प्रागभावश्च कालीनवत्वसम्बन्धेन आधेयता सम्बन्धेन वा प्रकृत्यर्थस्य विशेष्यतया प्रतियोगितासम्बन्धेनोत्तरक्रियायाश्च विशेषणतयान्वेति। कर्ताचोत्तरत्र क्रियायां कर्तृतासम्बन्धेन विशेषणतयान्वेति प्रकृत्यर्थश्च पक्तेत्यादाविव तदेकदेशे कर्तृत्वे विशेषणतयान्वेति। इत्थं च पार्थिवत्वसाधकाभिन्नपीतत्वहेतुविषयकवचनकर्तृकर्तृकं यत्पार्थिवत्वसाधकपीतत्वहेतुवचनकालीनप्रागभावप्रतियोगि पार्थिवत्वसाधकपीतत्वहेतुवचनकवृत्तिप्रागभावप्रतियोगि वा यत्तैजसत्वाभावसाधकहेतुवचनं तदनुकूलकृतिमान्मूलकार इति विशिष्टबोधः॥ प्रसङ्गादेतदग्रे विशदेन्निरूपयिष्यामः। एतेनेति। व्यतिरेकसाधकगुरुत्वादितिहेत्वन्तरोपन्यासेनेत्यर्थः॥ गुरुत्वस्याप्रत्यक्षत्वेनेति। पार्थिवसंयोगादेव गुरुत्वं न साक्षात्तेजसीति वृद्धव्यवहारेणेत्यर्थः॥ केवलस्य तेजसो गुरुत्वेन प्रत्यक्षविषयत्वादित्यर्थः। दिगिति। दिगर्थमेवाग्रे स्वयं फलितमूलाशयवर्णनानुमानाकारनिदर्शनेन विशदयिष्यति–वक्ष्यमाणानुमानेति। सुवर्णपक्षकपार्थिवत्वाभावसाधकासतीत्यादिहेतुकानुमान इत्यर्थः। तत्र हेतुरस्तु। साध्यं मास्तु। इत्येवं याऽप्रयोजकत्वशङ्का तस्याः कार्यकारणभावानुकूलतर्केतरानाश्यत्वात्। यथा यदि वह्निर्धूमव्यभिचारी स्यात्तर्हि वह्निजन्यो न स्यादित्येतद्रीत्या कार्यकारणभावावधारणात्॥ मूलं प्रकृते प्राप्ताप्रयोजकत्वशङ्कावारकमिति व्याचष्टे—अप्रयोजकत्वशङ्केत्यादि। अनलसंयोगेऽत्यन्तत्वविशेषणं तु यत्किञ्चिदनलसंयोगसमानाधिकरणद्रवत्ववति घृतादौ व्यभिचारनिरासायेति बोध्यम्। द्रवद्रव्यान्तरसिद्धावितीति॥ अयं भावः। सुवर्णे पार्थिवभोगोपष्टम्भेन तत्र चात्यन्तानलसंयोगे सति तदीयद्रवत्वस्यानुच्छिद्यमानत्वेन तत्प्रतिबन्धकीभूतद्रवद्रव्यान्तरकल्पनामन्तरेणोक्तकार्यकारणभावकल्पनानुपपत्तेः तद्धटकमुक्तहेतुकं द्रवद्रव्यान्तरं तैजसमङ्गीकार्यमिति॥ अतएव सुवर्णस्यासाधारणोष्णस्पर्शभास्वररूपयोरसत्त्वादित्याशङ्क्य पार्थिवभोगोपष्टम्भेन समाधत्ते मूले॥ दोषविधयेत्यादिरिति॥ पार्थिवभोगोपष्टम्भ एवात्र दोषो ध्येयः। अत्र द्रवत्वनाशप्रतिबन्धिका भगवदिच्छैवातस्तत्सिद्धिः। तत्कल्पने प्रमाणम् अग्रेरपत्यं प्रथमं हिरण्यं तेजः सुवर्णं सुवर्णं घर्मोऽस्ति इत्याद्यागमोऽनुसन्धेयः॥ ॥ सुवर्णवादप्रारम्भः॥ इदं त्वत्रावधेयम्। अथ सुवर्णं तैजसमिति निखिलवैशेषिकैकवाक्यतया नैयायिका वदन्ति। तदपरे न क्षमन्ते।मानाभावात्। नहि सुवर्णं तेज इति कशश्चित्साक्षात्करोति। अथ सुवर्णं तेजः, अत्यन्ताग्निसंयोगानुच्छिद्यमानद्रवत्ववत्त्वाद्यन्नैवं तन्नैवं यथा घृतम्, यथा वा आकाश इति व्यतिरेक्यनुमानम्। नच सुवर्णपदेन पीतरूपाश्रयस्य पक्षत्वे बाधः, अतिरिक्तव्याक्तिविशेषपक्षत्वे पक्षाप्रसिद्धिरिति वाच्यम्। दहनमध्यवर्त्यनुभूयते यो द्रवत्वविशेषः समवायेन तद्धतः पक्षत्वादिति चेन्न। द्रवत्वतारतम्यानुभवे तत्र तादृशद्रवत्वादिसिद्धेः। नच तत्राश्रयनाशादेव पूर्वद्रवत्वनाशस्तत्कालोत्पन्ने च सुवर्णआन्तरे प्रकृष्टं द्रवत्वमुपपद्यत इति वाच्यम्। यदेवद्रुतमापीत्तदेवेदानीं द्रुततरमिति प्रत्यभिज्ञानात्। प्रत्यभिज्ञानस्य तज्जातीयत्वावगाहित्वं वदतां वैशेषिकाणां नये नेदमनुमानमिति चेदस्तु तावदेवमापाततस्तथापि घृतादौ व्यभिचारः। सुवर्णारम्भकाः परमाणव एव पक्षीकरणीया इति चेन्न, स्वरूपसिद्धितादवस्थ्यात्, द्रुततरैः सुवर्णारम्भकैः परमाणुभिरेव द्रुततमसुवर्णारम्भादप्रयोजकत्वाच्च। नचाश्रयनाशाजन्यपृथिवीद्रवत्वं प्रति पार्थिवाणुद्रवनाशं प्रति वाऽग्निसंयोगस्य हेतुत्वादनुभूयमानद्रव्यत्वस्य पार्थिवत्वेऽग्निसंयोगादुच्छेदापत्तेर्नाप्रयोजकत्वमिति वाच्यम्। एतावता पृथिव्यन्यत्वसिद्धावपि तेजस्त्वासिद्धेः। नच पृथिवीजलान्यत्वरूपत्वेन तेजस्त्वं साध्यम्। अप्रयोजकत्वात्। अस्तु तर्हि दशामं द्रव्यमिति चेन्न। अग्निसंयोगेन सुवर्णद्रवत्वोच्छेदस्य दर्शितत्वात्। बहुतरसुवर्णतद्गुणादिकल्पनापेक्षया तादृशद्रवत्वनाशप्रयोजकताया सुवर्णाग्निसंयोगव्यावृत्ताग्निसंयोगजलसंयोगनिष्ठवैजात्यकल्पनाया एव लघुत्वाच्च। जलसंयोगेन सुवर्णद्रवत्वनाशस्य त्वयाप्यभ्युपगमात्। अत एव पृथिवीपीतरूपवत्सुवर्णद्रवत्वस्याग्निसंयोगदनाशेनाग्निसंयोगाद्द्रवत्वनाशप्रतिबन्धकं पार्थिवसुवर्णसंयुक्तं द्रुतं द्रव्यान्तरं सिध्यति, तादृशद्रवत्वनाशं प्रति प्रतिबन्धकतया जलमध्यवर्तिघृतादौ कल्पनादित्यपि मतमपास्तम्। तथापि तारतम्यानुभवेन सुवर्णद्रवत्वानुच्छेदस्य सुवर्णादेर्जातिविशेषेण प्रतिबन्धकत्वादेव द्रवत्वानुच्छेदस्य वक्तुं शक्यत्वाच्च। सुवर्णसंयुक्तघृतादेर्द्रवत्वानुच्छेदप्रसङ्गेन चाग्निसंयोगद्रवत्वनाशं प्रति जलत्वेन तादृशसुवर्णनाशम्प्रति च द्रवत्वेन च प्रतिबन्धकतायास्त्वयापि वाच्यत्वात्। यच्च केनचिदुक्तम्। अनुभूयमानद्रवत्वाधिकरणं तेजः पृथिवी, भिन्नं वा। समानाधिकरणद्रवत्वसमान्यसमवधानक्षणोत्पत्तिकाग्निसंयोगजन्यध्वंसप्रतियोग्यवृत्तित्वजातिमद्द्रवद्रव्यत्वात् यन्नैवं तन्नैवं यथा घृतम्। अस्ति हि वह्निसंयोगेन सुवर्णद्रवत्वनोशोत्पत्तिदशायां द्रवत्वान्तरसामग्रीनियमः। अव्यवधानेन द्रवत्वतारतम्यानुभवात्। अग्निसंयोगेन घृते द्रवत्वनोशोत्पत्तिसमये तत्र कदाचिद्द्रवत्वसामग्रीसत्वे>पि न तथा नियमः। अग्निसंयोगेन चरमघृतद्रवत्वनाशोत्पत्तिसमये द्रवत्वसामग्रीविरहात्। जलसंयोगजन्यचरमसुवर्णद्रवत्वनाशस्य तादृशक्षणोत्पत्तिकत्वादसिद्धिः स्यादत उक्तमग्निसंयोगजन्येति। सुवर्णस्य द्रवत्वे तु घृतद्रवत्वव्यावृत्तजातिरनुभवसिद्धेति नासिद्धितादवस्थ्यम्। अस्तु जातिविशेषवद्रवत्वमेव हेतुरिति। तदपि न। अप्रयोजकत्वात्, घृतेऽग्निसंयोगजद्रवत्वनाशोत्पत्तिदशायां कदाचिद्द्रवत्वसामग्रीसमवधानवत्सुवर्णे नियतम्, तथा समकालं विलक्षणाग्निसंयोगस्य द्रवत्वोत्पादकत्वादेव चरमघृतद्रवत्वनाशोत्पत्तेरनन्तरं न तत्र द्रवत्वोत्पत्तिः तेजोवृत्तित्वे वह्न्यादावपि तदापत्तेस्तुल्यत्वात् तादृशद्रवत्वं प्रति जातिविशेषसमवधानस्यापि हेतुतायाः समानत्वात् पार्थिवसुवर्णेनावश्यं द्रवद्रव्यसंयुक्तेन भवितव्यम्। कथमन्यथा दग्धपीतपटादौ रूपपरावृत्तिप्रतिबन्धकतया क्लुप्तजातीयं द्रवद्रव्यमन्तरेण तत्र रूपपरावृत्तिरुपपद्यते। नच रूपपरावृत्तिःपूर्वरूपनाशरूपान्तरोत्पत्ती इति चेद् भवत एव पीततारतम्यानुभवादिति वाच्यम्। पीतेतररूपस्य रूपपरावृत्तिपदार्थत्वादिति। मैवम्। पीतेतररूपपादकाभावात्। नहि पीतेतररूपत्वेनाग्निसंयोगजन्यत्वम् किन्तु रूपवत्वव्याप्याजातिभेदेन। नच तदाश्रय एव, पीतेतरत्वादेस्तदाश्रयस्य तदोत्पादोपगमात्। अथ तादृशजातिभेदोऽपि नीलत्वत्वानियतो नानाविध एव। अन्यथा नीलत्वादिना सङ्करप्रसङ्गात्। एवं च पीतेतररूपं शुक्लत्वादिजातिभेदेनापादनीयमिति चेदस्तु तावदेषा गौरवपराहताऽपि सिद्धान्तसरणिः, तथापि घटादावग्निसंयोगादेकविधरूपोत्पत्तिदशायामन्यविधरूपानुत्पत्तेस्तत्र तत्र भिन्नजातीयाग्निसंयोगहेतुतावश्यकत्वेनैव सर्वसामञ्जस्यात्, किन्तु जलत्वेनैवेति। नच पीतेतरसुवर्णरूपं प्रति तद्रूपेण पृथग्निरोथित्वं कल्पनीयम्। पीतेतरसुवर्णरूपा प्रसिद्धेः। उपष्टम्भकविलक्षणसंयोगेन पीतेतररूपं प्रति द्रवद्रव्यं विरोधीत्यपि न साम्प्रतम्। रजते शुक्लेतरानुत्पत्तिप्रसङ्गात्। तेजस्त्वव्याप्यसुवर्णत्वेन तद्विरोधोपगमे पृथिवीत्वव्याप्यसुवर्णत्वेनैव तादात्म्ये प्रतिबन्धकत्वौचित्यात्। नच पृथिवी परमाणौ तदा रूपपरावृत्तिश्च स्यात्सुवर्णस्य परमाणावभावात्। अन्यथा भस्मारम्भके तत्र रूपपरावृत्तेरनुत्पत्तेरिति वाच्यम्। समवायसम्बन्धेनापि तेन रूपेण प्रतिबन्धकताया वक्तव्यत्वात्। त्वयापि तैजससुवर्णं प्रति तदवयवादेः कारणान्तरस्य वक्तव्यत्वात् कल्प्यतां वा सुवर्णतदारम्भकपरमाणुद्रवत्वेष्वेव पीतेतररूपप्रतिबन्धकतावच्छेदकतया जातिविशेषः। वस्तुतस्तु। पीतादितररूपं प्रति पीतादिरूपस्य, नीलादिरूपं प्रति नीलादिभिन्नरूपस्य वा प्रतिबन्धकत्वात्प्रतिबन्धकाभावस्य कार्यसहभावेन हेतुत्वात् न पीतोत्पत्तिसमये तदितररूपोत्पत्तिः। एवं चैकेनैव वैजात्येनाग्निसंयोगस्य नीलपीतादिजनकत्वमवच्छिद्यते, इति न काप्यनुपपत्तिः। अग्रेरपत्यं प्रथमं हिरण्यम् इत्यागमः सुवर्णस्य तैजसत्वासाधक इति व्यामोहमात्रम्। नहीदमग्निसमवायिकारणत्वं बोधयति। असामर्थ्यात्। प्रकृते बाधाच। किन्तु वह्निजन्यत्वमात्रम्। सुवर्णआदेस्तैजसत्वसाधकागमस्तु तेजोविकारत्तयोपपादनीयः। तेजः सुवर्णमित्याकारकागमो यदि सन् तदा तेजः पदं दीप्यमानपरं वा, तस्मादनुभूयमानतद्द्रवत्वाधिकरणं पृथिवी, पीतरूपात्। काठिन्यसंयोगान्नैमित्तिकद्रवत्ववत्वाच्च। तत्र पृथिवीत्वेन समवायिनः कारणत्वात्। नचेदमसिद्धम्। पीतं द्रुतमिति प्रतीतिर्न परम्परासम्बन्धावगाहिनी। साक्षात्सम्बन्धेन बाधकाभावात् द्रव्यान्तरे मानाभावाच्चेति सङ्क्षेपः। इति सुवर्णवादः॥
॥ स्थानभेदादिति। स्थानभेदेन तद्भेदस्य कोश एव प्रसिद्धेरौपाधिको भेदव्यवहारो न वास्तविक इति भावः। स्वमतं दर्शयतीति। स्वेनैवाग्रे प्रत्यक्षत्वस्य निरस्यमानत्वतात्पर्येणेदम्। ननु स्पर्शाश्रयत्वेन तत्सिद्धिः स्पर्शस्यातिरिक्तानाश्रयत्व एव तत्कथमित्याशङ्कां दूरीकुर्वतो मूलस्याशयमन्वयं च दर्शयति—उपलभ्यमानस्पर्शस्येति। विजातीयस्येत्यादिः। अत एवोद्धूतस्पर्शवत्पार्थिवस्योद्भूतरूपवत्त्वनियमात्पृथिव्यास्तद्वत्त्वनिराकरणं मूले। अन्यथाऽसङ्गतिः स्पष्टैव, अन्वयप्रदर्शनं च स्पष्टप्रतिपत्त्यर्थम्। इदमाकाशादिप्रत्येकभेदसाधनाभिप्रायेणेति। चतुष्टयपदस्वारस्यात्प्रत्येकाभिप्रायकमिति भावः। सर्वत्रोपलब्धिप्रसङ्गादितीति। अत्रैवमाकाशात्मविभुद्रव्यसमवेतशब्दज्ञानयोर्दण्डादिसंयोगात्ममनःसंयोगजन्यत्वेनैव प्रसिद्धेस्तयोरव्याप्यवृत्तित्ववदस्यापि तथात्वोपगमसम्भवेन सर्वत्रानुपलब्धेः। सर्वत्रोपलब्धिप्रसङ्गोक्तिस्तु स्पर्शस्य द्रव्यसंयोगजन्यत्वेन विभुद्रव्यसंयोगस्य सार्वकालिकत्वेन सर्वत्र तत्स्पर्शस्य सर्वत्र सर्वदा भावप्रसङ्ग इत्यर्थिका। अथ पदार्थखण्डनदीधितौ भट्टाचार्याः। स्पर्शोऽपि चाव्याप्यवृत्तिः। अन्यथा सुकुमारकठिनाभ्यामारब्धेऽवयविनि सुकुमारावयवावच्छेदेन त्वक्संयोगे कठिनस्याप्युपलब्धिप्रसङ्ग इति। नचैवमप्यव्याप्यवृत्तिस्पर्शाङ्गीकारेऽपि सुकुमारकठिनारब्धावयविन्युक्तसुकुमारावयवावच्छेद्यत्वक्संयोगे काठिन्योपलब्धिप्रसङ्गरूपदोषो दुर्वार एवेति वाच्यम्। स्पर्शानत्वक्संयोगयोः समानदेशावच्छेदेन कार्यकारणभावाभ्युपगमात्। नचैवं व्याप्यवृत्तिनयेऽपि कठिनस्पर्शवत्त्वावच्छिन्नं प्रति कठिनस्पर्शादिमदवयवावच्छेदेन त्वत्संयुक्तसमवायत्वेन त्वक्संयोगस्य हेतुत्वकल्पनान्नानुपपत्तिरिति वाच्यम्। गौरवापत्तेः। व्याप्यवृत्तित्वोपगमवैयर्थ्यापत्तेर्व्याप्यवृत्तेरनवच्छेदकत्वाच्चेत्यास्तां तावत्। एवं पृथिव्यापां गन्धरसयोगरव्याप्यवृत्तित्वमन्यथा सुरभ्यसुरभ्यवयवारब्धे घटेऽतिक्तमधुरावयवारब्धे वस्तुनि चैकावच्छेदेनोक्तदिशा तत्प्रत्यक्षापत्तेरवयववृत्तेरेव समुदाये प्रत्ययः। ननु तैश्चित्रगन्धरसश्चोत्पद्यतामितिचेन्न गौरवात्तदनङ्गीकारात्समुदायो निर्गन्धो नीरसश्चेति स्थितम्। उपाधित्व एवेतीति। एतदुक्तेरुक्तहेतोर्न प्रत्यक्षानुमापकत्वमेतदाशयादित्याह–तथाचेति। हेतावुपाधिव्यभिचारेणेत्यादि। उद्भूतरूपवत्त्वरूपोपाधिना प्रत्यक्षस्पर्शाश्रयत्वहेतौ पृथिव्याद्यन्तर्भावेण व्यभिचारेण प्रत्यक्षत्वरूपसाध्यसिद्धिरूपव्यभिचारस्योन्नयनसम्भ वादित्यर्थः। हेतावुपाधिवैशिष्ट्यं च सामानाधिकरण्यसम्बन्धेन। अतोहेतोर्व्याप्यत्वासिद्धत्वेन हेत्वाभासत्वान्न साध्यसाधकत्वमिति भावः। पक्षधर्मावच्छिन्नसाध्यव्यापकेत्यादि। द्रव्यत्वरूपपक्षधर्मावच्छिन्नाधिकरणतानिरूपकाधेयताकप्रत्यक्षत्वस्य साध्याधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकधर्मवानयमुद्भूतरूपवत्त्वरूपोपाधिरिति समुदितार्थः। यदाहुर्वायुर्गुरुत्ववानिति तदतीव तुच्छतरम्। तदीयप्रत्ययस्य भ्रमत्वात्। ननु सर्वसाधारणप्रतीतेर्भ्रमत्वकल्पने तत्रैव किं न भ्रमत्वमिति चेत्स्वीकृरु गन्धवत्त्वमपि। पार्थिवपरमाणुसंयोगोपाधिक एव गन्धप्रत्यय इति चेत्किं तेऽपराद्धं मया, न सहसे गुरुत्वस्य तत्त्वमन्यथाऽपरोक्षज्ञानिनां महर्षीणां तत्तन्निबन्धनवैपरीत्ये मनुतां यथेष्टं वायौ गन्धं गुरुत्वं चन्द्रकिरणरत्नकिरणयोरनौष्ण्यत्वादतेजस्त्वमित्यादि किमनल्पदोषगणनविचारचातुरीविजृम्भणेनेति। पृथिव्यादिविभजनस्य प्रतिज्ञेयत्वेन कमप्राप्ताकशनिरूपणमकृत्वोत्पत्तिविनाशक्रमकथनमसङ्गतिमित्याशङ्कां दूरीकर्तुं शङ्कितुराशयं वर्णयन्मूलमूलमवतारयितुमाशङ्कते–नन्विति। परमाणुपुञ्जस्यैव घटादिरूपत्वेनेति। अनतिरिक्तावयवित्वे घटादेरप्रत्यक्षापत्तेरतीन्द्रियसमुदायस्यापि प्रत्यक्षानङ्गीकारादित्यादि प्रसिद्धं न्यायसिद्धान्तमुक्तावल्याम्। नित्यत्वानित्यत्वाभ्यामित्यादि। परमाणुपुञ्जरूपस्य नित्यत्वेनानित्यत्वाभावाद्द्वा विभागकथनमनुपपन्नमिति भावः। त्र्यणुकादेर्व्द्यणुकत्रयादिसंयुक्तत्वेनासमवायिकारणतात्संयोगनाशप्रयुक्तजन्यद्रव्यनाशसम्भवेनानुगतकार्यकारणभावमुपेक्ष्य सम्प्रदायानुसरणं यथाश्रुतग्राहिप्रतिपत्र्यपेक्षमेवेत्याशयकनवीनमतौचित्यं दर्शयति—सर्वत्रैकरीतिरिति। तस्येति महत्त्वस्येत्यर्थः॥***॥ परमाणुवादारम्भः॥ इदं त्वत्रावधेयम्॥ परमाणुद्व्यणुकयोः स्वीकारेमानाभावः। नचावयवधारायाः क्व विश्रामः त्रुटावेव(१-त्रुटरूस्त्र्यणुकस्त्र्यणुसरेणुरित्यनर्थान्तरम्।) विश्रामात्। नच व्द्युणुकतदवयवसाधकग्रन्धाः कथं समर्थ्येरन् समवायिसमवायित्वादिभिरनवस्थितपरम्परासिद्धिप्रसङ्गेन तत्सामर्थ्यानवधारणात्। नचाणुव्यवहारस्य स्थूलद्रव्यालम्बनत्वाभावेन तद्भिन्नद्रव्यविषयकत्वामावश्यकमेवं व्द्युणुकमपीति वाच्यम्। तव्द्यवहारस्योत्कृष्टमहत्त्वाश्रयद्रव्यावधिकापकृष्टमहत्त्वाश्रयद्रव्यविषयकत्वेनैवोपपत्तेर्महापण्डितपण्डितवत्॥ अथ परमाणुव्द्युणुकानङ्गीकारे द्रव्यचाक्षुषे संयोगस्य द्रव्यसमवेतरूपादिचाक्षुषे संयुक्तसमवायस्य च हेतुत्वकल्पनया गौरवम्, तदभ्युपगमे तु समवेतचाक्षुषत्वावच्छिन्नं प्रति चक्षुः संयुक्तसमवेतसमवायरूपतृतीयसन्निकर्षेणैव गतार्थत्वात्प्रथमयोर्द्वयोरनावश्यकतया लाघवम्, त्रसरेण्वादिरूपादेश्चक्षुःसंयुक्तपरमाण्वादिसमवेतसमवायेनैव चाक्षुषत्वोपपत्तेः। त्रसरेणुप्रत्यक्षमपि चक्षुः संयुक्तपरमाणुसमवेतर्व्द्यणुकसमवायस्य तत्र सत्त्वेन बोध्यम्। त्रसरेणोर्व्द्यणुकसमवेतत्वादिति चेन्न, अतीन्द्रियघटितसन्निकर्षाद्रूपत्वादिचाक्षुशवारणाय द्रव्यान्यसमवेतचाक्षुषे चक्षुःसंयुक्तसमवेतचाक्षुषवन्निरूपितसमवायत्वेनैव हेतुत्वकल्पनया आवश्यकत्वादेवं च त्रुटेश्चक्षुःसंयुक्तपरमाणुसमवेतव्द्यणुके चाक्षुषत्वाभावात्तन्निरूपितसमवायत्वेन प्रत्यक्षाप्रसक्त्या संयोगरूपप्रथमसन्निकर्षावश्यकत्वादितिचेदस्तु द्रव्यान्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतो यश्चाक्षुशविषयस्तन्निरूपितसमवायत्वेन द्रव्यचाक्षुषत्वावच्छिन्नं प्रति चक्षुः संयोगत्वेन त्रुटेः प्रत्यक्षान्यथानुपपत्त्या प्रथमतृतीयसन्निकर्षावश्यकत्वेऽपि संयुक्तसमवायिरूपाद्वितीयसन्निकर्षनैष्फल्यं त्रसरेणौ द्रव्यत्वादिचाक्षुषानुरोधेन व्द्यणुकसिद्धेश्चावश्यकत्वमिति चेत्पुनरत्र वदन्ति। व्द्यणुकाभ्युपगमे तद्धटितसन्निकर्षाद्रूपत्वादिचाक्षुषवारणाय चक्षुःसंयुक्तसमवेतसमवायहेतुतायां समवेतांशे चाक्षुषविषयताया निवेशस्यावश्यकतया कारणतावच्छेदकप्रविष्टयोर्मिथोविशेषणविशेष्यभावे विनिगमनाविरहेण कारणताद्वयकल्पनापत्तिरवच्छेदकगौरवं चेति। तस्मात्तयोरङ्गीकारेऽपि न यत्किञ्चिचित्सन्निकर्षाकल्पनाप्रयुक्तलाघवमतो द्रव्यान्यस्मिन्वर्तते यस्तद्विषयकचाक्षुषत्वावच्छिन्नं प्रति तृतीयसन्निकर्षसिद्धेर्दव्यसमवेतचाक्षुषत्वावच्छिन्नं प्रति द्वितीयसन्निकर्षसिद्धेर्द्रव्यचाक्षुषत्वावच्छिन्नं प्रति प्रथमसन्निकर्षसिद्धेश्च कल्पनं समुचुतमेवेति चेद् भवन्मतेऽपि वायुघटितसन्निकर्षत्संयोगत्वसङ्ख्यात्वादिप्रत्यक्षवारणाय चाक्षुषविषयतानिवेशस्यावश्यकतयोक्तसमवेततच्चाक्षुषत्वयोर्मिथो विशेषणविशेष्यभाव विनिगमनाविरहप्रयुक्तकारणताद्वयकल्पनापत्तेर्यश्चोभयोरिति(-यश्चोभयोः समो दोषः परीहारस्तयोः समः।)न्यायान्नास्माकमेष दोष इति चेत्पुनरत्र वदन्ति। वायुघटितसन्निकर्षात्संयोगत्वप्रत्यक्षवारणाय संयुक्तांशे रूपनिवेशेनैव वारणादत एव पाकादिना नीरूपघटितसन्निकर्षान्न संयोगत्वसङ्ख्यात्वादिप्रत्यक्षप्रसक्तिरतो न दोष इति चेत्पुनराक्षिपन्ति। चक्षुरिन्द्रियघटितसन्निकर्षाद्रूपत्वादिचाक्षुशवारणायानुद्भूतरूपाभावादिनिवेशापेक्षया चाक्षुषविषयतावश्यकत्वादिति चेदनुद्भूतरूपस्य दीधितिकृतैव निरसितत्वान्न दोष इत्याहुरित्यलं पल्लवितेनाधिकं त्वन्यत्रानुसन्धेयम्॥ इति परमाणुवादः समाप्तः ॥
॥ इदानीं मूलमूलस्थं मूलेनादिवृत्तं क्वचिदुपकाराय व्याकर्ता शब्दस्य गुणत्वेन गुणपदस्याव्यावर्तकतया तस्य वैफल्यमाशङ्क्य गोबलीवर्दन्यायेन शब्दरूपविशेषणगुणबोधकतया शब्दगुणकपदं व्याकारेति—शब्देत्यादिना। सर्वत्र शब्दोपलब्धेरिति हेत्वन्तरं सार्थकयितुमाशङ्कते–नन्विति। एकत्वेऽपीत्यादि। एकत्वमात्रं न विभुत्वप्रयोजकं जातेस्तदभावादिति भावः। ननु तावतैवालं किम्पूर्वेणेति चेन्न। धूलीपटलस्थपरमाण्वादीनां सर्वदिगवच्छेदेनोपलब्धेस्तन्निरासाय तत् अमूर्तत्वे सतीत्यतात्पर्यग्राहकमूलपरमाणूनामनेकत्वाच्च तव्द्यावृत्तिः। क्रियावत्त्वरूपलभणान्तरानुसरणबीजं वर्णयति–यदीत्यादिना। अपकृष्टत्वाभावादिति। अपि तूत्कृष्टत्वादित्यर्थः। व्द्युणकपरिमाणस्याणुद्वयपरिमाणत्वेनैकाणुपपिणामस्य ततोऽपकर्षाश्रयत्वादव्याप्तिं मनसिकृत्याह—वस्तुतस्त्विति। लाघवमेवेति। परिच्छिन्नपरिमाणस्य विशेषणविशिष्टस्य लक्षणकरणापेक्षया केवलस्य न्यायमात्रस्य लक्षणे लघुत्वाल्लक्षणान्तरानुसरणमिति भावः। इदन्त्वत्रावधेयम्। शब्दसमवायिकारणमाकाशमतिरिक्तद्रव्यमङ्गीकर्तुजार्णमतमसहिष्णुर्नैयायिकाशिरोमणिर्निमित्तकारणत्वेन
क्लृप्तेश्वरस्यैतत्समवायिकारणत्वमात्रकल्पनेनातिरिक्तद्रव्यान्तरविरहप्रयुक्तलाघवमनुसन्दधाति। ननु जीवानां तत्त्वापादनेन विनिगमनाविरह इति चेन्न। जीवानां नानात्वस्यैव विनिगमनकत्वात्। नच जीवानां प्रत्येकव्यक्तिमादाय विनिगमनाविरहो दुष्परिहर एवेति वाच्यम्। सुखादीनामिव शब्दस्यापि स्वात्मसमवायित्वादहं सुखादिमानितिवदहं शब्दवानिति प्रतीत्यापत्तेरेव विनिगमकसदभावात्। नच तदनभ्युपगमे भूतपञ्चकत्वानुपपत्तिः। यो भूतत्वेन व्यवहारविषय आकाशनामा स ईश्वर एव नातिरिक्तः। आकाशत्वेन नाकाशनामङ्गीक्रियत इत्याशयात्। नन्वेवमपि शब्दो गुणः क्वचिदाश्रितो गुणत्वाद्रूपवत् इत्यनुमानेनैवेतरबाधेनाकाशवदीश्वरसिद्धौ अनुमानानन्तरानुसरणं व्यर्थमेवेति चेन्न। नासूया कर्तव्या यावता प्रमाणानेष्टसिद्धिस्तावन्ति प्रमाणानि प्रयोक्तव्यानीत्यभ्युपगमात्। अथ कार्यमात्रं प्रतीश्वरस्य समवायिकारणत्वापत्त्या समवायिकारणनाशाद्द्रव्यानाश इति मते तन्नाशानापत्तिः(-तन्नाशाभावाद्रव्यनाशानापत्तिरिति भावः।) आकाशस्वीकर्तृभिः समवायिकारणनाशाद्द्रव्यनाशास्येवेदानीमप्यनङ्गीकारेण वारणीयत्वात्। नच संस्कारादीनामिव शब्दस्यापि मनसोऽयोग्यतया न मानसापत्तिरिति वाच्यम्। सामग्रीसत्त्वे कार्यवश्यम्भावात् संस्कारादीनामनायत्या तादात्म्यप्रत्यास्त्या प्रत्यक्षं प्रति प्रतिबन्धकत्वाभ्युपगमात्। तद्वच्छब्दस्य प्रतिबन्धकत्वकल्पने तु तत्कल्पनागौरवमेव विनिगमकमित्याशयात्, ईश्वर एवैतदाश्रय इति निरूपमम्। अत्र संस्कारादीनामात्मसमवेतत्वेनात्ममानसवारणायात्समवेतगुणमानसत्वावच्छिन्नं प्रति विजातीयगुणत्वेन हेतुत्वमुत प्रतिबन्धकत्वमिति विनिगमनविरहेऽपि कतिपयगुणानामेव मानसापत्तिवारणाय वैजात्यकल्पनाधिक्यादपि न जीवात्मसमवेतत्वमपि तु परमात्मसमवेतत्वमेव युक्तमिति स्थितम्। परेस्तु भेर्यादीनामेव गुणः शब्दः भेर्या शब्द इति प्रतीतिबलादवच्छेदकत्वारूभरूपसम्बन्धस्यासत्त्वादवच्छेदकतासम्बन्धेन भेर्या शब्दोत्पत्तौभेरीदण्डसंयोगादीनां हेतुत्वाभ्युपगमादिति वदन्ति॥ केचित्तु शब्दोऽसमवेत एव भेर्यामवच्छेदकमात्रं भावकार्यस्य समवेतत्वनियमे मानाभावादिति वदन्तीत्यलं पल्लवितेन॥ उपकाराय मूलमूलं विवृणोति–मूलेति। अतीतत्वादिकमिह द्विविधं कालगतं कालवृत्तिगतं च। प्रकृते तु न कालगतातीतत्वादिकं लक्ष्यम्। अन्यथा कालस्य घटकतयेत्युक्तिरसङ्गतास्यादिति भावः। घटादिगतं वर्तमानत्वं परिष्करोति—वर्तमानत्वमित्यादिना। शब्दप्रयोगाधिकरणकालोनाम इह घटोऽस्तीत्यादिरूपो यः शब्दप्रयोगस्तदधिकरणं यः काल इत्यर्थः। इह लस्य वर्तमानकालवाचकत्वात्प्रारब्धापरिसमाप्तक्रियाश्रयत्वं तत्त्वमिति केचित्। करोमीत्येतादृशविषयताशालिज्ञानाश्रयत्वमित्यन्ये। व्यवहारस्य भिन्नभिन्नत्वेन भेदाश्चोपाधिः सूर्यपरिस्पन्द एवाङ्गीक्रियतां, यथैतस्सूर्यस्पन्दसम्बद्धोऽयं घटो वर्तमानः, एवं पूर्वोत्तरसूर्यस्पन्दसम्बद्धत्वेनातीतानागतत्वव्यवहारे किं कालकल्पनेत्याशङ्क्यानुगतव्यवहारस्येति समाहितम्। तस्यायमर्थः। सूर्यस्पन्दानामविशेषेणोपलब्धेरनुगतोपाधित्वासम्भवात्कालस्वीकारे तेषामनुगतोपाधिकरणत्वेऽपि कालोपाधिकरणत्वेनैव व्यवहारोपपत्तौ व्यवहारे तेषामप्युपाधित्वे मानाभाव इति। दिगर्थस्तु घटादीनां सूर्यस्पन्दसमबन्धो, न संयोगसमवायादिरिति काल एव सम्बन्धघटकः कल्पनीय इति। ननु सर्वाधारत्वं सूर्यस्पन्दानामेवास्त्विति चेदाह—अत्रेत्यादि। अत्र शास्त्रे। विभिन्नकालिकयोराधाराधेयभावविरहादित्यादेः समुदितस्यायमर्थः। कालस्याखण्डस्य विभिन्नभूतभविष्यद्वर्तमानसर्वाधारत्वसम्भवेऽपि सूर्यस्पन्दानां सखण्डत्वेन तेषां तेषां तत्तदाधारत्वेऽपि न सर्वाधारत्वप्रसक्तिः कदाऽपीति। उपकारायैव विवृणेति—मूलेति। उदयाचलतासन्निहितादिमित्येववक्तव्ये मूर्तावच्छिन्नत्वविशेषणदानस्येदं बीजं बोध्यम्। प्रयागात्काशी पूर्वा प्रयागाच्च मधुरातः पूर्वमित्येवं तत्तत्पाश्चात्तिकदेशनिरूपितपूर्वस्य तत्र तत्र व्यवहारविषयत्वेन प्रयागादावुदयाचलसन्निहितदिगुपाधिकत्वात्पूर्वत्वव्यवहारानुपपत्त्या यदपेक्षयोदयगिरिसन्निहितं यन्मूर्तं तदवधिनामा ततः प्राचीत्यर्थं आवश्यकः। एवं च प्रयागापेक्षयोदयगिरिसन्निहितं मूर्तं तद्वृत्तिः काशीति प्रयागावधिकपूर्वत्वविशिष्टा काशीत्युच्यते। एवं मधुरातः पूर्वं प्रयाग इत्यत्रापि बोध्यम्। उदयगिरिसन्निहितत्वं च मूर्तौ तदसंयुक्तसंयोगापेक्षयाल्पतरोदयगिरिसंयुक्तसंयोगवत्त्वं, तथाच प्रायात्काशी पूर्वेत्यत्र प्रयागनिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्तसङ्ख्याव्याप्यसङ्ख्यापर्याप्ताधिकरणोदयगिरिसंयुक्तसंयोगान्मूर्तवृत्तिः काशीति बोधः। एवं काशीतः प्रतीच्यां प्रयाग इत्यत्र काशीनिष्ठोदयगिरिसंयुक्तसंयोगपर्याप्तसङ्ख्यापर्याप्त्यधिकरणोदयगिरिसंयुक्तसंयोगवन्मूर्तवृत्तिः प्रयाग इति बोधः। एवंरीत्या तत्तत्प्राचीनप्रतीचीव्यवहारोपपत्तिः। द्वयोर्भ्रात्रोः कूलयोश्च द्वयोरन्यतरपूर्वापरव्यवहारासाधारणकारणतया कालदिशोः सिद्धिरास्थेया। इदं त्वत्रावधेयम्। दिक्कालौ नेश्वरादतिरिच्येते मानाभावात्। अथेश्वरस्य विभुत्वादेकत्वाच्चेदानीं घटस्तदानीं घटः पूर्वस्यां प्रतीच्यां घट इति भेदव्यवहारानुपपत्तिरिति चेन्न। परेषां नये कालदिशोरेकत्वेऽपि यदुपाधिभेदाद्भिन्नभिन्नव्यवहारस्तत्तदुपाधिभेदेनेश्वरभेदकल्पनयास्माकमपि भिन्नभिन्नव्यवहारसम्भवः॥ केचित्तु जीवस्वरूपत्वं तयोरुतेश्वरस्वरूपत्वमिति विनिगमनाविरहादतिरिक्ततैव तयोरिति वदन्ति, तदतिस्थवीयः। कालस्य सर्वाधारत्वनियमो हीश्वरस्य तत्त्वे उपपद्यते, जीवस्य तत्त्वे परिच्छिन्नत्वान्नोपपद्येतेत्यादिकं बहुतरमूहनीयम्। उपकाराय मूलं मूलं विवृणोति—ज्ञानाधिकरणमिति। विषयतासम्बन्धेन विषयस्यापि तत्त्वादाह–समवायेन ज्ञानवदित्यर्थ इति। सप्तम्यास्त्रलो विधानादेकवचनबहुवचनार्थव्यावृत्तये द्विवचनर्थत्वेन व्याकरोति—तयोर्मध्ये इति। यद्यपि पूर्वं द्विधैव विभजनाद्विभक्तयोर्द्वयोरेव तच्छब्दपरामृश्यमाणत्वेनासन्देहस्तथापि स्पष्टप्रतिपत्तये एतव्द्याख्यानं बोध्यम्। मूलमूलमुपकाराय व्याकर्ताऽसन्देहाय मूलेत्युक्त्वा पुरा व्याकारेति स्म। इदानीं तु तदनुवक्त्वैव व्याकरणाद्दीपिकायां(१-व्याख्यानात्।)पाठभ्रमः स्यादिति अर्वाचीनस्य मूलमूलत्वं बोधयितुमाह—दीपिकायां नित्यज्ञानाधिकरणत्वमितीति॥ अथेदानीं वेदान्तनये ब्रह्मणो विज्ञानाश्रयत्वे निर्गुणत्वबोधकवादविरोधादिनास्वरूपत्वं सिद्धान्तितं कथं तद्वत्त्वमिति, नच निर्गुणवादानां प्राकृतहेतुगुणनिषेधविषयत्वेन सङ्कमानान्न दोष इति वाच्यम्। तेषां सामान्याभावबोधकत्वे प्रमाणानामसति बाधके सामान्ये पक्षपातन्यायादर्धजरतीयस्यानौचित्यादिति चेन्न। कालिकाव्याप्यवृत्तिगुणशून्यत्वबोधपरत्वाङ्गीकारदत एवानुपदं वक्ष्यमाणं नित्यसुखाश्रयत्वरूपं नव्यमतसिद्धलक्षणं सङ्गच्छते। नन्वेवं सति ईश्वरीयचिकीर्षाया अपि नित्यत्वाज्जगतो विलोपानापत्तिरिति चेन्न। तस्याः प्राण्यदृष्टोपाधिकत्वेन तदुपपत्तेः। तथा सति कालिकाव्याप्यवृत्तित्वप्रसङ्ग इति चेदनौपाधिककालिकाव्याप्यवृत्तित्वशून्यत्वस्याभिमतत्वेनादोष इत्यलमितिविस्तरेण। अन्यथेति। अर्श आदिगणपाठेनार्शआदिभ्योऽजिति मत्वर्थीयाजनङ्गीकारे इत्यर्थः। नपुंसकत्वानुपपत्तेरिति। अयं भावः। आनन्दशब्दस्य नित्यपुंस्त्वाद्विशेष्यनिघ्नत्वाभावाद् विशेष्यीभूत नपुंसकलिङ्गकब्रह्मबोधकत्वं न सिध्द्यतीति मत्वर्थीयात्प्रत्ययेन नपुंसकलिङ्गत्वमपि सिध्यतीति। अत्रेति। अत्र ब्रह्मणि। आनन्दस्य दुःखसम्भिन्नत्वबोधनायाह—भारापगम इत्यादि॥ यथा दुःखहेतुभारोपाध्यपगमप्रयुक्तयथास्थितसुखावस्थानं तद्वदानन्दोऽत्र दुःखभावबोधक उपचारात्। ननूक्तदृष्टान्तेन जीववदौपाधिकदुःखित्वं ब्रह्मणः स्यादिति चेन्न,अदृष्टरूपकारणाभावाद् दृष्टान्तप्रदर्शनं ब्रह्मणि न दुःखस्यौपाधिकत्वबोधनाय किन्तु सुखस्य नित्यत्वबोधनायैवेति तत्त्वम्। नवीनमतमुपन्यस्यति–नवीनास्त्विति। नित्यसुखाश्रयत्वमीश्वरस्याङ्गीकुर्वन्तीति। अङ्गीकृत्य तद्रूपमेवेश्वरस्य लक्षणं कुर्वन्तीत्यर्थः। अत्र नित्येत्यव्यावर्तकम्। उक्तयुक्तेरदृष्टभावाच्च श्रुतौ तदघटितत्वाच्चेति सङ्क्षेपः। दीपिकायां प्रत्यक्षप्रमाणातिरिक्तप्रमाणशून्यवादी लोकायतः शङ्कते—नन्वीश्वरसद्ग्रावे किं प्रमाणमिति। एष एवमत्र प्रष्टव्यः। प्रथममिदं ते वाक्यं प्रमाणमप्रमाणं वेति। नाद्यः प्रतिज्ञाद्दानेः। न द्वितीयः निग्रहस्थानत्वेनास्माकमेव विजयोत्पत्तेरित्यादिकमस्मदीयराधामाधवविलासाख्यश्रुङ्गारप्रबन्धेलोकायतमतप्रस्तावखण्डनेऽधिकजिज्ञासुभिर्द्रष्टव्यम्॥ किञ्च किम्प्रमाणमिति ते प्रश्नवाक्यस्यकिंशब्दस्याक्षेपार्थकत्वं कुत्सितार्थकत्वं विकल्पार्थकत्वं प्रश्नार्थकत्वं वा अन्यतमार्थकत्वमवलम्ब्य भवाञ्छङ्केत तदेव न सम्भवति। तथाहि आक्षेपो नाम निषेधः तत्र किंशब्दस्य शक्तिः। अत एवास्तिप्रमाणमिति निषेधप्रतिप्रसवे सदुत्तरं प्रयुज्यते।
समभिव्याहृतपदोपस्थाप्यतावच्छेदकप्रतिवादितात्पर्यविषयात्मोपलक्षितधर्मावच्छिन्नस्योद्देश्यतयोपस्थितिः प्रवृत्तिनिमित्तम्। एवं चेश्वरसद्ग्रावे किम्प्रमाणमित्यतः प्रमाणत्वावच्छिन्नोद्देश्यतानिरूपितविधेयतावान्निषेध इति बोधः। एवं च वचनमात्रेण कार्यसिद्धेर्हेत्वादिकं वक्तव्यं तदुक्तौ चानुमानं प्रमाणान्तरं स्वीकृतं भवतीति परस्पराश्रयविरोधस्य दुष्परिहरत्वं दोषः। अत एव न द्वितीयोऽपि। कुत्सानिन्दा, तत्र किंशब्दस्य शक्तिः प्रकृतिनिमित्तं च समभिव्याहृतपदोपस्थाप्यतावच्छेदकप्रतिवादितात्पर्योपलक्षितधर्मावच्छिन्नोद्देश्यतयोपस्थितिः पूर्ववत्। बोधश्च किं प्रमाणमित्यतः प्रमाणत्वावच्छिन्नोद्देश्यतानिरूपितविधेयतावती निन्देति। अत्रापि वचनमात्रात्तदसिद्धेर्हेत्वाद्युपन्यासे पूर्वोक्तमनुसर्तव्यम्। नापि वितर्कार्थस्तृतीयोऽपि। वितर्को नाम पक्षद्वयकोटिकः संशयः। तत्र च किं शब्दस्य शक्तिः। अन्यत्सर्वं पूर्ववत्। अतोऽत्र पक्षान्तरं वक्तव्यम्। ईदृशसद्ग्रावे किम्प्रमाणमुतान्यदिति। तदनुक्त्वा च न्यूनत्वात्। नापि प्रश्नार्थकश्चतुर्थोऽपि। किंशब्दस्य जिज्ञासिते शक्तिः। अत एव स्वीयजिज्ञासाज्ञापनार्थं किंशब्दघटितं प्रश्नावाक्यं प्रयुज्यते।तत्रोद्देश्यतावाचककिंशब्दस्य समभिव्याहृतपदोपस्थाप्यतावच्छेदकधर्मावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्तृजिज्ञासितो धर्मः प्रवृत्तिनिमित्तम्। एवं च कः पचतीत्यतः पाककृतित्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन जिज्ञासितो यो धर्मस्तद्वान्पचतीत्याकारकोऽन्वयबोधः। प्रकृतेऽपीश्वरसद्ग्रावेकिम्प्रमाणमित्यतः प्रमाणत्वावच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन जिज्ञासितो यो धर्मस्तद्वत्प्रमाणमित्यन्वयबोधो बोध्यः सा च प्रमाणपदसमभिव्याहारात्प्रमाणविषयिणी प्रतीयते। सा च ज्ञातुमिच्छा। सा च नाज्ञाते भवत्यतिप्रसङ्गात्। तस्मादीश्वरविषयं प्रमाणं ज्ञातुमिच्छतां तत्र स्वज्ञानमिच्छा करणीभूतं वक्तव्यं तदतथाभूतार्थं तथाभूतार्थं वा स्यात्। यथार्थं चेत्तेनैव स्वकीयो विषयः प्रमाणमुपस्थाप्यते॥ विषये प्रमाणप्रवृत्तिमन्तरेण तदीययथार्थत्वस्य वक्तुमशक्यत्वात्तेन प्रमाणेन स्वगोचर ईश्वरसद्ग्राव उपस्थाप्यते इत्यानायासेन सिद्धोऽस्माकमीश्वरसिद्धमनोरथः। अथायथार्थं तत् तस्मिन्नयथार्थज्ञानविषये यद्यायथार्थमेव ज्ञानमुत्पादनीयमिति भवतः पृच्छतो वाञ्छितं तदा केयं स्वाधीनेऽर्थे परापेक्षा भवानेवायथार्थज्ञानकुशलो यथैकमिध्याज्ञानमजीजनत्तथापरमप्युत्पादयतु। वयं पुनर्यथार्थज्ञानस्योत्पादयितारो मिथ्याज्ञाने सर्वत्रैवाकृतिनः किमिह नियुञ्जामहेऽतस्ते ईश्वसद्ग्रावविषयकप्रमाणविषयकप्रश्न एवानर्थकः। अथ मन्यसे किमिह प्रमाणमिति पृच्छताऽयमभिप्रायः। अत्रार्थेऽनुमानं प्रमाणमितरद्वेति। तदेवावधेह्युत्तरमस्माकमित्याहाङ्कारादिकमित्यनुमान ईश्वसद्ग्रावगोचरं प्रमाणमिति॥ अरूपिद्रव्यत्वादितीति। रूपिद्रव्यस्यैव प्रत्यक्षविषयत्वनियमाङ्गीकारेणाकाशावन्न
ग्राह्यप्रत्यक्षमित्यर्थः। तथाच परमाणोः प्रत्यक्षापत्तिः रूपद्रव्यत्वादिति मनसि कृत्याह—बाह्यप्रत्यक्षेत्यादि। विजातीयेत्यादि। स्वसमवायिसमवेतत्वरूपवैजात्यावच्छिन्नसम्बन्धाधिकरणत्वस्य सुखादाविवात्मन्यभावादित्यर्थः। कार्यत्वमस्त्वङ्कुरादौ कर्तृजन्यत्वं मास्त्वित्येवमप्रयोजकत्वशङ्कानिवर्तकमत्र तर्कं कार्यत्वेन कर्तृत्वेनासाद्येश्वरमनुममौ तत्कथमस्मत्कर्तृत्वस्यैव सहकारिकारणसमवधानात्तत्सिद्धेः तत्सिद्धिरिति चेदश्मस्थभेक्यादिरूपकार्यकृतेस्तदितरासम्भवेन तत्सिद्धिरिति हृदयम्॥ दीपीकायामुपादानगोचरेत्यादि। अयं भावः। ज्ञायमानस्यैव कारणस्य कार्ये हेतुत्वमसता कारणेन कार्यानुत्पत्तेरङ्कुरादिरूपकार्यमात्रकारणभूतपरमाणुज्ञानजन्यचिकीर्षया कार्यमात्रोत्पादकत्वादीश्वरस्येत्येवमाशयेनैतावद्धटितं कर्तृत्वलक्षणमावश्यकमिति। सर्ववित्त्वमपि सर्वमिति सर्वसामान्यविषयकत्वेनास्मदादीनामपि सम्भवतीत्यतो विशेषरूपेण ज्ञानार्थकत्वं विदेरङ्गीकरोति–विदेत्यादिना। लक्षणमाहेतीति। गौरवात्तत्तच्छरीरावच्छिन्नाकाशेऽतिप्रसक्तेश्चातः स्वरूपमाहेत्यर्थ ईति। उपकाराय मूलमूलं विवृणेति–मूले जीवः प्रतिशरीरं भिन्न इर्ताति। जीवस्य प्रतिशरीरभेदवत्त्वं स्वरूपं न सम्भवतीत्याशङ्कते–नचेचि। समाधत्ते–समानकालिकेत्यादि। समानकालिकश्च योगजधर्मजन्यश्च यः शरीरभेदस्तेनेत्यर्थः। अवयवोपचयापचयाभ्यां शरीरभेदे हि न समानकालिकोऽपि तु विभिन्नकालिकः। अत्र समानकालिकत्वं च शरीरभेदे स्वाधिकरणप्रतियोगिकभेदाधिकरणाक्षणावृत्तिकत्वमेतत्फलितलक्षणं निष्कृष्य वदति—एवं चैतदित्यादि। श्रुङ्गग्राहिकया चैत्रशरीरावच्छिन्नभोगवाञ्जीवः समानकालिकयोगाद्यजन्यं यदन्यं मैत्रशरीरं तदवच्छिन्नभोगवान्यो जावस्तद्भिन्न इति रीत्या प्रकारेण प्रतिशरीरं यज्ञमित्रादिशरीरं शरीरं प्रति जीवभेदः। व्यापकत्वं द्वितीयार्थः। तत्तच्छरीरव्यापकत्वेन जीवभेदः साध्यः तत्तत्सुखाद्युपलब्धिसाधनमनोभेदादिति हेतुना सिद्धिविषयः कर्तव्य इति शेष इत्यक्षरार्थः। दीपिकायां शरीरात्मवादी चार्वाकःशङ्कते–नन्विति स्वोच्चारयितर्यस्मदः शक्तेरुच्चारयितृत्वस्यात्मवृत्तित्वान्मनुष्यत्वब्राह्मणत्वयोः शरीरवृत्तिधर्मत्वात्तत्सामानाधिकरण्यप्रतीतिरस्मन्मते शरीरवृत्तिधर्मारोपेणैव निर्वाच्यैवमेतन्मतेऽस्मच्छक्यार्थोच्चारयितृत्वस्य शरीरारोपेऽपि सम्भवति तुल्ययुक्त्या साधु निर्वचनम्। तथापि नायं चार्वाकः शरीरेऽहं शब्दस्य प्रयोगस्य भाक्तत्वमिच्छत्यतिरिक्तात्मानङ्गीकारात्, तदाह–शरीरस्यात्मत्व इति। करपादादिनाशे इत्यादि। तूर्णीं शरीरनाशे इत्येव वक्तव्ये करपादादिनाशेत्युक्तिः शरीरस्य करपादाद्यवयवविशिष्टस्यैव शरीरत्वाश्रयत्वबोधिका॥ शरीरस्यात्मत्वेऽधिकदोषगणनमन्यत्रानुसन्धेयम्॥ इन्द्रियाणामात्मत्वं निरस्यति दीपिकायां नापीति। तत्तज्ज्ञानाश्रयत्ववदात्मनस्तत्तदिन्द्रियरूपत्वेन भेदात्सामानाधिकरण्यासम्भवाद्यो>हमित्याद्यनुसन्धानसम्भवादिति भावः। दीपिकायां स च न परमाणुरित्यादि। तदस्वरूपत्वेऽणोरणीयानिति(१अणोरणीयान्महतो महीयान्।)श्रुतिविरोधप्रसक्तेरतिसूक्ष्मत्वबोधनद्वारा मनोऽविषयत्वबोधकत्वपरतया व्याख्येयत्वादप्रसक्तिरिति ध्येयम्॥ अन्यथेति। अन्यानुभूतस्यानुसन्धानाङ्गीकारे इत्यर्थः । यन्मध्यपरिमाणमिति। व्द्यणुकमित्यर्थः। कर्तुरात्मन इत्यादि। तथाच स्वर्गकाम इत्यादिविधिजातवैयर्थ्य स्यादिति भावः। कायव्यूहस्थल इत्यादि। अयं भावः। दीपो हि प्रभाद्वारा प्रभासंयुक्ताव्यवहितदेशं प्रकाशयति न कुड्यादिव्यवहितम्। तथा तत्तच्छरीरावच्छेदेनैव सुखाद्युपलब्धिप्रसङ्गो योगिनां न कायव्यूहैरिति। दिगिति। विभुत्व एव युगपत्सर्वेन्द्रियप्रकाशत्वोपपत्तिरित्यर्थः। मुक्तोलक्षणं परित्यज्य लक्षणान्तरानुसरणे बीजमाह मनःसंयोगाद्यतीत्यादि। ननु रिमस्मिंल्लाधवं पूर्ववत्सत्यन्तगर्भत्वेन विशेषणविशेष्योभयघटितत्वेन समत्वादिति चेदिन्द्रियत्वस्य गौरवाभिमानेनेदं बोध्यम्॥ अत्र चाकाशवाय्वोरतिप्रसङ्गवारणाय विशेषणविशेष्ये ॥ सकलेन्द्रियैरिति। सकलानामिन्द्रियाणि सकलेन्द्रियणीति षष्ठीतत्पुरुषः। न तु सकलानि च तानीन्द्रियाणीति कर्मधारयः, प्रसङ्गविरोधात्। तस्येति। विभोरित्यर्थः। पूर्वोक्तदोष इति। एकस्य ज्ञानदशायामपरस्य तदनुपपत्तिरूपोक्तदोष इत्यर्थः। असमवायिकारणक्रियाद्यसत्त्वेऽपीति॥ ज्ञानासमवायिकारणात्ममनःसंयोगकारणविभुद्वयक्रियाया अस्वीकारेऽपीत्यर्थः। इदं त्वत्रावधेयम्। मनोनातिरिक्तं द्रव्यम् कल्पनागौरवात् किन्तु भूत, मेतच्च प्राचां मतेऽणुरूपम्। नव्यमते त्रुटिरूपम्। नन्वनतिरिक्तत्वे मनसस्त्रुटेर्महत्त्वेन युगपदनेकेन्द्रियसंयोगमादाय घटादेर्युगपच्चाक्षुषत्वाचप्रत्यक्षापत्तिरिति चेन्न अण्वतिरिक्तमनोऽभ्युपगन्त्रृणां नयेऽदृष्टविशेषनियामकत्वान्न यौगपद्यं तथाभूतस्वरूपमनोङ्गीकर्त्रृणामपीत्यदोषात्। केचिदतिरिक्तवादिमतपक्षपातिनो ब्रुवते– मनसः परमाणुरूपत्वे त्रुटिरूपत्वे वा विनिगमनाविरहान्नानापरमाणुनानात्रुटिरूपत्वेन तत्संयोगावच्छेदकत्वस्यानेकस्य तेषु कल्पनागौरवमपि च तादृशमनः संयोगजन्यमानसप्रत्यक्षम्प्रति तादृशमनसः कारणत्वेनैतन्मते कारणबाहुल्यमिति॥ अनतिरिक्तवादिनव्यमतपक्षपातिनस्त्वित्थं सामान्यतः द्रव्यलौकिकप्रत्यक्षत्वावच्छिन्नं प्रति वीजातीयसंयोगत्वेनेन्द्रियसंयोगस्य हेतुत्वकल्पनयाऽणुरूपत्वे त्रुटिरूपत्वे वा नोक्तदोषावसर इति वदन्ति॥ मात्रपदमितीति। अस्य चेतरव्यवच्छेदोऽर्थः। तत्फलितमर्थमादाय शङ्कते–यद्यपीति। रूपे न सम्भवतीति। रूपस्य चक्षुरितविषयेन्द्रियसंयोगग्राह्यत्वादिति भावः॥ अतोऽर्थान्तरं पुरस्कृत्याव्याप्तिं
परिहरति–तथापीति। अदोषादिति। प्रभाभित्तिसंयोगत्वं न गुणविभाजको धर्मः किन्तु संयोगत्वमात्रमिति भावः। अत एवेति। जातिघटितलक्षणाङ्गीकारादेवेत्यर्थः। अव्याप्तिरिति। अमहत्त्वाच्चक्षुर्ग्राह्यत्वाभावादिति भावः। दैशिकव्याप्यवृत्तित्वेत्यर्थ इति। कालिकव्याप्यवृत्तित्वं त्वस्त्येवेति भावः। अतिरिक्तचित्ररूपानङ्गीकारे स्वयं दूषणमाह—इदमुपलक्षणमिति। तत्तत्प्रागभावादिस्थल इति। चित्ररूपप्रागभावादिस्थल इत्यर्थः। अनेकप्रागभावादीनामिति। आदिना अनेकध्वंससङ्ग्रहः। गौरवमिति। तस्मादतिरिक्तं चित्रमङ्गीकार्यमित्यर्थः। इदन्त्वत्रावधेयम्। रूपं चाव्याप्यवृत्तिं एवं व्याप्यवृत्तित्वमते सार्वजनीनप्रतीतिः पक्वघटो रक्तो नीलश्चेति प्रात्यक्षिकी कथमुपपद्यताम्॥ एकस्मिन्घटे उपलभ्यमानयोरेककालावच्छेदेन रक्तनीलयोरवच्छेदकभेदं विनाऽनुपपन्नतयाऽवच्छेदककल्पनस्यावश्यकतया किमवशिष्टमव्याप्यवृत्तित्वे। तस्मान्नानाजातीयरबपवदवयवारब्धघटादौ समानाधिकरणविजातीयरूपसमुदायादेव चित्ररूपव्यवहारोपपत्तेरतिक्तचित्ररूपाङ्गीकारोऽपि निर्मूल एव। नीलादेर्नीलाद्यतिरिक्तरूपाजनकत्वाच्च गौरवमपि न दोषावहमिति। तर्हि किं किं प्रमाणमवलम्ब्य प्राचीनमतानुसृतं मूलमिति चेदित्थं बोध्यम्। विजातीयनानारूपवदवयवारब्धेऽवयविनि पटादावव्याप्यवृत्तिनानारूपाङ्गीकारे नीलावयवावच्छेदेन पीतादिवारणायावच्छेदकतासम्बन्धेन पीतादिकं प्रति समवायादिना पीतादीनां षट्कार्यकारणभावकल्पने गौरवम्। अतिरिक्तचित्ररूपवादिनां मते तु सर्वनीलादिस्थले चित्रापत्तिवारणाय चित्रत्वावच्छिन्नं प्रति कार्यकालवृत्तितया चित्रेतररूपाभावत्वेनैकहेतुत्लकल्पने स्फुटमेव लाघवम्। परञ्च नीलादेर्नीलाद्यतिरिक्तरबपजनकत्वे प्रत्येकं स्वीतिरिक्ततत्तद्रूपजनकत्वापत्तेरप्रत्यूहत्वादहेतुत्वे निर्हेतुकरूपानुत्पत्तेरूत्पत्तिकाल एवायवरूपादिक्रमेण रूपान्तरोत्पत्त्यापत्तेस्तदुपगमेऽवयवरूपसमुदायरूपत्वेनैव चित्राङ्गीकारः समीचीन इत्याशयेनाहुर्भट्टाचार्याः “चित्रमपि नातिरिक्तम्” इत्यलम्॥ रूपरहितत्वेनेतीति। ननु कथं रूपरहितत्वं कालिकेन रूपसहितत्वादित्यत आह—समवायेनेत्यादिरिति। अन्यथा अतिप्रसङ्गादिति भावः॥ रूपस्य कारणत्वादिति। उद्भूतस्येत्यादिः। स्वाश्रयेत्यादि॥ तथाच पूर्वं समवायेनेति स्वाश्रयसमवेतत्वसम्बन्धोपलक्षणमिति भावः। प्रत्यक्षत्वप्रयोजकमितीति। प्रत्यक्षत्वं च ज्ञानवृत्तिधर्मः, नहि तत्प्रयोजकं भवितुमर्हति रूपमिति मूलस्य न्यूनतापरिहराय प्रत्यक्षत्वपदं प्रत्यक्षविषयत्वेन विवृणेति–प्रत्यक्षेत्यादि। घटादौ प्रत्यक्षविषयता रूपप्रयोज्यैव रूपाभावे तदनुत्पत्तेर्मीमांसकमते ज्ञातताया एवोत्पत्तिरिति बोध्यम्। त्रुटेश्चाक्षुषानुपपत्तिर्द्रष्टव्येति। पूक्वोक्तसम्बन्धेन चित्ररूपस्य त्रुटावेव सत्त्वादिति भावः। एतेनेति। चित्ररूपाङ्गीकारे प्रत्यक्षत्वानुपपत्तेरिति हेतुनिदर्शनेनेत्यर्थः। हेतौ तृतीया। शङ्का निरस्तेति। निरासे हेतुमाह–द्रव्येत्यादि। द्रव्ये रसनेन्द्रियस्य संयोगरूपसन्निकर्षस्य षड्विधसन्निकर्षघटकस्य लौकिकस्य सतोऽपि तद्ग्रहणेऽसामर्ध्याच्चक्षुषः परमाणुग्रहण इवातिरिक्तचित्ररसानाङ्गीकारं आम्रादे रसनप्रत्यक्षत्वानुपपत्तेरभावाद्रसनेन्द्रियस्य रसमात्रग्राहकत्वाच्चित्ररसानङ्गीकारेऽप्यनुपपत्तिलेशासम्भवो यथातिरिक्तवादिनां नयेऽतिरिक्तचित्ररूपानङ्गीकारे द्रव्यप्रत्यक्षत्वानुपपत्तिः, प्रत्यक्षे रूपसमवायस्य हेतुत्वात्तथा नेहेति समुदितार्थतात्पर्यमवसेयम्। परमाणुरसे रसनाग्राह्यगुणात्वाभावालादव्याप्तेर्महत्त्वस्य प्रत्यक्षवत्प्रयोजकत्वादत आह– रसनाग्राह्येत्यादि उपाधिमत्त्वन्तारम्। एवं गन्धलक्षणेऽपीति। परमाणुगन्धेऽव्याप्तेर्वारणाय घ्राणग्राह्यगुणविभाजकोपाधिमत्त्वे तात्पर्यं बोध्यमित्यर्थः॥ मात्रपदमितीति॥ मात्रपदघटितफलितार्थं त्वगितराग्राह्यत्वे सति त्वग्ग्राह्यगुणत्वरूपं विहायैतदाश्रयणे बीजं स्पर्शलक्षणस्य त्वगिन्द्रियद्रव्यसंयोगमादाय परमाणुस्पर्शेऽनापत्तिरिति ध्येयम्। अन्यच्चात्र यद्वक्तव्यं तत्प्रागेवोक्तम्। परमाणुष्वेवपाकइतीति॥ क्रामिकान्वये पाकस्य पूर्वरूपनाशपूर्वकरूपान्तरोत्पादकत्वस्वाभाव्यात्तदलाभप्रयुक्तभ्रमवारणाय स्वयमन्वयं दर्शयति—घटेत्यादिना। वैशेषिकाणामिति। षोडशपदार्थानां सप्तस्वन्तर्भेवेण सप्तविशेषपदार्थप्रतिपादककाणादसूत्रं तद्ग्राष्यमन्यं चैतदर्थप्रतिपादकमधीयते विदन्ति वा वैशेषिकाः। क्रतूक्थादीत्यादिपदग्राह्यत्वाण्ढक् । एतच्चैत्रव्यक्तीकरिष्यत्युपरिष्टाच्छब्दपरिच्छेदे। आरम्भकसंयोगनाश इति। घटारम्भकद्यणुकाद्युत्पादकसंयोगनाश इत्यर्थः। यावदवयविनाश इति। व्द्युणुकाद्यन्तावयविनाश इत्यर्थः। स्वतन्त्रेषु परमाणुष्विति। प्रत्येकं विशकलितेषु परमाणुष्वित्यर्थः। अदृष्टादिघटितसामग्रीवशादिति। अदृष्टं घटेन जलाहरणद्वाराजलप्रयोज्यतृप्तिसम्पादकं पुण्यम्। जलाहरणद्वारक जलतृप्तसम्पादकेश्वरेच्छा आदिपदग्राह्या। तद्घटिता तद्विशिष्टा। वैशिष्ट्यं समानाधिकरण्यसम्बन्धेनैतादृशी वा सामग्री कारणं तद्वशात्तदधीनत्वादिति समुदितार्थः। अवयविन्यपीति –समुदायः। नैयायिकानामिति। न्यायौ युक्तिस्तत्प्रतिपादकोऽप्युपचार—-स्तमधीयते विदन्ति वेत्यर्थे ठक्। क्रतूक्थादीत्यादिपदग्राह्यत्वात्। न त्वेतियच्। तेजसेत्यादि। तेजसा वेगवता। तस्य अभिघातस्य। नियमतः अवश्यम्। आरम्भकसंयोगः। अन्तावयव्यारम्भकव्द्यणुकादिसंयोगः। तस्य प्रतिद्वन्द्विविरुद्धा या विभागजनकक्रिया तज्जनकत्वे मानाभावेन तस्य तादृशसामर्ध्याभावेनेति समुदितार्थः। तत्सिद्धमर्थमाह— अवयविन्यपीत्यादि। तथाचाविशकलितपरमाणुष्ववयवेष्ववयविनि च पाक इति मतं गौतमीयानामिति भावः। अस्मिन्नेवार्थे आनुभविकत्वं लाघवं च दर्शयति। अत एवेत्यादिना। सोऽयं घट इति प्रत्यभिज्ञा सङ्गच्छत इति। पूर्वमते विजातीयोत्पत्तेस्तदसम्भवान्निर्यौक्तिकं तदिति भावः। तस्मिन्गौरवं बोधयितुं लाघवमुद्ग्रावयति—अनन्तेत्यादि। पूर्वमतानुसारी कश्चनावयविरूपतन्नाशयोरवयवरूपतन्नाशाभ्यामुत्पत्तिनियमोऽस्माकं मते सङ्गच्छते, युगपदवयावयविनो रूपोत्पत्तिमते कथं सङ्गच्छतामित्याशङ्कते—नचेति॥ वैजात्यनिवेशेनेति। कपालघटरूपनाशयोरेव परस्परं हेतुत्वमङ्गीक्रियतेऽनुभवलाघवादिति भावः। बाधितमिति। जले रूपरसस्पर्शाः तेजसि रूपस्पर्शौ॥ वायौ तु स्पर्शमात्रं, चक्षुष्ट्यं तु न क्वापि। अतो यथायोग्यमन्वये तात्पर्यमिति न्यूनतां परिहरति स्म—उद्भूतत्वमतीति। मूलस्थधर्मपदस्य जातिबोधकत्वाभिमानेनाह—उद्भूतत्वं जातिरिति। गुणगतसाङ्कर्यमिति। रूपादिरूपगुणगतं गुणनिष्ठं शुक्लत्वादिनोद्भूतत्वे साङ्कर्यं परस्परात्यन्ताभावसामानाधिकरण्यमुद्भूतत्वस्य जातित्वे बाधकं नेति समुदितार्थः॥ अयं ग्रन्थ इति। मूलग्रन्थ इत्यर्थः। तदभावकूटवत्त्वमिति। एवंरूपोद्भूतत्वाश्रयणे बीजं तु प्रागुक्तं स्मर्तव्यम्॥ सङ्ग्रहे नवद्रव्यवत्तिरित्। नन्वेकत्वादिव्यवहारस्य गुणेऽपि सत्त्वादेकं रूपं द्वे रूपे इत्याकारकसङ्ख्यावाचकत्वप्रत्ययात्सङ्ख्यायाः गुणत्वे गुणे गुणानङ्गीकारादिति न्यायेन रूपे तथा प्रत्ययानुपपत्तेः सङ्ख्या कथं गुण इति चेत्पदार्थान्तरमित्याहुर्भट्टाचार्याः। अन्ये चैकत्वाद्यपेक्षाबुद्धिरूपं तेन नोक्तदोष इत्याहुः॥ परिमाणस्येत्यादि। यद्यपि परिमाणस्याणुगुणत्वादिरूपतया तदुपाधिकभेदव्यवहारे तद्भेदस्योक्तप्रायत्वेऽपि गुणगुणिनोरैक्यभ्रमप्रसक्तेस्तद्दोषवारणायैवाण्वादिपदं लभणयाऽणुत्वादिपरमित्याशयकभावप्रधाननिर्देशकपदं दीपिकायामिति भावः। दीपिकायामिदमस्मात्पृथगित्यादि। इदं त्वत्रावधेयम्। पृथक्त्वं न गुणः, घटात्पटः पृथगितिव्यवहारः अन्योन्याभावनिबन्घन एव, पञ्चम्याः प्रतियोगित्वार्थकतया घटप्रतियोगिकभेदवान्पट इत्यर्थबोधात्। पञ्चम्याः प्रतियोगित्वार्थकत्वे घटात्पटः पृथगित्यस्येव घटान्न पटइत्यस्यापत्तिस्त्वन्यारादिति सूत्रेऽन्यत्वार्थपरमप्यन्यपदं तदर्थबोधकविशेषपरमेव व्याख्यानान्न त्वन्योन्याभावबोधकसामान्यपरमित्यभ्युपगमेन परिहरणीयेत्यदोषः। स्वप्रतियोगित्वेत्यादि। स्वं मूलावच्छिन्नकपिसंयोगाभावः तत्प्रतीतियोगित्वमग्रावच्छिन्नकपिसंयोगे। स्वं स एव तत्सामानाधिकरण्यं तदधिकरणवृत्तित्वमेतद्वयसम्बन्धेनाभाववैशिष्ट्यं संयोगे, इति संयोगस्याव्याप्यवृत्तित्वेऽपि संयोगाभावस्याव्याप्यवृत्तित्वायोभयसाधारणं सावच्छिन्नवृत्तिकत्वरूपं निर्वाच्यम्। तथाच घटे द्रव्यत्वमिति प्रतीतौ घटत्वावच्छेदेन द्रव्यत्वस्य विषयतया व्याप्यवृत्तित्वापरिहारे प्रकारः सावच्छिन्नत्वांशे
देशकालेतरावच्छेदकानवच्छेद्यत्वेनोहनीय इत्यलम्। स्वयं समाधत्ते–परेत्विति। संयोगनाशत्वावच्छिन्नकार्यतानिरूपितकारणतायां प्रतियोगितासम्बन्धानवच्छिन्नत्वदानेनैवोक्तदोषवारणे किं प्रकारान्तरानुसरणे बीजं,न चापि लाघवमिति चेद्बीजमाह—एतावतेति। गुणस्य समवायेनैव वृत्तेस्तत्सम्बन्धावच्छिन्नैव कारणता सिद्ध्यतीति भावः। एतेन उक्तं निर्बीजम् इत्युपेक्षितमिति भावः। अयमपीति। विभागोऽपीत्यर्थः। अव्याप्यवृत्तिरिति। सर्वावच्छेदेनाविभुद्रव्यसंयोगाभावादिति भावः। दीपिकायां ते विभजत इति। परत्वापरत्वे इत्यर्थः। इदं त्वत्रावधेयम्। परापरव्यवहारप्रकाररूपत्वापरत्वे नातिरिक्तगुणत्वावच्छिन्ने मानाभावात्। दिक्कृतपरापरयोर्बहुतरसंयुक्तसंयोगाल्पतरसंयुक्तसंयोगाभ्यां तथा ज्येष्ठकनिष्ठयोस्तत्प्रागभावाधिकरणक्षणावृत्तिकत्वरूपज्येष्ठत्वतदुत्पत्तिक्षणध्वंसाधिकरणक्षणोत्पत्तिकत्वरूपनिष्ठत्वाभ्यामेवोभयव्यवहारोपपत्तेरिति। आद्यत्वमिहेत्यादि। इह पतनक्रियायाम्। स्वसमानाधिकरणेति। पतनक्रियासमानाधिकरणेत्यर्थः। पतनप्रतियोगिकध्वंसे पतनक्रियाधिकरणवृत्तित्वविशेषणफलं दर्शयति—द्वितीयेत्यादि। द्वितीयपतनक्रियोत्पत्तिक्षणे पञ्चमे (2-प्रथमं क्रियाक्रियातो विभागोविभागात्पूर्वसंयोगनाशः पूर्वदेशसंयोगनाशादुत्तरदेशसंयोगोत्पत्तिः। एवं क्रियान्तरेऽपि द्रष्टव्यम्।))प्रथमक्षणीयपतनक्रियाया नाशात्, सर्वेषामेव पञ्चमक्षणवृत्तिध्वंसप्रतियोगित्वेनानित्यत्वादिति भावः। आद्य इति। अत्रोक्तप्रकारेण विभक्तत्रित्वावच्छिन्नासाध्यइत्यादिः। स्पष्टप्रतिपत्तय आह—असमवायिकारणमित्यादि। भेर्यवच्छिन्नाकाशे समवायेन शब्दोत्पत्तेस्तत्प्रत्यासन्नत्वेन कारणत्वात्तत्वं बोध्यम्। नन्वाकाशस्य विभुत्वेन सार्वदिकतत्प्रत्यक्षापत्तिरिति चेत्तत्राह—निमित्तमित्यादि। द्वितीय इति। विभागजे इत्यर्थः। वंशदलाकाशविभागइत्यादि। वंशदलाभ्यामाकाशविभाग इत्यर्थः। संश्लिष्टावच्छिन्नस्येदानीं दलद्वयावच्छिन्नत्वात्। नतु वंशदलाकाशयोर्विभाग इत्यर्थः। विभुत्वानुपपत्तेरितिभावः। पूर्वपूर्वशब्द इत्यादि। इदं वीचीतरङ्गन्यायेन शब्दसाक्षात्काराङ्गीकगारेण। प्रत्यक्षसिद्धत्वसूचनायेति। मानसिकप्रत्यक्षविषयत्वद्योतनायेत्यर्थः। स्वरूपकथनमिति। न मतु व्यावर्तकमिति भावः। संस्कारस्य त्रिविधत्वादिति। वेगत्वभावनात्वस्थितिस्थापकत्वधर्मैरिति भावः। सोऽममित्यादि। तच्छब्दस्य बुद्धिविशेषविषयत्वोपलक्षितनानाधर्मावच्छिन्ने शक्तिः। बुद्धिविषयत्वस्य बुद्धिविषयनानाधर्मानुगतधर्मत्वेनानुगमकरूपत्वेनैकत्वान्न नानार्थत्वम्। उपलक्षितत्वोक्त्या नानाधर्माणां न शब्दविषयत्वम्। तथाच तच्छब्देन तत्तद्देशकालवृत्तित्ववतो बोधः। इदमः सन्निकृष्टे शक्तिः। तथाच सन्निकृष्टे इदम्पदवाच्ये तच्छब्दवाच्याभेदान्वयबोधात्प्रत्यभिज्ञायां तत्तासंस्कारजन्यत्वमावश्यकम्। अन्यथाऽभेदानुपपत्तिः। अभेदस्य धर्मैक्यज्ञानमूलकधर्मैक्यबोधकत्वात्प्रत्यभिज्ञायामतिव्याप्तिरिति भाव इत्यलम्॥ भक्षितेऽपिलशुनन्यायेनाक्षिपति—यद्यपीति। चक्षुराद्यजन्यत्वे सतीत्यादि। अत्राव्याप्तिवारणतात्पर्यानुपपत्तिमूलिकोक्तार्थे मात्रपदस्यलक्षणेति भावः। यत्त्वत्र केचिद्घटगोचकस्मृतिं प्रति घटगोचरज्ञानत्वेनैव हेतुत्वे सम्भवति घटगोचरसंस्कारत्वेन संस्कारस्य हेतुत्वाङ्गीकारे मानाभाव इत्याहुस्तन्न विचारसहम्। घटविषयकनिर्विकल्पकज्ञानादपि स्मरणापत्तेः । सविकल्पकत्रानत्वेनैतद्वारणेऽपि द्रव्यत्वेन प्रमेयत्वादिना वा घटादिज्ञानात् घटत्वेन स्मरणापत्तिः। घटत्वेन ज्ञानस्य घटत्वेन स्मृतिहेतुतामाश्रित्य वारणं त्वसम्भवि। घटत्वेन पटादिभ्रममादाय घटत्वेन घटस्मरणापत्तेरप्रच्युतत्वाद्घटत्वेन घटस्मरणं प्रति घटत्वेन घटज्ञानस्य हेतुतावाच्या, स्वजन्यसंस्कारप्रत्यासत्त्या। एवं च तथाविधसंस्कारत्वेन तथाविधस्वृतित्वेन तयोः कार्यकारणभावः पर्यवसन्नस्तेन न पूर्वोक्तदोषावसरः। नचोपेक्षाज्ञानात्स्मरणापत्तिः । उपेक्षान्यज्ञानत्वेन हेतुत्वकल्पनादिति चेन्न। उपेक्षान्यत्वस्य दुर्वचत्वात्। नचोपेक्षात्वं जातिः। चाक्षुषत्वादिना साङ्कर्यात्। नापि संस्काराजनकत्वम्। उपेक्षाज्ञानव्यावृतसंस्कारजनकतावच्छेदकधर्माभावात्। नच ज्ञाननिष्टतत्तव्द्यक्तिव्तं संस्कारजनकतावच्छेदकं, तादृशजनकतासम्बन्धेन संस्कारवदन्यत्वमेवोपेक्षात्वम्। तथाच तादृशसम्बन्धेन संस्कारवत्त्वेनैव हेतुत्वं पर्यवसितमिति वाच्यम्। अनुगतजनकताकूटघटितत्वेन कारणतावच्छेकस्याननुगमात्। अतोऽनायत्या प्रातिस्विकेनैव रूपेणोपेक्षात्मकज्ञानव्यक्तीनां भेदकूटः कारणतावच्छेदककूटे निवेश्यते। तेन संस्कारं प्रति स्मृतिजनकत्वेन जनकत्वे ज्ञानस्य स्वृतिजनकताज्ञानाधीनं संस्कारजनकताज्ञानं, संस्कारजनकताज्ञानाधीनमेव स्वजन्यसंस्कारसम्बन्धेन स्मृतिजनकताज्ञानमित्यन्योन्याभावाश्रयप्रसङ्गोऽपि नेति दिक्। केचित्त्वनुसम्भवध्वंसस्य व्यापारत्वेनैव निर्वाहे संस्कारो नावश्यकः। नच स्मृतिप्रतिबन्धकत्वापत्तिः, कारणीभूताभावप्रतियोगिन एव प्रतिबन्धकत्वादिति वाच्यम्। संसर्गाभावत्वावच्छिन्नायाः अभावत्वावच्छिन्नाया वा जनकतायाः प्रतियोगितावच्छेदकत्वसम्बन्धेनावच्छेदको यो धर्मस्तदवच्छिन्नस्य प्रतिबन्धकपदार्थत्वात्। अत्र चाभावत्वेनाजनकत्वादितित्याहुस्तन्मन्दम्। संस्कारानभ्युपगमे उपेक्षात्मकज्ञानात्स्मरणापत्तेरुक्तदोषस्य दुर्निवारत्वात्। एवं विपरीतज्ञाननाश्यतयापि संस्कारोऽनुभवसिद्धः। अन्यथा विपरीतज्ञानोत्तरमपि अनुभवध्वंससत्त्वेन स्मरणापत्तेः। मम तु विपरीतज्ञानेन संस्कारनाशात्संस्काररूपकारणविरहादेव स्मरणवारणादित्यलम्। उपकाराय विवृणोति—मूलेत्यादि। सप्तम्यर्थः तद्वत्प्रकृतिकसप्तमीलक्ष्यार्थः तद्वद्विंशेष्यित्वं तद्वन्निष्ठविशेषणतानिरूपितविशेष्यताश्रयत्वम्। एतच्च ज्ञानवृत्त्यत आह—आश्रयतासम्बन्धेनानुभवान्वयीति। तत्प्रकारकत्वमित्यत्र तच्छब्दार्थ घटत्वादिः प्रकारः विषयितासम्बन्धेन स प्रकारो यस्मिन्स तत्प्रकारकस्तस्य भावस्तत्प्रकारकत्वम् तदाश्रयश्चानुभवान्वयीति बोध्यम्। तत्पदार्थः प्रकार इति पूर्वोत्तरतत्पदार्थ इत्यर्थः । तद्वत्त्वमित्यादि। तद्वत्त्वं प्रकारतावत्त्वं प्रकारतावच्छेदकसम्बन्धेन। येन सम्बन्धेन प्रकारः विशेष्ये वास्तविकः स सम्बन्धः प्रकारतावच्छेदकः। तेन समवायलक्षणेन ग्राह्यं विशेषणीयमिति समुदितार्थः। तत्फलम् दर्शयति–तेनेत्यादि। तद्विशेष्यकतत्प्रकारकानुभवत्वरूपयथार्थानुभवलक्षणस्य समूहालम्बनात्मकभ्रमेऽतिव्याप्तिमाशङ्कते—नचेति। अतिव्याप्तिमुपपादयति—तत्रेत्यादि। समूहालम्बनात्मकभ्रमश्चेमे रङ्गरजते इति रङ्गत्वरजतत्वोभयप्रकारको रङ्गरजतोभयविश्ष्यकश्च, भ्रमत्वं रङ्गत्वेन मलिनचाकचक्यप्रयुक्तरजतावगाहनात्। रजतत्वेनातिचाकचक्याप्रयुक्तरजावगाहनादिति। अतिव्याप्तिं वारयति–तद्वदित्यादि। तद्धर्मावच्छिन्नविशेष्यतानिरूपितविषयितानिष्ठावच्छेदकतानिरूपितावच्छेद्यतावत्तत्प्रकारकत्वरूपविषयित्वधर्मविशिष्टानुभवत्वरूपानुभवार्थं विवक्षणेनादोषादुक्तसमूहालम्बनात्मकभ्रमेऽतिव्याप्तिदोषाभावादिति समुदितार्थः। स्पष्टप्रतिपत्तये विवक्षितार्थतात्पर्यं समूलकत्वेन विशदयति–तथाहीति। उक्तार्थविवक्षयाऽतिव्याप्तिवारणं विशदयति–दर्शितेत्यादिना। एतत्फलमिति। यथार्थलक्षणेऽनुभवत्वविशेषणफलमित्यर्थः। घटे घटत्वमिति प्रमायाः घटत्ववद्धटविशेष्यकत्वावच्छिन्नघटत्वप्रकारकत्वविशिष्टानुभवत्वेनाव्याप्तिकथनासङ्गतेरव्याप्तिशङ्काशयं वर्णयन् स्वयमव्याप्तिमाशङ्कते—नन्विति। अत्राव्याप्तिवारणाय तद्धतीत्यस्य लक्षणया तत्सम्बन्धनीत्यर्थकत्वं बोध्यम्। तथाच तद्वत्सम्बन्धिविशेष्यकत्वावच्छिन्नतत्प्रकारकत्वविशिष्टानुभवत्वरूपपर्यवसितलक्षणमुक्ताव्याप्तिवारकतया समन्वयति—एवं चेति। अनन्वेवकाराभावे स्मृतेः प्रमात्वे वा हानिरित्याशङ्क्य दोषमाह—स्मृतिकरणस्यप्रमाणान्तरतापत्तेरिति। स्मृतौ करणस्य संस्कारस्य प्रमितिकरणत्वेन पञ्चमतापत्तेरिति हृदयम्॥ अतिव्याप्तिरितीति। अतिव्याप्त्याशयं वर्णयति—संयोगाभाववतीत्यादिना। मूलावच्छेदेन संयोगाभाववति वृक्षे संयोगप्रकारकत्वसत्त्वात् मूलावच्छिन्नकपिसंयोगाभाववान् वृक्षोऽग्रावच्छिन्नकपिसंयोगीति प्रत्ययादिति भावः। मूलोक्तयथाश्रुतार्थविवक्षायामग्रावच्छेदेन कालिकेन संयोगाभावमादाय मूलावच्छेदेन कालिकेन संयोगमादायग्रावच्छिन्नो वृक्षः संयोगाभाववान् मूलावच्छिन्नो वृक्षः संयोगवान् इत्यनुभवयोर्यथार्थत्वापत्तेः। प्रतियोगिव्यधिकरणाभावबोधकसमवायादिसम्बन्धस्फोरकसम्बन्धैक्यघटितं लक्षणं
परिष्करोति—यदवच्छेदेनेत्यादिना। संयोगाभावस्य संयोगावच्छेदकत्वासम्भवात्। तत्फलितमर्थमाह—संयोगेत्यादि। इदमिति। “इदं संयोगि” इति प्रमायामतिव्याप्तिवारकं यदवच्छेदेनेत्याद्यवच्छेदकगर्भं परिष्कृतमयथार्थानुभवलक्षणम्। अव्याप्यवृत्तिसंयोगादिप्रकारकभ्रमानुरोधेनेति। व्याप्यवृत्तिकभ्रमस्य निरवच्छिन्नवृत्तिकत्वात्तदनुरोधेनायथार्थानुभवलक्षणमन्यत्परिष्करणीयमित्याह—व्याप्यवृत्तीत्यादि। तथाहि तत्सम्बन्धावच्छिन्नेत्यादि। तत्सम्बन्धः येन सम्बन्धेन यदभावो वास्तविकः स इत्यर्थः। तथाच समवायसम्बन्धेन रजतत्वाभाववद्रङ्गं तद्विशेष्यकत्वावच्छिन्नं तत्सम्बन्धावच्छिन्नतत्प्रकारताकत्वमित्यन्वयः। अत्रापि तत्सम्बन्धपदेन सम्मवाय एव विवक्षितः। अन्यत्सर्वं पूर्ववत्। विशेष्यित्वप्रकारित्वयोरित्यादि। विशेष्यित्वप्रकारित्वे विषयिताविशेषौ। इमे रङ्गरजते, इत्याकारकप्रमायां समूहालम्बनात्मकप्रमायाम्। नातिव्याप्तिरिति। रजतत्वरजतत्वाभाववद्रङ्गीयविषयतयोः प्रकारताख्यविशेष्यताख्ययोः परस्परं निरूप्यनिरूपकाभावाभावात्तन्निरूपितप्रकारिताविशेष्यताख्यविषयितयोरप्यवच्छेद्यवच्छेदकभावाभावादिति भावः॥ (अथ लोहितवादः) अथ जपाकुसुमसान्निध्यात्स्फटिके लौहित्यप्रतीतेः स्फटिको लोहित इति ज्ञानस्य भ्रमात्मकतया सर्वानुभवविषयत्वात् भ्रमस्याधिष्ठानज्ञाननिवर्त्यत्वस्वाभाव्यात्प्रकृते स्फटिकरूपाधिष्ठानज्ञाने स्फटिको लोहित इति ज्ञानस्य कथं भ्रमत्वमिति चेन्न। आरोप्यमाणधर्मविरुद्धधर्मप्रकारकाधिष्ठानज्ञानस्यैव भ्रमनिवर्तकत्वाच्छुक्त्यादौ नीलपृष्ठत्वादिप्रकारेण शुक्त्यादिज्ञानस्यैव रजतभ्रमनिवर्तकत्वानुभवात्। नच प्रकृत इव शुक्तिरियं रजतमित्याकारकत्वं भ्रमस्य कृतो नेति वाच्यम्। चाकचक्यातिशयेन रजतत्वप्रकारेण शुक्तिविशेष्यकेदं रजतमित्याकारकस्यैवानुभवात्। प्रकृते तु स्फटिकत्वरूपसामान्यधर्मावच्छिन्ने लोहितत्वधर्मप्रकारेण ज्ञानविषयत्वाद्भ्रमत्वानुभवाद्भ्रमस्य केवलं तद्धर्माभाववति तद्धर्मप्रकारज्ञानरूपत्वेनाविशेषात्। नन्वेवमपि स्फटिके जपाकुसुमादिसान्निध्यादिरूपदोषसत्त्वदशायां सत्यपि चक्षुःसंयोगे कुतो न तद्वृत्तिशुक्लपक्षे तद्वृत्तिद्रव्यत्वस्फटिकत्वादाविव द्रव्यसमवेतनिष्ठलौकिकविषयतया चाक्षुषोत्पत्तिः। चक्षुःसंयुक्तसमवायस्याविशेषात्। कुतो वा तादृशदोषविशिष्टस्फटिकमात्रचक्षुःसंयोगदशायां न तत्समवेतगुणावृत्तिरूपत्वगुणत्वसङ्खयात्वादाविव तत्समवेतरूपनिष्ठे शुक्लत्वे शुक्लत्वव्याप्यजातिविशेषे वा लौकिकविषयतया द्रव्यसमवेतसमवेतनिष्ठलौकिकविषयतया वा चाक्षुषोत्पत्तिः। चक्षुःसमवेतसमवायस्याप्यविशेषात्। नच
शुक्लरूपाविषयकशुक्लत्वादिचाक्षुषस्यालीकतया शुक्लरूपविषयकचाक्षुषसामग्रीविरहादेव शुक्लत्वादिचाक्षुषसम्भवेन द्वितीयप्रश्नोऽसङ्गत इति वाच्यम्। तथापि शुक्लत्वादौ तादृशलौकिकविषयतया चाक्षुषसामान्यापत्तेर्दुर्वारत्वात्। शुक्लरूपविषयकचाक्षुषसामग्रीविरहादेव तादृशसामान्यकार्योत्पादसम्भवे रूपत्वगुणत्वसङ्ख्यात्वादेरपि तदानीं तादृशसामान्यकार्यानुत्पादापत्तेरिति। अत्रोत्यते। यदि तदानीं स्फटिकनिष्ठशुक्लरूपस्य न चाक्षुषमिति मतं, तदा द्रव्यसमवेतत्वविशिष्टा वस्तुगत्या द्रव्यससवेतनिष्ठा या लौकिकविषयता तत्सम्बन्धेन चाक्षुषोत्पत्तिम्प्रति स्वाश्रयसमवेतत्वविशिष्टविलक्षणरूपत्वसम्बन्धेन जपाकुसुमादिसान्निध्यस्य प्रतिबन्धकत्वमुपेयं जपाकुसुमसान्निध्यं च लौकिकविषयतासम्बन्धेन जपाकुसुमानिष्ठलौहित्यप्रकारकचाक्षुषभ्रमवत्त्वं स्वाश्रयसमवेतत्वमात्रस्य सम्बन्धत्वे स्फटिकत्वद्रव्यत्वादेः स्फटिकवृत्तिसङ्ख्यापरिमाणादेश्च चाक्षुषं न स्यात्। न स्याच्च जपाकुसुमसान्निध्यदशायां पटादेरपि शुक्लत्वरूपत्वग्रह इति तद्विशिष्टविलक्षणरूपत्वप्रवेशः। वैलक्षण्यं च, स्फटिकरूपमात्रवृत्तिशुक्लत्वव्याप्यजातिविशेषः। सामानाधिकरण्यं वैशिष्ट्यमनयोर्विशेषणविशेष्यभावे विनिगमकाभावेन प्रतिबन्धकाभावाद्वयमिष्यत एव। अथवा एकत्र द्वयमिति न्यायेन स्वाश्रयसमवेतत्वस्य स्ववृत्तिविलक्षणरूपत्वोभयसम्बन्धः। स्ववृत्तित्वं च कालिकविशेषणतासम्बन्धेन। अथ स्फटिकरूपत्वविशिष्टा वस्तुगत्या स्फटिकरूपनिष्ठा वा या लौकिकविषयता तत्सम्बन्धेन चाक्षुषोत्पत्तिं प्रति स्वाश्रयसमवेतत्वसम्बन्धेन जपाकुसुमस्य सान्निध्यप्रतिबन्धकत्वमित्येवोच्यतां लाघवादिति चेन्न। जपाकुसुमादिसान्निध्यदशायां स्फटिकवृत्तिसंयोगादौ तत्सम्बन्धेन चाक्षुषोत्पत्ति प्रसङ्गात्। रूपादिस्थले विषयस्य तत्तव्द्यक्तित्वेन हेतुत्वस्य केनाप्यनभ्युपगमात्। तावता जपाकुसुमादिसान्निध्यदशायां स्फटिकरूपस्य लौकिकविषयतासम्बन्धेन चाक्षुषोत्पत्ति प्रसङ्गस्य दुर्वारत्वात्। नच स्फटिकरूपे लौकिकविषयतासम्बन्धेन चाक्षुषोत्पत्तिं प्रति तादात्म्यसम्बन्धेन स्फटिकवृत्तित्वविशिष्टरूपत्वेन एकत्र द्वयमिति रीत्या स्फटिकवृत्तित्वरूपत्वोभयरूपेण विलक्षणरूपत्वेन कारणत्वान्नाद्यो दोषः। न वा द्वितीयः। स्फटिकेतरवृत्ति लौकिकविषयतासम्बन्धेन चाक्षुषोत्पत्तिं प्रति तादात्म्यसम्बन्धेन स्फटिकवृत्तिरूपत्वेन एकत्र द्वयमिति रीत्या स्फटिकवृत्तित्वरूपत्वोभयरूपेण विलक्षणरूपत्वेन प्रतिबन्धकतया यावद्विशेषसामग्र्यभावादिति वाच्यम्। गौरवापत्तेः। जपाकुसुमसान्निहित स्फटिकमात्रचक्षुःसंयोगदशायां शुक्लत्वव्द्याप्यवैजात्ययोः प्रत्यक्षवारणार्थं तु शुक्लान्यासमवेतजातिप्रत्यक्षं प्रति जपाकुसुमसान्निध्यविशिष्टस्फटिकत्वाभावच्चक्षुःसंयुक्तसमवेतसमवायः पृथक् सन्निकर्षो वा वाच्यः। नच तद्वार्णार्थं तादृशजातिप्रत्यक्षं प्रति स्वाश्रयीभूतस्फटिकसमवेतसमवेतत्वसम्बन्धेन जपाकुसुमसान्निध्यमेव विषयनिष्ठतया प्रतिबन्धकमुपेयतां लाघवादिति वाच्यम्। तथासत्येकस्मिन्स्पटिके जपाकुसुमसान्निध्यदशायां तदसन्निहितस्फटिकसंयोगादेरपि शुक्लत्वादेः साक्षात्कारानुत्पादापत्तेः। नच तथापि जपाकुसुमसन्निहितस्फटिकमात्रसन्निकर्षदशायां शुक्लमात्रसमवेतजातिप्रत्यक्षं मास्तु सामान्यसामग्रीमर्यादया शुक्लत्वादौ द्रव्यसमवेतसमवेतत्वविशिष्टलौकिकविषयतासम्बन्धेन चाक्षुषसामान्यापत्तिर्दुर्वारेति वाच्यम्। शुक्लान्यसमवेतत्वसम्बन्धेन शुक्लान्यत्वेन वा हेतुतया तद्विशेषसामग्रीबाधादेव सामान्यकार्यानुत्पादात्। यदि च जपासन्निहितस्फटिकस्यापि रूपं सङ्गृह्यत एव, परन्तु शुक्लत्वं तव्द्याप्यवैजात्यं च न गृह्यते, तदा तादृशस्फटिकरूपविषयतानिरूपितविषयतासम्बन्धेन चाक्षुषोत्पत्तिं प्रति स्वाश्रयसमवेतसमवेतत्वसम्बन्धेन जपासान्निध्यस्य प्रतिबन्धकत्व पूर्ववत् सामान्यतस्तादृशजातिप्रत्यक्षं प्रति जपासान्निध्यविशिष्टस्फटिकत्वाभाववच्चक्षुःसंयुक्तसमवेतसमवायस्य पृथक् सन्निकर्षहेतुततयोपेयम्। द्रव्यसमवेतसमवेतनिष्ठलौकिकविषयतासामान्येन चाक्षुषापत्तिवारणमपि पूर्ववत्। प्रतिबध्यप्रतिबन्धकभावाच्च न जपासान्निध्यरहितस्फटिकान्तरर्धन्तरसन्निकर्षेणापि तत्सन्निहितस्फटिकरूपे शुक्लत्वतद्वैजात्ययोः प्रत्यक्षम्। नच प्रतिबध्यप्रतिबन्धकभाव एवास्त किं सन्निकर्षकल्पनेन। व्यक्तेर्निर्विकल्पकविषयत्वस्यापि जातिनिरूपिततया निरूक्तप्रतिबध्यप्रतिबन्धकभावेनैव जपासन्निहितस्फटिकमात्रचक्षुःसंयोगदशायां शुक्लत्वादिनिर्विकल्पविषयत्वस्यापि व्युदाससम्भवादिति वाच्यम्। जातिव्यक्तिनिर्विकल्पविषयतयोः परस्परनिरूपितनिरूपकभावे मानाभावात्। किं तु जातिव्यक्त्योरूभयनिष्ठा एकैक निर्विकल्पकविषयता लाघवात्। अकरणस्य च निरूपकत्वात्। नचैवं तद्वति तदनुभवस्तत्प्रमेति लक्षणे “एतच्च निर्विकल्पकसाधारणमिति” मिश्रलेखनविरोधः। तद्वन्निरूपिततन्निष्ठविषयताप्रतियोग्यनुभवस्तत्प्रमेति लक्षणवाक्यार्थादिति वाच्यम्। एतच्च निर्विकल्पकसाधारणं तदप्रकारकज्ञानसाधारणं तद्विशेष्यकतत्संसर्गक इति ज्ञानसाधारणमिति यावत् इति क्रमेण तल्लेखनस्य व्याख्येयत्वात्। प्रकृते पृथक्सन्निकर्षकल्पनाभयेन निरूप्यनिरूपकभावाभ्युपगमेऽपि विना शुक्लान्यसमवेतजातिप्रत्यक्षं प्रति तादृशसममवायस्य पृथक्सन्निकर्षस्य जपानिहितस्फटिकमात्रसन्निहितदशायां सामान्यसामग्रीमर्यादया शुक्लत्वे द्रव्यसमवेतनिष्ठलौकिकविषयतया सामान्येन चाक्षुषापत्तेर्दुर्वारत्वाच्च। जपातादृशजातिनिष्ठविषयतानिरूपितस्फटिकरूपनिष्ठविषयतासम्बन्धेन चाक्षुषोत्पत्तिं प्रत्येव जपासान्निध्यप्रतिबन्धकतया यावद्विशेषसामग्रीबाधेन तदनुत्पादस्य वक्तुमशक्यत्वात्। एतेन विषयनिष्ठदोषान्तः। स्मृतस्येत्यादि। स्मृतस्य स्मृतिविषयस्य उपेक्षानर्हत्वम् उपेक्षाऽयोग्यत्वेन निरूपणविषयत्वं प्रसङ्गः प्रसङ्गरूपा सङ्गतिः तस्यास्तत इत्यर्थः। सामान्यतोऽवगतस्येत्यादि। सामान्यतोऽवगतस्य सामान्यधर्मप्रकारेण ज्ञानविषयस्य विशेषरूपेण विशेषधर्मप्रकारेण प्रतिपादनं सम्भवति अन्यथा तज्जिज्ञासानुदयात्तसम्भव इति भावः। असाधारणत्वनिवेशेन साधारणकारणदिक्कालादृष्टात्मस्वतिव्याप्तिं परिहरति—अनुभवत्वव्याप्येत्यादिना। अनुभवत्वव्याप्यो धर्मः प्रत्यक्षत्वादिरूपस्तद्धर्मावच्छिन्ना या प्रत्यक्षादिरूपा प्रमा यथार्थज्ञानं तत्तद्वृत्तिकार्यतामात्रनिरूपितकारणत्वमित्याद्यर्थः। एतेनेन्द्रियानुमानोपमानशब्दज्ञानानां परस्परव्यभिचारः। व्यापारत्त्वेसतीत्यादि। असाधारणकारणलक्षणशरीर इत्यादिः। चक्षुःसंयोगादाविति। घटचक्षुःसंयोगादावित्यर्थः। शब्दप्रत्यक्षे श्रोत्रस्य व्यापारत्त्वेन करणत्वं व्यवस्थापयति–श्रोत्रेत्यादिना। एवं ह्यत्र क्रमः। आत्मा मनसा युज्यते मन इन्द्रियेणेन्द्रियमर्थेन ततः प्रत्यक्षं, तथाच कर्णशुष्कुल्यवच्छिन्ननभोरूपश्रोतजन्यत्वाच्छ्रोत्रमनःसंयोगस्य, तथा श्रोत्रजन्यशब्दप्रत्यक्षजनकत्वात्तज्जन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारवत्त्वं श्रोत्रे सिध्यतीति भावः। एवंरीत्या शब्दो वा शब्दप्रमायां व्यापारः सम्भवत्येवंरीत्या चक्षुरादीनामपि चक्षुर्मनःसंयोगरूपव्यापारवत्त्वेन चाक्षुषप्रमायां करणत्वं बोध्यमिति निष्कृष्टोऽर्थः. असाधारणकारणपदफलितार्थं निष्कृष्योक्तातिप्रसङ्गं वारयति–यद्वीति। मतान्तरमुपन्यस्यति—व्यापारत्वेनेत्यादि। व्यापारत्वेनोक्तेन्द्रियमनःसंयोगादिकमेव करणपदबोध्यं तन्मते इन्द्रियस्य न करणत्वव्यवहारः। अत्रार्थ एव साधकं वक्ष्यमाणं मूलमित्येतदन्यत्तु प्राचीनाभिप्रायकमिति भावः। अत्रेव नव्यसम्मतमपि सङ्गमयति–अत एवेत्यादिना। अत एव व्यापारत्वेनाभिमतेन्द्रियसंयोगादेः कारणत्वादेव। तच्च लिङ्गपरामर्श इति ग्रन्थेन। तच्च लिङ्गपरामर्शोऽनुमानमित्यन्तेनेत्यर्थः। तच्चागमनं तु लिङ्गपरामर्शः व्याप्तिप्रकारकपक्षवैशिष्ट्यज्ञानं न तु परामृष्यमामं लिङ्गमित्यग्रिमेण परामर्शस्य व्यापारतया व्यापारवदसाधारणकारणं करणमिति करणलक्षणं न मणिकाराभिप्रायकमिति नव्या दीधितिकारादय इति समुदितार्थः। अधिकमस्मदीयेत्यादि। मणिप्रभायामभिनवदीधितिव्याख्यायां चेत्यर्थः। तच्चेत्यादि। तच्च व्यापकत्वरूपनियतत्वं च रासभादेर्न सम्भवति घटान्तरवन्निष्ठात्यन्ताभावप्रतियोगित्वादिति भावः। स्वव्यापकत्वस्येत्यादि। स्वशब्देन कार्यं कार्यव्यापकत्वस्य स्वस्मिन् कार्ये सत्त्वेऽपि तार्ये कार्यस्य तादात्म्येन वृत्तितया तस्य स्वरूपसम्बन्धेन तदत्यन्ताभावविरोधितया व्यापकत्वाक्षतत्वात्स्वस्य स्वकारणत्वापत्त्या पूर्ववृत्तित्वनिवेश इति भावः। कार्याधिकरणे कालिकेन कार्याव्यवहितप्राक्क्षणवृत्तित्वविशिष्टकारणात्यन्ताभावं पुरस्कृत्याव्यापकत्वमाक्षिप्य व्यापक्तवकुक्षिनिःक्षिप्तकार्याधिकरणतायां तत्तत्कार्यतावच्छेदकसम्बन्धाभिनिवेशान्न कारणे कार्याव्यवहितप्राक्क्षणावच्छिन्नाभावप्रतियोगितानवच्छेदकत्वेन व्यापकत्वहानिरिति समुदितार्थः। निबन्धान्तरेष्विति। ग्रन्थान्तरेष्वित्यर्थः। पञ्चविधत्वेऽपीति। येन सह पूर्वभाव इत्यादि भाषापरिच्छेदप्रसिद्धपञ्चप्रकारत्वेऽपीत्यर्थः। त्रिविधेतीति। दण्डत्व–दण्डरूप–आकाश–कुलालजनक–रासभेषु पञ्चसु प्रथमद्वितीययोः प्रथमया तृतीयतुरीययोर्द्वितीयया पञ्चमस्य तु तृतीयया सिद्धेरिति भावः। परन्तु तृतीयान्ययासिद्धेः पञ्चमीत्वेन पञ्चम्यैवेतरसिद्धेः पञ्चम्येवावश्यिकीत्युक्तं द्रष्टव्यम्। (अथ कारणत्ववादः) अत्रेदं विचार्यते–किं तत्कारणत्वं कार्यनियतपूर्ववृत्तित्वं वा -कार्यनियतपूर्ववृत्तिजातीयत्वं वा 2-अनन्यथासिद्धनियतपूर्ववृत्तिजातीयत्वं वा 3-कार्यसहभावे सत्येतदेव वा 4- सहकारिविरहकार्याभाववत्त्वं वा 5-अन्यद्वा। नाद्यः कुम्भकारपितुरपि कुम्भं प्रति कारणत्वप्रसङ्गात्। आकाशादेः कार्यमात्रं प्रति कारणत्वप्रसङ्गाच्च। किं च पूर्ववृत्तित्वं प्रागाभावावच्छिन्नसमयवृत्तित्वम्। तथाच तयोरकारणत्वप्रसङ्गात्। नहि प्रागाभावावच्छिन्नसमये प्रागाभावो वर्तते समये समयो वा। किञ्चैवं घटादिकं प्रति रासभोऽपि कारणं स्यात्। नह्यनादौ संसारे कस्यापि पूर्वं रासभो न वर्तते। अत एव न द्वितीयः। आकाशादेरकारणत्वप्रसङ्गाच्च। नह्याकाशादीनां तज्जाजीयत्वेन कारणत्वम्। एकव्यक्तिवृत्तित्वेन तत्र जातेरभावात्। नच जातीयत्वमुपलक्षणम्। उपाधेरपि तदवच्छेदकत्वाभावात्। नह्याकाशादिकारणत्वं केनाऽप्यवच्छिद्यते। नापि तृतीयः। अनन्यथासिद्धत्वं चान्यथासिद्धिविरहः। तथाचान्यथासिद्ध्यनिरूपकत्वं फलितम्। तच्च न प्रसिद्धान्यथासिद्धिपञ्चकानिरूपकत्वम्। तथा सति उत्तरसंयोगं प्रति विभागस्य हेतुतापत्तेः। एवं प्रतिबन्धकाभावस्य तत्तव्द्यक्तित्वेन हेतुत्वापत्तेश्च। अतः कार्याव्यवहितपूर्वक्षणावच्छिन्नकार्यसमानाधिकरणवृत्तित्वविशिष्टस्य समानाधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य प्रतियोगितानवच्छेदकीभूतो योऽन्यथासिद्ध्यनिरूपकीभूतो धर्मस्तद्वत्त्वम्। अन्यथासिद्ध्यनिरूपकत्वं च यद्धर्मावच्छिन्नं प्रति तद्धर्मव्यापकतावच्छेदकीभूतयद्धर्मावच्छिन्ने प्रामाणिकानां न कारणत्वव्यवहारस्तव्द्यक्तिभेदकूटवत्त्वं विवक्षणीयमेतच्चासम्भवि तावद्भेदकूटविशिष्ट-सापेक्षतयेदृशकारणत्वस्यासर्वज्ञदुर्ज्ञेयत्वापत्तेः।
आकाशादेर्जातीयत्वासम्भवादव्याप्तेश्च। नापि चतुर्थः। कुलालपितुरकारणत्वाय कार्यसहभावेनेति विशेषणम्। तथाच कार्यसहभूतत्वे सति अनन्यथासिद्धनियतपूर्ववृत्तिजातीयत्वं तत्त्वं फलितम्। इत्थं च सहभावस्य कार्यनिष्पत्तेः पूर्वं निरूपयितुमश्कयत्वात्तद्वारणासम्भवादुक्तानुपपत्तेश्चेति। नापि पञ्चमः। इतरसहकारेण कार्यप्रयोजकत्वं फलितम्। अत्रेतरपदेन कार्यभेदविशिष्टविवक्षयात्माश्रयान्योन्याश्रयाभ्यां व्याघातात्। नापि कार्यान्वयव्यतिरेककालपूर्वकालान्वयव्यतिरेकशालित्वरूपषष्टोऽपि। आत्मादौ सुखादिकारणे प्रागाभावरूपव्यतिरेकासम्भवेनाव्याप्तेः। अतः कारणत्वमतिरिक्तमेव वाच्यम्। तच्चावच्छेदकभेदाद्भिद्यते। कारणं कारणमित्याकारकानुगतप्रतीत्यनुपपत्तेरेवमनुगतकारणपदशक्यतावच्छेदकानुपपत्तेश्च। कारणत्वमखण्डोपाधिरूपमनुगतमेवं कार्यत्वमपि कारणत्वप्रतियोगित्वरूपमितिचेत्कारणत्वमपि किं न रोचयेस्तथेष्टापत्तौ अन्योन्याश्रयापत्तेस्तस्मादतिरिक्तमेवोभयमिति ध्येयम्॥ परे तु कारणत्वं नातिरिक्तं किन्तु कारणतावच्छेदकस्वरूपमभेदेऽवच्छेद्यावच्छेदकभावानुपपत्तिपरिहारस्तु एकरूपे तदनभ्युपगमेऽप्यत्र कारणत्वेनावच्छेद्यायाः कारणतायाः अवच्छेदकत्वस्य दण्डत्वेऽभ्युपगमे क्षतिविरहादित्याहुरित्यलम्।(कारणत्ववादः समाप्तः) येन सहैवेत्यादीति। स्पष्टप्रतिपत्तये तत्तत्पदार्थं प्रकाशयति–येनेत्यादिना। यस्य तन्तुरूपस्येति। तन्तुत्वस्येत्यपि बोध्यम्। तन्तुरूपमिति। तन्तुत्वस्याप्युपलक्षणम्। तन्तुसाहित्यम् तन्तुत्वतन्तुरूपयोः कथमित्यत आह–अत्रेत्यादि। तन्तुत्वतन्तुरूपसहितत्वम् तन्तोरेकज्ञानविषयत्वेनैवात्र पूर्ववृत्तित्वमवगम्यत इति स्वरसादिति भावः। अनतिप्रसक्ततन्तुरूपत्वेनैवेति। नत्वतिरिक्तरूपत्वमात्रेणैवेत्यर्थः। एवं यथा तन्तुरूपस्य पटपूर्ववृत्तित्वज्ञानं तन्तुरूपज्ञानविषयकं तद्विषयत्वेन तन्तुरूपमन्यथासिद्धं तथेत्यर्थः। तन्तुविषयकमेवेतीति। तन्तुत्वविशिष्टतन्तुविषयकमेवेत्यर्थः। स्वतन्त्रान्वयव्यतिरेकशालिनेत्याद्यर्थाङ्गीकारे फलान्तरमपि सिध्यतीत्याह—तेनेत्यादि। यथाश्रुते येन सहैव यस्येति पदेन तन्तुत्वेन तन्तुरूपेण सहैव यस्य तन्तोः पूर्ववृत्तित्वमवगम्यत इति तन्तोरन्यथा सिद्धत्वापत्तिः। तथा तन्तुना सहैव तन्तुसंयोगस्य पूर्ववृत्तित्वमवगम्यत इति तन्तुसंयोगस्यापि अन्यथा सिद्धत्वापत्तिर्विनिगमनाविरहान्मूलासङ्गतेर्येयनस्येत्यनयोरूक्तविशेषणाभ्यामेवोक्तयोरन्यथासिद्धत्वपरिहार इति भावः। इतरेत्यादि। इतरपदेन तन्तुत्वादिभिन्नतन्त्वादेर्ग्रहणम्। स्वतोऽन्वयव्यतिरेकविरहवतोऽन्यथासिद्धमिच्छन्तिपरे इत्यर्थः। अन्यत्रक्लुप्तेतीति। अन्यत्रपदार्थं विशदयति–अपाकजस्थल इति। पृथिवीभिन्नस्थल इत्यर्थः। नियतपदं सार्थकयितुमाशङ्कते—अथेति। तृतीयान्यथासिद्धत्वेनेति। मूलोक्तसङ्ख्यापेक्षयाऽस्य
तत्त्वं बोध्यम्। सत्यन्तेनैवेति। कारणलक्षणघटकान्यथासिद्धत्वरूपसत्यन्तेनैवेत्यर्थः। वारणसम्भवादिति। कारणत्वस्येत्यादिः, तेनान्यथासिद्धत्वाभावेन कारणत्वापत्तिवारणाय तदावश्यककमित्यर्थभिसन्धिः(9-गूढोऽभिप्रायः।)। समाधत्ते—घटेत्यादिना। अन्यथासिध्द्यसम्भवादिति। यत्किञ्चिद्घटं प्रति रासभस्य क्लृप्तपूर्ववृत्तित्वात्कारणत्ववारणाय नियतपदनिवेश आवश्यक इति भावः। तथाच तत्त्वं व्यापकत्वं तच्च रासभे घटत्ववन्निष्टाभावप्रतियोगिनि न सम्भवतीति भावः। असम्भवादिति। असम्भवाच्चेत्यर्थः। महत्त्वे इति। शरीरकृतं लघुत्वमित्यनेनान्वयः। प्रतियोगिन इति। प्रागभाव प्रतियोगिन इत्यर्थः। तदुपस्थितेरिति। प्रागभावोपस्थितेरित्यर्थः। तत्तत्प्रागभावस्य स्वप्रतियोग्युत्पत्तिं प्रति हेतुत्वाङ्गीकर्तृमतेनेदम्। दण्डादाविति। आदिना तन्त्वादिसङ्ग्रहः। गुरुत्वादिति। केवलदण्डसंयोगापक्षयेति शेषः। नियतपदमत्रत्यं सार्थकयितुमाशङ्कते–नचेति। अन्यथासिद्धत्वेनैवेति। रासभे शीघ्रोपस्थितत्वरूपलघुत्वाभावादेवेत्यर्थः। समाधत्ते–यत इत्यादिना। अनुगतस्य दुर्वचनतयेति। तत्तदन्यथासिद्धत्वस्य प्रत्येकपर्यवसान्नत्वादिति भावः। भेदप्रतियोगितत्तव्द्यक्तिपरिचायकमिति। भेदकूटरूपान्यथासिद्धत्वपक्षे भेदप्रतियोगिनामन्यथासिद्धत्वव्यवहारविषयाणां स्वाश्रयद्वारा परिचायकं बोधकमित्यर्थः। अनायत्येति। अगत्येत्यर्थः। तेषामपि दण्डत्वादितत्तव्द्यक्तीनां नियतत्वादिति भावः। निवेशनीयमिति। तद्रूपमन्यथासिद्धत्वं वक्तव्यमित्यर्थः। अत्र यद्धर्मत्यादिपरमार्थप्रदर्शनं प्रमेयत्वादिना कार्यकारणभावनिरासायेति ध्येयम्। स्वकार्यकारणेन पटेनेत्यर्थ इति। स्वं तन्तुरूपम्। तस्य यत्कार्यं पटरूपं तस्य कारणं यः पटस्तेनेति समुदितार्थः। ननु निष्प्रकारकमित्यस्य निरूपकतासम्बन्धेन प्राकरताशून्यत्वमात्रलक्षणप्रसक्त्या कथं दीपिकायां विशेष्यादिशून्यत्वेन लक्षणत्रयानुसरणमित्याशयं वर्णयितुमाशङ्कते–नन्विति। तुरीयविषयतानिरूपकस्येति। विशेष्यविशेषणसम्बन्धत्रितयातिरिक्तविषयतानिरूपकस्येत्यर्थः। अयं भावः। निर्विकल्पकज्ञानस्य केवलविषयत्वेन विषयावगाहित्वं न पुनर्विशेष्यत्वादिरूपेण घटघटत्वे इति विशकलिततया तयोस्तद्विषयत्वानुभवादिति। विशेष्यादिविधयेत्यादि। विधाशब्दः प्रकारवचनः। तथाचेदं विशेष्यमिदं विशेषणमयं संसर्ग इत्येवं तत्तद्धर्मप्रकारेण घटघटत्वतत्संसर्गाणामनवगाह्यत्वात्तत्त्वमित्यर्थः। वस्तुतस्तद्विषयाणां तत्प्रकारत्वेऽपि तद्रूपेण नावगाहनं तेषामिति भावः। तथाच फलितार्थमाह–तथाचेति। ज्ञानत्वघटितमित्यादि। ज्ञानत्वे सति विशेष्यतादिशून्यत्वमित्यादि लक्षणत्रयं पर्यवसन्नं फलितमित्यर्थः। ज्ञानत्वमात्रोक्तौ सविकल्पके विशेष्यतादिशून्यत्वमात्रोक्तावज्ञाने निर्विकल्पकत्वव्यवहारप्रामाण्यापत्तेरूभयमिति सङ्क्षेपः। कैचिदुक्तं दूषयितुं तन्मतमुपन्यसति—केचित्त्विति। तदेवाशङ्कते—नन्विति। प्रकारता चेत्यादि। प्रकारताभासमानप्रतियोगिवैशिष्ट्यप्रतियोगित्वम्। भासमानं प्रतीयमानं वैशिष्ट्यं संसर्गस्तत्प्रतियोगित्वं तद्विशेषेषणत्वमित्यर्थः। विशेष्यविशेषणभावस्य संसर्गत्वाभ्युपगममते प्रकारस्यापि संसर्गावच्छिन्नविषयत्वात्तद्वृत्तिधर्मस्य प्रकारतारूपस्य संसर्गावच्छिन्नविषयतारूपत्वं तेनैव रूपेण लाघवाल्लक्षणं संसर्गानवगाहिज्ञानत्वं संसर्गताशून्यज्ञानत्वमास्तामित्युक्तम्। मूलं तु संसर्गस्य विशेष्यताप्रकारताभेदेन भेदसूचनायेति तद्धृदयं बोध्यम्। एतद्दूषयति–तच्चिन्त्यमिति। अतिविलक्षणविषयतात्मकत्वेनेति। अतिरिक्तविलक्षणविषयतारूपत्वेनेत्यर्थः। गौरवानवकाश इति। त्वदुत्प्रेक्षितार्थलाघवे युक्त्यभावादिति भावः। निर्विकल्पकस्यातीन्द्रियतयेति। इन्द्रियजन्यज्ञानाविषयतयेत्यर्थः। ननु ज्ञानमात्रं न ज्ञानविषय इति चेन्न। व्यवसायात्मकज्ञानस्यानुव्यवसायात्मकप्रत्यक्षज्ञानविषयत्वात्। नचैवमप्यत्र प्रत्यक्षं प्रमाणमित्याह—निर्विकल्पकस्येत्यादि। विशिष्टज्ञानत्वादितीति। गौरित्यादिविशिष्टबुद्धौ विशेषणज्ञानजन्यत्वस्य साध्यतयैतत्पूर्वं विशेषणज्ञानस्यावश्यकतया विशेषणज्ञानविशिष्टज्ञानयोः कार्यकारणभावः सिद्ध इति बोध्यम्। नन्वेवं सति व्याहृतं तस्य निष्प्रकारकत्वमिति चेन्न उक्तोत्तरत्वात्। सविकल्पके तु विशेष्यादिविधया विशेष्यादीनां विषयत्वमिति विशेषः। अत्राप्युक्तरीत्येत्यादि। सविकल्पकेऽपि यथा निर्विकल्पके विशेष्यादिप्रत्येकानवगाहित्वेन लक्षणत्रयं त्रित्वसङ्ख्याविशिष्टलक्षणं बोध्यमित्यर्थः। मूलोक्तक्रममादायात्मनोबाह्येन्द्रियविषयत्वेन तत्साधारण्येन प्रत्यक्षनिरुक्तेन्यूनतापरिहाराय तदाशयं योजनान्तरपुरस्करेण वर्णयति-आत्मेत्यादि। आत्ममनःसंयोगमात्रमात्मप्रत्यक्षे हेतुः। आत्मसुखादिप्रत्यक्षे संयुक्तसमवाय इत्यादि पूर्ववत्॥ उक्तन्यायाभ्यां शब्दच्छब्दान्तरोत्पत्तिमाक्षिपति—नचेति। अतिप्रसङ्गभङ्गायेति। ग्रामान्तरस्थाशब्दप्रत्यक्षवारणायेत्यर्थः। दूरस्थशब्देऽभावादिति। अतोहेतोस्तन्नययाभ्यां शब्दच्छब्दान्तरोत्पत्तिक्रमेण तच्छब्दस्य श्रोत्रसमवायाच्छब्दप्रत्यक्षमितिभावः। तदंशेऽपि साम्यम्मित्यादि। वीचीतरङ्गन्यायसिद्धांशेऽपीत्यर्थः॥ अपिस्त्वर्थे। सर्वदिगवच्छेदेन युगपच्छब्दोत्पत्तिमात्रेण क्रमिकोत्पत्तावित्यर्थः। न विषयतारूप इति। सम्बन्धानवगाहितया विशिष्टबुद्धेरनुत्पत्तेरापत्तेरिति भावः॥ संयुक्तविशेषणतात्वादिरूपेणेति।समवेतविश्षणतात्वादिरूपेणेत्यादिशब्दार्थः। घटे पटाभाववद्धटरूपे पटरूपाभाव इत्यादि द्रष्टव्यम्॥ अनतिप्रसक्तरूपेणैवेति। संयुक्तविशेषणतात्वस्य “भूतलं घटवत्” इतिबोधीयघटवृत्तिविशेषणतायामतिप्रसक्तत्वादिति भावः॥ न षड्विधत्वहानिरिति। अन्यथाधिकसङ्ख्याप्रसक्तेरिति भावः। प्रतिबन्दिदोषमाशङ्कते–नचैवमिति। स्वतन्त्रेच्छस्येत्यादि। “स्वतन्त्रेच्छस्य मुनेर्नियोगप्रत्य(पर्य)नुयोगानर्हत्वादि"ति न्यायस्वरूपम्। तदनुसारेण संयुक्तसमवायादीनां भेदमाश्रित्य षड्विधत्वरूपदोषभावादिति समुदितार्थः। अभावेत्यादि। प्रत्यक्षत्वावच्छिन्नं प्रति षड्विधसन्निकर्षस्य हेतुत्वादभावप्रत्यक्षस्य विशेष्यविशेषणभावसन्निकर्षेणोदयात्प्रत्यक्षातिरिक्तप्रमाणत्वमुपलब्धेर्निरस्तमिति भावः। अनुपलब्धेः प्रमाणान्तरत्वमावश्यकमित्याशङ्कते–नन्विति। अनुपलब्ध्यात्मकप्रमाणान्तराभावादिति। अन्यत्प्रमाणं प्रमाणान्तरं प्रत्यक्षादिचतुष्ट्यप्रमाणभिन्नं प्रमाणं तदभावादित्यर्थः। परिजिहीर्षुरित्यादि। परिहर्तुमिच्छुः। योग्यानुपलब्धेः। योग्या चासावनुपलब्धिः। अनुपलब्धौ योग्यत्वविशेषणमन्धकारस्थ घटस्य घटो नास्तीति प्रमात्मकाभावप्रत्यक्षवारणाय। इन्द्रियसहकारित्वामात्रेणैव। न केवलमनुपलब्ध्या। अन्यधान्धस्यापि घटसत्त्वदशायां घटानुपलब्ध्या घटो नास्तीत्यभावप्रमाप्रत्ययानुत्पत्तेस्तदावश्यकत्वात्. अतिरिक्तप्रमाणत्वम्। प्रत्यक्षादिप्रमाणचतुष्टयभिन्नप्रमाणत्वं योग्यानुपलब्धेरित्यनेनान्वयः। असम्भवि अनावश्यकत्वादिति समुदितार्थः। तर्कस्येति। तत्कोटिपर्यवसायित्वमित्यनेनान्वयः। आपादकेत्यादि। आपादकस्य दर्शनापत्तिसम्पादकघटास्तित्वत्वा भावसाधको दर्शनाभावन्नास्तीति यो विपर्ययस्तत्प्रतियोगिदर्शनाभावरूपविपर्ययप्रतियोगि यद्दर्शनं तस्यापाद्यरूपं विपर्यये दर्शनाभावान्नास्तीति व्यत्यासरूपे तत्कोटिपर्यवसायित्वं नास्तित्यभावकोटिपर्यवसायित्वं तर्कस्य दर्शयतीति समुदितार्थः। यथाश्रुतेऽन्यदर्शनाभावोऽन्यसत्ताभावे हेतुः स्यादत आह—तदित्यादि। तर्किकेति। तर्कश्चापादनं क्तार्थो ह्याश्रयस्तथाचापादनाश्रय इत्यर्थस्तदेतदाह—आपादितेति। इदमप्युपलब्धावेवान्वेति। उपलब्धेरनाहार्यत्वसूचनायेति। अयं भावः। प्रतियोगिसत्त्वदशायामाहार्यानुपलब्ध्या प्रागाभावज्ञानानुत्पत्तेस्तदावश्यकमिति। योग्यानुपलब्धिरिति। अनुपलब्धौ योग्यत्वं च चाक्षुषविषयत्वं, तच्चालोकसम्भवेऽसम्भवि, अतोऽन्धकारे घटानुपलब्ध्या न वास्तविकमभावप्रत्यक्षमिति तत्त्वम्। न तत्र घटाभावप्रत्यक्षमिति। तत्र भूतले घटाभावप्रत्यक्षं नानुपलब्ध्या वास्तविकमित्यर्थः। अन्यथान्धकारेऽप्यनुपलब्धेः सत्त्वाद्धटो नास्तीति घटाभावप्रत्ययस्य सर्वानुभवसिद्धत्वाद्विरुध्येतेति भावः। नत्वितरकारणविरहप्रयोज्य इति। इतरकारणमालोकस्तद्विरहप्रयोज्याऽनुपलब्धिरभावप्रत्यक्षे न तु कारणमित्यन्वितोऽर्थः। अत एवेत्यादि। प्रतियोगिसत्त्वविरहप्रयोज्योपलब्ध्यभावस्याभावप्रत्यक्षहेतुत्वाङ्गीकारादेव। अन्धकारे। आलोकासत्त्वे। उपलम्भाभावसत्त्वेऽपि। भ्रमात्मकघटविषयकज्ञानासत्त्वेऽपि। न घटाभावप्रत्यक्षम्। न वास्तविकघटप्रतियोगिकाभावधीरिति समुदितार्थः।
गोरवमाशङ्कते मीमांसकः—नन्विति। विजातीयप्रमितिकरणत्वमिति। विजातीयायाऽभावप्रमितिः। यथार्थज्ञानं तत्करणत्वकल्पनं विजातीयप्रमाणान्तरकल्पने नानुचितमित्यर्थः। अभावाधिकरणप्रत्यक्षे इन्द्रियव्यापारस्यावश्यकतया तेनैवाभावप्रत्यक्षमनुपलब्धेः सहकारित्वकल्पनं यतो नोपलभ्यतेऽतो नास्तीत्यक्षिमतां सर्वेषां प्रमानुभवसिद्धत्वादनक्षिमतां तु भ्रम एवेति निष्कर्षः। सम्बन्धस्य विशिष्टबुद्धिनियामकत्वाद्धटाभाववद्भूतलमित्यभाववैशिष्ट्यावगादिबोधोपयोगितया विशेष्यविशेषणभावरूपः अतिरिक्तः कल्पनीय इत्याशयेनाशङ्कते–नन्विति। विशेष्यविशेषणभाव इतीति। विशेषणस्वरूपो विशेष्यरूपो वा विशेषणयोर्विंशष्टबुद्धिनियामकः स्वरूपनामा सम्बन्धः कल्पनीय इति भावः। परन्तु विशिष्टबुद्धेस्त्रितयावगाहित्वं नोपपद्यते परेषामपि सम्बन्धानामेतत्तौल्यं चापद्यत इति चिन्तनीयम्। तत्रेति। त्रिविधप्रत्यासत्तावित्यर्थः। सामान्यलक्षणा तु धूमत्वादिरूपेत्यादि। आदौ लक्षणशब्दः स्वरूपबोधकः। द्वितीये लक्षणशब्दो विषयबोधकः। पूर्वत्रारुचिस्तु धूमत्वाद्यविदुषोऽपि स्वरूपतो धूमत्वादिप्रत्यासत्त्या धूमा इत्येवं यावद्धूमज्ञानापत्तिर्बोध्या। सामान्यलक्षणाङ्गीकारे बीजं तु पर्वते धूमदर्शनानन्तरं धूमो वह्निव्याप्य इति निश्चयः। एतस्य फलं चैकस्मिन्घटत्वे ज्ञाते देशान्तरस्थकालान्तरस्थघटानां तेन रूपेण ज्ञानं चाक्षुषं विनापीति ध्येयम्। सौरमेणेति। सहार्थयोगे तृतीया। योग्यसन्निकर्षाभावादिति। रूपिद्रव्यस्यैव चक्षुषः सन्निकर्षयोग्यत्वनियमादिति भावः। प्रत्यक्षे इति। मानप्रत्यक्षं इत्यर्थः। योगजधर्म इति। योगश्तित्तवृत्तिनिरोधस्तेन परमेश्वरोपासनया प्राप्तसर्वज्ञात्वादिलक्षण इत्यर्थः। सङ्क्षेप इति। स्रवतन्त्रस्वतन्त्राणां शास्त्रान्तरीयानेकार्थलेखनमभीप्सितमपि प्रेक्षावतां व्यामोहाभावाय सङ्क्षोपतः स्वरूपलेखनमिति तात्पर्यार्थः।
इति तर्कसङ्ग्रहदीपिकाप्रकाशव्याख्यायां भास्करोदयाख्यायां भगवदर्पितायां प्रत्यक्षपरिच्छेदः समाप्तः॥ शुभमस्तु॥ श्रीमुकुन्दो विजयते॥
अथानुमानखण्डम्।
अनुमानं लक्षयतीति। पूर्वोत्तरग्रन्थयोः सङ्गत्यप्रदर्शनमूलकन्यूनतापरिहारायतामाह —प्रत्यक्षेत्यादिना। उपजीवकत्वं कार्यत्वमेव तेन कार्यज्ञानस्य कारणज्ञानोत्तरकालिकत्वेन लिङ्गपरामर्शरूपानुमानं प्रति इन्द्रियरूपधूमप्रत्यक्षस्योपजीव्यत्वात्प्रत्यक्षनिरूपणानन्तरानुमाननिरूपणे उपजीव्योपजीवकभावसङ्गतिरिति फलितम्। एतेनानुमानं निरूप्य प्रत्यक्षं किं न निरूपितमिति केषाञ्चिच्छङ्का परास्ता। लक्षदर्शनाङ्कनयोरिति दर्शनार्थकलक्षधातोर्न सामान्यदर्शनार्थकत्वं शब्दशक्तिस्वाभाव्यादपि तु लक्षणस्वरूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगार्थकत्वम्।
एतेनानुमानविषयकलक्षणस्वरूपप्रामाण्यप्रकारकज्ञानाननुकूलवर्तमानकालिकशब्दप्रयोगानुकूलकृत्याश्रयकत्वाश्रयवदभिन्नो मूलकार इति बोधः.। अत एव मणिकाराः पूर्वापरग्रन्थैकवाक्यत्वप्रतिपत्तये सङ्गतिं प्रदर्शयन्तः शिष्यावधानायानुमाननिरूपणं प्रतिजज्ञिरे प्रत्यक्षेत्यादिना। सङ्गतित्वं चानन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयत्वम्। अस्ति च प्रकृते कार्यत्वे अनन्तरं प्रत्यक्षनिरूपणानन्तरं यदभिधानम् अनुमानाभिधानं तत्प्रयोजिका या जिज्ञासा प्रत्यक्षकार्यं किमेतदिति प्रत्यक्षनिरूपितकार्यविषयकज्ञानेच्छा तज्जनकं यत्कार्यज्ञानं तद्विषयः कार्यरूपस्तस्मिंस्तत्त्वमेवं सप्रसङ्गादिषड्विषयेषु सङ्गमनीयम्। “सप्रसङ्ग उपोद्धातो हेतुताऽवसरस्तथा। निर्वाहकैककार्यत्वे षोढा सङ्गतिरिष्यते”। इत्यत्र हेतुतापदमजहत्स्वार्थवृत्त्या कार्यत्वकारणत्वान्यतररूपेण तदुभयपरमिति नाधिक्यमिति भावः। उक्तरूपं च विभाजकमात्रमतस्तेन रूपेण कार्यत्वादेर्जिज्ञासाजनकज्ञानविषयत्वेऽपि न क्षतिरिति ध्येयम्। स्मृतस्योपेक्षानर्हत्वमिति हि प्रसङ्गलक्षणम्। स्मृतस्य अभिहितवस्तुसम्बन्धित्वेन स्मृतिविषयस्य न यथाकथञ्चित्। उपेक्षानर्हत्वं निरूपणयोग्यत्वपर्यवसितं प्रसङ्गनिर्वाहकमिति तदर्थः। विशिष्येण स्मृतस्य वस्तुनो विशेषणजिज्ञासाबोधने गुरोरभिधानयोग्यं तद् वस्तु भवति। यथा—सपरिकरहेतुसम्बन्धितया स्मृतस्य तदाभासहेतोर्निरूपणं प्रसङ्गनिर्वाहकं। अभिहितवस्तुसम्बन्ध उपोद्धातादिभिन्न एव ग्राह्यः। तथाचोपोद्धातभिन्नः अनन्तराभिधानप्रयोजकजिज्ञासाजनकज्ञानविषयः सप्रसङ्ग इति फलितम्। उपोद्घातः। प्रकृतोपपादकत्वम्। तदुक्तम्–“चिन्तां प्रकृतसिद्ध्यर्थामुपोद्धातं विदुर्बुधाः” इति। प्रकृतसिद्ध्यर्थामभिहितसिद्धिफलकां किमुपपादकमिति जिज्ञासाजनकस्मृतिरूपां चिन्तामुपोद्धातसङ्गतित्वनिर्वाहिकां विदुरित्यर्थः। तादृशस्मृतिमादायैवोपपादकत्वे सङ्गतिलक्षणसमन्वयादिति भावः। यथानुमानप्रमाण्यबोधकेऽनुमाने व्याप्तिविशिष्टपक्षधर्मज्ञानजन्यज्ञानत्वरूपे व्याप्तिस्वरूपोपपादकत्वे व्याप्तेः स्वरूपाज्ञानात्कथं
व्याप्तिविशिष्टाद्यनुमानरूपप्रामाण्यबोधकानुमानेन प्रामाण्यसिद्धिरित्येवं चिन्तामादाय सङ्गतित्वम्। हेतुता। कारणता यथा प्रकृते लिङ्गपरामर्शात्मकानुमानकार्यकारणतेन्द्रियात्मकप्रत्यक्षे प्रकृतैव यतः सर्वचानुमितिकरणमिन्द्रियापेक्षोत्पत्तिकम्। अवसरः। अवश्यवक्तव्यत्वम्। यथा प्रत्यक्षनिरूपणानन्तरमुपमाननिरूपणे प्रादर्शि मणिकारः स्वयं “बहुवादिसम्मतत्वादि"ति मणिग्रन्थेन। तदित्थम्। अनुमानस्य बहुवादिसम्मतत्वेन निरसनीयाल्पवादिप्रतिपत्तिकतया बहुतरसुखजनकप्रतिपत्तिकत्वादत्रैव प्रथमं व्युत्पित्सोर्जिज्ञासानतूपमाने तस्याल्पवादिसम्मतत्वेन निरसनीयबहुवादिप्रतिपत्तिकतया बहुतरदुःखानुबन्धिप्रतिपत्तिकत्वात्। तथा चानुमाने प्रथममुत्पन्नायाः
प्रतिबन्धकीभूतशिष्यजिज्ञासायास्तन्निरूपणेन निवृत्ताववश्यवक्तव्यत्वरूपावसरसङ्गत्या उपमाननिरूपणमिति। पञ्चम्यर्थस्य ज्ञानजन्यप्राथमिकजिज्ञासाप्रयोज्यत्वरूपस्योपमानात्प्राक् निरूपणान्वयितयोपमाननिरूपणावधिकपूर्वकालिकानुमाननिरूपणं निरसनीयाल्पवादिप्रतिपत्तिकतया बहुतरसुखापत्तिकतया च प्रत्यक्षज्ञानजन्यशिष्यसमवेतप्राथमिकजिज्ञासाप्रयोज्यमिति बोध इति। निर्वाहकत्वम्। एकनिर्वाहकनिर्वाह्यत्वम्। तदन्यत्वे सति तन्निर्वाहकनिर्वाह्यमिति यावत्। एककार्यत्वम्। एकं कार्यं यस्येति व्युत्पत्त्या एककार्यकारित्वं तदन्यत्वे सति तत्प्रयोज्यकार्यप्रयोजकत्वमिति यावत्। यथा–सद्धेतुनिरूपणानन्तरमसद्धेतुनिरूपणे प्रमितकोटिनिश्चयरूपतत्त्वनिर्णयकार्यप्रयोजकत्वं तत्र व्याप्त्यादिविशिष्टहेतुज्ञानमिव विरोधिकोटिसाध्यकस्य दुष्टत्वज्ञानमुपयुज्यते प्रतिबन्धकविपरीतकोटिव्याप्यवत्ताज्ञाने अप्रमाण्यग्राहकत्वादिति सदसद्धेतोर्वस्तुतत्त्वनिर्णयरूपैककार्यप्रयोजकत्वमिति स्फुटम्। ननु निर्वाहकैककार्यत्वयोः फलतस्तौल्यात्षोढा विभागसङ्गतिरिति चेन्न। कारणद्वयनिरूपिताकार्यत्वं पूर्वविषयः। प्रयोजकद्वयकार्यत्वं परविषय इति न विभागानुपपत्तिरित्यलं विस्तरेण। तथाचेति। परामर्शजन्यं ज्ञानमनुमितिरिति परामर्शजन्यत्वेनानुमितेर्लक्षितत्वे चेत्यर्थः। प्रत्यक्षप्रमित्यपेक्षयामुमितेर्विलक्षणप्रमितित्वेनेति। प्रत्यक्षानुमित्योः परस्परं परामर्शेन्द्रियजन्यत्वाभावादिति भावः। प्रमाणान्तरत्वमिति। विलक्षणप्रमितिकरणतावच्छेदकधर्मवत्त्वेनेत्यर्थः। अतो न “प्रत्यक्षानुमानोपमानशब्दाः प्रमाणनी"ति सूत्रविरोध इति भावः। विरोधिकोटिद्वयावगाहिसंशयस्य परस्परं प्रत्यक्षप्रतिबन्धकत्वेन प्रत्यक्षस्यैवासम्भवात्संशयोत्तरप्रत्यक्षे परामर्शजन्यत्वरूपानुमितिलक्षणानतिचारात्। तदतिचाराशङ्कामवतारयति—विपरीतेत्यादिना। विपरीतज्ञानं विरुद्धकोटिद्वयावगाहिज्ञानं तच्च पुरोवर्तिनि वस्तुनि पुरुषत्वतद्विरुद्धस्थाणुत्वोभयरूपं यत्कोटिद्वयं तदवगाहिप्रकारत्वेनेवेति विशेषः। तद्धर्मप्रकारकैकधर्मिविशेष्यकं ज्ञानमिति यावत्। अथवा विरोधिकोटिद्वयं स्थाणुत्वतदभाव–पुरुषत्वतदभावोभयरूपम्। तत्प्रकारकसंशयश्च परस्परं पुरुषत्वव्याप्यकरचरणादिमत्त्वलिङ्गेन स्थाणुत्वव्याप्यवक्रकोटरत्वादिमत्त्वलिङ्गेन च भवति। तदुत्तरं यत्प्रत्यक्षं पुरुषोऽयमिति रूपं तत्प्रति विशेषदर्शनस्य यत्किञ्चित्पुरुषसम्बन्धिचलनादिविशेषदर्शनस्य हेतुत्वमिति समुदितार्थः। इदमिति। इदं स्थाणुपुरुषसंशयात्मकं ज्ञानमित्यर्थः। भावद्वयेत्यादि। दर्शितोऽयमर्थोऽर्वाक्। आहुरिति। धर्मयोः परस्परं भेदवत्त्वेऽपि नोभयभेदप्रकारकसंशयोझटित्यनुभूतिभुवनमध्यारोढुमर्हतीत्यरुचिबीजमुद्ग्रावनीयम्।
निर्णयसूचनायेति। निर्णयो हेतुविशेषदर्शनमेवेति प्राक्तनं स्मर्तव्यम्। अनुव्यवसायविरोधादितीति। प्रमाणसिद्धानुव्यवसायविरोधादित्यर्थः। अस्मदीयानुव्यवसायविप्रतिपक्षप्रतिपत्तिकतया त्वदभिमतोऽनुव्यवसायो न प्रमाणसिद्ध इत्यर्थतात्पर्येणेदमुपलक्षणमित्याह। इयमेवार्थमभिव्यनक्ति—-प्रमाणाभावादिति। संशयोत्तरप्रत्यक्षे जननीयेऽतिव्याप्तिवारणाय परामर्शस्य पक्षतासहकारेण हेतुत्वविवक्षा, आहोस्वित् संशयोत्तरप्रत्यक्षानन्तरमतिव्याप्तिवारणाय पक्षतासहकृतपरामर्शजन्यत्वविवक्षेत्यालोच्च प्रत्यक्षे जननीये प्रत्यक्षोत्पत्तिप्रागाभावक्षणावच्छेदेन परामर्शस्य पक्षतासहकारित्वेऽपि नातिव्याप्तिनिरासः फलम्। सिद्धेरसत्त्वात्सिषाधयिषायाश्च सत्त्वादसत्त्वाद्वातदुत्तरं तु सिद्धेः सत्त्वात्सिषाधयिषायाश्चाऽसत्त्वान्नाव्याप्तिरित्याशयेन पक्षतेत्युपसंहारग्रन्थमवतारयति—संशयेत्यादिना। संशयेत्तरप्रत्यक्षे स्थाणुत्वपुरुषत्वोऽभयप्रकारकसंशयानन्तरं जायमानं विशेषदर्शनजन्यं यत्प्रत्यक्षं पुरुषत्वधर्मप्रकारकं पुरुषविशेष्यकं प्रत्यक्षं तस्मिन् जननीये उत्पादनीये वक्ष्यमाणपक्षतयाः
सिषाधयिषेत्यादिसिद्धान्तपक्षतायाः परामर्शसहकारित्वेऽपि परामर्शसहकारेण कारणत्वेऽपि प्रयोजनाभावेन सिद्धेरसत्त्वेन सिषाधयिषायाश्च सत्त्वेनासत्त्वेन वा पक्षतायाः सत्त्वेन परामर्शसहकारित्वस्य पक्षतायामभ्युपगमस्याव्यावर्तकत्वेन पक्षतासहकृतपरामर्शजन्यत्वविवक्षणान्नातिव्याप्तिः। संशयोत्तरप्रत्यक्षे सिद्धेः प्रतिबन्धकत्वात्सिषाधयिषायाश्च सत्त्वात्सिषाधयिषाविरहविशिष्टसिध्द्यभावरूपपक्षतासहकृतपरामर्शजन्यत्वस्यानुमितिलक्षणस्य नातिप्रसङ्ग इति समुदितार्थः। उक्तविवक्षया शाब्ददुद्धावप्यतिव्याप्तिनिरासः सिध्यतीत्याह—एतेनेत्यादि। वह्निव्याप्यधूमवत्पर्वतवानयं देशः इत्याकारिका वह्निव्याप्यधूमविशिष्टपर्वतस्य देशवैशिष्ट्यावगाहिनी या बुद्धिस्तां प्रति विशेषणतावच्छेदकप्रकारकनिर्णयविधया विशिष्टबुद्धौ विशेषणतावच्छेदकप्रकारेण वह्निव्याप्यधूमवान् पर्वत इति परामर्शस्य कारणत्वेऽपि अस्य परामर्शत्वं व्याप्तिविशिष्टधूमस्य पर्वते वैशिष्ट्यावगाहनान्न तत्रातिव्याप्तिः न शाब्दबुद्धावतिप्रसङ्ग इति समुदितार्थः। तत्र हेतुमाह–पक्षतेत्यादि। असत्त्वेनेति। सिद्धेः प्रतिबन्धकत्वादिति भावः। अत्रेवं निष्कर्षः। सत्यपि परामर्शे पक्षे साध्यनिर्णयेऽनुमितेरनुदयात् अनुमितिं प्रति पक्षताया हेतुत्वं कल्प्यते। सा च सिषाधयिषाविरहविशिष्टसिध्द्यभावः। सिषाधयिषा च प्रकृतपक्षे प्रकृतसाध्यानुमित्सा। सिद्धिश्च पक्षे साध्यनिश्चयः। सिषाधयिषाविरहविशिष्टत्वं सिद्धौ एककालावच्छेदेनैकात्मवृत्तित्वं तेन सिषाधयिषाकालीनसिद्धेः कालिकसम्बन्धेन सिषाधयिषाविरहविशिष्टत्वेऽपि न क्षतिः। सिषाधयिषामाक्षं न पक्षता सिषाधयिषाविरहेऽपि घनगर्जितेन मेघानुमानात्। अत एव साध्यसन्देहोऽपि न सा। एवं च पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवह्नित्वावच्छिन्नविधेयतातकानुमितित्वावच्छिन्नं प्रति तादृशानुमितिगोचरेच्छाभावविशिष्टपर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्नित्वावच्छिन्नप्रकारताशालिनिश्चयत्वावच्छिन्नाभावत्वादिना हेतुत्वं वाच्यम्। द्रव्यं वह्निमत् पर्वतो द्रव्यवानित्याकारकसाध्यनिर्णयदशायां पर्वतो वह्निमानित्याद्यनुमित्युत्पत्तये विशिष्य पक्षतावच्छेदकविधेयतावच्छेदकयोर्निवेशः। अथैवमपि वह्निमानित्येतादृशसिद्धिकाले अधिकावगाहिन्या अपि नीलपर्वतो वह्निमान्पर्वतः सुन्दरवह्निमानित्याद्याकारकानुमित्यनुदयापत्तिः। नच पर्वतत्वादिपर्याप्तोद्देश्यतावच्छेदकत्वस्य वह्नित्वादिपर्याप्तिविधेयतावच्छेदकत्वस्य च निवेशान्नानुपपत्तिरिति वाच्यम्। उभयपर्याप्तोद्देश्यतावच्छेदकतायाः प्रत्येकमेकस्मिन्नपि सत्त्वात्। पर्वतत्वपर्याप्तोद्देश्यतावच्छेदकत्वेन वह्नित्वपर्याप्तिविधेयतावच्छेदकत्वेन चानुमितेः पर्वतत्वपर्याप्तोद्देश्यतावच्छेदकताकतादृशसिद्धिप्रतिबद्धतयोक्तदोषस्तदवस्थ एवेति चेन्मैवम्। पर्वतत्वमात्रपर्याप्तोद्देश्यतावच्छेदकत्वस्य वह्नित्वमात्रपर्याप्तिविधेयतावच्छेदकत्वस्य निवेशेनोक्तदोषवारणसम्भवात्। वस्तुतस्तु। पर्वतत्वनिष्ठनिरवच्छिन्नावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वस्योद्देश्यतायां वह्निवृत्तिनिरवच्छिन्नावच्छेदकताभिन्नावच्छेदकत्वानिरूपकत्वस्य विधेयतायां निवेशेनेनानुपपत्त्यभावादित्यलम्। (2-अधिकविषयकत्वेऽपि पर्वतत्वाद्युक्तविषयकत्वेनानुमितेस्तादृशनिश्चयत्वाभावरूपहेतोरभावापत्तिरिति भावः।) सिद्धौ सिषाधयिषाविरहवैशिष्ट्यनियामकं सम्बन्धं निर्वक्ति—-सामानाधिकरण्यसम्बन्धेनेति। आत्मनि सिद्धेः सिध्द्यात्मकज्ञानस्य सिषाधयिषाविरहस्य च वृत्तित्वात्। वृत्तित्वं चाभावस्य स्वरूपेण, सिद्धेश्च समवायेनेत्यतः सामानाधिकरण्यमनयोः स्वरूपसमवायैतदुभयघटितमिति बोध्यम्। सिद्धिश्च प्रकृते न पर्वतो वह्निमानेतन्मात्ररूपा। तद्धेतुभूतपरामर्शस्य तद्धटितस्यैव कल्पनेनासामञ्जस्यमित्याह–अत्रेत्यादि। अव्याप्तिरिति। भ्रमस्थले वैशिष्ट्याप्रसिद्धिरितिभावः। व्याप्तिविषयकमितीति। भ्रामात्मकं व्याप्तिविषयकं व्यभिचारलिङ्गस्य पक्षवृत्तित्वज्ञानमित्यर्थः। निष्कृष्टार्थमाह—व्याप्तीत्यादिना। अत्रावच्छिन्नत्वं स्वरूपसम्बन्धविशेष्यरूपं बोध्यम्। अत्रेवं निष्कर्षः। अत्र वैशिष्ट्यम्प्रकारिता। तथाच—-व्याप्तिविशिष्टं व्याप्तिप्रकारकं यत्पक्षधर्मताज्ञानं तज्जन्यं ज्ञानमित्यर्थः। यत्साध्यहेतुकस्थले व्याप्तेरप्रसिद्धिस्तत्स्थलीयानुमितौ वास्तवव्याप्तिज्ञानजन्यत्वस्यासत्त्वेनाव्याप्तेर्वारणाय व्याप्तिपदेन व्याप्तिघटकहेत्वादीनां खण्डशः प्रसिद्धानां निरूप्यनिरूपकभावापन्नविषयिताया विवक्षणीयत्वे तु वैशिष्ट्यमाश्रयत्वरूपं बोध्यम्। अत्र पक्षधर्मत्वं हेतोः पक्षेण सह वैशिष्ट्यं तत्र हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयतायाश्च तयोर्यथाक्रमं संसर्गविधया भावेन
पक्षहेतुविशेष्यकपरामर्शयोः पक्षहेतुवैशिष्ट्यावगाहित्वमक्षतम्। पक्षविशेष्यकाव्द्याप्यविशेष्यकाच्च परामर्शादनुमितेरनुभवसिद्धत्वेन व्याप्तिप्रकारकपक्षहेतुवैशिष्ट्यावगाहिनिश्चयत्वेन तत्र हेतुत्वं पक्षहेतुवैशिष्ट्यावगाहित्वं तु हेतुतावच्छेदकसम्बन्धावच्छिन्नाधेयतान्यसम्बन्धावच्छिन्नपक्षविषयितानिरूपिता या हेतुतावच्छेदकसम्बन्धेतरसम्बन्धावच्छिन्नपहेतुविषयता तन्निरूपकत्वम्। अवगाहित्वविशिष्टे व्याप्तिप्रकारकत्वस्यान्वयेनोद्देश्यतावच्छेदकविधेयभावमहिम्ना तादृशावगाहित्वावच्छिन्नव्याप्तिप्रकारकत्वाश्रयज्ञानलाभः । परामर्शे व्याप्तिहेत्वाद्योः साक्षाद्विशेषणविशेष्यभावेन तद्विषयित्वयोरवच्छेद्यावच्छेदकभावविरहान्न तज्जन्येऽनुव्यवसायेऽतिव्याप्तिरिति। ननु पर्वतो धूमवान् इति प्रत्यक्षं ततो धूमो वह्निव्याप्य इति व्याप्तिस्मरणाभ्यां ज्ञानाभ्यामनुमित्युत्पत्तेर्विशिष्टवैशिष्ट्यज्ञानत्वेन न कारणत्वं गोरवात्, किन्तु व्याप्यतावच्छेदकप्रकारकज्ञानत्वेन लाघवादिति चेन्न। धूमवान्पर्वत इति ज्ञानाद्यनुमित्यापत्तेः। किञ्च धूमालोकादिविषयकसकलपरामर्शसाधारणवह्निव्याप्तिप्रकारकनिश्चयत्वादिनैव हेतुत्वं, हेतुतावच्छेदकविषयतानिवेशे प्रयोजनाभावात्। वह्निव्याप्यकत्वमत्र वह्न्यभाववदवृत्तित्वम्। एवञ्च व्यभिचाराभावेन तत्र कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशे प्रयोजनाभावात् तदनिवेश्यैव तत्र कार्यकारणभावो बोध्यः। किं तावन्निश्चयत्वम् साध्येनोक्तनैवोक्तसंशयव्यावर्तकमनुगतं चेति चेदत्र वदन्ति–वह्निव्याप्याभावाप्रकारकत्वे सति वह्निव्याप्यप्रकारकत्वमथवा वह्निव्याप्यत्वपर्याप्तप्रतियोगितावच्छेदकताकाभावप्रकारकत्वे सति वह्निव्याप्यप्रकारकत्वमिति। तत्तु वह्निव्याप्यधूमवान्न वेति संशयेऽप्यतिप्रसक्तम्। अतो वह्निव्याप्यधूमवत्वावच्छिन्नप्रतियोगिताकाभावस्य प्रकारतया वह्निव्याप्यभावाप्रकारत्वेन वह्निव्याप्यत्वपर्याप्तप्रतियोगितावच्छेदकताकाभावस्य चाप्रकारकत्वात्। अतो वह्निव्याप्यधूमवत्त्वावच्छिन्नाभावप्रकारकत्वे सति वह्निव्याप्यधूमवत्त्वावच्छिन्नप्रकारताशालिज्ञानत्वमेव निश्चयत्वं वाच्यम्। एवञ्च हेतुतावच्छेदकविषयतामनिवेश्य निश्चयत्वनिर्वचनस्य दुर्वचतयोपदर्शितावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन कारणत्वावश्यकत्वेन न दोषावसर इत्यर्वाचां मतमेव सुरमणीयमित्याहुस्तन्न विचारसहम्। वह्निव्याप्यत्वमात्रधर्मावच्छिन्नप्रकारतानिरूपितविशेष्यताशालिज्ञानत्वमेव वह्निव्याप्यनिश्चयत्वं वाच्यम् तेन वह्निव्याप्यधूमवान्न वेति संशयव्यावृत्तिः। एवञ्च व्याप्यतावच्छेदकघटितनिश्चयत्वेन परामर्शस्य कारणत्वान्न विशिष्टवैशिष्ट्यावगाहित्वेन कारणत्वमिति प्राचामाशङ्का निर्युक्तिकैवेति ध्येयम्। अन्ये तु परामर्शस्यानुमितिं प्रति
साध्यव्याप्यत्वावच्छिन्नहेतुप्रकारतानिरूपितपक्षविशेष्यताशालिज्ञानत्वरूपविशिष्टपरामर्शत्वेन न हेतुत्वं, किन्तु व्याप्यतावच्छेदकप्रकारताव्याप्तिज्ञानत्वेन व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन च हेतुताद्वयम्। इत्थं च धूमो वह्निव्याप्यो धूमवान्पर्वत इति ज्ञानद्वयात्तधाविधसमूहालम्बनाद्वाऽनुमितिरुत्पद्यते न केवलं विशिष्टपरामर्शादेवेत्याहुः। एतेन वह्निव्याप्यो धूमः आलोकवान्पर्वत इति ज्ञानादनुमितिमापादयन्तः परास्ताः। विशिष्य धूमलिङ्गकानुमितिं प्रति धूमत्वावच्छिन्नविशेष्यकव्याप्तिप्रकारकज्ञानत्वेन पर्वतत्वावच्छिन्नविशेष्यकधूमत्वावच्छिन्नप्रकारकज्ञानत्वेन च हेतुत्वाश्रयणात्। एवं च यद्धर्मावच्छिन्नो व्याप्तिप्रकारकज्ञानविषयस्तद्धर्मावच्छिन्न एव पक्षधर्मताज्ञानविषय इति फलिताशयात् पर्यवसानमत्या वैशिष्ट्यावगाहित्वमार्थमसामाजग्रस्तमित्यावयोः साम्यमिति तु न भ्रमितव्यम्। यतो वयं विशिष्टपरामर्शत्वावच्छेदेनैकहेतुतां न स्वीकुर्मोऽपि तु व्याप्तिप्रकारकज्ञानत्वेन पक्षधर्मताज्ञानत्वेन च प्रातिस्विकेन हेतुतां स्वीकुर्मः। कारणत्वमनन्यथासिद्धनियतपूर्ववृत्तित्वं तत्र च व्याप्यतावच्छेदकप्रकारकव्याप्तिज्ञानत्वावच्छेदेन तथाविधपक्षधर्मताज्ञानत्वावच्छेदेन च नियमपूर्ववृत्तित्वमुभयवादिसिद्धमेव। तादृशधर्मयोर्विशिष्टपरामर्शव्यापकत्वात्तद्धर्मद्वयावच्छेदेनानन्यथासिद्धत्वमात्रमस्मन्नये कल्पनीयम्। भवन्नये तु विशिष्टपरामर्शत्वावच्छेदेनानन्यथासिद्धत्वं नियमपूर्ववृत्तित्वं चोभयं कल्पनीयं लघुधर्मद्वयावच्छेदेनैकैकधर्मकल्पन्नमस्माकं, गुरुधर्मद्वयावच्छेदेन धर्मद्वयकल्पन्ने भवतां गौरवमिति मीमांसकाः। अत्र नैयायिकाः। धूमत्वावच्छिन्नविशेष्यकव्याप्तिप्रकारकं व्याप्तिविशिष्टधूमत्वादवच्छिन्नधूमप्रकारकपक्षविशेष्यकज्ञानविशिष्टं ज्ञानं कारणमभ्युपेयं कारणद्वयवादिना। अन्यथोक्तदोषप्रसक्तेरतो यत्र ज्ञानद्वयं तत्र विशिष्टज्ञानं कल्पनीयं फलमुखगौरवस्यादोषत्वादिति। नन्वेवमपि परामर्शानुव्यवसाये परामर्शस्य हेतुत्वादतिव्याप्तिरिति चेदत्र वदन्ति—लक्षणवाक्ये प्रथमज्ञानपदस्याप्रामाण्यज्ञानानास्कन्दितनिश्चयपरतया धर्मिपारतन्त्र्येण स्वावच्छिन्नजनकताकत्वसम्बन्धेन जन्यतायामन्वयस्य विवक्षणीयतया तादृशविषयताशाल्यप्रामाण्यज्ञानानास्कन्दितनिश्चयत्वावच्छिन्नजनकताजन्यत्वं पर्यवसितम्। परामर्शप्रत्यक्षे तु सामान्यतो विषयत्वेन तत्तव्द्यक्तिप्रत्यक्षत्वे तत्तव्द्यक्तित्वेन हेतुत्वं, नतु तादृशनिश्चयत्वेन। एवञ्च तादृशनिश्चयत्वावच्छिन्नजन्यत्वस्यासत्त्वान्नातिव्याप्तिः। अत एवापत्तौ परामर्शस्य हेतुत्वेऽपि नातिव्याप्तिस्तत्राप्रामाण्यज्ञानानास्कन्दिततादृशनिश्चयत्वेनहेतुत्वादप्रामाण्यज्ञानानास्कन्दितत्वघटितधर्मावच्छिन्नजन्यताया असत्त्वात्। नन्वेवमपि रक्तदण्डवानित्यत्र
रक्तत्वदण्डत्वविशिष्टदण्डविशिष्टपुरुषविशेष्यकविशिष्टवैशिष्ट्यावगाहिबुद्धेः रक्तत्वस्य विशेषणविशेषणतया विशेषणतावच्छेदकरूपत्वेन तन्निर्णयहेतुकत्वात्तद्धूमवत्पर्वतवानिति
विशिष्टवैशिष्ट्यबुद्धौ पक्षविशेष्यकपरामर्शस्य विशेषणतावच्छेदकनिर्णयविधया हेतुत्वेनातिव्याप्तितादवस्थ्यमिति चेन्न। व्याप्यपक्षविशिष्टवैशिष्ट्यावगाहित्वाद्यात्मकानुगतधर्मावच्छिन्नजनकताया लक्षणे निवेशेन तद्वारणात्। एतेन प्रत्येककारतावादिनोऽपि समाहिताः। न चैवमपि विषयस्य कारणत्वात्तादवस्थ्यमिति वाच्यम्। परामर्शज्ञानजन्यत्व विवक्षणात्। परामर्शजन्यसंस्कारे तु तादृशजन्यत्वाभावादेव वारणादिति सङ्क्षेपः। अभिलापकशब्दमुच्चार्येति। ज्ञानाभिलापकं ज्ञानस्वरूपबोधकं ज्ञानीयविषयविषयकशाब्दबोधजनकशब्दमिति यावत्। नव्यास्त्वनुमिनोमीत्यनुव्यवसायसिद्धजातिमत्त्वमनुमितेर्लक्षणमतः परामर्शजन्यत्वेन तत्स्मरणे नातिप्रसङ्गसम्भवेनेत्याहुः। मणिकारोक्तादिमसाध्याभाववदवृत्तित्वादिलक्षणान्यनादृत्य प्रथमत्यागे मानाभावात्सिद्धान्तलक्षणानुधावनं व्यर्थप्रयोजनमिति शङ्कानिरासाय तदनादरणे बीजं सङ्गिरते-“इदं वाच्यं ज्ञेयत्वादि"त्यादावव्याप्तेरिति। अत्र वाच्यत्वमभिधाविषयत्वं ज्ञेयत्वं ज्ञानविषयत्वमुभयं ज्ञानविशेषरूपं ज्ञानस्वरूपं विषयस्वरूपं वा सम्बन्धमङ्गीकुर्वन्त्यर्वाचीनाः। तदपरे न क्षमन्ते। घटवद्भूतलमित्यादिज्ञाननिरूपितप्रकारतास्यविषयतानामन्योन्यज्ञानस्वरूपत्वे भूतलविषयकज्ञानस्य घटज्ञानीयप्रकारतास्वविषयतास्वरूपतया भूतलप्रकारकज्ञानवानहमित्येवं घटज्ञानस्य भूतलज्ञानविशेष्यताख्यविषयतास्वरूपतया घटविशेष्यकज्ञानवानहमिति प्रत्यभिज्ञापत्तेः। तत्तज्ज्ञानीयविषयतायास्तत्तज्ज्ञानस्वरूपत्वविवक्षायां तु विषयताया ज्ञाननिरूपितत्वभङ्गप्रसङ्गः। एवं घटपटवित्यादिसमूहालम्बनधियो भ्रमत्वापत्तिश्च। घटत्वप्रकारकज्ञानविषयतायाः घटनिष्ठायाः घटत्वप्रकारकज्ञानस्वरूपत्वादेवं पटनिष्ठायाः पटत्वप्रकारकज्ञानविषयतायाः घटत्वप्रकारकज्ञानस्वरूपत्वाद्धटे पटत्वप्रकारकज्ञानविषयताकज्ञानस्य सत्त्वादेवं पटे घटत्वप्रकारकज्ञानविषयताकज्ञानस्य सत्त्वात्तदाभाववति तत्प्रकारकानुभवरूपाऽयथार्थत्वात्। विषयस्वरूपत्वे च घटभूतलसंयोगा इत्याद्याकारकसमूहालम्बनीयविषयतानां घटवद्भूतलमित्यादिविशिष्टज्ञाननिरूपितघटादिनिष्ठविषयतानां तत्तत्सरूपत्वेनाविलक्षणतया समूहालम्बनविशिष्टबुध्द्योर्वैलक्षण्यानुपपत्तेर्ज्ञानविषयाभ्यामतिरिक्तं विषयत्वं विषयाश्रयकमङ्गीकर्तव्यम्। एवं चेश्वरीयवाच्यत्वज्ञेयत्वयोः केवलान्वयितया साध्याभावहेत्ववृत्तित्वयोरसत्त्वादप्रसिद्धिनिबन्धनाऽव्याप्तावपि केवलान्वयित्वज्ञानशून्यकाले भ्रमात्मकव्याप्तिज्ञानादनुमितिनिर्वाहेऽपि केवलान्वयित्वज्ञानकाले पञ्चानां केवलान्वयिन्यभावादिति मणिग्रन्थानुसारेण व्याप्त्यमिधानमिति भावः। यद्यपि साध्याभाववदवृत्तित्वादिरूपसाहचर्यनियमशब्दप्रतिपाद्या व्याप्तिर्न केवलान्वयिनि तथापि एतद्रूपसाहचर्यनियमशब्दप्रतिपाद्या व्याप्तिर्निर्दुष्टैव। ज्ञेयत्वाधिकरणजगन्मात्रवृत्ति यत्किञ्चिद्धटाद्यभावप्रतियोगिवाच्यत्वसाध्यसामानाधिकरण्यस्य ज्ञेयत्वहेतौ प्रसिद्धत्वेन एतस्य सिद्धान्तत्वं बोधयितुमत एव मणिकारः प्रतिजज्ञे चादौ “अत्रोच्यते” इति। ननु मणिकारोक्तलक्षणस्य प्रतियोग्यसमानाधिकरणघटिततया यत्तत्पदार्थघटिततया चान्यादृशत्वेन तद्विपरीताश्रयणेऽव्याप्यवृत्तिसाध्यकेऽव्याप्तिरितिचेन्न। दोषवारणाय यत्समानाधिकरणाभावे प्रतियोग्यसमानाधिकरणनिवेशावश्यकत्वेन तद्धटितत्वे हेत्वधिकरणे तत्तद्दोषवारणाय हेतुतावच्छेदकसम्बन्धादिनिवेशावश्यकतया तद्धटितनिबन्धनापत्तेर्विवक्षामात्रेण दोषवारणसम्भवात्, तत्फलितं लक्षणं परिचस्कार। किञ्च यत्पदस्य स्वप्रयोजकबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्ततया प्राथमिकयत्पदस्य हेतुतावच्छेदकत्वाभिमतधूमत्वाद्यात्मकविशेषधर्मावच्छिन्नपरतया तथा द्वितयस्यापि साध्यतावच्छेदकत्वाभिमतवह्नित्वाद्यवच्छिन्नपरतया चैतदर्थस्यैव पर्यवसन्नत्वात्। साक्षात्तत्तद्धर्मावच्छिन्नतद्बोधकपदेन तद्बोधापेक्षया बुद्धिविषयतावच्छेदकत्वेन तद्धर्मावच्छिन्नबोधे फलविशेषदर्शनाच्चैवमिति बोध्यम्। अत्र यथा श्रुते साध्यतावच्छेदकविशिष्टे तादृशभावप्रतियोगितावच्छेदकधर्मविशिष्टान्यत्वाप्रतीतेः सर्वस्यापि वह्नेर्धूमसमानाधिकरणाभावप्रतियोगितावच्छेदकपर्वतीयत्वमहानसीयत्वादिधर्मविशिष्टत्वादित्याशयेनाव्याप्तिमाशङ्कते—नचेत्यादिना। अत्र उभयभावविशिष्टाभावमादायापि दोषोऽवसेयः। चालनीन्यायेनेति। बहुच्छिद्रं तितउपर्यायं वैतुष्य(-“चालनीतितउः प्रमा"नित्यमरः) करणमुच्यते तत्र पिहितेऽपि कस्मिंश्तिच्छिद्रे छिद्रान्तरेण सक्त्वादिनिःसरत्येव यथैवं श्रुङ्गग्राहिकया पर्वतीयत्वादिविशिष्टानां सर्वेषां साध्यतया पर्वते पर्वतीयवह्निसत्त्वेऽपि महानसीयवह्निर्नास्ति महानसे पर्वतीयवह्निर्नास्तीति प्रतीत्या सर्वासां साध्यव्याक्तीनां प्रतियोगित्वमेवेति भावः। अप्रतियोगित्यादि। तात्पर्यकतयेत्यन्तस्याव्याप्तिवारणतात्पर्यानुपपत्त्यैतदर्थे लाक्षणिकत्वं बोध्यमित्यर्थः। अदोषादिति। साध्यतावच्छेदके प्रतियोगितावच्छेदकान्यत्वस्य पर्यवसिततया हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदको यो धर्मस्तद्धर्मावच्छिन्नेन सामानाधिकरण्यं तद्धेतोस्तद्धर्मावच्छिन्नानुमितिजनकज्ञानविषयव्याप्तिपदार्थ इति ततो
वह्नित्वावच्छिन्नप्रतियोगिताकाभावाभावादव्याप्तिरूपदोषाभावादित्यर्थः। न चैवमपि महानसीयवह्न्यभावीयप्रतियोगितावच्छेदकं महानसीयत्वं वह्नित्वं च यतः महानसीयवह्नित्व महानसीयत्वसमानाधिकरणवह्नित्वमतः साध्यतावच्छेदके वह्नित्वे प्रतियोगितावच्छेदकान्यत्वं दुर्घटमेवेति वाच्यम्। अवच्छेदकद्वयपर्याप्तावच्छेदकत्वावच्छिन्नभेदस्यैकदेशावच्छेदके घटपटोभयवृत्त्युभयत्वावच्छिन्नोभयभेदस्य घटपटैकदेश इव वह्नित्वे सुघटत्वात्। एतेन साध्यतावच्छेदकतदतिरतोभयधर्मावच्छिन्नप्रतियोगितावच्छेदकभेदवैशिष्ट्यस्य साध्यतावच्छेदके विवक्षणान्नोक्ताव्याप्तिरिति निरस्तम्। उक्तरीत्येव सामञ्जस्ये गौरवोदक्षरत्वग्रस्तैतादृशप्रकारस्यानुचितत्वात्। किञ्चैतन्मते तादृशप्रतियोगितावच्छेदकतदितरोभयभेदमादायातिप्रसङ्गस्य वारणाय तादृशावच्छेदकभेदप्रतियोगितायां तादृशावच्छेदकत्वेतरधर्मावच्छिन्नत्वं निवेश्यम्। अत्र च विशिष्टाद्यभाववारणाय तदनवच्छिन्नत्वमपि तथैव परिष्करणीयमिति विशेषणानवस्थाप्रसङ्ग इत्यलम्। हेतुव्यक्तिभेदेन सामानाधिकरण्यन्तव्याप्तीनां भेदेऽपि तत्र हेतुतावच्छेदकत्वाभिमतधूमत्वादिरूपेण हेतोर्निवेशाद्धूमव्यापकतावच्छेदकवह्नित्वावच्छिन्नसामानाधिकरण्यत्वादिना व्याप्तिव्याक्तीनामनुगमात्सामान्यलक्षणाप्रत्यासत्त्या पक्षीयहेतुनिष्ठव्याप्तेरपि महानसीयधूमादौ व्याप्त्यनुभवदशायामनुभवेन स्मरणसम्भवात् विशिष्टवैशिष्ट्यावगाहिपरामर्शोत्पत्त्याऽनुमितिनिर्वाहः। प्रतियोगितायां हेतु सामानाधिकरणात्यान्ताभावीयप्रतियोगितायाम्। साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वन्निवेशनीयमिति। प्रकृतसाध्यतावच्छेदकसम्बन्धावच्छिन्नत्वमित्यर्थः। तेनैतद्रूपवानेतद्रसादित्यादावेतद्रूपीयसाध्यतावच्छेदकसमवायसम्बन्धस्यापि प्रसिद्धतया तमादाय न वह्निमान्धूमानित्यादौ प्राप्ताव्याप्तिवारणासङ्गतिः। न क्षतिरिति। पर्वते समवायेन वह्निर्नास्तीति प्रतीतावपि संयोगेन तदभावप्रमात्मकप्रतीतेरभावान्नाव्याप्तिशङ्केत्यर्थः। विशिष्टस्य शुद्धानतिरेकितयेति। विशिष्टं शुद्धन्नातिरिच्यत इति(-नन्वयं किमौत्सर्गिको नियत उत वैशेषिकोऽपि। औत्सर्गिकत्वे अन्तःकरणावच्छिन्नचैतन्यशुद्धचैतन्ययोरनतिरेकाद् जायत इत्यादिषङ्भावाविकारित्वप्रसङ्गः शुद्धस्य स्यात्। वैशेषिकत्वे नीलाकारोऽपि पीताकारः स्यात्, नीलविशिष्टस्य घटानतिरेकात् पीतघटस्य शुद्धघटातिरेकेण पीतघटो धट एवेचि चेन्न। आदावन्तःकरणावच्छिन्नस्य शुद्धरूपत्वेऽपि बिम्बप्रतिबिम्बभावमहिम्ना दर्पणोपाधितुल्यान्तःकरणोपाधिकृतविकारित्वमुपाधिमत एव, एवमुत्तरत्रापि फलतः पीतस्य शुद्धत्वेऽपि स्वरूपतो भेदान्न दोषावसर इत्यलम्।)न्यायेनेत्यर्थः। हेतुतावच्छेदकसम्बन्धावच्छिन्ना ग्राह्येति। प्रकृते हेतुतावच्छेदकसम्बन्धावच्छिन्ना स्वीकार्येत्यर्थः। येन सम्बन्धेन पक्षे हेतुः स सम्बन्धस्तदवच्छेदक इत्यर्थः। नाव्याप्तिरिति। एवमयमात्मा ज्ञानादित्यत्र विषयतासम्बन्धेन ज्ञानाधिकरणघटादिवृत्त्यात्मत्वाभावमादाय नाव्याप्तिरित्यादि शब्दार्थः। द्रव्यत्वावच्छिन्ने संयोगप्रागभावध्वंसवति संयोगसामान्याभावस्यासत्त्वाद्विरोधादत्यन्ताभावानङ्गीकाराच्च विभ्वन्तरसंयोगस्य सत्त्वात्संयोगसामान्याभावप्रसिद्धेः प्राचीनमतानुसारेण कपीति। नव्यमते विभुद्वयसंयोगानङ्गीकारात्संयोगप्रागभावतद्ध्वंसाधिकरणे तद्विरोधे मानाभावात्कपीति व्यर्थमिदं प्रागाभावोचाम। अत्र देशकालविशेषाद्यवच्छेदेन कपिसंयोगाभावसत्त्वादिति बोध्यम्। इदमुपलक्षणम्। संयोगि द्रव्यत्वादित्यत्र च द्रव्ये घटादौ उत्पत्तिकालावच्छेदेन गगनादौ तु महाप्रलयावच्छेदेन संयोगसामान्याभावस्य सत्त्वादेवं वह्निमान्धूमादित्यादौ धूमवत्यपि “इह पर्वते निबन्ते हुतनानो न शिखरे” इति प्रतीत्या संयोगसंयोगवतोरभावप्रसिद्धेरव्याप्तिः। संयोगेन द्रव्यस्याव्याप्यवृत्तित्वात्। सम्बन्धस्याव्याप्यवृत्तित्वे सम्बन्धिनोऽव्याप्यवृत्तित्वस्य युक्तत्वात्। तथाच तत्तदव्याप्तिवारणाय प्रतियोगिवैयधिकरण्यविशेषणमावश्यकमिति भावः। नचोक्तव्याप्यवृत्तिसाध्यके एवाव्याप्तिसम्भवेऽव्याप्यवृत्तिसाध्यकस्थलानुधावनं सर्वेषामेव ग्रन्थकृतां सिद्धवन्न न्यायसजातीयमिति शङ्काम्। संयोगेन द्रव्यस्याव्याप्यवृत्तित्वे नाव्याप्तावपि संयोगाव्याप्यवृत्तिकाव्याप्त्यापेक्षणस्य प्रथमत्यागन्यायविरोधामूलकत्वेन तदनुधावनात्। नन्वेवमपि उक्तदोषवारणाय प्रतियोग्यसामानाधिकरण्यनिवेशस्य सामञ्जस्ये प्रतियोगिविरुद्धाधिकरणवृत्तित्वघटितस्यान्यानुसन्धानमूलकत्वेन गौरवग्रस्तत्वमिति चेन्न। प्रतियोग्यसामानाधिकरण्यं च स्वप्रतियोगिसामानाधिकरण्याभाववत्त्वं, एवं च “द्रव्ये हेतुसमानाधिकरणाभावे प्रतियोगिसामानाधिकरण्यं न गुणे” इति प्रतीत्या सामानाधिकरण्यस्याव्याप्यवृत्तित्वङ्गीकर्तुनये प्रतियोग्यसामानाधिकरण्यनिवेशेनैव निर्वाहेऽपि तत्प्रतीतिः संयोगाभावनिष्ठसंयोगसामानाधिकरण्यस्य निरूपकतासम्बन्धेनाभावं गुणेऽवगाहते, न तु संयोगाभावे गुणावच्छेद्यसंयोगसामानाधिकरण्याभावमित्यभ्युपगच्छतां नये तदनिर्वाहात् प्रतियोगिवैयधिकरणविशेषस्यैवावश्यकतेत्याशयात् यदर्थोऽयं प्रयास इति न्यायेन केवलान्वयिस्थलीयव्याप्तिं परिहरति—केवलान्वयित्यादिना। तत्त्वम् केवलान्वयित्वं वाचात्यन्ताभावप्रतियोगित्वम्। घटाभावादेः प्रसिद्धत्वादिति। ननु ज्ञेयत्वरूपहेत्वधिकरणजगद्वृत्त्यभावः कदा सिध्येत् घटादौ घटादेर्जगतोऽतिरिक्तत्वे तदेव न सम्भवतीति चेन्न। शाखोपशाखासमुदायस्य वृक्षरूपत्वेऽपि वृक्षे यत्किञ्चिच्छाखाभावप्रतीतिवदुपपत्तेः। मणिदीधितिव्याख्यायामिति। मणिश्च दीधितिश्च मणिदीधिती तयोर्व्याख्यायाम्। द्वन्द्वोत्तरतत्पुरुषाद्वन्द्वान्तश्रूयमाणन्यायेन (2-द्वन्द्वान्ते द्वन्द्वादौ वा श्रूयमाणं एवं प्रत्येकमभिसम्बध्यते, इति न्यायस्वरूपम्।)
प्रत्येकमभिसम्बन्धान्मणिव्याख्यायामभिनवप्रभाख्यायां दीधितिव्याख्यायामभिनवदीधितिव्याख्यायामित्यर्थः। बुद्धिकुशलैरिति। बुद्धिः कुशला येषामिति व्युत्तत्त्या कौसल्यविशिष्टबुद्धिमद्भिरित्यर्थानुपपत्तेर्विशेषणवाचकपूर्वपदघटितत्वस्यैव न्याय्यत्वात्कथमस्य साधुतेति चेद्वाक्पटुवत्समासात् बुद्धिनिरूपितकौसल्यविशिष्ट इति बोधान्न दोषावसर इति बोध्यम्। अनुसन्धेयमिति। अधिकमित्यनेनान्वयः ग्रन्थगौरवभिया नास्माभिरिह विस्तृतमिति भावः। स्वार्थानुमितीति। स्वार्थानुमितिपदावयवार्थमाह—-स्वस्येति। अनुमातुरित्यर्थः। अर्थःप्रयोजनमिति। “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु” इति कोशार्थशब्दोऽत्र प्रयोजनवाचीति बोध्यम्। नचायं साधीयान्। “अनेकमन्यपदार्थे” इति सूत्रेणानेकसुबन्तानां समस्यमानपदार्थातिरिक्तपदार्थे वर्तमानानां समनाधिकरणानां समासविधानात्प्रकृते तदभावाश्चेति चेत् “सप्तमीविशेषणे बहुव्रीहौ” इति विधानात्क्वचिव्द्यधिकरणबहुव्रीहेः साधुत्वज्ञापनात्कण्ठे कालवदिहापि सम्भवान्न दोष इत्याहुः। यद्यपि वक्ष्यमाणलिङ्गपरामर्शादेव स्वीयसंशयनिवृत्तिस्तथाप्यनुमितेः संशयनिवर्तकत्वमभ्युञ्चयमात्रं बोध्यम्। दर्शनस्येति। ज्ञानमात्रपरमेतत्। अत एव हस्तिहस्तिपकयोराधाराधेयभावसम्बन्धज्ञानोत्तरं कालान्तरेऽन्यतरसम्बन्धानि हस्तिनिहस्तिपके वा दृष्टेऽपरसम्बन्धिनः स्मरणज्ञानवदुद्बोधकबलात्स्मृतस्यैकसम्बन्धिनोऽपरस्मारकत्वानुभवप्रसिद्धिसिद्धिः। कथं व्याप्तिग्रह इतीतीति। हीरकादिमणेः पार्थिवत्वमङ्गाकृत्येदम्।आकारजं सुवर्णादीत्यादिपदग्राह्यत्वात्तैजसत्वमिति मते व्याभिचाराशङ्कासमानायोर्नावसरः। व्यभिचारज्ञानदशायाम्। मण्यादौ लोहलेख्यत्वाग्रहदशायाम्। कश्चिदपि। व्याप्तिनिश्चेता यः कश्चिदपि। व्याप्तिः निश्चयम्। निश्चयात्मकव्याप्तिज्ञानम्। भूयोदर्शनेनेत्यादिः। अभ्युपैति। नेत्यनेनान्वयः। न प्राप्नोति। भूयोदर्शनस्य शतशः पार्थिवत्वलोहलेख्यत्ययो सहचारदर्शनस्य। अतोहेतुरित्यादिः। व्याप्तिनिश्चयहेतुत्वम्। निश्चयात्मकव्याप्तिज्ञानहेतुत्वं न सम्भवति। व्याभिचारज्ञानस्य हेतुसाध्ययोः सहचारज्ञानप्रतिबन्धकत्वात्। इति एवं भावः शङ्काग्रन्थीयतात्पर्यार्थ इति समुदितार्थः। इदमुपलक्षणमिति। भूयोदर्शनस्य व्याप्तिनिश्चयहेतुत्वं न सम्भवतीत्येतत्पदार्थासम्भवदोषान्तरस्याप्युपलक्षणविधया बोधकत्वमित्यर्थः। एकत्रैवेत्यादि। नचैवं सति का क्षतिरिति वाच्यम्। महानसे वह्निधूमयोः सकृत्सहचारदर्शनेनैव व्याप्तिनिश्चये सहचारदर्शनधाराया अनुपयोगप्रसङ्गादिति भावः। भूयस्त्वाभावेनेति। एतद्रूपत्वेनैतद्रसत्वेनैतद्रूपैतद्रसरूपसाध्यहेत्वधिकरणमेव न नानेति भावः। व्याभिचेरेत्यादि। अन्यथा साध्यवह्निहेतुधूमयोः सहचारज्ञानस्य सत्त्वाद्व्याप्तिनिश्चये व्यापितलक्षणे साध्यवद्वृत्तित्वमात्रसामञ्जस्ये तदभाववद्वृत्तित्वाभावाभ्युपगमस्य निर्बीजत्वापत्तेरिति दिक्। इदानीं हेतुतावच्छेदकान्तव्याप्तिघटकहेतुतावच्छेदकदलस्य कृत्यं दर्शयति—सामानाधिकरण्यान्तस्येत्यादिना। सामानाधिकरण्यान्तस्य यथाश्रुतलक्षणस्य रासभादिसाधारण्याद्धूमरूपहेतुत्वधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकवह्नित्वरूपसाध्यतावच्छेदकावच्छिन्नवह्निरूपसाध्याधिकरणवृत्तित्वरूपसाध्यसामानाधिकरण्यस्य रासभादिवृत्तित्वाद्रासभादीनां व्याप्यत्वाव्द्याप्तिविशिष्टरासभवानयमिति परामर्शात्प्रमात्मकवह्न्यनुमित्यापत्तिरिति तदर्थः। तथा चेति चेदानीं व्याप्यताव्याप्यतावच्छेदकयोरैक्यादवच्छेदकभावो न प्राप्नोति, तयोर्भेद एव तत्सम्भवादित्याशङ्कां परिजिहीर्षन् तयोर्भेदमवलम्बते—-स्वरूपत इत्यादिना। अयं भावः। धूमत्वादेर्जातित्वाज्जात्यखण्डोपाध्यतिरिक्तानामेव किञ्चिद्धर्मपुरस्कारेण भाननियमात्स्वरूपत एवावच्छेदकत्वं, व्याप्तित्वं तु धूमत्वादेर्न खतः धूमत्वस्य रासभत्वेन भ्रमदशायां भ्रामत्मकरासभत्वलिङ्गकपरामर्शात्प्रमात्मकवह्न्यनुमित्यापत्तेः। धूमत्वादिरूपेण धूमत्वादेर्व्याप्तित्वे न रासभत्वेन रूपेण धूमत्वे व्याप्तित्वं सम्भवतीति। न क्षतिः। नावच्छेद्यावच्छेदकभावानुपपत्तिः। यथा साध्याभाववदवृत्तित्वमिति लक्षणस्य हेतौ व्याप्तिग्रहे हेतौ साध्याभाववदवृत्तित्वस्य विरोधित्वाद्विरोधिग्रहाभावमुद्रया हेतुत्वं तद्वदिहापि अनवच्छेदकत्वांशस्य सामानाधिकरण्यघटितत्वात्सामानाधिकरण्यांशस्यापि हेतुविशेषणज्ञानविधया न ज्ञानहेतुरिति रीत्येति बोध्यमित्याह—इत्थञ्चेत्यादि। लाघवमूलकार्थस्य वस्तुगतित्वमनुरुध्याह—वस्तुतस्त्विति। भक्षितेऽपीति न्यायेन तद्दोषतादवस्थ्याल्लाघवं केवलं विफलमित्याशङ्कते—नचेति। तद्धर्मधर्मितावच्छेदककेति। स धर्मो धर्मितावच्छेदको यस्मिन् इति बहुव्रीहिरन्यपदार्थे कः। अन्यपदार्थश्च व्याप्तिप्रकारकनिश्चयः। तथाच यद्धेतुतावच्छेदकावच्छिन्नव्याप्तिकं साध्यं तद्धेतुतावच्छेदकावच्छिन्न एव साध्यसामानाधिकरण्यं विवक्षितमित्यर्थः। अदोषात्। धूमत्वेन भासमाने रासभादौ व्याप्तिग्रहस्य धूमत्वांशे भ्रमत्वनियमो यत इत्यादिः। एतत्कल्पे लाघवमुपपादयति—अत एवेत्यादिना। शङ्का चेतीति। ननु व्यभिचारज्ञानस्य निश्चयशङ्कात्मकज्ञानद्वयात्मकतया तयोर्व्याप्तिग्रहम्प्रति प्रतिबन्धकत्वात्तादृशनिश्चयविरहत्वेन तादृशशङ्काविरहत्वेन च तयोर्व्याप्तिग्रहम्प्रति पृथक्कारणद्वयं कल्पनीयम्। तथाच व्याभिचारज्ञानविरहसहकृतेत्यादिमूलासङ्गतिं परिजिहीर्षन् मूलकृद्धृदयमूरीकरोति—-व्याभिचारसंशयस्येत्यादिना। तत्साधारणेति(-अत्र व्याभिचारसंशयस्येति मात्रोक्तिर्निश्चयस्याप्युपलक्षणमथ च प्रसिद्धत्वाद्वानुक्तिः।)। व्याभिचारनिश्चयज्ञानव्याभिचारसंशयज्ञानोभयसाधारणेत्यर्थः। क्वचिदितीति। निपातोऽयं स्थलविशेषबोधकः तत्स्थलविशेषमेव निर्दिशति—तर्केत्यादि।
तर्काभावादितराणि यानि निशिलकारणानि तेषां समवधानं यादृशस्थले तत्स्थल इत्यर्थः(2-धूमवान्वन्हेरित्यादौ धूमाःयोर्व्याप्तिग्रहप्रतिबन्धकव्यभिचारशङ्काकारणानाभवोगोलकावच्छेदेन वह्नौ सामानाधिकरण्यादीनां सत्त्वेपि तर्काभावरूपकारणासत्त्वात्तर्को व्यभिचारशङ्कां निवर्तयतीति हृदयम्॥) इतरकारणविरहस्थल इति। व्याप्तिग्रहकारणीभूतसहचारज्ञानेतरव्यभिचारज्ञानकारणसहचारज्ञानविरहस्थले वह्निन्यान्धूमादित्यादावादित्यर्थः। तादृशकारणविरहप्रयुक्त एवेति। साध्यहेतोरसामानाधिकरण्यविग्रहप्रयुक्त एवेत्यर्थः। धूमाग्न्योर्व्याप्तिग्रह इति। सप्तम्याः सत्यर्थकत्वे व्यभिचाराशङ्काया अनवतारादुत्पत्स्यमाने इत्यध्याहृत्यान्वय इति—उत्पत्स्यमान इति। भविष्यत्कालिकोत्पादनविषयीभूते इत्यर्थः। कार्यकारणभावभङ्गसङ्गलक्षण इति। प्रसङ्गः प्रसक्तिः सम्पादनमिति यावत्। कार्यकारणभावभङ्गसम्पादनमेव लक्षणं प्रयोजनं यस्येत्यर्थः। नन्वित्यारम्भ व्याख्यतोऽत्र विषयः पुरैव प्रदर्शितोऽस्माभिः। परार्थानुमानशब्दस्य पञ्चावयववाक्यपरत्वेन परार्थानुमानमाहेति मूलावतारणं दीपिकायामसङ्गतं परार्थानुमानशब्दस्य योगव्युत्पत्त्यालिङ्गपरामर्शबोधत्वेन तद्बोधकत्वाभावादित्याशङ्कते–यद्यपीति। परार्थानुमानशब्दस्य परसमवेतानुमाने लिङ्गपरामर्शो शक्तिः। तथापि उपचारात्परार्थानुमानं यस्मात्परार्थानुमानप्रयोजकपञ्चावयववाक्यपरत्वेनावतारणसङ्गतिरित्याह—-तथापीति। दीधितिकृताऽवयवसामान्यलक्षणस्य न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतमत्वरूपस्य कृतत्वेन मणिकृता च परार्थानुमानं न्यायसाध्यमित्युक्तेश्च पञ्चावयववाक्यस्य न्यायशब्दबोध्यत्वान्न्यायत्वं पञ्चावयववाक्ये किन्तदिति प्रश्ने अवयवव्युत्पत्त्या पञ्चावयववाक्यशब्देन लघुभूतदीधितिकृल्लक्षणम्फलतीत्याह—पञ्चेत्यादिना। उपकारस्य मूलमूलं विवृणेति—अनेनेति। लिङ्गदित्यस्य लिङ्गपरामर्शादित्यभिप्रयेण। पञ्चकसमुदायप्रयोज्यलिङ्गपरामर्शादित्यर्थ इति। साध्यवत्तया पक्षवचनमितीति। साध्यविशिष्टत्वेन पक्षबोधकं वाक्यं प्रतिज्ञावाक्यमित्यर्थः। उदाहरणादिति। यो यो धूमवानित्याद्युदाहरणवाक्यादित्यर्थः। जन्यत्वं पञ्चम्यर्थः। एतश्च ज्ञानान्वयि। तथाच पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्ट्यावगाहिज्ञानं सोदाहरणवाक्यजन्यमित्यन्वयबोधः। (वह्निनिरूपितव्याप्तिविशिष्टधूमप्रकारकपक्षविशेष्यतावगाहिनः परामर्शस्य प्रकृते न चक्षुःप्रयोज्यता महानसावच्छेदेन वह्निधूमयोः सामानाधिकरण्यस्य तत्पुरुषीयचाक्षुषाविषयत्वात्। किन्तु पञ्चावयवय वाक्यसमूदायजन्यशाब्दबोधप्रयोज्यतैव पञ्चकसमुदायस्य स्वज्ञानद्धारैव तज्ज्ञानजनकत्वात्तस्मिन्प्रयोज्यत्वमिति तात्पर्यार्थः।)महानसत्वरूपपक्षतावच्छेदकविशिष्टे पक्षे महानसे वह्नित्वावच्छिन्नावह्निवैशिष्ट्यावगाहनादेवम्। तथाचायमित्युपनयवाक्यजन्यमिदन्त्वावच्छिन्नो वह्निमानिति ज्ञानं न
पर्वतत्वादिरूपपक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकावच्छिन्नं विषयीकरोतीति तयोर्व्यावृत्तिरिति भावः। एवमग्रेऽपीति। प्रतिज्ञाघटकवचनशब्दस्य न्यायबहिर्भूतवाक्यव्युदासाय न्यायावयवपरत्वं यथाग्रिमलक्षणान्तरेऽपि दव्द्युदासाय वचनशब्दस्य तत्परत्वं स्वीकरणीयमित्यर्थः। हेतुलक्षणे पञ्चम्यन्तं हेतुरिति मात्रे वक्तव्ये लिङ्गप्रतिपादकमित्यस्य व्यावर्त्यन्दर्शयति–अयं न दण्डादिति। अयम् इदन्त्वावच्छिन्नः। न दण्डात् जन्यत्वं पञ्चम्यर्थः। तथाच प्रकृते दण्डजन्यत्वाभावस्य साध्यत्वेनैतद्विशिष्टे दण्डजन्यत्वत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नस्य प्रकारतासम्बन्धेन बोधजनकं वाक्यमयं न दण्डादिति प्रतिज्ञारूपं तद्धटकं पञ्चम्यन्तं तस्य हेतुत्वापत्तेर्वारणाय तादेति भावः। दीधितौ तु इदं न दण्डज्जातं दण्जसंयोगजन्यद्रव्यत्वादित्युक्तम्। व्याप्तिप्रतिपादकमितीति। धूमाधिकरणबोधकयच्छब्दवीप्सया तथा वह्नयधिकरणबोधकतच्छब्दवीप्सया धूमाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकासाध्यतावच्छेदकावच्छिन्नसाध्यवत्त्वस्य पक्षे विषयतयोदाहरणजन्यज्ञानस्य फलितमर्थमाह—प्रकृतेत्यादि। प्रकृतहेतुमति धूमरूपहेतुमति पर्वते प्रकृतहेतुर्धूमस्तद्व्यापकत्वविशिष्टं साध्यं वह्निस्तद्बोधकं वाक्यमुदाहरणवाक्यमित्यर्थः। उक्तार्थमनालोच्य व्यापकत्वं सम्पादयति—साध्यपदस्येत्यादिना। यत्पस्येति। तत्पदस्याप्युपलक्षणम्। तादृशेत्यादि। तादृशार्थद्योतकतयेत्यर्थः। लक्षणमनङ्गीकृत्यापि व्यापकत्वं सम्पादयति– अथवेति। उत्तरकालं व्यापकताबोधो मानस इति। तद्बोधकशब्दाभावान्न शाब्दबोध इत्यर्थः। व्याप्तिप्रतिपत्तिपरत्वमिति। व्यापकत्वघटितव्याप्तिबोधकत्वमित्यर्थः। न कश्चिदोषगन्ध इति। एतेन पूर्वस्मिन्पक्षे साध्यपदस्यानादितात्पर्यकल्पनं दोष इति ध्वन्यते। व्याप्तिविशिष्टलिङ्गप्रतिपादकमितीति। उपनयवाक्येन बोध्यमर्थमाह—-पक्षतेत्यादि। निगमनेन साध्यप्रकारकबोधजननादिदं तादृशहेतुप्रकारकबोधजनकमित्यर्थः। पक्षधर्मताज्ञानार्थमितिपाठस्यापि प्रामाणिकत्वमङ्गीकृत्य विवृणोति पक्षधर्मताज्ञानार्थम् पक्षवृत्तित्वज्ञानार्थम्। कर्तृवाचकोपनयस्य क्रियासाकाङ्क्षत्वेन प्रयुज्यत इत्यध्याहार्यम्। पूर्वोत्तरयोः प्रयोजनपदसन्निवेशात्तदघटिततया चानास्थासूचानायाह–यथाकथञ्चिदित्यादि। हेतुसाध्यतावत्तया पक्षवचनमितीति। हेतुमत्तया हेतुवैशिष्ट्येन हेतुवैशिष्ट्यमूलकसाध्यवैशिष्ट्यस्य पक्षे बोधकत्वेनेति फलितोऽर्थः। तदेतदाह—हेत्वित्यादि। उत्तरकालम्। निगमनोत्तरकालं निगमनान्तादिति बोध्यम्। अबाधितेति। हेतावित्यादि। एवमुत्तरत्रापि बोध्यम्। अनुमितिं प्रति व्यापकतावच्छेदकप्रकारकव्याप्तित्वेन व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वेन ज्ञानद्वयस्य कारणतामभ्युपगच्छतः प्राभाकरस्य शङ्कामवतारयितुं तन्मते लाघवं प्रदर्शयन्साध्यव्याप्यत्वावच्छिन्नहेतुप्रकारतानिरूपितपक्षविशेष्यताशालिज्ञानत्वरूपविशिष्टपरामर्शत्वेन कारणतामङ्गीकुर्वतां नैयायिकानां मते गौरवमाश्ङ्कते–नन्विति। लाघवमुपपादयति—वह्निव्याप्यइत्यादि। अस्यायमाशयः— नियतपूर्ववृत्तित्वस्यावश्यक्लृप्ततयाऽनन्यथासिद्धत्वमात्रं कल्पनीयमस्मन्नये। युष्मन्मते तूभयं कल्पनीयं विशिष्टस्यातिरिक्तत्वाद्गौरवमिति। वह्निव्याप्यधूमवानयमितीति। वह्निव्याप्यधूमवानयमिति शब्दजन्योपस्थितिविषयीभूतविशिष्टवैशिष्ट्यावगाहिपरामर्शस्य वह्निव्याप्तिविशिष्टपक्षवैशिष्ट्यावगाहिनो व्याप्यतावच्छेदकत्वादिरूपज्ञानद्वयस्यानुमितिकारणताकल्पनव्यभिचाराद्विशिष्टवैशिष्ट्यावगाहिन एव कारणत्वकल्पनं युक्तमिति भावः। न्याय्यत्वमितीति। धर्मद्वयावच्छेदेनानन्यथासिद्धत्वकल्पनापेक्षया एकधर्मावच्छेदेन तत्कल्पनस्य लघुत्वमिति भावः। ननु न्यायमते व्याप्तिविषयतानिरूपितहेतुविषयतानिरूपित–पक्षविषयताशालिज्ञानत्वेन पक्षविषयतानिरूपित–व्याप्तिविषयतानिरूपित–हेतुविषयताशालिज्ञानत्वेन वा हेतुत्वमित्येतादृशरीत्या विनिगमनाविरहेण कारणताबाहुल्यमिति चेन्मीमांसकमतेऽपि व्याप्तिज्ञानस्य व्याप्तिविषयतानिरूपितहेतुविषयताशालिज्ञानत्वेन हेतुविषयतानिरूपित – व्याप्तिविषयताशालिज्ञानत्वेन वा पक्षविषयतानिरूपितहेतुविषयताशालिज्ञाने विषयविपर्यांसे हेतुत्वमित्यत्र विनिगमनविरहात्कारणताबाहुल्यात्परमयमालोको धूमोवेति सन्देहदशायां व्याप्यतावच्छेदकनिर्णयाभावेऽपि वह्निव्याप्यवानयमिति ज्ञानादनुमित्युत्पत्तेर्व्याप्यतावच्छेदकत्वादिज्ञानकारणत्वस्य च सर्वथा वक्तुमशक्यतया नैयायिकमत एव न्याय्यत्वमिति निष्कर्षः। नैयायिकमते लाघवं वस्तुसिद्धौ प्रमाणमित्याह—वस्तुतस्त्विति । तेन मन्तव्यमिति। ज्ञानद्वयस्य कारणतावादिना प्राभाकरेण धूमो वह्निव्याप्य आलोकवान्पर्वत इति ज्ञानादनुमित्यापत्तेर्वारणायोक्तनिश्चयत्वेन कारणत्वमङ्गीकार्यमित्यर्थः। लाघवमिति। कारणतावच्छेदकशरीरलाघवमित्यर्थः। विनिगमनाविरहेणेत्यादि। लिङ्गज्ञानस्यैव कारणत्वं न ज्ञायमानलिङ्गस्येत्येकशेषे बीजाभावेन धूमं पश्यन्नेवानुमातुमर्हतीत्यनुभावाच्च स्वरूपतो लिङ्गस्य कारणत्वसम्भवाज्ज्ञायमानस्यैव कारणत्वमुच्यत इत्याशयमनुमनुता चार्वाकाणां मतमुन्मूलयतामुदनयाचार्याणां मतं प्रस्थापयति—लिङ्गं न कारणमतितीति। किं तु लिङ्गज्ञानमेव करणं बोध्यम्। व्यभिचारादितीति। भूयोदर्शनेन लिङ्गे व्याप्तिज्ञानवतः पुंसस्तादृशलिङ्गजन्यस्त्वस्यैवानुमितावनुभवसिद्धत्वेऽपि तादृशस्यैव लिङ्गस्यातीतानागतस्थले कारणत्वस्यावश्यकतयोद्बोधकवशादुद्वुद्धत्वेन
सत्त्वादनुमितेरानुभविकत्वादाचार्याणां मते ज्ञायमानस्य लिङ्गस्यानुमितेः पूर्वमसत्त्वात् अनुमितिकार्यसत्वेऽपि तादृशज्ञायमानलिङ्गरूपकारणाभावाव्द्यतिरेकव्याभिचार इति भावः। कथमिदानीं व्याप्तिज्ञानस्य कारणत्वव्यवहाराः सङ्गच्छेरन्नित्यत आह—मत इतीति। मतान्तररीत्याह—फलेत्यादि। फलेनानुमित्यात्मकेनायोगोऽसम्बन्धस्तेन व्यवच्छिन्नमयुक्तमव्यवधानेन फलयुक्तमिति यावत्। तथाच साक्षात्कारणं करणं परामर्श एवेति फलितोऽर्थः। व्यापारलक्षणे सत्यन्तप्रयोजनं दर्शयति—कारणेऽतिव्याप्तिवारणायेति। सति दले तस्मिन् प्रत्यासत्त्या तच्छब्दाभ्यां व्याप्तिज्ञानपरामर्शः। अधुना व्याप्तिज्ञानजन्यपरामर्शजनकत्वस्य करणे व्याप्तिज्ञाने सत्त्वेनातिव्याप्तेस्तत्करणे स्वजन्यत्वस्य स्वस्मिन्नप्रसिध्द्या व्याप्तिज्ञानमादाय परामर्शे व्यापारलक्षणसमन्वय इति तात्पर्यम्। अन्यदुपक्रम्यान्यव्याख्याने निग्रहस्थानलिङ्गविभागानुपपत्तिमाशङ्कते–यद्यपीति। अनुपपत्तिं वारयति–तथापीति। अन्वयव्याप्तिव्यतिरेकव्याप्त्योः प्रकृतलक्षणलक्ष्यत्वे बीजमाह–अन्वयेत्यादि। अन्वयसहचारग्रहः “यत्सत्वे यत्सत्त्वम” इति ज्ञानमेव। व्यतिरेकसहचारग्रहः “यदभावे यदभावः” इति। तद्ग्राह्याव्याप्त्योरेवान्वयव्याप्तिव्यतिरेकव्याप्तिरूपत्वेन तथैव परिष्करोतीत्यर्थः। सङ्ग्रहे केवलान्वयिलक्षणस्य सिद्धतया दीपिकायां पुनर्लक्षणान्तरकरणे बीजं दर्शयति—अन्वयेत्यादिना। (सिद्ध्यसिद्धिभ्यामिति। एकस्मिन्नेव हेतौ केवलान्वयिव्याप्तिकत्वेन व्याप्यत्वासिद्धिः। व्यतिरेकव्याप्तिकत्वेन व्याप्यत्वासिद्धिश्चेति सिद्ध्यसिद्धिभ्यां व्याघातरूपो दोषो द्रष्टव्य इत्यर्थः।) साध्ये केवलान्वयित्वविशेषणप्रयोजनं दर्शयति–केवलेत्यादि। तदेव निर्वक्तीति। साध्ये विशेषितकेवलान्वयित्वं परिष्करोतीत्यर्थः। (अत्यन्ताभावेतीति। अत्रात्यन्ताभावो निरवच्छिन्नवृत्तिमांश्च विवक्षणीयः। तत्फलं दर्शयति–तेनेत्यादिना। संयोगाभाववान्पदार्थत्वादेवं गगनाभाववान्पदार्थत्वादित्यत्र संयोगाभावागगनाभावयोरभावः संयोगाभावाभावो वृक्षेऽग्रावच्छेदेन प्रसिद्धोऽतः सावच्छिन्न एव गगनाभावाभावो गगनस्वरूपोऽतो न वृत्तिमानमिति बोध्यम्।) दीपिकायां ईश्वरप्रमाविषयत्वमिति। असर्वज्ञप्रमाविषयत्वस्य सर्वविषयावृत्तित्वात्केवलान्वयित्वाप्रसक्तेर्विवक्षणीयमेवमिति भावः। मूले सर्वपदाभिधेयत्वोक्तेः प्रयोजनमाह—घटेत्यादि। घटपदाभिधेयत्वस्य पटे पटपदाभिधेयत्वस्य घटे। एवं तत्तत्पदाभिधेयत्वस्य तस्मिन्तस्मिन्नसत्त्वात्पदार्थसामान्येऽभिधेयत्वस्यावृत्तेः केवलान्वयित्वं न स्यादित्यर्थः। सर्वपदाभिधेयत्वम्। सर्वमित्येवं सर्वशब्दज्ञानविषयत्वं सर्वत्रास्तीति भावः। उपकाराय मूलमूलं व्याख्यायते–मूले व्यतिरेकमात्रव्याप्तिकमितीति। अत्र व्यतिरेकमात्रव्याप्तिकपदं लक्षणया निश्चितव्यतिरेकमात्रव्याप्तिकपरमित्यर्थः। तत्फलं दर्शयति—तेनेति। लक्षणया तथाङ्गीकारेणेत्यर्थः। अन्वयव्याप्तेः सत्त्वेपीति। अनिश्चितान्वयव्याप्तेः सत्त्वेपीत्यर्थः। न लक्षणासङ्गतिरिति। न व्यतिरेकिलक्षणाव्याप्तिरित्यर्थः। अन्वयित्वमितीति। अन्वयव्याप्तिमत्वमित्यर्थः। अन्वयव्याप्तिपदेन हेतुसाध्ययोः सामानाधिकरण्यरूपान्वयसहचारज्ञानविवक्षया तद्गाह्यत्वं पर्यवसन्नं दोषदाने स्यात्क्रियापेक्षमन्वयि निष्कृष्टार्थमाह—अन्वयेत्यादि। तथाच फलितभावार्थमाह—तथाचेति। प्रसिद्धानुमानमिवेति। वह्निमान्धूमादित्यनुमानमिवेत्यर्थः। अनुमानस्यान्वयव्यतिरेकित्वं धर्मिपारतन्त्र्येण बोध्यम्। अन्वयदृष्टान्ताभावेन वास्तविकतदभावेपि प्रौढिवादमात्रमेतदिति बोध्यम्। असाधारण्यमितीति। स्यादिति शेषः। सपक्षव्यावृत्तित्वमिति। निश्चितसाध्यवत्पक्षवृत्तत्वमित्यर्थः। न वा पक्षं व्याख्यायते—अप्रसिद्धसाध्यकेति। साध्यविशेषणकानुमितिरेवेति। इतरभेदरूपसाध्याप्रसिद्ध्या। साध्यविशेषणविशिष्टकानुमितिः “पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्” इत्यनुमितिर्न स्यादित्यन्तेनान्वय इति भावः। साध्येत्यादीति। मूले कथं तद्विशिष्टानुमितिरिति। साध्यविशिष्टपक्षविशेष्यकानुमितिरित्यर्थः। विशिष्टज्ञानेत्यादि। विशिष्टज्ञानं विशेषणविशेष्यसम्बन्धत्रितयावगाहितेष्वेकानवगाहित्वेऽङ्गवैकल्याद्विशिष्टज्ञानानुत्पत्तेरिति भावः। दूषणान्तरमाह—व्यतिरेकेत्यादि। व्यतिरेकव्याप्तिं लक्षयति स्पष्टप्रतिपत्तये—साध्येत्यादिना। समाधानग्रन्थतात्पर्यार्थमाह–पृथिवीत्यादि। येन समुदायभेदैकाधिकरणप्रसिद्ध्या तत्र हेतुसत्त्वासत्त्वाभ्यां विकल्प्याऽन्वयित्वासाधारण्ये आपद्येयातां तन्नेति भावः। तथाश्च तज्जिज्ञासायामाह—अपि त्वित्यादि। जलादीनां ये भेदास्तत्समुदायमित्यर्थः। तथापि समुदायाप्रसिद्धिस्तदवस्यैवेत्येतत्सिद्धान्तार्थबोधकम्मूलं विवृणुते–जलादीत्यादिना। त्रयोदशऽन्योन्याभावास्त्रयोदशासु प्रत्येकं प्रसिद्धा इत्यर्थः। तेषामन्योन्याभावानां कूटं समुदायः न युगपत्किन्तु पृथिवी जलभिन्ना तेजोभिन्ना तेजोभिन्नेत्यादिरीत्या साध्यत इत्यर्थः। त्रयोदशत्वावच्छिन्नेतीति। निष्कृष्टार्थस्य समुदितमूलस्यार्थमाह— अनुमितेरित्यादि। अनुमितेः पूर्वं पृथिवीपक्षकेतरभेदसाध्यकानुमितिपूर्वक्षणे निश्चितसाध्यतावच्छेदकावच्छिन्नपृथिवीतरजलाद्यष्टकगुणादिपञ्चकर्मसङ्कलनया त्रयोदशवान्यो धर्मी भेदस्तस्याप्रसिध्द्या समुदायभेदाधिकरणत्वस्य पृथिव्यामेकस्याप्रतिध्द्यान तत्र पृथिव्यां हेतोः गन्धवत्त्वरूपहेतोः सत्त्वासत्त्वनिबन्धने वृत्तित्वावृत्तित्वप्रयुक्ते अन्वयित्वासाधारण्ये अन्वयसहचारग्रहग्राह्यव्याप्तिमत्त्वसाध्याभावव्यापकीभूताभावप्रतियोगित्वरूपे इति समुदितार्थः। प्रत्येकप्रसिद्धाविति। जलादित्रयोदशसु परस्परान्योन्याभावप्रसिद्धावित्यर्थः। अपेक्षाबुद्धिविशेषविषयत्वरूपसमुदायत्वेति।
अयमेक इत्यादिरूपो यो भेदसमुदायस्तत्त्वं तद्विशिष्टज्ञानं सम्भवतीत्यर्थः। विशेषणतावच्छेदकप्रकारकनिर्णयस्येति। तादृशसमुदायत्वनिर्णयस्येत्यर्थः। व्यतिरेकव्याप्तिज्ञानं च सम्भवतीति। साध्यप्रसिद्धिमूलकसाध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्यतिरेकव्याप्तिज्ञानं सम्भवतीत्यर्थः। जलादीत्यादिनाऽभावग्रहणे विनिगमकाभावेन तमादाय चतुर्दशान्योन्याभावप्रसिद्ध्या त्रयोदशान्योन्याभावोक्तिमूलतात्पर्यं वर्णयितुं पूर्वं मूलानौक्तिकमाक्षिपति—यद्यपीति। मूलतात्पर्यं वर्णयितुमुपक्रमते–तथापीति। प्रमाणान्तरत्वमिति। अनुमानप्रमाणान्यत्वमित्यर्थः। न्यायमतेऽनुमानप्रमाणएवान्तर्भाव इति भावः। आक्षेप्तुमिति। इत्थमाक्षेपप्रकारः। “पीनोऽयं देवदत्त” इत्यादौ “अयं देवदत्तो रात्रिभोजनवान् पीनत्वाद्यो न रात्रिभोजनवान्स न पीनत्ववान् यथा व्रतीति”। व्यतिरेकव्याप्तिहेतुकानुमानेनैव गतार्थत्वात्प्रमाणान्तरत्वोपगमः प्राभाकरमतेऽर्थापत्तेर्विफल इति। तदेतदाह—व्यतिरेकेत्यादि प्रदर्शनीयतयेत्यन्तेन। तन्मतसाधारण्येनेति। प्राभाकरैरपि व्यतिरेकव्याप्तेः पृथिवीतरभिन्नेत्यादावङ्गीकारात्तन्मतस्वमतोभयानुगतरूपेणेत्यर्थः। व्यतिरेकव्याप्तिं प्रदर्शयितुमिति। इतरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवत्त्व व्यतिरेकव्याप्तिं बोधयितुमित्यर्थः। जलादित्रयोदशेत्यादिकथनमिति। इत्थं च त्रयोदशभेदानामभावमादाय व्यतिरेकव्याप्तिसिद्धिः। नन्वस्मन्मते जलाद्यभावान्तेषु चतुर्दशसु परस्परं भेदप्रसिद्धावपि प्राभाकरमतसाधारण्येन नोपपद्यत इत्याह—न चेत्यादि। तन्मते प्राभाकरमते। जलादिचतुर्दशान्योन्याभावाः। जलादिचतुर्दशसु प्रत्येकं भेदाः प्रसिद्धाः न चेत्यन्वयः। अत्र हेतुमाह—अभावस्येत्यादि। तन्मतेऽभावस्याधिकरणात्मकत्वाच्चतुर्दशप्रसिद्धेरिति भावः। अभावानामधिकरणात्मकत्वे रूपाद्याभावानां तत्तदधिकरणात्मनां तत्तदिन्द्रियैः प्रत्यक्षं न स्यात्तत्तदिन्द्रियायोग्यत्वादिति दूषणं स्फुटं सिद्धान्तमुक्तावल्यां द्रष्टव्यम्। केचित्त्विति। नैयायिका इत्यर्थः। विग्रहेणेति। तद्गुणसंविज्ञानबहुव्रीह्यर्थबोधकवाक्येनेत्यर्थः। तथा चोत्तरत्रयोदशस्वित्यनुपपन्नमित्यत आह—त्रयोदशस्वितीत्यादि। अग्रेऽप्येवमिति। त्रयोदशभेदत्वावच्छिन्नेत्यादावपीत्यर्थः। आहुरिति। अनेन क्लिष्टकल्पनयाऽस्वरसः सूचितः। उपकाराय मूलमूलं विवृणोति–मूले सन्दिग्धसाध्यवानितीति। सन्दिग्धं साध्यं यस्मिन्निति व्युत्पत्त्या सन्देहविषयसाध्याधिकरणे पर्वतो वह्निमान्नवेति संशयात्मकज्ञानस्य साध्यप्रकारकपर्वतविशेष्यकत्वेन विशेष्यतासम्बन्धेन संशयात्मकज्ञानविशिष्टः पर्वत इति तद्रूपलक्षणं फलितं भवतीत्याह–विशेष्येत्यादि। सपलक्षणादिकमपीति। आदिना विपक्षलक्षणपरीग्रहः। एवमित्यादि। साध्यप्रकारकनिश्चयविशिष्टः सपक्ष इति, साध्याभावप्रकारकनिश्चयविशिष्टो विपक्ष इति, सपक्षविपक्षलक्षणे परिष्कर्तव्ये इत्यर्थः। पक्षलक्षणस्येति। सन्दिग्धेत्यादिरूपस्येत्यर्थः। दीपिकीयीमित्युक्तिः स्पष्टार्थैव। संशयविघटकशाब्दस्थल इति। एवं हि नन्विति दीपिकाग्रन्थस्य निष्कृष्टोऽर्थः। साधनचतुष्टसम्पन्नो ब्रह्मजिज्ञासुः शुश्रूषया गुरूपसदनं कृत्वा सद्गुरुदिता"द्यतो वा इमानी"ति स एक्षत , सोऽकामयत, स एको द्यावापृथिवीत्यादिवेदान्तवाक्यात्कृतश्रवणः स्वदेशमागत्य युक्तानुचिन्तनाख्यमननमपेक्षमाणः क्षित्यङ्कुरादिकं सकर्तुकं कार्यत्वाद्धटवद्यन्नैवं तन्नैवमित्यनुमानेनोक्तश्रुतिप्रतिपाद्ये सविशेषे पक्षे कर्तुत्वमनुमिनोति। तत्र वेदान्तवाक्यशब्दप्रमाणेनात्मनो निश्चितसाध्यकत्वेनोक्तपक्षत्वाभावाज्जायमानानुमित्यनुमित्यनापत्तिः। किञ्च चाक्षुषप्रत्यक्षेऽपि महानसादिवह्नौ प्रत्यक्षाकलितमप्यर्थमनुमानेनैव बुभुत्सन्ते तर्करसिका इति मणिकारोक्तेर्महानसं वह्निमद्धूमादित्यनुमितेर्महानसादौ निश्चितसाध्यवत्त्वेन पक्षलक्षणस्याव्याप्तिरिति। तत्र किञ्चेति शङ्कान्तरोत्तरत्वमेव साधयति—संशयविघटकेत्यादिना। संशयोभावाभावोभयकोटिकं ज्ञानं तद्वघटिकां या परमाप्तोक्तवेदान्तजन्यात्मविषयसिद्धिस्तस्मिन्मनन इत्यर्थः। अव्याप्तिमुक्त्वेति। अव्याप्त्यभिधानोत्तरकाले इत्यर्थः। मननं नानुमानप्रमाणयुक्तनुचिन्तनमिति मत्वा प्रत्यक्षस्थलानुधावनमिति बोध्यम्। उक्तेतीति। अनेन तस्य सिद्धान्तत्वं स्फोरितम्। सद्धेतून्निरूप्येतीति। इदं पूर्वोत्तरग्रन्थयोः सङ्गतत्वेन(१-सङ्गतिमत्त्वेन इति पाठः।) प्रेक्षवतां प्रवर्तनायेति ध्येयम्। प्रसङ्गसङ्गत्येति। स्मृतस्योपेक्षानर्हत्वरूपप्रसङ्गसङ्गत्येत्यर्थः। हेतुवदाभासन्त इत्यादि। न तु हेतूनामाभासा इति व्युत्पत्त्या दोषविशेषा निरूप्यन्त इत्यर्थः। अग्रे दुष्टानां विभजनीयत्वेन दोषाणां निरूपणविषयत्वेऽसङ्गतिकत्वापत्तेरिति। केचित्तु। हेतूनामाभासा इति व्युत्पत्त्या दोषाणामेव निरूपणे प्रतिज्ञाविषयतालक्षणमपि दोषस्यैव दोषवत्त्वेन होतोर्दुष्टत्वेन दुष्टविभागोपि न दुष्ट इत्याहुः। अन्ये तु दुष्टहेतोरेवेदं लक्षणम्। ह्रदो वक्ष्यभाववान्धूमश्चेति समूहालम्बनविषयतामादाय बाधितादौ लक्षणसमन्वयादित्याहुस्तदसत्। दोषाश्रयत्वरूपदुष्टपदार्थत्वाभावाद्दुष्टपदस्य पारिभाषिकत्वापत्तेरिष्टापत्तौ तद्धेतुत्वं तत्पक्षे तत्साध्ये दुष्टत्वमित्यस्यैव सम्यक् त्वेऽधिकनिवेशवैयर्थ्यापत्तेरिति दिक्। ननु सव्यभिचारादीनां पृथग्भानात्पृथक् तल्लक्षणचिकीर्षया किं तत्सामान्यलक्षणेनेत्याशङ्कापरिजिहीर्षुरेतदाशङ्कामपनिनीषया तदित्याह—-नन्विति। सामान्येत्यादि। विभागोऽवान्तरधर्मपुरस्कारेण धर्मिप्रतिपादानानुकूलव्यापारः स च सामान्यधर्मप्रकारकज्ञानं विनाऽज्ञातगोपदार्थस्य शुक्लः पीतो रक्तो वेति विभागानुदयवत् विभागोनुपपन्न इति भावः।
ननु निरूपणप्रतिज्ञाऽन्यस्य विभागोन्यस्य लक्षणमन्यस्येत्यसङ्गतमित्याशङ्कामपसिसारयिषुर्दोषलक्षणे दुष्टपदमन्वर्थकमर्थवद्भवतीत्याशयेन दोषलक्षणं प्रथमोपस्थितत्वाच्चावश्यकमित्यह—दोषलक्षणेत्यादि अनुमतीति। तत्तत्प्रकृतानुमितीत्यर्थः। हेत्वाभासत्वमिति। लक्षणस्य न हेतुविषयत्वमित्यावेदयितुं तदर्थं पुनराह हेतोरित्यादि। पञ्चानां लक्ष्यत्वविशेषेऽपि पर्वतो वह्निमानितिवद्धारूपप्रसिद्धत्वमभिप्रेत्य बाधे लक्षणं समनन्वयति—ह्रदेत्यादिना। परामर्शस्य व्याप्तिघटिततयैतव्द्यभिचारादिज्ञानेऽपि विशिष्टवाक्यार्थबोधासम्भवेन परामर्शं प्रत्येव प्रतिबन्घकत्वाव्द्यभिचारादिषु लक्षणागमनेनाव्याप्तिं वारयितुमनुमितिपदमनुमितितत्करणपरामर्शोभयपरमित्याह—अत्रानुमितीत्यादिना। तेन धूमव्याप्यवह्निमानिति परामर्शप्रतिबन्घके धूमाभाववद्धृत्तित्वरूपव्यभिचारज्ञाने, एवं सपक्षविपक्षव्यावृत्तिरूपसाधारण्ये व्यतिरेकव्याप्तिविघटनद्वारा परामर्शविघटके, एषमनुपसंहारित्वे व्यतिरेकव्याप्तिविघटनद्वारा परामर्शविघटके, एवमन्वयव्याप्तिविघटनद्वारा परामर्शविघटके विरोधे, एवमनुमितिप्रतिबन्घकेषु आश्रयसिद्धिषु, समन्वेयम्। अमनुमितिप्रतिबन्घकत्वस्य धर्मिपारतन्त्र्येण विषयत्वेऽन्वयादनुमितिप्रतिबन्घकतावच्छेदकयथार्थज्ञानविषयत्वं पर्यवसितम्। तेनोदासीनविषयस्य समूहालम्बनात्मकतादृशविषयत्वेऽपि नातिप्रसङ्ग इति बोध्यम्। भ्रमभिन्नेत्यर्थ इति। भ्रमसामान्यभिन्नेत्यर्थ इति बोध्यम्। तेन दर्शितबाधितभ्रमस्य किचिदंशे प्रमात्वेऽपि न तद्दोषतादवस्थ्यम्। बोधैकदेशे वह्न्यभावादाविति। अत्रादिना व्यभिचारादिघटकसाध्याभावादिपरिग्रहः। तत्र सत्त्वादिति। व्यभिचारादिघटकसाध्याभावादावपि तादृशप्रतिबन्धकव्यभिचारादिज्ञानविषयत्वसत्त्वादित्यपि बोध्यम्। समाधत्ते–यद्रूपेत्यादिना। यद्रूपपदेन प्रतिबन्घकतावच्छेदकविषयतारूपपरामर्शः॥ तथाच वह्न्यभाववान्ह्रद इति ज्ञानमाज्ञस्यानुमितिप्रतिबन्घकत्वात्प्रतिबन्घकतावच्छेदकविषयतावच्छेदकं रूपं वह्न्यभाववद्रूपत्वं बोध्यम्। केवलं वह्न्यभाव इति ज्ञानाद्यनुमित्यप्रतिबन्घाद्वह्न्यभावत्वं न प्रतिबन्घकतावच्छेदकविषयतावच्छेदकं रूपमिति भावः। विशिष्टज्ञानस्य विशेषणतावच्छेदकावच्छिन्नप्रकारकत्वनियमं मनसिकृत्याह—वह्न्यभावेत्यादि। तादृशज्ञानसामान्यान्तर्गतस्येति। प्रतिबन्घकं यद्यज्ज्ञानं तत्तदन्तर्गतस्येत्यर्थः। वह्न्यभावादाविति। पर्वत आदिशब्दार्थः। उक्तरीत्यैव। यद्रूपावच्छिन्नविषयकज्ञानस्याज्ञानस्यानुमितिप्रतिबन्धकतया पूर्वकथितयुक्तेत्यर्थः। ज्ञानविशेषतात्पर्यग्राहकतयेति। तज्ज्ञानविशेषमेव निर्वक्ति–एवं चेत्यादिना।
एतेनैतद्वैयर्थ्यमूलकारुचेर्यथार्थत्वविशेषणं परित्यज्य लक्षणान्तरं मणिस्थमवतारयन्तः समाहिताः। इदमेव लक्षणमभ्युपगच्छतो मूलकृतोऽपि स्वारस्यं सङ्गच्छते। यथार्थफदतात्पर्यज्ञानविशेषफलं दर्शयति—एतेनेति। आहार्यस्येति। बाधकालीनेच्छाजन्यज्ञानस्येत्यर्थः। अप्रतिबन्धकत्वेऽपीत्युत्तरेणान्वयः। अप्रामाण्यज्ञानविशिष्टज्ञानस्य संशयस्येति। अलं पल्लवितेनेति। इह प्रथप्रवृत्तानामन्तेवासिनामतिदुरूहतयाऽप्रवृत्त्यापत्तेर्न विस्तृतम्। अधिकमस्मदीयाभिनवदीधितिव्याख्यायां तर्ककर्कशविचारचातुरीधुरीणैर्द्रष्टव्यमिति सूचित्म्। अत्रेदं विचार्यते। नचैवमपि पर्वतो वह्निमान्वह्निव्याप्यधूमवांश्च ह्रदश्च तथेति समूहालम्बनानुमितिविरोधिवह्न्यभाववद्भदादिरूपबाधादेः पर्वते धूमेन वह्निसाधने दोषताप्रसङ्ग इति वाच्यम्। अनुमितिपदस्य पक्षे साध्यतव्द्याप्यहेतुवैशिष्ट्यावगाह्यानुमितिसामान्यपरत्वात्। तथाच तादृशसामान्यान्तर्गतायां पर्वतो वह्निमान्वह्निव्याप्यधूमवांश्चेत्यनुमितौ ह्रदो न वह्निमानित्यादिनिश्चयस्याप्रतिबन्धकत्वाददोषः। एवञ्च पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरूपिता या साध्यतावच्छेदकावच्छिन्नप्रकारता या च साध्यतावच्छेदकावच्छिन्नव्याप्तिप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारता तत्तन्निरूपकानुमितित्वव्यापकप्रतिबध्यतानिरूपितप्रतिबन्धकतेत्यादिरर्थः फलितः। बाधादावव्याप्तेर्वारणाय पक्षतावच्छेदकावच्छिन्नेति। साध्यतावच्छेदकावच्छिन्नेति च। पक्षतावच्छेदकत्वं तात्पर्यात्प्यधिकरणत्वम्। तेनातेजस्वी पर्वतो वह्निमानित्यादौ विशिष्टपर्वते वह्न्यभावरूपबाधादेः शुद्धपर्वतत्वावच्छिन्नपक्षकानुमित्यविरोधित्वेऽपि नासङ्ग्रह इति ध्येयम्। वह्निर्धूमव्यभिचारीत्यादिग्रहदशायामपि द्रव्यत्वादिना धूमनिरूपितव्याप्तेर्भानसम्भवाव्द्यभिचारविरोधयोरव्याप्तिरतो व्याप्तौ साध्यतावच्छेदकावच्छिन्नीयत्वनिवेशः। व्याप्तिरन्वयतो व्यतिरेकतश्च ग्राह्या, तेनानुपसंहारित्वस्यापि सङ्ग्रहः। स्वरूपासिद्ध्यादिसङ्ग्रहाय हेतुतावच्छेदकावच्छिन्नेति। संस्कारादेराहार्यज्ञानादेश्च बाधादिज्ञानप्रतिबध्यत्वादसम्भव इत्यतोऽनुमितित्वप्रवेशः। ननु सिद्धेरनुमितिप्रतबन्धकतया तदवच्छेदकविषयताश्रये साध्यवत्पक्षेऽतिप्रसङ्ग इति चेदत्राहुः। पक्षतावच्छेदकत्वादि पर्याप्तेरेवोक्तप्रयोजनानुरोधेन निवेशः, न तु तदधिकरणपर्याप्तावच्छेदकताकविशेष्यतेति रीत्या विशेष्यतावच्छेदकत्वादिपर्याप्तिनिवेशः। प्रयोजनाभावात्। एवं च पक्षांशे साध्यांशे वाऽधिकावगाहिन्यामनुमितौ पर्वतो वह्निमानिति सिद्ध्यप्रतिबध्यायां तादृशानुमितित्वस्य सत्वेन तव्द्यापकप्रतिबध्यताघटितलक्षणस्य सिद्धिविषयेऽभावान्नातिव्याप्तिरिति सङ्क्षेपः। इदानीं मथुरानाथादीन्कटाक्षयन्स्वामिप्रेतार्थमुत्प्रेक्षयति परेत्विति। दुष्टानामेवेति। एतेन
दोषव्यवच्छेदः। ज्ञायमानव्यभिचारादेरित्यादि। व्यभिचारादिज्ञानस्य प्रतिबन्घकत्वे वक्ष्यमाणसम्बन्धेन यथार्थज्ञानविशेष्यत्वस्य हेतुवृत्तित्वभङ्गापत्तेरिति भावः। तदर्थस्त्विति। लक्षणार्थस्त्वित्यर्थः। अनुमितीत्यादि। अनुमितिः प्रकृतानुमितिः प्रतिबन्धका ये व्यभिचारादयः साध्याभाववद्वृत्तित्वादिरूपाः। एकज्ञानं व्यभिचारविषयकं प्रकृतेत्यादिसम्बन्धेन प्रकृतहेतुविषयकं यथार्थज्ञानं तद्विशेष्यत्वमित्यर्थः। तत्फलितार्थमाह—धूमेत्यादिना। धूमाभाववद्वृत्तित्वविशिष्टवह्नावुक्तलक्षणं सङ्घटयति–उक्तेत्यादिना। अनुमितिपदं नानुमितिसामान्यपरं येनैतव्द्यभिचारप्रतिबध्यतया धूमलिङ्गकानुमितिर्नस्यात्किन्तु धूमवान्वह्नेरितिप्रकृतव्यभिचारप्रतिबध्यप्रकृतानुमितिपरमेवेत्याह—अनुमितीत्यादि। यथार्थज्ञानविषयत्वनिवेशप्रयोजनं दर्शयति—यथार्थेत्यादिना। व्यभिचारप्रकारकभ्रमविशेष्यत्वस्येति। वह्न्यभाववद्वृत्तित्वविशिष्टो धूम इत्याकारकाप्रमाज्ञाननिरूपितविशेष्यताश्रयत्वस्येत्यर्थः। सद्धेतावपीति। साध्याभाववद्वृत्तित्वादिरूपव्याप्तिविशिष्टधूमादिरूपहेतावपीत्यर्थः। स त्रिविध इतीति। सामान्यलक्षणानुक्त्या विभागानुपपत्तिमूलकप्राप्तन्यूनतापरिहाराय मूलत एव सामान्यलक्षणं स्फुटयति—सामान्येत्यादिना। स्पष्टप्रतिपत्तिद्वारोपकाराय मूलस्थं विवृणोति–मूले तत्रेतीति। साध्याभाववद्वृरितीति। साध्यप्रतियोगिताकाभावाधिकरणनिरूपिताधेयतावानित्यर्थः। साध्यभावीयसाध्यनिष्ठप्रतियोगितायां साध्यतावच्छेदकधर्मावच्छिन्नत्वं साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वमेवं साध्यभावाधिकरणनिरूपितहेतुनिष्ठाधेयतायां हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वं निवेशयति—साध्यतेत्यादिना। फलं दर्शयति तेनेत्यादिना। तत्तत्साध्याभावस्य। अस्य चालनीन्यायेनेत्यादिः। ननु तत्ताविशिष्टवह्न्यभावप्रतियोगिनि वह्नौ तत्तावैशिष्ट्यवद्ववह्नित्वरूपसाध्यतावच्छेदकधर्मवैशिष्ट्यमपि “शुक्लरूपाभाव” इत्यत्र शुक्लत्वरूपत्वधर्मद्वयावच्छिन्नस्य रूपत्वावच्छिन्नत्वेनानुभवादिति चेत्साध्यतावच्छेदकतात्पर्याप्त्यधिकरणधर्ममात्रवैशिष्ट्ये पर्यवसानात्तेन विशिष्टोभयाभावमादायापि न दोषावकाश इत्याहुः। तद्धर्मावच्छिन्नतियोगिताकाभावस्य तद्वह्विर्नास्तीति प्रतीतिगोचरस्य समवायेन वह्न्यभावस्य, च पर्वतवृत्तितया दोषवारणाय साध्यतावच्छेदकधर्मसम्बन्धावच्छिन्नत्वनिवेश इति भावः। नातिव्याप्तिरिति। तादृशसाध्यभावाधिकरणधूमावयनिरूपितहेतुतावच्छेदकसंयोगसम्बन्धावच्छिन्नाधेयतावत्त्वस्य धूमहेतावभावात्सद्धेतो नातिचरति(-न व्यभिचरति।)साधारणलक्षणमिति निकृष्टोऽर्थः। साध्याभावाधिकरणत्वे
वक्ष्यमाणसम्बन्धविशेषावच्छिन्नत्वनिवेशनस्यावश्यकतां बोधयितुं स्वरूपसम्बन्धेन तदधिकरणत्वेऽप्रसिद्धमुद्ग्रावयति—अत्रेत्यादिना। सम्बन्धविशेषावच्छिन्नत्वनिवेशे। वक्ष्यमाणेत्यादिः। घटत्वाभावादिसाध्यकव्यभिचारिणीति। घटत्वाभावादिसाध्यकप्रमेयत्वरूपहेतौ। विशेषाणताविशेषेणेत्यादि। साध्याभावस्येह घटत्वस्वरूपतया समवायेनाधिकरणं घटादिर्न स्वरूपेणेत्यप्रसिद्धिरतो यथायथं सम्बन्धसामान्येनाधिकरणत्वे कालिकेन वक्ष्यभावमादाय पर्वतादौ साध्याभाववृत्तेरतिव्याप्तेः सम्बन्धविशेषविवक्षाऽऽवश्यकेति तत्त्वम्। तमेव सम्बन्धविशेषं दर्शयति—साध्यतेत्यादिना। भावसाध्यकस्थले च साध्यवत्ताग्रहविरोधितानियामकः स्वरूपमेव अभावसाध्यकस्थले संयोगसमवायादिरेवेति भावः। कपिसंयोगरूपभावसाध्यके मूलावच्छेदेन दैशिकविशेषणतया संयोगाभाववत्तानिश्चयस्याप्रतिबन्धकत्वाद्विरोधितानियोमकोभावसाध्यके कथं दैशिकविशेषणताविशेष एवेत्याशङ्क्याह—निरवच्छिन्नेत्यादि। साध्याभाववद्वृत्तित्वरूपसाधारणलक्षणस्य शब्दे नित्यत्वसाध्यककार्यत्वरूपविरुद्धे नित्यत्वाभाववद्धटादिवृत्तिमति सत्त्वेन लक्षणमविचार्य साधारण्यविरोधयोः साङ्कर्यमुद्ग्रावयन्तं प्रत्याह—नचेति। यद्यप्येतद्दोषपरिहाराय साध्यवद्वृत्तित्वे सति इति वक्तुमुचितं तदाप्येकव्यक्तिसाध्यकसाधारणसङ्ग्रहापत्तेरतः प्रकारान्तरेण परिहरति—उपधेयेत्यादिना। उपधेयसङ्करेऽपि। दुष्टसङ्करेऽपि। उपधेरसङ्करात्। दोषासङ्करात्। इति न्यायेन। एवं युक्त्या। तस्य साधारण्यस्य। विरुद्धसाधारण्येऽपि विरोधे सत्त्वेपि। क्षतिविरहात् दोषसाङ्कर्यप्रयुक्तपञ्चत्वानुपपत्तिविरहादिति सकलार्थः। सर्वसपक्षव्यावृत्त इतीति। सर्वसपक्षविपक्षव्यावृत्तोऽसाधारण इति क्वचिद्दृश्यते। तथापि विपक्षव्यावृत्तेरनुगुणत्वाव्द्यर्थविशेषणत्वात्प्रत्युत विपक्षव्यावृत्तत्वे व्यतिरेकितया परं प्रति साध्यसाधकमेवोपन्यस्तं स्यादित्यादिना मणिग्रन्थेन सर्वसपक्षव्यावृत्तमात्रस्य सिद्धान्तितत्वेन तत्पाठस्य निर्मूलत्वसिद्धेरित्थमुक्तम्। सर्वसपक्षव्यावृत्तपदार्थमाह—सपक्षेत्यादि। निश्चितसाध्यवद्वृत्तित्वावच्छिन्नप्रतियोगिताभाव इति निष्कर्षः। सपक्षवृत्तित्वाभावार्थकसपक्षव्यावृत्तत्वमात्रस्य लक्षणत्वे साध्याभाववदवृत्तित्वादिलक्षणस्य इव सामान्याभावविवक्षया वैयर्थ्यं मनसिकृत्य तदर्थतात्पर्यग्राहकतया सार्थकयति—सर्वेत्यादिना। यथा शब्दो नित्यः शब्दत्वादित्यत्रानित्य इति पदच्छेदं कुर्वतां मतं समर्थयति–शब्देत्यादिना। साध्यसन्देहदशायामिति। पक्षतासम्पत्तये सन्दिग्धसाध्यवत्ताकाले इत्यर्थः। असाधरण्यस्येष्टत्वादिति। सन्देहदशायां निश्चितसाध्यवद्रूपसपक्षव्यावृत्तित्वाभावेन सपक्षव्यावृत्तित्वसामान्याभावरूपासाधारणस्यावश्यकत्वादित्यर्थः। सम्प्रदायविदः। साम्प्रदायिकार्थविद इत्यर्थः। सम्प्रदायविन्मतेऽरुचिमुद्ग्रावयन् नव्यमतमाह—नवीनास्त्विति। असाधारणस्येति। स्वीकारे इति परेणान्वयः। प्रकृतपरामर्शकालिकेत्यादि। साध्यसन्दोहदशायां पक्षे साध्यनिश्चयाभावेन विपरीतपरामर्शस्यापि सम्भावनया सत्प्रतिपक्षस्वीकारे चेत्यर्थः। बाधभ्रमदशायामित्यादि। तुल्ययुक्त्या सद्धेतौ बाधभ्रमदशायां बाधस्याप्यसाधारण्यदोषत्वेऽनाङ्गीकारापत्तेरित्यर्थः। नहि वैषम्ये युक्तिं पश्याम इति। बाधभ्रमदशायां बाधितस्य सपक्षव्यावृत्तित्वेन नासाधारण्यं साध्यसन्देहदशायां च सद्धेतोस्तत्त्वमित्येवं वैषम्ये एकशेषे युक्तिमनुग्राहिकां न पश्याम इत्यर्थः। अतो नव्यसिद्धान्तसिद्धं सपक्षत्वं दर्शयति–एवञ्चेत्यादि। केवलसाध्यवत्परम्। साध्यवन्मात्रबोधकं न निश्चितसाध्यवत्तावच्छिन्नसपक्षार्थकमित्यर्थः। साध्यवदवृत्तिहेतोरेवेति। साध्यवत्त्वावच्छिन्नवृत्त्यभावप्रतियोगिहेतोरेवेत्यर्थः। तेन यत्किञ्चित्प्रकृतसाध्यवद्वृत्तित्वेन साध्यवदवृत्तित्वाप्रसिद्धावपि न क्षतिः। न कोऽपि दोष इति। अनित्यत्वसाध्यकशब्दत्वहेतोः साध्यवच्छब्दवृत्तित्वात् सन्देहदशामादाय तु न तत्त्वमुक्तयुक्तेरिति भावः। अन्वयव्यतिरेकदृष्टान्तरहित इतीति। तत्त्वं परिष्करोति–किञ्चिदित्यादिना। किञ्चिद्विशेष्यकनिश्चयाविषयसाध्यकत्वे सति यत्किञ्चित्पक्षविशेष्यकसाध्यविषयकतया यत्किञ्चित्साध्यभावाधिकरणाप्रसिद्धौ तादृशनिश्चयस्य यत्किञ्चित्साध्यभावाधिकरणविशेष्यकतया च प्रमेयत्वहेतौ तत्त्वमिति भावः। अर्वाचीनमते गौरवमुत्थापयन् अन्यमतं दर्शयति—नवीनेत्यादिना। एतेन केवलान्वयिसाध्यकत्वं पर्यवसन्नम्। दूषकताबीजं दर्शयति—तदित्यादिना। साध्यभावव्याप्त इतीति। न च संयोगादिसाध्यकसद्धेतावतिव्याप्तिरिति वाच्यम्। साध्यसमानाधिकरणत्वेसति साध्याभावव्याप्तिवैशिष्ट्यस्याभिप्रेतत्वात्। साध्याभावव्याप्तिं प्रकारान्तरेण विवृणोति—साध्यवदवृत्तित्वमितीति। तेन संयोगसाध्यकसद्धेतावतिप्रसङ्गाशङ्कैव नावतरतीति भावः। साध्यवदवृत्तित्वेनासाधारण्यविरोधयोर्दोषयोः साङ्कर्यमाशङ्क्य परिहरति—निश्चितसाध्यवदवृत्तित्वरूपतया नाभेद इति। दूषकत्वं दर्शयति—एतादृशेत्यादिना। साध्यवदवृत्तित्वरूपविरोधरूपदोषविशिष्टहेतुज्ञानं साक्षादेवानुमितिविरोधि न परम्परया व्यभिचारविशिष्टहेतोः व्याप्तिद्वारेव श्रवणमात्रेणैवाप्रामाण्यग्रहादित्याशयः। यस्य साध्याभावेत्यादीति। यत्सम्म्बन्धीति। यत्पदेन प्रकृताभिप्रेतपक्षपरिग्रहः। पक्षेत्यत्र तदित्यादिः। तथाच यत्पक्षकं यत्साध्यं तदभावव्याप्तहेत्वन्तरस्य ज्ञानं तत्पक्षे स इत्यन्वयः। नवीनमते वैलक्षण्यं हेत्वन्तरस्य सत्त्वमात्रं पक्षे स इति बोध्यम्। स्वरूपतस्तत्सत्त्वस्यैतत्सत्त्वासम्भवाज्ज्ञायमानतदभावव्याप्यतत्सत्त्वं विवक्षणीयमिति हृदयं वेदितव्यम्। अत्र च परस्पराभावव्याप्यवत्ताज्ञानात्परस्परानुमितिप्रतिबन्धः फलम्।
केचित्तु संशयाकारणनुमितिमङ्गीकुर्वन्ति कोटिद्वयव्याप्यवत्ताज्ञानात्तदसत्। लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यनाहार्यतद्वत्ताज्ञानमात्रे तदभावव्याप्यवत्तानिश्चयस्य प्रतिबन्धकत्वादन्यथा शाब्दाद्यनुपपत्तिः। घटाभावव्याप्यवत्ताज्ञानेऽपि घटचक्षुःसंयोगे घटवत्ताज्ञानात्पीतत्वाभावव्याप्यशङ्कत्ववत्ताज्ञानेऽपि दोषविशेषेण शङ्खः पीत इति ज्ञानात् वह्न्यभावव्याप्यजलवान्हद इति ज्ञानेऽपि ह्रदो वह्निमानित्येव ज्ञानाज्ज्ञाने लौकिकसन्निकर्षाद्यजन्यत्वं निविष्टमिति बोध्यमधिकमन्यत्रानुसन्धेयम्। आश्रयसिद्धो यथेति। असिद्धत्वमाश्रयासिध्द्याद्यन्यतमवत्त्वं बोध्यम्। स च नास्त्येवेतीति। गगनीयमरविन्दं नास्त्येवेत्यर्थः। अरविन्दे पक्षे गगनीयत्वरूपपक्षतावच्छेदकाभावानिश्चयादस्य सुरभित्वव्याप्यारविन्दत्ववद्गगनारविन्दमिति परामर्शप्रतिबन्धः फलमिति बोध्यम्। अत्र गगनारविन्दं नास्तीत्यत्र किमरविन्दत्वनिषेध आहोस्विद्गगनीयत्वनिषेधः। सामानाधिकरण्यसम्बन्धेन गगनीयत्वविशिष्टारविन्दस्येत्यरविन्दत्वमरविन्दे प्रतिषेद्धुमशक्यम्। अरविन्दस्य प्रसिद्धत्वात्सविशेषणे विधिनिषेधौ सति विशेष्येऽन्वयबाधे विशेषणमुपसङ्क्रामत(-शिखीविनष्टः। निध्वनत्पाञ्चजन्यश्रुतः। सुरभिचन्दनमाघ्रातमित्येवमुदाहरणान्यस्य।) इति न्यायेन गगनीयत्वस्यैवनिषेध इति तात्पर्येण पर्यवसितोऽर्थ इति। स्वरूपासिद्धिश्चेत्यादि। शब्दे गुणत्वव्याप्यचाक्षुषत्ववत्तापरामर्शज्ञानं प्रति शब्दे न चाक्षुषत्वमिति स्वरूपासिद्धेः प्रतिबन्धकत्वं फलमिति बोध्यम्। सोपाधिको हेतुर्व्याप्यत्वासिद्ध इति वाक्यं “सर्व वाक्यं सावधारण”(2-यथा अब्भक्षो वायुभक्ष इत्युक्ते अतएव भक्षवति वायुमेव भक्षयतीति गम्यत।)मिति न्यायेन व्याप्यत्वसिद्ध एवेत्यर्थपरमिति तदवतारयति—नन्विति। नियमेन सत्त्वादिति। धूमसाध्यकार्द्रेन्धनसंयोगोपाधिवह्निरूपहेतौ साध्याभाववद्वृत्तित्वेन व्याप्त्यभावस्य स्फुटत्वादिति भावः। दीपिकायां व्यक्तीभविष्यत्यग्र इति। शब्दपरिच्छेदान्त(-अत्रैव परिच्छेदे इति पाठः।) इत्यर्थः। साध्यप्रसिद्धिसाधानाप्रसिध्द्योर्दोषान्तरत्वेन पञ्चत्वव्याघातस्तदवस्थ इत्याशङ्क्य तत्स्वरूपप्रदर्शनपूर्वकं तयोरतिरिक्तत्वं निराचष्टे—अत्रेदमवधेयमिति। तद्ग्रहदशायामिति। वह्निधूमयोः काञ्चनमयत्वाभावग्रहदशायामित्यर्थः। अव्याप्त्यतिव्याप्त्यसम्भवानां नातिरिक्तदोषत्वं भागासिद्धिव्याप्यत्वसिद्धिस्वरूपासिद्धित्वेनैव दोषत्वमिति प्रागेवोक्तं स्मर्तव्यम्। तत्तद्वह्नावित्यादि। पर्वतीयवह्नेर्वह्नित्वेन वह्निमन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वरूपसाध्यव्यापकत्वस्य पर्वतीयवह्नित्वेन धूमवन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकपर्वतीयवह्नित्वधर्मवत्त्वस्य सत्त्वादेवं पर्वतीयवह्न्यादावुपाधित्वादव्याप्तिरिति वह्नित्वरूपेण साध्यव्यापकत्वं तत्तद्वह्नौ वह्नित्वेनैव रूपेण साधनाव्यापकत्वं विवक्षितम्। तेन धूमवति वह्नित्वेन वह्निसामान्यस्य वृत्तित्वान्न दोष इति भावः। एवमुत्तरत्रापि। उपाधिश्चतुर्विध इतीति। चतुष्ट्वावच्छिन्नसाध्यव्यापकत्वादिप्रकारविशिष्ट इत्यर्थः। केवलसाध्येत्यादि। पक्षधर्मानवच्छिन्नसाध्येत्याद्यर्थः। उपाधिलक्षणे पक्षधर्मानवच्छिन्नसाध्यव्यापकत्वरूपे यथाश्रुते पर्वतत्वावच्छिन्नवह्नौ वह्नित्वेन रूपेण साध्यव्यापके तत्तद्वह्नित्वेन साधनाव्यापकत्वातत्तद्वह्नौ लक्षणातिप्रसक्तेर्यद्धर्मेत्यादि निवेशयति—यद्धर्मेत्यादिना। तेन वह्नित्वेन वह्निसामान्यस्य साधनवति अभावाभावादिति भावः। आत्मान्यद्रव्यत्वमिति। इदमात्मप्रत्यक्षोत्पत्तेरुक्तम्। इदमिति। प्रत्यक्षे वह्निरिन्द्रियद्रव्यत्वावच्छिन्नत्वविशेषणम्। केवलप्रत्यक्षत्वमिति। उभयसाधारणप्रत्यक्षत्वमित्यर्थः। प्रागाभावो विनाशी जन्यत्वादितीति। जन्यत्वस्य प्रागभावपक्षवृत्तित्वभ्रान्त्या द्वितीयोपाधिनैव तृतीयान्यथासिद्धिमापादयन्तं दूषयन्ञन्यत्वस्य पक्षावृत्तितया तृतीयं सार्थकयति—अत्रेत्यादिना। विनाशित्वव्यापकमित्यर्थ इति। विनाशित्वस्य पक्षधर्मसाधानाभ्यां भिन्नत्वरूपोदासीनधर्मत्वादिति भावः। जन्यत्वस्येत्यादि। प्रमेयमात्रस्य जन्यत्वाभिप्रायेणेदमिति भावः। दीपिकायां बाधितस्य लक्षणमाहेति। नच दुष्टलक्षणत्वे दोषेष्वतिप्रसक्तेर्दोषाणामेव तदभ्युपगम्यत तद्वत्त्वेन दुष्टत्वमङ्गीकृतं ग्रन्थकृद्भिरिति प्रकृते कथमिति वाच्यम्। सामान्यलक्षणस्य तथाभिप्रेतत्वात् प्रकृते च हेतुबोधकयच्छब्दघटिततया दोषेऽतिप्रसङ्ग एव नेत्यभिप्रायात्। सङ्ग्रहे यस्य हेतोः निरूपितत्वं षष्टयर्थः। आश्रयतया साध्यान्वयी। तत्प्रतियोगिताको योऽभावः। प्रमाणेन तद्विरोधितप्रत्यक्षाद्यन्यतमप्रमाणेन। निश्चितो निश्चयविषयः। सः हेतुः। बाधित इत्यर्थः। दीपिकायां अत्रेति। उक्तेषु बाधान्तेषु दोषेष्वित्यर्थः। उपस्थितत्वाद्बाधस्य केन रूपेण कं प्रति प्रतिबन्धकत्वमित्याशङ्काक्रमेण तत्तद्रूपेण तं तं प्रति प्रतिबन्धकत्वं सर्वेषां वदन्नादौ बाधस्याह–बाधस्येति। साध्याभाववत्तानिश्चयस्येति। ह्रदादिर्वह्न्याद्यभाववानित्याकारकनिश्चयात्मकज्ञानस्येत्यर्थः। ग्राह्याभावनिश्चयत्वेनेतीति। तद्धर्मिकतदभावनिश्चयत्वेनेत्यर्थः। अनुमितिप्रतिबन्धकत्वमित्यनेनान्वयीति। पृथक्कृत्येति शेषः। साक्षादित्यनेनाप्येवमिति बोध्यम्। लाघवादिति। अतिरिक्तविरोधिज्ञानसामग्रीत्वेन प्रतिबन्धकत्वकल्पनापेक्षया विरोधिपरामर्शस्य साध्यभावव्याप्यवत्तानिश्चयरूपत्वेन तद्रूपेणैव प्रतिबन्धकत्वकल्पनं न्याय्यमिति भावः। बाधसत्प्रतिपक्षेतरदोषाणां परामर्शप्रतिबन्धकत्व सामान्यत उपपाद्य विशेषरूपेण प्रतिबन्धकतां बोधयितुमुपक्रमयिता दीपिकायामाह—तत्रापीति। इतरदोषेष्वपीत्यर्थः। साधारणस्येतीति। दोषस्य प्रतिबन्धकत्वावश्यकत्वादिदमपपन्नमित्यालोच्याह—भावप्रधानेत्यादि। भावो नाम प्रकृतिजन्यबोधे प्रकारस्त्वतल्भ्यां वाच्यः। स च क्वचिद्धर्मः क्वचिज्जातिः क्वचित्संसर्गः क्वचिद्गुणक्रियादिः सर्वोऽपि तद्रूपेण (1-भावत्वेन रूपेण)विषयः। तथाच भावः प्रधानं यस्मिन्निर्देशे इति व्युत्पत्त्या साधारणपदं ब्राह्मणादिष्यञन्तसाधारण्यबोधकमिति(-गुणवचनब्राह्मणादिभ्यः कर्मणि चेति पा. सूत्रेण.) भावः। तत्त्वं लक्षणयैवेति ध्येयम्। केचित्तु। भावपदस्य धर्मत्वेन धर्म एव शक्तिर्लाघवाद्धर्मत्वमाधेयत्वं शक्यतावच्छेदकं त्रितयानुगतं शक्यतावच्छेदकं च प्रत्येकमेव न तु सामान्यतो भावप्रत्ययत्वं भावाधिकारविहितप्रत्ययानुगतभावप्रत्ययत्वस्य दुर्वचत्वात्। तेन रूपेण ज्ञातेऽपि त्वतल्त्वादिप्रकारकज्ञानाच्छाब्दबोधोदयाञ्च। घटत्वं पटत्वमित्यादौ घटवृत्तिधर्मः पटवृत्तिधर्म इत्यादिरेव प्रकृतिप्रत्ययाभ्यामन्वयबोधः। धर्मत्वरूपेण प्रकृत्यर्थतावच्छेदकधर्ममात्रबोधकत्वव्युत्पत्त्यैव घटत्वपटत्वादिरूपधर्मविशेषमात्रलाभः। नचैवं पटे घटत्वं नास्तीति व्यवहारविरोधः घटवृत्तिधर्मस्य द्रव्यत्वादेस्तत्र सत्त्वात् अन्वयितावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्य व्युत्पत्तिबललभ्यतया घटत्वादिरूपप्रकृत्यर्थतावच्छेदकधर्ममात्रप्रतियोगिताकाभावस्य बोधयितुमशक्यत्वादिति वाच्यम्। त्वतलादिभावप्रत्ययसमभिव्याहृतनञा प्रकृत्यर्थवृत्तित्वविशिष्टधर्मावच्छिन्नप्रतियोगिताकाभावो बोध्यत इति व्युत्पत्त्या तथाव्यवहारोपपत्तेः। नीलोत्पलत्वं राजपुरुषत्वमित्यादिस्थलेऽपि धर्मत्वेन रूपेण प्रकृत्यर्थतावच्छेदकधर्ममुत्पलत्वपुरुषत्वादिकमेव भावप्रत्ययो बोधयति नीलाभिन्नोत्पलवृत्तिधर्मः राजसम्बन्ध्यभिन्नपुरुषवृत्तिधर्म इत्यादिरेव प्रकृतिप्रत्ययाभ्यामन्वयबोधः। नचैवं रक्तोत्पलादावपि नीलोत्पलत्वादिव्यवहारापत्तिः प्रकृत्यर्थतावच्छेदकधर्मस्योत्पलत्वादेस्तत्रापि सत्त्वादिति वाच्यम्। कर्मधारयषष्ठीतत्पुरुषाद्युत्तरभावप्रत्ययादेः प्रकृत्यर्थवृत्तित्वविशिष्टधर्मावच्छिन्ननिरूपितसम्बन्धितबोधकतया तथा व्यवहारविरहात्। वस्तुतस्तु। कर्मधारयसमासोत्तरभावप्रत्ययस्याधेयतासम्बन्धेन पूर्वपदार्थविशिष्टोत्तरपदार्थतावच्छेदके निरूढलक्षणा। एवञ्च नीलोत्पलत्वमित्यादौ नीलाभिन्नोत्पलवृत्तिनीलविशिष्टमुत्पलत्वमित्यादिरेव प्रकृतिप्रत्ययाभ्यामन्वयबोधः। एवं पक्तृत्वं भोक्तृत्वमित्यादौ कृत्प्रत्ययोत्तरभावप्रत्ययस्यापि विषयित्वादिसम्बन्धेन पूर्वपदार्थविशिष्टे उत्तरपदार्थतावच्छेदके निरूढलक्षणा पाककर्तृवृत्तिपाकविशिष्टा कृतिरित्यादिरेव प्रकृतिप्रत्ययाभ्यामन्वयबोधः। तथा घटवत्त्वमौपगवत्वमित्यादौ तद्धितोत्तरभावप्रत्ययस्यापि निरूपितत्वादिसम्बन्धेन पूर्वपदार्थविशिष्टोत्तरपदार्थतावच्छेदके निरूढा लक्षणा
घटसम्बन्धिवृत्तिघटविशिष्टसम्बन्धः। उपग्वपत्यवृत्ति उपगुविशिष्टमपत्यत्वमित्यादिरेव प्रकृतिप्रत्ययाभ्यामन्वयबोधः। तेन कृत्ताद्धितसमासेभ्यः सम्बन्धावगमस्त्वतल्भ्यामन्यत्रेति पाणिनीयसूत्रे(-गुणवचनब्राह्मणादिभ्यः कर्मणि पा. सूत्रेण।) न विरोधः। अन्यत्रापरपदार्थतावच्छेदके सम्बन्धावगमात्पूर्वपदार्थस्य सम्बन्धावगम इति तदर्थादित्याहुः। तदसत्। अनुभवापलापात् भावत्वेन भावस्य शक्यत्वे धर्मत्वादिना बोधो यथायथं समभिव्याहारलभ्यः। यद्यप्याधेयत्वरूपधर्मशक्यत्वे तथा वक्तुं युक्तंं तथापि भावपदस्य धर्मे लक्षणाङ्गीकारापत्तेत्तस्य भावस्त्वतलाविति प्रणयितुः पाणिनेः स्वारसिकप्रयोक्तृत्वभङ्गापत्तेः। एवञ्च घटत्वं पटत्वमित्यादौ त्वाद्यर्थे भावे प्रकृत्यर्थस्याधेयत्वसम्बन्धेनान्वये घटवृत्तित्वविशिष्टं घटत्वमित्यादिरेव बोधः। स्वोत्तरवृत्तिप्रत्यजन्योपस्थितत्वावच्छेदकार्थ एव स्ववृत्तित्वसम्बन्धताभ्युपगमेन न द्रव्यत्वादिकमादाय पटे न घटत्वमित्याद्यनुपपत्तिलेशावसर इति विद्वांसो विशेषेण विचारयन्तु। पर्वतो वह्निमान्प्रमेयत्वादित्यत्र प्रमेयत्वनिष्ठासाध्याभाववद्वृत्तित्वरूपसाधारण्यस्य प्रतिबन्धकतावच्छेदकं रूपमाह—व्यभिचारेत्यादिना। अव्यभिचारवत्तयेत्यर्थः। तद्ग्रहस्य साध्याभाववदावृत्तित्वाभावज्ञानस्य एवमग्रेऽपीति। शब्दो नित्यः कृतकत्वादित्यत्र कृतकत्वरूपसाध्यव्यापकीभूताभावप्रतियोगित्वरूपविरुद्धस्य व्याप्तिज्ञानप्रतिबन्धकत्वमपीत्यर्थः। तदाह दीपिकायां विरुद्धस्य सामानाधिकरण्याभाववत्तयेति। व्याप्तिपदेन सिद्धान्तव्याप्तेः पूर्वपक्षव्याप्तेश्च बोधादुभयप्रतिबन्धकत्वं सम्भवतीति। तदुपपादयति—हेतावित्यादिना। हेतौ साध्याभाववदवृत्तित्वप्रकारकं यज्ज्ञानं तस्य हेतौ साध्याभाववदवृत्तित्वरूपव्याप्तिज्ञानं प्रत्येव प्रतिबन्धकत्वं तदभाववत्ताज्ञानमुद्रयेति कथं हेतुमन्निष्ठेति व्याप्तिज्ञानप्रतिबन्धकेतेति मनसिकृत्योत्तरयति—मणिन्त्रादिन्यायेनेति। एतेन हेतौ साध्याभाववद्वृत्तित्वप्रकारकग्रहे साध्यतावच्छेदकस्य हेतुमन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वसिद्ध्या एतद्रूपेणापि प्रतिबन्धकताङ्गीकार्या मणित्वेन मन्त्रत्वेन नेति भावः। दीपिकायां व्याप्यत्वासिद्धस्येति। धूमवान्वह्नेरित्यादौ वह्न्यादेः वह्निमान्नीलधूमादित्यादौ नीलधूमत्वस्य गुरुतया प्रतियोगितानवच्छेदकत्वेन नीलधूमादेश्च व्याप्यत्वासिद्धस्येत्यर्थः। दीपिकायामसाधारणानुपसंहारिणोरिति। शब्दो नित्यः शब्दत्वादित्यत्र शब्दत्वारूपसाध्यसाधारण्यस्य, सर्वमनित्यं प्रमेयत्वादित्यत्रात्यन्ताभावप्रतियोगिसाध्यकत्वरूपानुसंहारिणश्चेत्यर्थः। परमुखनिरीक्षकस्येति। व्यभिचारज्ञानमुखनिरीक्षकस्येत्यर्थः। सिद्धिसत्त्वेऽनुमित्यनुदयादिति। साध्यनिश्चयेन साध्यसन्देहरूपपक्षताया अभावादिति भावः। निग्रहस्थानान्तरमितीति। प्रतिवादिपराजयस्थानविशेष इत्यर्थः। वादिप्रयुक्तहेतौ
हेत्वाभासरूपदोषोद्ग्रावने निगृहीतो यथा वादी एवं सिद्धसाधनदोषोद्ग्रावनेऽपीत्याशयः। जरन्नैयायिकमतानुसारेणैवोपक्रमोपसंहारयोर्बोधनेऽपि सिद्धान्तमते हेत्वाभासत्वमाशङ्कते–नचेति। केवलमिति। मुख्यमित्यर्थः। प्रतिबन्धकत्वाभावेनेत्यनेनान्वयि। सिषाधयिषासहितसिद्धदशायां सिद्धेः सिषाधयिषासहितत्वात्सिषाधयिषाविरहविशिष्टत्वाभावेन सिषाधयिषाविरहविशिष्टसिद्ध्यभावरूपपक्षतायाः सत्त्वेन नानुमितिविरोधित्वेन हेत्वाभासत्वप्रसक्तिर्नव्यमत इति हृदयम्। अत्राधिकलेखने प्रेक्षवतां प्रकरणाध्ययने प्रथमं प्रवृत्त्यभावप्रसङ्गादुपेक्षितमस्माभिर्नाशक्तिप्रयुक्तमित्याह—अधिकमित्यादि। अधिकं पुष्कलम्। अस्मदीयाभिनवदीधितिव्याख्यायाम्। पदवाक्यप्रमाणपारावारीणपण्डितेन्द्रनीलकण्ठविरचिताभिनवदीधितिव्याख्यायाम्। तर्के यः कर्कशो विचारः दुरूहकठिनविचारःतत्र या चातुरी चातुर्यं तत्र ये धुरीणास्तैरनुसन्धेयं नेतरैरित्यर्थः। इति श्रीतर्कसङ्ग्रहदीपिकाप्रकाशव्याख्यायां भास्करोदयव्याख्यायां भगवदर्पितायामनुमानपरिच्छेदः॥
॥ उपमानं लक्षयतीति। एतदर्थमाह—अवसरेत्यादिना। अत्र यद्वक्तव्यं तत्प्रागेवाभ्यधायि। तयोः सम्बन्धः शक्तिरिति। शक्तिग्राहकं च व्याकरणादीति बोध्यम्। तज्ज्ञानमिति। गवयो गवयपदवाच्य इत्येव सामान्यज्ञानं न त्वयं गवयो गवयपदवाच्य इति, गवयान्तरे शक्तिग्रहाभावप्रसङ्गात्। ननु सादृश्यज्ञानस्यासाधारणकरणत्वात्तज्जन्यत्वलक्षणस्यौचित्येपि उपमिनोमीत्यनुव्यवसायसिद्धोपमितित्वरूपत्वे लाघवमालोच्य तदाह—लक्षणं त्वित्यादि एतेनेति। वाक्यार्थस्मरणपूर्वकं पिण्डदर्शनस्य तद्धेतुत्वाङ्गीकारेणेत्यर्थः। उभयमपीति। उक्तोभयविधस्मरणमपीत्यर्थः। सादृश्यदर्शनस्येति। करणीभूतसादृश्यज्ञास्येत्यर्थः। सहकारीति। चक्रचीवरादिवदुपकरणमित्यर्थः। सादृश्यजन्यमेव स्मरणं सहकारीति। एवेनोद्बोधकान्तरजन्यस्मरण्यवच्छेदः सहकारीति। नत्वित्यध्याहृत्य सहकारिकारणं नेत्यर्थः। एतन्मते व्यापाराभावेन व्यापारवदसाधारणकारणस्यैव करणत्वात् सादृश्यज्ञास्य तदसम्भवतात्पर्येण व्यापारत्वमङ्गीकुर्वतां स्मरणस्यार्वाचीनानाममभिप्रायं वर्णयति—प्रचिस्त्विति। वर्तमानसामीप्ये प्रत्यय इति। वर्तमानसामीप्ये वर्तमानवद्धेत्यनुशासनेन भविष्यति लटि शतृप्रत्यय इत्यर्थः। एवञ्चेति। वाक्यार्थस्मरणस्य गोसदृशपिण्डदर्शनोत्तरकालिकत्वे बोधिते चेत्यर्थः। व्यापारतालाभ इति। सादृश्यदर्शनानन्तरं गवये गोनिरूपितसदृशत्वत्वज्ञानोत्तरं गवये गवयपदवाच्य इत्याकारिका गवयो गवयपदशक्तिबोधविषयत्वरूपा। इदमुपमित्यन्वयि। गवयत्वरूपेति। गवय इत्यर्थः। सः लघुधर्मः धर्मितावच्छेदको यस्या इति बहुव्रीहौ कः। तस्माल्लघुधर्मधर्मितावच्छेदकिकोपमितिरिति समुदितार्थः। इदमुपलक्षणमिति। उपमितेः सादृश्यजन्यत्वमित्यर्थः। वैधर्म्यदर्शनेनापीति। विरुद्धो धर्मो यस्य स विधर्मा तस्य भावो वैधर्म्यम्। विरुद्धधर्म इति यावत्। यत्किञ्चिद्दर्शनेनापीत्यर्थः। वैशेषिकास्त्विति। काणादा इत्यर्थः। पदवाच्यत्वव्याप्येत्वादि। गवयप्रसिद्धं गोसदृश्यं तत्र गवयपदवाच्यच्वम्। एवं चैत्रो मैत्र सदृश इत्यत्र मैत्रसादृश्यवति चैत्रे चैत्रपदवाच्यत्वं तत्र (गवये) तत्पदवाच्यत्वसत्त्वात्सादृश्यस्यैतव्द्याप्यत्वात्तत्पदवाच्यत्वव्याप्यसादृश्यवान् गवय इति चैत्र इति च परामर्शात्तत्पदवच्यत्वविधेयकानुमितिरेवेत्यर्थः। तत्सिद्धमर्थमाह—अत इत्यादि। व्याप्तिज्ञानमन्तरापीति। व्याप्तिज्ञानविरहकालेऽपीत्यर्थः। पदवाच्यत्वप्रमितेः। पदवाच्यत्वप्रकारकप्रमात्मकज्ञानस्य। अनुभवसिद्धत्वादिति। यथार्थानुभवसिद्धत्वादुपमानं प्रमाणान्तरमवश्येष्टव्यमित्यर्थः। सादृश्यं प्रभाकरमतेऽतिरिक्तः पदार्थः। षड्भावानन्तर्भूतत्वे सत्यभावानन्तर्भूतत्वादित्यनेन। यद्यन्तर्भवेत्तदा यथा गोत्वं तथाश्वत्वमिति नित्यत्वेन तद्गतसादृश्यानुपपत्तिं मन्यते। नैयायिकाश्च न क्षम्यते तस्य तद्भिन्नत्वे सति तद्गतभूयोधर्मत्त्वरूपत्वाद्यथा चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिमत्त्वं मुखे। स च प्रकृते आह्लादः सुखविशेषस्वरूपः। एतेनातिरिक्ताऽकल्पनेन लाघवमित्यन्यत्र स्पष्टम्। स च प्रतियोगिनि सर्वसाधारण्येन जन्यतयाऽनुयोगिनि तु रसिकस्यैव। यथा। “झटिति प्रविश गेहे मा बहिस्तिष्ठ कान्ते ग्रहणसमवेला वर्तते शीतरश्मेः। तव मुखमकलङ्कं वीक्ष्य नूनं स राहुर्ग्रसति तव मुखेन्तुं पूर्णचन्द्रं विहाय” इति। मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितं स्तनौ मांसग्रन्थी कनककलशावित्युपमितौ। स्रवन्मूत्रक्लिन्नं करिवरकरस्पर्धि जघनं अहो निन्द्यं रूपं कविजनविशेषैर्गुरु कृतम्” इत्यनुभवानुसारेण विशिष्यत इत्यलम्। इति तर्कसङ्ग्रहदीपिकाप्रकाशव्याख्यायां भास्करोदययाख्यायां भगवदर्पितायामुपमानापरिच्छेदः॥
॥
अथ शब्दः।
शब्दं लक्षयतीति सङ्गतिपूर्वकं लक्षयितुं लक्षणया व्याचष्टे—उपजीव्येत्यादिना। शब्दविषयकलक्षणस्वरूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान्ग्रन्थकार इत्येवं प्रथमान्तमुख्यविशेष्यको बोधः। नन्वाक्षिप्तस्याप्राधान्यानुभवाल्लोके, शास्त्रे च क्रियाप्रधानमाख्यातमिति महाभाष्यकारवचनविरोधात्ते विभक्त्यन्ताः पदमिति गौतमसूत्रे क्रियाप्रधानमाख्यातं यथा पचतीति न्यायवार्तिककारकवचनविरोधात् क्रियाप्रधान्यस्यैव प्रमाणतयाभिमतप्रथमान्तमुख्यविशेष्यकबोधोद्धोषः सद्बुद्धिं नाध्यारोढुमीष्टे। तथाहि—ते विभक्त्यन्ताः पदमिति गौतमसूत्रं न्यायवार्तिककार इत्थं व्याख्यात्। द्वयी विभक्तिः स्वादयस्तिबादयश्च। तत्र स्वाद्यान्तं नाम, तिबाद्यन्तमाख्यातम्। अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपशब्दो नाम, यथा ब्राह्मण इति॥ क्रियाकारक समुदायः कारकसङ्ख्याविशिष्टः। क्रियाकालयोगाभिधायि क्रियाप्रधानमाख्यातम्। यथा पचतीति॥ इदमित्थं वाचस्पतिमिश्रा व्याख्यन्। क्रियान्तरं क्रियाविशेषः तत्सम्बन्धाद्विशिष्यमाणरूपः पर्यवसितार्थकशब्दो नाम यस्याभिधेयं नियमेन क्रियाविशेषणमाकाङ्क्षति तन्नामेति फलितम्। यत्रापि क्रियापदं नास्ति तत्राप्यस्तीत्यस्येव। उदाहरणं ब्राह्मण इति। राज्ञः पुरुषः इत्यादेरपि पुरुषादिद्वारा तदाकाङ्क्षत्वं बोध्यम्। यद्वा तदभिधेयस्य राजेत्यादौ तदाकाङ्क्षत्वं बोध्यम्। अथ नामार्थमाह—क्रियेत्यादि। क्रियाशब्देन जात्यादिप्रवृत्तिनिमित्तं,(-आदिनागुमक्रिये।) कारकं तदाश्रयः।(2-यत् प्रवृत्तिनिमित्तम्।)स च (3-तदाश्रयश्च।)कारकगतसङ्ख्यायुक्तो नामार्थः। यद्वा कारकं कर्मादिशक्तिः। सङ्ख्याग्रहणं लिङ्गस्याप्युपलक्षणम्। अयमव्ययातिरिक्तनामार्थ इति बोध्यम्। एवं च सर्वत्र नामपदेनाव्ययातिरिक्तमेव। एवञ्च नामार्थादिव्युत्पत्तिषु अव्ययातिरिक्तत्वविशेषणदानमिति प्रवाद एव। आख्यातलक्षणमाह—क्रियाकालेति। क्रियायाः यः कालयोगः पौर्वापर्यक्रमः कालयोगेन तस्यानुभवात् तेन घटादीनां व्यवच्छेदः। नन्विदं भुक्तेत्यादावतिव्याप्तमतः क्रियाप्रधानमिति। क्तान्तादौ हि क्रियाविशेषणमन्तरेण पर्यवश्यन्ती क्रिया गम्यते(-क्रियान्तरान्वयिनी)पचतीत्यादौ न सर्वत्र तथा। क्वचित्तत्सम्बद्धापि यथा पचति भवतीति, एवं च यद्वाच्या क्रिया क्वचित्क्रियान्तरानाकाङ्क्षा तदाख्यातमिति फलितम्। एतत्पक्षे कर्तव्यमित्यस्य नामलक्षणाक्रान्तत्वाभावात् क्रियान्तरानाकाङ्क्षत्वाच्च आख्यातत्वमेवापतति। एवं पचतिरूपमित्यादेरपि। अत्र क्रियाप्रधानमिति निरुक्तसमानाकारशब्देन निरुक्तभाष्योक्तरीत्या प्रत्ययार्थकालकारकसङ्ख्यापेक्षया धात्वर्थप्रधानत्वं सूचितम्। पञ्चमे न्यायभाष्येऽपि क्रियाकालयोगाभिधाय्याख्यातं धात्वर्थमात्रं च कालाभिधानविशिष्टमिति
कालेनाभिधानेन कारकेण च विशिष्टं धात्वर्थमात्रमाख्यातार्थ इति तदर्थः। तस्यैव व्याख्यानं क्रियाप्रधानमिति वार्तिककृता कृतं तत्रैव सूत्रे प्रकरणान्तरे वार्तिककार आह—विशेषणविशेष्यभावस्यैकविधत्वाद्यादिगोशब्दस्य तिष्ठतिशब्दस्य चैकमभिधेयं भवति ततो विशेषणविशेष्यभावापन्नयोर्गोशब्दतिष्ठतिशब्दयोः सामानाधिकरण्यं युज्यते नान्यथेति। अनेन स्पष्टमेव कारकस्य प्रत्ययार्थतोक्ता विशेषणता चोक्ता। एवञ्च कृतिर्वाच्या प्रथमान्तार्थमुख्यविशेष्यकोबोध इति चार्वाचां शुक्ललाघवादितर्कैकशरणानां
कुकल्पनाविलसितमिति स्पष्टमेवेति चेन्न। भाष्यावार्तिकतात्पर्यानवधारणात्। तथाहि क्रियते निष्पाद्यते यया सा क्रिया कृतिस्तस्याः कालयोगः वर्तमानादिकालसम्बन्धः। तथाच जनकतासम्बन्धेन धात्वर्थप्रकारककृतिविशेष्यकबोधजनकमाख्यातमिति आख्यातार्थवारणाय। एवं भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति यास्कवचने भावशब्देन भावयतीति व्युत्पत्त्या जनकतासम्बन्धेन धात्वर्थोत्पादनात्कृतिरेवैवं च चैत्रः पचतीत्यादौ चैत्रकर्तुकवर्तमानकालिका पाकामुकूला कृतिस्तदनुकूला वर्तमानकलिका भावनेति वा बोधः। एतेन क्रियाप्रधानमाख्यातमिति महाभाष्यं व्याख्यातम्। ननु भ्वादिसूत्रे क्रियाशब्देन धात्वर्थप्रत्ययोऽनुपपन्नोऽनया व्युत्पत्त्येति चेन्न तेनापि फलोत्पादात्फलकरणकत्वाभावादेवं तर्हि पुनरप्यन्यतरविशेष्यकबोधप्रसक्त्या विनिगमकं दुर्वचमिति दुर्वचम्। स्वानुभावानुरोधेन कृतेरेव विवक्षणीयतयाऽदोषात्। न्यायवार्तिककाराणां तु कृतिमात्र एव तात्पर्यावधारणात्। अत्रार्थे कृञ्धातोर्बाहुलकत्वात्कुञ्जः शचेति भावविहितस्य अकर्तरि च कारके सञ्ज्ञायमित्यधिकृत्य श्रिणीभुवोऽनुपसर्ग इति विहितस्य च करणकर्त्रोर्विधानसाधुत्वमिच्छन्ति केचित्। परे तु करणं कृञः शचेति भावे शः। प्रधानशब्दः प्रधानत्वविशिष्टार्थः। क्रियायाः प्रधान इति तत्पुरुषः षष्ठ्या निरूपितत्वमर्थः। तस्य च प्रधानत्वान्वयात्क्रियानिरूपितप्रधानत्वाश्रय इत्यर्थः। स यत्रास्तीत्यर्थेऽर्शआद्यजन्तः अन्यपदार्थः आख्यातं तेन क्रियानिरूपितप्रधानत्वाश्रयोऽर्थात्कृतिरूपो योऽर्थस्तदधिकरणं वाचकतयाख्यातमिति बोधोऽतो न प्रोयगक्लिष्टकल्पना। नापि नामलक्षणे क्रियाशब्देन धात्वर्थासङ्गतिः। भाव्यते उत्पाद्यते अनेनेति भावः कृतिः सा प्रधानं यस्य तदाख्यातमिति यास्कार्थः। नचैवमपि प्रधमान्तार्थमुख्यविशेष्यकबोधोऽसिद्ध इति वाच्यम्। प्रधानकृत्याक्षिप्तस्यापि प्रधानत्वमित्याशयात्। एवं च पश्य मृगो धावति इत्यादौ धावनकर्तृमृगकर्मकविधिविषयदर्शनसम्बोध्यस्त्वमिति बोधः। मृगस्य दृशिक्रियायां कर्मत्वे द्वितीयापत्तिस्तु वाक्यार्थभूतकर्मता (-तथाच मृगमात्रस्य कर्मत्वाभावात्तद्बोधकमृगपदान्न द्वितीया।)सम्बन्धेनान्वयाद्वारणीया। एतेन द्वितीयायां शतरि धावन्तमित्याद्यापादनमनुपादेयम्। केवलमृगपदार्थस्य कर्मत्वेन
दृशिक्रियान्वयतात्पर्ये मृगं पश्येति तु भवत्येव। धावनक्रियाविशिष्टमृगकर्मकदर्शनविधेयत्वे विशेषणीभूते धावने तत्त्वं नानुपपन्नम्। मार्गकर्तृकोत्कटधावनकर्मकदर्शनस्यैव विधेयत्वतात्पर्यात्। एतेन सुन्दरस्तन्डुलं पचतीत्यादौ तण्डुलरूपनामार्थस्य कर्मतासम्बन्धेन पचिक्रियायामन्वये नामार्थधात्वर्थयोः साक्षाद्भेदसम्बन्धेनान्वयान्नामार्थेत्यादिव्युत्पत्तिविरोधापत्तिशङ्कानिरस्ता वाक्यार्थस्य धात्वर्थे भेदेनान्वयस्वीकारे क्षतिविरहात् ननु धावनानुकूलकृत्याश्रयमृगरूपार्थस्य नामार्थत्वाव्द्युत्पत्तिविरोधः प्रकृतेऽपि सम इति चेन्न। नामार्थपदेन केवलनामार्थतात्पर्यादेवमप्यन्तरङ्गत्वात्प्रथमैव युक्तेति चेत्प्रधानकार्यस्यान्तरङ्गादपि बलवत्त्वस्य भाष्य(2-प्रधानकार्य सर्वतो बलवदिति न्यायस्वरूपम्।) सम्मतत्वेनादोषात्। नीलविशिष्टघटस्य दर्शनकर्मत्वे द्वितीयासम्पादनं तु क्रियान्तरकर्तृत्वावरुद्धार्थस्य कर्मत्व एव कर्मतासम्बन्धस्य वाक्यार्थत्वाभ्युपगमेन “श्रुत्वा ममैतन्माहात्म्यं तथाचोत्पत्तयः शुभा” इत्यत्र तद्वारणाय सन्तीत्यध्याहार्यम्। “पश्य लक्ष्मण पम्पायां बकः परमधार्मिक” इत्यत्रेव। एवञ्च नीलघटो जानामीत्यनुपपत्तिं श्रुत्वा ममैतन्माहात्म्यमित्यादेरार्षत्वं चाश्रित्य मृगस्य दृशक्रियायां कर्मत्वे द्वितीयापत्तिवारणाय वाक्यार्थस्य कर्मत्वाभ्युपगमोऽनुचित इति वदन्तो वैयाकरणकेसरिणः प्रष्टव्याः। एवं च क्रियान्तरकर्तृत्वावरुद्धप्रथमान्तार्थस्य क्रियान्तरे कर्मतासम्बन्धेनान्वये उपस्थितेरङ्गीकारान्न कुत्रापि दोषलेशः। अत्राप्यस्तीत्यध्याहारे च नीलघटो जानामीतीष्यत एवेत्येवं सुधियो विदाङ्कुर्वन्तु। पचतिभवतीत्यतः वर्तमानपाकानुकूला कृतिर्भवतीति बोधादेकवाक्यत्वाक्षतिरित्यविकलमखिलम्। क्रियामुख्यविशेष्यकबोधे चैत्रः पचतीत्यादावाश्रयस्याधेयतासम्बन्धेनैव क्रियायामन्वयौचित्येन चैत्रो न पचतीत्यादौ नञः समभिव्याहारे आधेयतासम्बन्धेन पाकक्रियाकर्त्रभावबोधात्प्रतियोग्यभावान्वयाविति (3-प्रतियोग्यभावान्वयौ तुल्ययोगक्षेमौ इति न्यायस्वरूपम्।) न्यायाद्वृत्त्यनियामकाधेयतासम्बन्धेनाभावप्रत्ययानासम्भावात्प्रथमान्तार्थमख्यविशेष्यकबोध एव मुख्य इति। किञ्च । प्रयाति ते गुरुस्त्वं तच्चरणावभिवादयेत्यादौ तच्छब्देन गुरोरप्रधानस्य परामर्शसङ्गतिः सर्वनाम्नामुत्सर्गतः प्रधानपरामर्शित्वात्। किञ्च। त्रयः कालाः इत्यादौ ईश्वरेण ज्ञायन्त इति योग्यक्रियाध्याहारेणास्तिर्भवन्तीपरः(-अस्ति अस् धातुः। भवन्तीति लटः प्रातां सञ्ज्ञा। भुवो झिच् । कृदिकारादिति णीच्॥) प्रथमपुरुष इति कात्यायनवाक्यमुपलक्षणविधया योग्यक्रियान्वयतात्पर्यग्राहकमिति ते सर्वैरनुसर्तव्या इति तच्छब्देन कालत्रयस्य परामर्शः। क्रियाप्राधान्ये तु न स्यात्। ननु कर्मप्रत्ययसमभिव्याहारे फलाश्रयमुख्यविशेष्यकबोधस्य वैयाकरणसम्मतत्वेन वादिनोरेकविषयतया न दोषावसर इति चेन्न नव्यशाब्दिकसिद्धान्ते आश्रयप्रकारकफलमुख्यविशेष्यकबोधस्यैव तत्राभ्युपगमात्। तस्यापि धात्वर्थत्वेन क्रियात्वव्यपदेशः। वस्तुतस्तु नैयायिकमतेपि न सर्वत्र प्रथमान्तार्थमुख्यविशेष्यक एव बोधः किन्तु यथायथं तत्तद्विशेष्यकः। इत्थं च चैत्रः पचतीत्यादौ प्रथमान्तार्थमुख्यविशेष्यकबोधेऽपि पश्य मृगो धावति इत्यादौ मृगकर्तृकधावनस्य विषयतया दर्शनादन्वयेन क्रियाविशेष्यकबोधाङ्गीकारेऽपि बाधकाभावः विशेषणविशेष्यभावस्य तात्पर्यग्रहमात्रार्थतया क्वचिद्धात्वर्थविशेष्यकबोधानङ्गीकारे क्षतिविरहात्। अत एव पचतिभवतीत्यादौ पाकानुकूला कृतिर्भतीत्यादिभावनाविशेष्यकबोधाङ्गीकारे बाधकाभावात्। अन्धः आकाशं न पश्यतीत्यतः आकाशविषयकदर्शनाभावावानन्धः इति प्रथमान्तार्थमुख्यविशेष्यकबोधाप्रसिध्द्या विशेष्यभूते दर्शने एवान्धवृत्तित्वाकाशविषयकत्वोभयभावप्रकारकत्वाङ्गीकार आवश्यक इति ध्येयं धीमद्भिरित्यलम्। यच्च तत्रैव सूत्रे प्रकरणान्तरे वार्तिककार आह–विशेषणविशेष्यभावस्यैकविधत्वाद्यदि गोशब्दस्य तिष्ठतिशब्दस्य चैकमभिधेयं भवति ततो विशेषणविशेष्यभावापन्नयोर्गोशब्दतिष्ठतिशब्दयोः सामानाधिकरण्यं युज्यते नान्यथेत्यनेन स्पष्टमेव कारकस्य प्रत्ययार्थतोक्तेति कथं कृतेः प्रत्ययार्थत्वमित्युक्तं तदपि न युक्तं वार्तिकतात्पर्यनवधारणात्। तथाहि भूतलं घटवद्भूतले घट इत्यत्र यथा न तथात्र विशेषणविशेष्यभावव्यत्यासाभावतात्पर्यकमिदमत्र गौस्तिष्ठति तिष्ठति गौरत्रेतीति बोधनाय वार्तिककार आह–विशेषणविशेष्यभावस्यैकविधत्वादिति। विशेषणविशेष्यभावस्यैकरूपत्वादित्यर्थः। यदेव तिष्ठति शब्दोपस्थाप्यगतिप्रतिबन्धानुकूलकृतिरूपं गवि विशेषणताश्रयं यदेव च गोशब्दोपस्थाप्यगोरूपं विशेष्यताश्रयं तत्तदेवोक्तस्थलवन्न विपरीतमिति निर्गलितार्थः। एकविधत्वमेव स्पष्ययति–यदीत्यादिना। यदीत्यस्य भवतीत्यनेनान्वयः। गोशब्दस्याभिधेयं निरुक्ततिङन्तसमभिव्याहृतप्रथमान्तगोशब्दजन्यबोधीयविशेष्यताश्रयीभूतं तिष्ठतिशब्दस्य
चाभिधेयं प्रथमान्तगोशब्दसमभिव्याहृततिष्ठतीति तिङन्तजन्यबोधनिरूपिततिङन्तार्थनिष्ठप्रकारतानिरूपितविशेष्यताश्रयीभूतं चैकं भवतीत्यर्थः। ततः तदेत्यर्थः। स्वोपस्थाप्यार्थद्वारा विशेष्यविशेषणभावापन्नयोर्गोशब्दतिष्ठतिशब्दयोः सामानाधिकरण्यमेकव्यक्तिवृत्तित्वं प्रथमान्तगोशब्दसमभिव्याहृततिष्ठतिजन्यबोधीयस्वार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेनाधिकरणं यत् गोवस्तु तदेव तिङन्तसमभिव्याहृतस्वजन्यबोधीयतिङन्तार्थप्रकारतानिरूपितविशेष्यतासम्बन्धेनगोशब्दाधिकरणं भवतीति निरुक्तसम्बन्धेन एकव्यक्तिवृत्तित्वं तयोर्बोध्यम्। नान्यथा। प्रकारान्तरेण तयोरेकवृत्तित्वरूपसामानाधिकरण्यं न युज्यत इत्यर्थः। तस्मात्सुकल्पनाविलसितमेवान्यथा स्वतन्त्रप्रमाणाग्रगण्यसूत्रवार्तिकविरुद्धत्वे तन्मूलकत्वेन प्रथमान्तमुख्यविशेष्यकबोधं लाघवादाख्यातस्य कृत्यर्थत्वं च वर्णयन्तः सर्वे दीधितिकारादयः प्रमाणप्रसिद्धिं कथमुद्वहेयुरिति कुशाग्रधियां कुकल्पनाविलसिताभिधानं सुकल्पनया विलासयन्तु। अथाख्यातस्य कर्तरि शक्तिः लः कर्मणीति सूत्रे कर्तरि कृदिति सूत्रादनुकृष्यमाणस्य कर्तृरूपार्थस्य परिच्छेदकतया कर्तृपदस्य नेतरार्थकत्वमनुशासनविरोधादिति वैयाकरणमतं तन्न। कर्तरीति पदस्य लक्षणया कर्तृत्वबोधकतया कृत्यर्थपरिच्छेदकत्वात्। न च लक्षणयां गौरवं कृतीनामनन्तानां शक्यतावच्छेदकत्वमपेक्ष्यैकस्य कृतित्वस्य शक्यतावच्छेदकत्वे लाघवात्। अनन्यलभ्यार्थन्यायेनात्रैव शक्तेरुचितत्वाच्च। नच चैत्रः पचतीत्यत्रानभिहितकर्तरि तृतीयापत्तिः कर्तृगतैकत्वादिसङ्ख्यानभिधाने तृतीयेत्यनुशासनार्थत्वात्। अतएव चैत्रेण पच्यते तण्डुल इत्यत्र तण्डुलपदोत्तरं न द्वितीया। तदनभिधायकत्वं च तद्विशेष्यकसङ्ख्याप्रकारकशाब्दबोधाननुकूलत्वम्। न तद्गतसङ्ख्यानिष्ठवृत्त्यनिरूपकत्वम्। चैत्रेण पच्यते तण्डुल इत्यत्रैकत्वावच्छिन्ने एकत्वमात्रे एकवचनवृत्तावेकत्वस्याख्यातनिरूपितत्वाच्चैत्रपदोत्तरं तृतीयानापत्तेरिति वदन्ति। वस्तुतस्तु। प्रथमया परया बाधान्न तृतीयाप्रसङ्गः। नचैवं सति पचन्तं देवदत्तं पश्य पचते देवदत्ताय देहीत्यादौ शतृशानजादीनामपि लादेशत्वाविशेषेण कृतिमात्रबोधापत्तौ नामार्थयोरिति व्युत्पत्तौ सङ्कोचनीयत्वापात इति वाच्यम्। व्युत्पत्त्यनुरोधेन कर्तृपदं कुत्सु स्वार्थपरं तिङ्क्षु कृतिपरमिति वैषम्याङ्गीकारेणोपपत्तेः। अभिधानस्य प्रायेण तिङ्कृत् तद्धितसमासैरङ्गीकारात् कृदादीनां च स्ख्याऽवाचकतया कर्तृकर्मगतसङ्ख्यानभिधायकत्वेन तृतीयानियामकत्वस्य दुर्वचनतया कृदादिसमभिव्याहारे तृतीयानापत्तिरित्यादि वदन्तोऽपि समाहिताः। कर्त्रनभिधायकत्वस्यैवात्राभ्युपेयत्वात्। सति तात्पर्ये एकस्यैव नानार्थे शक्तौ वैलक्षण्यस्याबाधकत्वात्। यत्तु तिबादीनां कर्तृवाचकत्वे पचतिरूपं पचतिकल्पं देवदत्त इत्यादौ रूपप्कल्पबन्तनामार्थस्य देवदत्तेन सममभेदान्वयापत्तिरित्याहुः। अत्रेत्थमगत्या कृत्याक्षिप्तकर्त्रभेदेनादोष इति। रूपप्कल्पपौ तु कृतिप्राशस्त्यन्यूनतामादायैव साधू। कर्तृपदस्य कर्तृत्वपरतया कर्तरि विशेषणतया भासमानव्यापारमात्रबोधकत्वेन तात्पर्यमर्यायदा चेतने कृतेरचेतने व्यापारस्य बोधाद्रथो गच्छतीत्यादौ नानुपपत्तिलेशावकाशः। यच्चोक्तं व्यापारार्थत्वे व्यापारस्य धातुलभ्यत्वेनानन्यलभ्यो हि शब्दार्थ इति न्यायविरोध इति। तदपि धातोः फलमात्रे शक्तिमभ्युपेत्य व्यापारमात्रे आख्यातस्य शक्तिं नाभ्युपेत। तयोश्च
जन्यजनकभावादिसंसर्गेणान्वयात्प्रत्ययोपनीतवर्तमानत्वादिविशिष्टव्यापारे प्रकृत्यर्थफलस्यानुकूलतासम्बन्धेनान्वये कर्तृप्रत्ययसमभिव्याहारे तण्डुलं पचतीत्यादौ तण्डुलवृत्तिफलविशेषजनकवर्तमानकालिकव्यापारवांश्चैत्र इति, चैत्रेण पच्यते तण्डुल इत्यादौ तु चैत्रनिष्ठव्यापारजन्यफलविशेषशाली तण्डुल इत्यर्थः। फलव्यापारयोर्विशेषणविशेष्यभेदादेव कर्तृकर्मप्रत्ययव्याहारा इति प्रोचुभट्टाचार्या आख्यातदीधितौ तेनैव दत्तोत्तरत्वात्। ननु फलस्य धातुलभ्यत्वाद्वितीयाया न कर्मत्वमर्थ इति चेत्फलान्वयिवृत्तित्वस्यैव तदर्थत्वादेवं व्यापारान्वयिवृत्तित्वस्यैव तृतीयार्थत्वादित्यनवद्यम्। यत्त्वाहुरिह जरन्नैयायिकाः। आख्यातस्य यत्नो वाच्यः, पचति पाकं करोतीति करोतिना सर्वाख्यातविवरणात् व्यवहारादिव बाधकं विना विवरणादपि व्युत्पत्तेः। किं करोतीति यत्नपक्षे पचतीत्युक्ते तस्य यत्नार्थकत्वं विनाऽनुपपत्तेश्चेति। जानातीत्यादावाश्रयत्वे पच्यतीत्यादौ च प्रतियोगित्वे निरूढलक्षणेति नव्याः। अधिकमन्यत्रानुसन्धेयम्। अत्र शाब्दप्रमितिकरणं शब्दः। शाब्दत्वं च शाब्दात्प्रत्येमीत्याद्यनुभवसिद्धो जातिविशेषः। प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः प्रमाणं बाधितार्थज्ञानजन्यशब्दाद्यथार्थशाब्दबोधानुत्पत्तेः। अनुकरणशुकादिवाक्याच्च यथायथं यथार्थायथार्थशाब्दबोधोदयसम्भवात् अत्रार्वाचीनमते ज्ञायमानशब्दस्य करणत्वं न तु शब्दज्ञानस्य करणत्वं यस्य शाब्दबोधस्तस्यार्थस्मारकतया शब्दस्य हेतुत्वमित्यभिमानेन मौनिनः पुस्तकदर्शनमात्रेण श्लोकादौ शब्दभावेऽपि शाब्दोदयानुपपत्तिनिरासं मध्यमात्मकशब्द(-अथवा सूक्ष्मशब्दोच्चारणाच्छाब्दोऽत एवोच्चरितः शब्दः प्रत्यायको नानुच्चारित इति भाष्यादित्याहुः॥ वाक् चतुर्विधा, परा पश्यन्ती मध्यमा वैखरी च, तत्र परा वाक् मूलचक्रस्था पश्यन्ती नाभिसंश्थिता। हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा॥ इति॥) एव शाब्दकरणमिति मन्यमानमतानुसारेण पूर्वोत्तरयोरुपजीव्योपजीवकभावः साक्षादसम्भवीत्याक्षिप्य परम्परया तत्साधयिष्यन् एतदनुपपत्त्यैव फलयोस्तदिति परोक्तं व्यवस्थापयन्नाह—अत्रेत्यादि। अत्र शब्दनिरूपणे इत्यर्थः। ज्ञायमानशब्दस्य शब्दप्रमाणतयेति। ज्ञानविषयीभूतशब्दस्य शाब्दप्रमितिकरणशब्दस्वरूपतयेत्यर्थः। शब्दे उपमानोपजीवकत्वाभावादिति। गोसदृशो गवय इति सादृश्यज्ञानोपजीव्यतानिरूपितोपजीवकत्वं शक्तिपरिच्छित्तिरूपोपमितौ प्रसिद्धं न शब्द इति भावः। उपमितिशाब्दबोधरूपफलयोः सङ्गतिर्बोध्येति। उपमानजन्योपमितिशब्दजन्यशाब्दबोधरूपफलयोः सङ्गतिर्बोध्येत्यर्थः। ननु शब्दं लक्षयतीति ग्रन्थेनोपमानशब्दयोः सङ्गतिरुक्ता कथं सङ्गच्छतामिति चेच्छब्दपदे लक्षणया शाब्दबोधो विवक्षणीय इत्यभिप्रायात् । तथाहीति। उक्तफलयोः सङ्गतिमेवोपपादयतीत्यर्थः। शक्तिपरिच्छित्तिरेवोपमितिरिति शक्तिनिर्णय एवेत्यर्थः। तस्याश्चेत्यादि। तस्या उक्तोपमितेः। शाब्दबोधोपजीव्यत्वेन शब्दशक्तिनिर्णयोत्तरमेव शब्दादर्थोपस्थितेरनुभवादिति भावः। अन्यदुक्तार्थकम्। उक्तरीत्या फलनिष्ठत्वसम्भवेऽपि शब्दं लक्षयतीति ग्रन्थस्वारस्यभङ्गापत्तिमालोच्याह–स्वाश्रयेत्यादि। स्वं उपजीव्योपजीवकत्वं तदाश्रयावुक्तफले तत्करणत्वमुपमानशब्दगतं तद्रूपपरम्परासम्बन्धेन करणयोरुपमानशब्दयोरनन्तराभिधानप्रयोजकत्वं सङ्गतिरिति समुदितार्थः। मौनिनः श्लोकादौ वैखरीरूपशब्दाभावेऽपि शाब्दज्ञानादेव शाब्दबोधोऽनुभवसिद्ध इत्यभिप्रेत्याह—शब्दज्ञानस्येत्यादि। गवये शक्तं यद्गवपदं तद्विषयकत्वेनोपमितेः शब्दप्रमाणतया। शाब्दप्रमितिकरणस्वरूपतयेत्यर्थः। उपमानजन्यत्वस्य सादृश्यज्ञानजन्यत्वस्याक्षततया अबाधिततया स्वरूपयोरपि शब्दज्ञानोपमानकरणयोरपि सङ्गतिरिति मन्तव्यम्। स्वीकर्तव्यमिति समुदितार्थः। उपकाराय मूलमूलं विवृणोति–मूलेत्यादिना। अप्रमाणशब्दस्य आप्तोक्तित्वस्याभावो यतः आप्तस्य यथार्थवक्तृत्वादत आह–प्रमाणशब्द इति तदर्थ इति। आप्तवाक्यमिति लक्षणमिति। अत्र भावप्रधानो निर्देशः। तादृशवाक्यमुदाहरति—भवतीत्यादि। तव्द्यतिरेकिणमुदाहरति—नत्वित्यादिना। तत्र हेतुमाह—तदित्यादिना। प्रमाणशब्दनिष्कृष्टार्थं दर्शयति—प्रकृतेत्यादिना। एतेन शुकादिप्रयुक्ताबाधितार्थकवाक्यस्यानुक्रियमाणद्वारा प्रमाणशब्दत्वं ध्वनितम्। प्रमाणशब्दात्मकवाक्ये वाक्यार्थज्ञानजन्यत्वविशेषणं प्रयोगहेतुतया सार्थकमित्याह—वाक्येत्यादिना। स्फुटमेतच्छब्दमणाविति। तत्र हि “प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यशब्दः प्रमाणमि"ति प्रयोगहेतुभूतं प्रयोगकारणीभूतं यदर्थतत्त्वज्ञानं यदर्थविषयकं तत्त्वज्ञानं तज्जन्यः प्रमाणं शब्दः इत्यन्वयः। प्रमाणं शब्दः इति लक्ष्यनिर्देशो बोध्यः। प्रथमतो येनकेनापि प्रमाणेन वक्तुर्वाक्यार्थज्ञानं ततः परस्य वाक्यार्थज्ञानं भवत्विति वाक्यार्थज्ञानेच्छा ततो वाक्यार्थज्ञानरूपेष्टसाधनताज्ञानात्कृतिसाध्यताज्ञानसहकृतात्कण्ठाभिघातादौ चिकीर्षा ततः कण्ठाभिघातादिसाध्यकण्ठाद्युपादनकप्रवृत्तिः। ततः कण्ठादिचेष्टाविभागादिक्रमेण कण्ठाभिधाताद्युत्पत्तिः। ततो वाक्योत्पत्तिरिति प्रणाल्या प्राचां नये परम्परया वक्तृवाक्यार्थबुबोधयिषापूर्वकवाक्यत्वावच्छिन्नं प्रति वक्तृवाक्यार्थज्ञानस्य हेतुतया सर्वत्र लक्षणं सङ्गमनीयम्। पदप्रयोजनं यथायथमूहनीयम्। ननु केवलप्रमाणशब्दस्य लक्ष्यत्वादत्र वाक्यात्मकस्य तत्त्वोक्तिर्विरुद्धेति चेन्न। उक्तप्रणाल्या वाक्यात्मकस्यैव तत्त्वेन मणिकृदभिप्रायात्। सर्वत्र वाक्यादेवार्थबोधजननाद्वारमित्यादौ यथायथं पिधेहि उद्धाटयेति वा क्रियामध्याहृतैव तद्वाक्यार्थबोधस्य वक्तृतात्पर्यानुमानात्सर्वानुभवसिद्धत्वात्। अत एव तत्र वाक्यस्फोटो मुख्यो वाक्यादेवार्थप्रत्ययादिति स्पष्टं व्याकरणनिबन्धेषु। तत्रहि वाक्यादेवार्थबोधस्य सर्वानुभवसिद्धत्वेन वाक्यस्यैव वर्णव्यतिरिक्तस्य वाचकत्वं व्यवस्थापयन्त्यभिज्ञा इति। तथाहि—वर्णानां प्रत्येकं वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्रसङ्गात्समुदायस्य वाचकत्वमुपेयं तत्तु न युक्तम्। वर्णानामुत्पत्तिपक्षे यौगपद्येनानुत्पत्त्या अभिव्यक्तिपक्षे तु अनुविनाशिक्रमिकाभिव्यक्त्या समुदायाभावात्समुदायत्वमेकबुद्धिविषयत्वम्। नच पक्षद्वयेऽपि पूर्ववर्णानुभवसंस्कारसहकृतान्त्यवर्णानुभवहेतुकैकस्मृत्युपारूढवर्णानां वाचकत्वमस्त्विति वाच्यम्। तथाच सति सरो रस इत्यादावर्थप्रतीत्यविशेषप्रसङ्गात्। नच संस्कारवशादव्यवहितोत्तरत्वसम्बन्धेन पूर्ववर्णवत्त्वं तदुत्तरवर्णे प्रत्यक्षेण गृह्यते। एवमुपस्थितविशिष्टतद्वर्णवत्त्वं तदुत्तरवर्णे । तथाच सरो रस इत्यादौ विशेषोपपत्तिरिति
वाच्यम्। तथापि वर्णसमूहरूपपदस्य कदाप्यसत्त्वेन तत्र शक्तेः कल्पयितुमशक्यत्वात्। नच पूर्वपूर्ववर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्णप्रत्यक्षपर्यन्तं जायमाना एव सन्तीति न काप्यनुपपत्तिरिति वाच्यम्। तथापि गामानयेत्येकं वाक्यमित्यबाधितैकप्रतीतेः सर्वसम्मताया विना वाक्यस्फोटमनिर्वाहात्। न खल्वियमभिन्नवस्तुविषया बुद्धिः परस्परव्यतिरिक्तनानावर्णानेव गोचरयितुमर्हति। नच वनमिति बुद्धेर्वृक्षा इव वाक्यमिति बुद्धेर्वर्णा एव विषया भवन्तीति वाच्यम्।तत्रैकदेशस्येवात्रैकबुद्धिविषयत्वादेरनुसन्धानाभावात्। तस्मादेकोऽनवयवो वाक्यस्फोटः शब्दब्रह्मापरनामधेयोऽङ्गीकार्यः। स्फुटत्यर्थोऽस्मादिति स्फोटः। सच वर्णानानिव ध्वनिप्रकाश्यः। यथा पटे नानारञ्जकद्रव्याहितनानावर्णोपरागः क्रमेण तथैकस्मिन्नेव स्फोटे उच्चारणक्रमेण क्रमवानिव तत्तद्वर्णस्य रूपानुरागः। स तु विवर्ताधिष्ठाने शब्दब्रह्मणि विषयादिरिवाविद्याकल्पितो व्यवहारिकनित्यत्ववानिति न दोषः। नच स्फोटस्यैकत्वेन कथमस्मादविलक्षणाद्विलक्षणतत्तदर्थबोध इति शङ्क्यम्। यतो मणिकृपाणदर्पणादौ मुखमभिन्नमपि भिन्नमिव नियतगौरत्वादिवर्णपरिमाणविशेषमप्यनेकविधवर्णपरिमाणमिव यथा प्रतीयते तथा प्रयत्नभेदभिन्नेषु ध्वनिषु स्फोट एकोऽप्यनेकवर्णात्मेव निरवयवोऽपि सावयव इव प्रतीयते। तथाचौपाधिकभेदः स्फोटस्येति विलक्षणबोधोपपत्तिः। तत्र प्रतिवाक्यं सङ्केतग्रहासम्भवाल्लघूपायेन तदन्वाख्यानाय कल्पनया पदानि विभज्य तेषु प्रकृतिप्रत्ययभागान्कल्पयित्वा कल्पितान्वयव्यतिरेकाभ्यां तत्तदर्थविभागं शास्त्र एव परिकल्पयन्तिस्माचार्याः। एवं तत्तदवयवतत्तदर्थबोधनेन समुदायस्य तत्तदर्थस्य च बोधने तात्पर्यमृषीणामिति स्थितम्। परन्तु कृतकस्यानित्यत्वनियमादिस्यापि शब्दप्रयोगोभयोत्पन्नयत्नाभिहताग्निना नाभिप्रदेशात्प्रेरितो वायुर्वेगान्मूर्ध्वपर्यन्तं गत्वा प्रतिनिवृत्तो वक्त्रं प्राप्योक्तयत्नसहायेन तत्तस्थानेषु जिह्वाग्रादिस्पर्शपूर्वकं तत्तस्थानान्याहत्य वर्णानाभिव्यनक्तीत्युक्तत्वात्परम्परया कृतकत्वमादायानित्यत्वं कथं न प्रलपेयुरस्य चैकत्वे सर्वप्रतीतिविरोधात्। नचाविद्ययात्मानेकत्वं इवास्यानेकत्वभ्रम इति वाच्यम्। एकत्वे बोधवैलक्षण्यानुपपत्त्यौपाधिकभेदस्य तैरङ्गीकारात्। वास्तविक एवेति वयं ब्रूमः। स एवायं शब्द इत्यभेदप्रत्ययोत्पत्तिस्तु भेदमूलकसादृश्यग्राहकतयोपपद्यते। नच शब्दानामनित्यत्वे कथमुद्धुष्टाः शब्दाः स्मर्येरन्निति वाच्यम्। अनित्यघटस्येव बाधाभावात्। ननु नित्यत्वे प्रतिवाक्यं प्रयत्नापेक्षणात्सदावर्तेरन्प्रकाशेरंश्च सदा व्यञ्जनकाभावादिति चेन्न। अनित्यत्वेऽपि व्यञ्जकेन तद्ग्रानस्याप्रतिहतत्वात्। सिद्धान्तनयेऽपि ब्रह्मातिरिक्तस्य सर्वस्यानित्यत्वाङ्गीकारात्। नच ब्रह्मात्मत्वमङ्गीकर्तृणामनित्यत्वापादनं दृष्टान्तप्रायमिति वाच्यम्। आरोपमात्रत्वेन श्रद्धाजाड्यस्य भवत्कुलप्रसिद्धत्वेऽपि सर्वैरङ्गीकारे मानाभावात्। अपिच भवन्नय एव “एकः शब्दः सम्यग् ज्ञातः सुष्टु प्रयुक्तः स्वर्गे लेके च कामधुक् भवती"ति महाभाष्ये पतञ्जल्युक्तेः स्फोटात्मकब्रह्मज्ञानस्य स्वर्गलोकयोः कामधुक्त्वं दर्शितं न निरतिशयस्वरूपानन्दावाप्तिरूपं फलम्। तथाच ब्रह्मत्वं मनःकल्पितमेव। किञ्चैकशब्दसम्यग्ज्ञानाद्यस्य कस्यचित्तत्फलधुक्त्वमापद्यते। एकोऽखण्डः सर्ववाक्यात्मा स्फोट इति ज्ञानादेव तदिति चेत्तदेकज्ञानमात्रेण तदेकोच्चारणमात्रेण वा तत्त्वप्रसङ्गात्। सर्वस्फोटात्मब्रह्मज्ञानं तदुच्चारणं च योगिनामेव नास्मदादीनामिति व्याकरणाध्ययने सर्वेषां प्रवृत्तिर्न स्यात्। किं च ब्राह्मणो विवर्तधिष्ठानत्वात्सर्गलोकयोर्विवृत्तत्वेन विवृत्तफलभोक्तृकामनायाः सिद्धान्तशास्त्रविरुद्धत्वात्। तस्मादारोपितब्रह्मत्वं शालिग्रामशिलाविष्णुन्यायेन साधानवस्थापन्नं साङ्केतिकं बोध्यमस्माकं तु कार्यमात्रमनित्यं तेन वेदस्य पौरुषेयत्वेनानित्यत्वसिद्धिः। प्रामाण्यमीश्वरोक्तत्वादेव। तल्लक्षणं तु शब्दतदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमाणशब्दत्वं शब्दातिरिक्तं शब्दोपजीविप्रमाणातिरिक्तं च यत्प्रमाणं तज्जन्यप्रमितिविषयार्थको यस्तदन्यत्वे सति शब्दजन्यवाक्यार्थज्ञानाजन्यो यः प्रमाणशब्दस्तत्त्वमित्यर्थः। वेदजन्यप्रमितिविषयार्थस्य शब्दप्रमाणजन्यत्वं तथा
शब्दोपजीव्यनुमानप्रमाणजन्यत्वं न तु तदतिरिक्तप्रत्यक्षप्रमाणजन्यत्वं वेदविषयार्थस्य चक्षुरविषयत्वात्। एवं यत्किञ्चिच्छब्दजन्यवाक्यार्थज्ञानाजन्यप्रमितिविषयोऽर्थो न वेदस्येति लक्षणसमन्वयः। व्यासादिचाक्षुषजन्ये भारतादौ दृष्टार्थकायुर्वेदादौ चातिव्याप्तिवारणाय सत्यन्तम्। उत्तरखण्डं शब्दजन्यवाक्यार्थज्ञानाजन्यप्रमितिविषयार्थकशब्दे परार्थानुमितौ च तन्निरासायेति ध्येयम्। अधिकं मणिग्रन्थे द्रष्टव्यमित्यलम्। नन्वेवमपि प्रयोगविषयस्य द्वारमित्यादेर्न वाक्यत्वमिति चेन्न। सर्वत्र न पदसमूहो वाक्यम्, अर्थाध्याहारेण क्रियान्वितपदस्यैव प्रयोगविषयत्वात्क्रियान्वितार्थकं तदिति तदभिप्रायान्न तद्विलक्षणमिति ध्येयम्। ननु किं परमतसिद्धशक्तिपदार्थनिरूपणेनेहेत्याशङ्कां मनसिकृत्य तदभिप्रायं वर्णयंस्तदवतारयति—मीमांसकेत्यादिना। स्पष्टप्रतिपत्तये तदर्थमाह–शाब्देत्यादिना। पदपदार्थयोः सम्बन्धज्ञानादेकसम्बन्धिन्यायेनार्थस्मरणद्वारा शाब्दबोध एव तत्फलमित्यशयेनाह–शाब्दबोधजनकेति। शाब्दबोधजनिका या अर्थस्मृतिस्तदनुकूलो यो घटादिपदघटादिरूपार्थयोः सम्बन्धः शाब्दबोधनियामकः सम्यक् बध्नातीति व्युत्पत्त्या विना शब्दं शाब्दस्याप्रयोजकतया शाब्दप्रयोजकरूपः शक्तिपदार्थ इत्यर्थः। अनुकूलत्वस्यान्यत्र जनकत्वपर्यायतया प्रकृते शब्दादर्थस्मृत्युपकारकत्वे तदसम्भवमुद्धर्तुमाह– अनुकूलत्वमित्यादि घटादिपदतदर्थयोरित्यादि। घटादिपदं घटाद्यानुपूर्वीकं शक्तं घटादिरूपोर्थः घटपदबोधविषयत्वधर्मावच्छिन्नः कम्बुग्रीवादिमान्योऽर्थः तयोरन्यसम्बन्धवारणायाकाशभूनिष्ठयोः कालादिसम्बन्धवारणायानुकूलान्तं शाब्दाद्यनुकूलान्तमित्यर्थः। एतत्सम्बन्धातिरिक्तसम्बन्धस्य शाब्दबोधजनकपदार्थस्मारकत्वात्। विवक्षितार्थकम्। प्रयोजकत्वरूपमित्यर्थः॥ घटादिशक्त्यन्तं विशेष्यदलं सार्थकयति—अर्थेत्यादिना। नन्वदृष्टस्य जन्मान्तरानुभूतार्थस्मारकत्वात्किं शाब्दबोधजनकार्थस्मृत्यनुकूलत्वे विचिकित्सेति चेन्न असम्बद्धशशश्रङ्गादेरस्मारकत्वाच्छक्तिसम्बन्धासम्बन्धपदादेवादृष्टस्येहजन्मजन्मान्तरीयस्मारकत्वस्य शास्त्रसिद्धत्वात्। उपनिशद्वाक्यैः श्रुतपूर्वस्यैव ब्रह्मणो गर्भस्थावामदेव्यस्मृतेः। पदार्थान्तरमितीति। क्लृप्तपदार्थतावच्छेदकेतरपदार्थतावच्छेदकेवत्त्ववदित्यकर्थकत्वे नैयायिकमतेऽतिरिक्तपदार्थत्वस्याप्रमितत्वेन तदर्थव्याघातादर्थान्तरं तन्मतसाधारण्येनोद्ग्रावयति–तत्तत्पदार्थेत्यादिना। तत्तत्पदार्थतावच्छेदकाभावानां प्रत्येकं प्रसिद्धानां कुत्राप्यसत्त्वेन तत्कूटवत्त्वस्य प्रत्येकं प्रसिद्धेर्न व्याघातसम्भावनेति भावः। उपकाराय मूलवाक्यं विवृणोति–अस्मादित्यादिना। अस्मादितीदमर्थस्य पदेऽभेदेनान्वयात्पञ्चम्या जन्यत्वार्थकत्वाच्च तव्यतः कर्मणि विहितस्य विषयत्वार्थकत्वादयमक्षरस्वारसिकः शक्तिपदार्थ इत्यर्थः। इदमुपलक्षणमिदं पदममुमर्थ बोधयत्विति पदविशेष्यकेश्वरेच्छारूपशक्तेरपीति बोध्यम्। कर्मकर्तृप्रत्ययसमभिव्याहारे पदेनोच्यतेऽर्थोऽर्थं वक्ति पदमित्यत्र पदनिष्ठप्रकारतानिरूपितजन्यत्वनिष्ठप्रकारतानिरूपितबोधनिष्ठप्रकारतानिरूपितबोधविषयत्वनिष्ठप्रकारतानिरूपितविषयताश्रयोर्थं इत्येवमुक्तस्थलेऽपि पञ्चम्यर्थजन्यतया बोधः। पदनिष्ठभगवदिच्छीयविषयतानिरूपकं शाब्दबोधविषयत्वप्रकारतान्तर्गतशाब्दबोधप्रकारतानिरूपकजन्यत्वप्रकारतानिरूपकनिरूपितत्वसम्बन्धावच्छिन्नप्रकारताश्रयः पदमिति च बोध इति ध्येयम्। अस्मादित्यादीश्वरेच्छारूपसङ्केतग्राह्या शक्तिः पदार्थान्तरं नोक्तसङ्केतस्वरूपा मानाभावाद्वह्निनिष्ठदाहानुकूलशक्तिवदिति वदतां मीमांसकानां मतं गौरवान्निराकर्तुमाह— नतु पदार्थान्तरमिति। उक्तेश्वरसङ्केतरूपक्लृप्तपदार्थातिरिक्तपदार्थत्वधर्मावच्छिन्नो न शक्तिपदार्थ इत्यर्थः। नच मीमांसकानां मन्त्रात्मिकैव देवता न तदतिरिक्त ईश्वरः तदनुष्ठानरूपकर्मविशेषादेवाखिलेष्टसिद्धिः कर्मणैवेति भगवद्वचनं चानुकूलं स्वर्गप्राप्तिरेव मोक्षो “न स पनरावर्तत” इति श्रुतिरप्येतत्परैवेति मतम्। तथाच तत्सङ्केताग्रहात्कथं तेषां शाब्दबोध इति चेत्सङ्केतत्वमात्रेणैव शक्तेः शाब्दबोधहेतुत्वमङ्गीकारादत एवापभ्रष्टादपि शाब्दबोधः अपभ्रष्टच्छक्तिभ्रमाच्छाब्दबोध इति सिद्धान्तः। केचित्तु साधुशब्दस्मरणाच्छाब्दबोधमङ्गीकुर्वन्ति। (१-यथोक्तं हरिणा-ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः। तादात्म्यमुपगम्यैव शब्दार्थस्य प्रकाशकाः॥ न शिष्टैरनुगम्यन्ते पर्याया इव साधवः। न यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः॥ अम्माऽम्मेति यदा वालः शिक्षमाणः प्रभाषते। अव्यक्तं तद्विदां तेन व्यक्तो भवति निर्णयः॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते। तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते॥ इति। आधुनिकसाङ्केतितचैत्रादिशब्दानामेकादेशे (2- एकादेशे द्वादशे वाह्नि पिता नाम कुर्यात् इति।)द्वादशे वेत्यादिस्मृतिघटकनामपदस्य चैत्रादिपदपरत्वेन शक्तत्वाच्छाब्दबोधः। न च स्मृतिषु मन्वादीनामेवेच्छाविषयत्वान्नोक्तोक्तिसम्भव इति वाच्यम्। स्मृतेः श्रुतिप्रतिपाद्यार्थप्रतिपादकत्वात्परम्परयेश्वरेच्छाविषयत्वानपायात्। मीमांसको विनिगमनाविरहमापादयन् दूषयति–नचेत्यादिना। नैयायिकमताभिप्रायेणाह—कृतेर्वेति। वेदरूपशब्दस्यापि कृतिविषयत्वेन कार्यत्वस्वीकारात्। इच्छारूपत्वे विनिगमकं निदर्शयति—आधुनिकेत्यादिना। आधुनिकसङ्केतस्य। शास्त्रकारादिपारिभाषिकनदीवृध्द्यादिपदसङ्केतस्येच्छारूपतया न तु कृतिरूपतया शब्दानां नित्यत्वादिति भावः। शक्तेरपि तादृशसङ्केतरूपशक्तेरपि इच्छारूपत्वे इच्छारूपत्वाङ्गीकारे सङ्केतज्ञानस्य सङ्केतत्वेन सङ्केतज्ञानस्यानुगतकारणभावः एकरूपत्वेन कारणत्वं सम्भवति। अन्यथा क्वचित्कृतिरूपत्वे ज्ञानरूपत्वे वाऽनुगतकारणभावः न सम्भवतीत्यन्वयः इत्येवं एवं सति विनिगमकसम्भवेनानुगतकारणत्वरूपप्रमाणसम्भवेन इच्छाया एव। एवेन कृतेर्व्यावृत्तिः। शक्तित्वस्वीकारात्। शाब्दबोधानुकूलशक्तिरूपपदार्थाङ्गीकारादिति समुदितार्थः। तन्मात्रविषयिण्या भगवदिच्छायाः शक्तिरूपत्वे दोषमाशङ्कते—नचेत्यादिना। घटपदबोद्धव्यत्वप्रकारकतदिच्छायाः घटपदजन्यबोधविषयत्वप्रकारकेश्वरेच्छायाः। पटेऽपि सत्त्वात्। भगवदिच्छाया वस्तुमात्रविषयत्वादिति तात्पर्यम्। भगवतः सर्वकर्तृत्वे भगवदिच्छायाः सर्वविषयत्वेऽपि तत्तत्पदवाच्यत्वनियामिका तत्तदर्थविषयिणी तत्तत्पदोपाधिभेदनिबन्धना भिन्नैवेश्वरेच्छावगन्तव्येति तात्पर्येण समाधिमाह—यत इत्यादिग्रन्थेन । ईश्वरेच्छीयविशेष्यताश्रयत्वं तत्तदर्थगतं भिन्नमित्यर्थः। सामञ्जस्येन प्रकारान्तरमाह—तादृशेत्यादिना। तद्विवक्षया पूर्वोक्तदोषं विघटयति विस्पष्टम्–तथाचेत्यादिना। तथाचेत्यस्य तत इत्यर्थः। लक्षणोच्छेदापत्तिमुच्छेदयति—गङ्गेत्यादिना। स्वातन्त्र्येण निरूप्यनिरूपकभावेन। तीरेऽसत्त्वात् निरूप्यनिरूपकभावापन्नेश्वरेच्छीयविशेष्यतावत्त्वस्य वाऽसत्त्वात्। सङ्क्षेपः विस्तरस्त्वस्मदीयाभिनवमणिप्रभायामधिकजिज्ञासुभिर्जिज्ञासितव्य इत्यर्थः। स्वमतव्यवस्थापनस्य परमतनिराकरणपूर्वकत्व एव सामर्ध्यावधारणमिति तस्योपन्यासपूर्वक एव प्रेक्षावतां प्रवृत्तिबोधनाय प्रवृत्तं ग्रन्थमवतारयति–विशिष्टेत्यादिना। विशिष्टे जात्याकृतिविशिष्टे । दूषयति जातिशक्तिवादिनां भाट्टानां कार्यान्वितशक्तिवादिनां प्राभाकराणां च दूषयतीत्यर्थः। लाघवादिति। व्यक्तिभेदेन शक्तिभेदकल्पनायामानन्त्यगौरवदोष इति भावः। प्रथममुपस्थितत्त्वादितीति। विशिष्टं नाम विशेषणविशेष्यसम्बन्धावगाहिज्ञानसम्बन्धि। तज्ज्ञाने विशेषणज्ञानस्य प्रथममपेक्षा मारहरो हर इत्यत्र मारग्रहमन्तरा मारहरत्वविशिष्टहरज्ञानसम्भवादिति भावः। ननु विशिष्टज्ञानस्य विशेषणविशेष्यतत्सम्बन्धत्रितयविषयकात्मकतयाऽविशेषेणैवोपस्थतेरपेक्षेति चेन्न। त्रितयविषयकत्वेऽपि विशेषणसम्बन्धं विशेष्येऽवगाह्यैव विशिष्टमवगाहते न पुरो विशेष्यमात्रमत एव ज्ञातपूर्वकेऽपि विशेष्ये विशेषणोपस्थितेरेव विशिष्टबुद्धिजननम्। आक्षेपादितीति। येन विना यदनुपपन्नं तेन तदाक्षिप्यत इति न्यायादित्यर्थः। तन्न्यायार्थमेव तन्मतेऽर्थापत्तिः प्रमाणान्तरत्वेन परिगृह्यतेऽत एवाह–अर्थापत्तिप्रमाणादित्यर्थ इति । आपेक्षादित्यस्यानुमानादित्यर्थेन गोत्वं गवाश्रितं जातित्वाद्धटत्वादिवदित्यनुमानेनानुमान एवान्तर्भावान्न प्रमाणान्तरमिति नैयायिकाः। व्यक्तावेव सम्भवेनेतीति। एतेन जातिव्यवच्छेदः। गौर्निष्टा गौर्जाता गामानयेत्यादौ समभिव्याहृतान्वयस्य जातौ बाधात् परम्परासम्बन्धेन तदन्वयोपगमेऽन्वयितावच्छेदकतया गोत्वत्वादिभानस्वीकारापत्तेः। नहि स्वरूपेण पदार्थस्य पदार्थान्तरान्वयितया भानमिष्टापत्तौ च शक्यतावच्छेदकं गोत्वत्वं वाच्यम्। तच्च गवेतरासमवेतत्वे सति सकलगोसमवेतत्वरूपम्। तथाच गोव्यक्तीनां शक्यतावच्छेदकानुप्रवेशात्तवैव गौरवम्। अस्माकं जातिप्रकारकबोधाङ्गीकर्तृणां स्वरूपेण प्रकारत्वाभ्युपगमे बाधविरह इत्यादिकं शक्तिवादादिभ्योऽधिकजिज्ञासुभिर्जिज्ञासितव्यम्। जातिशक्त्यङ्गीकारेऽनुपपत्त्यैव गौरस्तीत्यतो गोव्यक्तिबोधो युष्माकमस्माकं तु गोत्वविशिष्टगोव्यक्तिबोधोऽनुपपत्तिमन्तरेणैव सर्वानुभवसिद्धोऽनुभवः प्रमाणमित्याशयेन विनापि च क्वचित्समुच्चय इति न्यायेनार्थान्तरं समुच्चाययति–अनुपपत्तीत्यादिना। केवलजातिशक्तिकल्पनव्यवच्छेद इति। जात्याकृतिविशिष्टव्यक्तावेव शक्तिकल्पनं न्याय्यं नापि जातौ नाप्यकृतौ नापि व्यक्तौ पृथक् तत्तद्रूपेणाबोधात्तव्द्यवच्छेद इत्यपि बोध्यम्। ननु “जात्याकृतिव्यक्तयः पदार्थ” इति सूत्रं प्रणयति स्म गौतममहर्षिः स किंविशिष्टे शक्तिं कल्पयाञ्चकार विशिष्टपदानुपन्यासाद्बहुवचनानुपपत्तेश्चेति चेन्न। अर्थपदोत्तरैकवचनार्थे एकत्वविवक्षया पार्थक्येन तत्कल्पनव्यवच्छेदेन समुदायशक्तावेव पर्यवसानात्। सूत्रे साक्षादनुपन्यस्तमपि उपलक्षणविधया अनुग्राह्यमित्याशयेनाह—अत्रेदमित्यादि। तद्वैशिष्ट्ये जातिनिष्ठाश्रयितानिरूपिताश्रयतालक्षणसम्बन्धविशिष्टे तदाश्रयेषु जातितत्सम्बन्धोभयाश्रयेषु व्यक्तिषु। अशक्यस्य शाब्दबोधे भानासम्भवात्। पदशक्त्युपस्थाप्यार्थस्यैव शाब्दबोधे भाननियमात्।
तत्सम्बन्धस्य शाब्दे भानान्यथानुपपत्त्या तदंशेपि शक्तिः कल्पनीयेति पूर्वेणान्वयबोधः। स्वतन्त्रमतं दर्शयति—नव्यास्त्विति। लक्ष्यतावच्छेदकत्वग्रहमात्रेणेति। लक्ष्यतावच्छेदकत्वप्रकारकज्ञानमात्रेणेत्यर्थः। एवमुत्तरत्रापि। चेति। चेन शक्यतावच्छेदकत्वेनोपस्थितजातेस्तद्वैशिष्ट्यस्य च समुच्चयः। शक्तिग्रहमित्यादिवृद्धवचनात् वृद्धव्यवहारेणेतीतरोपलक्षकमित्याशयकमित्यर्थापयति—शक्तीत्यादिना। तेन वृद्धव्यवहारेण च भवतीत्यर्थकरणेन इतरेतरद्वन्द्वोत्तरविभक्त्यर्थान्वयस्य वर्तिपदार्थविषयकत्वनियमाभिप्रायेण व्याकरणादीत्यादिप्रतीकयति—व्याकरणादीति। प्रकृतिप्रत्ययादीनां शक्तिग्रह इति। प्रत्ययविधावुद्देश्यतावच्छेदकाक्रान्तत्वरूपप्रकृतित्वस्य धातुनामनिपातसाधारणत्वेन
नामनिपातयोर्व्याकरणस्य शक्तिग्रहकत्वात्सर्वं नाम धातुजमाहेति महाभाष्यवचनात्प्रकृतिपदं सर्वप्रकृतिभूतधातुपरमन्यथा कोशाद्युपादानवैयर्थ्यप्रसङ्गात्। तदर्थनिर्णायकश्च धातुपाठः। प्रत्ययार्थनिर्णायकं “वर्तमाने लडि"त्यादिकं बोध्यम्। आदिपदमादेशग्राहकमादेशानामेव तदागमे हि दृश्यते इति न्यायेन निर्णायकत्वात्प्रत्ययार्थनिर्णायो लाघवमूलक इति नान्यतरवैयर्थ्यमिति सुधियो विभावयन्तु। एकदन्तादिशब्दानां गणेशत्वविशिष्टैकार्थप्रतिपादकत्वेन कर्मधारयापत्त्या बहुवचनानुपपत्तिं प्रतिसन्धाय समाधिमाह—तत्रेत्यादिना। तत्र कोशे। एकदन्तादिशब्दानामेव पदार्थतया एकदन्तादिशब्दानामेकाराद्युत्तरत्वादिघटितानुपूर्वीकाणामेवैकदन्तादिपदप्रतिपाद्यार्थतया (१-पाद्यार्थत्वपद इति पाठः।) कोशस्य नामलिङ्गानुशासनत्वान्नामार्थयोरभेदारोपादिति भावः। हेत्वर्थे तृतीयाऽतएव हेतोस्तेषां भिन्नत्वमित्यन्वयः अत्रापि हेत्वर्थ एव तृतीया तेन यतो भिन्नत्वमतो हेतोर्द्वन्द्वोपपत्तिरित्यन्वयबोधः। ननु शब्दार्थयोस्तादात्म्ये किं मानमिति चेन्न। “ओमित्येकाक्षरं ब्रह्मेति” “सूक्ष्मामर्थेनाप्रविभक्ततत्त्वामेकां वाचमभिष्यन्दमानां तामन्ये विदुरन्यामिव च नानारूपामात्मनि सन्निविष्टामिति” “रामेति व्द्यक्षरं नाम मानभङ्गः पिनाकिन” इत्यादिश्रुतिस्मृतिवचनेभ्यः, इति चेदाग्निशब्दोच्चारणे मुखदाहापत्तेर्गङ्गाशब्दोच्चारणे पिपासाहानापत्तेश्च दुरुद्धुरत्वेनारोपमूलक एवाभेदप्रत्ययः क्वचित्तत्तत्प्रामाण्यादिति निष्कर्षः। केचित्तु। भेदसहिष्णुमभेदमङ्गीकृत्यं बोधं वा तदङ्गीकृत्योक्तदोषं परिजुह्रुरित्यलं पल्लवितेन। व्यवहारतः शक्तिग्रहमुपपादयतीति। यद्यपि व्यवहारत्वेन व्यवहारमात्रस्य शक्तिग्राहकत्वेऽप्यभियुक्तोक्तिर्विशेषरूपेण व्यवहारफलिकेति मूलं विवृणोति–शक्तिग्रहेच्छावानिति। व्युत्पत्तुमिच्छतीति व्युत्पत्सुरिति व्यत्पत्त्या व्युत्पत्तेः शक्तिग्रहरूपत्वेनेच्छासन्नर्थान्तर्भावेणैव तदर्थकरणादिति भावः। प्रयोजकेति। प्रकर्षे योजयतीति हेतुमुण्ण्यर्थान्तर्भावेण युजेः कर्तरि ण्वुल्। तथाच गवानयनकार्थे यत्किञ्चित्कर्मकयोजनया मध्यमुवृद्धोपन्यासो मूले इति बोध्यम्। इयं क्रियेति। घटानयनक्रियेत्यर्थः। अनुमानप्रयोगो बोध्य इति। इदमुपलक्षणम्। घटानयनगोचरो यत्नः घटानयनगोचरज्ञानजन्यः। तद्गोचरप्रयत्नत्वात्। यो यद्गोचरो यत्नः स तद्गोचरज्ञानजन्यः। स्वीयस्तन्यपानयत्नवत्। एवं घटानयनगोचरं ज्ञानं घटमानयेति शब्दजन्यं तदन्वयव्यतिरेकानुविधायित्वाद्यद्यन्वयव्यतिरेकानुविधायि तत्तज्जन्यं यथा घट इत्येवं चानयनक्रियान्विते शक्ति निश्चिनोतीति तात्पर्यम्। अन्यथा पदार्थसंसर्गरूपान्वयांशस्य शाब्दे भावानुपपत्तिः। तद्विषयक शाब्दबोधं प्रति वृत्तिज्ञानजन्यतदुपस्थितित्वेन हेतुतायाः शाब्दबोधे सामान्यत एव क्लृप्तत्वादन्यथा घटपदादाकाशस्यपि बोधापत्तिः। संसर्गताभिन्नविषयतायास्तादृशोपस्थितिजन्यतावच्छेदकत्वे च गौरवमिति प्राभाकरमतम्। न चेतरान्वितघटस्य वाक्यप्रतिपाद्यतया वाक्यार्थबोधे पदार्थबोधस्य हेतुत्वात्पदार्थबोधे पदशक्तिग्रहस्य
हेतुत्वात्पदशक्तिग्रहकाले वाक्यार्थान्वयंशस्यानुपस्थितितत्वात्तदंशे शक्तिग्रहो निर्मूल एवेति वाच्यम्। गामानयेत्यादीतरपदसमभिव्याहृतवाक्यश्रवणानन्तरं विशेषरूपेणार्थान्तरमनन्तर्भाव्यं केवलान्वयांशान्तर्भावेण शक्तिग्रहस्य शाब्दधीहेतुत्वमभ्युपेतं पदार्थान्तरस्य पदान्तरलभ्यतया तदंशान्तर्भावेण शक्तिग्रहेऽनन्यलभ्यन्यायविरोध इति भाट्टमतम्। मतद्वयस्यैक्तोक्त्यैव निरसने मूलतात्पर्य निष्कृष्य व्याख्यायते—गवानयनेत्यादिना। गवानयनगोचरः गोकर्मकानयनविषयको यः प्रयत्नः। मध्यमवृद्धसम्बन्धीति शेषः। तज्जनकगवानयनज्ञानस्य वाक्यस्य
प्रयत्नजनकगोकर्मकानयनज्ञानजनकवाक्यस्य वाक्यजन्यवाक्यार्थज्ञानात्प्रवृत्तेर्लोके दृष्टचरत्वतात्पर्येण विशिष्टेऽर्थे शक्तिर्न कल्पनीया पदार्थसंसर्गरूपान्वयांशविशिष्टे केवलान्वयांशविशिष्टे वा शक्तिर्न कल्पनीया। तादृशर्थस्य उक्तवाक्यार्थसंसर्गरूपान्वयांशस्य केवलान्वयांशस्य वा समभिव्याहारलभ्यत्वात्। समभिव्याहृतानयनादिपदोपस्थाप्यत्वात् केवलान्वयांशस्यापि पदसमभिव्याहारगम्यत्वाभिप्रायेणेति समुदितार्थः। तत्रैव मानमाह—अनन्यलभ्येत्यादिना। नचैवं सति शाब्दे भानानुपपत्तिरिति वाच्यम्। सामान्यतस्तद्विषयकबोधे वृत्तिज्ञानजन्यतदुपस्थितित्वेन न हेतुता स्वतन्त्रवृत्तिज्ञानाद्विश्रृङ्खलभावेनैकपदोपस्थितयोः पदार्थतत्त्वावच्छेदकयोर्विशेष्यविशेषणभावक्रमेण शाब्दबोधापत्तेः। किन्तु तद्धर्मप्रकारेण तद्विषयकशाब्दबोधे वृत्तिज्ञानाजन्यतद्धर्मावच्छिन्नतद्विषयकोपस्थितित्वेनैव हेतुता वाच्या। एवं च तत्संसर्गकबोधस्य किञ्चिद्धर्मप्रकारेण तद्विषयकत्वाभावाद्वृत्तिज्ञानात्तदनुपस्थितावपि तत्संसर्गकशाब्दबोधः सम्भवेत्येवेति स्थितमन्यत्र, तेन न दोषावसर इत्यलम्। आवापोद्वापाभ्यामितीति। अयम्भावः। गामानयेति वाक्यश्रवणोत्तरं मध्यमवृद्धक्रियाप्रवृत्त्या तद्विशिष्टे गृहीतापि शक्तिर्विजातीयबधानेत्यतद्धटितवाक्यश्रवणानन्तरं विजातीयमध्यमवृद्धक्रियाप्रवृत्त्या त्यक्ता भवति। तेन(1-बालेन।)सत्येवमुभयानुस्यूतघटपदस्यैव घटरूपार्थे शक्तिर्न गौरवात्तत्तत्क्रियाविशिष्टे तस्य तस्य तेन गृह्यत इति। अन्यथा(2-संसर्गाशेऽपि तदङ्गीकारे।) अर्थवादानां विध्युपकारकाणां श्रुतिस्मृतीतिहासपुराणानां सिद्धार्थपराणामप्रमाण्यमापद्येतैवं द्वारमित्येककारकमात्रप्रयोगोऽनुभवसिद्धो बोधो भज्येत। अध्याहृतक्रियया तत्त्वोपपादनं कर्तृतात्पर्यविषयक्रियाभेदेन विनिगमनाविरहेण विकर्षितमतएव सुष्रूपहसितं मिश्रैः “प्रसिद्ध एव लोकेऽस्मिन् बुद्धबन्धुः प्रभाकरः"इति। दीर्घशूकविशिष्टस्य वाचक इति। लम्बकणिकविशिष्टस्य(3-“कणिशो धान्यशीर्षके” इति रत्नकोषः।) बोधक इत्यर्थः। दीर्घशूकविशिष्टे शक्तिनिर्णय इति। ननु गोधूमानामपि तथात्वदनिर्णयस्तदवस्थ एवेति चेन्न। वैजात्यनिवेशेन व्यवच्छेदात्। ननु व्यवहारस्य शक्तिग्राहकत्वमुक्तं तेन म्लेच्छव्यवहारोपि कङ्गावम्लेच्छित (4-नापभाषित एव।) एवेत्याशङ्कायामाह—कङ्गौ त्वित्यादि। शक्तिभ्रमः शक्तिग्राहकप्रमाणाभावमूलक इति भावः। पचतीत्यादि व्याख्यातं पुरस्तात्। कार्यपरत्वं चेत्यादि। नच कृतिसाध्यस्थितिक्रियातात्पर्यकत्वेन सिद्धेपि कार्यान्वितशक्तिग्रह इति घट्टकुटीप्रभातन्यायप्रसर (5-शौल्किकभयान्निशायां मार्गान्तरेण गच्छतः क्षपितनिशस्य घट्टकुट्यां शुक्लशालायां यथा प्रभातं कस्यचिद्वञ्चकस्य तथा तव सिद्धे शक्तित्वकल्पभिया व्यवहारस्य कार्यपरत्वमास्थाय कार्यान्विते स्वार्थे पदानां शक्तिमभ्युपगच्छतोऽपि मद्वाद आपन्न इति घट्टकुटीप्रभातन्यायस्वरूपम्।) इति वाच्यम्। अव्यावर्तकस्थितिक्रियानपेक्षणेन क्रियापदस्य विशेषक्रियापरत्वात्। अन्यथा न सिद्ध इति मूले व्यवच्छेद्यासङ्गतिस्तद्व्यवच्छेदाधायकव्याख्यानासङ्गतिश्च स्यात्। उपसंहरति—तथाचेत्यादिना। अन्यथेति। सिद्धे शक्तिग्रहानङ्गीकारे इत्यर्थः। सिद्धेशक्त्यङ्गीकारे प्रसिद्धशाब्दबोधानुपपत्तिरेव मूलमित्याह—तन्नेत्यादिना। तीरेऽपि शक्तिर्न कल्प्यत इतीति। अन्यथा क्वापि लक्षणप्रसङ्ग एव न स्यादिति भावः। आदिना पुष्पवन्तादिपरिग्रहः। संयोगादिरूपसम्बन्धाभावादित्यर्थ इति। यद्यपि लवणाश्वयोः संयोगोपि सम्भवति यत्राश्वे निक्षिप्तं लवणं तथापि निरन्तरतत्सम्बन्धस्यैव ग्रहणतात्पर्येणार्थकथनमिति बोध्यम्। पुनरादिना संयुक्तसंयुक्तत्वादिरूपपरम्परासम्बन्धग्रहणे लवणाश्वयोस्तत्सत्वादनुपपत्तिस्तदवस्थैवेति चेदादिना समवायादीनामेव परामर्शान्न दोषावसरः। अन्यथा संयुक्तसमवायादीनामपि ग्रहणे गङ्गापदवाच्यप्रवाहसंयुक्ततीररूपार्थसमवायस्य तीरत्वेऽपि सत्त्वात्तेन सम्बन्धेन तीरत्वेपि लक्षणापत्त्या तीरत्वे न लक्षणेति सिद्धान्तव्याकोप आपद्येत। ननु शक्यादशक्योपस्थितिरूपाया तस्याश्चाङ्गीकारात्पदवृत्त्यन्तरकल्पनायां गौरवाल्लाक्षणिकं पदं नानुभावकमिति सिद्धान्ताच्च न पदं लक्षणावृत्त्यान्यार्थबोधकमिति चेन्न। शाब्दत्वावच्छिन्नं प्रति वृत्त्या पदजन्यदार्थोपस्थितेर्हेतुत्वेन तदनभ्युपगमे आकाशादेः शाब्दबोधे भानापत्तेः प्रागेव प्रपश्चितत्वात्। शक्यार्थबोधं प्रत्येव तथा होतुत्वं लक्षणाजन्यशाब्दत्वावच्छिन्नं प्रति तु स्वरूपतस्तत्पदार्थत्वेन हेतुत्वाङ्गहीकारे मानाभाव इत्याभाति। वैयाकरणास्तु शक्यतावच्छेदकारोपो लक्षणेत्याचक्षते। तथाहि—आरोपितशक्यतावच्छेदकरूपेणाऽन्यव्यक्तिबोधे लक्षणेति यथा गङ्गायां घोष इत्यतः शक्यतावच्छेदकप्रवाहत्वस्य तीरविशेषे आरोपद्गङ्गात्वरूपेणैव तीरबोधे न तीरत्वेन। तथाच गौर्वाहीक इतिवत्तीरे आरोपेणान्वयानुपपत्त्या प्रयुक्तमिदं वाक्यमन्यथाऽप्तोक्तत्वानुपपत्तिर तस्तीरलक्षकमिदमिति बोद्धा बुध्यतीत्यभिप्रेत्येति बोध्यम्। एवं छत्रिणो यान्तीत्यादावच्छत्रिषु छत्रित्वस्य, काकेभ्यो दधि रक्ष्यतामित्यादौ दध्युपघातकमात्रे काकात्वादेरारोपः। अत एव “पुंयोगादाख्यायामि"ति सूत्रे भाष्ये गोपीत्यादौ गोपपदस्य गोपसम्बन्धि—स्त्रीत्वाश्रयगोप्यां लक्षणायामण्प्रत्ययान्तसाधुतामापाद्यैतदर्थे एतदसाधुत्वमाशङ्का समाहितं नावश्यमयमेवाभिसम्बन्धो भवति तस्येदमिति। किन्तु तन्मूलकः सोऽयमित्यभिसम्बन्धोस्तीत्युक्त्वा चतुर्भिः प्रकारैतस्मिन्स इत्येतद्भवति तात्स्थ्यात्ताद्धर्म्यात्तत्समीप्यात्तत्साहचर्यान्मञ्चा हसन्ति सिंहो माणवको गङ्गायां घोषः यष्टीः प्रवेशयेत्युक्तम्। कैयटोपि आरोप्यते ताद्रूप्यमिति। अत एव गङ्गायां मीनघोषौ स्त इत्युपद्यते। अन्यथा गङ्गापदस्याजहत्स्त्रार्थलक्षणायामपि गङ्गात्वतीरत्वोभयाश्रयोर्गङ्गातीरयोरुभयोर्घोषमत्स्योभयान्वये
एकधर्मावच्छिन्नेऽन्वयरूपसाहित्याभावात् द्वन्द्वानुपपत्तिरिति। किञ्चात्रार्थे गौतमोपि “सहचरण–स्थान– तादर्थ्य– वृत्त– मान–धारण–सामीप्य–योग–साधना–धिपत्येभ्यो–ब्राह्मममञ्च–कट–राज–सक्तु–चन्दन–गङ्गा– शाटका–न्न-पुरुषेष्वतद्ग्रावेऽपि तदुपचार” इति। अस्यार्थः तस्य भावस्तद्ग्रावस्तद्धर्मस्तदभावेपि तदुपचार इत्यर्थः। स च तद्धर्मारोपेण।आरोपनिमित्तानि च सहचारणादीनि। यष्टीः प्रवेशयेत्यत्र भोजनकाले यष्टिधरब्राह्मणकर्मकप्रवेशनतात्पर्यान्यथानुपपत्त्या यष्चित्वारोपो ब्राह्मणे। एवं मञ्चाः क्रोशन्तीत्यत्र तात्स्थ्याद्वालेषु मञ्चत्वस्य, वीरणेष्वास्ते इत्यत्र तादर्थ्यात्कटत्वारोपः अयं राजा यमः, प्रस्थः सक्तुः तुला चन्दनं, गङ्गायां घोषः, कृष्णः शाटकः। अन्नं प्राणाः, कुलस्य राजेत्येतेषु यथाक्रमं वृत्तादिनिमित्तेन यमत्वाद्यारोपो बोध्यः। न्यायवार्तिककारोपि साहचर्यं नाम यष्टिकया सम्बन्धस्तत्सम्बन्धात्तु यष्टिकावानित्येव स्यान्न तु यष्टिकेति यष्टिकावानिति तु मुख्य एव, तस्मादुपचारबीजमन्यदुक्तव्यमुच्यते। यष्टिकायां तावदयं यष्टिकाशब्दे यष्टिकात्वजातिनिमित्तकः, तत्र संयुक्तसमवेतां जातिं ब्राह्मणे समवायेनाध्यारोप्य ब्राह्मणं यष्टिकेत्याहेत्याह। हरिरपि “एकमाहुरनेकार्थ शब्दमन्ये परीक्षकाः। निमित्तभेदादेकस्य सार्वार्थ्यं तस्य भिद्यते। सर्वशक्तेः स्मृतस्यैव(1-स्मृतस्यैवेति पाठान्तरम्।) शब्दस्यानेकधर्मिणः। प्रसिद्धभेदाद्गौणत्वं मुख्यत्वं चोपचर्यते” इत्याहेति। तथाच कथं सङ्गच्छतां शक्यसम्बन्धो लक्षणेति चेदुच्यते। गङ्गायां घोष इत्यदावारोपितगङ्गात्वेन तीरबोधे तस्य ज्ञानस्य भ्रमत्वात्तदुत्तरं तदधिकरणकघोषदर्शनप्रवृत्तिर्न स्यात्प्राप्तात्मज्ञानस्यैव प्रवृत्तिजनकत्वात् शुक्तिरूप्यादौ चाकचक्यादिनाऽऽरोपितरजते विशेषदर्शनेनारोपितरजतबोधे रजते रजतार्थिनः प्रवृत्तेः सर्वानुभवविरुद्धत्वात्। केचित्तु मध्ये व्यञ्जनया मुख्यगङ्गापदार्थभेदस्यापि प्रतीतेः व्यञ्जनाजन्यज्ञानेन नाप्रामाण्यग्रहः। यथा “बाले तवाननविधूदयजातवेला आश्वारभन्ते तिमिरं निरन्तरम् “इत्यादौ प्रियानने आहार्येन्द्वभेदेनाप्रामाण्यग्रहस्य व्यञ्जनावृत्त्या रसिकजनसम्मतत्वाच्चमत्कारातिशयायैव तदङ्गीकारात्तदभ्युपगमेनादोष इति चेद्वृत्त्यन्तरसहकारेणैर्विविधलक्षणाङ्गीकारे बीजाभावाव्द्यञ्जनवृत्तेश्चालङ्कारिकमात्राभिमतत्वादस्मदीयलक्षणानुसरणमेव निर्दुष्टमुत्पश्यामः। उक्तभाष्यकैयटाभ्यां सोयमित्यभिसम्बन्धोत्तरं ताद्रूप्यारोपश्च शक्तपदबोध्यत्वेन शक्यतावच्छेदकारोपङ्कद्धिमात्रं यथा हरिमुच्चारयेदित्यत्र हरिपदबोध्येऽर्थे श्रीनिवासे उच्चारणकर्मशब्दतावच्छेदकारोपबुद्ध्या शब्दार्थयोस्तादात्म्यव्यवहारपदस्याप्रामाण्यविषयत्वात्तस्य प्रमाणत्वे दोषस्य प्रागेवोक्तत्वात्। ननु महर्षीणां महापण्डितानां कण्ठरवोक्तेऽन्यथार्थ तात्पर्यकल्पने स्वेष्ट एव प्रामाण्यामासः प्राप्नुयादिति चेत्सति न्याये तात्पर्यान्यथात्वकल्पनस्यादुष्टत्वात् भवदर्थकल्पने भवन्तः कुतो वा गौर्वाहीक इतिवद्गङ्गातीरं यष्टिर्ब्राह्मण इत्यभेदप्रत्ययं न मनुध्वे। उक्तदिशैव नोक्तगौतमसूत्रविरोधः। संयुक्तसमवेतां जातिं ब्राह्मणे इत्यादिन्यायवार्तिककारवचनमपि लक्षणया तत्पदबोध्यत्वेन तद्धर्मप्रकारकान्यधर्मविशेष्यकबोधस्तद्बोधकपदान्तराभावादित्यर्थतात्पर्यकमेव। हरिवचनेनापिमुख्यत्वमर्थे शक्त्या तत्पदबोध्यत्वं गौणत्वं वृत्त्यन्तरेण तत्त्वमित्यर्थान्नारोपबुद्धिर्लक्षणाया वास्विकीत्याभाति। अन्यथा किमवलम्ब्य शक्यसम्बन्धरूपं नैयायिकशिरोमणयः सर्वेप्यमन्यन्त स्वशास्त्रीयसूत्रवार्तिकविरोधादतस्तात्पर्यमेवं सङ्कल्प्य सम्मतेयमिति सम्मतयः सम्बुध्यन्ताम्। शक्यसम्बन्धरूपलक्षणायामस्मदभिमतायामेव शक्यतावच्छेदके न लक्षणेति प्राचां प्रवादोऽपि साधीयान्भवति। उपस्थितेस्तत्त्वे शक्यतावच्छेदकारोपस्य वा तत्त्वे उपस्थितेर्लक्ष्यतावच्छेदकविशिष्टलक्ष्यविषयत्वाल्लक्ष्यतावच्छेदकविशिष्टलक्ष्ये शक्यतावच्छेदकारोपाच्च लक्ष्यतावच्छेदकांशेऽपि तत्त्वात्तत्प्रवादोऽसाधीयान् स्यात्। अस्मन्मते तु शक्यसम्बन्धस्य साक्षात्संयोगस्य तीरत्वविशिष्टतीर एव सत्त्वात्तदुपपत्तिः। शक्यतावच्छेदकविशिष्टे शक्तिर्न विशेषणविधया शक्यतावच्छेदकांशेऽपि यद्वत्तद्वदिति बोध्यम्। अथैतमन्मते स्वज्ञानजन्यपदार्थोपस्थितिसम्बन्धेन लाक्षणिकपदस्यानुभावकत्वसम्भवाल्लाक्षणिकं पदं नानुभावकमिति सिद्धान्तभङ्गप्रसङ्गः। शक्यादशक्योपस्थितिर्लक्षणेति मते शक्यतावच्छेदकारोपो वा लक्षणेति मते लाक्षणिकार्थस्य तटस्थतया भानान्न तद्गोचरानुभवजनकत्वमिति चेत्सत्यम्। लाक्षणिकमननुभावकमित्यस्योद्देश्यविधेयभावतयाऽननुभावकत्वे तात्पर्यात् उद्देश्यविधेयभावेनान्वयं प्रति शक्तिमत्त्वस्यैव नियामकत्वात् विधेयार्थे लक्षणाभावादेव “न विधौ परः शब्दार्थ” इति सिद्धान्तसङ्गतिः। अस्मन्मत एव गङ्गायां घोष इत्यादौ विभक्त्यर्थाधिकरणत्वस्य तीररूपार्थे प्रकृत्युपस्थापितेऽन्वयात्प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तिसमन्वयो नेतरमते, तटभ्यतया प्रकृत्यनुपस्थाप्यत्वात् उपकुम्भमित्यादौ उपाद्यर्थसामीप्यादौ विभक्त्यर्थान्वयाव्द्युत्पत्तिव्यभिचारो नाशङ्कनीयः। तत्र तत्र सङ्ङ्कोचस्यैव प्राणाणिकनैयायिकशिरोमणिभिः कल्पितत्वात्। अन्यथा लक्षणाया एव वैयर्थ्य नैयायिकमते, वैयाकरणमते उपकुम्भमित्याद्यव्ययीभावे विशिष्टे शक्तिकल्पनवैयर्थ्यं च स्यात्। नन्वेवमपि शक्तिलक्षणयोः पदार्थोपस्थितिद्वारा शाब्दबोधकारणत्वेऽनन्तकार्यकारणभावप्रसङ्गः । परस्परं व्यभिचारोऽतिप्रसङ्गश्च स्यादिति चेन्न। शक्तित्वावच्छिन्नासांसर्गिकविषयतानिरूपितपदनिष्ठप्रकारतानिरूपितार्थनिष्ठविशेष्यताकग्रहत्वेनैकरूपेण (1-शक्तिमत्पदजन्योऽयमर्थ इति ज्ञानविषयत्वेनेत्यर्थः।) हेतुत्वस्याभिमतत्वात्। अस्ति च यत्र केवलशक्तिसम्बन्धेन पदप्रकारकं ज्ञानं भवति तत्र तादृशविषयताशालिपदप्रकारकज्ञानस्य सुलभत्वात्। यत्र शक्यसम्बन्धेनापि पदप्रकारकं ज्ञानं तत्रापि तादृशज्ञानस्य (2-शक्तिमत्पदप्रकारतानिरूपिततीरनिष्ठार्थविशेष्यतायाः सत्त्वात्।) विद्यमानत्वान्न दोष इत्यलम्। परोक्तलक्ष्यतां निरस्य प्रेक्षावतां प्रकारान्तरेण शेमुषीविशेषाय मूलोक्तमेवार्थ स्वाभीष्टतयोपलक्षयति—इदमुपलक्षणमित्यादिना। विनिगमकाभावेनेति। एकतरार्थे शक्तिमुपगच्छतोऽन्यतरार्थे लक्षणा वक्तव्या विपर्यासेन शक्तिमुपगच्छतो विपर्यासेन विपरीतार्थे लक्षणेति शक्तिलक्षणे अपि द्वे वृत्ती सर्वेष्वर्थेष्वापद्येयातामिति तत्त्वम्। वाच्यार्थस्येति। मञ्चपदवाच्यार्थस्येत्यर्थः। क्रोशनकर्तृत्वान्वयासम्भवादिति। आह्वानकर्तृत्वस्य सम्बोधनक्रियाकर्तृत्वरूपार्थस्य चेतनधर्मत्वादस्य चान्तरालिकक्षेत्रस्थचतुस्तम्भनिर्मितक्षेत्ररक्षकाधिष्ठानस्थानविशेषपरत्वात्तत्कर्तृत्वान्वयासम्भव इति भावः। अथ कोयं सम्बोधनपदार्थः। ज्ञानमिच्छा च सम्बोधनपदार्थः। प्रकृत्यर्थस्य ज्ञाने निष्ठतासम्बन्धेनान्वयः। तस्य चोद्देश्यतासम्बन्धेन इच्छायामन्वयः। तस्याः विषयतासम्बन्धेन क्रियायामन्वयः। एवञ्च राम मां पाहीत्यस्य रामनिष्ठज्ञानोद्देश्यकेच्छाविषयो मदभिन्नैकत्वसङ्ख्याविशिष्टाश्रयनिष्ठदुःखनिवृत्त्यनुकूलस्त्वदभिन्नैकत्वविशिष्टाश्रयनिष्ठो व्यापार इति बोध इति वृत्तिकारादयः। क्रियायाः प्राधान्याद्वैयाकरणमते। नैयायिकनये तु रामनिष्ठज्ञानोद्देश्यककेच्छाविषयो मदभिन्नैकत्वसङ्ख्याविशिष्टाश्रयनिष्ठदुःखनिवृत्त्यनुकूलव्यापारवदभिन्नैकत्वसङ्ख्याविशिष्टाश्रयस्त्वमिति प्रथमान्तमुख्यविशेष्यको बोधः। कैयटादीनां मते बोधनीयार्थविषयकज्ञानानुकूलव्यापारानुकूलव्यापारः सम्बोधनपदार्थः। नव्यवैयाकरणनये प्रयोक्तुतात्पर्यविषयीभूतार्थग्रहणसादरत्वं सम्बोधनपदार्थः। बोधः पूर्ववत् सर्वत्र यथायथं मतभेदेन बोध्यः। गदाधरभट्टाचार्याणां मते तु वक्तुरव्यवहितशब्दजन्यबोधाश्रयत्वेनेच्छा सम्बोधनप्रथमार्थः। राम मां पाहीत्यत्र वक्तुर्याऽव्यवहितमां पाहीति शब्दजन्य प्रार्थ्यमानमत्कर्मकपालनविषयकबोधाश्रयत्वेन इच्छा तस्याः विषयतासम्बन्धेन प्रकृत्यर्थविशेषणतया ज्ञानं तथाच राम मां पाहीत्यत्र मत्कर्मकरक्षणबोधाश्रयत्वेनेच्छाविषयस्त्वमिति बोधः। केचित्तु। मञ्चस्थानां पुरुषाणां क्षेत्रस्थव्रीहियवाद्यनपनोदनाय पशुशुकादीनां शब्दमात्रकरणे क्रोशनमिह शब्दमात्रं विवक्षितं न धात्वर्थरूपमित्याहुः। वाच्यस्यापीतीति। क्वचिद्दीपिकापुस्तके वाच्यार्थस्यापीति पाठो न बहुष्विति तात्पर्येणैवं प्रतीकं बोध्यम्। छत्रिण इतीति। छत्र्यच्छत्रिषु गच्छत्सु बाहुल्याच्छत्रिणां छत्रिणो यान्तीत्यच्छत्रिषु यानकर्तृत्वानुपपत्त्या छत्रिपदमजहत्स्वार्थलक्षणया छत्र्यच्छत्र्युभयबोधकमिति भावः। एकसार्थवाहित्वेन। सामानाधिकरण्येन। तच्छक्याप्रसिद्ध्येति। प्रकृतिप्रत्यययोः पृथगर्थस्य कोशव्याकरणप्रसिध्द्या समुदायशक्यबोधकत्वेन छत्रसम्बन्धरूपार्थस्येन्नन्तसमुदायानुपस्थाप्यत्वेन तत्सम्बन्धिसम्बन्धस्य छत्रिष्वभावाच्छक्यसम्बन्धरूपलक्षणासम्भव इति भावः। समाधत्ते—प्रतिपाद्येत्यादिना। समुदायस्य समुदायार्थशक्तित्वेपि समुदायार्थबोधकत्वे समुदायस्य तद्वोध्यसम्बन्ध एव लक्षणेत्यनुशयेन न दोष इति तात्पर्यार्थः। प्रतिपाद्यपदं बोध्यार्थकम्। अन्यथा। प्रतिपाद्यसम्बन्धो लक्षणेत्यनङ्गीकारे। तर्हि कथं तत्र लक्षणेत्याशङ्क्य समाधत्ते—केचित्त्विति। अभेदान्वयानुपपत्तेरिति। अन्तःकरणादिविशिष्टस्य किञ्चिज्ज्ञत्वेन सर्वत्रभेदस्य विरुद्धधर्मनिमित्तस्य सर्वलोकसिद्धत्वादभेदोक्तिरद्वैतवादिनां निर्युक्तिकेति चेत्सर्वमात्मैवाभूत्तक्तेन कं पश्येन्नेह नानेत्याद्यनेकश्रुतिकदम्बावलम्बितत्वेन तत्सिद्धस्वरूपैक्ये सम्पादनीये विशेषणांशस्यौपाधिकस्यापि पदार्थतया तत्त्वशब्दार्थयोरभेदान्वयोपपादकश्रुतिविरोधापत्तेरित्यर्थः। विशेषणांशस्य परित्याग इति। जहदजहल्लक्षणयेति शेषः। शुद्धस्येति। शुद्धचैतन्यस्येत्यर्थः। त्वम्पदलक्ष्येणेति। लक्षणया त्वम्पदोपस्थाप्यशुद्धचैतन्येनेत्यर्थः। ऐक्यं ब्रुवतां ब्रह्मवादिनामिति। अत्र ब्रह्मवादिनामिति विशेषणादितरेषां द्वैतवादिनामवास्तविकब्रह्मवादित्वसूचनादद्वैतमताभिमानो ध्वनितः। तस्यासम्भतत्वादिति। जीवपरब्रह्मणोरैक्यस्यानभिप्रेतत्वादित्यर्थः। मोक्षदशायां जीवपरब्रह्मणोः साम्यबोधकतया श्रुतिसमन्वयं भेदवादिनो नैयायिकशिरोमणयः स्वमते इच्छन्तीति न श्रुतिविरोधस्तन्मत इति बोध्यम्। हानम्। त्यागः। इदन्ताशस्य सम्भवादहानमिति। सन्निकृष्टत्वरूपेदन्ताशस्य देवदत्ते चक्षुःसंयुक्ते परोक्षत्वरूपतत्ताशस्यासम्भवादभेदान्वयानुपपत्तिर्लक्षणाबीजमिति भावः। जहदहल्लक्षणामिति। जहातीति जहती कर्तरि शतरि उगितश्चेति ङीपि रूपं स्वार्थैकदेशकर्मणः शेषत्वेनान्वयः। न जहातीत्यजहती। कर्मधारयोत्तरकर्मधारये निष्पन्नादस्माद्वाच्यैकदेशत्यागेनैकदेशान्वय इत्यर्थलाभ इति बोध्यम्। स्वोत्प्रेक्षितार्थं दर्शयति–परेत्वित्यादि–वदन्तीत्यन्तेन। घटोनित्य इति वाक्ये घटत्वविशिष्टघटेनित्यत्वान्वयानुपपत्त्या घटत्वोपलक्षकत्वं घटपदस्य यथा, तथा सोऽयं देवदत्त इति वाक्ये तच्छब्दस्य तत्तोपलक्षकत्वं तेन तद्वैशिष्ट्याभावेनाभेदान्वयो न बाधित इति प्रयोजनाभावत्तदङ्गीकारो विफल इति भावः। उत्तरग्रन्थमवतारयितुमाशङ्क्यते–नन्विति। लक्ष्यमाण इति। गृह्यमाण इत्यर्थः। शुचित्वादिति। आदिना तेजःपुञ्जायमानत्वादिपरिग्रहः। क्वचित्साक्षात्सम्बन्धः इति। साक्षात्सम्बन्ध एव क्वचिदित्यन्वयः। तेन गङ्गायां घोष इत्यादौ न संयुक्तसमवायमादाय तीरत्वादौ लक्षणया लक्ष्यतावच्छेदके न लक्षणेति सिद्धान्तव्याकोपः। कचित्परम्परासम्बन्ध इति। अग्निर्माणवकः सिंहो माणवक इत्यादावित्यर्थः। अग्निर्माणवकइत्यत्र परम्परासम्बन्धमन्वाचष्टे—एवञ्चेति। एवं स्वनिष्ठशूरत्ववत्त्वसम्बन्धेन सिंहपदशक्यार्थसम्बन्धस्य माणवके सत्त्वाच्चेति बोध्यम्। अतिरिक्तां व्यञ्जनावृत्तिं दूषयितुं तदङ्गीकुर्वतामालङ्कारिकाणां मतमनुवदति–आलङ्कारिकाः पुनरेवमाहुरिति। स्वायत्त इति। स्वाधीने इत्यर्थः। अनन्विताभिधानमिति। अन्वयित्वाभावकथनमित्यर्थः। शैत्यपावनत्वादिप्रतीत्यर्थमिति। गङ्गाशब्दस्य तीरलक्षकत्वे गङ्गासामीप्यसम्बन्धितीररूपार्थबोधाच्छैत्यपावनत्वादिवैशिष्ट्यं तीरे व्यज्यत इति व्यञ्जनावृत्तिरावश्यकीति तेषामाकूतम्। नैयायिकः शङ्कते—नचेति। लक्षणयाऽप्युपपद्यत इति। अन्वयानुपपत्तिमूलिकयेत्यादिः। मानाभावादिति। तात्पर्यानुपपत्तेर्लक्षणाबीजत्वमनङ्गीकृत्येदम्। उपसंहरति–तस्मादिति। लक्षणया शैत्यपावनत्वादिप्रतीतेरसम्भवादित्यर्थः। तन्मतम् आलङ्कारिकमतम्। तन्मतनिरासकतात्पर्यं वर्णयति–अयं भाव इति। “दूरस्था भूधरा रम्याः समीपस्थाश्च बर्बराः”(1-बर्बरो मूर्खः। सच समीपस्थ एव कथञ्चिदुपकरोति, सेवाकृत्येषु।) इत्यादौ दूरस्थरम्यत्वेन समीपस्थबर्बरत्वेन च साम्याद्भूधरशब्देन राजानोऽपि व्यज्यन्ते। “राजसेवा मनुष्याणामसिधारावलेहनम्”। इत्यत्रानवस्थितचित्तकत्वाद्दूरस्थरम्यत्वमिति वदतः शक्त्याऽन्यथासिद्धिं दर्शयति–नानार्थेत्यादिना। एतेन सैन्धवादौ शक्त्यैव तत्तदर्थबोधः। तत्तात्पर्यज्ञानादिति सिद्धम्। साम्राज्यादेवेति। माहात्म्यादेवेत्यर्थः। तात्पर्यानुपपत्तेरेव सद्ग्रावादिति। शैत्यपावनत्वादिविशिष्टतीराधिकरणघोषतात्पर्येण प्रयुक्तवाक्यात्तथाविधतीररूपार्थबोधे तत्तात्पर्यानुपपत्तिरेव बीजमिति भावः। पुनरावश्यकतामाशङ्कते—नन्विति। शब्दशक्तिमूलाया इति। शब्दशक्तिः मूलं यस्या इति बहुव्रीहिः। शब्दस्य गङ्गाशब्दस्य प्रवाहे शक्तेः शैत्यपावनत्वादेः प्रवाहवृत्तित्वात्तच्छक्तेः शब्दस्य तस्यैव व्यज्यमानत्वादियं शब्दशक्तिमूलेत्यभिधीयत इति भावः। अर्थशक्तिमूलाया इति। अर्थस्य तात्पर्यविषयीभूतार्थस्य शक्तिः तात्पर्यविशेषबोधकतारूपा सैव मूलं यस्या इत्यर्थः। अर्थशक्तिमूलां तामुदाहरति–तथाहीति। गच्छेत्यादि। इयं च स्वीया प्रौढा, “स्वामित्येवानुरक्तेति” तल्लक्षणात्। अनुरागप्रकर्ष उत्तरार्थेन द्योत्यते। पूर्वार्थेन प्रौढत्वमिति बोध्यम्। मरणरूपार्थं एव गमनाभावार्थबोधक इति तन्मूलकात्तादृशार्थव्यञ्जनादिति भावः। अर्थशक्तिमूलाया अनन्यथासिद्धिं स्पष्टयति–ब्रह्यत्येत्यादिना। अयं भावः–इह जन्मपदस्य न गमनाभावे शक्तिर्न वार्थजन्मपदशक्यमरणसम्बन्धमादाय गमनाभावे लक्षणाऽतात्पर्यार्थत्वादिति। सिद्धान्तयति–इत्थञ्चेति। शक्तिलक्षणाभ्यामनिर्वाहत्वे चेत्यर्थः। अर्थशक्तिमूला चेत्यत्र चस्य समुच्चयार्थत्वे उभयोरनुमानादिनाऽन्यथा सिद्धत्वं दुर्निरूपमिति त्वर्थत्वेन व्याख्यायते–चस्त्वर्थ इति। इत्यादिरूप इति। यन्नैवं तन्नैवं तथा “गच्छ गच्छसि चेत्कान्त मा विशङ्कस्व मत्कृते। त्वयार्जितानि भोग्यानि भोक्ष्येऽहं भाग्यशालिनी” इति व्यतिरेकदृष्टान्तपरिग्रहः आदिपदमहिम्नेति बोध्यम्। उत्कटैकतरकोटिकः संशयः सम्भावनेति। तेन स्थाणुर्वेत्यदिरूपस्य संशयत्वेऽपि न सम्भावनात्वं विरुद्धोभयकोटिकत्वादिति भावः। स्वस्वानुभवानुसारेण पदार्थध्रौव्यं मत्वाऽर्थाङ्गीकारणन्दर्शयति–यदीत्यादिना। स्वरसवाहीत्यनुभवविशेषणम्। अमुमर्थं व्यज्यमानमरणरूपार्थं प्रत्येमि प्रतीत्याश्रयः। गीर्वाणगुरूणामप्यशक्यवारणेति। यथा प्रत्यक्षेऽप्यनुमिनोमीत्येव स्वरसवाहितर्करसिकानां प्रत्ययः। “प्रत्यक्षाकलितमप्यर्थमनुमानेनैव बुभुत्सन्ते तर्करसिकाः” इति मणिकारोक्तेरेवं व्यञ्जनानुभवाव्द्यञ्जनापि शक्यवारणा गुरूणां नेत्यर्थः। षष्ट्यर्थः कर्तृत्वम्। अप्रत्यूहा अनिवार्या। तल्लक्षणं मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसम्बन्धासम्बन्धसाधारणं प्रसिद्धाप्रसिद्धार्थविषयको वक्रादिवैशिष्ट्यज्ञानप्रतिभाद्युद्बुद्धसंस्कारविशेषो व्यञ्जनेति स्पष्टं मञ्जूषायाम्। सिंहावलोकनन्यायेन तात्पर्यानुपपत्तेरेव लक्षणाबीजत्वं द्रढय्य तात्पर्यानुपपत्तिमूलिकया लक्षणयाऽन्यथासिद्धिं द्रढयितुमाह—अन्वयेत्यादि। लक्षणानुपपत्तिरिति। यष्टिकर्मकप्रवेशनरूपान्वयस्य सद्ग्रावादिति शेषः। तथात्वे त्विति। लक्षणायां बीजत्व इत्यर्थः। भोजनकाले तथाप्रयोगात्तदनुपपत्तिरेव तद्बीजत्वेनैष्टव्यं ते इति सूचितम्। गङ्गायामित्यादावपि तात्पर्यानुपपत्तिरेव तीरलक्षिकेत्याह—तीरादीत्यादि। नानार्थेतीति। एकार्थकजन्यबोधे शक्तिज्ञानादेरेव कारणत्वं न तात्पर्यज्ञानस्य तद्ग्राहकप्रकरणादेरनपेक्षणादिति चेदत आह–सैन्धवमानयेत्यादि। आदिना हर्यादिपरिग्रहः। नियतकालं तद्बोधोपपत्तिरिति। एतत्पदजन्यबोधविषय एतत्काले अयमेवेति बोधानापत्तिरित्यर्थः। तत्र नानार्थकस्थले। तत्कारणत्वस्य तात्पर्यज्ञानकारणत्वस्य। तदनुरोधेन एकत्र सिद्धा युक्तिरन्यत्रापीति न्यायानुरोधेन। सर्वत्र एकार्थकानेकार्थसामान्ये। तदावश्यकता तात्पर्यज्ञानस्य कारणत्वावश्यकता। भावः मूलतात्पर्यमिति सकलार्थः। उक्तलक्षणलक्षिततात्पर्यव्याप्तिपूर्वकशाब्दव्याप्तिमाशङ्कते—नचेति। निरुक्ततात्पर्यस्येति। तत्प्रतीच्छायोच्चरितत्वरूपस्येत्यर्थः। असत्त्वादिति। विशेष्यभावप्रयुक्तविशिष्टाभावाङ्गीकारादिति भावः। इच्छारूपत्वपर्यवसानेनेति। अयं भावः—इच्छां विनोच्चारणासम्भवेनेच्छैव तात्पर्यरूपा अनुच्चारणे शब्दाभावाच्चब्दोच्चारणे इच्छाया अनुस्यूतत्वादिति। तत्तत्प्रतीतीच्छारहित इति। तत्तदर्थप्रतीतीच्छारहित इत्यर्थः। शुकाद्युच्चारित इति। आदिना सारिकाबालकादिपरिग्रहः। तत्रानुपपत्तेरिति। शुकाद्युच्चारितवाक्ये उच्चरितत्वरूपविशेष्यमात्रासत्त्वेऽप्यर्थज्ञानाभावात्तत्प्रतीतीच्छारूपविशेषणाभावप्रयुक्तविशिष्टतात्पर्याभावाच्छाब्दानुपपत्तेरिति भावः। तत्रेति। शुकाद्युच्चारितवाक्ये इत्यर्थः। ईश्वरीयेच्छामादायैवेति। पारम्पर्येणेत्यादि। सिद्धान्तिनस्तु—तत्प्रतीतिजननस्वरूपयोग्यत्वे सति तदन्यमात्रप्रतीतीच्छायानुच्चरितत्वस्य तल्लक्षणत्वात् मौनैः श्लोकादौ अर्थज्ञानशून्यपुरुषोच्चरितवेदादौ शुकाद्युच्चारितशब्दादौ चार्थप्रतीतिजननस्वरूपयोग्यत्वात्तदन्यप्रतीतीच्छाभावप्रयुक्तोच्चरितत्वाभावेन तात्पर्यसद्ग्रावादन्वयबोध इत्याहुः। प्रथमदलेनैवोक्तलक्षणत्वे द्वितीयादलं सैन्धवमानयेति वाक्यस्य लवणानयनतात्पर्यात्प्रयोगस्तदा सैन्धवपदेऽश्वप्रतीतिजननस्वरूपयोग्यत्वात्तद्बोधवारणाय मात्रपदमुभयबोधप्रतीतीच्छायोच्चरितवाक्यजन्यशाब्दबोधसङ्ग्रहायेति बोध्यम्। स्वतन्त्रास्तु— स्वीयजातीयवाक्यप्रयोगेतत्प्रतीतीच्छायोच्चरितत्वरूपं तात्पर्यमस्त्येव। भाषान्तरीयान्योच्चारितवाक्यनुपूर्वीसजातीयानुपूर्वीकवाक्यप्रयोगे तद्वाक्यप्रयोक्तुपुरुषतात्पर्यस्यैव कारणत्वमित्याहुः। सशङ्खचक्रो हरिः पूज्य इत्यादाविति। “शूलपाणिः सदा भव्यं वृषाकपिरनुत्तमः। पार्वत्या सुसमाश्लिष्टो मह्यं देयान्महेश्वरः” इति । “वृषाकपाय्यावस्माकमैहिकामुष्मिकं फलम्। विदधेतां विशेषेण शैववैष्णवशक्तिके” इत्याद्यादिपदग्राह्यं बोध्यम्। भोजनप्रकरण उक्तत्वादिति। ननु भोजनप्रकरण एव ग्रामान्तरगमनतात्पर्येण सैन्धवमानयेति प्रयोगे शाब्दबोधानुपपत्तिरितिचेन्न। तद्बोधकविशेषेस्य क्रियाविशेषणस्य तत्परिचायकस्यैव वा तद्बोधनैयत्यादिति ध्येयम्। प्राभाकरमतमिति। मूले न चेत्याक्षिप्तार्थाध्याहाररूपं मतमिति बोध्यम्। सिद्धान्तमिति। मणिकारसिद्धान्तमित्यर्थः। मूले द्वारमित्यादौ पिधेहीति शब्दाध्याहार इति। आदिना कूपादित्यादिसङ्ग्रहः। पिधेहीत्यनेन पिधेहीत्यादीति बोध्यं तेन निवर्तस्वेत्याद्यध्याहार इति बोध्यम्।
अर्थज्ञानफलकत्वादिति। अर्थज्ञानफलजनकत्वादित्यर्थः। प्रथमत एवेति। शब्दज्ञानात्पूर्वत एवेत्यर्थः। अर्थानुसन्धान इति। अर्थोपस्थितावित्यर्थः। युक्तिमप्याह—किञ्चेति। अर्थं बुध्द्वा वाक्यरचनेति। रचनेत्यनेन आकाक्ङ्क्षिततत्तच्छब्दयोजनया तद्वाक्यप्रयोगलाभाच्छुकादिवाक्यप्रयोगस्यार्थबोधपूर्वकत्वाभावेऽपि न न्यायविरोधः। अर्थज्ञानमन्तरा इति। पिधानादिरूपार्थज्ञानं विनेत्यर्थः। आकाङ्क्षितशब्दानुसन्धानरूपेति। अर्थद्वारकाकाङ्क्षाविशिष्टशब्दोपस्थितिरूपेत्यर्थः। आहेति। प्राभाकर इति शेषः। यथाकथञ्चिदुपस्थितपदार्थानामिति। प्रत्यक्षेण स्मरणादिना वोपस्थितपदार्थानामित्यर्थः। शाब्दानुदयेनेति। सुरभिचन्दनमित्यादिशब्दजन्यबोधे सौरभांशस्यालौकिकप्रत्यासत्त्या भानेऽपि न तस्य शाब्दमित्याशयः। उपस्थितिविशेषणताया इति। पदार्थोपस्थितिविशेषणताया इत्यर्थः। शब्दाध्याहार एवानुसर्तव्य इति। तेन पिधेहीत्यादिपदजन्यपिधानादिरूपोपस्थित्या द्वारकर्मकपिधानक्रियानुकूलकृतिमांस्त्वमिति शाब्ददोध इति बोध्यम्। पदविशेषेतीति। न तदर्थपदसामान्येत्यर्थः। तत्रेति। घटः कर्मत्वमित्यादिवाक्यादावित्यर्थः। अमादिपदजन्येति। आदिपदात्कर्तृत्वकरणत्वादिपरिग्रहः। कर्मत्वाद्युपस्थितिविशेषणमत्र कर्मत्वाद्युपस्थितेरमादिरूपानुपूर्वीकपदजन्यत्वाद्विभक्तिसञ्ज्ञकानुपूर्वीकविशेषपदजन्येति बोध्यम्। शाब्दबोधप्रसङ्ग इति। नेति योजना। घटकर्मकानयनानुकूलकृतिमानिति शाब्दबोधप्रसङ्गो नेत्यर्थः। आकाशादेरुपस्थितावपीति। समवायेनेत्यादिः। शक्तिप्रसङ्गादवयवशक्तिसमुदायशक्तिभ्यां शक्तिविभागे निर्णीते परस्परसहकारासहकाराभ्यां योगरूढयौगिकरूढयोरपि सङ्ग्रहाच्चतुष्टयपदप्रसिद्धिर्नानुपपन्नेति न मूलसङ्गतिरित्यावेदयियुं पूर्वमाक्षिपति–यद्यपीति। अन्यत्रापीति। योगरूढयौगिकरूढयोरपीत्यर्थः। योग एवास्त्विति। पङ्काज्जातः पङ्कजः इति व्युत्पत्त्या पङ्कावधिकोत्पत्त्याश्रयत्वरूपार्थप्रतीतिरेवास्तु किमपूर्वसमुदायशक्त्यङ्गीकारेणेत्यर्थः। नियमेन पद्मत्वावच्छिन्नमानमिति। पङ्कजनिकर्तृत्वस्य कुमुदघास (1-शैवालादिकमत्र घासविशेषपदग्राह्यम्।) विशेषसाधारणत्वेन पङ्कजशब्देन पद्मत्वावच्छिन्नस्यैव बोधे प्रामाणाभावेन पङ्कजशब्देनेतरबोधोऽपि स्यादिति भावः। विप्रतिपन्नं प्रतीति। विरुद्धार्थप्रतिपत्तारं प्रतीत्यर्थः। प्राभाकरैः कार्यान्विते शक्तेः स्वीकारादितरान्विते शक्तिरिति तन्मतप्रदर्शकमूलेऽसङ्गतिमाशङ्कते—यद्यपीति। सिद्धार्थवाक्येऽपीति। “अन्तर्बहिश्च यत्सर्वं व्याप्य तिष्ठति जन्तुषु। आत्मनस्तत्त्वमापन्नं सच्चिदानन्दमद्वय"मित्यादिविधिनिषेधशून्यवाक्येऽपीत्यर्थः। व्युत्पत्तेरिति। शक्तेरित्यर्थः। व्यवस्थापितत्वेनेति। मूल एव काश्यां त्रिभुवनेत्यादिग्रन्थेनेत्यर्थः। तत्साधारण्यायेति। सिद्धासिद्धवाक्यसाधारण्यायेत्यर्थः। तन्मतं परिष्कृत्य दर्शयतीति। प्राभाकरमतं निष्कृष्य दर्शयतीत्यर्थः। अन्विते शक्तिरिति तु निष्कर्ष इति। अन्वयस्येतरनियतत्वादितरांशोऽव्यावर्तक इति सूचनाय तुशब्द इति बोध्यम्। अत एवान्विताभिधानवादिनः प्राभाकरा इति व्यवहारो नन्वितरान्वितवादिन इति सिध्यतीति हृदयम्। तन्मतसिद्धतात्पर्यार्थमाह—अयमभिप्रया इति। कथञ्चिदुपस्थितपदार्थानामिति। समवायादिसम्बन्धोपस्थिताकाशादीनामित्यर्थः। अन्वयांशेऽपि शक्तिरिति। इतरान्वितो घटो घटपदवाच्य इत्येतादृशवृत्तिज्ञानमेव शाब्दबोधजनकं घटो घटपदवाच्य इत्याकारकस्यान्वयांशामन्तर्भावेण शक्तिग्रहस्य तथात्वे वृत्तिग्रहविषयतया पथार्थसंसर्गस्य शाब्दबोधविषयतानुपपत्तेरन्वयांशेऽपि शक्तिरावश्यकीति भावः। अन्यथेति। अन्वयांशे शक्तिरनभ्युपगमे इत्यर्थः। तादृशसामान्यकार्यकारणभावभङ्गापत्तेरिति। शाब्दबोधविषयाणां यावतां वृत्तिज्ञानजन्योपस्थितिविषयावगाहित्वेनोक्तकार्यकारणभावकल्पनागौरवापत्तेरित्यर्थः। संसर्गस्यापि शाब्दबोधविषयत्वादिति तात्पर्यम्। अत एव पदार्थयोराकाङ्क्षामूलकपरस्परसंसर्गरूपान्वयांशस्य वाक्यार्थत्वेन बहिरङ्गतया पदशक्तिग्रहे तदनुपस्थितेरन्वयांशे शक्तिकल्पनं सति कुड्ये चित्रान्यायेन योगक्षेममिति केषाञ्चिच्छङ्का समाहिता। सामान्यतः वृत्तिज्ञानजन्येत्यादिक्लुप्तकारणबलादेव बहिरङ्गान्वयांशान्तर्भावेणापि शक्तिकल्पनमावश्यकमित्याभिमान इति बोध्यम्। कार्यतावच्छेदकगौरवापत्तेरिति। तत्तद्विषयताशालिशाब्दबुद्धित्वापेक्षया तत्तद्विषयतायां संसर्गविषयताभिन्नत्वनिवेशेन तद्धटितस्य कार्यतावच्छेदकशरीरस्य गुरुभूतस्य सम्भवति लघुन्यायेनान्याय्यत्वापत्तेरित्यर्थः। आहुरिति। अत्रारुचिबीजं तु सिद्धे बोध इतरांशवैयर्थ्यं च प्रागुक्तमनुसन्धेयम्। शाब्दबोधे भानसम्भवादिति। पदशख्तिग्रहकाले स्वातन्त्र्येण तदनुपस्थितेरित्यपि बोध्यम्। तादृशसमसर्गांशेऽपीति। पदार्थद्वयसंसर्गरूपान्वयांशेऽपीत्यर्थः। लघुभूतस्य
दुर्वचत्वादिति। अनुगताऽनतिप्रसक्तत्वेनोभयसाधारण्येनावच्छेदकधर्मरूपस्य दुःप्रतिपाद्यत्वादित्यर्थः। कारणतेति। स्वीकर्तव्येत्यपकृष्य पृथगन्वयः। किमन्वयांशे शक्तिकल्पनेनेति। अयं भावः—पदार्थद्वयसंसर्गरूपान्वयस्याकाङ्क्षाबललभ्यत्वाद्गवादिपदानां गोत्वादिविशिष्ट एव शक्तिर्नतु तदंशेऽपि मानाभावादिति। तर्कसङ्ग्रहग्रन्थमवतारयन् तन्न्यूनतापरिहारकतया दीपिकामप्यवतारयति–आकाङ्क्षेत्यादिना। नवीनमते न निर्वहतीति। तत्तक्कारणनिश्चयात्तन्निरूपिततत्तत्कार्यनिश्चयः तत्तत्कारणभ्रमाच्च तन्निरूपिततत्तत्कार्यभ्रमः इत्यन्वयव्यतिरेकयोः क्लुप्ततया स्वरूपसतीनामाकाङ्क्षादीनां कारणत्वे प्राचां मते शाब्दभ्रमस्याकाङ्क्षाभ्रममूलकत्वाभावाच्छाब्दभ्रमोऽनुभवसिद्धो न सम्पद्येतेति तज्ज्ञानलाक्षणिकपरतया तन्मूलं व्याख्येयमिति तात्पर्यार्थः। आकाङ्क्षादेः शाब्दधीहेतुत्वे इति। आकाङ्क्षादेः ज्ञानान्तलाक्षणिकत्वेन केवलाकाङ्क्षादेः शाब्दकारणत्वाङ्गीकार इत्यर्थः। उपकाराय तर्कसङ्ग्रहस्थवाक्यं विवृणोति मूले—पदस्येत्यादिना। यत्पदस्य षष्ट्यन्तराजपदस्य यत्पदाभावप्रयुक्त पुरुषपदाभावप्रयुक्तं अन्वयबोधाजनकत्वं अन्वयबोधाऽसमर्थत्वं तत्पदसमभिव्याहृततत्पदत्वं राजपदसमभिव्याहृतपुरुषपदत्वमाकाङ्क्षेत्यर्थ इत्यर्थः। एवं क्रियाकारकपदयोरपि बोध्यम्। प्रतीतिसाक्षिक इति। प्रतीतिबोधक इत्यर्थः। अजनकत्वान्तं परिचायकमिति। तादृशसम्बन्धार्थबोधकमित्यर्थः। दीपिकायामाकाङ्क्षादीत्यादिपदेन योग्यतादीनामपि परिग्रहादुक्तयोग्यतायाश्च स्वरूपत एव हेतुत्वसम्भवान्मतान्तरसिद्धयोग्यतासङ्ग्राहकतया नादिपदवैयर्थ्यमित्याशयोनोभयविधयोग्यतास्वरूपमाह—एकपदार्थेत्यादिना। एकपदार्थे। अनुयोगित्वं सप्तम्यर्थः। अपरपदार्थवत्त्वमपरपदार्थसम्बन्धः। तथाचैकपदार्थानुयोगिकपरपदार्थप्रतियोगिकः सम्बन्धो योग्यतेति फलितम्। संशयनिश्चयसाधारणतज्ज्ञानत्वावच्छिन्नं। संशयनिश्चयोभयसाधारणयोग्यताज्ञानत्वावच्छिन्नम्। योग्यतासंशयनिश्चयज्ञानाभ्यां शाब्दधीसंशयनिश्चयोत्पत्तेरनुभवसिद्धत्वात्। स्वरूपसत्येव। नहि बाधनिश्चयाभावज्ञानं योग्यता वह्निना सिञ्चतीत्यादौ सेचनक्रियायां वह्निकरणत्वाभावरूपयोग्यताभ्रमात्सेचनं वह्निकरणं तदितरकरणकं वेति भ्रमनिर्वाह इत्यखिलतात्पर्यार्थः। अथाकाङ्क्षादिस्वरूपं किञ्चिद्विविच्यते। आकाङ्क्षायाः जिज्ञासापर्यायत्वात्तस्याः परस्परार्थनिष्ठत्वेऽपि पदनिष्ठत्वोक्त्तया द्वारं पुष्पेभ्य इत्यादौ पिधेहि स्पृहयतीत्यादिशब्दाध्याहारः स्वमतसिद्धान्तसिद्धः सिद्धो भवति। अन्यथा “स्पृहेरीप्सित” इति सम्प्रदाननिमित्तकचतुर्थीविधानानुपपत्तिः किं पश्यसि मुहुः सीते वने त्वं सर्वतो दिशः। पुष्पेभ्यो वापि चान्येभ्यस्तान्दातुमहमुत्सहे” इत्यादौ तदध्याहारं विना तदनुपपत्तेः। अर्थाध्याहारश्च न युक्तिसह इति प्रागेव प्रपञ्चितत्वात्। “स्पृहेरीप्सित” इति सूत्रवृत्तौ स्पृहयतेः प्रयोग इत्यादेः स्पष्टमुपलब्धेश्च। इयञ्च क्वचिदुत्थिता क्वचिदुत्थाप्या। द्वारमित्यादावाद्या, उदयति चन्द्र इत्यादावपरा। ननु उदयतिना अन्वयबोधात्कथं तत्कुमुदबन्धुमाकाङ्क्षेदिति चेत्तात्पर्यवशात्तद्बोधजनकतदाकाङ्क्षायाः स्वीकारात्। अत एव राज्ञः पुत्रेणोत्थिताकाङ्क्षत्वात् तेनैवान्वयबोधेऽपि तात्पर्यवशात्क्वचित्पुरुषेणैवान्वयबोधः। अत एव अन्वयबोधसमर्थत्वे सत्यजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षेति केचित्। परेतु पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षेत्याहुः तेन विशेषजिज्ञासाविषयत्वेनोभयविधाकाङ्क्षायाः सङ्ग्रहात्। तात्पर्यास्याकाङ्क्षासाङ्गत्येऽपि न दोषः। राजपुरुषयोर्विशेषजिज्ञासाविषयत्वयोग्यत्वमादायान्वयबोधः तात्पर्यस्य तु परिचायकत्वमात्रत्वं न तु तदङ्गत्वम् मानाभावात् इति। नव्यास्तु पदविशेषजन्यपदार्थोपस्थितिरूपासत्तिरन्वयबोधाङ्गम्। तेन घटः कर्मत्वमित्यादितो नान्वयबोधः आसत्त्यभावादतः आकाङ्क्षायाः न कारणत्वं किन्तु शाब्दजनकोपस्थितिपरिचायकत्वमात्रमित्याहुः। नन्वर्थाबाधस्य योग्यतारूपत्वे कामुकप्रयुक्तात् “हत्वा लोचनविशिखैर्गत्वा कतिचित्पदानि पद्माक्षी। जीवति युवा न वा किं भूयोभूयोऽवलोकयती"ति बाधितार्थकवाक्यात् कथं सकलानुभवसिद्धे बोधः योग्यताविरहादिति चेन्न। योग्यताभ्रमादेव तद्वोधात्। तथाच विदुषामपि भ्रान्तत्वापत्तिरिति चेन्न। इदं भ्रान्तप्रयुक्तं वाक्यमिति जानतो भ्रान्तिज्ञस्य न भ्रान्तत्वम् योग्यताभ्रमाभावात्। सति योग्यताभ्रमे शाब्दभ्रमस्य सर्वानुभवसिद्धत्वात्। नच वाक्यर्थस्यापूर्वत्वाङ्गीकर्तृमते तत्तत्पदार्थविषयकयोग्यताज्ञानस्य शाब्दबोधात्प्रागसत्त्वात्कथं कारणत्वमिति वाच्यम्। वाक्यार्थविषयतत्तत्पदार्थस्मरणेन तस्य कारणत्वसम्भवात्। वह्निना सिञ्चतीत्यतो न शाब्दप्रमा। सेके
वह्निकरणकत्वाभावरूपबाधप्रतिसन्धानादेव तदनापत्तेर्योग्यतायाः न कारणत्वावश्यकतेत्याहुर्नव्याः। यद्धर्मावच्छिन्ननिष्ठाभावप्रतियोगितानवच्छेदकधर्मावच्छिन्नान्वयित्वं तद्धर्मावच्छिन्ने तद्योग्यतेति निकृष्टोऽर्थः। ननु पदानामविलम्बोच्चारणरूपसन्निध्यङ्गीकारे काव्यादौ पदान्तरव्यवधानेनार्थमात्राकालव्यवायाधिककालकृतविलम्बोच्चारणविषयत्वाच्छाब्दानुपपत्तिरिति चेन्न पूर्वोत्तरतत्तत्पदाध्याहारेण तत्तदन्वयबोधस्य शास्त्रकारसम्मतत्वात्। अथात्रार्थाध्याहार एव युक्तोऽर्थस्यैवाकाङ्क्षितत्वादर्थान्वयेनैव वाक्यार्थसमाप्तेश्च शब्दमजानतोऽपि प्रकरणचेष्टाभिरर्थाध्याहारच्छाब्दबोधस्यानुभविकत्वादिति चेन्न। पदजन्यपदार्थोपस्थितेः शाब्दबोधहेतुत्वात्। अन्यथा द्वारं कर्मत्वं पिधानं कृतिरित्यतोऽन्वयबोधप्रसङ्गः क्रियायाः कर्मणश्चोपस्थितेस्तुल्यत्वात्। ननु साकाङ्क्षितार्थकयोः क्रियाकारकपदयोरेवेतरेतरान्वयानुपपत्त्याऽध्याहारेऽपि श्लोकादौ विशेषणानां कथमध्याहारोऽनाकाङ्क्षकत्वादिति चेन्न। उत्थाप्याकाङ्क्षया तेषां साकाङ्क्ष्वत्वात्। केचित्त्वासत्तिभ्रमाच्छाब्दबोध इति तदसत्। शाब्दप्रमानुपपत्तेः। अस्तु भ्रम इति चेत्। आसत्तिं शब्दमधिकृत्य मन्वानस्य सर्वानुभवसिद्धप्रमात्मकबोधनिर्वाहात्। मम तथा कल्पनं सर्वविरुद्धमास्तामधिकं शब्दमणौ द्रष्टव्यम्। यद्यपि तात्पर्यज्ञानं नानार्थादौ क्वचित्कारणं तथापि शाब्दमात्रे कारणत्वानावश्यकत्वादिहोपेक्षितमिति बोध्यम्। मीमांसकः शङ्कत इति। अध्वरमीमांसकः शङ्कते इत्यर्थः। तेषां मते नित्यत्वेन निरस्तसमस्तदूषणतया स्वतःप्रामाण्यं नेश्वरोक्ततया ईश्वरानङ्गीकारात्। अनुमानेन व्यवस्थापयतीति। तर्करसिकत्वात् तार्किकाणामनुमान एव प्रामाण्यनिर्भरात् पूर्वमागमादनुमानेनेश्वरोक्तत्वं व्यवस्थापयतीत्यर्थः। गौतमादिभिरित्यादि।
गौतमादिभिर्महर्षिभिः स्वशिन्यान् प्रति वेदकर्ता ईश्वर इत्युपदेशात् तच्छिष्यपरम्परया वेदकर्तुरुपदेशपरम्परया ईश्वरकरतुकत्वमनुमानसिद्धं सिध्द्यतीति हेतुर्न व्याप्यत्वासिद्ध इति भावः। गौतमादिभिः शिष्यक्रमेण तदुपदेशे किम्प्रमाणमिति विवदन्तं विप्रतिपन्नं प्रत्यागमप्रमाणमाहेति समुदितार्थः। तपः कृतवत इति। आलोचनाशानिल इत्यर्थः। तपधातोरिति। तप आलोचने इत्यस्मादित्यर्थः। एत्वाभ्यासलोपयोरिति। लिटिधातोरनभ्यासस्येत्यनेनेत्यर्थः। एतत्कालिकगकारे–इति। एतत्कालिकत्वोपलक्षितगकारे इत्यर्थः। पूर्वकालिकगकाराभेद इति। पूर्वकालिकत्वोपलक्षितगकाराभेद इत्यर्थः। स चेति। अभेदश्चेत्यर्थः। अनित्यत्वे न सम्भवतीति। पूर्वकालिकस्य नष्टत्वादेतत्कालिकोऽयम पूर्व एवेति क्वाभेदचर्चेति भावः। तर्हीति। वर्णानामनित्यत्वे हीत्यर्थः। ननु वर्णा नित्या एव सन्तु तदभिव्यञ्जकध्वनिगतोत्पत्तिविनाशयोरध्यासमूलकोत्पन्नो गकारो विनष्टो गकार इति प्रतीत्युत्पत्तेः स एवायं गकार इति प्रत्यभिज्ञोपपत्तेश्चेति चेन्न। तेषां नित्यत्वे ईश्वरोक्तत्वकथनविरोधप्रसङ्गात्। नचोक्तव्यं तत्कण्ठादिव्यापाराभिव्यज्यमानत्वमिति वाच्यम्। सृष्टेरीश्वरीयकामनामात्रविषयत्वात् “स ऐक्षत” “सोऽकामयते"ति श्रुतेः। एतेन ईश्वरोक्तत्वमप्यसिद्धं भवति। अनित्यत्वं त्वितरसृष्चटेरिव सिध्द्यति तथापि कामनायाः चिकीर्षारूपत्वात् तदुत्तरमुच्चारणेनैकोत्पत्तिमत्त्वं “महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः सौमवेद” इति श्रुतेस्तस्माद्वर्णा अनित्या एव। अन्यार्थकत्वकल्पनमपेक्ष्येति। अभिव्यक्तार्थकत्वकल्पनमपेक्ष्येत्यर्थः। तत्तत्प्रत्ययस्येति। उत्पन्नो गकारो नष्ठो गकार इति प्रत्ययस्येत्यर्थः। तथात्वकल्पने लाघवमिति।उत्पन्नविनष्टपदयोरभिव्यक्तानभिव्यक्तयोर्लक्षणानङ्गीकार एव लाघवबीजमिति ध्येयम्। तुष्यन्तु दुर्जनन्यायेन वर्णानां नित्यत्वमभ्युपेत्य तद्धटितवाक्यात्मकवेदस्यानित्यत्वमेवैष्टव्यं त्वयेत्वाह–अग्निमील इत्यादिना। अव्यवहितोत्तरक्षणवृत्तित्वरूपमिति। अव्यवहितोत्तरत्वसम्बन्धेन पूर्वपूर्ववर्णवत्त्वमुत्तरोत्तरवर्णे क्षणघटितं गृह्यते। तेन सरो रसः नदी दीनेत्यादौ नाविशेषोपपत्तिरिति भावः। इत्थञ्चेति। पूर्वपूर्ववर्णाव्यवहितोत्तरत्वविशिष्टोत्तरोत्तरत्ववर्णघटितानुपूर्वीग्रहणे चेत्यर्थः। अनित्यक्षणेति। कालस्याखण्डत्वेऽपि सूर्यस्पन्दपरिच्छिन्नत्वात्सखण्डत्वानानित्यक्षणादिव्यवहार इति भावः। आनुपूर्व्या अनित्यत्वादिति। अनित्यक्षणोपाधिकत्वेनानित्वाजदित्यर्थः। त्वदभिमतनित्यत्वमिति। मीमांसकाभिमतनित्यत्वमित्यर्थः। वर्णानामनित्यत्वमेवोचितमिति। अनेनानुपूर्व्या अनित्यत्वेऽपि तद्धटकानां वर्णानां नित्यत्वे किमु वक्तव्यं ते साहसम्। वृक्षे नष्टे शाखास्तिष्ठन्तीतिवदुपहासः सूचितः। तेषामाप्तत्वे विप्रतिपन्नं प्रतीति। मन्वादीनामाप्तत्वे विरोधोक्तिकं प्रतीत्यर्थः। नास्तिकशास्त्रप्रणेतृणामपि किमाप्तत्वं न स्यात्तत्प्रणीततच्छास्त्राचारस्य तैराचरणात्सयुक्तिकतया चानुभवविषयत्वादस्माकमपीति वदन्तं प्रतीति यावत्। मूले मन्वादिस्मृतीनामित्यादि।
आचारपदस्य कुत्यर्थकतया प्रत्यासत्त्या समभिव्याहृतमन्वादिस्मृतिसम्बन्धित्वेनैव विवक्षणीयतया च मन्वादिस्मृतीनां तत्प्रतिपाद्यकृतिविशेषणानां च वेदमूलकतया प्रामाण्यमित्यर्थो लभ्यते। अत्रेदमनुपपन्नं स्मृतीनां तन्मूलकतया प्रामाण्ये व्यवस्थापिते तत्प्रतिपाद्यानां प्रामाण्यमर्थसमाजग्रस्तमित्यतोऽर्थान्तरं परिष्करोति–आचारप्रतिपादकशिष्टवाक्यानामित्यर्थ इति। स्मृत्यप्रतिपाद्याचारप्रतिपादकशिष्टवाक्यानामित्यर्थः। अत्र शिष्टपदेन वृद्धशिष्टपरामर्शः। वृद्धाचाराणां देशाचाराणां कुलाचाराणां च प्रामाण्यस्य सर्वप्रसिद्धत्वात्। शिष्टविशेषणतया विरुद्धाचारप्रतिपादकवृद्धवाक्यानां प्रामाण्यनिरासः। देशाचाराणां कुलाचाराणामित्यत्र तत्तद्देशीयतत्तत्कुलीनाचारप्रतिपादकवृद्धशिष्टवाक्यानामित्येवार्थ इत्यलम्। एतेनेति। एतदर्थकरणेनेत्यर्थः। प्राणाणविभागव्याघातशङ्का निरस्तेति। केषाञ्चिच्छङ्का शिष्टवाक्यानां प्रामाण्यं स्मृत्यतिरिक्तत्वेन सिद्धं कथं सेत्स्यातीति या सा निरस्तेत्यर्थः। उभयोरपि वेदमूलकतयैव प्रामाण्यमनायत्या स्वीकर्तव्यं वेदविहितकर्मकारित्वस्य तथोक्तत्वात्। स्मृत्यादीति। आदिना शिष्टवाक्यपरामर्शः। विशकलिततयेति। पृथगवस्थिततयेत्यर्थः। कर्मधारयभ्रमनिरासायाह–नित्यमनुमेय इत्यादि। तादृशज्ञानस्यापीति। तत्तद्वर्णानुपूर्वीज्ञानस्यापीत्यर्थः। नदीदीनादिशब्दैरिति। आदिना सरोरसः राजाजरा रमामार इत्यादि सङ्ग्रहः। पृथक्प्रमाणत्वमिति। अनुमानापेक्षयेत्यर्थः। वैशेषिकाणामिति। विशेषेण सङ्कोचेन (1-विशेषः विशेषपदार्थः। अस्तिएवमिति वा वैशेषिकास्तेषाम्। स्वार्थिकः प्रज्ञाद्यण्।) कतिपयपदार्थाङ्गीकर्तृणां काणादानामित्यर्थः। मतमिति। इयं तन्मतस्थितिः गौरस्ति गामानयेत्यादिसाकाङ्क्षादिमच्छब्देभ्यः स्वस्ववृत्त्या पदार्थानामुपस्थित्युत्तरं गवादावस्तित्वादेरन्वयावगाही विलक्षणो बोधो नातिरिक्तशब्दप्रमाणजन्यो गौरस्तितावान् स्वधर्मिकास्तित्वान्वयबोधानुकूलाकाङ्क्षाश्रयपदस्मारित्वात् घटवत्। अस्तिपदसमभिव्याहृतगौः पदस्मारितत्वाद्वा चक्षुर्वदित्यनुमानत एवान्वयधियोऽन्यथासिद्धेर्न शब्दोऽतिरिक्तं प्रमाणमिति। घटमानयेत्यादीनीति। आदिना गौरस्तीत्यादि परिग्रहः। स्मारितार्थसंसर्गज्ञानपूर्वकाणीत्यर्थ इति। अर्थयोर्यः संसर्गः परस्परमन्वयः तज्ज्ञानं स्मारितं च तदेतच्चेति कर्मधारयः। एतत्पूर्वकत्वं पदानां विषयतया एतद्वत्त्वमेवेत्यर्थः। नार्थान्तरतेति। अयं भावः। घटमानयेत्यादिप्रयोगे घटादेरानयनादिसंसर्गज्ञानवत्त्वेनैव बोधो न स्यात्। इतरक्रियाकाङ्क्षादिमत्पदकदम्बकत्वादितरक्रियासंसर्गज्ञानवत्त्वमप्रकृतं किञ्चित्सिध्द्येतस्मान्निवेशिते संसर्गे तात्पर्यविषयत्वेन यो यदीयतात्पर्यविषयस्तज्ज्ञानवत्त्वमादाय तस्यैव बोध इति। आकाङ्क्षादिरहिते पदकदम्बे इति। यथाक्रमं गोरश्वः, पुरुषो हस्ती, अग्निना सिञ्चति, गिरिर्भुक्तमग्निमान्देवदत्तेनेत्याकारकपदकदम्बके इत्यर्थः। तथाचेति। शाब्दस्योक्तहेतुना प्रत्येमीत्यनुव्यवसायविषयस्यानुमितिविलक्षणस्य सर्वसम्मतत्वस्वीकारे चेत्यर्थः। कार्यवैलक्षण्यानुरोधेनेति। अनुमितिकार्यापेक्षया शाब्दकार्यस्य वैलक्षण्यानुरोधेनेत्यर्थः। शब्दः प्रमाणान्तरमिति। अवश्यं स्वीकर्तव्यमिति शेषः। इदमुपलक्षणमन्यच्चैतद्बोध्यम्। वाक्यार्थस्यानुमितित्वे सत्येवोक्तसाकाङ्क्षापदलिङ्गकत्वं कल्प्यं तदेव त्वप्रसिद्धं प्रमाणाभावात्। अस्तित्वेन गामनुमिनोमीत्यनुव्यवसायस्य कैरप्यनङ्गीकारात् प्रत्युत गोरस्तीत्यादिवाक्यादस्तित्वेन गौः श्रुतो न त्वनुमित इत्येवानुभवाच्च। पामराणां गोरस्तीत्यतोऽस्तितावान्गौरिति शाब्दो न तु अनुमितिः। पक्षे हेतुपरामर्शग्रहाभावात्। पण्डितस्यापि शाब्दबोधोत्तरकाल एव चमत्काराय हेत्वाद्युपन्यासपूर्वकानुमितत्वानुभवः प्रत्यक्ष इवानुभवरसिकत्वात्तार्किकस्येति पृथक् शब्दप्रमाणजन्यप्रमितिविशेषः कणभक्षमतानुसारिभिरप्यादर्तव्य एवेत्यवधेयम्। मीमांसकः शङ्कत इति। अध्वरमीमांसको ब्रह्ममीमांसकश्च शङ्कत इत्यर्थः। दिवा न भुङ्कतः इत्यर्थ इति। दिवाधिकरणकभोजनानुकूलकृतिमत्त्वाभाववत्पुरुषविशेषरूपार्थ इत्यर्थः। एतेनेति। दृष्टे श्रुते इति कथनेनेत्यर्थः। अर्थापत्तेर्द्वैविध्यमिति। यथेदं रजतमिति पुरोवर्तिनि प्रतिपन्नरजतजातीत्यस्य विशेषदर्शनेन नेदं रजतमिति सर्वानुभूतदृष्टार्थनिषिध्यमानत्वान्यथानुपपत्त्या रजतस्यासत्त्वं (मिथ्यात्वं) कल्प्यते, यथाच “तरति शोकमात्मविदि–“त्यत्र श्रुतशोकशब्दवाच्यबन्धस्यात्मविज्ञाननिवर्त्यत्वान्यथानुपपत्त्या बन्धस्य मिथ्यात्वं कल्प्यते, तथेहापि पीनत्वान्यथानुपपत्त्या रात्रिभोजनं कल्प्यत इति बोध्यम्। उपपाद्योपपादकयोरर्थापत्तिव्यवहारस्यान्यत्र प्रसिद्धेस्तज्ज्ञानाय तदुपपादयन्नाह—अत्रेदमवधेयमिति। यद्विनेत्यादि। यद्विना रात्रिभोजनं विना, यदनुपपन्नं पीनत्वं, तदुपपादकं रात्रिभोजनं, पीनत्वोपपादकमित्यर्थः।
पीनत्वमुपपाद्यमिति। येन विना यदनुपपन्नं तत्तदुपपाद्यमिति बोध्यम्। फलकरणयोरिति। रात्रिभोजनज्ञानपीनत्वज्ञानयोरित्यर्थः। फले इति। रात्रिभोजनज्ञानरूपे इत्यर्थकरणेत्विति। पीनत्वज्ञानरूपे इत्यर्थः। यस्मादिति। अन्यपदार्थः पीनत्वज्ञानमिति भावः। व्यतिरेक्यनुमानेनैवेत्यादि। यत्र यत्र दिवाऽभुञ्जानत्वे सति पीनत्वं तत्र तत्र रात्रिभोजनवत्त्वमित्यन्वयव्याप्तेर्योगिनि व्यभिचाराद्यत्र यत्र दिवाऽभुञ्जानत्वे सति पीनत्वाभावस्तत्र तत्र रात्रिभोजनत्वाभाव इति व्यतिरेकव्याप्तेरेवाभ्युपगन्तव्यतया प्रकृते व्यतिरेक्यनुमानशब्देन व्यतिरेकव्याप्तिविशिष्टानुमानपरत्वाव्द्यतिरेक्यनुमानेनैव गतार्थत्वादर्थापत्तिप्रमाणस्य सङ्गृहीतत्वादर्थापत्तेः प्रमाणान्तरत्वम् अनुमितिकरणतयाऽऽवश्यकानुमानेतरप्रमित्यन्तरकरणप्रमाणान्तरत्वमनुचितं। सम्भवति क्लृप्तकारणकत्वेऽक्लृप्तकारणकत्वस्यानुचितत्वादिति समुदिततात्पर्यार्थः। एतेनानुमानस्य न व्यतिरेकिरूपत्वं साध्याभावे साधनाभावनिरूपितव्याप्तिज्ञानस्य साधनेन साध्यानुमितावनुपयोगादित्युक्तं प्रत्युक्तम्। पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ तद्विना गत्यन्तराभावात् एतदेकशेषे विनिगमनाविरहाच्च। अतएवार्थापत्तिप्रमाणान्तरमङ्गीकुर्वाणानां मतेनेदं कल्पयामीत्येवानुव्यवसायो नानुमिनोमीत्यनुव्यवसाय इत्युक्तिः केवलाऽऽग्रहमूलिकैवेत्यलम्। अहोरात्राभोजिन्यपीने इति। अहोरात्राभोजने दिवाऽभोजनस्यार्थसमाजग्रस्तत्वमित्याशयात्। योगाद्यजन्यपीनत्वपरमिति। योगादिजन्यपीनत्वज्ञानस्य रात्रिभोजनकल्पकत्वासम्भवादिति भावः। इत्याहेत्यर्थकमितिहेत्यव्ययं तस्मा–“दनन्तावसथेतिहमेषजाञ्ज्य” इति निष्पन्नमैतिह्यं बोध्यम्। अनुमानेनैव निर्वाहादिति। अयं पञ्चाशद्वान् शतवत्त्वादित्यनुमानेनेत्यर्थः। शतस्य पञ्चाशव्द्याप्यत्वादिति। शतवन्निष्ठात्यन्ताभावप्रतियोगितानवच्छेदकपञ्चाशत्त्वधर्मवत्त्वादित्यर्थः। शब्द इति। शब्द एव प्रमाणमित्यर्थः। न तु प्रमाणान्तरमिति। ऐतिह्यं शब्दप्रमाणातिरिक्तं तु न इत्यर्थः। भारतादेरैतिह्यप्रामाण्यं पोषयितुम्, इह वटे इत्यदेरप्रामाण्यं च बोधयितुमैतिह्यरूपं शब्दं शाब्दज्ञानकरणं विभजन् दर्शयतितादृशस्येत्यादिना। सङ्केतितचेष्टयेति। अर्थविशेषे सङ्केतविशिष्टमौनिकृतहस्तक्रियाविशेषेणेत्यर्थः। शब्दद्वारानुमानद्वारा वेति। तद्वोधकशब्दप्रमाणेनुमानप्रमाणेन वेत्यर्थः। अयमियमर्थ ब्रूते एतदर्थबोधकशब्दप्रतिसूचक क्रियाविशेषेणवत्त्वादिति शब्दप्रमाणेनेत्यर्थः। शब्दप्रमाणेन गतार्थेऽनुमानप्रमाणवैयर्थ्याशङ्कामपनेतुं पूर्वस्मिन्नरुचिमाह—चेष्टयेत्यादिना। अयमियमर्थं ब्रूते एतदर्थकचेष्टावत्त्वादित्यनुमानाकारो द्रष्टव्यः। उपसंहरतीति। इमान्येव प्रमाणानीति प्रतिजानीत इत्यर्थः॥ इति तर्कसङ्ग्रहदीपिकाप्रकाशव्याख्यायां भास्करोदयव्याख्यायां भगवदर्पितायां शब्दपरिच्छेदः॥________________ ॥
प्रमाणखण्डम्।
अथेदानीं प्रमाणेषु निरूपितेषु तद्गतप्रमितिकरणत्वनिरूपितप्रमागतप्रमात्वस्य स्वतोग्रह्यत्वपरतोग्राह्यत्वयोर्जिज्ञासानुत्थितेर्न्यूनतापरिहाराय प्रसङ्गसङ्गत्या तदवतारयति— प्रमाणप्रसङ्गादित्यादिना। प्रमाणज्ञाने परम्परया प्रमागततद्वति तत्प्रकारकत्वरूपप्रमात्वज्ञानावश्यकत्वेन तत्र च स्वतोग्राह्यत्वपरतोग्राह्यत्वाभ्यां परस्परं विवदतोर्मीमांसकनैयायिकयोर्मध्यस्थस्यान्तेवासिनस्तदुक्तिस्मृतेतरस्तज्झिज्ञासायां तत्परिहाराय स्मृस्योपेक्षानर्हत्वरूपत्वेन तद्विचारस्य गुरोरावश्यकतया तदभिधानमिति भावः। परतोग्राह्यतां व्यवस्थापयिष्यन्निति। अनुमानप्रामाण्यविषयतां सिद्धान्तयिष्यन्नित्यर्थः। गुरु-मिश्र-भट्टमतसिद्धव्यवसायानुव्यवसायज्ञाततालिङ्गकानुमानानां प्रमाणत्वसम्भवादिति भावः॥ गुरुमते ज्ञानस्य स्वप्रकाशतास्वीकारे इच्छादिप्रत्यक्षानुरोधेन कल्पनीये (आत्मसमवेत) प्रत्यक्षमनःसंयुक्तसमवाययोः कार्यकारणभावे ज्ञानप्रत्यक्षे व्यभिचारः। विषयतासम्बन्धेन प्रत्यक्षस्य स्वस्मिन्नव्युत्पत्तेस्तत्राव्यवहितपूर्वक्षणावच्छेदेन मनःसंयुक्तसमवायस्यासत्त्वादत आत्मसमवेतांशे ज्ञानान्यत्वं कार्यतावच्छेदककोटौ निवेशनीयमिति गोरवम्। किञ्चेच्छया अपि स्वप्राकाशत्वं किं नानुमन्यते। अपि च गुरुमते घटत्वेन घटमहं जानामीति व्यवसायात्मके विशेषणविधयाऽनुपस्थितस्य स्वगतप्रामाण्यस्य भानाङ्गीकारे ज्ञानत्वादेरपि भानापत्तेर्दुष्परिहरत्वात्। मिश्रमतेऽनुव्यवसायात्मकज्ञानप्रामाण्यग्रहेऽनभ्यासदशायां जलज्ञानं प्रमा न वेति संशयो न स्यात्। अनुव्यवसायेन तन्निश्चयात्। भट्टमते ज्ञाततायाः विषयनिष्ठायाः अतिरिक्तायाः कल्पने गोरवागौरवाव्द्याप्यत्वसिद्धिदोषदूषितत्वाद्दुष्टत्वान्नैतदनुमानं मानमितीदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वादित्यनुमाग्राह्यत्वमेव ज्ञानप्रामाण्यस्येत्येवं सिदद्नात्यिष्यन्नैयायिक आहेत्यन्वयः। तच्च तत्प्रकारत्वं च। तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वमिति। यथाश्रुते इमे रङ्गरजते इति समूहालम्बनात्मकप्रमात्मकव्यवसायात्मकज्ञानादीनां ज्ञानप्रामाण्यग्राहकतापत्तिरिदानीं ययोः प्रकारताविशेष्यताविषयतयोर्निरूप्यनिरूपकभावस्तन्निरूपितज्ञानीयविषयितयोरवच्छेद्यावच्छेदकभावमर्यादया समूहालम्बनात्मकभ्रमस्य रङ्गरजतत्व–रजतरङ्गत्व–निष्ठविशेष्यताप्रकारतावगाहितया तयोरनिरूप्यनिरूपकभावात्तद्विषयितयोरवच्छेद्यावच्छेदकभावाभावेन तद्विशेष्यकत्वावच्छिन्न तत्प्रकारकत्वं नेति भावः। स्पष्टप्रतिपत्तये तच्छब्दार्थमाह—तच्छब्दार्थ इत्यादिना। स्वस्मात् स्वकीयाच्च ग्राह्यमित्यर्थः। तत्र स्वप्रकाशतया व्यवसायेनैव प्रामाण्यं गृह्यत इति गुरूणां, तदनुव्यवसायेनेति मिश्राणां, ज्ञानस्यातीन्द्रियतया ज्ञाततालिङ्गकानुमित्येति भट्टानां च मते स्वतोग्राह्यत्वसमन्वयः। ज्ञानग्राहकेत्यादि। गुरुमते प्राथमिकपठत्वेन व्यवसायात्मिका ज्ञानग्राहिका सामग्री, भट्टमते ज्ञाततालिङ्गिका सामग्री। अनुमानादिरिति। आदिना शब्दादिपरिग्रहः। प्रयोजकत्त्वमित्यादि। तथाच विचारप्रयोजिका विप्रतिपत्तिरिति फलितम्। एवञ्चेति। संशयस्य विचारोपयोगित्वे चेत्यर्थः। विचारोपयोगित्वमिति। विचारप्रयोजकत्वमित्यर्थः। ज्ञानत्वनियतं प्रमाणत्वं भावल्युडन्तष्यञन्तोपस्थाप्यमेव पक्षत्वेन विवक्षणीयमित्यवधारणायेह ज्ञानपदमिति तात्परयवांस्तत्पदं सार्थकयति–अत्रेत्यादि। दीधितिकारोक्तप्रकारेण तत्पदं सार्थकयन्नाह–वस्तुतस्त्विति। ज्ञानानामिति मूलग्रन्थविरोधेन ज्ञानत्वनियतस्य तद्वति तत्प्रकारकत्वरूपप्रमाणत्वस्यैव पक्षत्वाद्यर्थ ज्ञानपदमिति जिज्ञासिते पक्षविशेषबोधकतया तत्सार्थकयति—यद्धर्मेत्यादि। तात्पर्यग्राहकमिति। तात्पर्यनियामकमित्यर्थः। ज्ञानस्य स्वप्रकाशत्वं गुरुमते तन्मतसिद्धान्तेन स्फुटयति—अत्रेत्यादि। मितिर्ज्ञानं माता ज्ञानाश्रयः मेयो विषयः। इत्याकारकव्यवसायस्यैवोत्पत्तेरिति। प्रथममिति शेषः। स्वप्रकाशात्मकतयेति। मिति-मातृ-मेयैः सह ब्रह्मवत्स्वयमेव प्रकाशते। प्रामाण्यस्य शब्दमर्यादया विशेषणत्वेनानुपस्थित्वात्कथं विशेषणतया भानमित्यत आह—विशिष्टेत्यादि। लौकिकमानसमिति। लौकिकत्वं चोक्तषड्विधसन्निकर्षजन्यत्वम्। एतच्चोपपादितम्। ज्ञानांशे चाक्षुषत्वाद्यसम्भवान्मानसमेव। तेनेति। अनुव्यवसायेनेत्यर्थः । ज्ञानसस्यातीन्द्रियतयेति।
लौकिकमानसाविषयतयेत्यर्थः। प्राथमिकज्ञानग्रहरूपतयेति। प्रथमे भवं प्राथमिकं तच्च ज्ञानं व्यवसायात्मकं तस्य ग्रहरूपतया तद्ग्राहकानुमित्यात्मकज्ञानस्वरूपतयेति यावत्। प्रामाण्यं गृह्यत इति। ज्ञानप्रामाण्यं गृह्यत इत्यर्थः। ज्ञातता चेत्यादि। सविषयकः पदार्थः घटादिविषयवृत्तिः घटादिविषयकश्च ज्ञानजन्यः घटज्ञानोत्तरं घटेऽपूर्वज्ञाततोत्पद्यते इति तत्सिद्धान्तात्। अतिरिक्तः। विषयतावन्न विषयस्वरूपम्। पदार्थः धर्मस्वरूपः। इति एवम्प्रकारेण। मतविवेकः। मतत्रयविवेकः इति समूदितार्थः। प्रथमोपस्थितत्यागे मानाभावाद्ग्राहकान्तविशेषणफले दर्शनीये वैपरीत्येन तत्प्रदर्शकमूलाशयं वर्णयति—यावत्त्वेत्यादिना। सिद्धसाधनेतीति। मीमासकैः ज्ञानग्राहकसामग्रीग्राह्यत्वरूपसाध्यसाधने–इति शेषः। निषेधे साध्य इति। यावद्ग्राहकसामग्रीग्राह्यत्वनिषेध इत्यर्थः। बाधवारणायेति। इदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वादित्यनुमानग्राह्यत्वेनेति पूरणीयम्। विशेष्येति। प्रातिस्विकेन रूपेणेत्यर्थः। तत्तज्जन्येति। श्रृङ्गग्राहिकया तत्तत्सामग्रीजन्येत्यर्थः। तत्तद्धर्मप्रकारकेति। व्यवसायादिज्ञानस्य तत्तद्धर्मप्रकारकत्वेनैवानुभवादिति भावः। प्रतियोगित्वमिति। विषयित्वमित्यर्थः। तथाचेति। सामग्र्याप्रामाण्यग्राहकत्वविशेषणदाने चेत्यर्थः। तादृशज्ञानसामग्र्या इति। अप्रामाण्यग्राहकसामग्र्या इत्यर्थः। साध्यकोट्यप्रविष्टत्वादिति। यावज्ज्ञानग्राहकसामग्रीकोट्यप्रविष्टत्वादित्यर्थः। तया। इदं ज्ञानमप्रमेति ज्ञानाप्रामाण्यग्राहकसामग्र्या। प्रामाण्यस्याग्रहणेऽपीति। यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वाभावेऽपीत्यर्थः। न बाध इति। ज्ञानप्रामाण्यरूपे पक्षे यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वरूपसाध्याभावात्साध्याभाववत्पक्षरूपबाधो नेत्यर्थः। प्रामाण्याग्राहकस्येत्यस्य सामग्रीपरत्वे निर्देशासङ्गतिं मनसिकृत्य तदर्थमाह–अप्रामाण्यवदित्यादि। इदं ज्ञानमित्यादिज्ञानमप्रामाण्यवद्विशेष्यत्वविशिष्टम् अप्रामाण्यप्रकारकं चेत्यतस्तद्विशिष्टाप्रामाण्यप्रकारकत्वरूपं प्रामाण्यं तद्ग्राहकत्वात्तद्ग्राहकत्वं विशिष्टानुव्यवसायात्मकज्ञानस्येत्यर्थः। सामान्ये नपुंसकनिर्देश इति। ग्राहकसामान्ये ग्राहकस्येति नपुंसकनिर्देशो न पुल्लिङ्गमात्रनिर्देशोऽन्यथा सामग्र्यादिपरिग्रहो न स्यादिति भावः। यदा निरुक्तप्रामाण्यस्य पक्षतेति। तद्वति तत्प्रकारकत्वरूपप्रमाण्यस्य पक्षतेत्यर्थः। अप्रामाण्याग्राहकेत्यादि। इदं ज्ञानमित्याद्यनुव्यवसायज्ञानस्याप्रामाण्यवद्विशेष्यकत्वेनाप्रामाण्यवति प्रामाण्यप्रकारकतया तदभावप्रकारकत्वेनाप्रामाण्यवत्यप्रामाण्यप्रकारकत्वरूपपक्षकत्वाभावेन तादृशग्राहकसामग्र्या एव साध्यकोटौ निवेशनीयतया तादृशसामर्ध्या अप्रामाण्यवत्यप्रामाण्यप्रकारकज्ञानग्राहकसामग्र्या अप्रसिद्धेर्हेतौ पञ्चमी अप्रसिद्धेर्हेतोः स्वतस्त्वं न स्यादिति परेणान्वयः एतस्यैवेति। लुप्तसप्तमीकतच्छब्दस्यैवेत्यर्थः। फलितार्थमाह– यादृशमित्यादि। यादृशं प्रामाण्यं तद्वति तत्प्रकारकत्वरूपं प्रकृतानुमितावुद्धेश्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यत्वसाध्यसाधने पक्षः तादृशप्रामाण्यविशेष्यकतद्वति तत्प्रकारकत्वरूपप्रामाण्यविशेष्यकाप्रामाण्यप्रकारकज्ञानजनकेत्यग्राहकान्तार्थः। तदप्रामाण्यग्राहकान्तार्थः। तथाचेदं ज्ञानमित्याद्यनुव्यवसाये स्वतस्त्वं सम्पादयति–इदमित्यादिना। अनुव्यवसायनिष्ठप्रामाण्यग्राहकसामग्र्या इति। नेदं रजतमिति व्यवसायविषयकेदं ज्ञानमप्रमेत्यनुव्यवसायनिष्ठा या संयुक्तसमवयारूपा सामग्री तस्या इत्यर्थः। अनुव्यवसायविशेष्यकेति। व्यवसायविशेष्यकेत्यर्थः। अनुव्यवसायविशेष्यकाप्रामाण्यग्रहाजनकत्वादिति। स्वनिष्ठप्रामाण्यग्राहकसामग्र्याः स्वनिष्ठाप्रामाण्यग्रहाजनकत्वे व्यवसायस्य प्रामाण्यं शशश्रुङ्गायमानं स्यादिति भावः। ज्ञानग्राहकत्वाच्चेति। व्यवसायात्मकज्ञानविषयत्वाच्चेत्यर्थः।अप्रामाण्यवद्विशेष्यकत्वादिघटितप्रामाण्यस्येति। अप्रामाण्यवद्विशेष्यकत्वादिविशिष्टाप्रामाण्यप्रकारकत्वरूपं प्रामाण्यं तद्ग्राहकोक्तेदं ज्ञानमित्याद्यनुव्यवसायात्मकज्ञानस्येत्यर्थः। ज्ञानग्राहकात्मादिजन्ययावद्ग्रहविषयत्वाप्रसिद्धिवारणाय सामग्रीति बोध्यम्। व्युत्क्रमेण प्रयोजनप्रदर्शनमनेकशिष्यजिज्ञासानुरोधेनेति तत्त्वम्। विशेषलेखने प्रकारणाध्ययने प्रवृत्तिमतां प्रमोहनिरासायाभिनवमणिदीधितिव्यख्यायां स्वनिर्मितत्वख्यापनाय चाह—अधिकमित्यादि। उपन्यस्यतीति। दूषयितुमिति शेषः। घटत्वादिघटितप्रामाण्यमिति। घटत्वादिमति घटत्वादिप्रकारकत्वरूपं प्रामाण्यमित्यर्थः। निरुक्तसामग्रीत एवेति। ज्ञानग्राहकसामग्रीत एवेत्यर्थः। अप्यर्थकेत्यादि। अन्यथा परेषां परतोग्रहणं व्यावर्त्येतेति भावः। नन्विति शङ्कितुर्मीमांसकस्य स्वतोग्राह्यत्वमेवेत्येवकारस्येतरव्यवच्छेदार्थकत्वे न बाधकमित्याभाति। नन्विति शङ्काया गुरुमिश्रभट्टसाधारण्यादनुव्यवसायमात्रस्य स्वतःप्रामाण्यनिर्वचनं सन्दर्भविरुद्धमत आह–इदं च मिश्रमताभिप्रायेणेति। घटघटत्वयोर्यः सम्बन्ध इति। समवायसम्बन्ध इत्यर्थः।
घटघटत्वयोर्व्यवसायरूपप्रत्यासत्त्येति। व्यवसायविषयकं ज्ञानं व्यवसायविषयविषयं नावगाहयेव्द्यवसायप्रत्यासत्तिरेवानुव्यवसायेन सिध्येदिति भावः। व्यवसायप्रत्यासत्तेरविशेषादिति। व्यवसायात्मकज्ञानसम्बन्धो विषयविधया घटघटत्वयोरिव समवायसम्बन्धांशेऽपि समः अतो हेतोरित्यर्थः। पुरोवर्तिनीत्यादि। पुरोवर्तिनि घटो घटे यः प्रकारसम्बन्धः घटत्वसमवायः तद्धटितस्यैव तद्वति तत्प्रकारकसम्बन्धस्यैवेत्यर्थः। पुरोवर्तिनि प्रकारसम्बन्धभानमनुव्यवसाये सर्वमतसाधारणमिति किं तव्द्यवस्थापनेनेति चेत्तदाशयमाह–अयमाशय इति। प्रकारसम्बन्धभानं नाङ्गीकुर्वन्तीति। प्रकारसम्बन्धभाने पुरोवर्तिनं घटत्वसम्बन्धेन जानामीत्यनुव्ययसायाङ्गीकारापत्तिरिति भावः। तत्रेति। अनुव्यवसाय इत्यर्थः। प्रकारसम्बन्धस्य भानव्यस्थापन इति। मीमांसकैरित्यादिः। किमपि नाविशिष्टमितीति। व्यवसायादनुव्यवसाये विषयविशेषो नेत्यर्थः। तद्विशेष्यकत्वविशिष्टतत्प्रकारकत्वरूपोक्तप्रामाण्यमनुव्यवसायेन कथं सिध्येद्विशेष्यत्वप्रकारत्वरूपे शब्दादनूपस्थितत्वादिति मनसिकृत्य समाधिमाह–अनुपस्थितेत्यादि। अनुभवसिद्धः प्रमात्वसंशय इति। सर्वानुभवसिद्ध इत्यर्थः। तद्वत्तानिश्चयस्येति। जलमहं जानामीत्यनुव्यवसायेनेदं जलमिति व्यवसायात्मकज्ञाने प्रामाण्यवत्तानिश्चयस्येत्यर्थः। तदभाववत्ताज्ञानं प्रति प्रतिबन्धकत्वादिति। जलज्ञानं प्रमा न वेत्याकारकसंशयस्य जले प्रामाण्यवत्तातदभाववत्तो भयावगाहितया तदभाववत्ताज्ञानानुदयेन तदुभयावगाहिसंशयानुत्पत्तेरित्यर्थः। मूलानुक्तोऽपि भट्टमतनिरसनप्रकारो विशेषवित्समाधानाय प्रदर्शते–अत्रेत्यादिग्रन्थेन। विषयता च स्वरूपसम्बन्धविशेषः। एतेन। प्रथमजलज्ञानानन्तरं प्रवृत्तौ सत्यामिति कथनेन। व्यभिचारो दर्शित इति। प्रामाम्यनिश्चयाभावेऽपि प्राथमिकजलज्ञानोत्तरं जले प्रवृत्तेः सर्वानुभवसिद्धत्वादिति भावः। मीमांसकः प्रवृत्तिविशेषे प्रामाण्यनिश्चयस्य हेतुतामवलम्ब्य प्राप्तव्यभिचारं निराकुरुते–नचेति। एवञ्चेति। निष्कम्पसकम्पप्रवृत्योः प्रामाण्यनिश्चयसंशयोर्हेतुत्वस्वीकारे चेत्यर्थः। तत्रेति। प्रथमजलज्ञानानन्तरक्षणे इत्यर्थः।सकम्पप्रवृत्त्यङ्गीकारेऽपीति। यद्युत्पन्नं मे जलज्ञानं प्रमाणं तदा मे प्रवृत्तिः सफला स्यादित्येवंरीत्या प्रवृत्तौ सकम्पत्वमावेदितव्यम्। कथं व्यभिचार इति। तत्र निष्कम्पप्रवृत्तेरभावात्प्रामाण्यनिश्चयाभावो न व्यभिचारहेतुरिति भावः। तर्हि तत्र प्रामाण्यसंशयस्य प्रवृत्तिहेतुता वाच्येति चेन्नेत्याह–तथापीत्यादि। मृगमरीचिकायां जलज्ञाने विशेषदर्शनेनाप्रामाण्यनिश्चयकाले जलज्ञानमप्रमेति प्रामाण्याभावप्रकारकजलज्ञाने सति जलज्ञानमात्रस्य प्रवृत्तिहेतुत्वे उद्देश्यतया तत्सत्त्वात्प्रवृत्तिः स्यादित्याशङ्कते–नचैवमिति। तावतेति। जललाभे सतीत्यनेनेत्यर्थः। प्रामाण्यव्यवस्थापकहेतोरिति। समर्थप्रवृत्तिजनकत्वादिति हेतोरित्यर्थः। स्वरूपासिद्धिशङ्का निराकृतेति। जललाभे सति जलज्ञानं तद्वद्विशेष्यकतत्प्रकारकत्वेन समर्थप्रवृत्तिजनकमन्यथास्य भ्रमात्मकतयापि तद्धेतोस्तद्वद्विशेष्यकतत्प्रकारकत्वरूपविशेषणाभावप्रयुक्तविशिष्टाभावेन स्वरूपासिद्धिशङ्का केषाञ्चिद्दूरीकृतेत्यर्थः। इदानीमिति। जललाभोत्तरमित्यर्थः। पक्षस्यासत्त्वादिति। जलज्ञानस्यासत्त्वादित्यर्थः। पूर्वोत्पन्नमितीति। यन्नैवं तन्नैवमित्यादीत्यर्थः। असमर्थप्रवृत्तिजनकमिति। तदभाववद्विशेष्यकतत्प्रकारकप्रवृत्तिजनकमित्यर्थः। उत्पन्नौ तन्निरूपयतीति। प्रसङ्गात् प्रमोत्पन्नौ परतस्त्वं निरूपयतीत्यर्थः। प्रमात्वेत्यादि। प्रमात्वाधिकदेशवृत्तिधर्मः। ज्ञानत्वरूपः अप्रमासाधारणत्वात् तदनवच्छिन्ना प्रमात्वावच्छिन्नेत्यर्थः। आदेरिति। आदिना कार्यमात्रं प्रति कारणस्य कालस्य सिद्धान्तिमते सर्वावभाससाक्षिचैतन्यस्य च परिग्रहः। व्युदास इति। प्रमाऽसाधारणकारणत्वव्युदास इत्यर्थः। एवमेव परिष्कर्तव्यमिति। अप्रमात्वाधिकदेशवृत्तिधर्मानवच्छिन्नकार्यतानिरूपितकारणताशाली दोष इति परिष्कर्तव्यमित्यर्थः। तेनात्मनमनःसंयोगादेश्चक्षुःसन्निकर्षादेश्च व्युदासः। पित्तादिर्दोष इति। नयनगत इत्यादिः। चाकचक्यादिरिति। विषयगत इत्यादिः। अनुपस्थितत्वादिति। रजतमहं जानामीत्यनुव्यवसायेन पुरोवर्तिनि रजतत्वप्रकाराभावस्याविषयीकरणात्तदभाववद्विशेष्यकतत्प्रकारकत्वरूपाप्रामाण्यस्य स्वतोग्राह्यत्वं नेति भावः। इदं ज्ञानमप्रमेति। शुक्तावुत्पन्नरजतज्ञानमप्रमेत्यर्थः। विसंवादिप्रवृत्तिजनकत्वादिति। विपरीतज्ञानवत्प्रवृत्तिजनकत्वादित्यर्थः। गुरुमतं निरस्येति। यद्यपि मूले मिश्रमतं निरसितं न गुरुभट्टयोस्तथापि त्रितयाभिमतस्वतस्त्वनिरासाद्गुरुमतोक्तिः। अन्यथाख्यातिं व्यवस्थापयतीति। अन्यथा दोषवत्त्वेन ख्यातिः अयथार्थरजतज्ञानमन्यथाख्यातिपदार्थस्तत्कर्मकव्यवस्थापनमनिर्वचनीयख्यातिनिरासायेत्यर्थः। नन्वित्यादिनेति। नन्वित्यादिशङ्कापूर्वकग्रन्थेत्यर्थः। तदभाववद्विशेष्यकेत्यादि। शशश्रुङ्गं नास्तीत्यत्रेवेहार्थ इत्यर्थः। तेनेति।
एवमर्थकरणेनेत्यर्थः। न सिध्द्यसिद्धिभ्यां व्याघात इति। यथाश्रुतेऽयथार्थज्ञानं नास्तीत्यस्मादयथार्थज्ञानासिद्धिर्बोध्यत इत्यसिद्धेः प्रतियोगिविधयाऽयथार्थज्ञानसिद्धेश्च व्याघातदोष इत्यर्थः। अयथार्थत्वस्य तु प्रसिद्धिरिच्छादौ बोध्येति। मृगमरीचिकायां जलार्थिनो या जलविषयिणी इदं जलं मे भूयादितीच्छा तस्यां जलत्वाभाववद्विशेष्यकजलत्वप्रकारकत्वरूपायथार्थत्वं प्रसिद्धमित्यर्थः। तदनङ्गीकार इति। अन्यथाख्यात्यनङ्गीकार इत्यर्थः। अन्यथाख्यातेरङ्गीकारे बीजमाह—पुरीवर्तीत्यादि। संवादीत्यादि। ईदृशं ज्ञानं प्रवर्तकं संवादिनो यथार्थरजते। विसंवादिनः शुक्तिरजत इति विवेकोऽतोऽनुगतकारणतयावश्यमेष्टव्य सेत्यर्थः। तदनुरोधेनेति। विशिष्टज्ञानानुरोधेनेत्यर्थः। तत्रापीति। बाधग्रहदशायामपीत्यर्थः। प्रवृत्तिः स्यादिति। चाकचक्यलिङ्गेन क्लृप्तनियतपूर्ववृत्तिरजतस्मृतितथाविधपुरोवृत्तिज्ञानयोः प्रवर्तकयोः सत्त्वादित्यादिः। भेदग्रहाभावस्यैवेति। अभेदग्रहस्यैवेति योवत्। रजते शुक्तौ चेत्यर्थः इति। वास्तविकरजते शुक्तिरजते चेत्यर्थः। इदानीमन्यथाख्यातिं निर्धारयति–रजतस्थल इत्यादिना। रजतस्थले। उक्तोभयरजतस्थले । अन्यथा। विशिष्टज्ञानस्य कारणतानङ्गीकारे। धर्मधर्मिज्ञानयोः। धर्मो रजतत्वं धर्मी इदन्त्वावच्छिन्नः तज्ज्ञानयोः बाधग्रहेऽप्युक्तरीत्या तयोः सत्त्वेन तदापत्तेर्वारणाय इष्टभेदाग्रहत्वरूपगुरुधर्मावच्छिन्नस्य च कारणत्वमङ्गीकार्यमन्यथाख्यातिमनङ्गीकर्त्रेति महद्गौरवं तन्मत इत्यर्थः। एवञ्चेति। तन्मते महद्गौरवसिद्धौ चेत्यर्थः। तत्र सत्यरजतस्थले। सामान्यतः प्रवृत्तित्वावच्छिन्नं प्रतीति। प्रवृत्तित्वरूपसामान्यधर्मावच्छिन्नं प्रतीत्यर्थः। तत्पूर्वमिति। प्रवृत्तेः पूर्वमित्यर्थः। निराबाधैवेति। विशिष्टज्ञानमेवान्यथाख्यातिनियामकमिति सा निष्प्रत्यूहैवेत्यर्थः। तादृशज्ञानत्वावच्छिन्नस्येति। रजतत्वप्रकारकविशिष्टज्ञानत्वावच्छिन्नस्यैवेत्यर्थः। इष्टतावच्छेदकप्रकारकज्ञानस्यैवेति। रजतत्वप्रकारकज्ञानस्यैवेत्यर्थः। इष्टभेदाग्रहस्य व्यवच्छेद इति अनेन विशिष्टज्ञानानुरोधेनान्यथाख्यातिरावश्यिक्येवेत्युपसंहृतम्। अनुमानादिति। लाघवेनास्मिन्नेव प्रवृत्तिकारणत्वस्यानुमानप्रमाणसिद्धत्वादित्यर्थः। तत्प्रयोगस्त्विति। अनुमानप्रयोस्त्वित्यर्थः। इयमित्यनेन शुक्तिरजतप्रवृत्तिः पक्षत्वेन निर्दिश्यते। सन्निकर्षस्येति। तार्किकसन्निकर्षस्येत्यर्थः। व्यवस्थापितत्वेनेति। सुरभिचन्दनमिति विशिष्टप्रत्यक्षविषये सौरभ्यांशे ज्ञानलक्षणाप्रत्यासत्तेर्निर्धारितत्वेनेत्यर्थः। नन्वेवं पर्वतो वह्निमान् इत्यनुमितिविषयवह्यंशे ज्ञानप्रत्यासत्त्या वह्निः प्रत्यक्ष इति प्रामाणिकव्यवहारापत्तिरिति चेन्न। ज्ञानप्रत्यासत्त्येः प्रत्यक्षमात्रप्रयोजकत्वे शक्यमित्थमापादयितुं तदेव नानुमितिप्रयोजकत्वस्यापि तत्र सत्त्वादिति सङ्क्षेपः। स्वप्रस्येति ग्रन्थमवतारयति—नन्विति। मूल इति। सङ्ग्रहः इत्यर्थः। स्वप्नज्ञानस्येति। स्वप्रात्मकज्ञानस्येत्यर्थः। तदुत्पत्तौ कारणान्याह—अनुभूतेत्यादि। क्वचिदनुभूतपदार्थस्मरणादनुभूतपदार्थविषयकं स्वाप्नं ज्ञानं क्वचिच्चाननुभूतशशश्रुङ्गादिज्ञानं धातुपित्तादिरूपैः क्वचिच्च शुभाशुभादृष्टैर्देवराक्षसादिज्ञानमिति योजना। बाधितार्थविषयकस्येति। असदर्थविषयकस्येत्यर्थः। अनुभवसिद्धत्वादिति। सर्वानुभवसिद्धत्वादित्यर्थः। प्रदेशविशेषावच्छिन्नमनःसंयोग स्वप्न इति। नाडी(1-मिद्धानाम्नी।) विशेषावच्छिन्नमनःसंयोग एव स्वप्न इत्यर्थः।तथाच कथमयथार्थज्ञानव्यपदेश इति चेदाह–तथापीति। तदसमवायिकारणकज्ञाने। उक्तसंयोगात्मकस्वप्नासमवायिकारणकज्ञाने स्वपशब्दो भाक्तो गौण इत्यर्थः। तद्ग्राष्यादिविरुद्धमिति। तत्र तस्य स्मृतिरूपत्वेऽनुभूतस्यैव तद्विषयत्वेऽनाननुभूतशशशृङ्गादेर्भानायोगादिति स्थितम्। संशयलक्षणे एकस्मिन्धर्मिणि विरुद्धनानाधर्मावगाहिज्ञाने विरोधविषयत्वमपि मूलानुक्तं निवेष्टव्यम्। अन्यथेदृशसमुच्चयेऽतिव्याप्तिरित्याह—कोट्योरित्यादि। कोट्योर्घटतदभावोभयप्रकारकसमुच्चयविषयोर्घटतदभावयोरव्याप्यवृत्तित्वज्ञानोत्तरं वृक्षे मूले घटोऽग्रे तदभाव इति प्रतीत्या तयोरव्याप्यवृत्तित्वज्ञानानन्तरं जायमाने (2-वर्तमानसमीपेति।) उत्पत्स्यमाने एकस्मिन्धर्मिणि वृक्षरूपे घटतदभावोभयप्रकारकसमुच्चये घटतदभावोभयवान्वृक्ष इति समुच्चयात्मकज्ञानेऽतिव्याप्तिवारणाय संशयलक्षणातिप्रसङ्गप्रवृत्तिविघाताय विरोधविषयकत्वस्य निवेशेऽपि प्रकृतेऽव्याप्यवृत्तिकयोर्विषययोः परस्परं विरोधाभावेन विरोधविषयकत्वस्य समुच्चयात्मकज्ञानेऽसत्तवादतिव्याप्तिवारणेऽपि नानेत्यस्य धर्मविशेषणस्याऽवश्यकतेति दर्शयितुमाह–दोषस्थलमाहेति समुदितार्थः। द्रव्यात्वावच्छिन्नं भूतलं घटपटोभयवदेवं प्रयोगत्वावच्छिन्नं भूतलत्वावच्छिन्नमित्याद्यात्मकसमुच्चयेतिप्रसङ्गमाशङ्कते–नचेति।
एकवच्छिन्नैकधर्मिनिष्ठविशेष्यतानिरूपितनानाधर्मिनिष्ठप्रकारताकत्वपरिष्कारेण नानाधर्मावच्छिन्नत्वेन धर्मनिष्ठविशेष्यतायाः प्रकृते दोषाभावादित्यर्थः। तन्त्रान्तर इति। ब्रह्ममीमांसातन्त्र इत्यर्थः। सर्वस्मिन्निति। जगतीत्यर्थः। सत्यत्वाभाववति जगति सत्यत्वप्रकारकनिश्चयाज्जगतो मिथ्यात्वम्। त्रिकालाबादत्वेन ब्रह्मण एव सत्यत्वात्। तदभाववद्विशेष्यकत्वावच्छिन्नतत्प्रकारकताकेत्याद्यर्थविवक्षणादिति। तदभाववद्विशेष्यकत्वस्य तत्प्रकारकताकत्वस्य च सत्त्वान्मिथ्यात्वलक्षणमतिचर्यत इत्यर्थः। उक्तार्थविवक्षणे ययोर्विषयतयोर्निरूप्यनिरूपकभावस्तन्निरूपितविषयतयोरेवावच्छेद्यावच्छेदकभाव इति तदभाववद्विशेष्यकत्वावच्छिन्न तत्प्रकारकताकत्वाभावान्नातिचर्यत इति भावः। संशयान्यज्ञानार्थकं निश्चयपदमिति। ज्ञाने संशयान्यत्वविशेषणात्संशये ज्ञानत्वाच्चेच्छायां च मिथ्यालक्षणातिप्रसङ्गवारणायैतदर्थकं निश्चयपदं विवक्षणीयमित्यर्थः। उपकाराय मूलमूलं विवृणोति–मूले व्याप्यारोपेणेतीति। मूले व्याप्यारोपेणेत्यादित्युचितं मूलस्थारोपपदं भ्रमार्थकं तत्र चाहार्येति विशेषणं तथाच तत्फलितमर्थमाह–आहार्येत्यादि। आहार्यज्ञानमात्र इति। आहार्यभ्रमात्मकज्ञानमात्र इत्यर्थः। अयमिति। वृक्ष इत्यर्थः। न पुरुष इति निश्चयसत्त्व इति। आप्तोक्तशब्दजन्यशाब्दात्मकनिश्चयज्ञानसत्वे अथवा किञ्चिद्विशेषदर्शनजन्यप्रत्यक्षात्मकनिश्चयज्ञानसत्वे इत्यर्थः। रजतत्वव्याप्याभाववत्ताग्रहकाल इति। रजतत्वव्याप्यचाकचक्याभाववत्तानिश्चयज्ञानकाल इत्यर्थः। किं तर्के कारणमिति प्रश्ने तदाह(1-कारणमाह)–तर्केत्यादि। आपाद्यव्यतिरेकनिश्चयः। आपाद्यव्यतिरेक इति षष्ठीतत्पुरुषः। मानसविपर्ययरूप एवेतीति। भ्रमत्वादिति भावः। प्रतिबन्धकविघटनद्वारेति। व्याप्तिनिश्चयप्रतिबन्धकव्यभिचारशङ्काविघटनद्वारेत्यर्थः। तर्कत्व (रूप) वैलक्षण्येनेति। संशयत्वविपर्यत्वाभ्यां विजातीयतर्कत्वधर्मेणेत्यर्थः। प्रमाणानुग्राहकत्वज्ञापनायेति। प्रमाणप्रतिबन्धकव्यभिचारशङ्कानिवर्तकत्वबोधनायेत्यर्थः।तथाकथनमिति। पृथक्कथनमित्यर्थः। अव्याप्तेरिति। सर्वेषां साध्यासाधूनामनुकूलतयेष्टत्वेन वेदनीयं ज्ञानविषयीभूतं न परद्रव्योपभोगादिजन्यसुखं “न परदारान्गच्छेदिति” स्मृत्या प्रस्तुत प्रतिकूलतया वेदनीयत्वादित्यर्थः। सुख्यहमित्यादिप्रत्यक्षसिद्धसुखत्वादिकमेवेति। स्त्रीधनादिमात्रोपभोगादिजन्यसुखानन्तरमहं सुखीत्यादिप्रत्यक्षविषयत्वस्य सुखत्वे सत्त्वात्तदेव तथेत्यर्थः। ननु प्रमादादगम्यागमनोत्तरजायमानसुखत्वे घृणोत्पत्तेर्विदुषः सुख्यहमित्याद्यनुव्यवसायविषयत्वाभावेनाव्याप्तितादवस्थ्यमिति चेन्न।सुखानुवर्तेर्दुःखपरिहार्यत्वेन सुख्यहमिति तात्कालिकानुव्यवसायाविषयत्वघ्रौव्येऽपि बलवदनिष्ठानुबन्धित्वेन सुखत्वे दुःखत्वोपचार इति विशेषः। दुःखत्वपरिग्रह इति। दुःख्यहमिति प्रत्यक्षसिद्धदुःखत्वं दुःखलक्षणं बोध्यमित्यर्थः। अन्यथाऽऽपतत्या (1-विपत्तिविशेषेण) पुरुषविशेषभुज्यमानविषयजन्यदुःखे तत्त्वाभावेनाव्याप्तिः स्यादित्यूह्यम्। अनुभवेतीति। यद्यप्तेतल्लक्षणेन भावानायामनुभवजन्यत्वं स्मृतौ तु भावनाहेतुकत्वं लब्धं तथाप्यनुभवजन्या स्मृतिरिति स्मृतेर्लक्षणात्तदेकवाक्यतयाऽस्य भावानायामनुभवस्यैव कारणत्वं स्मृतौ त्वनुभवस्य भावानायाश्च कारणत्वे तात्पर्यादनुभवस्य स्मृतिहेतुत्वं प्राचामभिप्रायविषयमिति। तदनुवादपूर्वकं तदभिप्रायं दर्शयति—स्मृतीत्यादिना। तादृशसंस्कारं च प्रति। तद्विषयकसंस्कारं च प्रति ज्ञानत्वेन कारणत्वे ज्ञानत्वस्य जात्त्वेनानुगततयतदवच्छिन्नस्य कारणत्वे लाघवमनुभवस्य तत्त्वे तु गौरवमनुभवत्वस्य तत्तदनुभवव्यक्तिनियतत्वेन कारणतावच्छेदकानन्त्यादित्याशङ्कितस्यापि तत्वाश्रयणे बाधकाभावान्न गौरवाशङ्केत्याह—अनुभवेतीति। व्यापकधर्मस्येति। अनुभवस्मृतिसाधारणत्वादिति भावः। अनुभवजन्यसंस्कारस्य नाशेनेति। स्वजन्यसंस्कारविशिष्टानुभवनाशेनेत्यर्थः। स्मरणोत्तरमस्मरणप्रसङ्गादिति । स्मरणोत्तरं स्मरणभावप्रसङ्गादित्यर्थः। इदानीं पूर्वस्मरणस्य ज्ञानत्वेन कारणत्वात् स्मरणान्तरोत्पत्तेरप्रत्यूहत्वादिति भावः। स्वजन्येति। संस्कारजन्येत्यर्थः। स्मरस्य संस्कारनाशकत्वे इति। अनुभवविशिष्टसंस्कारनाशकत्वे इत्यर्थः। स्मृतिसाधारणज्ञानत्वेनेति। ज्ञानत्वस्य स्मृत्यनुभवोभयवृत्तित्वादिति भावः। हेतुत्वेऽपीति। अगत्या ज्ञानस्य ज्ञानत्वेन स्मृतिं प्रति हेतुत्वाङ्गाकारेऽपीत्यर्थः। तद्विषयकसंस्काराभावादिति। यावद्विषयसंस्कारनाशेन पदादिविषयकसंस्कारस्यापि नाशादिति भावः। विभिन्नविषयकतया पटादिस्मारकत्वायोगादिति। यद्गोचरे यः संस्कारः स तद्गोचरस्मृतिमेव जनयेदन्यथाऽतिप्रसङ्गापत्तेर्दुःपरिहार्यत्वाज्ज्ञानत्वेन कारणताया दुर्वचत्वादिति भावः। स्वजन्येति। संस्कारजन्येत्यर्थः। अन्यूनविषयकस्यैव फलस्य नाशकत्वेति। संस्कारान्यूनविषयकस्मृतिरूपफलस्यैव संस्कारनाशकत्वेत्यर्थः। अदोषादिति। यावद्गोचरसंस्कारस्य यत्किञ्चिद्गोचरस्मरणनाश्यत्वे पटादिस्मरणानापत्तिरूपदोषस्याभावादित्यर्थः। स्मृतिं प्रति ज्ञानत्वेन हेतुत्वं निरुच्य संस्कारं प्रति तत्त्वेन हेतुत्वं निर्वक्तुमनुभवं दर्शयति—जायत इत्यादिना। पुनः पुनः स्मरणात् हेतौ पञ्चमी प्रथमस्मरणेनैवानुभवनशादिति भावः। दैववशसम्पन्नादिति। अदृष्टविशेषप्राप्तादित्यर्थः। झटित्युद्बोधकसमवधानादेवेति। शीघ्रोत्पादकसमभिव्याहारादेवेत्यर्थः। हस्तिहस्तपकयोः सम्बन्धज्ञानोत्तरं कदाचिदन्यतरस्मिन् हस्तिनि हस्तिपके वा दृष्टे अन्यतरस्य झटिति स्मृतेरन्यतरस्मृत्युद्बोधकझटितिहस्तिहस्तिपकान्यतरसमवधानादुत्पत्तेरनुभवात्संस्कारातिशयरूपं न कल्पनीयमित्यभिप्रायके संस्कारातिशयखण्डने दोषमाह–शास्त्रादवभ्यासस्यैवानापत्तेरिति। संस्कारदार्ढ्यायैव तदुपयोगादिति भावः। नच जातिस्मरेषु व्यभिचारः। जन्मान्तरीयकल्पनात्। निश्चिताव्यभिचारकं रूपमिति। ज्ञानत्वरूप मित्यर्थः। गृह्यमाणव्यभिचारकेणेति। प्रथमस्मरणेनानुभवविशिष्टसंस्कारनाशेस्मरणोत्तरं स्मरणानुभवेन पुनः पुनः स्मरणाद्दृढतरसंस्कारानुभवेन चानुभवत्वं गृह्यमाणव्यभिचारकं रूपं तेनेत्यर्थः। एतन्मते चेति। ज्ञानत्वेन कारणत्वाभ्युपेतृनव्यमत इत्यर्थः। लक्षणे इति। संस्कारलक्षणे इत्यर्थः। तत्समानाधिकरणा इति। द्रव्यविभाजकोपाधिद्वयसमानाधिकरणा इत्यर्थः। तादृशत्वादिति। द्रव्यविभाजकोपाधिद्वयसमानाधिकरणवृत्तिजातित्वादित्यर्थः। जातिशून्यगुणत्वमति। जातिशून्यत्वे सति गुणत्वमित्यर्थः। एकत्वादिषु सङ्ख्यात्वादेः सत्त्वादिति। द्रव्यविभाजकोपाधिद्वयसमानाधिकरणः सङ्ख्यादिरपि तद्वृत्तिः सङ्ख्यात्वादिः गुणत्वावान्तरजातिः। तद्वत्वस्यैकत्वादिरूपसङ्ख्यादौ सत्त्वादित्यर्थः। तादृशजातित्वासम्भवादिति। उक्तोपाधिद्वयसमानाधिकरणवृत्तिगुणत्वन्यूनवृत्तिजातित्वासम्भवादित्यर्थः। परिमाणत्वस्य चतुर्विधपरिमाणवृत्तित्वेऽपि तस्य जातित्वे मानाभावात्। नच प्रत्यक्षम्। अणुपरिणामत्वस्यातद्विषयत्वात्। नचाप्यनुमानाम् अणुपरिमाणस्याकारणत्वात्। अतस्तच्छून्यत्वे सति गुणत्वात्परिमाणस्य विशेषगुणव्यवहारापत्तिरिति भावः। यद्यद्रूपेति। समान्यगुणवृत्तिगुणत्वन्यूनसङ्ख्यात्वादेर्यद्यद्रूपपदेन ग्रहणं बोध्यम्। तद्भिन्नेति। तद्रूपभिन्नेत्यर्थः। परिणामत्वस्योपाधित्वेऽपि यद्रूपत्वेन ग्रहणे बाधकाभावात्। समवायसम्बन्धघटितस्यैव निवेशनीयतयेति। अन्यथा संयोगेन घटत्वरूपावच्छिन्नसमानाधिकरण्यमादाय यत्किञ्चिद्द्रव्यविभाजकोपाधिद्वये तद्भिन्नजातित्वमेव सङ्ख्यादावतिव्याप्तिः। यद्रूपपदेन घटत्वादेर्धर्तुमशक्यत्वादिति। घटत्वरूपावच्छिन्नसामानाधिकरण्यं संयोगसम्बन्धघटितमेव, तेन यद्रूपपदेन सङ्ख्यात्वादेरेव ग्रहणात्तद्रूपभिन्नमेव घटत्वादिति भावः। विशेष्यमिति। गुणत्वरूपविशेष्यदलमित्यर्थः। पृथिव्यादिचतुष्टयवृत्तित्वमते त्विति। पृथिव्यामाकुञ्चितकटे ज्यया न्यग्भावितधनुरादौ यथा तथा जले यन्त्रोर्ध्वरे तेजसि सुवर्णे वायौ भस्त्रावच्छिन्ने तदवस्थाप्रतिपादकत्वानुभावाच्चतुष्टयवृत्तित्वमिति मते त्वित्यर्थः। न देयमिति। अयं भावः। स्थितिस्थापकस्य पृथिवीमात्रवृत्तित्वपदे स्थितिस्थापकत्वस्य यद्रूपपदेन ग्रहणं न सम्भवति यस्मात्तदवच्छिन्नसमानाधिकरणं यत्किञ्चिद्द्रव्यविभाजकोपाधिद्वयं पृथिवीत्वजलत्वरूपं तेजसत्त्ववायुत्वरूपं वा सम्भवतीति तद्भिन्नत्वाभावात् स्थितिस्थापकत्वमादाय स्थितिस्थापके तदापत्तेरसम्भव इति। अवान्तरजातिमादायेति।रूपत्वावान्तरनीलत्वादिजातिमादायेत्यर्थः। नीलत्वादेस्तु न यद्रूपपदेन ग्रहणं तदवच्छिन्नसामानाधिकरण्यस्य यत्किञ्चिद्रव्यविभाजकोपाधिद्वयेऽसत्वादिति भावः। यद्रूपपदेन स्पर्शत्वस्य धर्तुंशक्यत्वमाशङ्क्य विजातीयत्वेनावान्तरभेदमादायाव्याप्तिं परिहरति–पार्थिवेत्यादिना। अप्तेजसोस्तु शीतत्वोष्णत्वावान्तरमादाय न दोषः। सिद्धान्तसिद्धमिति। तत्रापि तथा वैजात्यकल्पने सामान्यगुणत्वमेव तेषां भज्येतेत्येव सिद्धान्त इति भावः। तादृशजातिमद्भिन्न इति। विजातीयजातिमद्भिन्न इत्यर्थः। सर्वसङ्ग्राहकं नेति। कटादिवृत्त्याकुञ्चनस्य शरीरसन्निकृष्टसंयोगहेतुत्वाभावादिति भावः। प्रागभावाप्रतियोगित्वरूपं नित्यत्वं प्रागभावे ध्वंसाप्रतियोगित्वरूपं नित्यत्वं ध्वंसे चातिव्याप्तमिति विशिष्टलक्षणौचित्यात्प्रत्येकलक्षणासङ्गतिं मनसिकृत्याह–अत्रेति। सामान्यलक्षण इत्यर्थः। एकतरनिवेशेनापीति। एकतरनित्यत्वनिवेशेनापीत्यर्थः। संयोगादेर्वारणादिति। संयोगादेरुत्पत्तिनाशयोरनुभावादिति भावः। स्वरूपकथनमिति। न तु व्यावर्तकमित्यर्थः। उपकाराय मूलेत्यादि। अत्यन्तं सङ्कीर्णानामिति। अविभावेन लक्ष्यमाणनामित्यर्थः। भेदकधर्मेविनेति। सर्वरूपतो भेदाभावादिति भावः। एकत्वादिव्यक्तेरेवेति। आदिना परमाणुत्वव्यक्तिपरिग्रहः। एकत्वादेर्व्यभिचारितयेति। एकत्वपरिमाणत्वयोः
परमाण्वन्तरवृत्तित्वेन भेदसाधकत्वासम्भवेनेत्यर्थः। सुग्रहमिति। नच सुग्रहमित्यन्वयः। साध्यसिध्द्युत्तरं हेतुसिद्धिर्हेतुसिध्द्युत्तरं साध्यसिद्धिरित्यन्योन्याश्रयाद्भेदासिद्धिरिति भावः। किन्नामैतदेकत्वमिति चेदाह–एतत्परिमाण्वित्यादि। हि यस्मादेतत्परमाणुसमवेतत्वं यस्मिन्नेकत्वे तस्यैव तादृशैकत्वस्यैव तत्त्वामेतदेकत्वमित्यर्थः। उपसमहरति–तस्मादिति। स्वसजातीयानामिति। विशेषजातीयानामित्यर्थः। अन्त्यवयविनि। सत्त्वादिति। पिठरपाकवादिनां मतेऽन्त्यावयविनो घटस्य स्वसमवेतरूपं प्रति समवायिकारणत्वस्य प्रसिद्धत्वादिति भावः। मूल इति। सङ्ग्रह इत्यर्थः। अविनश्यदित्युक्तमिति। ययोर्मध्ये एकमविनश्यदपराश्रितमेवावतिष्ठे इति पाठाभिप्रायेणोक्तम्। एकमपराश्रितमित्येव क्वचित्पाठः। अन्योन्याभावस्यापि तादात्म्यसंसर्गावच्छिन्नत्वासंसर्गेति नान्योन्याभावव्यावर्तकमिति चेत्तत्राह–तादात्म्येत्यादि। सम्बन्धो वर्तत इति। एकस्य विशेषणस्य प्रयोजनकथनावसरे विशेषणान्तराणि सन्त्येवेति तदावश्यकमिति भावः। अन्यथेति। प्रतियोगितावच्छेदकसम्बन्धानवच्छिन्नत्व इत्यर्थः। अन्योन्याभाववारकेणैवेति। तादात्म्यातिरिक्तसंसर्गबोधकसंसर्गपदेनैवेत्यर्थः। तदिति। त्रैकालिकेत्यर्थः। सिद्धान्तेऽपीति। ध्वंसप्रागभावयोर्न प्रतियोगितावच्छेदकसम्बन्ध इति सिद्धान्तमतेऽपीत्यर्थः। नित्यत्वरूपमिति। घटकाले घटात्यन्ताभावप्रतीतिस्तु न, अत्यन्ताभावकालीनभूतलस्यात्यन्ताभाववत्ताप्रतीतिनियामकत्वादित्याद्यन्यत्र द्रष्टव्यम्। उपाकाराय मूल इत्यादि। अत्रेति। भूतले घटो नास्तीत्यत्रेत्यर्थः। घटप्रतियोगिकभावो भूतलवृत्तिरिति बोधः। घटाभावेत्यादि। स्वनिष्ठविशेषणतानिरूपितविशेष्यत्वमित्यर्थः। घटाभाववद्भूतलमित्यत्र त्विति। घटप्रतियोगिकाभावविशिष्टं भूतलमिति बोधः। अभावस्यविशेषणत्वमिति। भूतलनिष्ठविशेष्यतानिरूपितविशेषणत्वमित्यर्थः। स्वरूपसम्बन्धविशेषाविति। विशिष्टबुद्धिनियामके विशेषणत्वविशेष्यत्वस्वरूपे एव सम्बन्धविशेषौ न तन्नियामकं वैशिष्ट्यं सम्बन्धान्तरं मानाभावादित्यर्थः। तज्ज्ञानीयविषयताविशेषाविति। भूतले घटो नास्ति घटाभाववद्भूतलमिति विश्ष्टज्ञानीयसांसर्गिकविषयताविशेषस्वरूपवित्यर्थः। विशेषणताख्यः स्वरूप सम्बन्ध एक एवास्त्विति। तर्हि भूतले घटो नास्ति घटाभाववद्भूतलमित्युभयत्र यथाक्रमं भूतलघटाभावयोर् विशेषणताख्यस्वरूपसम्बन्धसत्त्वेन वैलक्षण्याबोधापत्तिरत आह—भूतल इत्यादि। विशेषणत्वावच्छिन्नाधेयतेति। विशेषणत्वावच्छिन्नवृत्तित्वं संसर्ग इत्यर्थः। प्रथमायामिति। भूतले घटो नास्तीति प्रथमप्रतीतावित्यर्थः। विशेषणत्वावच्छिन्नाधारतेति। संसर्ग इत्यर्थः। संसर्गांशेऽविलक्षणत्वेऽपीति। भूतलघटाभावयोः परस्परं संसर्गस्य विरूपेणाभासमानत्वेऽपीत्यर्थः। वैलक्षण्योपपत्तिरिति। बोधवैलक्षण्योपपत्तिरित्यर्थः। वैलक्षण्यनिर्वाहादिति। पूर्वप्रतीत्योर्भूतलविशेषणताविशेष्यत्वेनावैलक्षण्यात्। उत्तरयोस्त्वभावविशेषणताविषयत्वेनावैलक्षण्यादित्यर्थः। उपसंहरति–तस्मादिति। पर्यवसितं दर्शयति–तथाचेति। भूतलवानित्यादि। एवं भूतलं घटाभाववत् इत्यपि व्याख्यातम्। घटाभावेत्यादि। एवं भूतले घटो नास्तीत्यपि व्याख्यातमिति बोध्यम्। सचेति। संसर्ग इत्यर्थः। तत्रेति। घटाभाव इत्यर्थः। बाधित इति। पात्राधारं घृतमित्यत्रेवेति भावः। भूतलाभाववति विशेष्यतासंसर्गेण भूतलप्रकारकत्वेन भ्रमत्वनिर्वाह इत्यस्यार्थः। स्वतन्त्रास्तु विशेषणताख्य एक एव स्वरूपसम्बन्धोऽस्तु उक्तप्रतीत्योर्वैलक्षण्यनिर्वाह क्वचिद्विशेषणत्वावच्छिन्नाधेयता, क्वचिच्च केवलविशेषणतैव विशेषणत्वावच्छिन्नाधेयताविषयकत्वे सप्तम्यन्तविशेषणवाचकपदसमभिव्याहारस्य हेतुताकल्पनेनोक्तवैलक्षण्यनिर्वाहदोषोद्धारादित्याहुः। केचित्तु विशेषणत्व–विशेष्यत्वयोः स्वरूपतः सिद्धान्तत्वेन विशिष्टबुद्धिनियामकत्वेन सिद्ध्ययोगः सिद्धसाधनदोषादित्याहुस्तन्मन्दम्। विशेषणत्वविशेष्यत्वयोः संसर्गत्वेन पूर्वमसिद्धतया तद्रूपेण तत्साधने सिद्धसाधनदोषप्रसक्तेरिति ध्येयम्। ध्वंसप्रागभावयोरिवेत्यादि। एकप्रतियोगिकयोर्ध्वंसप्रागभावयोरित्यन्वयः। नचैकविधत्वमेकप्रतियोगिकत्वं तच्च तयोरपि न भिद्येते घटत्वैकधर्मावच्छिन्नप्रतियोगिकत्वात्। अत्यन्ताभावान्योन्याभावौ तु घटत्वैकधर्मावच्छिन्नप्रतियोगिकावपि प्रतियोगितावच्छेदकादिभेदेन भिद्येते इत्याशयात्। नन्वेवमपि तत्तत्प्रतियोगिकत्वे तद्भेदौ दुर्वार एवेति चेन्न। प्रतियोगिसमवायिकारणवृत्तिरित्यादिप्रागभावादिलक्षणात्कपालस्य सामान्यतो घटसमवायिकारणत्वं न तत्तद्धटसमवायिकारणत्वं गौरवादतस्तादृशसमवायिकारणवृत्तिघटत्वावच्छिन्नाभाव एव स विवक्षणीयो न तत्तदभाव इति सिद्धेः। अत एव लाघवाद्धटत्वेन प्रागाभावत्वेन कार्यकारणभावः। अत एव प्रतियोगित्वेन च कार्यकारणभाव इत्येकविधावेव ताविति सिद्धम्। विशिष्टाभाव इति। दण्डविशिष्टवैदत्ताभाव इत्यर्थः। अन्यथेति। केवलाद्विशिष्टस्यानतिरिक्तत्व इत्यर्थः। केवलघटवताति। तथाप्रत्ययादित्यनेनान्वयः। एवं केवलं पटवतीत्यत्रापि। यत्किञ्चिदुभयवतीति। कुड्यकुसूलोभयवतीत्यर्थः। तथाप्रत्ययादिति। घटपटौ न स्त इत्युभयाभावप्रत्ययादित्यर्थः। अनेनोभयभावोऽन्यतराभावप्रयुक्तः क्वचिदुभयाभावप्रयुक्त इति सूचितम्। अन्यथेति। विशेषाभावात्सामान्याभावस्यानतिरिक्तत्व इत्यर्थः। अवच्छेदकभेदादिति। देवदत्तो न दण्डीति प्रतीतिसाक्षिको दण्ड्यभावो दण्डरूपावच्छेदकभेदप्रयुक्तो देवदत्ताभावादतिरिक्त इत्यर्थः। घटभेदश्चेति। घटत्वावच्छिन्नप्रतियोगिताकसामान्यभेदश्च विशेषभेदादतिरिक्त इत्यर्थः। प्रसङ्गादिति। अभावत्वेन स्मृतस्योपेक्षानर्हत्वरूपप्रसङ्गसङ्गतेरित्यर्थः। विशिष्टवैशिष्ट्यानवगाहिन इति। घटत्वविशिष्टपटस्याभाववैशिष्ट्यानवगाहिन इत्यर्थः। घटत्वस्य समवायेन पटवैशिष्ट्यासम्भवादिति भावः। व्यवस्थापकत्वाभावेनेति। हेत्वर्थे तृतीया। व्यवस्थापकत्वाभावहेतोरित्यर्थः। व्यधिकरणधर्मावच्छिन्नाभावइति। प्रतियोग्यवृत्तिधर्मावच्छिन्नाभाव इत्यर्थः। मानाभावादिति। प्रतियोग्यवृत्तिधर्मस्य प्रतियोगितावच्छेदकत्वे गमकाभावादित्यर्थः। तादृशप्रत्ययस्येति। घटत्वेन पटो नास्तीति प्रत्यस्येत्यर्थः। का गतिरिति। कथं प्रमात्वमित्यर्थः। पटाधिकरणघटत्वाभावावगाहित्वमिति।पटाधिकरणतानिरूपितघटत्वाभावनिष्ठाधेयतानगाहित्वमित्यर्थः। असति बाधक इत्यादि। ननु प्रतियोग्यवृत्तिधर्मस्य प्रतियोगितावच्छेदकत्वासम्भवरूपोक्तबाधकसद्ग्रावादितथ्मभिधानमसदङ्गतमिति चेन्न। उक्तप्रतीतेर्वक्ष्यमाणकिन्त्वितिरीत्या पटत्वावगाहित्वेन नञव्यत्यासविभक्तिव्यत्यासकल्पनामन्तरा तत्तच्छब्दप्रतिपाद्यार्थविषयकत्वरूपाबाधकत्वभिप्रायेणैवासति बाधक इत्याद्युक्तमिति बोध्यम्। कथमप्यप्रतीतेरिति। अक्षरमर्यादयेत्यादि। स्वातन्त्र्येणेति। न तु स्वावच्छिन्नप्रतियोगिमत्तयेत्यर्थः। नियमस्तु नेति। इह नेत्यर्थः। व्यधिकरणधर्मावच्छिन्नाभाव इति। व्यधिकरणधर्मावच्छिन्नस्याभाव इति तु नार्थः। उक्तयुक्तेः। किन्त्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन व्यधिकरणधर्मविषयकत्व एव स इति बोध्यम्। तर्हीति। सप्रमाणकत्वे हीत्यर्थः। प्रतियोगिविरोधिविरहादिति। अव्याप्यवृत्तिसंयोगाभाववत्प्रतियोग्यधिकरणेऽपि सत्त्वादिति भावः। सामयिकाभाव इति। समये भवः सामयिकः। प्रतियोगिविरहसमये उत्पन्न इत्यर्थः। अतिरिक्त एवेति। विलक्षण एवेत्यर्थः। समये प्रतीयमान इति। न तु समये भव इति भावः। मुक्तावल्युक्तं समाधानान्तरं स्मारयति—न तदित्यादिना। क्लृप्तधर्मीति। भूतलरूपे प्रसिद्धे धर्मिणीत्यर्थः। धर्मकल्पनाया इति। अभावत्वरूपधर्मकल्पनाया इत्यर्थः। अक्लृप्तधर्मीति। अभावरूपधर्मीत्यर्थः। उक्तन्यायस्येति। क्लृप्त धर्मिणीत्यत्यादिरूपस्येत्यर्थः। इतरेन्द्रियग्राह्यतापत्तिरिति। येनेन्द्रियेणेत्यादिन्यायविरोधः स्यादिति भावः। आदिना तत्तच्छब्दगन्धरसाद्यभावीयाधिकरणानां श्रोत्रादिभिर्ग्रहणायोग्यत्वात्तद्रूपाणां तेषां ग्रहणं न स्यादिति सङ्ग्रहः। प्रस्फुरन्तीति। यद्यपीत्यनुकृष्यते यद्यपि प्रस्फुरन्तीत्यस्य एतान्यनुक्त्वा तदतिरिक्तत्वव्यवस्थापानुधावनं ग्रन्थकृतो व्यर्थायाससाध्यमिति तात्पर्यार्थः। सति कुड्ये चित्रमित्यनतिरिक्तत्वे तत्स्फुरणम्। अतिरिक्तत्वेतु तत्प्रसङ्ग एव नेत्यर्थतात्पर्येणाह–तथापीति। तदेव तात्पर्यं विशदयति—केवलेत्यादिना। अधिकरणादेवेति। अधिकरणादेवेत्यादीत्यर्थः। तद्वचननिरासादेव। गुरुवचनीयानतिरिक्तत्वनिरासादेव। तन्निवृत्तिसम्भवे।कुड्याभावाच्चित्रनिवृत्तिवदनतिरिक्तत्वाभावादुक्तदोषनिवृत्तिसम्भवे। किमेतान्यपेक्षितानि। किमर्थमुक्तदूषणान्यपेक्षितानि। इत्यालोच्य एवं विचार्य। तदेव निराकरोति। अनतिरिक्तत्वमेव निरासयतीति समुदितार्थः। गुरुमते अधिकरणादेव नास्तीति व्यवहारोपपत्तावित्यस्याभावाधिकरणमेव केवलं तव्द्यवहारनियामकमित्यर्थादधिकरणकैवल्यं स्वरूपभेदेन विकल्प्य तद्भेदनिरासेन निर्वक्तुसशक्यतां बोधयितुमाशङ्कते–अथेति। घटवद्भूतलस्यापीति। भूतलत्वेन तदविशेषादिति भावः। घटाभाववत्त्वमिति। भावप्रत्ययस्य प्रकृतिप्रकारबोधकत्वादस्य घटाभाव एवार्थः। सिद्धमतिरिक्ताभावेनेति। घट्टकुटीप्रभातन्यायेनाभीप्सितं(1-एतन्न्यायस्वरूपं प्राक् (242 पृं)शब्दखण्डे चतुर्थटिप्पन्युक्तमनुसन्धेयम्॥) कैवल्यप्रसिद्धमिति भावः। प्रतियोगिस्वरूप इति। ध्वंसीयप्रतियोगिस्वरूप इत्यर्थः। तत्प्रागभावरूपश्चेति। ध्वंसगभावरूपश्चेत्यर्थः। प्रतियोगिस्वरूपश्चेति। प्रागभावीयप्रतियोगिरूपश्चेत्यर्थः। उपपत्तिरिति। अन्यथोक्ततत्तत्प्रतियोगिमात्रस्वरूपत्वे तत्तत्प्रतियोगिनो विद्यमानत्वात्तत्तव्द्यवहारानुपपत्तिरिति भावः। नवीनमतं सिद्धान्तयितुं प्राचीनाक्षिपति–नन्विति। दैशिकविशेषणतासम्बन्धावच्छिन्नाधेयत्वभानमिति। स्वरूपसम्बन्धावच्छिन्नाभावीयाधेयत्वभानमित्यर्थः। भ्रमत्वमेव स्यादिति। घटाभोवो नास्तीत्यस्य
घटाभावाभावोऽस्तीत्यर्थकतया घटाभावाभावस्य प्रतियोगिस्वरूपत्वे प्रतियोगिनश्च संयोगेन वृत्तेर्विशेषणताविशेषेण वृत्त्यसम्भवात्तथाविधप्रामाणिकप्रत्ययस्यालीकत्वं स्यादित्यर्थः। एतावता प्रबन्धेन पदार्थानां लक्षणं स्वरूपं प्रामाण्यं च निरुच्य प्रसङ्गान्नन्विति सूत्रविरोध जिज्ञासितेऽन्तेवासिनि तदुक्तमवतारयन् सूत्रकारं विशिनष्टि–परमेत्यादिना। परमकारुणिकत्वं च शत्रुमित्रोदासीनसाधारण्येन निष्कारणदुःकप्रहाणेच्छावत्त्वम्। मुनित्वं(1-“निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः। ध्यानस्थो निष्क्रियो दान्तस्तुल्यमृत्काञ्चनो मुनि"रिति मुनिलक्षणम्। अवयवार्थमर्यादयाह–निरन्तरेति। मन ज्ञाने इत्यस्मान्मनेरुच्चोपधाया इति इप्रत्वते साधुः।) च निरन्तराद्वितीयार्थमननशालित्वम्। दुःखपङ्कमग्नजदुद्दिधीर्षुत्वं च अत्यन्तप्रतिकूलवेद्यपङ्कमग्नसंसार्यात्मजातोद्धारेच्छावत्त्वम्। (1-अत्यन्तं प्रतिकूलमिति वेद्यं दुःखं तदेव पङ्कत्वेन रूप्यते तत्र मग्ना ये संसारिण आत्मनो जीवास्तेषां जातस्य समूहस्योद्धारे दुःखापनोदने या इच्छा तद्वत्त्वमित्यक्षरार्थः।)गौतमेनेति विशेष्यमध्याहार्यम्। तथाचोक्तधर्मविशिष्टेन गौतमेन प्रणीतमित्यन्वयः। प्रत्यक्षप्रमाणस्येति। इन्द्रियात्मकस्येत्यर्थः। अनुमानादीनां चेति। व्यप्त्यादिज्ञानानां चेत्यर्थः। स्फुटत्वादिति। एतेन प्रमाणस्यान्तर्भावाकथनप्रयुक्तन्यूनता मूलकृतः परिहृता। द्रव्येष्वन्तर्भाव इति। यथायथं द्रव्यादिष्वन्तर्भाव इत्यर्थः। आदीति। आदिना गुणादीनामपि सङ्ग्रहः। तेषामप्यर्थत्वस्य स्पष्त्वात्। मनोन्तानां प्रसिद्धत्वधियाऽव्याख्याय प्रवृत्तिं व्याचिख्यानुसारं प्रवृत्तिर्धर्माधर्मौ इत्युक्तं तदसङ्गतं तयोः प्रवृत्तिफलत्वादित्याशयेनाह–तज्जनिकेत्यर्थ इति। धर्माधर्मजनिकेति। प्रवृत्तिधर्माधर्मावित्यस्य प्रवृत्तिधर्माधर्मजनिकेत्यर्थ इत्यर्थः। स्फुटमाकार इति। सूत्रवृत्त्यादावित्यर्थः। इच्छाविशेष इति। “रागेण राधिकां कृष्णः कृष्णं रागेण राधिका। स्वप्नेऽपि राधिकेत्युक्त्वा रमतेऽपि तया समम्” । अत्र राग उत्कटेच्छेति यावत्। इच्छायामैत्कट्यं च निरन्तरतद्विषयकत्वम्। धनादीच्छाव्यावृत्तं रसिकजननवरससमान्वयाधिरकणकामिनीकामुकेच्छावौजात्यावच्छिन्न रूपं बोध्यम्। प्राणक्रियाजन्यसंयोगानां शरीरनिष्ठानां नानात्ववतद्ध्वंसानां क्रियाजन्यत्वेन नानात्वात् चरम इति। आद्येत्यादिः। ननु पञ्चमे मास्याद्यशरीरप्राणसंयोगस्य पुराणप्रसिद्धेर्जननव्यवहाराभावादसङ्गतिरिति चेदत्राहुः। शास्6तस्तदैव तत्सत्त्वेऽपि लोके तव्द्यवहारो भाक्त (2-गौणः) इति। मुक्तात्मेत्यादि। विशेष्यानुपादाने मुक्तात्मसंयोगध्वंसस्यापि ग्रहीतुं शक्यत्वेन तस्य च स्वसमानाधिकरणदुःखप्रागभावमानकालिकत्वान्मोक्षत्वे तादृशध्वंसवतो घटस्य मुक्तात्वव्यवहारापत्तिः। मुक्तात्मसंयोध्वंसस्य घटे परम्परया मानसिकव्यवहारप्रयुक्तो द्रष्टव्यः। संयोगे मुक्तात्मविशेषणं तु सुषुप्तिकालीनसंयोगध्वसंस्य स्वसमानाधिकरणदुःखप्रागभावसमानकालिकत्वादतिव्याप्तिसम्पादनायेति बोध्यम्। दुःखध्वंसवतामस्मदादीनामिति। दुःखप्रागभावमानकालीनदुःखध्वंसवतामास्मदीनामित्यर्थः। दुःखध्वंसस्याप्यग्रिमदुःखक्षणवृत्तेरिति। ध्वंसस्य ध्वंसासम्भवात्तत्क्षणवृत्तित्वं तस्येति भावः। अथ तर्हि तद्वत्ताप्रत्ययापत्तिरिति चेन्न। दुःखानधिकरणदुःखध्वंसाधिकरणस्यैव तत्प्रतीतिनियामकत्वेनाभ्युहगमात्। यथासन्निवेशे वैयर्थ्याभावादिति। स्वसमानाधिकरणदुःध्वंसे दुःखसमानकालीनत्वं तात्पर्यमर्यादया दुःखप्रागाभावासमानकालीनत्वरूपमेवेति वैयर्थ्याशङ्कैव नेति हृदयं बोध्यम। निरूपितत्वादिति। संशयलक्षणस्य प्रागुक्तत्वादित्यर्थः। इदमिति। कथायामुभयसाधनवतीति। विशेषणमित्यर्थः। इत्यादीति। सुपारीत्यादिशब्दार्थः। स्वव्याघातकत्वमिति। स्वस्योत्तरस्य व्याघातदोषवत्त्वमित्यर्थः। तदवान्तरेति। असदुत्तररूपजात्यवान्तरेत्यर्थः। साधर्म्येणेत्यादि। समानो धर्मो यस्य स सधर्मा तस्य भावः साधर्म्यं समानधर्म इति यावत्। स्थापनायां हेतुः स्थापनाहेतुः कार्यस्येति शेषः। कार्यस्य साध्याख्यस्य स्थापना पक्षे सिद्धिः। तत्र हेतुस्तस्मिन् दूषकं प्रतिबन्द्युत्तरं साधर्म्यसामाख्याऽसुदुत्तरं जातिरित्यर्थः। क्रियाजनकवायुसंयोगादिरेवेति। आदिना वेगसङ्ग्रहः। सक्रियासाधर्म्यादिति। आकाशरूपदृष्टान्तनिष्ठसक्रियत्वरूपधर्मतुल्यविभुत्वरूपधर्मत्त्वादित्यर्थः॥१॥(1-पराभिमतसमाधिसमाधेयमुत्तरं प्रतिबन्द्युत्तरम्म्॥) विरुद्धो धर्मो यस्य स विधर्मा तस्य भावो वैधर्म्यं विरुद्धधर्म इति यावत्। तेन तद्दूषकमुत्तरं प्रतिबन्दिरूपं वैधर्म्यसमेत्यर्थः। तद्वैधर्म्यादिति। सक्रियत्वविरुद्धविभुत्वरूपधर्मादित्यर्थः। अनयोः फलैक्येऽपि साधर्म्यवैधर्म्याख्यहेतुदूषकोत्तरत्वाद्विभाजकरूपद्वयावच्छिन्नत्वं बोध्यम्॥2॥ परोक्तसाधनादेवेति। परोक्तहेतोरेवेत्यर्थः। तदव्यापकस्य धर्मस्येति परोक्तहेत्वव्यापकधर्मस्येत्यर्थः॥3॥ दृष्टान्तसाधर्म्येणेति। दृष्टान्तवृत्तिधर्मतुल्यधर्मेणेत्यर्थः॥4॥ दृष्टान्तधर्मस्येति। दृष्टान्तवृत्तिधर्मान्तरस्येत्यर्थः॥5॥ नोदनादीति। वर्ण्यसमायामित्यादिः। तज्जनकगुणवत्त्वमपीति। क्रियाजनकनोदनाख्यसंयोगरूपगुणवत्त्वमपीत्यर्थः। तत्प्रकारश्च “आत्मा नोदनोख्यगुणवान् क्रियावत्त्वल्लोष्टवत्” इति॥ 6॥ तत्रैवानुमान इति। क्रियासाध्यकक्रियाहेतुगुणवत्त्वहेतुकानुमान इत्यर्थः। यथा लोष्टादीति। नचेदसम्भवि, दृष्टान्तस्य दार्ष्टान्तिकत्वायोगादिति वाच्यम्। वायोर्दृर्ष्टान्तत्वमभ्युपेत्यास्य दार्ष्टान्तिकत्वौचित्यात्। किञ्चिदक्रियमिति। निष्कियलोष्टदृष्टान्तेन किञ्चिद्दार्ष्टान्तिकमक्रियं क्रियाशून्यमित्यर्थः। यथा आत्मेति। दार्ष्टान्तिकनिदर्शकपरो यथाशब्द इति बोध्यम्। पूर्वं विकल्पो भवतीति। हेतौ पूर्वोक्तौ विकल्पो भवतीत्यर्थः॥ ७। तत्रैवेति। पूर्वोक्तानुमान एवेत्यर्थः। इत्यप्यागतमिति। यथाशब्दस्य परस्परसादृश्यार्थबोधकत्वादिति भावः। नियामकाभावादिति। शब्दशक्तिस्वाभाव्याद्यथाशब्देन परस्परसादृश्यं बोध्यते इत्येकशेषे कारणाभावादिति भावः॥8॥प्रत्यवस्थानमिति। साध्यसिद्धिरित्यर्थः॥9॥ पूर्वोक्तदोषादिति। प्राप्तिसमारूपदोषाद्धतोः साध्यसाधकत्वसम्भवादिति भावः। अप्राप्तस्य हेतोरिति। कस्य चिद्धेतोरित्यर्थः। अथवेत्यादिः।0॥ साध्यतेऽनेनेति करणल्युटि साधनशब्दो हेतुबोधकः। इत्यदीति। इत्यादरूपः साधनपरम्पराप्रश्न इत्यर्थः॥1॥ दृष्टान्तान्तरेणेति। अन्यो दृष्टान्तो दृष्टान्तान्तरं तेनेत्यर्थः। तत्रैवेति। आत्मन्येवेत्यर्थः। क्रियावत्त्वे साधित इति। क्रियाहेतुगुणवत्त्वहेतुनेति शेषः। निष्क्रियत्वं नेत्यत्रेति। विभुत्वहेतुना क्रियाशून्यत्वं न साध्यत इत्यत्रेत्यर्थः॥2॥ तदभावादिति। जन्यैकत्वरूपहेत्वभावादित्यर्थः। नित्यत्वमिति। नित्यत्वं स्यादित्यर्थः॥ 3॥ अनित्यत्वेनेति। अनित्यत्वस्वरूपहेतुनेत्यर्थः। घटेन सहेत्यादि। शब्दस्येति पूर्वेणान्वयः। सहयोगे तृतीया। तृतीयार्थः साहित्यं कार्यत्वान्वयि। तथाच घटनिरूपितसाहित्यावच्छिन्नकार्यत्वरूपसमानधर्मसम्बन्दिशब्द इति बोधः। नित्यत्वेनेति। नित्यत्वनरूपहेतुनेत्यर्थः। एकपरिशेष इति। एकपरिच्छेद इत्यर्थः॥4।. अत्रोदाहरणादित्यादि। शब्दोऽनित्य इत्यादिरूप एवेति भावः॥5॥ तदानीमभावादिति। हेतुकालेऽभावादित्यर्थः। पूर्वकाल इति। कार्यव्यवहितपूर्वकाल इत्यर्थः। पाठे त्विति। तुशब्दोऽरुचिसूचकः नञोभावाद्धेतुत्वासम्भवकथनस्योदक्षरत्वादिति भावः॥6॥ नित्यसाधर्म्यादिति। नित्यवृत्तिनित्यत्वरूपसमानधर्मवत्त्वादित्यर्थः॥७॥ आदीति। अनेन वाच्यत्वज्ञेयत्वादीनां परिग्रहः॥ 8॥ नित्यत्वसाधनमपीति। श्रावणत्वरूपमित्यर्थः॥9॥ वाद्युपदर्शित इति। वादिना पक्षसाध्यहेतुरूपे प्रदर्शिते सतीत्यर्थः। वायुनोदनवशादिति। वायोर्नोदनाख्यसंयोगवशादित्यर्थः॥20।. इत्येतन्मतमिति। शब्दानुपलब्धिवादिमतमित्यर्थः। एवमिति। एवंविधमुत्तरं दूषणमित्यन्वयः। तदेति। शब्दावरणानुपलब्धेरित्यर्थः। यतः आवरणोपलब्धिप्रयुक्तैव शब्दानुपलब्धिस्तदभावाच्चानुपलब्धेरप्युपलब्ध्वभाव इति सम्बन्धः। तथाच शब्दस्योपलब्धिरेव त्वया वाच्येति फलितम्। तदभावादिति। अनुपलब्ध्यभावादित्यर्थः॥21।. तथात्वमिति। नित्यत्वमित्यर्थः। शब्दस्य नित्यत्वमिति। वैयाकरणाध्वरमीमांसकौ ब्रूत इति बोध्यम्॥22॥ येन केनचिद्धर्मेणेति। प्रमेयत्वादिधर्मेणेत्यर्थः। सर्वस्यैवेति। परमाण्वादिनित्यसामान्यस्येत्यर्थः। तत्सदृशत्वादिति। घटसदृशत्वादित्यर्थः॥23॥ तत्रैवेति। शब्द एवेत्यर्थः। अनुविधानम्। प्राप्तिरित्यर्थः। कार्यान्तरस्य सम्भवादिति। प्रयत्नेनेत्यादिः। नानित्यत्वं नियतमिति। यत्नानुविधान शब्दोत्पादनहेतुर्न चारितार्थ्यात्। अहेतोर्नित्यत्वं नियतमिति वा ॥ 24॥ ग्रन्थगौरवभयादिति। अनेन स्वोत्कर्षः सूचितो भवति। अभियुक्तैः पण्डितैरित्यर्थः। निग्रहस्थानं लक्षयतीति। क्रमप्राप्तनिग्रहस्थानविषयकलक्षणस्वरूपबोधकव्यापारवानमूलकार इति बोधः। इदमिति। निग्रहस्थानविषयकलक्षणमित्यर्थः। छलादावप्यस्तीति। छलादीनामपि वादिविजय एव विनियोगादिति भावः। अन्तर्भावादिति। छलादीनामित्यादिः। तर्हि पृथग्गणनं व्यर्थमत आह–छलत्वादिनापि ज्ञानस्योपयोगित्वादिति। वादिनोऽत्र छलमिति व्यवहारः छलत्वज्ञानसाध्य एव यत इति भावः। बाध उद्ग्रावित इति। अनित्यत्वे गकारस्य नष्टत्वात्प्रत्यभिज्ञाविरोध उद्ग्रावित इत्यर्थः। अनित्यत्वप्रतिज्ञां जहातीति। प्रतिज्ञातार्थविरुद्धनित्यत्वं चाभ्युपगच्छतीत्यर्थः॥|। सविषयकेति गुणविशेषणदानमिति। इच्छायाः सविषयकत्वेन सविषयेच्छागुणजन्यत्वेऽपि अदृष्टस्य निर्विषयत्वेन न सिद्धसाधनोद्ग्रावनमिति भावः॥2।.रूपादितः पृथक्त्वेनानुपलभ्यत्वादिति। अनेन हेतुना गुणाभेदे गुणभेदो द्रव्ये न सिद्ध्यतीति साध्यविरुद्धो हेतुरिति भाव॥ 3॥ सामान्ये व्यभिचारमिति। अनित्यत्वाभाववति सामान्ये ऐन्द्रियकत्वहेतुवृत्तित्वमित्यर्थ॥4॥ जातिमत्त्वे सतीति विशेषमदानमिति। हेतुकोटाविति शेषः। तथाच सामान्यस्य सामान्यानधिकरणत्वान्न व्यभिचारोद्ग्रावनसम्भव इति भावः॥5॥ इत्यादिरिति। आदिना गुणः कृत्तद्धितान्तं च प्रातिपदिकमिति॥6।. जबगडदशत्वादिति। हेतोरवाचकत्वान्निरर्थकमिदमिति भावः॥ ७॥ अविज्ञातार्थकमिति। अपूर्वसङ्केतार्थकमित्यर्थः॥8॥ अपार्थकमिति। अपगतोऽर्थो यस्मादिति व्युत्पत्त्या निरर्थकमित्येवार्थः। परञ्च केवलावाचकशब्दप्रयोगान्न निरर्थकवाक्यैक्यमिति ध्येयम्॥9॥ अवयवानामिति। वाक्यघटकीभूतानामवयवानामित्यर्थः॥0॥ यत्किञ्चिदवयवशून्याभिधानमिति। शब्दो नित्य इति मात्रम्। अनेन परिषदबोधाद्वादी निगृहीतो भवतीति बोध्यम्॥ 1॥ शब्दत्वादिति। यद्यपीह दृष्टान्तानुपलम्भाच्छ्रणत्वहेतोः सार्थक्यम् तथापि सोऽयमिति प्रत्ययादिति हेतोर्बोधः। तदर्थतात्पर्यग्राहकमेवचेत्यादीत्यादिपदमिति बोध्यम्॥2॥
इत्यादीति। आदिना कार्यत्वात्कार्यत्वादिति सङ्ग्रहः॥3॥ अननुवाद इति। तदर्थबोधकोच्चारणाननूच्चारणमित्यर्थः।.4॥ परिषदोऽज्ञानव्यावृत्तये परिषदा विज्ञातस्येति॥5॥
उत्तरार्हमिति। उत्तरितुं योग्यमित्यर्थः॥6॥असम्भवादिति। अशक्यमित्यर्थः॥७।.अनुद्धृत्येति।उद्धारकमकृत्वेत्यर्थः॥8।. निग्रहस्थानानुद्ग्रावनमिति। परिषदा वादिविजयहेतुभूतदोषाप्रदानमित्यर्थः॥ 9॥ निग्रहस्थानरहित इति। अदृष्टे परोक्तवाक्य इत्यर्थः॥20॥ एकसिद्धान्तेत्यादि। यथा कश्चन वैयाकरणः परिषदि शब्दः नित्य उच्चारमजन्यत्वादिति शङ्कते, नोच्चारणेन जन्यते शब्दः। उच्चारणं तदावरणमात्रनिवर्तकं तेन शब्दः नित्यएवेत्याहेति॥ 21॥ सप्तैवेति मतं सिद्धान्तयितुमुक्तानन्तर्भावयति—प्रतिज्ञेत्यादिना, शेषामितीति। इदं च निरूपयिष्यते स्वयमेव मूलकारः पदार्थज्ञानस्येत्यादिनेति न व्यख्यातं प्रकाशकारैरिति बोध्यम्। मण्यादीति। आदिना मन्त्रोषध्योः सङ्ग्रहः। तदन्यथानुपपत्त्येति। प्रतिबन्धकतान्यथानुपपत्तेत्त्यर्थः। शक्तिसिद्धावपीत्यादि। तुष्यतु दुर्जनन्यायेन शक्तिमभ्युपगम्य प्रौढ्या क्लृप्तेष्वेवैनामन्तर्भावयामोऽतस्ते न सिद्धः सप्तत्वविघटनपरो मनोरथ इत्याशङ्किते नैयायिके प्राभाकरोऽतिरिक्तत्वासिद्धिं निराचष्टे–चेन्नेति। गुणादिवृत्तित्वादिति। “ज्ञानशक्त्या क्रियाशक्त्या संयुतांसं सृतिं शिवः। प्राकरोन्मायया सर्वा भागधेयेन ते स्थिते” इत्यभियुक्तोक्तेस्तस्यास्तद्वृत्तित्वं बोध्यम्। अतएवेति। गुणादिवृत्तित्वादेवेत्यर्थः। अत्र मानं “भागधेयेन ते स्थिते” इतीति ध्येयम्। उत्पत्तिविनाशशालित्वादिति। परमेश्वरोपासनया शास्त्रव्यवसायेन वा ज्ञाने शक्तिविशेषोत्पत्तेरनुभवसिद्धत्वाद्ग्रागधेयेत्याद्युपक्तेश्चैवं क्रियायामपि बोध्यं द्रव्ये तूक्तमेवेति भावः। कारणीभूताभावप्रतियोगित्वमिति। दाहकारणीभूतो यो मण्यभावस्तत्प्रतियोगित्वेन मणेः प्रतिबन्धकत्वमित्यर्थः। कारणान्तराभावादेवेति। अनन्यथासिद्धनियतपूर्ववृत्तित्वावच्छिन्नान्यकारणम्भावादेवेत्यर्थः। शक्त इतीति. शक्तिविशिष्ट इतीत्यर्थः। कारणतारूपत्वेऽपीति। दाहकार्यकारणवह्निवृत्तिवह्नित्वसमानाधिकरणकारणतारूपत्वेऽपीत्यर्थः। एवं ज्ञानक्रिययोः संसृत्कारणत्वेन तद्वृत्तिरूपत्वान्नातिरिक्तत्वमिति नाभियुक्तोक्तविरोधः। भागधेयेन स्थित इति तु भागधेयेन तद्रूपतद्धर्मावच्छिन्नज्ञानक्रिये उत्पद्येते इत्येवाभिप्रायकम्। परमेश्वरकृपया शास्त्रव्यवसायेन वा ज्ञाने शक्तिविशे,ओत्पत्तिव्यवहारश्च दुरितजन्यज्ञानावरकमालिन्यनिवृत्तिविषय एव क्रियायां तदुत्पत्तिसम्भवेनाप्यपि तु तत्कौशल्यमात्मन्युत्पद्यत इति निर्दुष्टः पन्थाः। मन्मते त्विति। प्राभाकरमते त्वित्यर्थः। अननुगतत्वादिति। अनेकत्वादिति भावः। तवाप्यवश्यकत्वादिति। मण्याद्यपसरेण शक्तिरुत्पद्यते इति तव मतं, तथाच मण्यभावस्य कारणत्वमार्थसमाजग्रस्तम्। मण्युत्तेजकयोः सत्त्वे दाहोत्पत्तेर्मण्यभावे च तत्तदुत्तेजकाभावकूटवैशिष्ट्यविशेषममप्यावश्यकमेवेति भावः। महद्गौरवादिति। अतिरिक्तस्वीकारे इत्यादिः। नन्वितिशङ्काग्रन्थमवतारयति–मन्वेवमित्यादिना। कांस्यादेरिति। आदिना ताम्रादिसङ्ग्रहः। अस्पृश्यवस्तुस्पर्शे सतीति। उच्छिष्टादिस्पर्शे सतीत्यर्थः। शक्तिमत्कांस्यादेरेवेति। शक्तिश्च संस्कारविशेषजन्यो वस्तुविशेष इति तदाशय इतिबोध्यम्। एवञ्चेति। उत्पत्तिविनासशालित्वेन तस्याः प्रत्यक्षसिद्धत्वे चेत्यर्थः। आधेयशक्तिरिति। ईदृश्यास्तन्मते आधेयेति सङ्केत इति बोध्यम्। प्रकृते चेति। कांस्यादावित्यर्थः। सति तन्नाश इति। यत्किञ्चिदस्पृश्यस्पर्शाभावे सतीत्यर्थः। पुनः प्रत्यवतिष्ठत इति। पुनः प्रतिद्वन्द्वी भवतीत्यर्थः। यद्यप्यस्पृश्यस्पर्शसामान्याभावविवक्षया तदापत्तिवारणं सम्भवति, तथापि शक्तेरेव शुद्धिस्वरूपत्वेन तदनङ्गीकारे
भास्करोदयः।
(पगे-99-)जातिमत्त्वे सतीति विशेषमदानमिति। हेतुकोटाविति शेषः। तथाच सामान्यस्य सामान्यानधिकरणत्वान्न व्यभिचारोद्ग्रावनसम्भव इति भावः॥5॥ इत्यादिरिति। आदिना गुणः कृत्तद्धितान्तं च प्रातिपदिकमिति॥6।. जबगडदशत्वादिति। हेतोरवाचकत्वान्निरर्थकमिदमिति भावः॥ क्ष ॥ अविज्ञातार्थकमिति। अपूर्वसङ्केतार्थकमित्यर्थः॥8॥ अपार्थकमिति। अपगतोऽर्थो यस्मादिति व्युत्पत्त्या निरर्थकमित्येवार्थः। परञ्च केवलावाचकशब्दप्रयोगान्न निरर्थकवाक्यैक्यमिति ध्येयम्॥9॥ अवयवानामिति। वाक्यघटकीभूतानामवयवानामित्यर्थः॥0॥ यत्किञ्चिदवयवशून्याभिधानमिति। शब्दो नित्य इति मात्रम्। अनेन परिषदबोधाद्वादी निगृहीतो भवतीति बोध्यम्॥ 1॥ शब्दत्वादिति। यद्यपीह दृष्टान्तानुपलम्भाच्छ्रणत्वहेतोः सार्थक्यम् तथापि सोऽयमिति प्रत्ययादिति हेतोर्बोधः। तदर्थतात्पर्यग्राहकमेवचेत्यादीत्यादिपदमिति बोध्यम्॥2॥
इत्यादीति। आदिना कार्यत्वात्कर्मत्वादिति सङ्ग्रहः॥3॥ अननुवाद इति। तदर्थबोधकोच्चारणाननूच्चारममित्यर्थः।.4॥ परिषदोऽज्ञानव्यावृत्तये परिषदा विज्ञातस्येति॥5॥
उत्तरार्हमिति। उत्तरितुं योग्यमित्यर्थः॥6॥असम्भवादिति। अशक्यमित्यर्थः॥क्ष।.अनुद्धृत्येति।उद्धारकमकृत्वेत्यर्थः॥8।. निग्रहस्थानानुद्ग्रावनमिति। परिषदा वादिविजयहेतुभूतदोषाप्रदानमित्यर्थः॥ 9॥ निग्रहस्थानरहित इति। अदृष्टे परोक्तवाक्य इत्यर्थः॥20॥ एकसिद्धान्तेत्यादि। यथा कश्चन वैयाकरणः परिषदि शब्दः नित्य उच्चारमजन्यत्वादिति शङ्कते, नोच्चारणेन जन्यते शब्दः। उच्चारणं तदावरणमात्रनिवर्तकं तेन शब्दः नित्यएवेत्याहेति॥ 21॥ सप्तैवेति मतं सिद्धान्चयितुमुक्तानन्तर्भावयति—प्रतिज्ञेत्यादिना, शेषामितीति। एदं च निरूपयिष्यते स्वयमेव मूलकारः पदार्थज्ञानस्येत्यादिनेति न व्यख्यातं प्रकाशकारैरिति बोध्यम्। मण्यादीति। आदिना मन्त्रोषध्योः सङ्ग्रहः। तदन्यथानुपपत्त्येति। प्रतिबन्धकतान्यथानुपपत्तेत्त्यर्थः। शक्तिसिद्धावपीत्यादि। तुष्यतु दुर्जनन्यायेन शक्तिमभ्युपगम्य प्रौढ्या क्लृप्तेष्वेवैनामन्तर्भावयामोऽतस्ते न सिद्धः सप्तत्वविघटनपरो मनोरथ इत्याशङ्किते नैयायिके प्राभाकरोऽतिरिक्तत्वासिद्धिं निराचष्टे–चेन्नेति। गुणादिवृत्तित्वादिति। “ज्ञानशक्त्या क्रियाशक्त्या संयुतांसं सृतिं शिवः। प्राकरोन्मयया सर्वा भागधेयेन ते स्थिते” इत्यभियुक्तोक्तेस्तस्यास्तद्वृत्तित्वं बोध्यम्। अतएवेति। गुणादिवृत्तित्वादेवेत्यर्थः। अत्र मानं “भागधेयेन ते स्थिते” इतीति ध्येयम्। उत्पत्तिविनाशशालित्वादिति। परमेश्वरोपासनया शास्त्रव्यवसायेन वा ज्ञाने शक्तिविशेषोत्पत्तेरनुभवसिद्धत्वाद्ग्रागधेयेत्याद्यपक्तेशचैवं क्रियायामपि बोध्यं द्रव्ये तूक्तमेवेति भावः। कारणीभूताभावप्रतियोगित्वमिति। दाहकारणीभूतो यो मण्यभावस्तत्प्रतियोगित्वेन मणेः प्रतिबन्धकत्वमित्यर्थः। कारणान्तराभावादेवेति। अनन्यथासिद्धनियतपूर्ववृत्तित्वावच्छिन्नान्यकारणाभावादेवेत्यर्थः। शक्त इतीति। शक्तिविशिष्ट इतीत्यर्थः। कारणतारूपत्वेऽपीति। दाहकार्यकारणवह्निवृत्तिवह्नित्वसमानाधिकरणकारणतारूपत्वेऽपीत्यर्थः। एवं ज्ञानक्रिययोः संसृत्कारणत्वेन तद्वृत्तिरूपत्वान्नातिरिक्तत्वमिति नाभियुक्तोक्तिविरोधः। भागधेयेन स्थित इति तु भागधेयेन तद्रूपतद्धर्मावच्छिन्नज्ञानक्रिये उत्पद्येते इत्येवाभिप्रायकम्। परमेश्वरकृपया शास्त्रव्यवसायेन वा ज्ञाने शक्तिविशेषोत्पत्तिव्यवहारश्च दुरितजन्यज्ञानावरकमालिन्यनिवृत्तिविषय एव क्रियायां तदुत्पत्तिसम्भवेनाप्यपि तु तत्कौशल्यमात्मन्युत्पद्यत इति निर्दुष्टः पन्थाः। मन्मते त्विति। प्राभाकरमते त्वित्यर्थः। अननुगतत्वादिति। अनेकत्वादिति भावः। तवाप्यावश्यकत्वादिति। मण्याद्यपसरेण शक्तिरुत्पद्यते इति तव मतं, तथाच मण्यभावस्य कारणत्वमार्थसमाजग्रस्तम्। मण्युत्तेजकयोः सत्त्वे दाहोत्पत्तेर्मण्यभावे च तत्तदुत्तेजकाभावकूटवैशिष्ट्यविशेषणमप्यावश्यकमेवेति भावः। महद्गौरवादिति। अतिरिक्तस्वीकारे इत्यादिः। नन्वितिशङ्काग्रन्थमवतारयति–नन्वेवमित्यादिना। कांस्यादेरिति। आदिना ताम्रादिसङ्ग्रहः। अस्पृश्यवस्तुस्पर्शे सतीति। उच्छिष्टादिस्पर्शे सतीत्यर्थः। शक्तिमत्कांस्यादेरेवेति। शक्तिश्च संस्कारविशेषजन्यो वस्तुविशेष इति तदाशय इति बोध्यम्। एवञ्चेति। उत्पत्तिविनाशशालित्वेन तस्याः प्रत्यक्षसिद्धत्वे चेत्यर्थः। आधेयशक्तिरिति। ईदृश्यास्तन्मते आधेयेति सङ्केत इति बोध्यम्। प्रकृते चेति। कांस्यादावित्यर्थः। सति तन्नाश इति।
यत्किञ्चिदस्पृश्यस्पर्शाभावे सतीत्यर्थः। पुनः प्रत्यवतिष्ठत इति। पुनः प्रतिद्वन्द्वी भवतीत्यर्थः। यद्यप्यस्पृश्यस्पर्शसामान्याभावविवक्षया तदापत्तिवारणं सम्भवति, तथापि शक्तेरेव शुद्धिस्वरूपत्वेन तदनङ्गीकारे
तदसिद्धिः स्यादिति शङ्कासजातीयोत्तरस्यैव न्याय्यत्वात्प्रवृत्तमूलाशयं दर्शयन्मूलमुत्थापयति—क्लृप्तेत्यादिना। कांस्यादाविति। आदिना ताम्रम्। भस्मादाविति। आदिना अम्लम्। संयोगादीति। आदिना संयोगान्तरम्। ध्वंसादीति। आदिना ध्वंसान्तरम्। तत्रापीति। पुनरस्पृश्यस्पर्शकाले इत्यर्थः। सम्बन्धविशेषनियन्त्रितं सामानाधिकरण्यमिति। दैशिकविशेषणतासम्बन्धावच्छिन्नोक्तयावदभावाधिकरणतावद्वृत्तित्वमित्यर्थः। तेन भस्मादिसंयोगध्वंसाधिकरणे विद्यमानस्यापि समवायेनास्पृश्यस्पर्शस्य संयोगेनाभावसामानाधिकरण्यमादाय न दोषः। तत्रेति। भस्मादिसंयोगध्वंसाधिकरण इत्यर्थः। तदापत्तिरिति। शुध्द्यापत्तिरित्यर्थः। असत्त्वेनेति। तस्य नष्टत्वादिति भावः। तादृशप्रागभावस्येति। अस्पृश्यस्पर्शप्रागभावस्येत्यर्थः। न दोष इति। शुध्द्यानापत्तिरूपो दोषो नेत्यर्थः। तदुत्तरसमय इति। भस्मसंयोगध्वंससमय इत्यर्थः। तादृशभस्मसंयोगकालिकत्वमिति। शुद्धत्वव्यवहारप्रयोजकभस्मसंयोगकालवृत्तित्वरूपसामानाधिकरण्यं यावदभावे निवेशनीयं न यथाकथञ्चित्संयोगकालवृत्तित्वमित्यर्थः। एवञ्चेति। एवंविधनिवेशे चेत्यर्थः। तादृशायावदभावेति। यादृसभस्मसंयोगध्वंसमादाय शुद्धत्वव्यवहारस्तादृशसंयोगकालिको यावदभाव इत्यर्थः। सामानाधिकरण्यविशिष्टमिति। तत्तदस्पृश्यस्पर्शध्वंसकूटसामानाधिकरण्यमेव सम्भवतीति तमादायैव संयोगध्वंसस्य शुद्धित्वं न तत्तत्प्रागभावाद्यघटिताभावकूटसामानाधिकरण्यमादायापीति गुह्यमवधार्यम्। सङ्क्षेप इति। एतद्विचारस्य बहुश उपयोगाभावान्न विस्तृतोऽयमिति भावः। मतमिति। स्वत्वं तावत् स्वत्वमुत्पन्नं विनष्टं तव स्वत्वं मम स्वत्वम् ब्रह्मस्वमित्यादि प्रतीतिसिद्धं षष्ठीवाच्यं पदार्थान्तरं तच्च वृत्तिनियामकविशेषणताविशेषेण स्वर्णादिनिष्ठम्। स्वर्णे स्वत्वमित्यादिप्रत्ययात्। निरूपकत्वाख्यविशेषणताविशेषेण च स्वामिनिष्ठम्। अत्रास्य पुरुषस्य स्वामित्वमितिप्रत्ययात्। नच स्वत्वं द्रव्यस्वरूपं, गुणादिवृत्तित्वात्। नवा गुणरूपं कर्मरूपं वा, तत्त्वादेव। नच सामान्यादिरूपं नित्यत्वप्रसङ्गात्। उत्पन्नं स्वं विनष्टं स्वमिति प्रत्ययानापत्तेश्च। नचाभावस्वरूपं भावत्वेन प्रतीतिविषयत्वानापत्तेस्तस्मान्नान्तर्भवति सप्तस्विति। नच षष्ठीवाचकत्वे चैत्रस्य कुलमित्यादौ तत्प्रत्ययापत्तिः। धनादिसमभिव्याहारस्याकाङ्क्षत्वात्। नचैवं धनस्य चैत्र इत्यत्रापि तद्बोधापत्तिः। स्वामित्वाश्रयप्रकृतिकषष्ट्या तद्बोधे प्रथमान्तस्वत्वाश्रयपदसमभिव्याहारस्याकाङ्क्षत्वात्। नचैवं चैत्रपदधनपादाभ्यां तद्बोधेऽन्यलभ्यत्वात्षष्ट्यास्तदर्थवाचकत्वमनुपपन्नमिति वाच्यम्। चैत्रधनयोश्चैत्रत्ववाचकयोः षष्ट्यैव तथार्थकत्वात्। नचैवमस्मिन्पुरुषे तद्द्रव्यस्वामित्वमित्यादिप्रतीतिर्दुर्वचेति वाच्यम्। अस्मिन्पुरुषे एतद्रव्यतद्द्रव्यत्वमिति प्रत्ययात्। अत्र द्रव्येऽस्य पुरुषस्य स्वामित्वमित्याद्यप्रत्ययाच्च। अथैवं स्वत्वस्वामित्ययोर्विभिन्नपदार्थत्वे चैत्रस्य धनमित्यादौ स्वत्वं स्वामित्वं वेत्यत्र विनिगमनाविरहः। स्वत्वस्य षष्ट्यर्थत्वे निरूपकत्वसम्बन्धेन प्रकृत्यर्थविशेष्यतयाऽऽश्रयतासम्बन्धेनैव धनविशेषणतया तदन्वयस्य सुवचत्वात्। नच स्वामित्वस्य चैत्रस्य धनमितिवद्धनस्य चैत्र इत्यपि प्रतीतिः स्यात् चैत्रस्य धननिरूपितस्वामित्वाश्रयत्वादिति वाच्यम्। स्वत्वस्य षष्ट्यर्थत्वेऽपि तादृशप्रत्ययस्य दुर्वारत्वात्। धननिष्ठस्वत्वनिरूपकत्वाचैत्रस्येत्यतः षष्ट्यर्थस्वत्वस्य निरूपकत्वसम्बन्धेनैव प्रकृत्यर्थविशेष्यतया आश्रयतासम्बन्धेनैव चानुयोगिविशेषणतयाऽऽन्वयो न तु सम्बन्धान्तरेणेति व्युत्पत्तिः कल्प्यते। स्वामित्वस्य षष्ट्यर्थत्वेऽपि षष्ट्यर्थस्वामित्वस्य निष्ठतासम्बन्धेनैव प्रकृत्यर्थविशेष्यतया निरूपकत्वसम्बन्धेनैव स्वानुयोगिनि विशेषणतयाऽन्वयो न तु सम्बन्धान्तरेणेति व्युत्पत्तेः सुवचत्वादिति चेन्न। स्वामित्वस्यैव षष्ट्यर्थत्वे चैत्रीयधने नेदं चैत्रस्येति व्यवहारापत्तेः। स्वामित्वस्य चैत्रवृत्तितया तदभावस्य सुतरां धने सत्त्वात्। नच निरूपकत्वसम्बन्धेनैव षष्ट्यर्थस्वामित्वस्याभावो बोध्यते स च न( १-निरूपकत्वसम्बन्धेन स्वामित्वस्य सत्त्वात्।) धन इति वाच्यम्। निरूपकत्वसम्बन्धस्य वृत्त्यनियामकतयाऽत्यन्ताभावप्रतियोगितानवच्छेदकत्वात्। नच तथापि वृत्त्यनियामकसम्बन्धस्याप्यभावप्रतियोगितानवच्छेदकतानये स्वामित्वस्य षष्ट्यर्थत्वे न किमपि बाधकमिति वाच्यम्। तन्नये स्वामित्वस्य प्रतियोगितानवच्छेदकसम्बन्धेन प्रतियोग्यधिकरणत्वस्यैवाभावविरोधितया गगनादिसंयोगिनि घटादौ संयोगसम्बन्धावच्छिन्नगगनाद्यभावश्चैत्रनिष्ठस्वामित्वनिरूपकेऽपि धने निरूपकत्वसम्बन्धावच्छिन्नचैत्रनिष्ठस्वामित्वाभावस्य वृत्तौ बाधकाभावेन तादृशव्यवहारापत्तेर्दुर्वारत्वात्। नचैवं सति निरूपकतासम्बन्धावच्छिन्नतियोगिताकज्ञानाद्यभावस्यापि केवलान्वयित्वं स्यान्न स्याच्च विषयितासम्बन्धेन ज्ञानादेः केवलान्वयित्वं विषयितासम्बन्धस्य केवलान्वयित्वनियामकतया (2-वृत्त्यनियामकतयेत्यर्थः।) तेन सम्बन्धेन ज्ञानाद्यधिकरणस्यैवाप्रसिद्धेरिति वाच्यम्। इष्टत्वात्। ज्ञानविषयत्वादेः केवलान्वयित्वात्। यदि च वृत्त्यनियामकसम्बन्धोऽपि अत्यन्ताभावप्रतियोगितावच्छेदकः। प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगिसम्बन्धित्वमेवाभावविरोधि। अत एव प्रलये परमाणावुत्पत्तिकाले चावयविनि संयोगसम्बन्धावच्छिन्नगगनाद्यभावो (1-मूलस्य न्यूनतामिति भास्कराभिमतः पाठः।) (3केवलान्वयित्वभङ्गापत्तेरेव।) नान्यथेति। अत एव ( 2-प्रलयपरमाणावुत्पत्तिकालावयविनि च संयोगसम्बन्धेन गगनसम्बन्धित्वविरहादिति भावः।)ज्ञानविषयत्वादिवद्विषयितासम्बन्धेन ज्ञानादिकमपि केवलान्वयि। विषयितासम्बन्धावच्छिन्नज्ञानाद्यभावस्त्वलीक इत्याद्रियते तदास्तु विनिगमनाविरहात्स्वत्वस्वामित्वोभयमेव षष्ट्यर्थः। तात्पर्यग्रहस्य विनिगमकत्वादेव चैत्रस्य धनमित्यादौ नियमतो न स्वत्वस्वामित्व योरवगम इति सम्प्रदायः। केचित्तु स्वत्वमेव स्वामित्वं नतु पदार्थान्तरम्। निरूपकतासम्बन्धस्य वृत्त्यनियामकत्वेऽपि निरूपकत्वस्य स्वरूपसम्बन्धेन वर्तमानत्वादेवात्र(4-द्रव्ये।) स्वत्वं पुरुषस्य द्रव्यस्य स्वामीति प्रत्ययोत्पत्तेः। एवं च गौरवादेव स्वामित्वं न षष्ट्यर्थोऽपितु स्वत्वमेवेत्याहुः। तदसत्। विनिगमकाभावात्। स्वामित्वमेव पदार्थान्तरं तन्निरूपकत्वमेव स्वत्वमिति वैपरीत्यस्यापि सुवचत्वात्। नच स्वामित्वनिरूपकत्वस्य स्वत्वरूपत्वेऽपि स्वशब्दादेः शक्यतावच्छेदकत्वे गौरवम्। स्वत्वनिरूपकत्वस्य स्वामित्वरूपत्वेऽपि स्वामिशब्दपतिशब्दादेः शक्यतानवच्छेदकत्वे गौरवात्। नव्यास्तु स्वत्वं स्वामित्वमेकपदार्थः। स च विशेषणतासम्बन्धेनात्र स्वत्वमेव स्वामित्वमिति व्यवहारः। न तु स्वत्वस्वामित्वयोर्भेदः। उभयोर्भेदेऽपि (5-भेदानुभवेऽपि।)उभयोरवश्यं पुरुषधननिष्टपरस्परविलक्षणविषयताभ्युपगमात्(6-विलक्षणविषयताभेदेनप्रयुक्तभेदानुभावादित्यर्थः)। एतेन विषयित्वं विषयित्वमित्यपि व्याख्यातम्। तदुभयोरप्येकपदार्थत्वात्। स च विलक्षणतासम्बन्धेनात्र विषयित्वम्। इदं विषय इति व्यवहारात्। विलक्षणविशेषणतया चात्र विषयित्वमिदं विषयीत्यादिव्यवहारादित्याहुरिति मतमित्यर्थः। निरस्यतीति। गुणे एनमन्तर्भाव्यातिरिक्तत्वं निषेधतीत्यर्थः। प्रतियोगित्वादीति। आदिना विषयत्वनिरूपकत्वादि सङ्ग्रहः। यथेष्टेतीति। स्वकीयधननिष्ठोगुणविशेष इति भावः।प्रयोजकत्वं चेत्यर्थ इति। प्रतिग्रहादिलब्धत्वमिति परेणाभेदेनान्वयः। इत्यादिकमिति। एवं विषयता विषयस्वरूपा ज्ञानस्वरूपा वेत्यादुकमित्यर्थः। ऊहनीयमिति। वितार्कितव्यमित्यर्थः। मूलस्य न्यूनतामिति। विधिपदार्थनिरूपणप्रयुक्तां सङ्ग्रहस्य न्यूनतामित्यर्थः। तन्निरूपणं प्रतिजानीत इति। विधिसम्बन्धिलक्षणस्वरूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगविषयकप्रतिज्ञाश्रयो मूलकार इति बोधः। स्वपरमतसाधारणमिति। नैयायिकमीमांसकोभयमतसाधारणमित्यर्थः। तन्मत इति। मीमांसकमतइत्यर्थः। तन्मते तावन्मात्रतथाविधज्ञानस्य तत्त्वेऽनिष्टसाधनेऽपि विषादौ तत्सत्त्वेन विधित्वापत्तेः। कृतिसाध्यत्वविशिष्टेष्टसाधनताज्ञानस्य तत्त्वं नैयायिकैरभ्युपगतं तन्निवृत्तये इष्टसाधनत्वज्ञानमात्रस्य तत्त्वे “आत्मा वारे द्रष्टव्य” इतीयताऽऽत्मदर्शने इष्टसाधनत्वे बोधिते विधित्वाद्याग इवापूर्वविधेयत्वापत्तिः। आत्मज्ञानस्य तु नापूर्वविधेयत्वं स्वप्रकाशत्वेन सर्वदाऽवस्थितेस्तदावरणभङ्गमात्रस्यैव विधेयत्वेन तव्यदुपपत्तिरित्याहुः(1-लिङ्लोट्तव्यतां लिङ्र्थे लेटश्च विधिवाक्यलिङ्गताऽध्वरमीमांसकैरुक्ता।)। अभिधायकस्येति। विधिनिमन्त्रणामन्त्रणेत्यनुशासनविहितस्य विध्यर्थाभिधायकस्य लिङादेरेत्यर्थः। तादृशज्ञानविषय इति। प्रयत्नजनकचिकीर्षाजनकज्ञानविषय इत्यर्थः। कार्यत्वादिप्रतिपादिकेति। कृतिसाध्यत्वेष्टसाधनत्वप्रतिपादिकेत्यर्थः। वाकारोऽनस्थायामिति। विध्यर्थके लिङिति प्रामाणिकव्यवहारादिति भावः। कृत्यसाध्यत्वेनावगत इत्यर्थ इति। यथाश्रुते स्वरूपतः कृत्यसाध्ये भ्रमात्कृतिसाध्यत्वेन प्रवृत्तेर्दर्शनात्तत्त्वेनावगत इत्यर्थ इति। नन्ववगमस्य भ्रमात्मकस्यापि सम्भवात् कृतिसाध्येऽपि कृत्यसाध्यत्वेनावगमविषयत्वादप्रवृत्त्यापत्तिरिति चेन्न। यथार्थत्वेन विशेषणीयत्वात्। चिकीर्षाद्वारेति। जानाति इच्छति यतते इति क्रमानुरोधादिति भावः। यदभावो यदभावप्रयोजकस्तदभावाभावस्तदभावाभावकारणमिति न्यायेन प्रकृते कृत्यसाध्यत्वज्ञानस्य प्रवृत्त्यभावप्रयोजकत्वात्तदभाव एव प्रवृत्तिकारणमस्त्वित्यभिप्रायेणाशङ्कते–नचेति। तत्त्व इति। प्रवर्तकस्य इत्यर्थः। गौरवादिति। कारणतावच्छेदकशरीरस्य गुरुत्वादित्यर्थः। तत्तव्द्याप्यादिदर्शनानामिति। तत्तदभावव्याप्यवत्ताज्ञानानामित्यर्थः।अयमिति। (?)गादेः पक्षनिर्देशः
इष्टसाधनत्वमात्रस्य हेतुत्वे आत्मसाक्षात्कारे मोक्षे इष्टसाधनत्वसत्त्वात्कृतिसाध्यत्वापत्तिरतः सत्यन्तं बोध्यम्। शुचिजीवित्वमिति। शुचिर्भूत्वाऽऽत्मवत्त्वमित्यर्थः। अहमेतत्कालिकशुचिमान् इति ज्ञानवत एव
मत्कृतिसाध्यताज्ञानविषयत्वेन सन्ध्यावन्दनादौ प्रवृत्तेः शिष्टानां दृष्टत्वादिति भावः। निमित्तज्ञानाधीनस्येति। कृत्यसाध्यताज्ञानस्येत्यनेनान्वयः। कृत्यसाध्यत्वज्ञानस्येति। सन्ध्यावन्दनादिनिष्ठत्वेति बोध्यम। कामनादिरिति।आदिना ज्ञानमात्रसङ्ग्रहः। तद्वत्तायाः कामनादिमत्तायाः। विषयतासम्बन्धेन कामना यस्मिन्स कामनावान् तस्य भावः इत्यर्थकतया तत्सम्म्बन्धबोधात्स च स्वविषयेत्यादिरूप इत्याह—स्वविषयसाधनत्वादिरूपस्येति। कामनाविषयस्वर्गसाधनत्वादिरूपस्येत्यर्थः। तत्सम्म्बन्धस्येति। स्वर्गसम्बन्धस्येत्यर्थः। तज्जन्यत्वेस्यर्थ इति। षष्टीतत्पुरुष इति भावः। जन्यत्वादिघटितत्वादिति। जन्यत्वविशिष्टज्ञानत्वादिघटितत्वादित्यर्थः। विषसम्पृक्तभोजनादाविति। आदिना पानपरिग्रहः। मुमुक्षोर्बलवदनिष्ठाद्यनुबन्धीष्टसाधनत्वस्यैव विषभक्षणादौ सत्त्वात्प्रवृत्त्युपपत्तिः। क्वचित्कार्ये उत्कटरागेणेष्टसाधनत्वमात्रमादाय बलवदनिष्ठानुबन्धित्वेऽपि प्रवृत्तिर्वाच्या। अत एव युधि वीराणां, परयोषिति जाराणां, च प्रवृत्तिः। श्रूयते च, “भवत्कृते स्वञ्जनमञ्जुलाक्षि शिरो मदीयं यदि याति यातु। नीतानि नाशं जनकात्मजायै दशाननेनापि दशाननानि” इति। प्राचां मतेनेति। प्राचां मताभिप्रायेणेत्यर्थः। कृतिसाध्यत्वादिज्ञानानामिति। कृतिसाध्यत्वज्ञानमिष्टसाधनत्वज्ञानं बलवदनिष्ठानुबन्धित्वज्ञानमेषामित्यर्थः। प्रवृत्तिरित्यर्थ इति। प्रयत्नस्य केवलेच्छाजन्यत्वमात्रेण मूलन्यूनतापरिहारायैवंविधार्थकरणमिति बोध्यम्। तस्य चेति। प्रत्यवायप्रागभावस्य चेत्यर्थः। दुःखजनकाभावतयेति। प्रत्यवायोत्पत्तेर्दुःखजनकतया तत्प्रागभावस्य दुःखभावजनकत्वमित्यभिप्रायः। तन्नाशस्येति। प्रत्यवायनाशस्येत्यर्थः। यत्सत्त्वे यतस्त्त्वमिति। सन्ध्यावन्दनसत्त्वे प्रत्यवायप्रागभावसत्त्वमिति बोध्यम्। तत्रेति। प्रत्यवायप्रागभावे इत्यर्थः। कार्य एव शक्तिरिति। अपूर्वरूपकार्य एव शक्तिरित्यर्थः। इच्छाविशेषरूपस्येति। यागस्येति शेषः। अयोग्यत्वादिति। कारणस्य कार्याव्यवहितप्राक्क्षणवृत्तित्वनियमात्तदभावात्तदभाव इति भावः। अपूर्वरूपकार्य एवेति। व्यापाररूप इत्यादिः। फलपर्यन्तं स्थायीति। स्वर्गोत्पत्तिफलपर्यन्तं स्थितिमदित्यर्थः। नियोज्यशब्दार्थमाह–इदमित्यादिना। तदेकदेश इति। स्वर्गकामैकदेशे स्वर्ग इत्यर्थः। वाक्यार्थबोध इति। प्रथमान्तमुख्यविशेष्यकवाक्यार्थबोध इत्यर्थः। पूर्वमनुपस्थितत्वादिति। शब्दबोधात्पूर्वमुपस्थितिविषयत्वाभावादित्यर्थः। तन्मत इति। अपूर्वस्य शाब्दबोधे भानाङ्गीकर्तृमीमांसकमत इत्यर्थः। तद्धर्मावच्छिन्नविषयकशब्दबोधं प्रतीति। कार्यत्वरूपधर्मावच्छिन्नकार्यविषयकशाब्दबुद्धित्वावच्छिन्नं प्रतीत्यर्थः। तादृशोपस्थितेश्चेति। तद्धर्मावच्छिन्नोपस्थितेश्चेत्यर्थः। न तु समानविषयकत्वेनेति। यद्धर्मावच्छिन्नत्वेन यद्रूपविषयकशाब्दबोधस्तं प्रति तद्धर्मावच्छिन्नत्वेन तद्रूपावच्छिन्नशक्तिग्रहोपस्थितेर्न हेतुहेतुमद्ग्राव इत्यर्थः। फलितमाह–एवञ्चेति। यत्र कुत्रचिदिति। यागविषये शिष्टप्रतिपत्तिरूपकार्ये इत्यर्थः। यत्तु घटादिरूपे कार्ये इति। तदसत्। प्रत्यासत्त्या यागविषयकार्यस्य एवेत्यर्थसामञ्जस्यात्। शक्तिग्रह इति। ईदृशार्थस्यैवोपस्थितिरित्यप्यूह्यम्। योग्यताबलाञ्चेत्यादि। फलपर्यन्तावस्थायिनोऽपूर्वस्यैव यागविषयकार्यस्य शाब्दविषयत्वमितरस्य यागविषयत्वेऽपि स्वर्गोत्पादकत्वाभावान्न तदिति समुदिततात्पर्यार्थः। ज्योतिष्टोमेनेत्यादिवाक्यघटकालिङोऽपूर्वबोधकत्वं स्वर्गरूपफलश्रुतेस्तदुत्पत्त्यन्यथानुपपत्त्या युक्तं यावज्जीवमग्निहोत्रं जुहुयादिति वाक्यघटकालिङः फलश्रुतेरहरहरित्यादिवदस्याप्याधानबोधकस्य नित्यत्वादयुक्तं तद्वोधकत्वमित्यर्थकत्वेनाशङ्कते–नन्वित्यादिना। वस्तुतस्तु ज्योतिष्टोमस्यादि नित्यत्वमेव अहरहरितिवद्वसन्ते वसन्ते ज्योतिषा यजेतेति वीप्सावचनात्। एवं च नित्यत्वं न दुरितक्षयान्यफलकत्वं किन्त्वकरणप्रत्यवायवत्वम्। तथाच श्रुतिः—“आतृतीयात्सोमं न पिबतीन्द्राग्नी एव स्वेन भावधेयेनोपधावती"त्यकरणप्रायश्चित्तोक्तेः। आतृतीयादित्युक्त्या द्वितीयपुरुषस्यतदकरणेऽपि न प्रत्यवायभाक्त्वं, पूर्वेण कृतेन कृतत्वात्। इह नित्येति विशेषोपादानं तु स्वर्गरूपकाम्यफाफलकत्वमात्रेण यथाकथञ्चिदुक्तमिति मीमांसायां अधिकजिज्ञासुभिर्मीमांसा विधेयेत्यलम्। पण्डापूर्वमित्यर्थ इति। पापनाशजनकपूर्वमित्यर्थः।(१)-“पडि नाशने” (चु. प.)इत्यस्मादच्चकर्तरि।.) धात्वर्थनिष्ठकार्यत्व इत्यर्थमिति। प्रकृतधात्वर्थनिष्ठं यत्कृतिसाध्येष्ठसाधनत्वरूपकार्यत्वमित्यर्थः। कार्यत्व इति। धात्वर्थनिष्ठकार्यत्व इत्यर्थः। आदावेवेति। आदिना सङ्ख्यापरिग्रहः। लिङादेरिति। आदिना लिङादिपरिग्रहः। संशयसत्त्वेऽपीति। अपिनाअयोग्यतानिश्चयसमुच्चयः। अविघटकत्वादिति। स्वर्गसाधनत्वाविघटकत्वादित्यर्थः। बोधो भवत्येवेति। तत्साधनत्वेन बोधो भवत्येवेत्यर्थः। यागध्वंसस्यैव व्यापारत्वमस्त्विति। प्रतियोगिसत्त्वविधयायागजन्यत्वे सति यागजन्यस्वर्गजनकत्वं, यागध्वंसोत्तरमेव
स्वर्गोत्पत्तेर्ध्वंसस्य तत्त्वमावेदितव्यम्। कीर्तनादिनेतीति। तथाच ध्वंसो न यागजन्यः कीर्तनादिजन्यत्वाव्द्यापारत्वेन ध्वंसे न सेत्स्यतीति भावः। क्षरति कीर्तनादिति। भारते अनुनिष्ठतात्यन्तानेकपुण्यवान् ययातिर्नाम राजा प्रेत्य दिव्यशरीरं प्राप्य पुण्यवशाद्देवराजार्धासने उपविष्टस्तदा देवराजेन बहुमानपुरस्सरं पूर्वाचरितं पृष्टस्तदा सर्वं निजगाद। तदैव भुवि पातयामासुस्तं देवाः धर्मक्षतेरिति प्रसिद्धमिति बोध्यम्। ध्वंसस्य व्यापारत्वे इति। उक्तरीत्या यागजन्यत्वादिकमादाय तत्त्वोपपादने इत्यर्थः। स्वर्गधारापत्तिरिति। तत्तद्यागध्वंसधाराजन्यत्वेन स्वर्गधारापत्तिरिति भावः। यो यत्र प्रवर्तत इति। अनेनानिष्टसाधने प्रवर्तमानोऽपि इष्टसाधनत्वेऽनैव तज्जानातीति फलितमिति बोध्यम्। यदृच्छयेति। स्वभावेनेत्यर्थः। क्रियायामेवेति। पचिक्रियायामेवेत्यर्थः। तच्चेति। आख्यातत्वं चेत्यर्थः। सङ्केतसम्बन्धेनेत्यादि। पाणिनीयेत्यादिः। तिप्त्वादिकमेवेति। तत्तत्तिबादिभिरेव प्रयत्नबोधादिति भावः। जिज्ञासितसम्बन्धबोधकमिति। कृतिः कीदृशक्रियासम्बन्धनीति बोधकमित्यर्थः। तन्निवर्तकत्वमिति। प्रश्ननिवर्तकत्वमित्यर्थः। नान्यथेति। अन्यथा कर्णे पृष्टे कटिं चालयतीतिन्यायेन निग्रहस्थानित्वमुत्तरकर्तृरापद्येतेति भावः। कृतिबोधकत्वासम्भवादिति। कृतेश्चेतनधर्मत्वादसम्भव इति भावः। गमनं च भ्रमिः। तदनुकूलव्यापारश्चावान्तरो रथावयवनिष्ठो बोध्यः। नव्या इति। नव्यशिरोमणय इत्यर्थः। गच्छतीत्यत्रेति। रथो गच्छतीत्यत्रेत्यर्थः। जानात्यादाविवेति। आदिना इच्छतिसङ्ग्रहः। आश्रयत्वे इति। ज्ञानेच्छानन्तरमेव कृतेरुत्पत्तेर्ज्ञानेच्छयोरनुकूलतासम्बन्धेन कृतावन्यस्य बाधितत्वादिति भावः। तत्रेत्यादि। तथाचेत्यादिः। अत एव तण्डुलं पचतीत्यादौ तण्डुलरूपनामार्थस्य कर्मतासम्बन्धेन पाकेऽन्वयासम्भवात्कर्मणि द्वितीयाविभक्तेः शक्तिरङ्गीकृतेति ध्येयम्। स्तोकं पचतीत्यादाविति। आदिना सुष्ठु पचतीत्यादिसङ्ग्रहः। स्तोकशब्दोऽल्पपर्यायः। तथाच ओदनकर्मकस्तोकाभिन्नपाकानुकूलकृतिमांश्चैत्र इति बोधः। कर्त्रादाविति। आदिना कर्मसङ्ग्रहः। अनन्तकृत्यादेरिति। तत्तदात्मसमवेतकृतीनां
तत्तव्द्यापारजन्यफलानां चानन्त्याच्छक्यतावच्छेदकानन्त्यप्रयुक्तं गौरवं वैयाकरणमते दुर्वारमिति भावः। कृत्यादौ शक्तिस्वीकारे त्विति। कर्तृकर्मवदनयोर्लक्षणया कर्तृत्वकर्मत्वपरत्वेन कर्तृत्वं कृतिः क्रमत्वं फलं तयोः “लः कर्मणि च” इति शास्त्रेण भिन्नशक्तिस्वीकारे त्वित्यर्थः। कृतित्वादिजातेरिति। जातेरेकत्वान्न शक्यतावच्छेदकानन्त्यप्रयुक्तगौरवमस्मन्मते इति भावः। परमतेनेति। मीमांसकमतेनेत्यर्थः। स्वमतेत्विति। नैयायिकमते त्वित्यर्थः। कर्तृकर्मोभयप्रत्यसमभिव्याहारे प्रथमान्तमुख्यविशेष्यक एव बोधोऽभिमतो नैयायिकानामिति बोधयितुं स्पष्टप्रतिपत्तये तदुभयबोधं दर्शयति–देवदत्तेत्यादिना। अनभिधानादिति। “अनभिहिते” इत्यधिकृत्याख्यातेन कर्तृकर्मणोरनभिधाने “कर्तृकरणयोस्तृतीया” “कर्मणि द्वितीयेति” तृतीयाद्वितीययोर्विधानादित्यर्थः। अदोषादिति। कर्तृत्वकर्मत्वयोरभिधानादिति भावः। वाचकत्वमतं निरस्यतीति। प्रादीनां वाचकत्वमिति केषाञ्चिन्मतं निषेधतीत्यर्थः। वैयाकरणानां तु द्योतकत्वात्। इतरनिपातानां वाचकत्वमिति। निर्णितं चेदमस्माभिरादावेवाखिलमाकलनीयम्। बहुतरमूहनीयमिति। एवकोरो हि त्रिविधः-विशेषणसङ्गतो विशेष्यसङ्गतः क्रियासङ्गतश्चेति। विशेषणसङ्गतः शङ्खः पाण्डुर एवेत्यादौ । विशेष्यसङ्गतः पार्थ एव धनुर्धर इत्यादौ। क्रियासङ्गतश्च नीलं सरोजं भवत्येवेत्यादौ। विशेषणसङ्गतैवकारस्यायोगव्यवच्छेदोऽर्थः। विशेष्यसङ्गतैवकारस्यान्ययोगव्यवच्छेदोऽर्थः। क्रियासङ्गतैवकारस्यात्यन्तायोगव्यवच्छेदोऽर्थः। तथा चेत्थं बोधः। पाण्डुरत्वायोगव्यवच्छेदवान् शङ्क इति। पार्थान्ययोगव्यवच्छेदवान्धनुर्धर इति। अन्वयितावच्छेदकं सरोजत्वं सामानाधिकरण्येन नीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदवदित्यादिकमधिकतरं तर्कितव्यमित्यर्थः। बुद्धिकुशलैरिति शेषः। “नान्यः पन्था विद्यतेऽयनाय” ज्ञानादेव तु कैवल्य"मित्यादिभिर्ज्ञानस्यैव सर्वपरमोपादेयमोक्षसाधनत्वश्रुतेस्तत्साधकत्वे कथिते प्रेक्षावतां प्रवृत्तिरनायाससाध्येत्यालोच्यभिहितं पदार्थेत्यादिमूले। तदवतारयति—प्रेक्षावदित्यादिना। सकलकामनाविषयेति। सकलानां विवेकिनां संसारोद्दिधीर्षया इच्छाविषय इत्यर्थः। मुक्तिप्रयोजनकतामिति। मुक्तिः प्रयोजनं यस्य स मुक्तिप्रयोजनकः तस्य
भावः मुक्तिप्रयोजनकता तां परम्परया आत्मा इतरभिन्न इत्यात्मसाक्षात्कारे इतरज्ञानसम्पादनेन मुक्तिप्रयोजनप्रयोजकतामित्यर्थः। पदार्थतत्त्वज्ञानस्येत्यर्थ इति। “पदार्थतत्त्वज्ञानानिःश्रेयसाधिगम” इति गौतमीयादिति भावः। परमेतीति। मुख्यमित्यर्थः। तदननुसन्धानवतां मध्यमाधिकरणं शास्त्रव्युत्पत्तिप्रयोजनमात्रफलद्वारा सभायां वादिविजयार्थप्राप्तिफलस्य गौणस्य शास्त्रप्रयोजनस्य लोकप्रसिद्धत्वतात्पर्येणोत्तमाधिकारिणामपि प्रवृत्तये तदुक्तमिति भावः। तदेवोक्तम्–“अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणं च विद्या ह्येतश्चतुर्दशः॥|. आयुर्वेदो धनुर्वेदो गान्धर्व चेति ते त्रयः। अर्थशास्त्रं च विज्ञेयं विद्या ह्यष्टादशैव च॥2॥ विद्यामान्वीक्षकीमाह मुनिः श्रीगौतमो महान्। उद्दिधीर्षुर्जगत्पङ्कात्संसाराद्दुःखस्वरूपिणः॥3।।अभ्यर्हिततमामेनां परमकारुणिकश्च सः। प्रकारोदपवर्गस्य हेतोर्ज्ञानैकसिद्धये॥ 4॥ दृष्टादृष्टे फले दृष्टं माध्यमिकैकभाक्। अदृष्टमधिकारित्वं भजतीति व्यवस्थितिः॥5॥“इति। अस्यायमाशयः। परमप्रयोजनीभूतनिःश्रेयसस्वरूपफलप्रयोजकत्वेनान्वीक्षिक्याः अभ्यर्हिततमत्वमन्यासां त्वधितृकरणपरम्परेत्यत एव तत्कर्तुर्दुःखपङ्कसंसारादुद्दीधीर्षुत्वमात्यन्तिकदुःखनिवृत्तिफलसाधकोपदेशनेन परमकारुणिकत्वं च, दृष्टमात्रफलोपदेशकत्वे प्रकृष्टफलोद्देशेन प्रवर्तमानानां विवेकिनां प्रवृत्तिर्न स्यादित्यदृष्टापवर्गफलोपदेशकत्वं, परञ्चोक्तरूपम्, दृष्टमदृष्टमधिकारित्वमधिकारिविशेषधर्म भजत्यपेक्षत इति। तथाहि–अत्र चाधिकारिणो विवेकिनो येऽस्मिन्संसारापारकान्तारे कियन्ति दुःखदुर्दिनानि कियती वा सुखदुःखद्योतिका इति कुपितफणिफणामण्डलच्छायाप्रतिममिदमिति मन्यमानाः सुखमुपहातुमिच्छन्ति ते। अपवर्गश्चेहैकविंशतिदुःखध्वंसः। न तु तत्प्रागभावः। (१-एकविंशतिदुःखमध्ये सुखस्यापि परिगणनात्सुखध्वंसोऽप्यपवर्ग इति॥) सुखविरोधितया न पुरुषार्थत्वसम्भव इति वाच्यम्। सुखाभावनियतत्वेऽप्यात्यन्तिकविशेषितेन दुःखभावत्वेन प्रवृत्त्युपदेशोत्पत्तेः। नच दुःखाभावस्य सुखानियतत्वेन मुनेस्तत्प्रणयनं विषं भुङ्क्ष्वेतिवद्द्वेष्यं स्यादिति वाच्यम्। परमकारुणिकस्य गोतममहामुनेस्तथाविधप्रवर्तकप्रणयनासम्भवात्। दुःखोपश्लिष्ट एव सुखे दुरितनिचयमलमलिनान्तःकरणवतां रागिणां प्रवृत्तेस्तदभावे द्वेषोदये देवैरपि दुष्परिहार्य एवात एव “शिरो मदीयं यदि याति यातु” इत्यतिशयानुरागवशात्परकामिनीघनजघनसङ्गुप्तापानोद्गारधूपितद्विधाभिन्नस्रवन्मूत्रक्लिन्ने मांसखण्डे मक्षिका इव लुब्धमनस्कानामपवर्गवार्ता करणकठोरायमानैवेति कस्तत्प्राप्तौ यत्न इति विद्वांसो विदाङ्कुर्वन्तु। ननु दुःखाभावस्य सुखानियतत्वोक्तिरनुपपन्ना, दुःखाभावस्य सुख एव तात्पर्यावसानाद्यथा कश्चन वाहकः भारमुदूह्य परिश्रान्तः कश्चिद्देशे भारं निःक्षिप्य “सुखी संवृत्तोऽहमि"त्याह तथा। यत इति चेन्न। सुखस्यैकविंशतिदुःखेषु परिगणनात्। सुखशब्दस्य दुःखनियतसुखे वैषयिके एव शक्तेः। दुःखध्वंसे चात्यन्तिकत्वविशेषणात्। तत्त्वं च स्वसमानाधिकरणदुःखासमानकालीनत्वम्। अनेन स्वर्गेऽपि पातभयानुविद्धतया क्षयितया च न विवेकिनामुत्कटो रागः। वसिष्ठादीनां तु परम्परया लोकानां सन्मार्गप्रवृत्तिबोधनायैवेत्यादिस्पष्टमस्मदीयराधामाधवविलासाख्यप्रबन्धे। अत्र च तत्त्वज्ञानाददृष्टनाशोऽदृष्टनाशात्सुखदुःखाद्येकविंशतिदुःखध्वंसरूपो मोक्षो, नाविद्यानाशादविद्याकार्यान्तःकरणविशेषबुद्धिनाशः, बुद्धियत्त्वस्यानादित्वेन विनाशानुपपत्तेः। अनादिभूतप्रागभावस्येव नाशाभ्युपगमे योगिनां बुद्धिसत्त्वेऽपि तत्त्वज्ञानेनादृष्टनाशात्सुखदुःखाद्यनुत्पत्तिरूपबाधः। अविद्या न पदार्थान्तरं, मानाभावात् किन्त्वदृष्टमेव तत्त्वज्ञानरूपविद्याविरोधितया अविद्येत्युच्यते इति सिद्धान्तः। एतेनान्तःकरणोपाधेस्तत्त्वज्ञानानाश्यत्वान्मोक्षदशायां तदुपाधिकजीवात्मभावः सुस्थिर एवेति नैयायिकाः मेदवादिन इति मन्यन्ते।(१-अन्ये दार्शनिकाः।) अत एव “निरञ्जनः परमं साम्यमुपैतीति” श्रुतिः स्तौति, साम्यं ब्रह्मसाम्यमात्यन्तिकदुःखाभावत्वेनेति। नच देहरूपदुःखसत्त्वात्कथं जीवन्मुक्तित्र्यवस्थेति वाच्यम्। “अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत” इति श्रुतेः। अशरीरमित्यस्य शरीराभिमानवर्जमित्यर्थः। अत्र च “दुःखजन्मप्रवृत्तिदोषमित्थ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग” इति सूत्रमेव गमकम्। ज्ञानाग्निः सर्वकर्मणि भस्मसात्कुरुतेऽर्जुनेति गीतावचनेऽपि कर्मपदमदृष्टपरमेव। अदृष्टं सदव्द्यापारजन्यं पुण्यापुण्यरूपमेव।
तद्वैचित्र्याज्जगद्वैचित्र्यं, तद्वैचित्र्यमपि सदसत्क्रियावैचित्र्यात्तद्वैचित्र्यं तदन्तःकरणवृत्तिवैचित्र्यात्तद्वैचित्र्यं पूर्वपूर्वसंस्कारवैचित्र्यादित्यनादित्वं संसारस्येत्यनादिभूतसंसारादुःखदहनाय विवेकिर्भिर्ज्ञानमेवाभ्यस्यमित्याह–मुमुक्षोरात्मदर्शनमिष्टसाधनमिति। तेनेति। श्रवणादीनामात्मदर्शनोपायत्वेनेत्यर्थः। आत्मश्रवणं च श्रुतिभिरेव साक्षात्कारहेतुः। “श्रोतव्यः श्रुतिवाक्येभ्यः” इत्याद्युक्तेः। पुराणादिना तच्छ्रवणे आत्मस्वरूपं परोक्षकल्पविषयमेवावतिष्ठते नत्वपरोक्षं, भाषाप्रबन्धादिश्रवणे तु द्विजातीनां निषेध एव। “न म्लेच्छितवै नापभाषित म्लेच्छो ह वा एष यदपशब्द” इत्यपशब्दभाषणस्यैव निन्द्यत्वात्। इत्यादीति। आदिना यथा काचिद्गोपी दैवाद्रहसि सङ्गता श्रीकृष्णसङ्केतवाक्यमाह–“कुरुष्व रतिपाण्डित्यं सकामां जेतुमर्हसि। इह सख्यः प्रपश्यन्ति निकुञ्जं याहि सत्वर” मित्यादि बोध्यम्। अप्रमाण्यज्ञाननिवृत्तेरिति। देहेन्द्रियादिविलक्षणात्मनि श्रुतेः प्रामाण्यग्राहकत्वादिति शेषः। नन्वहं तिष्ठामि गच्छामीत्याद्यहमिति पण्डितपामरसाधारणप्रात्यक्षिकप्रतीतिगोचरसिद्धस्यात्मसाक्षात्कारस्य सिद्धये का श्रवणाद्याकाङ्क्षा हस्तकङ्कणस्यादर्शाकाङ्क्षातुल्यत्वादिति चेन्न। देहेन्द्रियादिषु तद्विषयत्वभ्रान्तस्य भ्रान्तिनिवृत्तये श्रुतेरेवापेक्षणीयत्वात्। नहि श्रवणमात्रेणार्थसिद्धिरित्यत आह–युक्तयनुसन्धानेतीति। तदर्थमिति। इतरभेदप्रतियोगीतरज्ञानार्थमित्यर्थः। सकलपदार्थनिरूपणमिति। द्रव्यादिनिखिलपदार्थनिरूपणमित्यर्थः। नैरन्तर्येणेत्यादि। अत्र च मानं “आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तये"ति वचनम्। प्रत्याहृत्येति। निवर्त्येत्यर्थः। मनःप्रणिधानमिति। तदाकारान्तःकरणवृत्त्या भक्तिविशेषकरणमित्यर्थः। तदुक्तं पतञ्जलिना “ईश्वरप्रणिधानाद्वे"ति। प्रणिधानाद् भक्तिविशेषादभिध्यानादीश्वरस्तमभिध्यायन्तमनुगृह्णाति सगुणं वा निर्गुणं तदा समाधिफलं चित्तैकाम्यमधिगच्छति योगजमिति तदर्थः। योगस्य चित्तवृत्तिनिरोधद्वारा ईश्वरप्रणिधानफलकत्वादित्याद्यधिकं बोध्यमन्यत्र। मिथ्याज्ञाननाशादिति। ईश्वरानुग्रहादेव “पुंसामद्वैतवासने"त्युक्तेस्तादृशप्रणिधानादुत्पन्नेश्वरानुग्रहेण द्वैतरूपप्रातिभासिकमिथ्याज्ञानध्वंसे सतीत्यर्थः। अविद्यायाः द्वे शक्ती–विक्षेपशक्तिः, आवरणशक्तिश्च विपरीतार्थग्राहिका शक्तराद्या। यथा जगद्गतायाः ब्रह्मसत्तानतिरेकेऽप्यतिरिक्तसत्तात्वेन भासिका। वास्तविकार्थाच्छादनार्थिका शक्तिर्द्वितीया। यथा जगतः ब्रह्मणि कल्पितत्वेन कल्पितस्य कल्पनाधिष्ठानानतिरिक्तत्वेन ब्रह्मस्वरूपत्वेऽपि तदच्छादनाद्धटादिरूपेण व्यवहारः इत्यावरणशक्तिनाशेन सर्वत्र ब्रह्मबुद्धावपि विक्षेपशक्तेरनिवृत्त्या घटोऽस्ति पटोऽस्ति इत्यादिव्यवहारस्य पामरस्येव तत्त्वाज्ञानवतामप्यनुभवसिद्धतया तद्विषयवासनोदयात्कथं तदुत्तरं रागादिरूपदोषाभावः, रागादिकं प्रति वासनायाः हेतुत्वादित्यालोच्य विक्षेपशक्तिसहितावरणशक्तिनिवृत्तिरेव रागादिनिवृत्तिहेतुद्वारा दुःखनिवृत्तिरूपमोक्षहेतुरित्यभिप्रायेणाह–वासनासहितमिथ्याज्ञाननाशे इति। एवकारेणेत्यादि। इदं ज्ञानमेव मोक्षसाधनमिति मूलपाठाभिप्रायेण। क्वचित्पुस्तकेषु ज्ञानं मोक्षसाधनमेवेति पाठोऽपि दृश्यते तत्पाठे एवकारस्य मोक्षसाधनपदोत्तरवृत्तित्वान्मोक्षेतरसाधनव्यवच्छेद उचित इति कथं करमणो व्यवच्छेद इत्युक्तिः साध्वीति चेदाहुस्तत्त्वविदः। एवकारोऽत्र भिन्नक्रमः। तथाच ज्ञानपदोत्तरमेव सम्बन्धः। ज्ञानमेव मोक्षसाधनमित्येवं च कर्मव्यवच्छेदोक्त्या व्याख्यानं निर्दुष्टपथिकमेवेति। विशेषदर्शनेनैवेति। नीलपृष्टत्वादिरूपविशेषदर्शनज्ञानेनैवेति भावः। कनककान्तादिविषयेऽपीत्यर्थः। इत्यादस्मृतेश्चेति। आदिना “नहि ज्ञानेन सदृशं पवित्र"मित्यादिसङ्ग्रहः। निष्कामनयेति। ऐहिकामुष्मिककामवर्जितयेत्यर्थः। भगवत्प्रीत्यर्थै कृतैरिति। ननु ज्योतिष्ठोमादिभिः कर्मभिरस्तु भगवतः प्रीतिर्हविरादिभोगद्वारा, सन्ध्यावन्दनादिभिः का प्रीतिः प्रीत्युत्पादकद्रव्यत्यागाभावादिति चेदत्र वदन्ति। “सन्ध्यायां गायत्राभिमन्त्रिता अप ऊर्ध्वं विक्षीपती"त्यादिश्रुत्या मन्देहारुणीनामकान् राक्षसान् सन्ध्ययोरनुदितं योद्धुकाममान्सूर्यं प्रति ब्राह्मणैः गायत्र्या अभिमन्त्र्य प्रत्यक्षे कृते ता अपः वज्रीभूत्वा तान् द्वीपान्तरे प्रक्षिपन्तीति सिद्धम्। तेन सन्ध्यावन्दनस्य भगवच्छत्रुपराजयसम्पादनद्वारा प्रीत्युत्पादकत्वमिति। संसारस्यानादिपरम्परासिद्धस्य मनसाप्यचिन्त्यरचनारूपस्य श्रुतिसिद्धार्थविषयस्य संशयो दोषायैवेति श्रुतिप्रामाण्यमुपगच्छद्भिर्यथार्थबुद्ध्या श्रद्धया च वचनात्प्रवृत्तिर्वचनान्निवृत्तिरिति न्यायेन श्रुतिसिद्धं सर्वमनुष्ठेयं ब्राह्मणैरिति निर्दुष्टः पन्थाः। नन्वेवमपि ममोपात्तदुरितक्षयद्वारेति सङ्कल्पे दुरितक्षयस्य कामनाविषयत्वान्निष्कामनया सन्ध्यावन्दनस्य करणमनुपपन्नमिति चेन्न। प्राधान्येन भगवत्प्रीतेरेवोद्देश्यत्वात्। दुरितक्षयरूपात्मशुद्धिरिति। आत्मशब्देनान्तःकरणं विवक्षितं
निःश्वासाभिहतदर्पणस्येव तेजःप्रकाशस्य अन्तःकरणस्य दुरितमलमलिनता तया सदसद्विवेकानुत्पत्तिः। तत्क्षये चूर्णसम्मार्जितदर्पणे स्वच्छमुखप्रतिबिम्ब इव सदसद्विवेकः स्वतःसिद्धः एवाविर्भवतीति भावः। तत इति। सदसद्विवेकान्तरमित्यर्थः। विषयेषु वैराग्यमिति। कनककान्तादिविषयेष्वसत्त्वबुध्द्या रागाभाव इति भावः। श्रवणादौ प्रवृत्तिरिति। विशेषरूपेण सदर्थनिर्णयार्थमिति भावः। श्रवणादिक्रमेणेति। श्रवणं सद्गुरोः श्रुतिभिरात्मनः शाब्दानुभवः दशमस्त्वमसीतिवदात्मापरोक्षानुभव इति यावत्। ततस्तस्यैव दृढीकरणाय युक्तिभिरनुचिन्तनाख्यं मननं, ततस्तस्यैव स्थिरीकरणायनैरन्तर्येणानुसन्धानरूपं निदिध्यासनमित्येवं क्रमेणेत्यर्थः। तत्त्वज्ञानोत्पत्ताविति। अबाधितात्मज्ञानोत्पत्तावित्यर्थः। पूर्वोक्तमिथ्याज्ञाननाशादिक्रमेणेति। वासनासहितमिथ्याज्ञाननाशः रागादिरूपदोषनाशस्ततः प्रवृत्तिनाश इति क्रमेणेत्यर्थः। मोक्षनिष्पत्तिरिति। दुःखध्वंसरूपमोक्षोत्पत्तिरित्यर्थः। अधिकमिहग्रन्थगौरवभिया न लिखितम्। अधिकजिज्ञासुभिरस्मदीयाऽस्माभिर्निमित्तायाऽभिनवा मणिदीधितिव्याख्या मणेर्या दीधितिरूपा व्याख्या तस्यामधिकमनुसन्धेयं न सर्वैः साधारणैर्नैयायिकैर्दुरूहविषयत्वादित्याह— तर्ककर्कशविचारचातुरीधुरीणैरिति। तर्के तर्कशास्त्रे कर्कशः कठिनतरः यो विचारः पूर्वपक्षोत्तरसन्दर्भस्तत्र या चातुरी चातुर्यमूहापोहरूपं तस्मिन्धुरीणैः समर्थैरित्यर्थः। ग्रन्थं परिसमाप्य कृतम् “यत्करोषि तदश्नासि यज्जुहोषि ददासि यत्। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्” इति भगवदुक्तेः स्वोपास्यश्रेष्ठतमाय चन्द्रचूडाय समर्पयन् स्वकीर्त्यनुवृत्तये ग्रन्थकृतिमत्त्वेन स्वनामग्रहणपूर्वकं पद्यं पठति—कौण्डिन्येति। कृतिम्। दीपिकाप्रकाशव्याख्यग्रन्थम्। एतस्मै। अत्यन्तसमीपवृत्तये (१-इदमस्तु सन्निकृष्टे समीपवर्ति चैतदो रूपम्। अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात्। इति महदुक्तेः॥)। यो वेद निहितं गुहायां परमे व्योमान् सोऽश्रुते सर्वान्कामान्सह इति श्रुतेरन्तर्हृदाकाशस्थितत्वेन तत्त्वं बोध्यम्। तथाज्ञानवत्त्वेनास्यात्यन्तोत्कर्षः सूचितो भवति। निखिलवेदशास्त्राध्ययनस्य तत्त्वज्ञानमेव मुख्यं फलमन्यथाध्ययनं शुष्केष्टिप्रायमेव, उक्तत्वं साक्षाच्छ्रुत्या–“ऋचोऽक्षरे परमे व्योमन् यस्मिन्देवा अधिविश्वे निषेदुः। यस्तन्न वेद किमृचा करष्यती"ति। चन्द्रचूडाय। तरुणेन्दुशेखराय परशिवाय। मङ्गलं कल्याणं यथास्यात्तथाऽऽर्पिपत् अर्पितवान्। अर्तेर्णिजन्तस्य लुङि आर्तिहीत्यादिना पुगागमे रूपं बोध्यम्। इतीति। एवमित्यर्थः। श्रीमदिति। इदं पाण्योपनामककौण्डिन्यवंशविशेषणं पाण्योपनामककौण्डिन्यवंशस्य वेदशास्त्राध्ययनसम्पन्नपरम्परागतत्वेन प्रसिद्धिर्लोके श्रीवत्त्वं बोध्यम्। नाम्नेऽपि व्यावर्तकन्नामोपनामेत्युच्यते तच्च क्वचिद्ग्रामनाम क्वचित्पौरुषेयम्। प्रकृते चेदं ग्रामनाम–पाण्येत्यान्ध्रदेशे अहोबलसन्निधौ स्थितेः। तास्थ्यात्तव्द्यवहारो यथा आन्ध्रा इत्यादि। आन्ध्रादिर्देशविशेषसञ्ज्ञेति प्रसिद्धम्। कौण्डिन्यवंशस्यानेकोपनामकत्वादितरव्यावृत्तये–उपात्तं, स एव पयःपारावारः क्षीरसमुदः तेन निर्दुष्टत्वं श्रीलक्ष्मीनृसिंहनिकेतनत्वं तादृशवंशस्य स्फुटम्। तस्य राकाचन्द्रायमणेः पौर्णिमापूर्णचन्द्रस्तेन स्वस्य पूर्णकलावत्त्वेन सर्वजगदाह्लादकत्वम्। तादृशस्याप्यस्मदीयवंशीयः सर्वलोकवन्द्यः इति बुद्धिकरत्वं च सिद्धम्। पदवाक्यप्रमाणानां पारावारीण इति षष्ठीतत्पुरुषः। पदशब्देन व्याकरणं, वाक्यशब्देन मीमांसा, प्रमाणशब्देन न्याय.शास्त्रमेषां पारावारीणः पारङ्गतः। “राष्ट्रावाराद्धखावि"तिसूत्रस्य “अवारपारादि"ति (राष्ट्रावारेतिसूत्रे अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यमि"ति वार्तिकेनेत्यर्थः।) वार्तिकेन साधु। तेन त्रिष्वनर्गलसामर्थ्यं सिद्धम्। श्रीरामभट्टतनूजः। सा हि श्रीरमृता सतामिति श्रुतिबोधितवेदत्रयीरूपश्रीसहितत्वमत्र विवक्षितम्। भट्टत्वं वेदशास्त्रार्थतत्त्वज्ञात्वम्। तादृशरामनामकस्य तनूजः सूनुः। तेनाननूचानपाण्डित्यं सिद्धम्। श्रीनीलकण्ठभट्टः। तथाविधश्रीसाहित्यविशिष्टस्तथाविधभट्टत्वविशिष्टश्च नीलकण्ठशर्मा ग्रन्थकारः। विदुषा। वेदवेदाङ्गनिखिलतन्त्रसिद्धान्तज्ञानजनितानेकग्रन्थसन्दर्भरचनाधायककल्पनाविशेषवता विरचितः निर्मितः तर्कसङ्ग्रहदीपिकाप्रकाशः।
तर्कसङ्ग्रहस्य व्याख्यानां दीपिका
तव्द्याख्यानं प्रकाशः
प्रकाशनामको ग्रन्थः समाप्तः
चरमवर्णध्वंसवान् इत्यर्थ इति शिवम्॥
नीलकण्ठप्रसादेन नीलकण्ठतनूद्भवः।
निर्माय प्रार्पयद्ग्रन्थं नीलकण्ठायमङ्गलम् ॥१॥
श्रीमत्पण्डितमण्डलीकुमुदिनीराकासुधादीधिते॥
पुत्रस्तस्य च नीलकण्ठविदुषो लक्ष्मीनृसिंहाभिधः॥
श्रीमत्तातविनिर्मितां कृतिमिमां व्याख्यातवान्मञ्जुलाम्
तेन स्यान्मुदितो हिमाचलसुतावामार्धदेहः शिवः॥२॥
श्रीदीपिकाप्रकाशस्य व्याख्यानं भास्करोदयम्।
शिवप्रेरितशेमुष्या प्राकरोद्विदुषां मुदे॥३॥
श्रीमद्दक्षिणामूर्तिप्रसादलब्धानवद्यनिखिलवेदशास्त्रामुखसर्वतन्त्रस्वतन्त्रस्यानल्पान्तेवासिपञ्चास्यजितदिङ्मण्डलवि
द्वद्गजविविधग्रन्थनिबन्धनपटुतरसिद्धान्तपारीणकुशलपण्ऽडितमण्डलविकचकुमुद्वतीकुमुदतीरमणायमानाद्वैतज्ञानामृतोद्गार
धारासम्पातनिरन्तरविडम्बितप्रावृषेण्यावारिवाहव्यूहमहामहोपाध्यायश्रीनीलकण्ठभट्टचरणकमलध्यानावलब्धसनम्तिक
तत्सूनुसूरिश्रीलक्ष्मीनृसिंहविरचिता तर्कसङ्ग्रहदीपिकाप्रकाशव्याख्या भास्करोदयाख्या श्रीनीलकण्ठस्य प्रीतये सम्बोभूयात्॥ शुभमस्तु॥
श्रीगुरोर्नीलकण्ठस्य चरणौ मूर्ध्नि धारयन्।
भूयात्सम्प्रार्थये सश्वव्द्याख्या मोदाय धीमताम् ।१।
मक्षिका मधुलोभेन पुष्पेभ्यो मधु पुष्कलम्।
कुर्वन्ति सञ्चयं स्वार्थं भुङ्क्ते भाग्यात्परो जनः॥२॥
मात्सर्यं तु समुत्सार्यं सान्तं स्वालोक्य सद्बुधाः।
दूष्यं चेद्दूष्यतां तावत्तुष्यतां वा न मे भिदा॥३॥
श्रीलश्रीमिथिलेशसत्कृतबलोदर्कप्रतिष्ठान्वित
श्रीमद्गोकुलनाथशर्मतनुजः श्रीमान् सनाथोऽभवत्।
यो विद्वानखिलं विनश्वरमिदं श्री १०६मत्परे ब्रह्मणि
विन्यस्याखिलभावमाशु विजहवार्थे ममत्वं दृढम्॥|
पुत्रा वेदमिताः परैरनमिताः सन्नीतिनिष्ठाविदः
तस्यासन् मिथिलेशलब्धविभवा दानप्रतिष्ठान्विताः।
तेषां च व्द्यनुजोनुजाञ्चितपदः श्रीमाञ्छिवाराधको
भोलानाथ इतीदृशीमलभताभिख्यां दयाख्यातिमान्॥2॥
तत्सूनुर्मिथिलामहीन्द्रतनुज–श्री५मद्गुणशोभिध-
प्रोद्यत्सद्यशसाश्रितः करमहावंशाम्बुधीन्दुर्महान्।
प्रह्लादं जनयन्प्रभोर्निजकृतौ दाक्ष्यं च सन्दर्शयन्।
श्री१०८मत्कृष्णपदाब्जसेवनपरः श्रीनन्दलालोऽभवत्॥3॥
तत्सूनुर्निजतातपादयुगलानुध्यानविध्मातधी-
र्व्याकृत्यादिविदग्रणीः समभवच्छ्रीमान्मुकुन्दः सुधीः।
सम्राडर्पितसत्प्रशस्तिक इमां श्रीनीलकण्ठात्मजै-
र्निर्मातुं प्रकृतां क्वचित्क्वचिदसम्पूर्णां समापूरयन्॥4॥
श्रीमद्वैक्रमवत्सरे नवशराङ्कक्ष्मा १९५९मिते माधवे
वारे देवगुरोरियं वदि तिथौ के 2 पूर्तिमापादिता।
एनामाकलयन्तु धीरधिषणा व्याख्यां तु चाशु स्फुटं
श्रीमत्पण्डितनीलकण्ठरचितां टीकां प्रकाशाभिधाम्॥5॥
________________
(१-वख् शीपदालङ्कृतः।)(2-श्रीमन्मिथिलामहीमहेन्द्रेण प्रतापसिंहमहाराजेनासन्ततिकेन पारितोषिकरूपेण प्रत्तं राज्यं स्वीकृत्य तद्वैमात्रेयभ्रात्रे पुण्यश्लोकाय माधवसिंहशर्मणो वर्तमानमहाराजाधिराजवृद्धप्रपितामहाय समार्पिपत्।