श्रीभारतीतीर्थवेदशास्त्रग्रन्थमाला - एकादशं कुसुमम्
॥ न्यायशेखरी ॥
अन्नम्भट्टविरचित तर्कसङ्ग्रहस्य अभिनवा व्याख्या व्यख्यातारः - कुणिगल् यज्ञनारायणशास्त्रिणः
अद्वैती परमार्थतः
सम्पादकः - विद्वान् नवीन होळ्ळः, शृङ्गगिरिः
श्रीशङ्कर अद्वैतशोधकेन्द्रम्
श्रीश्रीजगद्गुरुशङ्कराचार्य महासंस्थानम् दक्षिणाम्नाय श्रीशारदापीठम् शृङ्गगिरिः - ५७७१३९
श्रीभारतीतीर्थवेदशास्त्रग्रन्थमाला - एकादशं कुसुमम्
॥ श्रीशङ्कर अद्वैतशोधकेन्द्रम् ॥ श्रीश्रीजगद्गुरुशङ्कराचार्य महासंस्थानम् दक्षिणाम्नाय श्रीशारदापीठम्
शृङ्गगिरिः – ५७७१३९
Nyayashekhari A Commentary on Tarka Sangraha
प्रकाशनसमयः
विकृतिवत्सरीय भाद्रपदपूर्णिमा (२०१०)
प्रतयः
[[५००]]
सर्वेऽधिकाराः
स्वायत्तीकृताः
मूल्यम्
३० /-
प्राप्तिस्थानम्
श्रीश्रीजगद्गुरुशङ्कराचार्य महासंस्थानम्
दक्षिणाम्नाय श्रीशारदापीठम्, शृङ्गगिरिः
10000000000000000000000000000 0000 0000000
शृङ्गेरी श्रीशारदाम्बा
जगद्गुरु श्रीमच्छङ्करभगवत्पादाचार्याः
जगद्गुरु श्रीभारतीतीर्थमहास्वामिनः
न्यायशेखरीमातृकायाः प्रतिकृतिः
కాలక్ష్మీ కృసింహాయకుః - శ్రీబరక్వత్వ గుర్వం పపు
ధస్య 2 విఘ్నకరి సకూర్తయె శిశమ స్మారాత్మ
విశ్యక
మంగళసత్వపి సమాస్తేరరుదయాతో ఉదయా
తోరుదాహరతియ మహిశిరితి చ బాధిత స్థళ సశత్రర్వవిచారస్వరూపాసిద్వజ్మర్
లావభిన్నార్యఃకః సంయోగీతృత వ్య
- శీకరణీయతార్వాదితి ఇతిష్యాలు మర్రె
श्रीश्रीजगद्गुरुशङ्कराचार्यमहासंस्थानम् दक्षिणाम्नाय श्रीशारदापीठम्, शृङ्गगिरिः
श्रीविद्या
शङ्कर
श्रीमत्परमहंसपरिव्राजकाचार्यवर्य पदवाक्यप्रमाणपारावारपारीण
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाध्यष्टाङ्गयोगानुष्ठाननिष्ठ तपश्चक्रवर्ति अनाद्यविच्छिन्नश्रीशङ्कराचार्यगुरुपरम्पराप्राप्त षड्दर्शनस्थापनाचार्य व्याख्यानसिंहासनाधीश्वर सकलनिगमागमसारहृदय साङ्ख्यत्रयप्रतिपादक वैदिकमार्गप्रवर्तक सर्वतन्त्रस्वतन्त्र आदिराजधानी विद्यानगरमहाराजधानी कर्णाटकसिंहासनप्रतिष्ठापनाचार्य श्रीमद्राजाधिराजगुरु भूमण्डलाचार्य ऋष्यशृङ्गपुरवराधीश्वर तुङ्गभद्रातीरवासि श्रीमद्विद्याशङ्करपादपद्माराधक श्रीमज्जगद्गुरु श्रीमदभिनव विद्यातीर्थमहास्वामिगुरुकरकमलसञ्जात
श्रीमज्जगद्गुरु श्रीभारतीतीर्थमहास्वामिभिः
निखिलास्तिकमहाजनेषु नारायणस्मरणपुरस्सरं विरचिता आशिषस्समुल्लसन्तु ।
इतः प्रायेण त्रिशतवर्षपूर्वं आन्ध्रदेशं परिभूषितवता अन्नम्भट्टाख्येन विपश्चिदग्रण्या ग्रथितः तर्कसङ्ग्रहाख्यो लघुकायोऽपि न्यायदर्शनीयस कलपदार्थानां सङ्क्षेपेण प्रतिपादको ग्रन्थः विद्वल्लोके सुविख्यातश्चकास्ति । आसेतोरातुहिनाद्रेः अद्यत्वे ग्रन्थमिममनधीत्य न कोऽपि नैयायिको भवतीति संविद्रते समेऽपि । स्वयं ग्रन्थकृतैव दीपिकानाम्यां टीकायां रचितायामपि ग्रन्थस्यास्य गरिमाणमभिलक्ष्य बहवो मनीषिणो ग्रन्थमिमं बह्वीभिर्व्याख्याभिरलमकार्षुः । तास्सर्वा अपि व्याख्याः ग्रन्थव्याख्यानव्याजेन नैकान् विषयान् प्रतिपादयन्त्यो व्युत्पित्सून् भृशमुपकुर्वन्ति ।
अधुना न्यायशेखरीनाम्नी तर्कसङ्ग्रहस्य अभिनवा काचिद्व्याख्या प्रकाश्यते । यद्यप्यत्र प्राचीनासु व्याख्यासु अदृष्टाः अंशाः नातीव स्युः, परन्तु प्रतिपादनरीतिः अभिनवैव । उक्तं खल्वभियुक्तैः “कुतो वा नूतनं वस्तु वयमुत्प्रेक्षितुं क्षमाः । वचोविन्यासवैचित्र्यमात्रमत्र विचार्यताम्” इति । व्याख्याया अस्या रचयितारः कुणिगल् यज्ञनारायणशास्त्रिणः । कुणिगल वंशीयत्वेन सत्प्रतिपक्षशतकोटिकाराणां कुणिगल् रामशास्त्रिणां वंशजा एते स्युरित्यभ्यूहितुं शक्यते । एतेषां न्याये चतुरश्रं पाण्डित्यमासीदिति इयं व्याख्यैव प्रमाणयति । परन्तु अनुमानपरिच्छेदान्तैवेय- मुपलब्धेति चेखिद्यते चित्तम् । उपमानशब्दयोः अस्या अलाभनिमित्तं तापं विद्वान् नवीनहोळ्ळः स्वयं तद्व्याख्यां विलिख्य पर्यहार्षीदिति नितरां मोदते नश्चेतः । ग्रन्थस्यास्यैकैव मातृका अस्मन्मठे समस्ति । तामनुसृत्यैवायं ग्रन्थस्सज्जीकृतः । बालानां सुखावबोधाय तत्र तत्र टिप्पण्यप्यायोजिता । मन्यामहे ग्रन्थोऽयं न्यायशास्त्रे प्रविविक्षूणां माणवकानां अस्तोकमुपकारं विधास्यतीति ।
ग्रन्थस्यास्य प्रकाशने कृतसाह्यान् समानप्यास्तिकान् श्रेयःपरम्पराभिस्समनुगृह्णातु भगवान् शशिखण्डमण्डनो भगवती शारदापरमेश्वरीति चाशास्महे ।
शृङ्गगिरिः
विकृतिश्रावणकृष्णाष्टमी
सौम्यवासरः - १.९.२०१०
इति नारायणस्मरणम्
શ્રીPublisher’s Note
It gives me great pleasure in bringing out through Sri Shankara Advaita Research Centre, the 11th publica- tion of Sri Bharati Tirtha Veda Shastra Granthamala, a publication series started under the direction of Jagadguru Shankaracharya Sri Sri Bharati Tirtha Mahaswamiji with the intent of bringing out rare and unpublished Vedic and Shastric works.
This publication titled “Nyaya
Shekhari”, authored by a great scholar Vidwan Kunigal Yajna- narayana Shastri, is a commentary on “Tarka Sangraha”, the primary text of Tarka Shastra. The manuscript of this work. has been preserved for many years in the archives of the Sringeri Jagadguru Mahasamsthanam. Sometime back, the Jagadguru had perused this work and felt that publishing it would be a valuable guide to students of Tarka Shastra. However, the commentary was available only for the Pratyaksha and Anumaana Paricchedas of Tarka Sangraha. The Jagadguru directed Vidwan Sri Naveena Holla to undertake the task of completing the commentary. Accordingly the Vidwan, who has had the good fortune of studying the entire Tarka Shastra at the Lotus Feet of the Jagadguru, penned the commentary for the Upamana and Shabda Paricchedas. As per the Jagadguru’s direction, the publication of the commentary was taken up under the editorship of Vidwan Sri Naveena Holla and has been completed.
I would like to gratefully acknowledge the efforts of Vidwan Sri Naveena Holla. I would also like to thank each and everyone who has contributed towards the publication activity.
This publication is respectfully offered at the Lotus Feet of the Jagadguru Mahaswamiji.
Guruseva Dhurina
Dr. V R Gowrishankar
Director,
Sri Shankara Advaita
Research Centre,
Dakshinamnaya
Sri Sharada Peetham, Sringeri
उपोद्घातः
गौतमोपज्ञं न्यायशास्त्रं तत्त्वज्ञानस्य
निःश्रेयसहेतुत्वप्रतिपादनेन चतुर्दशविद्यास्थानेषु अभ्यर्हितं स्थानं भजते । सर्वशङ्कानिराकरणपटीयसा तर्केण गर्भितत्वात् शास्त्रमेतत् तर्कशास्त्रमिति व्यवह्रियते । अस्य आन्वीक्षिकी इत्यप्यस्ति व्यपदेशः । स्पष्टमेतत् न्यायसूत्रवृत्तौ “ श्रवणादनु पश्चात् ईक्षा अन्वीक्षा उन्नयनं तन्निर्वाहिका सेयम् आन्वीक्षिकी न्यायतर्कादिशब्दैरपि व्यवह्रियते” इति । अमरसिंहोऽप्याह “आन्वीक्षिकी दण्डनीतिस्तर्कविद्यार्थशास्त्रयोः” इति
इति । न्यायमञ्जरीकारः प्रोवाच “इयमेव आन्वीक्षिकी चतसृणां विद्यानां मध्ये न्यायविद्या गण्यते ।” आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। विद्याश्चतस्र एवैता लोकसंस्थितिहेतवः ॥” इति । शास्त्रस्यास्य वैशिष्ट्यं न्यायभाष्यकारो भगवान् वात्स्यायनः प्रोवाच “प्रत्यक्षागमाभ्यामीक्षितस्य अनु ईक्षणम् अन्वीक्षा प्रत्यक्षागमा- श्रितानुमानमित्यर्थः । तया प्रवर्तत इति आन्वीक्षिकी न्यायविद्या न्यायशास्त्रम् । यस्तु प्रत्यक्षागमविरुद्धः न्यायाभासः सः” इति । तावता अस्य शास्त्रस्य युक्तिप्रधानात् बौद्धादिदर्शनात् विशेषः शिष्टोपादेयता च संसूच्यते । प्रमाणद्वयवादिना मुनिना कणादेन रचितात् वैशेषिकदर्शनादपि इदं प्रमाणचतुष्टयप्रतिपादकं गौतमीयं दर्शनं पार्थक्यं भजते । वैशेषिकदर्शनस्य प्रमेयनिरूपणे नैर्भर्यं न्यायदर्शनस्य तु प्रमाणनिरूपणपरत्वं संलक्ष्यते । अथापि युक्तिप्रधानतया तदुभयं समानतन्त्रम् ।
श्रीमद्गङ्गेशोपाध्यायप्रभृतिभिः तत्त्वचिन्तामण्यादिषु
तत्त्वचिन्तामण्यादिषु उद्ग्रन्थेषु प्रवर्तिते नव्यन्यायशास्त्रे तु अक्षपादीयप्रमाणचतुष्टयव्यवस्था औलूक्यमतसिद्धपदार्थसप्तकव्य- वस्था च समाद्रियते । प्रकरणग्रन्थेषु परं द्वयी रीतिः परिदृश्यते । आद्या गौतमोक्तषोडशपदार्थनिरूपणपद्धतिः प्रमाणचतुष्टयनिरूपणसंवलिता । वरदराज - केशवमिश्र–शशधरादिकृताः तार्किकरक्षा - तर्कभाषा - न्यायसिद्धान्तदीपादयः तां रीतिमनुसरन्ति । द्वितीया तावत् कणादसम्मतपदार्थसप्तकविवरणपद्धतिः प्रमाण- चतुष्टयनिरूपणसंवलिता । सा च वल्लभाचार्य - शिवादित्यमिश्र - विश्वनाथन्याय- पञ्चानन–अन्नम्भट्टादिप्रणीतेषु न्यायलीलावती - सप्तपदार्थी - न्यायसिद्धान्तमुक्तावली- तर्कसङ्ग्रहादिषु ग्रन्थेषु उपलभ्यते । इत्थं द्वैविध्यमापन्नेषु प्रकरणग्रन्थेषु सम्प्रति कणा दोक्तपदार्थसप्तकनिरूपणपराणामेव ग्रन्थानां विशेषतः आदरो विद्यते । तत्र प्रमाणं तादृशानां तर्कसङ्ग्रह-मुक्तावल्यादिग्रन्थानां अतिशयेन प्रसार एव । तत्रापि तर्कसङ्ग्रहः
बालानां न्यायशास्त्रप्रवेशने महतीमुपकृतिं वितन्वन् सर्वशास्त्रोपकारिणीं प्राथमिकीं व्युत्पत्तिमातन्वन् विशिष्टां प्रसिद्धिमावहति । अत एवास्य नैकाष्टीकाः प्रौढाः सरलाश्च विलसन्ति । अधुना पुनः कुणिगल यज्ञनारायणशाख्यभिख्यैः विद्वत्तल्लजैः विरचिता न्यायशेखर्याख्या अप्रकाशितचरी तर्कसङ्ग्रहव्याख्या प्रकाश्यते । यद्यप्यत्र प्राचीनव्याख्याभिरनाविष्कृतः मूलार्थः प्रायो नैव विद्यते ; तथापि ‘अणुरपि विशेषः ’ इति न्यायेन विषयकृतं प्रतिपादनकृतं वा कञ्चिद्विशेषं छात्रेभ्यः आविष्कर्तुं एतैः ग्रन्थकारैः टीकेयं व्यधायीति प्रतीयते । परन्तु इयं प्रत्यक्षानुमानखण्डयोरेव विद्यते । अवशिष्टयोः शब्दोपमानयोरपि टीकां संयोज्य प्रकाशनमेवौचित्यं भजत इति अभिप्रयन्तः अस्मद्गुरुचरणाः जगद्गुरु श्रीभारतीतीर्थमहास्वामिनः अवशिष्टटीका- पूरणाय मामाजिज्ञपन् । सम्पादनकर्मण्यपि मां न्ययूयुजन् । श्रीशारदामातुः अनुकम्पापूरेण गुरुचरणानामनुग्रहेण च यथाप्रतिभानं टीकाप्रपूरणकार्यं निरवर्तयम् । श्रीचरणैः प्रदर्शितया दिशा टिप्पणीमपि बालानां सुखावबोधाय समयोजयम् । सर्वमिदं श्रीचरणानामेव अनुग्रहफलमिति विश्वसन् “ सिद्ध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः सम्भावनागुणमवेहि तमीश्वराणाम् । किं वाऽभविष्यदरुणस्तमसां विभेत्ता तञ्चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥” इति कविकुलगुरूक्तिं संस्मरन् विरमामि ।
इति सतां विधेयः वि.नवीनहोळ्ळः न्यायविभागाध्यक्षः राष्ट्रियसंस्कृतसंस्थानम् राजीवगान्धीपरिसरः, शृङ्गेरी
॥ श्रीः ॥
तर्कसङ्ग्रहः
अथ प्रत्यक्षपरिच्छेदः
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥
॥ श्रीलक्ष्मीनृसिंहाय नमः ॥
न्यायशेखरी
शेखरीकृत्य गुर्वङ्गी प्रणम्य शशिशेखरम् । शेखरो विदुषां कुर्वे कुतुकान्यायशेखरीम् ॥
प्रत्यक्षपरिच्छेदः
प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्तये शिवनमस्कारात्मकं मङ्गलं कृत्वा शिष्याणां मङ्गलावश्यकताज्ञानार्थं ग्रन्थतो निबध्नन् चिकीर्षितं प्रतिजानीते निधायेति । ननु मङ्गलस्य समाप्तिजनकत्वं न सम्भवति केषुचित् ग्रन्थेषु मङ्गलसत्वेपि समाप्तेरनुदयात् मङ्गलाभावेपि केषुचित् ग्रन्थेषु समाप्ते- रुदयाच्चेत्यन्वयव्यतिरेकव्यभिचारादिति चेन्न । शिष्टाचारविषयत्वेन मङ्गले सफलत्वस्य तदन्योद्देश्यककृत्यविषयत्वेन तदन्याफलकत्वस्य च सिद्धौ मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वादिति परिशेषानुमानेन समाप्तिफलकत्वसिद्धेः । इत्थं च यत्र मङ्गलं नाचरितं तत्रापि जन्मान्तरीयमङ्गलकल्पनान्न व्यतिरेकव्यभिचारः । यत्र मङ्गलसत्वेपि समाप्तिर्न दृष्टा तत्र तन्मङ्गलेन यत्किञ्चिद्विघ्ननाशेपि विघ्नान्तरसत्वेन
[[२]]
न्यायशेखरीव्याख्योपेतः
द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः ॥
विघ्नत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावरूपकारणस्याभावादेव
न कार्यो- त्पत्तिरिति अन्वयव्यभिचारस्यापि नावकाशः । नव्यास्तु मङ्गलस्य विघ्नध्वंसः फलं न तु समाप्तिः नास्तिकादिग्रन्थे व्यभिचारात् । न च जन्मान्तरीयमङ्गलकल्पनान्न व्यभिचार इति वाच्यम् । जन्मान्तरीयसमाप्तिं प्रति जन्मान्तरीयमङ्गलस्य कारणत्वानभ्युपगमात् । भोगादिनाश्यविघ्नध्वंस- पूर्वकसमाप्तौ व्यभिचारा’च्चेत्याहुः ।
तर्कसङ्ग्रह इति । तर्क्यन्ते प्रतिपाद्यन्त इति तर्काः पदार्थाः तेषां सङ्ग्रहः स्वरूपविषयकज्ञानजनकशब्दः क्रियत इत्यर्थः । मयेति शेषः । स्वग्रन्थस्य प्रयोजनमाह बालानां सुखबोधायेति । गुरूपदिष्टार्थग्रहणधारणपटवो बालाः न तु स्तनन्धयाः । तेषां सुखेनानायासेन बोधः पदार्थतत्त्वज्ञानं तस्मा इत्यर्थः । किं कृत्वा क्रियत इत्यत आह निधायेति । विश्वस्य ईशः विश्वेशः तं जगन्नियन्तारं साम्बशिवं हृदि मनसि निधाय तच्यानपरो भूत्वेत्यर्थः । एतेन ईश्वरे प्रमाणमुक्तं भवति । तथा हि स्वरूपसम्बन्धरूपजन्यतावत् सकर्तृकं प्रागभावप्रतियोगित्वात् घटवत् इत्यनुमानेनेश्वरसिद्धिः । इत्थं च ‘द्यावाभूमी जनयन्देव एक’ इत्यादिश्रुतेरप्यत्र प्रमाणत्वमनुसन्धेयम् । “यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मन’ इति श्रुत्यनुरोधेन गुरुवन्दनस्याप्यावश्यकतया गुरुवन्दनमपि निबध्नाति गुरूणामिति । गुरूणां विद्यागुरूणामित्यर्थः ।
पदार्थान्विभजते द्रव्येति । तत्सामान्यलक्षणं तु ज्ञेयत्वादिकं बोध्यम् । नन्वभावपदोत्तरवृत्तिबहुवचनादेव सप्तत्वे प्राप्ते पुनस्सप्तपदोपादानम- नर्थकमिति चेन्न । पदार्थत्वं द्रव्यादिसप्तपदार्थावृत्तिशून्यत्वव्याप्यमिति व्याप्तिलाभार्थकत्वात् । न च सप्तावृत्तेरप्रसिद्धिरिति वाच्यम् । स्वरूपसम्बन्धेन सप्तावृत्तेः स्वरूपसम्बन्धेनाभावस्य विवक्षितत्वेन अदोषात् । न चैतादृश-
१. तत्र मङ्गलाभावेपि विघ्नध्वंसस्य जातत्वेन व्यतिरेकव्यभिचारादित्यर्थः । २. कार्यं सकर्तृकं कार्यत्वादिति अनुक्त्वा एवं कथनं - पक्षतावच्छेदकहेत्वोर्भेद- सम्पादनाय ।
तर्कसङ्ग्रहः
[[३]]
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि
नवैव ॥
व्याप्तेर्ज्ञानस्याष्टमपदार्थज्ञानाभावः प्रयोजनमिति वक्तव्यम् । तत्र च सिध्य- सिद्धिभ्यां व्याघातो दुर्वार इति वाच्यम् । पदार्थत्वेन घटादिविशेष्यकद्रव्यादि- सप्तपदार्थावृत्तिप्रकारकभ्रमनिवृत्तेरेव फलत्वेन दोषाभावादिति सङ्क्षेपः ।
ननु शक्तिसादृश्ययोस्सप्तपदार्थभिन्नपदार्थयोस्सत्वात् सप्तत्वव्याघातः । तथा हि मणिसत्तादशायां वह्नौ दाहानुत्पत्तेः तदसमवधाने’ च दाहोत्पत्तेः दाहत्वावच्छिन्नं प्रति मणेः प्रतिबन्धकत्वं वक्तव्यं तच्च कारणतावच्छेदक- धर्मनाशकत्वम् । तादृशप्रतिबन्धकत्वनिर्वाहार्थं दाहानुकूलायाश्शक्तेः स्वीकार्यतया शक्तिरूपपदार्थसिद्धौ तस्या अतिरिक्तत्वं सम्भवति । तथा हि शक्तिर्न तावद्द्रव्यगुणकर्मस्वरूपा गुणवृत्तित्वात् नापि सामान्यादिस्वरूपा प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वात् । एवं मुखं शशिसदृशमिति प्रतीत्या सादृश्यसिद्धौ तस्य चातिरिक्तत्वं शक्तिवत् । यद्वा शक्तिसादृश्ये क्लृप्तपदार्थानन्तर्भूते ध्वंसप्रतियोगित्वे सति द्रव्येतरवृत्तित्वादिति चेन्न । कारणीभूताभावप्रतियोगित्वस्य प्रतिबन्धकत्वपदार्थत्वात् । तद्भिन्नत्वविशिष्ट तद्गतभूयोधर्मवत्वस्य क्वचित्, तद्गतभूयोधर्मवत्वमात्रस्य क्वचित् सादृश्यत्वाच्च नोक्तदोषावकाश इति सङ्क्षेपः ।
द्रव्याणि विभजते तत्रेति । तत्पदोत्तरवृत्तित्रत्प्रत्ययस्य घटकत्वमर्थः तथा च सप्तपदार्थघटकीभूतानि द्रव्याणीत्यर्थः । ननु नीलं तमः, चलति तम इति प्रत्ययबलात्तमसः दशमद्रव्यत्वसिद्धौ नवत्वव्याघातः । तथा हि तमः क्लृप्तद्रव्यानन्तर्भूतं रसरहितत्वे सति नीलरूपवत्वात् यद्वा स्पर्शरहितत्वे सति रूपवत्वादित्यनुमानेन दशमद्रव्यत्वसिद्धिरिति चेन्मैवम् । तमसस्तेजोभाव- रूपतया अभावेन्तर्भावान्न नवत्वव्याघातः । उक्तप्रतीतिद्वयस्यापि भ्रमत्वात्। ननु तमसो द्रव्यत्वमङ्गीकृत्य तेजसस्तमोऽभावरूपत्वं किमिति न
१. मण्यसमवधाने च ।
२. प्रतिबन्धकत्वं च ।
३. नीलं तमः, चलति तम इति प्रतीतिद्वयस्यापि ।
[[४]]
न्यायशेखरीव्याख्योपेतः
अन्यत्र
स्यात् । न चोष्णस्पर्शभास्वररूपप्रतीत्यनुपपत्तिः त्वन्मते तमोनीलमिति प्रतीतेरिव मन्मते तयोर्भ्रान्तित्वेनैवोपपन्नत्वादिति चेन्न । प्रसिद्धस्यैवारोपावश्यकतया तेजसोऽतिरिक्तद्रव्यत्वानङ्गीकारे तयोर्भ्रान्तित्व- स्याप्यनुपपन्नत्वादिति सङ्क्षेपः ।
विभागसमवायिकारणतावच्छेदकतया द्रव्यत्वजातिसिद्धिः । गुणाधि- करणत्वं समवायिकारणत्वं वा द्रव्यसामान्यलक्षणम् । न चोत्पन्नविनष्टघटे अव्याप्तिः । तस्यानङ्गीकारात् । लक्ष्यतावच्छेदकसमानाधिकरणत्वविशिष्ट- लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वमव्याप्तिः । यथा गोः शुक्लरूपवत्वम् । लक्ष्यतावच्छेदकव्यभिचारित्वमतिव्याप्तिः । यथा गोः रूपवत्वम् । लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वमसम्भवः यथा वह्नेश्शीतस्पर्शवत्वम् । न चातिव्याप्तिग्रस्तलक्षणस्य असम्भविन्यपि सत्वा- दतिव्याप्तिस्स्यादिति वाच्यम् । दुष्टसङ्करेपि दोषासङ्करात् । एतत्त्रयरहितधर्मो लक्षणम्। स एवासाधारणधर्म इत्युच्यते । लक्ष्यतावच्छेदकसमनियतत्वमसा- धारणत्वम् । लक्ष्यतावच्छेदकसमनियतत्वं च स्वव्यापकलक्ष्यतावच्छेदककत्वे सति लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावाप्रतियोगित्वम् । तत्र च लक्ष्यतावच्छेदकस्य द्विधा निवेशध्रौव्येण स्वसमानाधिकरणात्यन्ताभावाप्रति- योगिलक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं पर्यवस्यति । अत्र यद्यपि गुरुधर्मस्याभावप्रतियोगितानवच्छेदकत्वे वाक्यार्थाप्रसिद्धिः केवललक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वत्वापेक्षया स्व- व्यापकलक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वत्वस्य गुरु- तया अभावप्रतियोगितानवच्छेदकत्वात् तथापि तादृशप्रतियोगितात्वव्यापक- प्रतियोगिताकाभावविवक्षणेनादोषात् । न चैवं विशिष्टोभयाभावादिकमादाय दोषः। वैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्नत्वस्य प्रतियोगिताविशेषणत्वात् । अथैतदपेक्षया लक्ष्यतावच्छेदकस्य द्विधा निवेशनमेवोचितमिति चेत् - गुरु- धर्मस्याभावप्रतियोगितानवच्छेदकत्वे लाघवासम्भवेपि अवच्छेदकत्वाङ्गीकार- पक्षे उक्तलाघवसम्भवात् । वस्तुतस्तु गुरुधर्मस्याभावप्रतियोगितावच्छेदक- त्वमभ्युपेत्यैवैतल्लक्षणकरणम् । अन्यथा पृथिवीनिष्ठात्यन्ताभावप्रतियोगि-
१. उष्णस्पर्शभास्वररूपप्रतीत्योः ।
तर्कसङ्ग्रहः
त्वत्वापेक्षया गन्धसमानाधिकरणात्यन्ताभावप्रतियोगित्वत्वस्य गुरुतया वाक्यार्थाप्रसिद्धेः । नन्वेवमप्यभिधेयत्वप्रमेयत्वादौ व्यावृत्तौ च ( पदार्थ- सामान्यलक्षणे) व्यावर्तकलक्षणस्यैवैतल्लक्षणलक्ष्यत्वे अतिव्याप्तिरिति चेन्न । व्यावृत्तिभिन्नत्वे सत्यभिधेयत्वादिभिन्नत्वस्यापि लक्षणघटकत्वेनादोषात् । ननु लक्ष्यतावच्छेदकसमनियतत्वशरीरे लक्ष्यतावच्छेदकाभाववदवृत्तित्वमेव लक्ष्यतावच्छेदकव्याप्यत्वं निवेश्यतां तावतैव अभिधेयत्वप्रमेयत्वादिलक्षण- लक्ष्यतावच्छेदकीभूतपदार्थत्वाभावाप्रसिध्यैव तत्रातिव्याप्तेर्वारणसम्भवे कृतम- भिधेयत्वादिभिन्नत्वनिवेशनेनेति चेन्न । अत्र लक्ष्यतावच्छेदकाभाववद्वृत्तित्वं लक्षणतावच्छेदकसम्बन्धेन निवेशनीयम् । अन्यथा गन्धवत्वादि- रूपलक्षणे लक्ष्यतावच्छेदकाभाववज्जलादिनिरूपितकालिकसम्बन्धावच्छिन्न- वृत्तितासत्वेन अव्याप्तिप्रसङ्गात् । इत्थं च द्रव्यगुणकर्मणां सत्तावत्वं सा- धर्म्यमित्यत्र लक्ष्यतावच्छेदकीभूतद्रव्यगुणकर्मान्यतमत्वाभाववत्सामान्यादि-
निरूपितलक्षणतावच्छेदकसमवायसम्बन्धावच्छिन्नवृत्तित्वाप्रसिध्या तादृश- लक्षणाव्याप्तेः । अतः स्वव्यापकतत्कत्वरूपं निरुक्तमेव व्याप्यत्वं निवेश- नीयमिति तत्तद्भिन्नत्वस्यैवागत्या निवेशावश्यकत्वात् । न च लक्ष्यतावच्छेद- काभाववन्निरूपितलक्षणतावच्छेदकस्वरूपान्यतरसम्बन्धावच्छिन्नवृत्तित्मेव निवेश्यत इति न पूर्वोक्तलक्षणे अव्याप्तिरिति वाच्यम् । तथा सति जन्यमहाकालोभयस्य कालिकसम्बन्धेन गगनाभाववत्त्वं लक्षणमित्यत्र लक्ष्यतावच्छेदकीभूततादृशान्यतरत्वाभाववति गगने स्वरूपसम्बन्धेन गगनाभावस्य सत्वेन अव्याप्तिप्रसङ्गात् । न च लक्षणतावच्छेदकसम्बन्धेन स्वाधिकरणावृत्तिलक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदकत्वरूपं लक्ष्य- तावच्छेदकव्याप्यत्वं निवेश्यतां इत्थं च अभिधेयत्वादिभिन्नत्वनिवेशनं व्यर्थमेवेति वाच्यम् । तत्रापि स्वाधिकरणवृत्तित्वं लक्ष्यतावच्छेदकवत्ताग्रह- विरोधितानियामकसम्बन्धेन निवेशनीयम् । अन्यथा स्वाधिकरणे कालिक- सम्बन्धेन पृथिवीभेदस्य सत्वेन गन्धवत्त्वादिरूपलक्षणे अव्याप्तेः । नापि स्वरूपसम्बन्धेन । तथा सति घटत्वात्यन्ताभाववतः प्रमेयत्वं लक्षणमित्यत्र प्रमेयत्वाधिकरणे घटादावपि स्वरूपसम्वन्धेन अवर्तमानत्वाद् घटत्वात्मकस्य लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदस्येत्यतिव्याप्तेः इत्थं च
[[६]]
न्यायशेखरीव्याख्योपेतः
रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वा- परत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्म- संस्काराश्चतुर्विंशतिर्गुणाः ॥
उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ सामान्यं द्विविधं परमपरं चेति ॥
सत्ताभाववतो जात्यभाववत्वं लक्षणमित्यत्र जात्यभावाधिकरणनिरूपित- समवायसम्बन्धावच्छिन्नवृत्तित्वस्य अप्रसिध्या अव्याप्तेः । न चैवमपि लक्ष्य- तावच्छेदकाभाववन्निरूपितवृत्तित्वनिष्ठलक्षणतावच्छेदकसम्बन्धावच्छिन्ना- धेयत्वीयस्वरूपसम्बन्धावच्छिन्न – प्रतियोगिताकाभावविवक्षणान्नकोपि दोष इति वाच्यम् । विशेषरूपेण संसर्गत्वानुपगमात् । तस्मादभिधेयत्वप्रमेय- त्वादिभिन्नत्वमेव निवेशनीयमिति कृतं पल्लवितेन ।
गुणान् विभजते रूपेति । तल्लक्षणं तु द्रव्यत्वव्यधिकरणनित्यत्व- समानाधिकरणजातिमत्त्वम्’ । गुणत्वजातिसिद्धिस्तु द्रव्यकर्मभिन्नसामान्य- वन्निष्ठकारणतावच्छेदकतया बोध्या । एते च गुणाः कणादमते प्रसिद्धाः । कर्म विभजते उत्क्षेपणेति । तल्लक्षणं तु नित्यत्वासमानाधिकरणपदार्थविभाज- कोपाधिमत्त्वम् । कर्मत्वजातिस्तु चलतीत्यादि प्रतीतिसिद्धा । ननु भ्रमणादी- नामतिरिक्तत्वात् पञ्चत्वविरोध इति चेन्न । तेषां गमन एवान्तर्भावात् । न चोत्क्षेपणादीनामपि तत्रैवान्तर्भाव इति वाच्यम् । स्वतन्त्रेच्छमुनिना पृथङ्गिर्देशात् । सामान्यं विभजते परमिति । परत्वं समवायि निष्ठात्यन्ताभा- वाप्रतियोगित्वम् । अपरत्वं समवायि निष्ठात्यन्ताभावप्रतियोगित्वम् ।
१. द्रव्यत्वमादाय द्रव्ये अतिव्याप्तिवारणाय द्रव्यत्वव्यधिकरणेति । द्रव्यावृत्तीति तदर्थः । कर्मत्वमादाय कर्मण्यतिव्याप्तिवारणाय नित्यत्वसमानाधिकरणेति । नित्यवृत्तीति तदर्थः ।
२. समवायि पदेन द्रव्यगुणकर्मणां त्रयाणां ग्रहणम् ।
३. यत्किञ्चित्समवायिनिष्ठात्यन्ताभावप्रतियोगित्वमित्यर्थः ।तर्कसङ्ग्रहः
नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥
समवायस्त्वेक एव ॥
अभावश्चतुर्विधः – प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्यो- न्याभावश्चेति ॥
विशेषान् दर्शयति नित्यद्रव्येति । अनन्ता इति । परिगणयितुमशक्या इत्यर्थः । समवायं दर्शयति समवायस्त्विति । तस्य विभाजकधर्मो नास्तीत्याह एक एवेति । स्वसजातीयद्वितीयरहित इत्यर्थः । ननु स्वसजातीयद्वितीयः प्रमितो वा न वा ? नाद्यः तस्य निषेधायोगात् । न द्वितीयः । प्रतियोगि- ज्ञानमन्तरा अभावज्ञानानुदयादिति चेन्न । स्वसमभिव्याहृतपदार्थताव- च्छेदकीभूतसमवायत्ववन्निष्ठभेदप्रतियोगितानवच्छेदकैकत्वस्यैवैकपदार्थता- वच्छेदकतया वाक्यार्थाप्रसिद्धेरभावात् । अभावं विभजते अभाव इति । नन्वस्त्वभावानामधिकरणात्मकत्वं लाघवादिति चेन्न । अनन्ताधिकरणात्म- कत्वकल्पनामपेक्ष्य अतिरिक्तताकल्पनायामेव लाघवसम्भवात् । किं च अभावस्याधिकरणात्मकत्वे आधाराधेयभावानुपपत्तिः । अपि च तत्तच्छब्द- रसगन्धाद्यभावानां तत्तदिन्द्रियाग्राह्यत्वापत्तिः । तत्तदधिकरणानां तत्तदिन्द्रि- याग्राह्यत्वात् । श्रोत्ररसनघ्राणानां द्रव्याग्राहकत्वात् ।
अत्र मीमांसकमतानुयायिनः । अभावानामधिकरणात्मकत्वमेव । न चास्मन्मते गौरवम् । अभावस्यानन्ताधिकरणस्वरूपत्वकल्पनमित्यस्य अनन्ताधिकरणेषु अभावत्वसम्बन्धपरिकल्पने पर्यवसिततया नैयायिकमते अनन्ताधिकरणेषु अभावसम्बन्धपरिकल्पनाया आवश्यकतया तेन सह तौल्यात् विपरीतमेव गौरवं धर्मिकल्पनया । न वा आधाराधेयभावानुपपत्तिः । भवन्मतेप्यभावमात्राधिकरणकाभावमात्रप्रतियोगिकाभावस्याधिकरणस्व- रूपताया अङ्गीकारात् तत्र यथा वा धर्मधर्मिणोरभेदेपि यत्किञ्चिदभावत्वेना- धेयत्वं यत्किञ्चिदभावत्वेनाधारत्वं तथा सर्वत्रैव कल्पनसम्भवात् । अनयैव च रीत्या शब्दरसगन्धाद्यभावानाम् अधिकरणस्वरूपत्वेपि तत्तदधिकरणानां तत्तदभावत्वेन श्रोत्रादिग्राह्यत्वमुपेयत इति वदन्ति ।
न्यायशेखरीव्याख्योपेतः
तत्र गन्धवती पृथिवी । सा द्विविधा नित्याऽनित्या चेति । नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् ।
विभागक्रमे प्रथमं निर्दिष्टायाः पृथिव्या लक्षणं वक्तुमुपक्रमते तत्रेति । नवद्रव्येषु मध्य इत्यर्थः । गन्धवतीति । ननु सुरभ्यसुरभ्यवयवारब्धे घण्टे गन्धाभावादव्याप्तिरिति चेन्न । गन्धसमानाधिकरणजलावृत्तिजातिमत्त्वस्य तात्पर्यविषयत्वात् । ननु तथापि तादृशजातिमत्त्वं कालिकेन जलादौ वर्तत इत्यतिव्याप्तिः । न च समवायेन तद्वत्वं लक्षणमित्यनेन निर्वाहः । समवायेनेत्यत्र तृतीयार्थोवच्छिन्नत्वं तस्य तादृशजात्याधेयतायाम् अधिकरणतायां वा अन्वयो वाच्यः । तथा च तादृशाधिकरणतावत्वस्यापि जलादौ कालिकेन सत्वेनातिव्याप्तेरपरिहारात् । न च स्वरूपसम्बन्धेन तादृशाधिकरणतावत्त्वनिवेशेन वारणं युक्तम् । स्वरूपसम्बन्धेनेत्यत्रापि अवच्छिन्नत्वस्यैव तृतीयार्थतया उक्तदोषापरिहारादिति चेत् अत्र वदन्ति - लक्षणस्य तावदितरभेदानुमितिर्व्यवहारो वा प्रयोजनम् । तथा च समवायेन गन्धवत्त्वं लक्षणमित्यस्य पृथिवीतरभेदव्याप्यगन्धत्वावच्छिन्नसम-
वायसम्बन्धावच्छिन्नप्रकारतानिरूपितपृथिवीत्वावच्छिन्नविशेष्यताशालिनिश्चयः पृथिवीत्वावच्छिन्नविशेष्यतानिरूपितपृथिवीतरभेदत्वावच्छिन्नप्रकारताशाल्य- नुमितिजनक इत्यर्थ इति । तां विभजते सेति । पृथिवीत्यर्थः । द्विविधेति । विभाजकधर्मद्वयविशिष्टेत्यर्थः । नित्यत्वं ध्वंसाप्रतियोगित्वम् । अनित्यत्वं ध्वंसप्रतियोगित्वम् । पुनरिति । पुनरप्रथमे भेद इति कोशात् अनित्या पृथिवीत्यर्थः । शरीरेन्द्रियविषयभेदादिति । तत्र शरीरत्वं चेष्टाश्रयत्वम् । चेष्टा च हिताहितप्राप्तिपरिहारानुकूलक्रिया । न तु शरीरत्वं जातिः पृथिवीत्वादिना साङ्कर्यात् । इन्द्रियत्वमपि न जातिः । किन्तु शब्देतरोद्भूत- विशेषगुणानाश्रयत्वे सति ज्ञानकारणमनस्संयोगाश्रयत्वम् । काले अति- व्याप्तिवारणाय विशेष्यदलम् । आत्मन्यतिव्याप्तिवारणाय विशेषणभागः । विशेषणभागे शब्देतरत्वानिवेशे श्रोत्रेन्द्रियेऽव्याप्तिरतस्तन्निवेशः । घ्राणे रसनायां चक्षुष्यव्याप्तिवारणाय तत्रैवोद्भूतेति । संयोगमादायासम्भववारणाय विशेषेति ।
तर्कसङ्ग्रहः
शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृत्पाषाणादिः ॥
[[९]]
शीतस्पर्शवत्य आपः ॥ ता द्विविधाः नित्या अनित्याश्चेति ॥ नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः ॥ पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः ॥
[[1]]
कालमनस्संयोगमादाय कालेतिव्याप्तिवारणाय ज्ञानकारणेति । काले रूपाभावप्रत्यक्षे कालचक्षुस्संयोगरूपसन्निकर्षघटकतया कारणत्वात्कालेति- व्याप्तिवारणाय मनः पदम् । शरीरेन्द्रियभिन्नत्वं विषयत्वमित्यलं विस्तरेण । पार्थिवशरीरं दर्शयति शरीरमिति । आदिपदात्पशुपक्षिवृक्षादिपरिग्रहः । भग्नक्षतसंरोहणाद्यनुमितप्राणवायुसम्बन्धात् वृक्षादीनामपि शरीरसिद्धिः । पार्थिवेन्द्रियं दर्शयति इन्द्रियमिति । ननु घ्राणेन्द्रियस्य पार्थिवत्वे किं मानमिति चेदत आह गन्धग्राहकमिति । तथा हि घ्राणेन्द्रियं पार्थिवं रूपाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात् वाय्वानीतसुरभिभागवत् । मनसि व्यभिचारवारणाय विशेषणम् । काले व्यभिचारवारणाय विशेष्यदलम् । घ्राणसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वमपि विशेषणं; बोध्यम् । पार्थिवविषयं दर्शयति विषय इति । आदिपदाद्घटादिपरिग्रहः । अपां लक्षणमाह शीतेति । शिलातले शीतस्पर्शप्रतीतेर्जलसम्बन्धानुविधायित्वा’न्नातिव्याप्तिः । ता विभजते नित्या इति । नित्यत्वादिकं पूर्ववद्बोध्यम् । नित्या अपो दर्शयति नित्या इति । अनित्यास्ता दर्शयति अनित्याः कार्यरूपा इति । अनित्या अपो विभजते पुनरिति । शरीरं दर्शयति वरुणलोक इति । वरुणतत्पुत्र तद्दारादिशरीराणि जलीयानीत्यर्थः । जलीयेन्द्रियं दर्शयति इन्द्रियमिति । तस्य जलीयत्वे प्रमाणमाह रसग्राहकमिति । विषयं दर्शयति सरिदिति ।
१. शीतं शिलातलमित्यादौ शीतस्पर्शवत्त्वस्य शिलातले स्वसमवायिसंयोग- सम्बन्धेनैव सत्वात् समवायेन शीतस्पर्शवत्त्वरूपलक्षणस्य तत्र नातिव्याप्तिरिति
भावः ।
[[१०]]
न्यायशेखरीव्याख्योपेतः
उष्णस्पर्शवत्तेजः । तदुद्विविधं नित्यमनित्यं चेति । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधम् शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधः भौमदिव्यौदर्याकरज- भेदात् । भौमं वह्न्यादि । दिव्यमबिन्धनं विद्युदादि । भुक्तस्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि ॥
आदिपदाद्वापीकरकादि परिग्रहः । तेजो निरूपयति उष्णेति । उष्णस्पर्शवत्त्वं तेजसो लक्षणम् । न चोष्णस्पर्शवत्त्वं चन्द्रकिरणादावालोके चाव्याप्तम् अतिव्याप्तं चोष्णजल इति वाच्यम् । पूर्ववदुष्णस्पर्शसमानाधिकरणपृथिव्य- वृत्तिजातिमत्त्वस्य विवक्षितत्वात् । जले तु तेजस्सम्बन्धानुविधायिन्युष्ण- प्रतीतिरिति नातिव्याप्तिः । तैजसशरीरं दर्शयति शरीरमादित्यलोक इति । इन्द्रियं दर्शयति इन्द्रियमिति । चक्षुषस्तैजसत्वे प्रमाणमाह रूपग्राहकमिति । तथा हि चक्षुस्तैजसं स्पर्शाव्यञ्जकत्वे सति परकीयरूपविषयकसाक्षात्कार- जनकत्वात् प्रभावत् । पार्थिवत्र्यणुके व्यभिचारवारणाय परकीयेति । मनसि व्यभिचारवारणाय सत्यन्तम् । विषयं विभजते विषय इति । ननु सुवर्णं न तैजसं गुरुत्वात् घटवत् । किन्तु पृथिवी पीतरूपवत्वात् पीतपटवदिति चेन्न । अत्यन्तानलसंयोगे पीतिमगुरुत्वाश्रयः स्वविजातीयद्रवत्वनाशप्रतिबन्धक- द्रवद्रव्यान्तरसंयुक्तः अत्यन्तानलसंयोगजन्यनाशाप्रतियोगिद्रवत्वाधिकरण- त्वे सति पृथिवीत्वात् जलमध्यस्थघृतवत् । न चाप्रयोजकं । पार्थिवद्रवत्वनाशं प्रति प्रतिबन्धकाभावसमानकालीनात्यन्तानलसंयोगस्य कारणतया यदि द्रवत्वनाशप्रतिबन्धकद्रवद्रव्यान्तरसंयुक्तो न स्यात् तर्हि अत्यन्तानलसंयोग- जन्यनाशप्रतियोगिद्रवत्वाधिकरणमेव स्यात् इत्यनुकूलतर्कसत्वात् । तथा च पीतिमगुरुत्वाश्रयापेक्षया अतिरिक्तद्रव्यसिद्धौ तस्य प्रतिबन्धकाभाव- समानकालीनात्यन्तानलसंयोगजन्यनाशाप्रतियोगिद्रवत्वाधिकरणत्वहेतुना पूर्वोक्तानुकूलतर्कसहकृतेन पृथिवीभिन्नत्वसिद्धौ नैमित्तिकद्रवत्वाधिकरण- तया जलादिभिन्नत्वस्यापि सिध्या तेभ्योतिरिक्तत्वे सति द्रव्यत्वरूपहेतुना तेजस्त्वसिद्धिः ।
तर्कसङ्ग्रहः
[[११]]
रूपरहितस्पर्शवान् वायुः । स द्विविधः नित्योऽनित्यश्चेति । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तः सञ्चारी वायुः प्राणश्च । स चैकोऽप्युपाधिभेदात्प्राणापानादिसञ्ज्ञां लभते ॥
वायुं लक्षयति रूपरहितेति । रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षण- मित्यर्थः । घटेतिव्याप्तिवारणाय विशेषणम् । गगनेतिव्याप्तिवारणाय विशेष्यम् । न चाद्यक्षणावच्छेदेन रूपरहितत्वस्य द्वितीयक्षणावच्छेदेन स्पर्शवत्वस्य च सत्वाद् घटेतिव्याप्तिरिति वाच्यम् । रूपाभावाधिकरणता- विशिष्टस्पर्शाधिकरणतावत्वं लक्षणम् । वैशिष्ट्यं च स्वावच्छेदकक्षणावच्छिन्न- त्वस्वसामानाधिकरण्योभयसम्बन्धेनेति विवक्षणान्नातिव्याप्तिः । गुणाद्यव- च्छेदेन रूपाभावसत्वकाल एव घटे द्वितीयक्षणावच्छेदेन स्पर्शसत्वेन स्वावच्छेदकक्षणावच्छिन्नत्वस्य घटान्तर्भावेण स्वसामानाधिकरण्यस्य च सत्वेन नानुपपत्तिपरिहार इत्यतोधिकरणतापर्यन्तानुधावनम् । न च रूपनाशकपाकानां रसादिनाशकपाकानां पार्थक्यात् यत्र घटे रूपनाशकपाकेन रूपं नष्टं स्पर्शस्तु न नष्टः तत्र रूपाभावाधिकरणतायाः स्पर्शाधिकरणतायाश्च रूपान्तरोत्पत्तेः प्राक् स्थितत्वात् अतिव्याप्तिरिति वाच्यम् । तादृशपाकस्या- प्रसिद्धत्वादित्यलमतिविस्तरेण । तं विभजते स द्विविध इति । वायवीयशरीरं दर्शयति शरीरमिति । वायुतत्पुत्रपत्न्यादिशरीराणि वायवीयानीत्यर्थः । इन्द्रियं दर्शयति इन्द्रियमिति । तस्य वायवीयत्वे प्रमाणं दर्शयति स्पर्शग्राहकमिति । अत्र त्वगिन्द्रियं वायवीयं रूपाग्राहकत्वे सति स्पर्शग्राहकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यञ्जकव्यजनपवनवत् । न च वाय्वानीतजलभागे रूपाव्यञ्जकत्वस्यापि सत्वाद् व्यभिचार इति वाच्यम् । परकीयस्पर्शव्यञ्जकत्वस्यैव विवक्षितत्वेनादोषादित्यवधेयम् । विषयं दर्शयति वृक्षादीति । आदिपदाल्लतागुल्मादीनां सङ्ग्रहः । प्राणवायोस्तुरीयतया
[[1]]
[[१२]]
न्यायशेखरीव्याख्योपेतः
शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च ॥ अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च ॥ प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका विभ्वी नित्या च ॥
तस्यापि
विभागव्याघात’ इत्याशङ्कां परिहरति शरीरेति विषयवायावेवान्तर्भावादिति भावः । ननु प्राणस्यैकस्यानतिरिक्तत्वेपि अपानादीनामतिरिक्ततास्त्विति वाच्यम् । तेषामपि तत्रैवान्तर्भावात् । ननु व्यवहारभेदः कुत इत्यत आह स चेति । उपाधिभेदादिति । तत्तत्स्थानभेदादित्यर्थः ।
आकाशं निरूपयति शब्दगुणकमिति । शब्दाश्रयतया आकाशसिद्धिः । मीमांसकमतनिराकरणार्थं गुणपदं न तु लक्षणघटकम् । तथा हि - शब्दो गुणः त्वगग्राह्यबहिरिन्द्रियग्राह्यजातिमत्वात् रूपवत् । न च प्रभायां व्यभिचार इति वाच्यम्। रूपासमानाधिकरणेति विशेषणात् । लक्षणं तु शब्दवत्त्वमेव । आकाशत्वव्याप्यविभाजकधर्मो नास्तीत्याह तच्चैकमिति । विभ्विति । परम- महत्परिमाणवदिति भावः । कालं निरूपयति अतीतेति । कालिकसम्बन्धेन सकलपदार्थाधिकरणत्वं लक्षणम् । कालिकपरत्वापरत्वासमवायिकारण- संयोगाश्रयतया कालसिद्धिः । दिशो लक्षणमाह प्राचीति I दिक्कृतविशेषणतासम्बन्धेन सकलपदार्थाधिकरणत्वं दिशो लक्षणम् । दैशिकपरत्वापरत्वासमवायिकारणसंयोगाश्रयतया दिक्सिद्धिः । सेति ।
१. अनित्यवायोः त्रित्वेन विभागव्याघात इत्यर्थः । २. प्राणस्यापीत्यर्थः ।
३. मीमांसकाः शब्दो द्रव्यमिति वदन्ति । अतस्तन्मतनिरासार्थं शब्दस्य गुणत्वमुक्तमित्यर्थः ।
४. जातेर्विशेषणादित्यर्थः । तथा च त्वगग्राह्यबहिरिन्द्रियग्राह्यरूपासमानाधि- करणजातिमत्त्वादिति हेतुः पर्यवस्यति । प्रभायां रूपस्य सत्वेन प्रभात्वस्य रूपसमानाधिकरणत्वान्न दोष इति भावः ।
तर्कसङ्ग्रहः
[[१३]]
ज्ञानाधिकरणमात्मा । स द्विविधः जीवात्मा परमात्मा चेति । तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्म-
नियतत्वादनन्तं परमाणुरूपं नित्यं च ॥
दिगित्यर्थः । आत्मानं निरूपयति ज्ञानेति । ज्ञानाधिकरणत्वं समवायसम्बन्धेन बोध्यम् । आत्मानं विभजते स इति । आत्मेत्यर्थः । तत्रेति । जीवात्मपरमात्मनोर्मध्य इत्यर्थः । ननु विभागवाक्ये जीवात्मनः प्रथमं निर्दिष्टतया पूर्वं परमात्मनिरूपणमयुक्तमिति चेन्न । सूचीकटाहन्यायेन प्रथमं तस्यैव’ निरूपणीयत्वात् । नित्यज्ञानाधिकरणत्वं परमात्मनो लक्षणम् । जीवस्त्विति । नन्वात्मसद्भावे किं प्रमाणम् ? न तावत् प्रत्यक्षम् । तद्धि बाह्यमान्तरं वा ? नाद्यः । रूपशून्यत्वात् । न द्वितीयः । तस्य ज्ञानादि- भिन्नत्वात् । नाप्यनुमानं हेतोरभावादिति चेन्न । चक्षुरादिकं सकर्तृकं करणत्वात् कुठारादिवदित्यनुमानेनात्मनस्सिद्धेः । अत एव इन्द्रिय- भिन्नश्शरीरादिभिन्न आत्मेति सिध्यतीत्यलम् । मनो निरूपयति सुखेति । स्पर्शरहितत्वे सति क्रियावत्वं मनसो लक्षणम् । तदिति । मन इत्यर्थः । प्रत्यात्मनियतत्वादनन्तमिति । आत्मनामनेकत्वात्तद्वृत्तित्वान्मनसामप्य- नेकत्वमित्यर्थः । परमाणुरूपमिति । परमाणुनिष्टपरिमाणसजातीयपरिमाण- वदित्यर्थः । अत्र ज्ञानादिकं सासमवायिकारणकं भावकार्यत्वात् घट- वदित्यनुमानेन असमवायिकारणीभूतसंयोगसिद्धौ तादृशसंयोगो द्विनिष्ठः संयोगत्वात् घटपटसंयोगवदित्यनुमानेन द्विनिष्ठत्वसिद्धौ भावकार्यस्य कारणत्रयजन्यत्वनैयत्येन समवायिकारणीभूतात्माश्रितत्वस्यावश्यकत्वे अपराश्रयतया मनसस्सिद्धिः । मनसो विभुत्वे विभ्वात्माश्रिततादृशसंयोगा- श्रयत्वासम्भवेन’ मध्यमपरिमाणवत्वे चानित्यत्वप्रसङ्गेन मनसोणुत्वसिद्धिरिति
१. परमात्मन एव ।
२. आत्मा विभुः । यदि मनोपि विभु स्यात् तदा तयोस्संयोगो न भवितुमर्हति । विभुद्वयसंयोगानङ्गीकारादिति भावः ।
[[१४]]
न्यायशेखरीव्याख्योपेतः
चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरित- कपिशचित्रभेदात्सप्तविधं । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि ॥
रसनग्राह्यो गुणो रसः। सच मधुराम्ललवणकटुकषायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः ॥ पृथिव्यां षड्विधः । जले मधुर एव ॥ घ्राणग्राह्यो गुणो गन्धः । स द्विविधः सुरभिरसुरभिश्चेति । पृथिवीमात्रवृत्तिः ॥
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स त्रिविधः
बोध्यम् । द्रव्याणां लक्षणमुक्त्वा क्रमप्राप्तानां गुणानां मध्ये रूपस्य लक्षणमाह चक्षुर्मात्रग्राह्यमिति । मात्रपदं त्वगिन्द्रियाग्राह्यपरम् । तच्च सङ्ख्यादावतिव्याप्ति- वारकतया सार्थकम् । चक्षुर्ग्राह्यत्वानिवेशे रसादावतिव्याप्तिरतस्तन्निवेशः । रूपत्वादिवारणाय गुणपदम् । न च प्रभाघटसंयोगेतिव्याप्तिः तस्य त्वगिन्द्रियाग्राह्यत्वादिति वाच्यम् । गुणपदस्य विशेषगुणपरत्वात् । तदिति । रूपमित्यर्थः । ननु चित्रस्यानतिरिक्तत्वात्कथं सप्तविधत्वमिति चेत् – न हि नीलपीतावयवारब्धं द्रव्यं नीरूपमिति वक्तुं युक्तम् । अप्रत्यक्षत्वप्रसङ्गात् । न वा अव्याप्यवृत्तिनीलादिसमुदायविशिष्टं तत् । रूपस्य व्याप्यवृत्तित्वनियमात्। अतस्तदतिरिक्तमित्येव वाच्यं तदेव च चित्रं रूपमिति । नवीनाः पुनः रूपस्य व्याप्यवृत्तित्वनियमे प्रमाणाभावात् चित्रमतिरिक्तं नेति वदन्ति । तत्रेति । पृथिव्यादित्रयमध्य इत्यर्थः । सप्तविधमिति । विभाजकधर्मसप्तकविशिष्ट- मित्यर्थः । अभास्वरं पराप्रकाशकम् । भास्वरत्वं रूपनिष्ठो जातिविशेषः ।
रसं निरूपयति रसनेति । गुणपदं रसत्ववारकम् । विशेषणं च रूपादिवारकम् । स चेति । रसश्चेत्यर्थः । तत्रेति । पृथिवीजलयोर्मध्य इत्यर्थः । षड्विध इत्यत्र रस इत्यनुषज्यते ।
गन्धं निरूपयति घ्राणग्राह्य इति । प्रयोजनानि तु पूर्ववद्बोध्यानि । स्पर्शं निरूपयति त्वगिति । अत्र मात्रपदं चक्षुरिन्द्रियाग्राह्यपरम् । तदनिवेशे
तर्कसङ्ग्रहः
[[१५]]
शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतं जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ॥
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ॥ एकत्वादिव्यवहारहेतुः सङ्ख्या 1 नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यमनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव ॥
मानव्यवहारकारणं परिमाणम् । नवद्रव्यवृत्ति । तच्चतुर्विधम् ।
[[1]]
सङ्ख्यायामतिव्याप्तिरतस्तन्निवेशः । गुणपदानुपादाने वाय्वानीतजलभागे अतिव्याप्तिरतस्तन्निवेशः । रसादावतिव्याप्तिवारणाय त्वगिति । स इति । स्पर्श इत्यर्थः । रूपादीति । रूपरसगन्धस्पर्शा इत्यर्थः । पाकजमिति । पाकस्तेजस्संयोगः । तेन परमाण्वादिनिखिलपृथिव्यां पूर्वरूपनाशरूपान्तरो- त्पत्त्योरुपगमात् अनित्यं चेत्युक्तम् । अन्यत्रेति । पृथिवीभिन्नेषु जलतेजो- वायुष्वित्यर्थः । एकैकं त्यक्त्वेति भावः । अपाकजमिति । पाकाजन्यमित्यर्थः । अत एव नित्यगतरूपादिकं नित्यमनित्यगतं तदनित्यम् आश्रयनाशेन तन्नाशात् ।
ननु परमाणुसद्भावे किं प्रमाणमिति चेत् - इत्थम् । जालसूर्यमरीचिस्थं सूक्ष्मतमं रजस्सावयवं चक्षुर्ग्राह्यत्वे सति द्रव्यत्वात् । त्र्यणुकावयवोपि सावयवः महदारम्भकत्वादित्यनुमानेन त्र्यणुकावयवावयवसिद्धेः तस्य च परमाणुत्वं नित्यत्वं च । न च तस्यापि सावयवत्वमस्तु महदारम्भकारम्भकत्वेन हेतुनेति वाच्यम् । अनवस्थाप्रसङ्गात् । न च त्र्यणुक एव विश्रामोस्त्विति वाच्यम्। अपकृष्टमहत्वस्य समवेतसमवेतद्रव्यत्वप्रयोज्यत्वादित्यनुसन्धेयम्।
[[1]]
सङ्ख्यां लक्षयति एकत्वेति । आदिपदाद्दित्वादिपरिग्रहः । सङ्ख्याप्रकारकलौ किकप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वं सङ्ख्यालक्षणम् कालेतिव्याप्तिवारणाय प्रत्यक्षत्वावच्छिन्नेति । एवमग्रेपि बोध्यम् । परिमाणं लक्षयति मानेति । तद्विभजते तच्चेति । परिमाणमित्यर्थः । भावप्रधानोयं
[[१६]]
न्यायशेखरीव्याख्योपेतः
अणु महद्दीर्घं ह्रस्वं चेति ॥
पृथग्व्यवहारकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति ॥ संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥
संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥
परापरव्यवहारासाधारणकारणे परत्वापारत्वे । ते द्विविधे दिक्कृते कालकृते चेति । दूरस्थे दिक्कृतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् ॥
आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ॥
निर्देशः । पृथक्त्वं लक्षयति पृथगिति । संयोगं निरूपयति संयुक्तेति । स च त्रिविधः । एकतरकर्मजन्योभयकर्मजन्यसंयोगजभेदात् । आद्यो धरणी- नरसंयोगः । द्वितीयो वन्दनादौ हस्तद्वयसंयोगः । तृतीयो हस्तपुस्तकसंयोगः । स चाव्याप्यवृत्तिः । स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमव्याप्य- वृत्तित्वम् । विभागं लक्षयति संयोगेति । कालादावतिव्याप्तिवारणाय विशेष्यम् । विशेषणं रूपादिवारकम् । न च तथापि संयोगे अतिव्याप्तिः नाशं प्रति प्रतियोगिनः कारणत्वादिति वाच्यम् । कारणतायां तादात्म्यसम्बन्धा- नवच्छिन्नत्वनिवेशेनादोषात् रे । अन्यत्सर्वं संयोगवत् । परत्वापरत्वयो- र्लक्षणमाह परापरेति । परत्वव्यवहारासाधारणकारणं परत्वम् । अपरत्वव्यवहारासाधारणकारणमपरत्वम् । गुरुत्वलक्षणमाह आद्येति ।
१. स चेति । संयोग इत्यर्थः ।
२. कालादेः कार्यसामान्यं प्रति कारणत्वेन संयोगनाशं प्रत्यपि हेतुत्वात् संयोगनाशकत्वमात्रोक्तौ कालादावतिव्याप्तिरतो गुणपदमिति भावः ।
३. ध्वंसं प्रति प्रतियोगिनस्तादात्म्येनैव कारणत्वात् । संयोगनाशं प्रति तादात्म्यसम्बन्धानवच्छिन्न कारणतायास्संयोगे असत्वान्नदोष इति भावः I संयोगनाशं प्रति विभागस्य हेतुता तु समवाय सम्बन्धेनेति बोध्यम् ।तर्कसङ्ग्रहः
[[१७]]
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिवीजलतेजो- वृत्ति । तद्द्विविधम् । सांसिद्धिकं नैमित्तिकं चेति । सांसिद्धिकं जले, नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ॥
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ॥
श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधः ध्वन्यात्मको वर्णात्मकश्चेति । ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥
सर्वव्यवहारहेतुर्ज्ञानं वुद्धिः । सा द्विविधा । स्मृतिरनुभवश्चेति ।
स्वसमानाधिकरणपतनध्वंसासमानकालीनत्वमाद्यत्वम् । द्रवत्वं लक्षयति आद्येति । अत्राप्याद्यत्वं पूर्वोक्तदिशावसेयम्’ । स्नेहं लक्षयति चूर्णादीति । आदिना मृत्परिग्रहः । पिण्डीभावेति । विलक्षणावयवसंयोग इत्यर्थः । शब्दं लक्षयति श्रोत्रेति । नन्वाद्यशब्दस्य प्रत्यक्षाविषयत्वा’ दव्याप्तिरिति चेन्न । तादृशप्रत्यक्षविषयीभूतरूपावृत्तिजातिमत्त्वस्य विवक्षितत्वात् । बुद्धिं निरूपयति सर्वेति । व्यवहारश्शब्दप्रयोगः । तत्र हेतुः प्रयोजिका । इदं तु न लक्षणं किन्तु ज्ञानत्वम् । अन्यथा कालादावतिव्याप्तेः " । तां विभजते सेति । स्मृतिं लक्षयति संस्कारेति । मात्रपदं सन्निकर्षाजन्यत्वार्थकम् । अन्यथा
१. स्वसमानाधिकरणस्यन्दनध्वंसासमानकालीनत्वमित्यर्थः ।
२. भेरीदेशे उत्पन्नस्य शब्दस्य श्रोत्रासमवेततया अप्रत्यक्षत्वादित्यर्थः । ३. श्रोत्रप्रत्यक्षविषयीभूता रूपावृत्तिर्याजातिस्तद्वत्त्वमित्यर्थः । सा च जातिः शब्दत्वमेव । रूपावृत्तित्वानुपादाने गुणत्वमादाय रूपादावतिव्याप्तिरतस्तत् । ४. ज्ञानत्वजातिमत्त्वं बुद्धेर्लक्षणमित्यर्थः ।
५. कालादेः कार्यसामान्यं प्रति कारणतया शब्दप्रयोगरूपव्यवहारं प्रत्यपि कारणत्वादित्यर्थः ।
६. मात्रपदस्य सन्निकर्षाजन्यत्वार्थकत्वमनुत्त्वा संस्कारेतराजन्यत्वार्थकत्व स्वीकारे इत्यर्थः।
[[१८]]
न्यायशेखरीव्याख्योपेतः
संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः ।
स द्विविधः यथार्थोऽयथार्थश्च । तद्वति तत्प्रकारकोऽनुभवो यथार्थः । यथा रजते “इदं रजतम्” इति ज्ञानम् । सैव प्रमेत्युच्यते । तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । यथा शुक्तौ “इदं रजतम्” इति ज्ञानम् । सैवाप्रमेत्युच्यते ।
यथार्थानुभवश्चतुर्विधः । प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ।
स्मृतेरनुभवजन्यत्वादसम्भवापत्तेः । अनुभवं लक्षयति तद्भिन्नेति । तद्भिन्नं स्मृतिभिन्नम् । पूर्वदलानुक्तौ स्मृतावतिव्याप्तिः । अतस्तन्निवेशः । घटादावतिव्याप्तिवारणाय ज्ञानेति । तं विभजते स इति । यथार्थानुभवं लक्षयति तद्वतीति । तद्वतीत्यत्र सप्तम्यर्थो विशेष्यत्वम् । तच्चाभेदेन’ तत्प्रकारकान्वितानुभवेन्वेति । तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारता- कत्वं तु वाक्यार्थः । ननु मूलावच्छिन्नो वृक्षः कपिसंयोगीत्ययथार्थानु- भवेतिव्याप्तिः । कपिसंयोगवद्वृक्षनिष्ठविशेष्यतानिरूपितकपिसंयोगप्रकार- ताकत्वादिति चेन्न । तदवच्छेदकदेशावच्छिन्नविशेष्यतानिरूपिततन्निष्ठ- प्रकारताकत्वस्यैवाव्याप्यवृत्तिस्थलीयप्रमालक्षणतया दोषविरहात् । न चैवं व्याप्यवृत्तिस्थलीयप्रमालक्षणस्यातिव्याप्तिरशक्यपरिहारेति वाच्यम् । व्याप्य- वृत्तिस्थलीयलक्षणे देशकालाद्यनवच्छिन्नत्वस्य विशेष्यतायां निवेशेन दोषाभावादिति कृतं पल्लवितेन । अयथार्थानुभवं लक्षयति तदभाववतीति । यथार्थानुभवे अतिव्याप्तिवारणायेदम् । अयथार्थस्मृतावतिव्याप्तिवारणायानु- भवेति । ननु शब्दवद्गगनमिति प्रमायामतिव्याप्तिर्गगने शब्दाभावस्यापि सत्वादिति चेन्न । तदभावनिष्ठाधेयतानिरूपितनिरवच्छिन्नाधिकरणतावन्निष्ठ- विशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वस्य विवक्षितत्वादिति तु तत्त्वम् । यथार्थानुभवं विभजते यथार्थेति । अयं त्वनुभवसामान्यविभाग एव । प्रसङ्गात्प्रमाकरणं विभजते तत्करणमिति । ननु प्रमाकरणानां प्रत्यक्षा-
१. अभेदेन तत्प्रकारकान्वितो योनुभवस्तत्रेत्यर्थः ।
२.
तथा च गगने शब्दाभावस्य किञ्चिद्देशावच्छेदेनैव सत्वात् शब्दाभावनिष्ठाधेयता- निरूपितनिरवच्छिन्नाधिकरणताया गगने असत्वान्नातिव्याप्तिरिति भावः ।
तर्कसङ्ग्रहः
तत्करणमपि चतुर्विधम् । प्रत्यक्षानुमानोपमानशब्दभेदात् ॥
असाधारणं कारणं करणम् ॥
कार्यनियतपूर्ववृत्ति कारणम् ।
[[१९]]
नुमानोपमानशब्दार्थापत्त्यनुपलब्धिसम्भवैतिह्यानामष्टानां सत्वात्कथं चतु- र्विधमिति – तथा हि पीनो देवदत्तो दिवा न भुङ्क्ते इत्यादौ दिवा अभुञ्जानस्य देवदत्तस्य पीनत्वान्यथानुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यते । एवं भूतले घटाभाववत्ताज्ञाने प्रतियोग्यनुपलब्धेः कारणत्वात् अनुपलब्धेः एवं सम्भवैतिह्ययोरपि प्रमाणान्तरत्वमिति चेन्न । तेषां क्लृप्तप्रमाणेष्वेवान्तर्भावः नत्वतिरिक्तत्वम् । तत्रार्थापत्तेरनुमानेन्तर्भावः । तथा हि देवदत्तो रात्रि- भोजनवान् दिवा अभुञ्जानत्वे सति पीनत्वादित्यनुमानेन रात्रिभोजनमनुमितौ भासते । एवं भूतले घटो नास्तीत्यत्र अधिकरणज्ञानार्थमवश्यकल्प्यकरणता- केन्द्रियस्यैव करणत्वं, प्रतियोग्युपलम्भाभावस्य सहकारित्वमित्यनेनैवोपपत्तौ अनुपलब्धेः प्रमाणान्तरत्वमयुक्तम् । एवं सम्भवस्यानुमाने - तथा हि अयं पञ्चाशन्निष्कवान् पञ्चाशद्व्याप्यशतनिष्कवत्वादिति । ऐतिह्यस्य अविज्ञातमूल- वक्तृकशब्दत्वाच्छब्द एवान्तर्भावः ।
तत्करणमपीत्यत्र करणत्वं किमित्यत आह असाधारणेति । असाधारणत्वं व्यापारवत्वम् । कारणं लक्षयति कार्येति । रासभादावतिव्याप्तिवारणाय सत्यन्तम्’ । तन्मात्रोपादाने’ कार्येतिव्याप्तिरतो विशेष्यनिवेशः । नन्वेवमपि तन्तुत्वादावतिव्याप्तिवारणायावश्यक्लृप्तनियतपूर्ववृत्तिभिन्नत्वरूपान्यथासिद्धि- शून्यत्वस्य विवक्षणीयतया तत एव रासभादावतिव्याप्तिवारणसम्भवे
१. कार्यनियतत्वे सति कार्यपूर्ववृत्तित्वं कारणत्वम् । तत्र नियतत्वे सतीत्यस्यानुपादाने कदाचित् घटपूर्ववृत्तित्वस्य रासभेपि सम्भवात् रासभस्यापि घटकारणत्वापत्तिः अतो नियतत्वम् । तच्च व्यापकत्वम् । तस्य च रासभे असत्वान्नातिव्याप्तिरिति भावः । २. तन्मात्रोपादाने – कार्यनियतत्वमात्रोपादाने । कार्येतिव्याप्तिरिति । स्वस्य स्वव्यापकत्वात् कार्यनियतत्वं कारणत्वमित्युक्तौ कार्यस्यापि स्वकारणत्वापत्तिः । विशेष्यनिवेश इति । पूर्ववृत्तित्वनिवेश इत्यर्थः । पूर्ववृत्तित्वं च पूर्वकालवृत्तित्वम् । स्वस्य स्वपूर्वकालवृत्तित्वाभावान्नातिव्याप्तिरित्यर्थः ।
[[२०]]
न्यायशेखरीव्याख्योपेतः
कार्यं प्रागभावप्रतियोगि ॥
कारणं त्रिविधम्। समवाय्यसमवायिनिमित्तभेदात् । यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः । कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत्कारणं असमवायिकारणम् । यथा तन्तुसंयोगः पटस्य,
दलद्वयोपादानमपि व्यर्थमिति चेन्न । अन्यथासिद्धत्वस्यैकस्यानुगतस्या- भावेन यत्र प्रामाणिकानामन्यथासिद्धत्वव्यवहारः तत्तद्भेदकूटवत्वस्यैव निवेशनीयतया तावद्भेदकूटवत्त्वनिवेशे गौरवात् यावतां तत्तद्भेदकूटमनिवेश्य कार्यनियतत्वपूर्ववृत्तित्वविशेषणाभ्यां वारणं सम्भवति तावतां तादृश- विशेषणाभ्यामेव’ वारणस्य युक्तत्वादित्यभिप्रायात् । कारणलक्षणे कार्यत्वस्य घटकत्वात् किं तत् कार्यत्वमित्यत आह कार्यं चेति । कारणं विभजते कारणमिति । समवायिकारणस्य लक्षणमाह यत्समवेतमिति । यस्मिन् समवेतमित्यर्थः । तथा च समवायसम्बन्धावच्छिन्नकार्यतानिरूपित- तादात्म्यसम्बन्धावच्छिन्नकारणताश्रयत्वं समवायिकारणलक्षणमित्यर्थः । अत्र रूपध्वंसत्वावच्छिन्नं प्रति रूपस्य तादात्म्यसम्बन्धेन कारणतया रूपे अतिव्याप्तिरतो निरूपितान्तम् । वक्ष्यमाणासमवायिकारणे तन्तुद्वयसंयोगे समवायसम्बन्धावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वस्य सत्वादतिव्याप्ति- रतः कारणतायां तादात्म्यसम्बन्धावच्छिन्नत्वनिवेशः ४ । समवायिकारण- मुदाहरति यथेति । असमवायिकारणं लक्षयति कार्येणेति । तथा च तत्कार्य- तत्कार्यसमवायिकारणान्यतरसमवायिकारणसमवेतत्वे सति कारणत्वम् असमवायिकारणस्य लक्षणम् । न चैवं तुरीतन्तुसंयोगे अतिव्याप्तिरिति १. तथा चानन्यथासिद्धत्वं कारणत्वमित्येवास्तु इति शङ्कितुराशयः ।
२. कार्यनियतत्वपूर्ववृत्तित्वविशेषणाभ्यामित्यर्थः । विशेषणाभ्यामिति तृतीयान्तम् । ३. तथा सति रूपध्वंसनिष्ठकार्यतायाः प्रतियोगितासम्बन्धावच्छिन्नत्वेन समवाय- सम्बन्धानवच्छिन्नतया नातिव्याप्तिरित्यर्थः ।
४. तथा सति तन्तुसंयोगनिष्ठ पटनिरूपितकारणतायाः समवायसम्बन्धावच्छिन्नतया तादात्म्यसम्बन्धानवच्छिन्नत्वेन नातिव्याप्तिरिति भावः ।
तर्कसङ्ग्रहः
[[२१]]
तन्तुरूपं पटरूपस्य च । तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ॥
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्द्विविधम् । निर्विकल्पकं सविकल्पकं चेति ।
वाच्यम् । तस्यापि तुरीपटसंयोगं प्रत्यसमवायिकारणतया लक्ष्यत्वात्सामान्य- लक्षणस्य’ । विशेषलक्षणे तु तद्भिन्नत्वं निवेशनीयमिति दिक् । तदुदाहरति यथेति । निमित्तकारणं लक्षयति तदुभयेति । समवायिकारणासमवायि- कारणभिन्नत्वे सति कारणत्वं निमित्तकारणलक्षणमित्यर्थः । नन्वेवं तुरीतन्तुसंयोगे अव्याप्तिः तस्य तुरीपटसंयोगं प्रत्यसमवायिकारणतया असमवायिकारणभिन्नत्वाभावात् । न च समवायिकारणताभिन्ना असमवायि- कारणताभिन्ना या कारणता तदाश्रयत्वविवक्षणान्न दोष इति वाच्यम् । तत्राप्यसमवायिकारणताभिन्नेत्यस्य तत्कार्यतत्कार्यसमवायिकारणान्यत- रसमवायिकारणवृत्तिकारणताभिन्नत्वपर्यवसिततया पुनश्चाव्याप्तितादवस्थ्य- मिति चेन्न । द्रव्यनिमित्तकारणलक्षणे तत्तत्कार्यनिरूपितफलोपधाना- त्मककारणताभिन्नकारणताश्रयत्वं तत्तत्कार्यनिमित्तकारणत्वमित्यर्थेनानुप- पत्त्यभावात् । गुणादिनिमित्तकारणलक्षणे तु प्रातिस्विकरूपेण तत्तत्समवाय्य- समवायिकारणानि निवेश्य तत्तद्भेदकूटवत्वस्यैव घटकत्वात् । तत्कार्य- निरूपितफलोपधानात्मककारणता च तत्कार्याश्रयकालत्वव्याप्यस्वाश्रय- कालत्वकत्वमिति दिक् । करणलक्षणमुपसंहरति तदेतदिति । प्रत्यक्षप्रमाणलक्षणमाह प्रत्यक्षेति । प्रत्यक्षप्रमाया लक्षणमाह इन्द्रियार्थेति । इन्द्रियार्थसन्निकर्षजन्यत्वे सति ज्ञानत्वं प्रत्यक्षप्रमाया लक्षणमित्यर्थः । न च ईश्वरज्ञानस्य नित्यत्वादिन्द्रियार्थसन्निकर्षजन्यत्वाभावादव्याप्तिरिति वाच्यम्।
१. असमवायिकारणसामान्यलक्षणस्येत्यर्थः ।
२. विशेषलक्षणे इति । पटासमवायिकारणलक्षणे इत्यर्थः । तद्भिन्नत्वमिति । तुरीतन्तु संयोगभिन्नत्वमित्यर्थः ।
[[२२]]
न्यायशेखरीव्याख्योपेतः
निष्प्रकारकं ज्ञानं निर्विकल्पकम् । सप्रकारकं ज्ञानं सविकल्पकम् यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयं पाचकोऽयमिति ॥
[[7]]
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः, संयुक्त- समवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्चेति । चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपस्य समवायात् । रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतं
इन्द्रियार्थसन्निकर्षजन्यज्ञानत्वसमानाधिकरणानुमित्यवृत्ति’ जातिमत्त्वस्य विवक्षितत्वेन तादृशीं प्रत्यक्षत्वजातिमादाय लक्षणसमन्वयसम्भवात् । तद्विभजते तद्विविधमिति । निर्विकल्पकस्य लक्षणमाह निष्प्रकारकमिति । प्रकारताशून्यत्वे सति ज्ञानत्वं निर्विकल्पकस्य लक्षणमित्यर्थः । घटादावति- व्याप्तिवारणाय ज्ञानत्वनिवेशः । सविकल्पके अतिव्याप्तिवारणाय प्रकारता- शून्यत्वनिवेशः । सविकल्पकस्य लक्षणमाह सप्रकारकमिति । प्रकारता- निरूपकत्वे सति ज्ञानत्वं सविकल्पकस्य लक्षणमित्यर्थः । निर्विकल्पके इच्छादौ चातिव्याप्तिवारणाय विशेषणविशेष्ययोरुभयोरुपादानम् । अत्र निर्विकल्पकसविकल्पकभेदेन विभागो ज्ञानसामान्यस्यैवेति नानुमित्यादा- वतिव्याप्तिप्रसक्तिरिति बोध्यम् । तदुदाहरति यथेति । सन्निकर्षं विभजते प्रत्यक्षज्ञानेति । न चालौकिकसन्निकर्षाणां सामान्यलक्षणादीनां सत्वात् कथं षड्विधत्वमिति वाच्यम् । तत्तदर्थेष्विन्द्रियाणां प्रमाकरणत्वोपपादकतया लौकिकसन्निकर्षाणामेवात्र विभजनेनादोषात् । ननु चक्षुस्संयुक्तसमवेत-
१. अनुमित्यवृत्तित्वानुपादाने तादृशीमनुभवत्वजातिमादायानुमित्यादावतिव्याप्तिः । तदुपादाने तु अनुभवत्वस्यानुमितिवृत्तित्वेन प्रत्यक्षत्वस्यैव अनुमित्यवृत्ति जातिपदेन स्वीकार्यतया नानुमित्यादावतिव्याप्तिरिति भावः ।
२. अत्र यथाक्रममन्वयः । निर्विकल्पके अतिव्याप्तिवारणाय प्रकारतानिरूपकत्वं इच्छादावतिव्याप्तिवारणाय ज्ञानत्वमित्यर्थः ।
[[7]]
तर्कसङ्ग्रहः
[[२३]]
तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः । कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात्, शब्दस्याकाश- गुणत्वात् गुणगुणिनोस्समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः । श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः । “घटाभाववद्भूतलम्” इत्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् । एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम् । तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥
इति प्रत्यक्षपरिच्छेदः समाप्तः ॥
समवायेनैव सर्वत्र प्रत्यक्षोपपत्तौ संयोगसंयुक्तसमवाययोः पृथक्सन्निकर्षत्व- कल्पनमनुचितम् । न च त्र्यणुकतद्रूपयोः कथं चक्षुस्संयुक्तसमवेतसमवायेन प्रत्यक्षमिति वाच्यम् । चक्षुस्संयुक्तपरमाणुसमवेतद्व्यणुकसमवायस्य त्र्यणुके, एवं चक्षुस्संयुक्तद्व्यणुकसमवेतत्र्यणुकसमवायस्य त्र्यणुकरूपे च सत्वान्नानुप- पत्तिरिति चेन्न । चक्षुषा परमाणुरूपस्य तन्निष्ठरूपत्वस्यापि प्रत्यक्षापत्तिवारणाय चक्षुस्संयोगे महत्त्वोद्भूतरूपावच्छिन्नत्वविशेषणस्यावश्यकतया त्र्यणुक- तन्निष्ठरूपयोः महत्त्वोद्भूतरूपावच्छिन्नचक्षुस्संयोगाश्रयसमवेतसमवायरूप- सन्निकर्षाभावात् तयोः प्रत्यक्षानुपपत्तिरिति संयोगसंयुक्तसमवाययोः पृथक् सन्निकर्षत्वम् । तथा सति त्र्यणुकतन्निष्ठरूपयोः प्रत्यक्षोपपत्तिस्सम्भवतीति ध्येयम् । समवायसन्निकर्षमुदाहरति श्रोत्रेणेति । ननु श्रोत्रस्य यद्याकाशत्वं तदा श्रोत्राणामनेकत्वादाकाशस्यानेकत्वं स्यादिति चेन्न । एकस्यैवाकाशस्य तत्तत्कर्णशष्कुलीरूपोपाधिभेदाद्व्यवहारभेदो नत्वनेकत्वम् । समवेतसमवाय- मुदाहरति शब्दत्वेति । विशेषणविशेष्यभावरूपसन्निकर्षमुदाहरति घटाभाव- वदिति । प्रत्यक्षप्रमितिलक्षणमुपसंहरति एवमिति । षट्लाश्रयतत्तत्सन्निकर्षजन्यं षड्विधमपि ज्ञानं प्रत्यक्षमित्यर्थः । तेन सन्निकर्षषङ्केन एकज्ञानाजननेपि न क्षतिः । प्रत्यक्षप्रमाणलक्षणमुपसंहरति तस्मादिति । प्रत्यक्षप्रमितिं प्रति सन्निकर्षद्वारा इन्द्रियाणां जनकत्वादित्यर्थः ।
।
इति श्रीयज्ञनारायणशास्त्रिविरचितायां न्यायशेखर्यां प्रत्यक्षपरिच्छेदः समाप्तः
[[२४]]
न्यायशेखरीव्याख्योपेतः
अथानुमानपरिच्छेदः
अनुमितिकरणमनुमानम् । परामर्शजन्यं ज्ञानमनुमितिः ।
अनुमानपरिच्छेदः
अनुमानं लक्षयति अनुमितिकरणमिति । ननु घटो घट इति वाक्याच्छाब्द- बोधवारणाय अभेदसम्बन्धावच्छिन्न तद्धर्मावच्छिन्नप्रकारतानिरूपितविशेष्य- तावच्छेदकतासम्बन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तद्धर्मभेदस्य कारणत्वा- वश्यकतया अनुमितिकरणानुमानपदार्थतावच्छेदकयोरैक्यात् भेदाभावेन निरुक्तपदार्थयोरभेदसम्बन्धेन शाब्दबोधासम्भवात् अनुमितिकरणमनुमान- मिति वाक्यमबोधकमिति चेन्न । अनुमानपदस्य व्याप्तिज्ञानत्वावच्छिन्न- परत्वात् । तथा च व्याप्तिज्ञानत्वावच्छिन्नम् अनुमितिकरणाभिन्नमिति शाब्दबोधः । अत्र व्याप्तिज्ञानत्वस्य अनुमितिकरणत्वस्य च भेदादनुपपत्ते- र्नावकाशः । अनुमितेर्लक्षणमाह परामर्शेति । परामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम् । ननु संशयोत्तरप्रत्यक्षस्य पुरुषत्वव्याप्यकरादि- मानयमित्याकारकपरामर्शजन्यत्वेन ज्ञानत्वेन च तत्रातिव्याप्तिरिति चेन्न । पक्षताजन्यत्वे सतीति विशेषणेन तद्वारणात् । द्वितीयदलानिवेशे’ पक्षता- प्रत्यक्षेतिव्याप्तिरतस्तन्निवेशनम् । न चैवं पक्षतां परामर्शं च जानामीति पक्षतापरामर्शोभयविषयकप्रत्यक्षेतिव्याप्तिरिति वाच्यम् । परामर्शनिष्ठजनक- तायां पक्षतानिष्ठजनकतायां च तादात्म्यसम्बन्धानवच्छिन्नत्वनिवेशात् । न च परामर्शनिष्ठजनकतायां तादात्म्यसम्बन्धानवच्छिन्नत्वनिवेशेनैव पूर्वोक्त- दोषानवतारादुभयत्र तादात्म्यसम्बन्धानवच्छिन्नत्वनिवेशने प्रयोजनविरह इति वाच्यम् ।
वह्निव्याप्यधूमवत्पर्वतवद्देशपक्षतैतदुभयविषयकप्रत्यक्षस्य तथात्वात्तत्रा- तिव्याप्तेर्वारणाय तदुपादानस्यावश्यकत्वात् । ननु पक्षतानिष्ठजनकतायामेव तादात्म्यसम्बन्धानवच्छिन्नत्वं निवेश्यतां तावतैव सकलदोषोद्धारादिति
१. परामर्शजन्यत्वस्यानिवेशे इत्यर्थः
तर्कसङ्ग्रहः
[[२५]]
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा “वह्निव्याप्यधूमवानयं पर्वतः " इति ज्ञानं परामर्शः । तज्जन्यं “ पर्वतो वह्निमान् ” इति
परामर्शजन्यत्वदलस्यैव व्यर्थता । ननु पर्वतो वह्न्यभाववानित्यनाहार्यबुद्धिं प्रति पर्वतो वह्निमानित्याकारकसिद्धेः तदभाववत्ता निश्चयमुद्रया प्रतिबन्ध- कत्वात्तदभावस्य पर्वतपक्षकवह्निसाध्यकस्थलीयसिध्यभावरूपतया तज्जन्ये पर्वतो वह्न्यभाववानित्याकारकज्ञानेतिव्याप्तिवारकता तस्येति चेत् भ्रान्तोसि - पक्षतायाः सिषाधयिषाविरहविशिष्टसिध्यभावरूपतया, एतादृश- विशिष्टाभावस्य च तदभाववत्तानिश्चयत्वावच्छिन्न प्रतियोगिताकाभावापेक्षया अतिरिक्तत्वेन सिषाधयिषाविरहविशिष्टसिध्यभावजन्यतायाः कथमप्यसम्भ- वेन तत्रा’तिव्याप्तेरयोगादिति चेन्न । यत्र स्थलविशेषे सिषाधयिषापि न जाता तत्र सिध्यभावमात्रस्यैव कारणतया तद्विशेष्यकतदभाववत्ताबुद्धिं प्रत्यपि केवल तदभाववत्तानिश्चयात्मकपक्षसाध्यप्रकारकनिश्चयाभावस्यैव हेतुतया तत्र पक्षविशेष्यकसाध्याभावबुद्धेर्निरुक्तपक्षताजन्यत्वात् ज्ञानत्वाच्चातिव्याप्ते- र्वारकत्वेन परामर्शजन्यत्वस्य सार्थक्यसम्भवात् । उक्तं च पक्षताग्रन्थे दीधितिकृता ‘यत्र सिषाधयिषाबलात्सिध्यनन्तरमनुमितिर्न जाता तत्र सिध्य- भावमात्रं पक्षते ‘ति । नन्वेवमपि तादृशस्थले निरुक्तसाध्याभावं पक्षे आत्मनि परामर्शं चावगाहमानसमूहालम्बनात्मकलौकिकप्रत्यक्षे तथाविधमानसे वा अतिव्याप्तिर्दुर्वारेति चेन्न । परामर्शनिष्ठजनकतायामपि तादात्म्यसम्बन्धान- वच्छिन्नत्वस्य निवेशेन पक्षताजन्यतावच्छेदकावच्छिन्न परामर्शजन्यताश्रय- त्वनिवेशेन वा अनुपपत्त्यभावात् । एतल्लाभायैव ज्ञानपदनिवेशेन ज्ञानपद- वैयर्थ्यानवकाशाच्चेति परैरननुशीलितः पन्थाः । अनुमितिलक्षणे परामर्शस्य घटकतया किं तत्परामर्शत्वमित्यत आह व्याप्तीति । व्याप्तिविषयकपक्ष- धर्मताज्ञानमित्यर्थः । तेन भ्रमानुमितिस्थले व्याप्तिविशिष्टपक्षधर्मताया अप्रसिद्धत्वेपि न क्षतिः । परामर्शाभिलापकशब्दमाह यथेति । अनुमिति- लक्षणमुपसंहरति तज्जन्यमिति । परामर्शजन्यमित्यर्थः । परामर्शलक्षणे
१. तत्रेति - पर्वतो वह्न्यभाववानिति ज्ञाने इत्यर्थः
[[२६]]
न्यायशेखरीव्याख्योपेतः
ज्ञानमनुमितिः । यत्र धूमस्तत्राग्निः इति साहचर्यनियमो व्याप्तिः ।
व्याप्तेर्घटकत्वात् उपोद्घातसङ्गत्या व्याप्तिं निरूपयति यत्रेति । यत्र धूमस्तत्राग्निरिति व्याप्त्यभिलापकश्शब्दः । साहचर्यनियम इति । साहचर्यं सामानाधिकरण्यं नियमश्च व्यापकत्वम् । अर्थाद्धेतोस्साध्यस्येति पूरणीयम् । तथा च हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिरित्यर्थः । वह्निमान् धूमादित्यादौ हेत्वधिकरणीभूतपर्वतनिष्ठात्यन्ता- भावाप्रतियोगिवह्निसामानाधिकरण्यं धूमे वर्तत इति लक्षणसमन्वयः । व्यभिचारिणि तु धूमवान् वह्नेरित्यादौ वह्न्यधिकरणीभूतायोगोलकवृत्तिधूमा- भावप्रतियोगित्वाद्धूमस्य अप्रतियोगित्वं न सम्भवतीति नातिव्याप्तिः । अत्र हेतुसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकसाध्यतावच्छेद- कावच्छिन्नसामानाधिकरण्यं व्याप्तिरिति वाच्यम् । तेन सत्तावान् गुणत्वा- दित्यादौ गुणत्वाधिकरणीभूतगुणनिष्ठविशिष्टसत्ताभावप्रतियोगित्वेपि शुद्ध- सत्ताया न क्षतिः २ । हेतुनिष्ठाधेयता च हेतुतावच्छेदकसम्बन्धावच्छिन्ना हेतुतावच्छेदकावच्छिन्नेत्यपि बोध्या । तेन वह्निमान् धूमादित्यादौ वह्नेः समवायेन धूमाधिकरणीभूतधूमावयवनिष्ठाभावप्रतियोगित्वेपि द्रव्यं विशिष्ट- सत्त्वादित्यादौ विशिष्टसत्तायाः शुद्धसत्तायाश्चैक्यात् शुद्धसत्ताधिकरणगुणादि- निष्ठाभावप्रतियोगित्वेपि द्रव्यत्वस्य नाव्याप्तिः । अभावश्च निरवच्छिन्नवृत्तिको बोध्यः । तेन कपिसंयोग्येतद्वृक्षत्वादित्यादौ हेत्वधिकरणीभूतैतद्वृक्षे वर्तमाना- भावप्रतियोगित्वेपि कपिसंयोगस्य नाव्याप्तिः ४ । न चैवमपि कपिसंयोग्येत- द्वृक्षत्वादित्यत्र गुणान्तर्भावेण निरवच्छिन्नवृत्तिकहेत्वधिकरणवृत्तिकपि-
[[1]]
१. विशिष्टं शुद्धान्नातिरिच्यत इति न्यायेन विशिष्टसत्ताभावप्रतियोगित्वं शुद्धसत्ताया अपीत्याशयः ।
२. न क्षतिः - नाव्याप्तिः ।
३. अत्र यथाक्रममन्वयः । वह्निमान् धूमादित्यादावव्याप्तिवारणाय हेतुतावच्छेदक- सम्बन्धावच्छिन्नत्वं द्रव्यं विशिष्टसत्वादित्यादावव्याप्तिवारणाय हेतुतावच्छेका- वच्छिन्नत्वं च हेतुनिष्ठाधेयतायां निवेशनीयमित्याशयः ।
[[7]]
४. वृक्षे वर्तमानस्य कपिसंयोगाभावस्य मूलावच्छिन्नतया निरवच्छिन्नत्वाभावा- न्नाव्याप्तिरित्याशयः ।तर्कसङ्ग्रहः
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥
[[२७]]
अनुमानं द्विविधम् स्वार्थं परार्थं च । तत्र स्वार्थं स्वानुमितिहेतुः । तथा हि । स्वयमेव भूयोदर्शनेन “यत्र धूमस्तत्राग्निः” इति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति, “यत्र धूमस्तत्राग्निः” इति । तदनन्तरं “वह्निव्याप्यधूमवानयं पर्वतः” इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् “पर्वतो वह्निमान् ” इत्यनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् ।
यत्तु स्वयमेव धूमादग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुङ्क्ते तत् परार्थानुमानम् । यथा “पर्वतो वह्निमान् । धूमवत्वात् ।
संयोगाभावप्रतियोगित्वात्कपिसंयोगस्येत्यव्याप्तिरिति वाच्यम् । हेत्वधि-
करणान्तर्भावेण निरवच्छिन्नवृत्तिकाभावप्रतियोगितानवच्छेदकसाध्यताव- च्छेदकावच्छिन्नसामानाधिकरण्यस्य व्याप्तित्वेन कपिसंयोग्येतद्वृक्षत्वादित्यत्र कपिसंयोगाभावस्य गुणान्तर्भावेण निरवच्छिन्नवृत्तिकत्वेपि हेत्वधिकरणी- भूतैतद्वृक्षान्तर्भावेण निरवच्छिन्नवृत्तिकत्वाभावान्नाव्याप्तिरित्यलं पल्लवितेन । पक्षधर्मतायाः स्वरूपमाह व्याप्यस्येति । साध्यव्याप्यस्येत्यर्थः । हेतोरिति यावत् । अनुमानं विभजते स्वार्थमिति । अनुमितिरपि द्विविधा स्वार्थानुमितिः परार्थानुमितिश्चेति । तत्र स्वार्थानुमितिं प्रति स्वार्थानुमानं करणम् । परार्थानुमितिं प्रति परार्थानुमानं करणं । तत्राद्यस्य’ करणत्वमुपपादयति तथाहीति । स्वयमेवेति । न्यायवाक्यं विनैवेत्यर्थः । न्यायश्च उचितानुपूर्वीक- प्रतिज्ञादिपञ्चकसमुदायः । द्वितीयस्य’ करणत्वमुपपादयति यत्त्विति । तत् परार्थानुमानमिति । परस्यार्थः प्रयोजनं यस्मात्तत्परार्थं तादृशमनुमानं यस्मादिति व्युत्पत्त्या परार्थानुमितिप्रयोजकानुमानप्रयोजकं पञ्चावयववाक्य-
१. आद्यस्य - स्वार्थानुमानस्य । २. द्वितीयस्य - परार्थानुमानस्य ।
[[२८]]
न्यायशेखरीव्याख्योपेतः
यथा महानसः । तथा
/
यो यो धूमवान् स वह्निमान् चायम् । तस्मात्तथा” इति । अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते ॥
प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । “पर्वतो वह्निमान्” इति प्रतिज्ञा । " धूमवत्वात् " इति हेतुः । यो यो धूमवान् सोऽग्निमान् यथा महानसः इत्युदाहरणम् । “तथा चायम्” इत्युपनयः । " तस्मात्तथा” इति निगमनम् ॥
स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव करणम् । तस्माल्लिङ्गपरामर्शोऽनुमानम् ॥
लिङ्गं त्रिविधम्। अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि । यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निः, यथा महानसः इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति, यथा
मित्यर्थः । पञ्चावयववाक्यान्युदाहरति पर्वतो वह्निमानित्यादिना । प्रतिपद्यत इति । अग्निविषयकज्ञानवान् भवतीत्यर्थः । अवयवान्विभजते प्रतिज्ञेति । उदाहृतप्रतिज्ञादीन् विशिष्य दर्शयति पर्वतो वह्निमानिति । लिङ्गं विभजते लिङ्गमिति । अन्वयव्यतिरेकिणो लक्षणमाह अन्वयेनेति । निरूपितत्वं तृतीयार्थः । अन्वयनिरूपितव्याप्तिमत्त्वे सति व्यतिरेकनिरूपितव्याप्तिमत्त्वम् अन्वयव्यतिरेकिणो लक्षणमित्यर्थः । अन्वयव्याप्तिः पूर्वोक्तैव । व्यतिरेक- व्याप्तिस्तु साध्याभावव्यापकीभूताभावप्रतियोगित्वम् । न चैवमुक्तौ केवल- व्यतिरेकिणि पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वादित्यत्र अन्वयव्याप्तिमत्त्वस्यापि सत्वादतिव्याप्तिरिति वाच्यम् । स्वसाध्यविधेयकानुमितिजनकज्ञानविषयस्व साध्यनिरूपितान्वयव्याप्तिकत्वमिति प्रथमदलनिष्कर्षेण अतिव्याप्तिपरि- हारात् ’ । केवलान्वयिनो लक्षणमाह अन्वयमात्रव्याप्तिकमिति ।
१. तथा च पृथिवीतरेभ्यो भिद्यते इत्यादिस्थले व्यतिरेकव्याप्तिज्ञानादेवानुमितिः न अन्वयव्याप्तिज्ञानात् । अतो न दोष इति भावः ।
तर्कसङ्ग्रहः
[[२९]]
महाहृदः इति व्यतिरेकव्याप्तिः । अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् इति ।
अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च । व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि ; यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत्, यथा जलम्, न चेयं तथा, तस्मान्न तथेति । अत्र यद्ग न्धवत्तदितरभिन्नमित्यन्वयदृष्टान्तो
पृथिवीमात्रस्य
पक्षत्वात् ॥
नास्ति,
सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ॥
केवलान्वयिसाध्यकत्वं केवलान्वयिलिङ्गस्य लक्षणम् । केवलान्वयित्वं च निरवच्छिन्नवृत्तिमदत्यन्ताभावाप्रतियोगित्वम् । आकाशाभावस्य केवलान्व- यित्वोपपत्तये वृत्तिमदिति । कपिसंयोगाभावस्य केवलान्वयित्वोपपत्तये निरवच्छिन्नेति वृत्तिविशेषणम्’ । केवलव्यतिरेकिणो लक्षणमाह व्यतिरेक- मात्रव्याप्तिकमिति । मात्रपदस्य स्वसाध्यविधेयकानुमितिजनकज्ञानाविष- यस्वसाध्यनिरूपितान्वयव्याप्तिकत्वार्थपरतया सर्वसामञ्जस्यम् । केवल- व्यतिरेकिलिङ्गमुदाहरति यथेति । नन्वितरभेदः प्रसिद्धो न वा ? आद्ये यत्र प्रसिद्धस्तत्र हेतुसत्वे अन्वयित्वं हेत्वभावे चासाधारण्यम् । द्वितीये परामर्शाद्यनुदयात्कथं विशिष्टानुमितिरिति चेन्न । जलादौ प्रत्येकं प्रसिद्धाना- मितरभेदानां कूटस्य पृथिव्यां साधनीयतया परामर्शोपपत्तिः पुर्वोक्तदूषणानव- काशश्चेति । पक्षपदशक्यतावच्छेदकं दर्शयति सन्दिग्धेति । अथात्र सन्दिग्ध- त्वं साध्ये विशेषणम् उत साध्यधर्मिणि । तत्र नाद्यः । न कर्मधारयान्मत्वर्थीयो
१. आकाशाभावस्य आकाशात्मकाभावप्रतियोगित्वेपि आकाशस्य अवृत्तिपदार्थतया वृत्तिमदत्यन्ताभाव आकाशात्मको न भवतीति तादृशाभावप्रतियोगित्वमाकाशाभाव- स्य नास्तीति तस्य केवलान्वयित्वं निराबाधमिति भावः ।
२. कपिसंयोगाभावस्य कपिसंयोगात्मकाभावप्रतियोगित्वेपि कपिसंयोगस्य अवच्छिन्नवृत्तिकतया निरवच्छिन्नवृत्तिकत्वाभावेन निरवच्छिन्नवृत्तिकाभावाप्रति- योगित्वं कपिसंयोगाभावस्याव्याहतमेवेति भावः ।
[[३०]]
न्यायशेखरीव्याख्योपेतः
निश्चितसाध्यवान् सपक्षः । यथा तत्रैव महानसः ॥
निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाहृदः ॥ सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः
पञ्च हेत्वाभासाः ॥ सव्यभिचारोऽनैकान्तिकः । स त्रिविधः । साधारणासाधारणा- नुपसंहारिभेदात् । तत्र साध्याभाववद्वृत्तिः साधारणः । यथा “पर्वतो वह्निमान्, प्रमेयत्वात्” इति । अत्र प्रमेयत्वस्य वह्नय- भाववति ह्रदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृत्तोऽसाधा- रणः । यथा “ शब्दो नित्यः शब्दत्वात्” इति । अत्र शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति । अन्वय- व्यतिरेकदृष्टान्तरहितोऽनुपसंहारी ॥ यथा सर्वमनित्यं प्रमेय- त्वादिति । अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति ॥
बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर इत्यनुशासनस्य कृष्णसर्पवद्वल्मीकमित्यादि प्रयोगवारणफलकस्य सत्वेन सन्दिग्धं साध्यं यत्रेति सप्तमी बहुव्रीहिणैवै- तादृशार्थलाभेन तदुत्तरं मत्वर्थीयप्रत्ययस्यानुपपन्नत्वात् । न द्वितीयः । सन्देहविषयत्वस्य साध्ये अलाभेन साध्यप्रकारकसन्देहविशेष्यत्वरूपार्था- लाभादिति कथमुपपत्तिरिति चेन्न । सं पूर्वक दिह धातूत्तर क्त प्रत्ययस्य संशयीय साध्यनिष्ठप्रकारतानिरूपितविशेष्यतावति लक्षणां साध्यपदस्य तत्तात्पर्यग्राहकतामुपगम्य द्वितीयकल्पस्यैव समर्थयितुं शक्यत्वात् । पूर्वोक्त- नियमस्या’सार्वत्रिकतामङ्गीकृत्य प्रथमकल्पस्यापि समर्थयितुं शक्यत्वात् । सपक्षपदशक्यतावच्छेदकं दर्शयति निश्चितेति । शक्यतावच्छेदकाश्रयमुदाहरति यथेति । विपक्षपदशक्यतावच्छेदकं दर्शयति निश्चितेति । तदाश्रयमुदाहरति यथेति । सद्धेतून्निरूप्य प्रसङ्गसङ्गत्या असद्धेतृन्निरूपयितुं विभजते सव्यभिचारेति । अनुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वम् असद्धेतुलक्षणम् । सव्यभिचारं विभजते सव्यभिचार इति । साधारणाद्यन्य- तमत्वं सव्यभिचारसामान्यलक्षणम् । साधारणस्य लक्षणमाह तत्रेति ।
१. न कर्मधारयादित्यादिनियमस्येत्यर्थः ।
तर्कसङ्ग्रहः
[[३१]]
साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतकत्वा- दिति । अत्र कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ॥
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा “ शब्दो नित्यः श्रावणत्वात् शब्दत्ववत्” । शब्दोऽनित्यः कार्यत्वात्, घटवत्” इति ॥
असिद्धस्त्रिविधः । आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्य- त्वासिद्धश्चेति । आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः । स च नास्त्येव । स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् रूपवत् । अत्र चाक्षुषत्वं शब्दे नास्ति ; शब्दस्य श्रावणत्वात् ।
,
साधारणासाधारणानुपसंहारिणां मध्य इत्यर्थः । साध्याभाववदिति । साध्याभाववद्वृत्तित्वं साधारणानैकान्तिकस्य लक्षणम् । असाधारणं लक्षयति सर्वेति ।
वह्निमान् धूमादित्यादौ सपक्षायोगोलकावृत्तित्वे सति विपक्षहदाद्यवृत्तित्वस्य सत्वेनातिव्याप्तिवारणाय प्रथमदले सर्वेति । पर्वतो वह्निमान् जलादित्यत्र विरुद्धे अतिव्याप्तिवारणाय द्वितीयदले सर्वेति । अनुपसंहारिणो लक्षणमाह अन्वयेति । तमुदाहरति यथेति । विरुद्धं लक्षयति साध्याभावेति । साध्यस्याभावस्साध्याभावः । तेन व्याप्तस्साध्याभाव- व्याप्तः । अत्र व्याप्तत्वं व्यतिरेकव्याप्तिविशिष्टत्वम् । तथा च साध्यव्यापकी- भूताभावप्रतियोगित्वं विरुद्धस्य लक्षणमिति फलितोर्थः । सत्प्रतिपक्षं लक्षयति यस्येति । यस्य हेतोरित्यर्थः । साध्याभावेति । स्वसाध्याभावेत्यर्थः । उदाहरति यथेति । असिद्धं विभजते असिद्ध इति । आश्रयासिद्धमुदाहरति यथेति । लक्षणं तु पक्षतावच्छेदकाभाववत्पक्षकत्वम् । पक्षतावच्छेदकं चात्र
१.
तथा च सर्वसपक्षान्तर्गतमहानसादौ धूमस्य सत्वेन नातिव्याप्तिरिति भावः । २. तथा च सर्वविपक्षान्तर्गतहदादिव्यावृत्तत्वस्य जले असत्वान्नातिव्याप्तिरिति भावः। व्यावृत्तत्वम् अवर्तमानत्वम् ।
[[३२]]
न्यायशेखरीव्याख्योपेतः
सोपाधिको व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापक उपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्य- व्यापकत्वम् । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधना- व्यापकत्वम् । पर्वतो धूमवान् वह्निमत्वात् इत्यत्रार्द्रेन्धनसंयोग उपाधिः। तथा हि यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता । यत्र वह्निस्तत्रार्द्रेन्धनसंयोग इति नास्ति; अयोगोलक आर्द्रेन्धन- संयोगाभावादिति साधनाव्यापकता । एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः। सोपाधिकत्वाद्वह्निमत्वं
गगनाधिकरणकोत्पत्तिमत्त्वम् । स्वरूपासिद्धमुदाहरति यथेति । हेत्वभाव- वत्पक्षकत्वं तु लक्षणम् । व्याप्यत्वासिद्धं लक्षयति सोपाधिक इति । उपाधिं निर्वक्ति साध्यव्यापकत्वे सतीति । धूमव्यापक आर्द्रेन्धनसंयोगे साधनीभूतवह्न्यव्यापकत्वस्य सत्वेन तादृशोपाधेश्च वह्निरूपसाधने एकज्ञानविषयत्वसम्बन्धेन सत्वात् लक्षणसमन्वयः । अत्रेदं बोध्यम् । उपाधिश्चतुर्विधः । शुद्धसाध्यव्यापकः पक्षवृत्तिधर्मावच्छिन्नसाध्यव्यापकः साधनावच्छिन्नसाध्यव्यापकः उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति । आद्यस्तावद्धूमवान् वह्नेरित्यादावार्द्रेन्धनसंयोगः । द्वितीयस्तु वायुः प्रत्यक्षः प्रमेयत्वादित्यत्रोद्भूतरूपवत्वम् । तस्मिंश्च पक्षवृत्त्यात्मान्यद्रव्यत्वविशिष्ट- प्रत्यक्षत्वव्यापकत्वविशिष्टसाधनाव्यापकत्वस्य सत्वात् । तृतीयस्तु स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वम् । तस्मिन् मित्रातनयत्वविशिष्टश्याम- त्वव्यापकत्वविशिष्टमित्रातनयत्वाव्यापकत्वस्य सत्वात् । मित्रातनयत्वस्य गौरमित्रातनयेपि’ सत्वेन तत्र शाकपाकजत्वस्याभावात् । अत्र शाकपाकजत्वं शाकाद्याहारपरिणामजन्यत्वम् । चतुर्थस्तु प्रागभावो विनाशी प्रमेयत्वादित्यत्र भावत्वम् । तस्मिंश्चोदासीनजन्यत्वरूपधर्मविशिष्टविनाशित्वव्यापकत्व- विशिष्टप्रमेयत्वाव्यापकत्वस्य सत्वात् । विशिष्टलक्षणस्यत्वेवमनुगमः । धर्म- विशिष्टत्वमुपाधिसामान्यलक्षणम् । धर्मवैशिष्ट्यं च स्वावच्छिन्नसाध्यव्यापकत्व
१. गौरो यो मित्रातनयः तस्मिन्नित्यर्थः ।
व्याप्यत्वासिद्धम् ॥
तर्कसङ्ग्रहः
[[३३]]
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा “वह्निरनुष्णः पदार्थत्वात्” इति । अत्रानुष्णत्वं साध्यं, तदभाव उष्णत्वं त्वाचप्रत्यक्षेण गृह्यत इति बाधितत्वम् ॥
इत्यनुमानपरिच्छेदः समाप्तः ॥
स्वावच्छिन्नसाधनाव्यापकत्वोभयसम्बन्धेनेति
।
धूमवान्वह्नेरित्यादौ
आर्द्रेन्धनसंयोगे लक्षणसमन्वयवेलायां स्वपदेन प्रमेयत्वस्य परिग्रहः । स्वावच्छिन्नत्वं स्वविशिष्टत्वम् । तच्चात्र साध्ये येन सम्बन्धेन तेनैव सम्बन्धेन हेतावपि बोध्यम् । द्वितीयस्थले तु आत्मान्यद्रव्यत्वं स्वपदग्राह्यम् । तृतीये तु साधनीभूतमित्रातनयत्वम् । चतुर्थस्थले तूदासीनजन्यत्वमिति सर्वत्र लक्षणसमन्वयः। सर्वत्र व्यभिचारनिरूपकाधिकरणान्यत्वमुपाधिर्व्यभिचारि- सामान्ये सम्भवति । अन्ततस्साध्यमेव वा । साध्ये स्वव्यापकत्वस्य व्यभिचारनिरूपकाधिकरणान्तर्भावेणैव साधनाव्यापकत्वस्यापि सम्भवा- दलमितरगवेषणयेति तु तत्त्वम् । बाधितस्य लक्षणमाह यस्येति । साध्याभाव इति । पक्ष इति शेषः । तथा च प्रमाणान्तरजन्यसाध्याभावप्रकारकनिश्चय- विशेष्यपक्षकत्वं बाधितस्य लक्षणमित्यर्थः । अन्यथा सद्धेतावपि साध्याभावस्य यत्रकुत्रचित् प्रमाणान्तरेण निश्चयसम्भवादतिव्याप्तेः । न चैवमपि सद्धेतौ प्रत्यक्षादिप्रमाणान्तरजन्यभ्रमात्मकपक्षस्साध्याभाववानिति निश्चयविशेष्यपक्षकत्वस्य सत्वेनातिव्याप्तिर्दुर्वारेति वाच्यम् । निश्चयपदस्य प्रमार्थकत्वेनादोषात् । उदाहरति यथा वहिरिति । न च बाधितस्थले सर्वत्रव्यभिचारस्वरूपासिध्यन्यतरस्य अवश्यं भावात् ताभ्यामेवोपपत्तौ बाधस्य दोषान्तरत्वं कथमिति वाच्यम् । व्यभिचारासिद्धिज्ञानापेक्षया बाधज्ञानस्य विलक्षणत्वात् । किञ्च उत्पत्तिक्षणावच्छिन्नो घटो गन्धवान् मूलावच्छिन्नो वृक्षः कपिसंयोगीत्यादौ व्यभिचारासिध्योरसम्भवेन बाधस्यैव दोषत्वेनाङ्गीकरणीयत्वादिति ।
इति श्रीयज्ञनारायणशास्त्रिविरचितायां न्यायशेखर्यां
अनुमानपरिच्छेदः समाप्तः ॥
[[३४]]
न्यायशेखरीव्याख्योपेतः
अथ उपमानपरिच्छेदः
उपमितिकरणमुपमानम् । सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानमुपमितिः ।
उपमानपरिच्छेदः
नत्वा श्रीभारतीतीर्थगुरुवर्यांस्तदाज्ञया । पूरणं न्यायशेखर्याः कुर्वे शब्दोपमानयोः ॥
—
उपमानप्रमाणं लक्षयति उपमितीति । उपमानं सादृश्यज्ञानमित्यर्थः उपमितिकरणमिति तु नार्थः । तथासति ’ उपमितिकरणमुपमानम्’ इति वाक्यात् शाब्दबोधानुपपत्तेः उद्देश्यताविधेयतावच्छेदकयोरैक्यात् । वस्तुतस्तु उपमानम् इत्यस्य उपमानपदप्रतिपाद्यम् इत्यर्थः । ‘प्रत्यक्षानुमानोपमान- शब्दभेदात्’ इति विभागवाक्ये उपमानपदश्रवणोत्तरम् उपमानपदप्रतिपाद्यं किमिति जिज्ञासायां तद्बोधनस्य आवश्यकत्वात् । ’ उपमितिकरणं सादृश्यज्ञानम्’ इति बोधस्य निरुक्तजिज्ञासानिवर्तकत्वाभावेन अनाकाङ्क्षितत्वात् । एतेन ‘उपमितिकरणम् उपमानम्’ इति वाक्येनैव सादृश्यज्ञानस्य उपमितिकरणत्वबोधनात् ’ तत्करणं सादृश्यज्ञानम्’ इत्यग्रिमवाक्येनापि तद्बोधनेन पौनरुक्त्यमिति निरस्तम् ।
उपमितिं लक्षयति सञ्ज्ञेति । सञ्ज्ञा पदं, सञ्ज्ञी अर्थः, तयोः सम्बन्धः वाच्यवाचकभावः शक्तिरित्यर्थः । उपमितिः उपमितिपदप्रतिपाद्या उपमितित्वजात्यवच्छिन्ना’ वा । तथा च पदार्थधर्मिकपदशक्यत्वप्रकारक- ज्ञानत्वम् उपमितिलक्षणम् ।
ननु ‘घटः घटपदशक्यः’ इत्याकारके स्मरणाद्यात्मके घटादिपदशक्तिग्रहे निरुक्तलक्षणातिव्याप्तिः । सादृश्यज्ञानजन्यत्वे सतीति विवक्षणेऽपि,
१. उपमितिपदप्रतिपाद्यत्वस्येव उपमितित्वजातेरपि सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानत्वा- पेक्षया भिन्नतया ‘सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानम् उपमितिः’ इत्यत्र उद्देश्यताविधेयता- वच्छेदकभेदस्याक्षततया शाब्दबोधो निराबाधः । उपमितिपदप्रतिपाद्यजिज्ञासायां उपमितित्वजात्यवच्छिन्नबोधनस्य अनाकाङ्क्षितत्वात् द्वितीयकल्पे अनिर्भरसूचनाय
वाकारः ।
तर्कसङ्ग्रहः
[[३५]]
तत्करणं सादृश्यज्ञानम् । अतिदेशवाक्यार्थस्मरणमवान्तर-
व्यापारः
तथा 1
हि
I
कश्चिद्गवयशब्दार्थमजानन
/
‘सादृश्यं
स्मरणरूपे इवादिपदशक्तिज्ञानेऽतिव्याप्तितादवस्थ्यम् । तस्य,
स्मरणस्य अनुभव- इवपदशक्यम्’ इत्याकारकसादृश्यज्ञानजन्यत्वात् जन्यत्वनियमादिति चेन्न । सादृश्यप्रत्यक्षत्वेन जनकतायाः विवक्षितत्वात् । स्मरणं प्रति अनुभवस्य अनुभवत्वेनैव जनकतया निरुक्तसादृश्यानुभव- निष्ठजनकतायाः प्रत्यक्षत्वानवच्छिन्नत्वात् । तथा च सादृश्यप्रत्यक्षत्वा- वच्छिन्नजनकतानिरूपितजन्यतावत्वे सति पदार्थधर्मिकपदवाच्यत्वप्रकारक- ज्ञानत्वं लक्षणं पर्यवसितम् । अनुव्यवसाये अतिव्याप्तिवारणाय विशेष्यदलम् । ‘गोसादृश्यमत्र पश्यामि’ इत्यनुव्यवसायं प्रति गोसादृश्यदर्शनस्य विषयविधया कारणतायाः गोसादृश्यप्रत्यक्षत्वेनैव अवच्छेदात् विषयता- यास्तु तत्र कार्यतावच्छेदकसम्बन्धत्वात्’ । उपमानाख्यप्रमाणं निर्दिशति तत्करणमिति । उपमितिं प्रति करणं सादृश्यज्ञानं, तदेव उपमानाख्य- प्रमाणमित्यर्थः । करणत्वस्य व्यापारघटिततया व्यापाराकाङ्क्षायाम् आह अतिदेशेति । आरण्यकपुरुषाद्युच्चरितवाक्यजन्यशाब्दबोधजन्यस्मरणम् इत्यर्थः । सादृश्यज्ञानात् वाक्यार्थस्मरणद्वारा उपमितेरुत्पादं निरूपयति तथा हि इति । वाक्यार्थं स्मरन्निति । वाक्यार्थं स्मरिष्यन्नित्यर्थः । ‘वर्तमानसामीप्ये वर्तमानवद्वा’ इत्यनुशासनेन भविष्यति लटि शतृप्रत्ययविधानात्। तेन वाक्यार्थस्मरणस्य पिण्डदर्शनोत्तरकालिकत्वलाभात् पिण्डदर्शनव्यापारत्वम् अव्याहतम् । ‘गोसदृशो गवयपदवाच्य’ इति वाक्यार्थस्मरणं प्रति सादृश्यविशिष्टपिण्डदर्शनस्य कारणत्वम् उद्बोधक- विधया । अतिदेशवाक्यजनितशाब्दबोधस्य तु अनुभवविधया कारणत्वं बोध्यम् । नन्वेवं सति उपमितिकरणत्वमिति लक्षणम् अतिदेशवाक्यार्थबोधे अतिव्याप्तम्, तस्यापि वाक्यार्थस्मरणहेतुतया तद्वारा उपमितिं प्रति हेतुतायाः
२. विषयविधया कारणता विषयतावच्छिन्ना इति भ्रमनिरासाय विषयतायास्त्विति । तत्तद्रूपावच्छिन्नविषयतासम्वन्धेन प्रत्यक्षं प्रति विषयस्य तत्तद्रूपेण तादात्म्यसम्बन्धेन कारणत्वमित्यर्थः । विशेषणदलं इवादिपदशक्तिस्मरणे अतिव्याप्तिवारकं स्पष्टमेव ।
[[३६]]
न्यायशेखरीव्याख्योपेतः
कुतश्चिदारण्यकपुरुषात् “गोसदृशो गवयः” इति श्रुत्वा, वनं गतो वाक्यार्थं स्मरन् गोसदृशं पिण्डं पश्यति । तदनन्तरम् “अयं गवयपदवाच्यः” इत्युपमितिरुत्पद्यते ॥
इत्युपमानपरिच्छेदः समाप्तः ॥
सम्भवादिति चेन्न । वाक्यार्थबोधस्य संस्कारद्वारकं ’ वाक्यार्थस्मरणं द्वारीकृत्य उपमितिं प्रति कारणतायाः अप्रामाणिकत्वात् ।
अयं गवयपदवाच्य इति । ’ गवयो गवयपदवाच्य’ इत्यर्थः, अन्यथा गवयान्तरे शक्तिग्रहाभावप्रसङ्गः 1 उपमित्युत्तरं गवयपदात् गवयान्तरव्यक्तेरपि बोधोदयात् ।
इति श्रीनवीनहोळ्ळविरचितायां न्यायशेखर्यां उपमानपरिच्छेदः समाप्तः ॥
१. संस्कारः द्वारं यस्मिन् तत् संस्कारद्वारकम् । इदञ्च वाक्यार्थबोधस्य अन्यथासिद्धत्वस्फोरणाय । वाक्यार्थबोधात् संस्कारद्वारा जायमानेन वाक्यार्थस्मरणेन उपमितेर्जनने वाक्यार्थबोधस्य अन्यथासिद्धत्वमित्यर्थः ।तर्कसङ्ग्रहः
अथ शब्दपरिच्छेदः
[[३७]]
आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः ।
शब्दपरिच्छेदः
शब्दप्रमाणं लक्षयति आप्तवाक्यमिति । आप्तोच्चरितत्वे सति वाक्यत्वं शब्दाख्यप्रमाणस्य लक्षणम् । विप्रलम्भकाद्युच्चरितवाक्ये अतिव्याप्तिवारणाय आप्तोच्चरितत्वनिवेशः । आप्तोच्चरिते केवलघटादिपदे अतिव्याप्तिवारणाय वाक्यत्वनिवेशः । आप्तपदप्रतिपाद्यमाह आप्तस्त्विति । यथार्थवक्तृत्वं यथार्थ- ज्ञानप्रयोज्यशब्दप्रयोगकर्तृत्वम् । वाक्यपदप्रतिपाद्यमाह वाक्यमिति । तथा च यथार्थज्ञानप्रयोज्यत्वे’ सति पदसमुदायत्वं लक्षणं फलितम् । ‘अर्थं बुद्धा शब्दरचने’ति न्यायेन शब्दप्रयोगं प्रति वाक्यार्थज्ञानस्य कारणत्वात् यथार्थज्ञानपूर्वकस्य शब्दप्रयोगस्य अवश्यमेव प्रमाजनकत्वात् ‘रूपी घट’ इत्यादि प्रमाणवाक्ये समन्वयः । पदसमुदायश्च ज्ञात एव शाब्दबोधं जनयति, न तु स्वरूपसन् । मौनिश्लोकादौ पदाभावेऽपि बोधोदयात् । अतः पदज्ञानमेव वोधहेतुः । तत्र द्वारं पदार्थोपस्थितिः, तया विना पदज्ञानवतोऽपि बोधानुदयात्।
ननु प्रत्यक्षादिप्रमाणानां फलघटितलक्षणमुक्त्वा शब्दप्रमाणस्य तदघटितलक्षणकथने’ किं बीजमिति चेत् फलाघटितस्यापि लक्षणस्य सुवचत्वमेवेत्यवेहि । फलघटितं शाब्दबोधकरणत्वमिति लक्षणं तु न दूषणमर्हति । न च प्रत्यक्षादिप्रमाणानामपि इन्द्रियत्वादिकं फलाघटितं
१. आप्तोच्चरितत्वमिति दले आप्तपदस्य उक्तदिशा यथार्थज्ञानप्रयोज्यशब्दप्रयोग- कर्त्रर्थकतया यथार्थज्ञानप्रयोज्यशब्दप्रयोगकर्त्र्च्चरितत्वरूपार्थे पर्यवसानेऽपि, यथार्थज्ञानपूर्वकशब्दप्रयोगवता कर्त्रा कालान्तरे उच्चरिते भ्रमपूर्वके अप्रमाणवाक्ये अतिव्याप्तिप्रसङ्गात् गौरवाच्च सोऽर्थः उपेक्षितः ।
२. प्रत्यक्षज्ञानकरणत्वम् अनुमितिकरणत्वम् उपमितिकरणत्वम् इति फलघटितानि क्रमेण प्रत्यक्षानुमानोपमानप्रमाणानां लक्षणानि पूर्वमुक्त्वा अत्र आप्तवाक्यत्वमिति फलाघटित्तस्य शब्दप्रमाणलक्षणस्य अभिधानं कुत इति शङ्का ।
[[३८]]
न्यायशेखरीव्याख्योपेतः
यथा “गामानय” इति । शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः ॥
लक्षणं सुवचं कथमुपेक्षितमिति वाच्यम् 1 विभागवाक्यानुगुणं लक्षणाभिधानात् । प्रत्यक्षेत्यादिविभागवाक्ये फलबोधनसमर्थेन प्रत्यक्षपदेन फलबोधकपदघटिताभ्याम् अनुमानोपमानपदाभ्यां अतथाभूतेन शब्दपदेन च प्रमाणविभजनात् प्रत्यक्षादित्रयस्य फलघटितं लक्षणं शब्दस्य तु तदघटितमिति न्याय्यत्वात् । ‘प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ’ इत्यार्षोपदेशादिति ।
J
पदशब्दप्रतिपाद्यमाह शक्तमिति । शक्तिमत् पदम् इत्यर्थः । शक्तिश्च वृत्तिविशेषः । वृत्तिश्च अर्थस्मरणजननद्वारा शाब्दबोधौपयिकः पदपदार्थयोः सम्बन्धः । यथा हि अवगतहस्तिहस्तिपकसम्वन्धस्य पुरुषस्य हस्तिदर्शनेन हस्तिपकस्मरणं भवति, एकसम्बन्धिज्ञानस्य अपरसम्बन्धिस्मारकत्वात् तथा पदपदार्थयोः सम्बन्धम् अवगतवतः पुरुषस्य पदश्रवणेन पदार्थस्मरणं भवति, ततः शाब्दबोधः । स च ’ सम्वन्धो द्विविधः सङ्केतो लक्षणा चेति । आद्यो द्विविधः ईश्वरसङ्केत आधुनिकसङ्केतश्च । तत्राद्य एव शक्तिरित्युच्यते । तत्स्वरूपं प्रदर्शयति अस्मादिति । सङ्केत इच्छा । शक्त्या अर्थबोधकं पदं शक्तम् । यथा घटबोधकं घटपदम् । शक्त्या वोधितोऽर्थः शक्यः । शक्तिग्रहः व्याकरणकोशादिभ्यः । द्वितीयः आधुनिकानां पाणिन्यादीनां सङ्केतः परिभाषेत्युच्यते । तया अर्थबोधकं पदं पारिभाषिकम् यथा आकारादिबोधकवृद्ध्यादिपदम् । परिभाषया बोधितोऽर्थः परिभाषितः । ‘वृद्धिरादैच्’ इत्यादिवचनात् परिभाषाग्रहः । शक्यसम्बन्धो लक्षणा । तया अर्थबोधकं पदं लाक्षणिकम् । लक्षणया बोधितोऽर्थः लक्ष्यः । यथा ‘गङ्गायां घोषः’ इति वाक्ये लाक्षणिकेन गङ्गापदेन लक्ष्यते तीरम् । तस्य गङ्गापदशक्यप्रवाहेण संयोगसम्बन्धोऽस्ति । लक्षणा द्विविधा जहत्स्वार्था अजहत्स्वार्था च । शक्यार्थान्वयानवगाहिलक्ष्यार्थान्वयावगाहिबोध- प्रयोजिका लक्षणा जहत्स्वार्था । यथा ‘गङ्गायां घोषः’ इत्यत्र गङ्गापदस्य तीरे
१. शाब्दबोधौपयिकः पदपदार्थयोः सम्बन्ध इत्यर्थः ।
तर्कसङ्ग्रहः
[[३९]]
आकाङ्क्षा योग्यता सन्निधिश्च वाक्यार्थज्ञानहेतुः ॥ पदस्य
लक्षणा’ । शक्यार्थलक्ष्यार्थोभयान्वयावगाहिबोधप्रयोजिका अजहत्स्वार्था । यथा ‘काकेभ्यो दधि रक्ष्यताम्’ इत्यत्र काकपदस्य शक्यकाकलक्ष्यबिडालादि- साधारणदध्युपघातकत्वावच्छिन्ने लक्षणा । लक्षणाग्रहस्तु तात्पर्या- नुपपत्तितः इत्यलं विस्तरेण । तथा च वृत्तिज्ञानसहकृतं पदज्ञानं पदार्थोपस्थितिद्वारा शाब्दबोधहेतुः ।
नन्वेवं सति ‘गौरश्वः पुरुषो हस्ती’ इत्यादिवाक्यात् शाब्दबोधापत्तिः । तत्रापि वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितेः सत्वात् इत्यत आह् आकाङ्क्षति । आकाङ्क्षापदप्रतिपाद्यमाह पदस्येति । पदान्तरव्यतिरेकेण पदान्तरसमभिव्याहाराभावेन । प्रयुक्तं प्रयोज्यम् । अन्वयाननु- भावकत्वं - शाब्दबोधाजनकत्वम् । यत्पदस्य यत्पदसमभिव्याहाराभाव- प्रयुक्तः शाब्दबोधजनकत्वाभावः, तयोः पदयोः आकाङ्क्षत्युच्यते । यथा ‘पुरुषस्य गौः’ इत्यत्र प्रथमान्तं गोपदं षष्ठ्यन्तपुरुषपदसमभिव्याहारवशात् ‘पुरुषसम्बन्धिगौः” इति बोधजनकं भवति । ’ पुरुषो गौः’ इत्यत्र तु प्रथमान्तगोपदं निरुक्तबोधजनकं न भवति, षष्ठ्यन्तपुरुषपद- समभिव्याहारस्याभावात् । तथा च प्रथमान्तगोपदस्य षष्ठ्यन्तपुरुषपदेन आकाङ्क्षास्ति, न तु प्रथमान्तपुरुषपदेन । आकाङ्क्षाविरहात् तत्र बोधो न जायते । एवं ‘घटमानय’ इत्यत्र घटपदस्य अम्पदसमभिव्याहारवशात्
१.
‘गङ्गायां घोष’ इत्यत्र गङ्गापदलक्ष्यार्थः तीरं सप्तम्यर्थे वृत्तित्वे अन्वेति । वृत्तित्वं घोषपदार्थे घोषे अन्वेति । ‘तीरवृत्तितावान् घोष’ इति बोधः । अत्र लाक्षणिकगङ्गापदस्य शक्यार्थः प्रवाहः पदार्थान्तरेण नान्वेति ।
२. ‘काकेभ्यो दधि रक्ष्यताम्’ इत्यत्र काकपदलक्ष्यार्थः दध्युपघातकः पञ्चम्यर्थापादानत्वे अन्वेति । अपादानत्वञ्च धात्वर्थे रक्षणे, तच्च आख्यातार्थे कर्मत्वे, तच्च प्रथमान्तार्थे दध्नि अन्वेति । ‘दध्युपघातकापादानकरक्षणकर्मतावद् दधि’ इति बोधः । अत्र लाक्षणिककाकपदस्य शक्यार्थः काकः दध्युपघातकत्वेन भासमानस्सन् पदार्थान्तरेण अपादानत्वेन अन्वेति ।
[[४०]]
न्यायशेखरीव्याख्योपेतः
पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं सन्निधिः ॥
‘घटीयं कर्मत्वम्’ इति बोधो जायते । ‘घटः कर्मत्वम् आनयनं कृतिः ’ इत्यत्र तु घटपदस्य अम्पदसमभिव्याहाराभावात् निरुक्तबोधो न जायते । अतः घटपद – अम्पदयोराकाङ्क्षा, न तु घटपदकर्मत्वपदयोः । तथा च क्वचित् सुबन्तयोः क्वचित् प्रकृतिप्रत्यययोराकाङ्क्षा । एवं सति, ‘अम् घट आनय’ इत्यत्र अभ्रान्तस्य ‘घटीयं कर्मत्वम्’ इति बोधापत्तिः, तत्र घटपदाम्पदयोः आकाङ्क्षायाः सत्वात् । अतः प्रकृतिप्रत्यययोः आकाङ्क्षा प्रत्ययनिष्ठप्रकृत्यव्यवहितोत्तरत्व-प्रकृतिनिष्ठप्रत्ययाव्यवहितपूर्वत्वान्यतर- रूपैव शाब्दबोधकारणमित्युररीक्रियते । एवञ्च ‘अम् घट आनय’ इत्यत्र अम्पदस्य घटपदाव्यवहितोत्तरत्वभ्रमवतः शाब्दबोधानुपपत्तिः, निरुक्ता- काङ्क्षाविरहात् । अतो निरुक्ताकाङ्क्षाज्ञानस्यैव कारणत्वमुपेयते इत्यास्तां विस्तरः ।
योग्यतापदप्रतिपाद्यमाह अर्थाबाध इति । अर्थस्य पदार्थस्य अबाधः बाधनिश्चयाभावः । एकपदार्थे अपरपदार्थसंसर्गाभावनिश्चयस्य विरहो योग्यतापदप्रतिपाद्य इत्यर्थः । ’ वह्निना सिञ्चति’ इत्यत्र ‘सेकः वह्निकरणकत्वाभाववान्’ इति बाधनिश्चयस्य विद्यमानतया तद्विरहात्मकस्य योग्यतापदप्रतिपाद्यस्य कारणस्य अभावात् न शाब्दबोधो जायते । ननु आप्तवाक्यस्यैव शाब्दप्रमां प्रति करणत्वात् ‘वह्निना सिञ्चति’ इति वाक्यस्य आप्तोच्चरितत्वाभावादेव ततः शाब्दप्रमापत्तिवारणात्, योग्यतायाः कारण- त्वोपगमो व्यर्थ इति चेन्न । शाब्दप्रमाकरणलक्षणे आप्तोच्चरितत्वस्य प्रवेशितत्वेऽपि शाब्दबोधकारणतावच्छेदककुक्षौ तस्य प्रयोजनविरहेण गौरवेण च अनिवेशात् । पदज्ञानत्वावच्छिन्नस्यैव कारणतायाः निष्कर्षि- तत्वात् तामादाय ’ वह्निना सिञ्चतीत्यत्र शाब्दप्रमापत्तेः दुर्वारतया, तद्वारणाय योग्यतायाः कारणतायाः अवश्यमेवाभ्युपेयत्वात् ।
J
सन्निधिपदप्रतिपाद्यमाह पदानामिति । पदार्थानाम् अविलम्बेनोपस्थितिरेव
तर्कसङ्ग्रहः
[[४१]]
आकाङ्क्षादिरहितं वाक्यं न प्रमाणम् । यथा गौरश्वः पुरुषो हस्तीति वाक्यं न प्रमाणम्, आकाङ्क्षाविरहात् । “अग्निना सिञ्चति” इति वाक्यं न प्रमाणम्, योग्यताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि “गामानय” इत्यादिपदानि न प्रमाणम्, सान्निध्याभावात् ॥
वाक्यं द्विविधम् । वैदिकं लौकिकं चेति । वैदिकमीश्वरोक्तत्वा- त्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥
सन्निधिपदप्रतिपाद्य इत्यर्थः । पदानां विलम्बेनोच्चारणेऽपि विलम्बेनोत्पन्न- पदार्थोपस्थितिव्यक्तिभ्यः समूहालम्बनात्मकाविलम्बितोपस्थितिद्वारा शाब्द- बोधस्य जननात् । अविलम्बेन पदार्थोपस्थितिजनने अविलम्बेन पदोच्चारणस्य उपयुक्तत्वात् तस्य सन्निधित्वसङ्कीर्तनम् । वाक्यं विभजते वाक्यमिति । वेदवाक्यं तद्भिन्नवाक्यमिति द्वैविध्यम् इत्यर्थः । वेदत्वं च प्रमाणान्तरेण अज्ञातार्थज्ञापकत्वे सति वाक्यत्वम् । लौकिकवाक्ये अतिव्याप्तिवारणाय सत्यन्तम् । ज्ञानकारणीभूते आत्मादौ अतिव्याप्तिवारणाय विशेष्यम् । वैदिकमीश्वरोक्तत्वादिति सर्वेषामेव वेदवाक्यानां परमाप्तेन ईश्वरेणोच्चरितत्वात् प्रामाण्यम् । मन्वादिस्मृतीनां वेदमूलकतया प्रामाण्यम् ।
ननु वेदानां ईश्वरोच्चरितत्वे किं मानम् इति चेन्न । वेदः पौरुषेयः वाक्यसमूहत्वात् भारतादिवत् इत्यनुमानस्यैव प्रमाणत्वात् । न च स्मर्यमाणकर्तृकत्वमुपाधिः २ इतिवाच्यम् । गौतमादिशिष्यपरम्परया वेदे ईश्वरकर्तृकत्वस्मरणेन तस्य साधनव्यापकत्वात् । ‘ऋचः सामानि जज्ञिरे’
१. ‘पदानां अविलम्बेनोच्चारणम्’ इति मूलस्य पदार्थानाम् अविलम्बेनोपस्थिति- रित्यभिप्रायवर्णने बीजमाह पदानाम् इति ।
२. प्रत्यक्षादिप्रमाणान्तरेण अज्ञातस्य स्वर्गयागयोः कार्यकारणभावरूपस्य अर्थस्य बोधकं ‘अग्निहोत्रं जुहुयात् स्वर्गकामः’ इत्यादि वेदवाक्यमिति लक्षणसमन्वयः । ३. यत्र यत्र पुरुषप्रणीतत्वरूपं पौरुषेयत्वं महाभारतादौ तत्र स्मर्यमाणकर्तृकत्वम् इति साध्यव्यापकत्वम् । यत्र वाक्यत्वं वेदे तत्र स्मर्यमाणकर्तृकत्वं नास्तीति साधनाव्यापकत्वम् इत्याशयः ।
[[४२]]
न्यायशेखरीव्याख्योपेतः
वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ॥ अयथार्थानुभवस्त्रिविधः । संशय-विपर्यय-तर्कभेदात् । एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यज्ञानं संशयः । यथा
इत्यादि श्रुतेश्च । अथैवमपि सर्वेषां वेदवाक्यानां प्रामाण्यम् असम्भवदुक्तिकं, ‘ग्रावाणः प्लवन्ते’ इत्यादिवेदवाक्यानां बाधितार्थबोधकत्वादिति चेन्न । विधिसन्निधौ पठितानां तेषामर्थवादवाक्यानां वाच्यार्थस्य बाधेऽपि तस्याविवक्षिततया विवक्षितस्य निन्दाप्राशस्त्यान्यतरस्याबाधिततया प्रामाण्यनिर्वाहात् ।
शाब्दज्ञानं तत्करणञ्च निर्दिश्योपसंहरति वाक्यार्थज्ञानमिति । ननु वाक्ये शक्तिविरहात् वाक्यार्थोऽप्रसिद्ध इति चेन्न । वाक्यप्रतिपाद्यत्वेन वक्तृतात्पर्यविषयो यः तद्विषयकज्ञानम् इत्यर्थात् । न चैवमपि वाक्यप्रतिपाद्यत्वं वाक्यजन्यप्रतिपत्तिविषयत्वरूपम् । तत्र प्रतिपत्तिः शाब्दबोध एव । तथा चात्माश्रयः, शाब्दबोधलक्षणे शाब्दबोधस्य प्रवेशादिति वाच्यम् । निरुक्तस्य स्वरूपकीर्तनपरत्वात् । पदज्ञानकरणकत्वस्यैव लक्षणत्वात् । तच्च पदज्ञाननिष्ठ स्वजन्यज्ञानवत्तासम्बन्धावच्छिन्नकारणतानिरूपितकार्यता- शालित्वम् । पदलिङ्गकानुमितौ अतिव्याप्तिवारणाय वृत्तिज्ञानसहकृतत्वं पदज्ञानविशेषणं देयम् ।
अयथार्थानुभवं विभजते अयथार्थानुभव इति । संशयं लक्षयति एकस्मिन्निति । विरुद्धाः असमानाधिकरणाः । नाना अनेके । वैशिष्ट्यं सम्बन्धः । एकधर्मिनिष्ठविशेष्यतानिरूपितविरुद्धानेकधर्मनिष्ठप्रकारताक- ज्ञानत्वं संशयलक्षणम् । ‘घटो द्रव्यम्’ इतिज्ञाने अतिव्याप्तिवारणाय विरुद्धत्वम् । ’ गोत्वविरुद्धाश्वत्ववान् अयम्’ इति ज्ञानेऽतिव्याप्तिवारणाय
१. प्राशस्त्यनिन्दान्यतरबोधकं वेदवाक्यम् अर्थवादः । विहितकर्मप्राशस्त्यस्य निषिद्धकर्मनिन्दायाश्च प्रमाणान्तरेण अज्ञाततया निरुक्तप्राशस्त्यनिन्दाबोधकार्थवाद वाक्येषु उक्तवेदलक्षणस्य समन्वयो ज्ञेयः ।
तर्कसङ्ग्रहः
[[४३]]
“ स्थाणुर्वा पुरुषो वेति” । मिथ्याज्ञानं विपर्ययः । यथा शुक्तःविदं रजतमिति । व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा “यदि वह्निर्न
अनेकत्वम्। ‘इमौ गवाश्वौ’ इति ज्ञानेऽतिव्याप्तिवारणाय एकधर्मिनिष्ठविशेष्य- तानिरूपितत्वम् ।
‘अयं
नन्वेवमपि गोत्वाश्वत्वयोः विरोधाग्रहदशायां उत्पद्यमाने ‘अयं गोत्ववान् अश्वत्ववांश्च’ इति समुच्चये अतिव्याप्तिः’ । एकधर्मिनिष्ठविशेष्यतानिरूपित- त्वं परित्यज्य एकविशेष्यतानिरूपितत्वस्य निवेशेऽपि गोत्वाश्वत्वोभयवान्’ इति ज्ञानेऽतिव्याप्तिरिति चेन्न, विरोधावगाहितायाः विवक्षणीयत्वात् ।
विपर्ययं लक्षयति मिथ्याज्ञानमिति । मिथ्यात्वं तदभाववति तत्प्रकारकत्वं प्रमायाम् अतिव्याप्तिवारणाय । ज्ञानपदमनुभवपरम् । अनुभवत्वम् अयथार्थस्मृतावतिव्याप्तिवारणाय । संशये तर्फे च अतिव्याप्तिवारणाय निश्चयत्वम् अनाहार्यत्वञ्च देयम् । निश्चयत्वं प्रकृते संशयभिन्नत्वम् अनाहार्यत्वं बाधकालीनेच्छाऽजन्यत्वम् । तदभाववन्निष्ठविशेष्यतानिरूपित- तन्निष्ठप्रकारताकत्वे सति अनाहार्यत्वे सति संशयभिन्नत्वे सति अनुभवत्वम् विपर्ययलक्षणं पर्यवसितम् ।
तर्क लक्षयति व्याप्यारोपेणेति । आरोपः आहार्यज्ञानम् । तृतीयार्थः
१. लक्षणे एकत्वस्य धर्मिणि निविष्टतया ‘अयं गोत्ववान् अश्वत्ववांश्च’ इति समुच्चये विशेष्यताद्वयसत्वेऽपि तदाश्रयस्य धर्मिणः ऐक्यात् लक्षणगमनेन अतिव्याप्तिप्रसक्तिः । २. समुच्चये प्रकारताभेदेन विशेष्यताभेदः, संशयेतु प्रकारताद्वयनिरूपिता एकविशेष्यता इति संशयसमुच्चययोः वैलक्षण्यात्, ‘अयं गोत्ववान् अश्वत्ववांश्च’ इति समुच्चये एक विशेष्यतानिरूपितानेकधर्मनिष्ठप्रकारताकत्वस्य विरहात् नातिव्याप्तिरिति
भावः ।
३. समुच्चयात्मकज्ञानस्य विरोधानवगाहितानियमेन गोत्वाश्वत्वयोः विद्यमानस्यापि विरोधस्य ‘अयं गोत्ववान् अश्वत्ववांश्च’ इति समुच्चयेऽभानात् विरोधावगाहित्वघटितलक्षणस्य तत्र नातिव्याप्तिः संशयस्य तु नियमेन कोटिद्वयविरोधावगाहित्वात् तत्र समन्वय इति भावः ।
[[४४]]
न्यायशेखरीव्याख्योपेतः
स्यात्तर्हि धूमोऽपि न स्यादिति ॥
स्मृतिरपि द्विविधा । यथार्थाऽयथार्था चेति । प्रमाजन्या यथार्था । अप्रमाजन्याऽयथार्था ॥
सर्वेषामनुकूलतया वेदनीयं सुखम् ॥
जन्यत्वम्। व्याप्यप्रकारकाहार्यज्ञानजन्यत्वे सति व्यापकप्रकारकाहार्यज्ञानत्वं तर्कस्य लक्षणम् । ‘पर्वते धूमोऽस्तु वह्निर्मास्तु’ इत्यप्रयोजकशङ्कायां तद्वारकस्तर्कः प्रवर्तते, ‘यदि पर्वते वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात् ’ इति। तदेतद्व्याप्यभूतवह्न्यभावप्रकारकज्ञानात् जायमानं व्यापकीभूतधूमाभाव- प्रकारकज्ञानम् आहार्यमेव, ‘पर्वते धूमाभावो नास्ति’ इति बाधनिश्चये सत्यपि ‘पर्वते धूमाभावज्ञानं मे जायताम्’ इतीच्छावशेन तस्य उत्पादात् । तज्जनकं व्याप्यप्रकारकमपि ज्ञानम् आहार्यम् । लक्षणे सत्यन्तानिवेशे आहार्यज्ञान- मात्रेऽतिव्याप्तिः । अनुव्यवसाये अतिव्याप्तिवारणाय विशेष्यदलम् ।
स्मृतिं विभजते स्मृतिरिति । प्रमाजन्यत्वं यथार्थस्मृतिलक्षणम् । प्रमा- जन्यत्वञ्च प्रमानिष्ठस्वजन्यसंस्कारवत्तासम्बन्धावच्छिन्नजनकतानिरूपित- जन्यताशालित्वम् । अतो न संस्कारे प्रमाध्वंसादौ च अतिव्याप्तिः । प्रत्यभिज्ञायाः संस्कारजन्यत्वेऽपि संस्कारद्वारा प्रमाजन्यत्वं नास्ति’ । अप्रमानिष्ठस्वजन्यसंस्कारवत्तासम्बन्धावच्छिन्नजनकतानिरूपितजन्यता- शालित्वम् अयथार्थस्मृतिलक्षणम् ।
सुखं निरूपयति सर्वेषामिति । परिचायकमिदम् । सर्वात्मसमवेतानुकूल- त्वप्रकारकवेदनाविषयत्वस्य अप्रसिद्ध्या असम्भवात् कस्याश्चिदपि सुख- वेदनायाः सर्वात्मसमवेतत्वाभावात् । अनुकूलत्वप्रकारकवेदनाविषयत्व- मात्रस्य धनादौ, गुणत्वविशिष्टस्य तस्य माधुर्यादौ अतिव्याप्तेः । अतः
१. वस्तुतस्तु प्रत्यभिज्ञायाः संस्कारजन्यत्वे संस्कारद्वारा अनुभवजन्यत्वस्य निराकरणं निर्युक्तिकमेव । तथा च प्रत्यभिज्ञायाः ‘सोऽयं देवदत्त’ इत्याद्याकारिकायाः तत्ताद्यंशे स्मृतित्वापत्तिः, सन्निकर्षविरहेण प्रत्यक्षत्वानुपपत्तिश्च । पूर्वक्षणे तत्ताविषयक- स्मरणरूपज्ञानलक्षणसन्निकर्षेण तत्तांशभानोपगमे कृतं प्रत्यभिज्ञायाः संस्कारजन्य- त्वस्वीकारेणेति ।
तर्कसङ्ग्रहः
प्रतिकूलतया वेदनीयं दुःखम् ॥
[[४५]]
इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः । विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्योऽधर्मः ॥
सुखस्य लक्षणं तु अन्येच्छानधीनेच्छाविषयत्वमिति । सुखेच्छा सुख- ज्ञानाधीना, न तु इच्छान्तराधीना । धनादिसाधनेच्छा तु सुखेच्छाधीना । साधनेच्छायाः फलेच्छाधीनत्वात् । न चैवमपि दुःखनिवृत्तावतिव्याप्तिः’ इति वाच्यम्, गुणत्वे सतीति निवेशात् ।
दुःखं निरूपयति प्रतिकूलतयेति । गुणत्वे सति इतरद्वेषानधीनद्वेषविषयत्वं दुःखलक्षणम् । दुःखद्वेषः दुःखज्ञानमात्राद् जायते न तु द्वेषान्तरात् । दुःखसाधनसर्पादिविषयकद्वेषस्तु दुःखद्वेषाधीनः । सुखनाशेऽतिव्याप्ति- वारणाय गुणत्वम् । वस्तुतः ‘अहं सुखी, दुःखी’ इत्यनुभवगोचरः जातिविशेष एव सुखत्वं दुःखत्वम् । तद्वत्वमेव क्रमेण सुखदुःखयोः लक्षणं बोध्यम् ।
इच्छां निरूपयति इच्छेति । काम इति पर्यायः । ‘इच्छामि’ इति प्रतीतिसिद्धः इच्छात्वजातिविशेष एव लक्षणम् । इच्छा द्विविधा फलेच्छा उपायेच्छा च । फलं सुखं दुःखनिवृत्तिश्च । उपायो यागादिः भोजनादिश्च । उपायेच्छां प्रति फलेच्छा फलसाधनताज्ञानञ्च कारणम् । फलेच्छां प्रति फलज्ञानं कारणम् ।
द्वेषं निरूपयति क्रोध इति । क्रोध इति पर्यायः । ’ द्वेष्मि’ इति अनुभवसिद्धा
१. दुःखनिवृत्तीच्छायाः इच्छान्तराधीनत्वाभावात्, दुःखनिवृत्तिज्ञानसाध्यत्वादिति
भावः ।
२. सुखनाशविषयकद्वेषस्य सुखनाशज्ञानमात्राधीनत्वात् द्वेषान्तराधीनत्वाभावाद् अतिव्याप्तिप्रसक्तिर्बोध्या ।
[[४६]]
न्यायशेखरीव्याख्योपेतः
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः ॥
या द्वेषत्वजातिः तद्वत्वं लक्षणम् । द्वेषो द्विविधः । दुःखद्वेषः उपायद्वेषश्च । उपायद्वेषः दुःखद्वेषद्विष्टसाधनताज्ञानाभ्यां जायते । दुःखद्वेषस्तु दुःख- ज्ञानादेव ।
प्रयत्नं निरूपयति कृतिरिति । ‘अहं प्रयते’ इत्यनुभवसिद्धा या प्रयत्नत्वजातिः तद्वत्वं लक्षणम् । प्रयत्नः त्रिविधः प्रवृत्तिनिवृत्तिजीवनयोनि- भेदात् । प्रवृत्तिः इच्छाजन्या, निवृत्तिः द्वेषजन्या, जीवनयोनिः जीवनादृष्टजन्या प्राणसञ्चारहेतुः अतीन्द्रिया च ।
धर्माधर्मौ निरूपयति विहितेति । वेदविहितकर्मजन्यत्वं धर्मलक्षणम् । ननु यागादिभ्यः वेदविहितकर्मभ्यः धर्मोत्पत्तिद्वारा स्वर्गादिफलस्य जननात् निरुक्तलक्षणस्य स्वर्गादिफलेऽतिव्याप्तिः । न च वेदविहितकर्मनिष्ठसाक्षा- ज्जनकतानिरूपितजन्यत्वं विवक्षणीयम्, कर्मभ्यः स्वर्गादिफलं न साक्षाज्जायते इति वाच्यम् । यागादिध्वंसे अतिव्याप्तिप्रसङ्गात् ध्वंसं प्रति प्रतियोगिनः साक्षात्कारणत्वात् इति
इति चेन्न । वेदविहितकर्मजन्यत्वे सति वेदोदितफलजनकत्वस्यैव विवक्षितत्वात् । यागादिकर्मणि अतिव्याप्तिवारणाय सत्यन्तम् । विशेष्यदलस्य फलयागध्वंसादिवारकतया सार्थक्यम् ।
[[1]]
एवं वेदनिषिद्धकर्मजन्यत्वे सति अनिष्टसाधनत्वम् अधर्मस्य लक्षणम् । नरकादौ अतिव्याप्तिवारणाय विशेष्यम् । सुरापानादौ अतिव्याप्तिवारणाय सत्यन्तम् । धर्मः कीर्तन - भोग - तत्वज्ञानादिना नश्यति । अधर्मः प्रायश्चित्त-भोग - तत्वज्ञानादिना नश्यति । धर्माधर्मौ अदृष्टपदेन उच्येते । ‘धर्माधर्मावदृष्टं स्यात्’ इत्यभियुक्तोक्तेः ।
बुद्ध्याद्यधर्मान्तगुणानां साधर्म्यमाह बुद्ध्यादय इति । बुद्धिसुखदुःखेच्छा-
१. ‘धर्मः क्षरति कीर्तनात्’ इति स्मृत्या धर्मस्य कीर्तननाश्यत्वम् । ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुतेऽर्जुन’ इति गीतावचनेन धर्माधर्मयोः तत्वज्ञाननाश्यत्वं सिद्धम् ।
२. ‘प्रायश्चित्तेन नश्यन्ति पापानि सुमहान्त्यपि ’ इति स्मरणात् अधर्मस्य प्रायश्चित्तनाश्यत्वम् ।तर्कसङ्ग्रहः
[[४७]]
बुद्धीच्छाप्रयत्ना नित्या अनित्याश्च । नित्या ईश्वरस्य । अनित्या जीवस्य ॥
संस्कारस्त्रिविधः । वेगो भावना स्थितस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावना । आत्ममात्रवृत्तिः ॥ अन्यथा कृतस्य पुनस्तादवस्थ्यापादकः
द्वेषप्रयत्नधर्माधर्माः आत्ममात्रवृत्तयो विशेषगुणाः इत्यर्थः । बुद्धीच्छाप्रयत्नानां द्वैविध्यमाह बुद्धीति । जीवस्य अपेक्षाबुद्ध्यतिरिक्तबुद्धिः, इच्छा, प्रयत्नश्च क्षणद्वयमात्रावस्थायिनः । अपेक्षाबुद्धिस्तु क्षणत्रयावस्थायिनी ।
संस्कारं विभजते संस्कार इति । संस्कारत्वजातिमत्वं लक्षणम् । वेगस्याश्रयमाह वेगस्त्विति । वेगः पृथिवीजलतेजोवायुमनस्सु वर्तते । वेगत्वजातिः प्रत्यक्षसिद्धा, तद्वत्वं वेगस्य लक्षणम् । स द्विविधः कर्मजो वेगजश्च । आद्यः चक्रभ्रमणेन कपालभ्रमणात् कपाले उत्पन्नः वेगः । द्वितीयः कपालगतवेगात् घटे जायमानवेगः ।
भावनां लक्षयति अनुभवजन्येति । अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनायाः लक्षणम् । अनुभवे अतिव्याप्तिवारणाय सत्यन्तम् । अनुभवध्वंसे अतिव्याप्तिवारणाय विशेष्यम् । उपेक्षानात्मकात् निश्चयात्मकादेव अनुभवात् भावना जायते । ननु विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य हेतुतया विशिष्टप्रत्यक्षेऽतिव्याप्तिः । ’ दण्डी पुरुषः’ इत्याकारकस्य विशिष्ट- पुरुषप्रत्यक्षस्य ‘अयं दण्ड’ इत्याकारकविशेषणदण्डानुभवजन्यत्वात् ‘दण्डी पुरुष’ इत्याकारकभाविस्मरणं प्रति जनकत्वाच्च इति चेत् । न । अनुभवत्वावच्छिन्नजनकतानिरूपितजन्यताया एव विवक्षितत्वात् । ‘दण्डी पुरुष’ इति विशिष्टबुद्धिं प्रति दण्डानुभवस्य दण्डविषयकज्ञानत्वेनैव जनकत्वात्, अनुभवत्वेन जनकतायाः विरहात् ।
स्थितस्थापकं निरूपयति अन्यथेति । पूर्वावस्थाभिन्नावस्थाश्रयव्यक्ति-
[[४८]]
न्यायशेखरीव्याख्योपेतः
स्थितस्थापकः कटादिपृथिवीमात्रवृत्तिः ॥
चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधोदेशसंयोगहेतुरपक्षेपणम् । शरीरसन्निकृष्टसंयोगहेतुरा- कुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्यत्सर्वं गमनम् ।
नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । परं सत्ता । अपरं द्रव्यत्वादि ॥
निष्ठपूर्वावस्थासम्पादकत्वे सति गुणत्वं स्थितस्थापकस्य लक्षणम् । वेष्टितावस्थस्य कटस्य प्रसारितावस्थाम् आपन्नस्य पुनः वेष्टितावस्थापादकोऽयं गुणविशेषः । स च अतीन्द्रियः निरुक्तविलक्षणकार्येण अनुमीयते ।
कर्म निरूपयति चलनात्मकमिति । संयोगभिन्नत्वे सति संयोगासमवायि- कारणत्वं कर्मणो लक्षणम् । कायपुस्तकसंयोगहेतौ हस्तपुस्तकसंयोगे- ऽतिव्याप्तिवारणाय सत्यन्तम् । घटादावतिव्याप्तिवारणाय विशेष्यम् । यद्वा चलतीति प्रतीतिसिद्धा या चलनत्वजातिः तद्वत्वमेव लक्षणम् । उत्क्षेपणादीनां कार्यभेदेन भेदं दर्शयति ऊर्ध्वदेश इति । ननु भ्रमणादिकमपि अतिरिक्तं कर्म कुतो नोक्तमत आह अन्यदिति । तथा च तेषां गमन एव अन्तर्भावात् नातिरिक्तत्वमिति भावः । न चैवम् उत्क्षेपणादीनामपि गमने एवान्तर्भावात् गमनमेकमेव कर्म इति वाच्यम् । उत्क्षेपणादीनां गमनात् पृथक्तायाः सूत्रकृतैव उक्तत्वात् । न च सूत्रकृतैव तेषां पार्थक्येनोक्तिः कुत इति वाच्यम् । स्वतन्त्रेच्छस्य मुनेर्नियोगपर्यनुयोगानर्हत्वात् ।
सामान्यं निरूपयति नित्यमिति । नित्यत्वे सति अनेकसमवेतत्वं सामान्यस्य लक्षणम् । संयोगवारणाय सत्यन्तम् । नाशाप्रतियोगित्वं तदर्थः। गगनादिवारणाय विशेष्यम् । गगनपरिमाणादिवारणाय अनेकेति । घटाद्यत्यन्ताभाववारणाय समवेतेति । मूले एकमिति स्वरूपकीर्तनम् ।
१. ‘उत्क्षेपणमपक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि’ वैशेषिकसूत्रम् (१-१-७)
तर्कसङ्ग्रहः
नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥
[[४९]]
एकत्वं च सजातीयद्वितीयरहितत्वं सजातीयभेदाभावरूपम्, साजात्यं समानाश्रयकत्वरूपेण । द्रव्यगुणकर्मवृत्तीति । द्रव्यगुणकर्मसु त्रिषु सामान्यं वर्तते इत्यर्थः ।
विशेषान्निरूपयति नित्येति । पृथिव्यादिचतुष्टयपरमाणवः आकाशादि- पञ्चकञ्च नित्यद्रव्याणि । तत्र वर्तन्ते विशेषाः । व्यावर्तकत्वम् इतरभेद- साधकत्वम् । नित्यद्रव्येषु इतरभेदसाधका विशेषा इत्यर्थः । परमाणुषु परस्परभेद साधनाय विशेषाख्यपदार्था अङ्गीकृताः । अनुमानं तावत् एतत्परमाणुः तत्परमाणुभिन्नः एतद्विशेषादिति । नित्यद्रव्योद्देश्यकेतरभेद- विधेयकानुमितिजनकतावच्छेदकप्रकारताश्रयत्वं विशेषाणां लक्षणम् । नित्यद्रव्योद्देश्यकानुमितिः ‘एतत्परमाणुः तत्परमाणुभिन्न’ इत्याकारिका । तज्जनकतावच्छेदकप्रकारता ‘एतत् परमाणुः तत्परमाणुभेदव्याप्यै- तद्विशेषवान्’ इतिपरामर्शीया विशेषनिष्ठप्रकारता तदाश्रयत्वं विशेषे इति समन्वयः । न च व्याप्यविशेष्यकपक्षप्रकारकपरामर्शीयां प्रकारतामादाय परमाणौ अतिव्याप्तिरिति वाच्यम् । विधेयतासामानाधिकरण्यस्य प्रकारता - विशेषणत्वोपगमात् । जनकतावच्छेदकविधेयताश्रयत्वस्यैव वा निवेश- नीयत्वात् । लक्षणे भेदप्रतियोगी इतरः नित्यद्रव्यसजातीयो विवक्षितः। साजात्यञ्च नित्यत्वे सति द्रव्यविभाजकोपाधिरूपेण । अतः परमाणुः घटभिन्नः नित्यत्वादित्यनुमानमादाय नित्यत्वे ; गगनम् इतरभिन्नं शब्दा- दित्यनुमानमादाय शब्दे च नातिप्रसाङ्गः । न चैवमपि जीवात्मा परमात्मभिन्नः
१. घटत्वस्य समानाश्रयकत्वेन रूपेण सजातीयं घटत्वमेव । यावद्घटमात्रसमवेतस्य पदार्थान्तरस्य विरहात् । तादृशघटत्वस्य भेदः घटत्वे नास्तीति घटत्वं स्वसजातीयभेदाभाववद् भवतीत्याशयः ।
२. परमाणौ इतरभेदव्याप्यविशेष’ इत्याकारके व्याप्यविशेष्यकपरामर्शे विशेषस्यैव विधेयत्वात् प्रकारताशून्यत्वात् परमाणोः प्रकारतावत्वेऽपि विधेयताशून्यत्वात् एतत्परामर्शीयप्रकारता विधेयतासमानाधिकरणा न भवतीत्यतः नातिव्याप्तिरिति
भावः ।
J
[[५०]]
न्यायशेखरीव्याख्योपेतः
नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्मध्य एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुतसिद्धौ यथाऽवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, विशेषनित्यद्रव्ये चेति ॥
दुःखित्वादित्यनुमानसम्भवाद् दुःरवेऽतिव्याप्तिरिति वाच्यम् । नित्यत्वे सतीति विशेषणात् । न च तथापि एतदात्मा तदात्मभिन्नः एतदेकत्वा- दित्यनुमानमादायातिव्याप्तिः दुवरिति वाच्यम् । सामान्याश्रयस्य एकत्वस्य सामान्यरूपेणैव व्यावर्तकत्वनियमात् । विशेषाणां सद्भावे प्रमाणं तु अनुमानमेव । परमाणौ परमाण्वन्तरभेदः किञ्चिल्लिङ्गज्ञाप्यः भेदत्वात् एतद्घट निष्ठघटान्तरभेदवदिति ।
समवायं निरूपयति नित्यसम्बन्धः इति । नित्यत्वे सति सम्बन्धत्वं समवायस्य लक्षणम् । संयोगे अतिव्याप्तिवारणाय सत्यन्तम्, गगनादावति- व्याप्तिवारणाय विशेष्यम् । सम्बन्धत्वं विशिष्टबुद्धिनियामकत्वम् । समवाये प्रमाणं तु अनुमानं, ‘नीलो घट’ इत्यादिविशिष्टबुद्धिः विशेषणविशेष्य- सम्बन्धविषया विशिष्टबुद्धित्वात्, ‘दण्डी पुरुष’ इति विशिष्टबुद्धिवदिति ।
I
अयुतसिद्धपदार्थं विवृणोति ययोरिति । कपालनाशोत्तरमेव घटस्य नाशात् कपालनाशक्षणे विद्यमानो घटः विनश्यदवस्थः कपालम् अनाश्रित्य तिष्ठति । ततः प्राक् कपालस्थितिकाले विद्यमानो घटः अविनश्यदवस्थः कपालमाश्रित्यैव तिष्ठति । अतो घटकपालयोरयुतसिद्धत्वम् । इत्थं सर्वेषामेव अवयवावयविनाम् । एवम् अविनश्यदवस्थाः जन्यगुणाः पटरूपादयः गुणिनः पटादीन् आश्रित्यैव तिष्ठन्ति । केचन जन्यगुणाः पाकजरूपादयः, क्रियाश्च विनश्यदवस्था अपि द्रव्यम् आश्रित्यैव तिष्ठन्ति । नित्यगुणाः जातयः विशेषाश्च क्रमेण द्रव्यं व्यक्तिं नित्यद्रव्यञ्च आश्रित्यैव भवन्तीति सर्वत्र
समन्वयः ।
१. तथा च नित्यत्वे सति नित्यद्रव्योद्देश्यकतत् सजातीयेतरभेदविधेयकानुमिति- जनकतावच्छेदकविधेयताश्रयत्वं लक्षणं फलति ।
तर्कसङ्ग्रहः
[[५१]]
अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य । सादिरनन्तः प्रध्वंसाभावः । उत्पत्तेरनन्तरं कार्यस्य । त्रैकालिक- संसर्गाभावोऽत्यन्ताभावः । यथा “भूतले घटो नास्तीति । तादात्म्यावच्छिन्नप्रतियोगिताकोऽन्योन्याभावः । यथा “ घटः पटो न भवतीति ॥
प्रागभावं निरूपयति अनादिरिति । अनादित्वे सति सान्तत्वं प्रागभावस्य लक्षणम् । अनादित्वम् उत्पत्तिरहितत्वं घटादावतिव्याप्तिवारणाय । सान्तत्वं विनाशित्वं गगनादावतिव्याप्तिवारणाय । कार्यस्य घटादेः उत्पत्तेः प्राक् समवायिकारणे कपालादौ घटप्रागभावो भवति । ‘इह घटो भविष्यति’ इति प्रतीतेः । प्रागभावः प्रतियोगिनो घटादेर्जनकः ।
ननूक्तलक्षणे उत्पत्तिरहितत्वं प्रागभावाप्रतियोगित्वमेव । तथा च आत्माश्रयः, प्रागभावलक्षणे प्रागभावस्य प्रवेशात् । घटादौ अतिव्याप्तेर्वारणाय प्रागभावाप्रतियोगित्वमनिवेश्य
अभावत्वस्य निवेशे आत्माश्रयस्य निवारणेऽपि वक्ष्यमाणध्वंसलक्षणे सादित्वस्य प्रागभावप्रतियोगित्वपर्यवसि- तस्य निवेश्यतया प्रागभावलक्षणे विनाशित्वस्य ध्वंसप्रतियोगित्वरूपस्य निविष्टतया अन्योन्याश्रयो दुर्वार इति चेन्न । प्रतियोगिजनकत्वे सति अभावत्वस्यैव प्रागभावलक्षणतया विवक्षणीयत्वात् तत्राभावत्वनिवेशोऽपि अभावीयप्रतियोगितायाः संसर्गीयप्रतियोगिता- विलक्षणायाः निवेशलाभायैव ।
प्रध्वंसाभावं निरूपयति सादिरिति । सादित्वे सति अनन्तत्वं प्रध्वंसाभावस्य लक्षणम् । सादित्वं प्रागभावप्रतियोगित्वं गगनादावतिव्याप्ति- वारणाय । अनन्तत्वं घटादावतिव्याप्तिवारणाय । एवं सति अनन्तत्वस्य ध्वंसाप्रतियोगित्वरूपतया आत्माश्रयः । अत एतद्दलं परित्यज्य अभावत्वं निवेशनीयम्’ । प्रतियोगिजन्यत्वे सति अभावत्वमित्यपि लक्षणं सुवचम् । ‘इह घटो ध्वस्त’ इत्यादि प्रतीतिसिद्धः प्रध्वंसाभावः स्वप्रतियोगिनः समवायिकारणे कपालादौ तिष्ठति ।
१. अधुना प्रागभावे अतिव्याप्तिवारकतया सत्यन्तदलसार्यक्यमवसेयम् ।
[[५२]]
न्यायशेखरीव्याख्योपेतः
सर्वेषां पदार्थानामुक्तेष्वेवान्तर्भावात्सप्तैव पदार्था इति सिद्धम् ॥
काणादन्यायमतयोर्बालव्युत्पत्तिसिद्धये । अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ॥
इति शब्दपरिच्छेदः समाप्तः ॥
अत्यन्ताभावं निरूपयति त्रैकालिकेति । त्रैकालिकत्वं नित्यत्वं । संसर्गावच्छिन्नप्रतियोगिताकाभावत्वं संसर्गाभावत्वं तच्च अन्योन्याभाव- भिन्नाभावत्वं तथा च प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वे सति अन्योन्याभावभिन्नत्वे सति अभावत्वम् अत्यन्ताभावस्य लक्षणं फलति । ध्वंसे प्रागभावे अन्योन्याभावे गगनादौ चातिव्याप्तिवारणाय क्रमेण दलचतुष्टयम् । वस्तुतस्तु तादात्म्यातिरिक्तसम्वन्धावच्छिन्नप्रतियोगिताका- भावत्वम् अत्यन्ताभावस्य लक्षणं लाघवात् । ध्वंसप्रागभावयोः संसर्गा- वच्छिन्नप्रतियोगिताकत्वाभावात् अन्योन्याभावस्य च नियमेन तादात्म्या- वच्छिन्नप्रतियोगिताकत्वात् न क्वापि दोषः । अत्यन्ताभावे प्रमाणं प्रत्यक्षमेव, ‘अत्र घटो नास्ति’ इत्यादिप्रतीतेः ।
अन्योन्याभावं निरूपयति तादात्म्येति । तादात्म्यसम्बन्धावच्छिन्नप्रति- योगिताकाभावत्वं लक्षणम् । अत्यन्ताभावे अतिव्याप्तिवारणाय तादात्म्येति । अन्योन्याभावोऽपि नित्यः प्रत्यक्षेण सिद्ध्यति, ‘घटः पटो न’ इत्यादि- प्रतीतेः ।
शक्तिसादृश्यादीनां द्रव्यादिषु सप्तस्वेव अन्तर्भावं सूचयति सर्वेषामिति । दाहादिजननानुकूला वह्नेः सहजशक्तिः नातिरिक्तः पदार्थः, किन्तु कारणत्वमेव । कारणत्वञ्च वह्न्यादिनिष्ठं कारणतावच्छेदकीभूतवह्नित्वादि- रूपमेव । तथा च परसम्मता वह्न्यादिनिष्टा शक्तिः सामान्ये अन्तर्भवति । एवं मुखे चन्द्रसादृश्यम् चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्ववत्वम् । तत्र चन्द्रभिन्नत्वम् अन्योन्याभावात्मकमभावे अन्तर्गतम् । निरुक्ताह्लाद- जनकत्वं मुखनिष्ठं जनकतावच्छेदकमुखत्वरूपं सामान्येऽन्तर्गतम् इति ।
इति श्रीनवीनहोळ्ळविरचितायां न्यायशेखर्यां शब्दपरिच्छेदः समाप्तः ॥
॥ श्रीभारतीतीर्थवेदशास्त्रग्रन्थमालायां प्रकाशिताः ग्रन्थाः ॥
प्रथमं कुसुमम् लघुचन्द्रिकाप्रकाशः (प्रथममिथ्यात्वनिरूपणात्मकः प्रथमभागः) १ अद्वैतसिद्धिव्याख्यायाः गौडब्रह्मानन्दीति प्रथितायाः लघुचन्द्रिकायाः अभिनवा व्याख्या
व्याख्याता - वेदान्तकेसरी के. नारायणभट्टः
२ द्वितीयं कुसुमम् - सामवेदः ऊहउह्यगानम् (प्रथमद्वितीयभागौ )
तृतीयं कुसुमम् - लघुचन्द्रिकाप्रकाशः
[[३]]
[[४]]
(द्वितीयमिथ्यात्वनिरूपणात्मकः द्वितीयो भागः)
अद्वैतसिद्धिव्याख्यायाः गौडब्रह्मानन्दीति प्रथितायाः लघुचन्द्रिकायाः अभिनवा व्याख्या
व्याख्याता - वेदान्तकेसरी के. नारायणभट्टः
चतुर्थं कुसुमम् तत्त्वचिन्तामणिविवेचनम् ( अनुमानखण्डम् )
गङ्गेशोपाध्यायकृत तत्त्वचिन्तामणेः परमहंस श्रीचन्द्रशेखरभारतीस्वामिकृता अभिनवा व्याख्या पञ्चमं कुसुमम् – A peep into Advaita
A series of discourses by Sri. R Krishnaswami Aiyar on the essence of Advaita
षष्ठं कुसुमम् उपयुक्तांश सङ्ग्रहः
६ नित्यपूजाविधीनां वेदसूक्तानां रुद्रप्रश्नचमकप्रश्नमहान्यासलघुन्यासादि उपयुक्तमन्त्राणां,
/
।देवताष्टोत्तरशतनामावलीनां, प्रसिद्धस्तोत्राणां च सङ्ग्रहः
सप्तमं कुसुमम्- बृहद्धातुरूपावलिः
धातुसञ्ज्ञा, लकारोत्पत्तिक्रमः, आत्मनेपदपरस्मैपदविचारः, दशगण्यामुपात्तानां षट्सत्या अपि ७ अधिकानां धातूनां कर्तरि, भावकर्मणोः हेतुमण्णिचि, सनि, यड्यङ्लुकोर्लडादिषु, कृत्सु च रूपाणि, उपसर्गादिभेदनार्थभेदः, अकारादिक्रमेण सकलधातूनां धातुकोशश्च ग्रन्थेऽस्मिन् समुपलभ्यन्ते
[[८]]
अष्टमं कुसुमम्- तत्त्वचिन्तामणिविवेचनम् (शब्दखण्डम् )
गङ्गेशोपाध्यायकृत तत्त्वचिन्तामणेः परमहंस श्रीचन्द्रशेखरभारतीस्वामिकृता अभिनवा व्याख्या
नवमं कुसुमम् वक्तव्यकाशिका
—
९ पद्मपादाचार्यकृत पञ्चपादिकायाः अभिनवा व्याख्या
। व्याख्यातारः - उत्तमज्ञयतयः
दशमं कुसुमम् गुरुस्तुतिशतकम् (सव्याख्यानम् )
१० शृङ्गगिरिशारदापीठस्य पञ्चविंशैराचार्यैः जगद्गुरु श्रीसच्चिदानन्दभारतीमहास्वामिभिः विरचितम्
व्याख्यातारः- श्रीलक्ष्मणशर्मा