सिद्धान्तचन्द्रोदयः

Source: TW

(Kṛṣṇa Dhūrjaṭi Dīkṣita, 1774)

[[133]]

भट्ट/अ/त

तर्कसङ्ग्रहः

सिद्धान्तचन्द्रोदयाख्य-व्याख्यासंवलितः
रैक्व-( रायकवाल )-लल्लूराम-तनु-जनुषा
जीवरामशास्त्रिणा
शोधन-पुरःसर-टिप्पणादि-समलङ्कृतश् च

अयं च
पण्डित - ज्येष्ठाराम मुकुन्दजीशर्मणा
मुम्बय्यां
निर्णयसागरमुद्रणालये मुद्रयित्वा प्रकाशितः।
शके १८२२ संवत् १९५७.

००

[[0]]

[[०]]

विषयानुक्रमणिका.

१ मङ्गलाचरणम्

[[0000]]

[[0000]]

२ मङ्गलाचरणे नास्तिकशङ्का

३ पदार्थविभागः

४ नवद्रव्यविभागः

५ तमोवादः

६ गुणविभागः

७ कर्मविभागः

८ सामान्यविभागः

९ विशेषविभागः

१० समवायनिरूपणम्

११ अभावनिरूपणम्….

१२ पृथ्वीलक्षणम्

१३ लक्षणलक्षणम्

१४ सङ्करस्य जातिबाधकत्वम्

१९ पृथ्व्या विभागः ….

१६ परमाणुसद्भावे प्रमाणम्….

१७ पार्थिवशरीरविभागः

१८ इन्द्रियलक्षणम्

१९ पृथ्वीविषयनिरूपणम्

२० जललक्षणम्

२१ जलविभागः

२२ तेजोलक्षणम्

२३ सुवर्णवादः

२४ वायुलक्षणम्

२५ वायुविभागः

२६ आकाशलक्षणम्….

२७ काललक्षणम्

२८ दिग्लक्षणम्

२९ आत्मनिरूपणम् .

३० ईश्वरनिरूपणम्

३१ जीवेश्वरविषये नैयायिक-वेदान्तिक-शून्य-वादि-नास्तिकशैव-वैष्णवादीनां विवादः

३२ रूपनिरूपणम्

३३ रसनिरूपणम्

३४ गन्धनिरूपणम्

३५ पाकवादनिरूपणम्

३६ सङ्ख्यानिरूपणम्

३७ परिमाणनिरूपणम्

३८ पृथक्त्वनिरूपणम्

३९ संयोगनिरूपणम्

४० विभागनिरूपणम्

४१ परत्वापरत्वनिरूपणम्

४२ गुरुत्वनिरूपणम्

४३ द्रवत्वनिरूपणम्

४४ स्नेहनिरूपणम्

४५ शब्दनिरूपणम्

४६ बुद्धिनिरूपणम्

४७ स्मृतिसामान्यनिरूपणम्

४८ यथार्थानुभवनिरूपणम्

४९ अयन्थार्थानुभवनिरूपणम्

५० प्रमाणविभागः

५९ करणनिर्वचनम् ..

५२ प्रत्यक्षप्रमाणनिरूपणम्

५३ प्रत्यक्षप्रमाविभागः

५४ निर्विकल्पकनिरूपणम्

५५ सविकल्पकनिरूपणम्

५६ षड्विधसन्निकर्षः

५७ लौकिकसन्निकर्षविचारः

५८ अलौकिकसन्निकर्षविचारः

५९ अनुमाननिरूपणम्

६० परामर्षविचारः

६१ व्याप्तिनिरूपणम्

६२ पक्षधर्मतानिरूपणम्

६३ स्वार्थानुमानम्

६४ परार्थानुमानम्

६५ पञ्चावयवकथनम्

६६ लिङ्गविभागः

६७ पक्षतानिर्वचनम् ..

६८ हेत्वाभासनिरूपणम्

६९ उपमाननिरूपणम्

७० शब्दनिरूपणम्

७१ शक्तिनिरूपणम्

७२ आकाङ्क्षानिरूपणम्

७३ योग्यतानिरूपणम्

७४ तात्पर्यनिर्णयः

७५ वाक्यविभागः

७६ शाब्दबोधनिर्णयः

७७ विधिसामान्यनिर्णयः ७८ विधिविशेषनिर्णयः

७९ प्रामाण्यवादः

८० अयथार्थानुभवविभागः

८१ सुखादिनिरूपणम्

८२ गुणानां साधर्म्यवैधर्म्यप्रक्रिया

८३ कर्मनिरूपणम्

८४ सामान्यनिरूपणम्

८५ विशेषनिरूपणम्

८६ समवायनिरूपणम्

८७ अभावनिरूपणम्….

1 स्वामी शिवचरण गिरिपुस्तका समाप्ति कामा मङ्गलमाचरेत् इति श्रुति वाक्यात विपूवैया करा त्यर्थे, निपूर्व

तन्मङ्गल भिविध प्रोक्तम पि

पदच्छेदः पदार्थों किन विग्रहो वाक्य योजना

उपक्षेपात रूप समाधानं व्याख्यानं षड् विधस्मृतम् ॥

प्रस्तावः

॥ श्रीगणेशाय नमः ॥

मेलनं सम्पूर्वेक, च, भाषणम्

यं वेदाः सततं स्तुवन्ति नितरां ध्यायन्ति यं योगिनो
यः सृष्ट्य्-आदि-निदानम् उष्ण-किरणेन्द्व्-अग्नीक्षणो यः पुमान् ।
तस्मिन् शैल-सुता-कृतार्द्ध-वपुषि प्रज्ञात्मके शाश्वते
मच्-चित्तं रमतां सदा भयहरे श्रीमत्-परब्रह्मणि ॥ १ ॥

चिन्-नामान्वय-सागरे हिमरुचेर् विद्वन्मणेः श्रीगुरोः
काशीनाथ-शुभाभिधान-लसतः कारुण्य-बोधाम्बुधेः ।
स्वान्तः स्वान्त-गतान्धकार-तरणि-श्रीपाद-पङ्केरुह-
द्वन्द्वं सङ्कलयामि हृद्यम् अमलं प्रत्यक्ष-दैवं शुभम् ॥ २ ॥

ज्ञात्वा तन्त्रमनेकं श्री-
कृष्णधूर्जटिदीक्षितः ।
तर्कसङ्ग्रहगूढार्थान्
विवृणोमि यथामति ॥ ३ ॥

श्रीमद्-विक्रम-पट्टनाधिप-महा-राजाधि-राजामित-
प्रज्ञ-श्री-गज-सिंह-भूप-तनय श्रीराज-सिंहप्रभोः ।
सुज्ञानाय विनिर्मितो ऽतिसुगमः सिद्धान्त-चन्द्रोदयो
रम्यः साधु तनोतु पण्डित-मनो-हर्षं तरङ्गायितम् ॥ ४ ॥

मङ्गलाचरणम्

ग्रन्थादौ निर्विघ्नपरिसमाप्त्यर्थमन्नम्भट्टोपाध्यायः शिष्टा- चारानुमितश्रुतिबोधितकर्तव्यताकं नमस्कारात्मकं मङ्गलमा- चरन् श्रोतृप्रवृत्तयेऽनुबन्धचतुष्टयं च प्रदर्शयन् शिष्याणाम- लि

१ उत्पत्तिस्थितिलयकारणमित्यर्थः

15 dra

[[3265]]

२ उष्णकिरणः सूर्यः इन्दुश्चन्द्रः अग्निः त एव ईक्षणानि ने- त्राणि यस्य स इत्यर्थः विना विषय सम्बन्धो तथैवाधिक

आस्थायामः स्यादचतुष्ट

प् मङ्गलमाचाल

दच्छेदः पदार्थो कित विग्रहो काय योजनामा खानेपः तस्य समाधानं पो

पूर्वकधा करोत्यर्थ, निपूर्वक धारजे तथा पूर्व मेलनं भोक्तम् अभि सिद्धान्तचन्द्रोदयः ।

भाषणं तथा ॥

श्रूषा निवृति पूर्वक प्रकृत स्वशास्त्र विषयश्रवणेच्छा विषपत्यमवधानत्वम्

पव

बड़विधे स्मृतम् ॥ शब्दसामा न्यायेन

वधानाय चिकीर्षितग्रन्थप्रतिज्ञां च कुर्वन् शिष्याणां म- ङ्गलप्रवृत्तये आस्तिकमार्गप्रवृत्तये वा तन्निबध्नाति निधाये-८ त्यादिना । तर्क्यन्ते प्रमितिविषयीक्रियन्त इति तर्काः द्र- व्यादिपदार्थास्तेषां सङ्ग्रहः सङ्क्षेपेणोदेशलक्षणपरीक्षा यस्मिन् स क्रियत इत्यर्थः । नाममात्रेण वस्तुसङ्कीर्त्तनमुद्देशः यथा द्रव्य- गुण इति । असाधारणधर्मो लक्षणं यथा गन्धवत्त्वं पृथिव्याः । लक्षितस्य लक्षणं सम्भवति न वेति विचारः परीक्षा । नन्वेतग्रन्थ- रचनावलम्बनं कीदृशप्रयोजनायेत्यत आह सुखबोधाये- ति । सुखेनानायासेन वोधाय पदार्थतत्त्वज्ञानायेत्यर्थः । तथा च त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरुदेशो लक्षणं परीक्षा चेति भाष्य- सम्मत्यात्रोद्देशादिकृतत्वात्पदार्थतत्त्वज्ञानं भवत्येवेति भावः । अत्रोद्देशस्य पक्षज्ञानं प्रयोजनम् । लक्षणस्य इतरभेदज्ञानमिति वक्ष्यते । परीक्षायाः लक्षणे दोषपरिहार इति मन्तव्यम् । ननु कु- सुमाञ्जलिलीलावत्यादिग्रन्थाध्ययनेनापि पदार्थतत्त्वज्ञान सम्भवे ५० किमभिनवग्रन्थावलम्बनेनेत्यत आह बालानामिति । तथा च

तेषामतिदुर्बोधत्वात् तत्र बालानां बोधो न भवतीति भावः ४ अत्राधीतव्याकरणकाव्यकोशोऽनधीत न्यायशास्त्रो बालः । ननु- आशीर्वादनमस्कारवस्तुनिर्देश भेदतः । ●

नियोजन मन्दोडीय श्रीगणेशाय नमः ॥ निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसं- ग्रहः ॥ १ ॥ सत्यापत्ति पतिं न्यायेन वा. पेनानुत्पन्नं तत्तेनाद

354 पृष्ठ

1-110

गातमस्य कणादस्प

मङ्गलं त्रिविधं प्रोक्तं शास्त्रादीनां मुखादिषु " इति महदुक्तेः मङ्गलस्य ग्रन्थादावावश्यकतया तदत्राकृत्वा कथं ग्रन्थः क्रि- यत इत्यत आह निधायेति । विश्वेशं जगत्कर्त्तारं श्रीसाम्ब- ६ गुणा बात का ग्रन्थादाविति ? स्वाss अप समवाय संयोग संवन्ध

सति ग्रन्थ ग्रठमध्ये ग्रा अन्तै

अन्ते निवधाते, शिष्य शिक्षार्थम्शुरुमा

पूर्वस्यति

2 अनुमान दिन हम पति नतु ईतार

[[2]]

मूर्ति हृदि मनसि निधाय नितरां ध्यात्वा गुरुवन्दनं च वि- धायेत्यर्थः । नचेश्वरमङ्गलेनैव सामञ्जस्ये गुरुवन्दनमयुक्त- मिति वाच्यम् । ३. शिवे रुष्टे गुरुत्राता गुरौ रुष्टे न कश्चन । गुरुरेव परं ब्रह्मेत्यादिवचनात् गुरोरेवौत्कृष्टयप्रतिपादनेन तस्यैवावश्यकत्वात् । ईश्वरमङ्गलं तु समाप्तौ दृढतरसामग्रीसम्पा-

ļ दनाय निरीश्वरवादिमतनिराकरणाय वेति ध्येयम् । यत्रेश्वरम- ङ्गलमेवास्ति तत्र तस्यैव प्राधान्यं दिवाकरदीधितेरभावे दीप- दीधितेश्चाक्षुषोत्पादकत्ववदिति विवेकः । इति श्लोकव्याख्या । अथ मङ्गलं न समाप्तिं प्रति कारणं कादम्बर्य्यादौ मङ्गलसत्त्वेऽपि समात्यनुदयात् । नास्तिकग्रन्थे ‘मङ्गलाभावेऽपि समायु- दयादन्वयव्यतिरेकव्यभिचारादितिचेन्न । यत्सच्चे स्वेतरयाव- त्कारणसत्त्वे यत्सत्त्वमित्यस्यैवान्वयत्वेन कादम्बर्यादौ मङ्ग- लसत्त्वेऽपि कारणान्तरस्यासत्वकल्पनेनान्वयव्यभिचाराभा- वात् । नास्तिकग्रन्थे तु कार्य्यात्कारणमनुमेयमिति न्यायेनायं नास्तिकः कृतमङ्गलकः विघ्नध्वंसपूर्वक परिसमाप्तिमत्त्वात् चैत्र- वदित्यनुमानाज्जन्मान्तरीयमङ्गलसिद्धौ व्यतिरेकव्यभिचारा- भावाच्च । ननु मङ्गलस्य श्रुतिबोधितकर्त्तव्यताकत्वे किं मानमिति चेन्मङ्गलं श्रुतिबोधितकर्त्तव्यता कम लौकिका विगीतशिष्टाचा- रविषयत्वात् दर्शादिवदित्यनुमानमेव ॥ लौकिकव्यवहारवा- रणायालौकिकेत्याचारविशेषणम् । यद्यप्याचारः क्रिया तथापि विषयत्वसान्निध्यात्कृतिरेव विवक्षिता उन्मत्तकृतरा त्रिश्राद्धादौ हेतोः सच्त्वाद्व्यभिचारः अतः शिष्टेति । शिष्टलं च भक्तिश्रद्धादिभिर्वेदानुमत कर्मकर्तृत्वम्। आस्तिकाभासे व्यभि- चारवारणाय भक्तीत्यादि । चैत्यवन्दनप्रवृत्त बौद्धे व्यभिचार- वारणाय वेदानुमतेति । भक्तिश्च आराध्यलेन ज्ञानम् । श्रद्धाच फलावश्यम्भावनिश्चय इति सङ्क्षेपः । नव्यास्तु मङ्गलस्य विघ्न- 5 मङ्गल निपल विशेष फल शून्य यात जलताडनादिवत लु

। পর

"

दर्श

राजमारन्यन विधायक व प्रतिवन्य

दुई वृद्धिस्तु तत्कालिक ज्ञेपा प्रतिगामि गोचरा, प्रज्ञा

" शालिनी ‘प्रतिमा विदुः ॥ पान्यः । व्योपार घटित समाप्ति प्रति कारण

सति साधारण सिद्धान्तचन्द्रोदयः । तावच्छेदकतम पत्र जलम् (मङ्गले तज्जन्यजनकत्वं सति तज्जन्यजनकत्वं व्यापार ध्वंस एव फलम् । समाप्तिस्तु प्रतिबन्धकाभावघटितकारणसमु- दायादेवेत्याहुः ॥ इति मङ्गलवादः ॥ तत्रोद्देशस्यैवादौ कर्त्त-

वाय सम्बन्ध बच्छित जन्म द्रव्यत्वाऽच्छिन्म जन्म जन्मनिष्ठ या कार्यता तादृश कार्यतानिरूपिता नादात्म्य सम्वन्धायाकार

या कारण

h

[[3]]

द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः स- सपदार्थाः । तत्र द्रव्याणि पृथ्व्यप्तेजोवाय्वाकाश- कालदिगात्ममनांसि नवैव ॥ ६

[[2]]

हुत्याद

9 पद जन्य प्रतीविवयव 15

प्रदार्थत्वम-क्यं गुर व्यतया तत्पुरस्कारेण पदार्थान् विभजते द्रव्येति ज्ञेयत्वादिक पदार्थ सामान्यलक्षणम्, सप्तग्रहणं स्पष्टार्थमेवमग्रेऽपि । इति पदा- सामान्यलक्षणम् ॥ द्रव्यं विभजते तत्रेति तत्र सप्तपदार्थमध्य इत्यर्थः । नवैवेति द्रव्याणि नवैवेत्यन्वयः । द्रव्यलजातिमत्त्वं गु णवत्त्वं समवायिकारणतं वा द्रव्यसामान्यलक्षणम्। द्रव्यत्वजातौ इदं द्रव्यमिति प्रत्यक्षं द्रव्यवृत्तिर्या समवायिकारणता सा किं- चिद्धर्मावच्छिन्ना कारणतात्वाद्दण्डवृत्तिकारणतावदित्यनुमानं वा मानं तादृशधर्मविधयां द्रव्यत्वजातिसिद्धेः । ननु आद्यक्षणे द्रव्यस्य निर्गुणत्वेन कथं गुणवत्त्वं तल्लक्षणम्, नच तदानीं तत्र गुणः सम्भवति, पूर्वं घटरूपसमवायिकारणाभावात्, समानसा- मग्रीकले तु घटगुणयोर्भेदो न स्यात्कारणभेदस्यैव कार्य्यभेद- नियामकत्वादिति चेन्मैवम् । गुणसमानाधिकरणसत्ताभिन्नजा- तिमत्त्वस्य विवक्षितत्वात् । एकं रूपं रसात्पृथगिति प्रतीतिस्तु न समवायेन रूपे पृथक्त्वमेकलं चावगाहते गुणे गुणानङ्गी- कारात्, किन्तु घटनिष्ठ एव ते सामानाधिकरण्यसम्बन्धेन अत- स्तत्र नातिव्याप्तिरिति मन्तव्यम् । नवत्वमेव व्युत्पादयति ॥ पृ- थिवीति ॥ अथ तमोवादः ॥ ननु नीलं तमश्चलतीति प्रतीते-

१ विपूर्वक भजधात्वर्थस्तु स्वसमभिव्याहृतपदार्थतावच्छेदकव्या- घ्यमिथोविरुद्धयावद्धर्मप्रकारकबोधनानुकूलो व्यापारः ।

स्तमसो गुणक्रियावत्त्वेन द्रव्यत्वं सिद्ध्यति स्पर्शरहितले सति रूपवत्त्वेन न पृथिव्यादावन्तर्भावोऽपि तस्य । तदुक्तम् ।

“तमः खलु चलं नीलं परापरविभागवत् ।

प्रसिद्धद्रव्यवैधर्म्यान्नवभ्यो भेत्तुमर्हति " इति

अतः कथं नवैवेति चेन्न, तस्य द्रव्यले आलोका सहकृतेनैव चक्षुरिन्द्रियेण ग्रहणं स्यात् । द्रव्यचाक्षुषप्रत्यक्षे ऐन्द्रियका- लोकसहकृतचक्षुरिन्द्रियस्य कारणत्वात् । घूकादीनामालोकम- न्तरेण कथं चाक्षुषमिति चेन्न, अदृष्टविशेषोपगृहीतघूकादीन्द्रि- यस्यानुत्कृष्टालोक एव सहकारीति कल्पनात् । विलक्षणादृष्ट- वशात्कचिदुत्कृष्टा लोकस्यापि सहकारीति कल्पनात्, यद्वा- स्मदीयखेन द्रव्यचाक्षुषविशेषणात् । नच पृष्ठावच्छेदेनालोकसं- योगसत्त्वेऽग्रावच्छेदेन कुतो न घटादिचाक्षुषमिति वाच्यम्, आलोकसंयोगावच्छिन्नचक्षुःसंयोग एव चाक्षुषनिदानमित्ये- तदभिप्रायात् । किञ्चातिरिक्ततमः कल्पने तत्मागभावादिकल्पने च गौरवात् । तस्मात्प्रौढप्रकाशकतेजः सामान्याभाव एव तमः । यत्किचित्तेजोऽभाववति तमआपच्या सामान्यपदम् । सुवर्ण- वति देशेऽन्धकाराभावापत्त्या प्रकाशकपदम् । त्र्यणुकादिमत्यन्ध- काराभावापत्या प्रौढपदम् । नीलं तमश्चलतीति प्रतीतिस्तु भ्रमः। उष्णस्पर्शस्यापलपितुमशक्यत्वात्तमोऽभावो न तेज इति बोध्यम् । इति द्रव्यसामान्यनिरूपणम् । गुणं विभजते । रूपेति । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगवि-

भागपरत्वापरत्वगुरुत्वद्रवत्व स्नेहशब्दबुद्धिसुखदुः-

खेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिगुणाः ॥ तत्रेत्यनुवर्त्तते गुणत्वजातौ मानं पूर्ववत् । अत्रादौ गुणाग्रहण- करणे इच्छैव नियामिकेति ज्ञेयम् । द्रव्यकर्मभिन्नत्वे सति सा-

द्रव्य वातत्य सात स्वता कावत कृत्व विरा

सम्भवस्य सम्बन्धेन नित्य द्रव्य वृत्तित्वे सति स्वतो व्यक्ति कत्वं विशेषत्वभू

[[६]]

q

मान्यवान्गुणः । द्रव्यकर्मणोरतिव्याप्तिवारणाय विशेषणदलम्, सामान्यादावतिव्याप्तिवारणाय विशेष्यदलम्, । चतुर्विंशति- गुणा इति ।" रूपरसगन्धस्पर्शाः सङ्ख्यापरिमाणे पृथक्त्वं सं- योगविभागौ परत्वापरत्वबुद्धयः सुखदुःखेच्छाद्वेषप्रयत्नाश्चेति " वैशेषिकसूत्रस्थचकारस्यानुक्तसमुच्चायकत्वान्न सूत्रविरोध इति बोध्यम्। लघुत्वस्य गुरुत्वाभावरूपत्वात्, आलस्यस्य कृत्याsभा- वरूपत्वान्न चतुर्विंशतित्वव्याघातः । इति गुणसामान्यनि- उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च- कर्माणि ॥ परमपरं चेति द्विविधं सामान्यम्॥ नित्यद्र- व्यवृत्तयो विशेषस्त्वनन्ता एवं समवायस्त्वेक एव ॥ रूपणम्। कर्म विभजते । उत्क्षेपणेति । कर्मत्वजातिस्तु प्रत्यक्ष- सिद्धा संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म । सं- योगभिन्नत्वं घटपटादावप्यस्त्यत उक्तं संयोगासमवायिकारण- मिति ॥ काय पुस्तकसंयोगस्यासमवायिकारणं हस्तपुस्तकसं- योगस्तत्रातिव्याप्तिवारणाय सत्यन्तम् । भ्रमणादीनां गमनेऽ- न्तर्भावं वदिष्यति अतो न पञ्चविरोधः । इति कर्मसामान्य- निरूपणम्। सामान्यं विभजते । परमिति । परसामान्यमपरसा- मान्यमित्यर्थः । परत्वं चाधिकदेशवृत्तित्वम् । तथाहि । द्रव्यादित्रिकं सदित्युच्यते सतो भावः सत्तेति व्युत्पत्तेः तत्र सत्ता नाम काचन जातिरस्ति सा च द्रव्यत्वाधिकरणद्रव्ये वर्त्तमाना सत्यधिकदे- शगुणादावपि वर्त्तते अतः सा परसामान्यमित्युच्यते । अपरत्वं च

१ अत्र प्रशस्तपादादिभिरित्थं प्रतिपादितम् । चकारो गुरुत्वा- दीन् अवशिष्टान् सप्तगुणान् समुच्चिनोतीति चतुर्विंशतिर्गुणा भ- वन्ति इति ।

[[०]]

/

[[७]]

न्यूनदेशवृत्तित्वं वर्त्तते च द्रव्यत्वे गुणादिसाधारणसत्ताधिक- रणगुणादेर्न्यनदेशो द्रव्यं तद्वृत्तित्वम् । अथैवं सति द्रव्यत्वस्य पृ- थिवीत्वापेक्षया परत्वात्परं सत्तेति वक्ष्यमाणग्रन्था सङ्गतिरिति चेन्न, तस्याः सकलजात्यपेक्षया परत्वाभिप्रायकत्वात् । सामान्य- त्वादिकं न जातिः किन्तूपाधिः। यद्यपि धर्ममात्रमुपाधिरित्युच्यते तथापि जातिभिन्नो धर्ममात्रमुपाधिः । नतु उपाधिरिति को व्यवहियते इति चेच्छृणु, जातिभिन्नधर्ममात्रमुपाधिर्विवक्षि- तः परन्तु विशेषत उपाधिर्द्विविधः सखण्डोपाधिरखण्डोपा- धिश्च सखण्डोपाधिस्तु बहुपदार्थघटितो धर्मः स च धर्मः क्लृप्तपदार्थान्तर्भूतः यथा मङ्गलानुमाने उक्तशिष्टत्वादिकं वक्ष्य- माणभावत्वाभावत्वशरीरत्वेन्द्रियत्वविषयत्वकारणत्वाकाश- वकालत्वदिक्त्वादयश्च । अखण्डोपाधिश्चानिर्वचनीयो धर्मः स चातिरिक्तधर्म एवेति । मूलकारोक्तसामान्यादिलक्षणं प्रसं- गादत्रैव प्रकाश्यते । नित्यमेकमनेकानुगतं सामान्यम् । सामा- न्यलक्षणे एकत्वमापाततः नच तल्लक्षणं सम्भवति घटलपटला- द्यनेकेषु एकत्वाभावात् । अनेकत्वस्यैकभिन्नत्वात्मकत्वेनैक- त्वानेकत्वयोर्विरोधात् । यद्वा तदपि लक्षणं तच्च सजातीयध- मन्तरराहित्यरूपं स्वरूपं तथा सति घटत्वादेः सजातीयघटत्वा- दिरूपधर्मान्तरराहित्यानोक्तानुपपत्तिः । यद्वा जलपरमाण्वा- दिनिष्ठं यद्रूपं तत्रातिव्याप्तिवारणायैकत्वमुपात्तम् । अथवा एक- मिति स्वरूपकथनं नतु लक्षणमनेकानुगतत्वं चानेकवृत्तित्वं तच्च समवायेन बोध्यम्, तेनात्यन्ताभावे नातिव्याप्तिः तस्याभावी- यदैशिकविशेषणता सम्बन्धेन वृत्तेः । संयोगादावतिव्याप्तिवा- रणाय नित्यमिति । परमाणुपरिमाणादावतिव्याप्तिवारणायाने- केति । इति सामान्यनिरूपणम्। विशेषं विभजते । नित्येति

[[०]]

[[८]]

[[1]]

पদ

स्वतो व्यावर्त्तकत्वं विशेषत्वं विशेषः द्रव्याद्भिन्नः विशेषादि- त्यत्र स्वयमेव व्यावर्त्तको भवतीति लक्षणसमन्वयः । व्यावर्त्तकत्वं नाम व्यावृत्तिजनकत्वं व्यावृत्तिश्चेतरभेदस्तज्ज्ञानं चेदमत्रैव स्फुटतरम् । ननु विशेष एव किमर्थमाश्रयितव्य, इति चेच्छृणु, -घटादीनां कपालसमवेतत्वादिकं पटादिभेदकमस्ति परमाणूनां

तु परस्परभेदकं न किञ्चिदस्त्यतोऽगत्या विशेष आश्रयितव्य, एवं शब्दसमवायिकारणतावच्छेदकतयाऽपि विशेषः सिद्ध्यति । अत्रानुमानं पूर्ववत्कारणतात्वलिङ्गकम्। नच तत्र कवखादिकम- वच्छेदकम्भवितुमर्हति, तस्यासर्वकालीनखादनन्तत्वाच्च । आका- शत्वं शब्दसमवायिकारणत्वं स्वतो व्यावृत्त्यर्थमेवासावङ्गीका- र्य्यः नित्यद्रव्यवृत्तय इति आश्रयकथनम् । इति विशेषनिरू- पणम्। समवायस्यैकविधत्वादाह समवायस्त्विति नित्यः सम्बन्धः समवायः संयोगवारणाय नित्य इति गगनादिवार- णाय सम्बन्ध इति सम्बन्धश्च सम्बन्धिभिन्नत्वे सति सम्बन्ध्याश्रितः भवति घटघटत्वयोः समवायः स्वसम्भिन्नं यत्सम्बन्धि घटो घटत्वं च तदाश्रितः स्वभिन्नसम्बन्ध्याश्रितः स्वभिन्नप्रतियोगिकः संव- 33 न्धव्यवहारहेतुर्वा । अभावाद्यात्मक स्वरूपसम्बन्धादिवारणाय स्व-5 भिन्नेति स्वरूपसम्बन्धपरम्परासम्बन्धव्यवहारस्य गौणखेन तत्र सं- बन्धलक्षणस्यानपेक्षितत्वात् । संयोगसमवायावेव मुख्यसम्बन्धौ । ननु समवायसद्भावे किं मानमिति चेदत्र प्राञ्चः इह कपाले घटसमवाय इति प्रत्यक्षमेवेति जङ्गदुः । नव्यास्तु भू- तलं घटसंयुक्तमितिवद्गगनं घटसंयुक्तमिति प्रत्यक्षानुदया- त्सम्बन्धप्रत्यक्षे यावदाश्रयप्रत्यक्षस्य हेतुत्वेन समवायो न म- त्यक्षः तस्यातीन्द्रियसाधारणत्वात् किन्त्वनुमेयः, तथाहि यद्यद्विशिष्टज्ञानं तत्तत्किचित्प्रकारकं किञ्चिद्विशेष्यकं किञ्चि-

[[६२]]

e

त्संसर्गकं चेति सर्वजनप्रसिद्धं एवं सति रूपवान् घट इति विशिष्टज्ञानं विशेषणविशेष्योभयसम्बन्धविषयकं विशिष्टज्ञान- नात् दण्डी पुरुष इति विशिष्टज्ञानवदित्यनुमानात् द्रव्ययोरेव संयोग इति नियमेन “संयोगादीनां वाधात्समवायसिद्धिरि- त्याहुः । प्रकारत्वं नाम विषयताविशेषः एवं विशेष्यत्वमपि प्रकारत्वं नाम भासमानवैशिष्ट्यप्रतियोगित्वं विशेष्यत्वं नाम भासमान वैशिष्ट्यानुयोगित्वं वैशिष्ट्यं नाम सम्बन्धः दण्डीति ज्ञाने भासमानवैशिष्ट्यं संयोगस्तत्प्रतियोगित्वं दण्डे तदनु- योगित्वं पुरुषे इत्याहुः । अत्र मीमांसकाः, समवायस्थाने स्वरू- पसम्बन्ध एव निवेशित इत्याहुः, तदसत् रूपाद्यात्मकानन्त- स्वरूपसम्बन्धत्वकल्पने गौरवात् । नच समवायस्यैकत्वे रूपवा- अभावश्चतुर्विधः प्रागभावः प्रध्वंसाभावो - ऽत्यन्ताभावोऽन्योन्याभावश्चेति ॥

न् वायुरिति प्रतीत्यापत्तिः रूपसमवायस्य स्पर्शसमवायस्य चैक्यादिति वाच्यम्, रूपविशिष्टसमवायाधिकरणतायास्तादृश- प्रतीतिनियामिकाया वायावसत्त्वात् । इति समवायनिरूपणम् अभावं विभजते अभाव इति । भावभिन्नत्वमभावत्वम् । प्रति- योगिज्ञानाधीनज्ञानविषयत्वं वाऽभावत्वम् । अखण्डोपाधिरि- त्यपि केचित् । भावत्वं च समवायैकार्थसमवायान्यतरसम्बन्धेन सत्तावत्त्वं तदर्थश्च समवायसम्बन्धेन द्रव्यादित्रिके समवाय सम्बन्धे- न यदेकाधिकरणवृत्तित्वं तेन सम्बन्धेन सामान्यादित्रिके सत्ता- वत्त्वम्। अखण्डोपाधिरित्यपि केचित् । अत्र गुरवः, अभावोऽधि- करणात्मक इत्यूचुस्तन्न, जलगतगन्धाभावस्य जलस्वरूपतया ग- न्धाभावस्य घ्राणजानुपपत्तेः, जलस्य घ्राणजायोगादिति दिक् । एवमाधाराधेयभावोप्युपपद्यते । इति अभाव सामान्यनिरूपणम् ।

)

[[१०]]

अथ पदार्थानां साधर्म्यवैधर्म्ये निरूप्येते सप्तानां ज्ञेयत्वादिकं साधर्म्य तच्च प्रागुक्तमेव द्रव्यादिषण्णां भावलं द्रव्यादिपञ्चानां भावत्वे सत्यनेकत्वं समवायसम्बन्धेन सम्बन्धित्वं वा द्रव्यादिच- तुर्णां समवेतत्वम् द्रव्यादित्रयाणां सत्तावत्त्वं द्रव्यगुणयोनि- त्यानित्योभयवृत्तिसत्ताभिन्नजातिमत्त्वं कर्माऽवृत्तिजातिमत्त्वं वा गुणकर्मणोरसमवायिकारणत्वं गुणादिषण्णां गुणशून्यत्वं कर्मशून्यत्वं च । सामान्यादिचतुष्टयस्य सामान्यशून्यत्तं च येषां यत्साधर्म्यं तदितरेषां केवलान्वयिभिन्नवैधर्म्यमिति ध्ये- यम् । इति श्रीसिद्धान्तचन्द्रोदये तर्कसङ्ग्रहव्याख्याने पदार्थोद्देशविभागनिरूपणं नाम प्रथमः परिच्छेदः॥ ॥ तत्र गन्धवती पृथ्वी ॥

पदार्थान्विभज्य सम्प्रति तेषामुद्देशक्रमानुसारेण लक्षणं व- कुमुपक्रमते गन्धवतीति । गन्धवत्त्वं समवायेन बोध्यं तेन कालिकसम्बन्धेन काले दैशिकसम्बन्धेन दिशि गन्न्धव- त्त्वस्य सत्त्वेऽपि न क्षतिः तयोस्तेन तेन सम्बन्धेनैव सर्वा- धारत्वात् । अथ तदेव हि लक्षणं यदव्यास्यतिव्यात्यसं-

१ गन्धो विद्यतेऽस्या इति गन्धवती तस्या भावो गन्धवत्त्वम् । ग- न्धवत्त्वं च गन्ध एव । मतुबन्ताद्विहितो भावप्रत्ययः प्रकृतिं गम- यतीति सिद्धान्तात् । गन्धः आधेयः अधिकरणं पृथ्वी आधेयता गन्धनिष्ठा अधिकरणता पृथ्वीनिष्ठा तथा च गन्धनिष्ठाधेयतानि- रूपिताधिकरणताश्रयत्वं पृथ्या लक्षणम् । लक्ष्या पृथ्वी लक्ष्यता पृथ्व्यां लक्ष्यतावच्छेदकं पृथ्वीत्वं लक्ष्यतावच्छेदकावच्छिन्ना पृथ्वी तस्यां पृथ्व्यां गन्धनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वं वर्त्तत इति कृत्वा लक्ष्यायां पृथ्व्यां लक्षणसमन्वयः ॥

[[११]]

भवदोषत्रयशून्यम् । यथा गोः सास्त्रादिमत्त्वम् । अव्याप्तिश्च लक्ष्यैकदेशावृत्तित्त्वम् । अत एव गोर्न कपिलत्वं लक्षणं तस्याव्या- प्तिग्रस्तत्वात् । अतिव्याप्तिश्च लक्ष्यवृत्तिले सत्यलक्ष्यवृत्तित्वम् । अत एव गोर्न शृङ्गित्वं लक्षणं तस्यातिव्याप्तिग्रस्तत्वात् । असम्भवश्च लक्ष्यमात्रावृत्तित्वमत एव गोर्नैकशफवत्त्वं लक्षणं तस्यासम्भव- ग्रस्तत्वात् । एवं गन्धवत्त्वस्यापि लक्ष्यैकदेशपाषाणमणिमुक्ता- हीरकादौ अवृत्तित्त्वरूपाव्याप्तिग्रस्तत्वात्कथं तल्लक्षणमिति चेन्न, तद्भस्मनि गन्धोपलम्भेन तत्रापि गन्धकल्पनात्, तस्यानुद्भूत- त्वादनुपलब्धिः अनुद्भूतत्वं जातिस्तदभाव उद्भूतत्वमिति गङ्गेशोपाध्यायः । उद्भूतत्वं जातिस्तदभावोऽनुद्भूतत्वमिति ज- रन्नैयायिकाः । तदुभयमपि सङ्करस्य जातिबाधकत्वपक्षे न सा- धीयः शुललादिना सङ्करात् । तथाहि सङ्करश्च परस्परात्यन्ता- भावसमानाधिकरणयोर्धर्मयोरेकत्र समावेशः । अनुद्भूतत्वमप- हाय शुक्लत्वमुद्भूतशुक्लेऽस्ति शुक्लत्वमपहायानुद्भूतत्वमनुद्भू- तगन्धेऽस्ति तदुभयमप्यनुद्भूतशुक्ले इति इत्थमुद्भूतत्वस्यापि । त- दुक्तम् । “व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः ।

रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः” इति

तस्मादनुद्भूतत्वं शुक्ललादिव्याप्यो धर्मः । उद्भूतलं च प्रत्यक्षयोग्य रूपरसगन्धस्पर्शसंयोगाद्यन्यतमत्वमित्यलमप्रस्तुत- विचारेण । अथैवमपि सुरभ्यसुरभिकपालजन्यघटे परस्परप्रति- बन्धेन गन्धानुत्पत्तेरव्याप्तिः, नच तादृशघटे गन्धप्रतीतेचित्रग- न्ध एवास्थिति वाच्यम्, अवयवगन्धस्यैव तत्र भानाङ्गीकारा- दिति चेन्न, गन्धवत्त्वसमानाधिकरणद्रव्यत्वसाक्षाद्व्याप्यजाति- मत्त्वस्य विवक्षितत्वात् । जलादावतिव्याप्तिवारणाय गन्धवत्त्वेति सत्तामादाय तत्रैवातिव्याप्तिवारणाय द्रव्यत्वव्याप्येति पृथ्वी-

[[१२]]

अति

जलान्यतरत्वमादाय जले दोषवारणाय जातिपदम् । एतेनाद्य- क्षणोत्पन्नघटेऽव्याप्तिः परास्ता घटत्वमादायाव्याप्तिवारणाय द्रव्यत्वसाक्षाद्व्याप्येति गन्धप्रतीतिसत्त्वे पृथिवी सम्बन्धसत्त्वम् पृथिवीसम्बन्धाभावे गन्धप्रतीत्यभाव इत्यन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव जले प्रतीतिर्बोध्या एवं वायावपि । ननु देशा- न्तरस्थकस्तूरीकुसुमसम्बद्धपवनस्यैतद्देशे तत्सम्बन्धाभावाद्गन्धम- तीत्यनुपपत्तिः, नच बाखानीतत्र्यणुकादिसबन्धोऽस्त्येवेति वा- च्यम्, कस्तूर्या न्यूनतापत्तेः कुसुमस्य च छिद्रत्वापत्तेरितिचेन्न, सा द्विविधा । नित्याऽनित्या च । नित्या पर- माणुरूपा अनित्या कार्यरूपा ॥

भोकदृष्टविशेषेण पूर्ववत् व्यणुकान्तरायुत्पत्तेः । कर्पूरादावदृष्ट- विशेषाभावान्यूनतेष्ठैव । इतिपृथिवीलक्षणम् । ननु लक्षणस्य किं लक्षणमिति चेल्लक्ष्यतावच्छेदकसमनियतत्वमित्यवेहि । अत्र पृ- थिवीलक्ष्या तद्वृत्तिलक्ष्यताया अवच्छेदकं पृथिवीत्वं तत्सम- नियतत्वस्य गन्धे वृत्तेर्लक्षणसमन्वयः । अवच्छेदकत्वं च स्वरूपसम्बन्धविशेषः । अन्यूनानतिरिक्तवृत्तित्वमित्यपि केचि - त् । तत्समनियतत्वं च तद्व्याप्यत्वे सति तद्व्यापकत्वं वर्त्तते च गन्धवत्त्वे यत्र गन्धवत्त्वं तत्र पृथिवीत्वमिति तद्व्याप्यत्वं यत्र पृथिवीत्वं तत्र गन्धवत्वमिति तद्व्यापकत्वम् । यस्य प्रथममुपा- दानं तद्व्याप्यमिति मन्तव्यम् । तदुक्तम् ।

" व्याप्यस्य वचनं पूर्वं व्यापकस्य ततः परम् ।

एवं परीक्षिता व्याप्तिः स्फुटीभवति तत्त्वतः "

इति

ननु लक्षणस्य किं प्रयोजनमिति चेत्तदितरभेदानुमिति- रिति विद्धि । नन्वेवं सतीतरभेदात्मिका या व्यावृत्तिस्तस्यातर्कसङ्ग्रहटीका-

[[१३]]

अपि पृथिव्यसाधारणधर्मत्वेन सापि लक्षणमिति ? वक्तव्यम् । एवं सति पृथिवीतरभेदवतीतरभेदादित्यनुमानासम्भवेन तस्याः प्रयोजनाप्रसिद्धेः । एवं जगदितरस्यैवाप्रसिद्ध्या तल्लक्षणीभूत- ज्ञेयत्वस्यापीति चेत्सत्यम्, अंसाधारणधर्मो द्विविधः । व्यावर्त्त- कोऽव्यावर्त्तकश्च । तत्र व्यावर्त्तकरूपासाधारणधर्मस्यैव लक्षण- त्वात् । तैस्य च व्यावृत्तिरूपप्रयोजनदर्शनात् । अथैवं सति लक्ष- णलक्षणस्याव्यावर्त्तकेऽतिव्याप्तिः । व्यावृत्तेः पृथिवीत्वसमनिय- तत्वात् ज्ञेयत्वस्य च पदार्थत्वसमनियतत्वादिति चेन्मैवम् । तद्भिन्नत्वस्यापि लक्षणे निवेशात् । तथाच लक्ष्यतावच्छेदकसम- नियतत्वे सति ज्ञेयत्वादिभिन्नत्वं लक्षणलक्षणमिति पर्यवस- न्नम् । स्वस्मिन्स्वभेदानङ्गीकारेण ज्ञेयत्वादौ ज्ञेयत्वादिभिन्नत्व- स्यासम्भवात् । यदि चासाधारणधर्ममात्रं लक्षणमितिसिद्धान्त- व्याघातः एवं ज्ञेयत्वादिकं पदार्थसामान्यलक्षणमिति पूर्वोक्त- मप्यसङ्गतमित्युच्यते, तदास्त्वसाधारणधर्ममात्रं लक्षणम् । तस्य च व्यावृत्तिवदियं पृथिवीदं जगदिति व्यवहारोऽपि प्रयोज- नमिति मन्तव्यम् । तदुक्तम्, “व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनमिति” इतः परं प्रयोजनाभावाज्ज्ञेयत्वादिभिन्नत्वमनु- पादेयमेव । इति लक्षणलक्षणनिरूपणम् । पृथिवीं विभजते सेति । द्वैविध्यं व्युत्पादयति नित्येति । नित्यत्वं ध्वंस भिन्नत्वे सति ध्वंसाप्रतियोगित्वम् । अनित्यत्वं च ध्वंसप्रतियोगित्वम् । परमाणुरूपेति । ननु परमाणुसद्भावे किं मानमिति चेदुच्यते गवाक्षरन्ध्रे तरणिकिरणस्थं सर्वतः सूक्ष्मं यद्रज उपलभ्यते त- दणुकमित्यभिधीयते तदणुकमवयवजन्यं चाक्षुषद्रव्यत्वाद्व- टवदित्यनुमानेन त्र्यणुकावयवः सिद्ध्यति । स एव व्यणुक इ- त्युच्यते सोऽप्यवयवजन्यः महदारम्भकत्वात् कपालवदित्यनु- मानेन द्व्यणुकावयवः सिद्ध्यति । स एव परमाणुरित्युच्यते ।

ए/१५

[[२]]

[[१४]]

अनवस्थाभियावयवधारा नोररीक्रियते । अन्यथा मेरुसर्षप- योरपि साम्यप्रसङ्गः। परमाणोरनित्यत्वे त्वसमवेतभावकाय्र्यो- त्पत्तिप्रसङ्गः । ननु त्रिभिः परमाणुभिः कुतो न व्यणुकमारभ्यते द्व्यणुकद्वयेन कुतो न त्र्यणुकमिति चेन्न, परमाणुत्रय संयोगस्य व्यणुकद्वय संयोगस्य च द्रव्यानारम्भकत्वकल्पनात् । किञ्च प्रथ- मस्य द्रव्यारम्भकत्वे गौरवं स्यात् । द्वितीयस्य च तथात्वे व्यणुकम- हत्त्वानुपपत्तिश्च । कार्य्य महत्त्व कारणमहत्त्वस्य कारणबहुत्वस्य वा कारणत्वात्। इति परमाणुप्रमाणदर्शनम् । काय्र्यरूपेति अवयविनी चेत्यपि बोध्यम् । अत्र नास्तिकाः । अवयविसद्भावे किं मानम्, अयं घट इतिप्रतीतिर्हि परमाणुपुत्रैरेवोपपद्यते, मैवं- मंस्थाः । परमाणूनामतीन्द्रियत्वेन घटस्याप्यतीन्द्रियत्वापत्तेः । नचैकस्य केशस्य दूरेऽप्रत्यक्षेण कथं तर्हि तत्समूहस्य प्रत्यक्षमिति वाच्यम्, सन्निधाने एकस्यापि केशस्य प्रत्यक्षत्वसम्भवेन दृष्टा- न्तवैषम्यात् । किञ्चायं घट इतिज्ञानविषयताया अनन्तपरमाणु- कल्पने गौरवाच्चेति सारम् । इति परमाणुपुञ्जवादः । का- रूपपृथिवीं विभजते पुनरिति । पुनः कार्य्यरूपेति शेषः । एवमग्रेऽपि त्रैविध्ये हेतुमाह शरीरेति । द्वन्द्वान्ते श्रूयमाणत्वाद् भेदपदस्य प्रत्येकमन्वयात् । शरीरभेदादिन्द्रियभेदाद्विषयभेदा- दित्यर्थः ॥ अन्त्यावयवित्वे सति चेष्टाश्रयत्वं शरीरत्वम् । हस्ता- दिवारणाय सत्यन्तम् । घटादिवारणाय विशेष्यम् । अन्त्यावय- वित्वं च अवयवजन्यत्वे सत्यवयव्यजनकत्वं । अवयवत्वं च द्रव्यसमवायिकारणत्वम् । अवयवित्वं च जन्यद्रव्यत्वम् । चेष्टा च

॥ पुनस्त्रिविधा । शरीरेन्द्रियविषयभेदात् । शरी- रमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं त्राण ना- साग्रवृत्ति । विषयो मृत्पाषाणादिः ॥

[[१५]]

हिताहितप्राप्तिपरिहारार्था क्रिया । तदिदं शरीरं द्विविधम् । योनि- जमयोनिजं च । शुक्रशोणितपरस्परमेलनजन्यं शरीरं योनिजं त- द्भिन्नं शरीरमयोनिजम् । योनिजमपि द्विविधम् । जरायुजमण्डजं च । गर्भावरकचर्मपुटकं जरायुः । तज्जन्यं शरीरं जरायुजम् । इदं चास्मदादीनाम् । अण्डजं पक्ष्यादीनाम् । अयोनिजं त्रिविधम् । स्वेदजमुद्भिज्जमदृष्टविशेषजन्यं च । स्वेदजं यूकालिक्षादीनाम् । उद्भिज्जं वृक्षादीनाम् । अदृष्टविशेषजन्यं मन्वादीनाम् । ननु वृक्षा- दीनां शरीरत्वे किं मानमिति मैवं मंस्थाः, वृक्षः शरीरी आध्या- त्मिक वायुसम्बन्धादिति तदनुमानात् । ननु तत्रैव मानं न पश्याम इति चेद्वृक्षः आध्यात्मिकवायुसम्बन्धवान् दृद्धिक्षयादिमच्चादि- त्यनुमानं कलय । मन्वादीनामयोनिजत्वे “ब्रह्मणो मानसाः मन्वादयः पुत्रा इति” श्रुतिरेव प्रमाणम् । योनिं विना न शरीर- मिति वेदे योनिपदं कारणपरमिति मन्तव्यम् । इति शरीर- सामान्यनिरूपणम् । शब्दतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणं मनः संयोगाश्रयत्वमिन्द्रियत्वम् । शब्देतरे ये उद्भूतविशेषगुणाः घटनिष्टरूपादयस्तदनाश्रयत्वं ज्ञानस्य का- रणभूतो यो मनःसंयोगस्तदाश्रयत्वं च चक्षुरादावस्तीति ल- क्षणसमन्वयः । भवत्येवेन्द्रियमनः संयोगस्तथा आत्मा मनसा युज्यते मन इन्द्रियेणेन्द्रियमर्थेन ततः प्रत्यक्षमिति नियमात् । आत्मवारणाय सत्यन्तम् । कालवारणाय विशेष्यम् । श्रोत्रेऽ- व्याप्तिवारणाय शब्देतरेति । चक्षुरिन्द्रियादावनुद्भूतरूपसच्चा- दव्याप्तिवारणायोद्भूतेति । संयोगस्य द्विनिष्ठत्वेनेन्द्रियार्थसं- योगाश्रयत्वस्य चक्षुरादौ सच्चाद्विशेषगुणेति । स्वध्वंसकारणी- भूतकालमनःसंयोगस्तदाश्रयत्वं काल इति ज्ञानपदम् । प्राचां मते इन्द्रियावयवार्थावयवयोः सन्निकर्षोऽपि ज्ञानकारणं त- दाश्रयत्वमिन्द्रियावयवे गतमतो मनःपदम् । यद्वा काले रूपं

[[१६]]

नास्तीति प्रत्यक्षं प्रति चक्षुःसंयुक्तविशेषणतायाः कारणत्वेन तद्भटकीभूतसंयोगाश्रयत्वं काले गतमतो मनःपदम् । नच आत्मवारणायात्मान्यत्वमेव निवेश्यतामिति शङ्क्यं, वमनः- संयोगस्य ज्ञानकारणतापक्षे त्वचि दोषात् । इति इन्द्रिय- सामान्यनिरूपणम् । भोगोपयोगी विषयः । भोगश्च सुखदुः- खान्यतरसाक्षात्कारः । यद्येतल्लक्षणं शरीरादावतिव्याप्तमिति विभाव्यते तदा शरीरेन्द्रियभिन्नत्वमेव तदनुसरम् । वस्तुतस्तु श- रीरादिकमपि विषय एव । भेदेन कीर्त्तनं तु बालधीवैशद्याय । इति विषयसामान्यनिरूपणम् । पार्थिवं शरीरं दर्श- यति शरीरमिति । आदिपदेन पश्वादीनां परिग्रहः । गन्धव- च्छरीरं पार्थिवशरीरमिति तल्लक्षणं बोध्यम् । एवमग्रेऽपि । अत्र जलादिसनाथत्वात्पाञ्चभौतिकव्यवहारः । पार्थिवभागस्य मुख्य- त्वात्पार्थिवत्वम् । एवमन्यत्रापि । पार्थिवेन्द्रियस्य लक्षणमाह इ- न्द्रियमिति । चक्षुरादावतिप्रसङ्गवारणाय गन्धग्राहकेति । सन्निकर्षे व्यभिचारवारणाय द्रव्यत्वं निवेश्यम् । अथ पार्थिवे - न्द्रियं दर्शयति इन्द्रियमिति । गन्धवदिन्द्रियं पार्थिवेन्द्रिय- मिति तल्लक्षणं बोध्यम् । एवमग्रेपि । ननु पार्थिवेन्द्रियं नैवादरणी- यं निष्प्रयोजनखादिति चेन्न, तत्प्रयोजनमाह गन्धग्राहक- मिति । तथाच गन्धग्रहणमेव तत्प्रयोजनमस्ति तज्जनकत्वात्पा- र्थिवेन्द्रियमावश्यकमेवेति भावः । इदमुपलक्षणम् । येनेन्द्रियेण यगृह्यते तेनेन्द्रियेण तन्निष्ठा जातिस्तदभावश्च गृह्यत इति निय- माद्गन्धत्वादेरपि ग्राहकमित्यर्थः । एवमग्रेऽपि । नन्वस्तु गन्धग्राह- कलेन घाणनामकमिन्द्रियम्, तथापि तस्य पार्थिवत्वे किं मा- नमिति चेन्मैवम्, घ्राणेन्द्रियं पार्थिवं रूपादिषु पञ्चसु मध्ये ग- न्धस्यैवाभिव्यञ्जकत्वात् कुङ्कुमगन्धाभिव्यञ्जकगोघृतादिवद्वायू- पनीतसुरभिपार्थिव भागवद्वेत्यनुमानस्यैव मानलात् । नवशरा-

[[१७]]

वगतगन्धव्यञ्जकजले व्यभिचारवारणाय एवकारः । तस्य स- क्तुरसस्यापिव्यञ्जकत्वात् मध्यान्तोपादानेन घ्राणस्य गन्धत्व - व्यञ्जकत्रेऽपि न क्षतिः । हेतुशरीरे द्रव्यत्वमपि निवेश्यं तेन सन्नि- कर्षे न व्यभिचारः । तस्य सङ्केतमाह घ्राणमिति । घ्राणपदप्र तिपाद्यमित्यर्थः । तदाश्रयमाह नासाग्रेति । एवमग्रेऽपि । पा- र्थिवविषयं दर्शयति विषय इति । अत्रादिना पुष्पादिपरिग्रहः । गन्धवान्विषयः पार्थिवविषय इति तल्लक्षणं बोध्यम् । एवम- ग्रेsपि । इति पार्थिवग्रन्थः । जलं लक्षयति शीतेति । नच चन्दनं शीतं शीतं शिलातलमित्यादि प्रतीतेः पृथिव्यामति- व्याप्तिरिति वाच्यम्, जलसमवेतशीतस्पर्शस्यैव स्वसमवायिसं- योगसम्बन्धेन तत्र

॥ शीतस्पर्शवत्य आपः । ताः द्विविधाः । नित्या अनित्याश्र । नित्याः परमाणुरूपाः । अनित्याः का र्यरूपाः । पुनस्त्रिविधाः । शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवृत्ति । विषयः सरित्समुद्रादिः ॥

१ शीतश्चासौ स्पर्शश्च शीतस्पर्शः स विद्यते आसामिति शीत- स्पर्शवत्यः तासां भावः शीतस्पर्शवत्त्वं शीतस्पर्शवत्त्वं च शीतस्पर्श एव मतुबन्ताद्विहितो भावप्रत्ययः प्रकृतिं गमयतीति सिद्धान्तात् । शीतस्पर्श आधेयः अधिकरणमापः आधेयता शीतस्पर्शनिष्ठा अधि- करणता अनिष्ठा तथा च शीतस्पर्शनिष्ठाधेयतानिरूपिताधिकरण- ताश्रयत्वमम्पां लक्षणम् । लक्ष्या आपः लक्ष्यता अप्सु लक्ष्यतावच्छे- दकमपूत्वं लक्ष्यतावच्छेदकावच्छिन्ना आपः तासु अपूसु शीतस्पर्श- निष्ठाधेयतानिरूपिताधिकरणताश्रयत्वं वर्तत इति कृत्वा लक्ष्यासु अप्सु लक्षणसमन्वयः ॥

[[१८]]

भानात् । जलं विभजते ता इति । शरीरमिति । इदमयो- निजमेव । एवमुत्तरत्रापि ज्ञेयम् । ननु जलीयशरीरस्य नखदन्तक- राद्यसम्भवेनाहाराद्यसम्भवात्कथं भोगायतनखमुपपद्यत इति मैवं मंस्थाः, पार्थिवादिभागसंश्रितत्वेन करकादिवद्धनीभूय दृढीभूतस्य तस्य ताल्वा दिवाग्व्यापारादिसम्भवे नाहारविहा- रादिसम्भवाद्भोगायतनत्रोपपत्तेः । एवमुत्तरत्रापि बोध्यम् । इ- न्द्रियमिति । नतु रसनेन्द्रियस्य जलीयले किं मानमिति चे- च्छ्रयताम् । रसनेन्द्रियं जलीयं रूपादिषु पञ्चसु मध्ये रसस्यै- वाभिव्यञ्जकखाल्लालावदित्यनुमानम् । हरीतक्यामलकादौ व्यभिचारवारणायैवकारः । तस्य जलमाधुर्य्यव्यञ्जकत्ववत्कुसुं- भादिरूपस्यापि व्यञ्जकत्त्रात् । शेषं सुगमम् । विषय इति । आ- दिना तडागहिमकरकादिसङ्ग्रहः । अथ हिमकरकादीनां जलत्वे तत्र नैमित्तिकद्रवत्वं न स्यादिति चेत्को वा नेति ब्रूते अदृष्ट- विशेषेण घनीभावात्सांसिद्धिकद्रवत्वप्रतिबन्धमात्र कल्पनात् । इति जलग्रन्थः । तेजसो लक्षणमाह उष्णस्पर्शवदिति । उष्णं जलमिति धीस्तु जलान्तर्गते तेजोनिष्ठोष्णस्पर्शस्यैवेति तत्र नातिव्याप्तिः । चन्द्रकिरणादौ तदन्तर्वर्तिवा रिस्पर्शाभिभू- तत्वादुष्णस्पर्शस्यानुपलम्भः । चक्षुरादावनुद्भूतत्वात्तस्य । तथा ते- जो विभजते तदिति । चक्षुषस्तैजसले, चक्षुस्तैजसं रूपादिप- ञ्चसु मध्ये रूपस्यैवाभिव्यञ्जकत्वात् दीपप्रभावदित्यनुमानं प्रमाणम् । हरीतक्यादौ व्यभिचारवारणायैवकारः । रूपग्राह- कमिति । इदमुपलक्षणम्। महत्वोद्भूतरूपस्पर्शवद्रव्यतद्वृत्तिकर्म-

सामान्यसमवायसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरखाप- रत्वद्रवत्वस्त्रेहानामपि ग्राहकमिति द्रष्टव्यम् । ननु वहिरिन्द्रि- यस्य वस्तुमाप्यप्रकाशकारित्वनियमेन कनीनिकाग्रवर्त्तिचक्षु-

[[१९]]

षो घटादीनां कथं प्राप्तिरिति चेन्मैवम्, दीपप्रभा इव तस्यापि विकाशशालित्वेन तत्प्राप्तिसम्भवात् । नच शाखाचन्द्रमसो- उष्णस्पर्शवत्तेजः । तच्च द्विविधम् । नित्यमनित्यं च नित्यं परमाणुरूपम् ॥ अनित्यं कार्यरूपम् । पुनस्त्रि- विधम् । शरीरेन्द्रियविषयभेदात् । शरीरमादित्य- लोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवृत्ति । विषयश्चतुर्विधः । भौमदिव्यौदर्या करजभेदात् । भौमं वह्नयादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्त- स्य परिणामहेतुरौदर्यम् । आकरजं सुवर्णादि । स्तुल्यग्रहणानुपपत्तिरिति वाच्यम्, इष्टापत्तेः । शाखाचन्द्र- मसौ युगपत्पश्यामीति मतेर्भ्रमत्वात् । तेजसोऽतिशय वेगशालि- स्वेनैव क्षणविलम्बेनैव तद्ग्रहणात् । प्रायशस्तु पदभाष्यानुसारेण । विषयस्य चातुर्विध्यमाह विषय इति । अन्यत्र तु उद्भूतरू- पोद्भूतस्पर्शवानुद्भूतरूपानुद्भूतस्पर्शवानुद्भूतरूपानुद्भूत स्पर्श- वानुद्भूतस्पर्शानुद्भूतरूपवानिति चातुर्विध्ये हेतुमाह भौमेति ।

१ उष्णाश्चासौ स्पर्शश्च उष्णस्पर्शः स विद्यतेऽस्येत्युष्णस्पर्शवत् तस्य भाव उष्णस्पर्शवत्त्वं तच्चोष्णस्पर्श एव मतुबन्ताद्विहितो भाव- प्रत्ययः प्रकृतिं गमयतीति सिद्धान्तात् । उष्णस्पर्श आधेयः अधि- करणं तेजः आधेयता उष्णस्पर्शनिष्ठा अधिकरणता तेजोनिष्ठा तथा च उष्णस्पर्शनिष्ठाधेयतानिरूपिताधिकरणताश्रयत्वं तेजसो लक्षणम् । लक्ष्यं तेजः लक्ष्यता तेजसि लक्ष्यतावच्छेदकं तेजस्त्वं लक्ष्यतावच्छे- दकावच्छिन्नं तेजः तस्मिन् तेजसि उष्णस्पर्शनिष्ठाधेयतानिरूपिताश्र- यत्वं वर्त्तत इति कृत्वा लक्ष्ये तेजसि लक्षणसमन्वयः ॥ एवंरीत्या सर्वत्र लक्षणसमन्वयः सुधीभिराकलनीयः ॥

[[२०]]

भेदादिति पदं प्रत्येकमभिसम्बध्यते तत्र । भौममुदाहरति भौ- ममिति । पार्थिवमात्रेन्धनं तेजोभौमम् । वह्नचादिकमित्यत्रादि- पदेन खद्योतगततेजःप्रभूतेः परिग्रहः । दिव्यं लक्षयति अबि- न्धनमिति । अद्भिरिध्यते प्रकाश्यते इत्यबिन्धनम् । तद्दर्शयति विद्युदादीति । आदिनाऽर्कचन्द्रादीनां परिग्रहः । पार्थिवज- लोभयेन्धनं तेज औदर्यं तदेवाभिधत्ते भुक्तस्येति । भुक्तस्या- नादेः पीतजलस्य च परिणामो जीर्णता तस्य हेतुरौदर्यमि- त्यर्थः अत एव तदुभयेन्धनम् । आकरजं दर्शयति आकर- जमिति । अनुभयेन्धनं तेज आकरजं सुवर्णादिकमित्यत्रा- दिना रजतादेः परिग्रहः । अथ सुवर्णवादः । ननु सुवर्ण पार्थिवं पीतवत्वाद्धरिद्रावदिति चेन्नैतत्, घृतजतुप्रभृतिष्वत्य- न्तानलसंयोगे सति द्रवत्वनाशोपलम्भेन जलादिरूपप्रतिब- न्धके सति तदनुपलम्भेन च पार्थिवद्रवत्वनाशं प्रति प्रतिबन्ध- काभावविशिष्टात्यन्तानलसंयोगस्य कारणत्वेन सुवर्णे तादृशसं- योगे सति द्रवत्वनाशापत्तेः । प्रतिबन्धकत्वं च कारणीभूताभा- वप्रतियोगित्वम्। भवति हि जलं पार्थिवद्रवत्वनाशं प्रति का- रणीभूतो योऽभावो जलाभावस्तत्प्रतियोगि । मीमांसकास्तु। तम इव सुवर्णमप्यरिक्तं द्रव्यं शशङ्किरे तदपि न युक्तम् । कॢप्तेः ध्वन्तर्भावे सम्भवत्यतिरिक्तद्रव्यत्वकल्पनाया अन्याय्यत्वात् । ननु सुवर्णस्य तैजसले किं प्रमाणमिति चेदत्र ब्रूमः, सुवर्ण तैज-

रूपरहितस्पर्शवान्वायुः । स द्विविधः । नित्यो- ऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः । शरीरेन्द्रियविषयभेदात्। शरीरं वायु- लोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवृ-

[[२१]]

त्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तःसञ्चारी वायुः प्राणः । स चैकोऽप्युपाधिभेदात् प्राणापाना- दिसञ्ज्ञां लभते ।

सं प्रतिबन्धकाभावविशिष्टात्यन्ताग्निसंयोगेऽप्यनुच्छिद्यमा- नद्रवत्वाधिकरणत्वाद् यन्नैवं तन्नैवं यथा सर्पिरिति । सलिला- न्तर्गत हुताशनसंयुक्तसर्पिषि व्यभिचारवारणाय संयोगान्त- मिति । ननु सुवर्णस्य तैजसखे तन्निष्ठोष्णस्पर्शभाखररूपे गृह्णी- यातामिति चेन्न, बलवत्सजातीयपार्थिवरूपस्पर्शाभ्यां तन्निष्ठो- ष्णस्पर्शभास्वररूपयोरभिभवादग्रह इति सङ्क्षेपः । इति तेजो- ग्रन्थः । वायुं लक्षयति रूपरहित इति । घटादिवारणाय विशेषणम् । आकाशादिवारणाय विशेष्यम् । अथ वायुप्रत्य- क्षतावादः । ननु वायुसद्भावे किं मानमिति चेदत्र प्राञ्चः, विषयता सम्बन्धेन वहिर्द्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति समवायसं- बन्धेन महत्त्व विशिष्टोद्भूतरूपमुद्भूतस्पर्शश्च कारणम् । एवं सति वायौ तदभावाद्वायुर्न प्रत्यक्षः किं त्वनुमेयः । तथा सति योऽयं- वायौ वाति सत्यनुष्णाशीतस्पर्शः प्रतीयते सः स्पर्शः किं- चिदाश्रितो गुणत्वाद्रूपवदित्यनुमानेन किञ्चिदाश्रितत्वे सा- धनीये यत्किचित्पदग्राह्यं तदेव वायुरित्युच्यते । नच तत्पृथिवी भवितुमर्हति । उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपवत्त्वनियमात् नापि जलतेजसी तत्रानुष्णाशीतस्पर्शाभावात् । नाप्याकाशादि चतुष्टयं तस्य विभुत्वेन सर्वत्र तादृशस्पर्शप्रत्यक्षापत्तेः । नापि मनः तस्यातीन्द्रियत्वेन स्पर्शस्याप्यतीन्द्रियत्वापत्तेरित्याहुः । नवीवास्तु वहिर्द्रव्यप्रत्यक्षं प्रति महत्त्वविशिष्टविभुव्यावृत्तविशे- पगुणः महत्वविशिष्टोद्भूतरूपोद्भूतस्पर्शान्यतरद्वा कारणम्। एवं सति वायुरपि प्रत्यक्ष एव तत्र तादृशगुणस्य महत्त्वविशिष्टो-

[[२२]]

द्भूतस्पर्शस्य सत्त्वात् । इतरथा वायुं स्पृशामि प्रभां पश्यामि तप्तजले तेजः स्पृशामीत्याद्यनुभवापलापप्रसङ्गः। नचायं भ्रमः । घटं स्पृशामीत्यनुभवस्यापि तथात्वापत्तेः । ननु द्रव्यचाक्षुषं प्रति द्रव्यस्पार्शनं च प्रत्येकं किं कारणमिति चेत्, आद्ये महत्त्वविशिष्टो- द्भूतरूपं द्वितीये महत्त्वविशिष्टोद्भूतस्पर्शः । नचायं पक्षो गरीयान् प्राचां मते द्रव्यस्पार्शनकारणत्वस्य रूपेऽप्यभ्युपगम्यत्वेन तुल्य- त्वादित्याचक्षते । वायुं विभजते स द्विविध इति । शरीर- मिति । तच पिशाचादीनाम् स्पर्शग्राहकमिति । इदमुपलक्ष- णं महत्वोद्भूतरूपस्पर्शवद्रव्यतद्वृत्तिकर्मसामान्यसमवायसङ्ख्या-

परिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वस्ने हानामपि ग्राहक- म्। त्वगिति । त्वगिन्द्रियमित्यर्थः । तस्य वायवीयत्वे त्वगिन्द्रि- यं वायवीयं रूपादिषु पञ्चसु मध्ये स्पर्शस्यैवाभिव्यञ्जकत्वादङ्गस- ङ्गिसलिलशैत्याभिव्यञ्जकव्यजनपवनवदित्यनुमानम् । सलिलशै- त्यव्यञ्जके मनसि लालादौ चातिप्रसक्तिवारणायैवकारः । हृ- क्षादीत्यत्रादिपदेन तृणादीनां परिग्रहः । ननु प्राणस्याधिकस्य

1 सच्चात्कुतो न कृतस्तद्विभाग इत्यत आह शरीरान्त इति । तथाच विषयवायौ तस्यान्तर्भाव इति तात्पर्यम् । अपानादेर- तिरिक्तत्वमाशङ्क्य प्राणे तस्यान्तर्भावमभिधत्ते सचेति । प्राण- स्त्वित्यर्थः । एकोऽपीति । एक एव प्राणो हृदादिस्थानरूपी- पाधिभेदात्प्राणापानादिशब्दैर्व्यवहीयत इत्यर्थः । तदुक्तम् ।

[[46]]

हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।

उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः” इति ॥ अथवा मुखनासिकाभ्यां निर्गमनप्रवेशनात्प्राणः । मलादे- रधोनयनादपानः । भुक्तपरिणामाय जाठरानलस्य समुन्नय- नात्समानः । अन्नादेरुर्द्धनयनादुदानः । नाडीमुखेषु वितनना- व्यानः । इति क्रियारूपोपाधिभेदाद्वा तथा व्यवहीयत इत्यर्थः ।तर्कसङ्ग्रहटीका-

[[२३]]

एवं नागकूर्म्यकूकलदेवदत्तधनञ्जयात्मकवायूनां प्राणेऽन्त- र्भावः । नाग उद्गीर्णस्य हेतुः कूर्म्म उन्मीलनस्य कृकलः क्षुधा- याः देवदत्तो विजृम्भणस्य धनञ्जयः पोषणस्येति बोध्यम् । इति वायुग्रन्थः । इदानीं कार्य्यद्रव्यस्योत्पत्तिविनाशक्रममाचक्ष्महे परमेश्वरस्य चिकीर्षावशात्परमाणुषु कर्मोत्पतिः । तदनन्तरं द्वयोः परमाण्वोः संयोगस्ततो व्यणुकोत्पत्तिः । तत्र परमाणुः समवायिकारणम् । परमाणुद्वयसंयोगोऽसमवायिकारणम् । पर- मेश्वरस्तज्ज्ञानं तदिच्छा तत्कृतिः कालो दिक् प्रागभावोऽदृष्टं प्रतिबन्धकाभावश्च निमित्तकारणम् । एतेषां कार्य्यमात्र एव निमित्तकारणत्वात् । तदनन्तरं त्रिषु व्यणुकेषु कम्र्मोत्पत्तिस्तत- स्तेषां संयोगस्ततत्रयणुकोत्पत्तिः । एवं चतुरणुकाद्युत्पत्तिक्रमेण

१ यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य पटश्च स्वगतरूपादेः समवायिकारणम् । समुदितार्थश्च यस्मिन् समवायेन सम्बद्धं सत् कार्यमुत्पद्यते तत्समवायिकारणम् । यद्वा स- मवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वं समवायिकारणम् । समवायसम्बन्धेन घटाधिकरणे कपालादौ कपा- लादेस्तादात्म्यसम्बन्धेनैव सत्त्वात् समवायेन घटं प्रति तादात्म्येन क- पालं कारणम् । समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्यतानिरू- पिततादात्म्यसम्बन्धावच्छिन्नकारणतायाः कपालादौ सत्त्वालक्षणसम-

न्वयः ॥

२ समवायिकारणे प्रत्यासन्नं कारणमसमवायिकारणम् । अयं भावः । समवायसम्बन्धावच्छिन्नकार्यतानिरूपिता या समवाय- स्वसमवायिसमवेतत्व - एतदन्यतरसम्बन्धावच्छिन्ना कारणता तदाश्रय- त्वम् । तन्तुसंयोगस्य पटसमवायिकारणेषु तन्तुषु प्रत्यासन्नत्वात् कारणत्वाच्च तन्तुसंयोगः पटस्यासमवायिकारणमिति फलितार्थः 1

[[२४]]

महती पृथिवी महत्यआपः महत्तेजः महान्वायुरुत्पद्यते । ननु त्रिभिः परमाणुभिः कुतो न द्व्यणुकमारभ्यते व्यणुकद्वयेन कुतो न त्र्यणुकमिति चेन्न, प्रथमस्य द्रव्यारम्भकत्वे गौरवात् प्रमाणा- भावाच्च । द्वितीयस्य च तथात्वे त्र्यणुकमहत्त्वानुपपत्तेः । कार्य्य- महत्त्व कारणमहत्त्वस्य कारणबहुत्वस्य वा कारणत्वोत् । एवं परमेश्वरस्य कार्य्यद्रव्यसञ्जिहीर्षावशात्परमाणुषु कर्मो- त्पत्तिः । ततः परमाणुद्वयस्य विभागस्ततः परमाणुद्वयसंयो-

शब्दगुणमाकाशम् ।

गनाशस्ततो द्व्यणुकनाशस्ततख्यणुकनाशः । एवं चतुरणुका- दिनाशक्रमेण महापृथिव्यादीनां नाशः । अयमेवावान्तरप्रलय इत्युच्यते । सर्व कार्य्यद्रव्यध्वंसस्यैवावान्तरप्रलयखात्। महामलय- श्च सर्वभावकार्य्यध्वंसः । भावका चानित्यद्रव्यमनित्यगुणः कर्म च । किं पुनः सृष्टिमलय सद्भावे प्रमाणमिति चेत् " धाता यथा पूर्वमकल्ययत्" इत्यादिश्रुतिः । मीमांसकास्तु । संसारमवाहस्य बीजाङ्कुरन्यायेनानादित्वादनन्तत्वाच्च प्रलयसद्भावे च मा- नाभाव इत्यूचुः । अत्र प्राञ्चः । कचित्समवायिकारणनाशाद्द्रव्य- नाशः कचिदसमवायिकारणनाशाद्द्रव्यनाशमङ्गीचक्रुः । नव्या- स्तु । लाघवात्सर्वत्रासमवायिकारणनाशाद्रव्यनाशमङ्गीचकुरि- त्यलं पल्लवितेन । इतिकार्य्यद्रव्योत्पत्तिविनाशक्रमनि- रूपणम् । आकाशं लक्षयति शब्दगुणमिति । शब्दः गुणो यस्य तत्तथा । यद्यपि शब्दवत्त्वमेव लक्षणमुचितं तथापि भट्टानां मते शब्दस्य द्रव्यत्वेन तन्निरासार्थ गुणपदमुपात्तम् । कचिच्छ- ब्दगुणकमाकाशमित्यपि पाठः । शब्दगुणमेव शब्दगुणकमिति स्वार्थे कः प्रत्ययः । यद्वा शब्दगुणं करोति जनयतीति शब्द गुणयतीति वा शब्दगुणकं समवायिकारणमिति यावत् एते-

[[२५]]

नाकाशे प्रमाणमपि दर्शितम् । तथाहि शब्दश्च अष्टद्रव्यातिरि- क्तद्रव्याश्रितः अष्टद्रव्यानाश्रितत्वे सति समवायिकारणकलाद् यन्नैवं तन्नैवं यथारूपमिति परिशेषानुमानेन तादृशद्रव्यविध- याकाशः सिद्ध्यति । रूपादिवारणाय सत्यन्तम् । रूपत्वादिवार- णाय- विशेष्यम् । परिशेषश्च प्रसक्तस्य प्रतिषेधेऽन्यत्राप्रसङ्गा- त्परिशिष्यमाणे सम्प्रत्ययः । नच विशेष्यासिद्धिः, शब्दः सम- वायिकारणकः जन्यगुणत्वात् पृथिवीरूपवदित्यनुमानेन त- त्सिद्धेः । नच विशेषणासिद्धिरपि, शब्दोऽष्टद्रव्यानाश्रितः श्रो- त्रग्राह्यत्वात् शब्दत्ववदित्यनुमानेन तस्यापि सिद्धेः । ननु तस्य गुणत्वे एव किं मानमिति चेत्, शब्दो गुणः अनित्यत्वे सत्येके- न्द्रियग्राह्यजातीयत्वाद् रूपवदित्यनुमानं मानम् । त्र्यणुका- दावनैकान्तिकत्ववारणाय जातीयेति । अन्यत्कृत्यं स्पष्टम् । आकाशस्य पृथिव्यादिवदनेकत्वे मानाभावादाह तचैक- मिति । चस्त्वर्थे । नचाकाशस्यैकत्वे घटाकाशो मठाकाश इति

तच्चैकं विभु नित्यं च ॥

व्यपदेशः कथमिति वाच्यम्, घटादिरूपोपाधिभेदेन ताह- शव्यपदेशात् सर्वत्र शब्दोपलम्भादाकाशस्य विभुत्वमा- वश्यकमिति ब्रूते विभ्विति । आकाशस्य विभुत्वादेव नित्यत्वं सेत्स्यतीत्याह नित्यं चेति । ननु “आत्मन आकाशः सम्भूतः" इति वेदेनाकाशस्य जन्यत्वप्रतिपादनात् कथं तन्नित्यं यज्जन्यं तदनित्यमिति व्याप्तेरिति चेन्न, सम्भूत इत्यस्य ब्रह्मा- ण्डरूपोपाधिवशादभिव्यक्त इत्यर्थकत्वात् । इतरथा परमाणूना- मप्यनित्यत्वापत्तेः । वस्तुतस्तु आत्माकाशयोर्जन्यजनकभाव- स्यानुमानविरुद्धत्वेन वेदस्यार्थवादत्वकल्पनम् । इदमत्र चिन्त्यम् । आकाशस्य शरीरं नो वर्त्तते परन्त्विन्द्रियमस्ति तच्च

[[३]]

[[२६]]

श्रोत्रं शब्दधीजनकमिन्द्रियं श्रोत्रम् । ननु श्रोत्रेन्द्रियस्याकाशत्वे किं मानमिति चेन्न, यदिन्द्रियं रूपादिषु पञ्चसु मध्ये यं गुणं गृह्णाति तदिन्द्रियं तद्गुणयुक्तमिति नियमाच्छ्रोत्रस्य शब्दग्राह- कत्वेन शब्दसमवायिकारणत्वरूपाकाशस्या बाधितत्वात् । अथ सति कुड्ये सर्व चित्रमिति न्यायेन सर्वमिदं तदैव सम्भवति यदेन्द्रियं स्यात्तत्रैव मानं न लभामह इति चेन्न, या या क्रिया सा सा करणसाध्या इति व्याप्तेर्वास्या- दिरूपकरणसाध्यच्छिदिक्रियादौ दृष्टत्वेन गन्धाद्युपलम्भः करणसाध्यः क्रियावाच्छिदिक्रियावदित्यनुमानात्तादृशकर- णत्वेनेन्द्रियस्य सिद्धिः । इति आकाशग्रन्थः । काळं लक्ष- अतीतादिव्यवहारहेतुः कालः । स चैको वि- भुर्नित्यश्च । प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका नित्या विभ्वी च ॥

यति अतीतेति । अतीत इत्यादिर्यो व्यवहारोऽतीतो भविष्य- न्वर्त्तमान इत्यात्मकस्तस्यासाधारणहेतुः काल इत्यर्थः । नन्विदं लक्षणमाकाशेऽतिव्याप्तं व्यवहारस्य शब्दात्मकत्वादिति चेन्न, अत्र हेतुपदेन निमित्तहेतोर्विवक्षितत्वात् । अथेदं लक्षणं कथं महाकालेऽतीत इत्यादिव्यवहारस्य रविक्रियादिरूपखण्डका- लनियम्यत्वादिति मैवं मंस्थाः, महाकालेऽप्युपाधिभेदेन तादृ- शव्यवहारभेदसम्भवात् । उपाधिश्च स्वजन्यविभागप्रागभावाव- च्छिन्ना क्रिया खपदेन रविक्रिया तज्जन्यो यो विभागो रविपू- र्वदेशयोस्तस्य प्रागभावस्तादृशक्रियोत्पत्तिकाले तिष्ठति तद- वच्छिन्ना सैव क्रिया इयमेवोपाधिरित्युच्यते ॥ अतीतत्वं च वर्त्तमानध्वंसप्रतियोगित्वम् । भविष्यत्त्वं च वर्त्तमानप्रागभावप्र-

[[२७]]

तियोगित्वम् । वर्त्तमानत्वं च वर्त्तमानोपाधिसम्बन्धित्वम् । महाका- लेऽतीतत्वादिकं दर्शितप्रायमित्यलमतिकठिन विषयककान्ता- रप्रदर्शनेन शिशूनाम् । अथ काले किं प्रमाणमिति चेच्छृणु, बहु- तरदिवाकर क्रियाविशिष्टशरीरज्ञानात्कालिक परत्वोत्पत्तिरिति राद्धान्तः तज्ज्ञानं विशेषणविशेष्योभयसम्बन्धघटकसापेक्षं सा- क्षात्सम्बन्धाभावे सति विशिष्टज्ञानत्वाद् लोहितस्फटिक इति ज्ञानवदित्यनुमानेन तादृशसम्बन्धघटकविधया कालः सिद्ध्यति तादृशसम्बन्धश्च स्वसमवायिसंयुक्तसंयोगः सच जगदाधारः कार्य्यमात्रेनिमित्तकारणं चेति भणितमेव प्राक् तस्य जगदाधा- रत्वे कार्यमात्रं प्रति निमित्तकारणत्वे च कालः सर्ववानि- दानीं घटो भवतीति प्रतीतिरेव मानम् । क्षणदिनमासादिव्यव- हारस्योपाधिभेदानुविधायित्वात् कालस्यैकत्वं निराबाधमिति सन्धत्ते स चेति । सर्वत्रकाय्र्योत्पत्तेर्विभुत्वमप्येष्टव्यमित्यभिसन्धत्ते विभुरिति। विभुत्वादेव नित्यत्वं सम्पद्यत इत्याचष्टे नित्यश्चेति इति कालग्रन्थः। दिशं लक्षयति प्राच्यादीति । इयं प्राची- यमवाचीयं प्रतीचीयमुदीचीत्यादिव्यवहारासाधारणं कारणं दिगित्यर्थः । ननु दिशि किं मानमिति चेदनुमानं तद्, अथ प्र- तिज्ञामात्रेण नार्थसिद्धिरिति चेन्मैवम्, बहुतरमृर्तसंयोगविशि- ष्टपिण्डज्ञानादैशिकपरत्वोत्पत्तिरिति निर्विवादम् । एवं च त- ज्ज्ञानं विशेषणविशेष्योभयसम्बन्धघटकसापेक्षं साक्षात्सम्बन्धा- भावे सति विशिष्टज्ञानत्वादित्यनुमानस्य जागरूकत्वात् । स सम्बन्धश्च बहुतरमूर्त्तसंयोगस्य स्वसमवायिसंयुक्तसंयोगः । तेन सम्बन्धघटका दिक् सिद्ध्यति । सा च जगदाधारा निखिलका- निमित्तकारणं चेत्यभिहितमेव प्राक् । दिक् निखिलपदार्थ- वती इह घटो भवतीत्यादि निरङ्कुशधीस्तत्र मानमिति मन्तव्यं

[[२८]]

प्राचीत्यादिव्यवहारस्योपाधिभेदप्रयोज्यत्वाद्दिगे कैवेति ब्रूते सा चेति । तथाहि यस्मादुदयाचलसन्निकृष्टं यन्मूर्त्त तत्तस्य प्राची यथा प्रयागस्य काशी । यस्मादुदयाचलविप्रकृष्टं यन्मूर्त्त तत्तस्य प्रतीची यथा गयायाः पाटलीपुरस्य वा काशी । यस्मात्कन- काचलसन्निकृष्टं यन्मूर्त्त तत्तस्योदीची यथा रामेश्वरक्षेत्रस्य काशी । यस्मात्कनकाचलविप्रकृष्टं यन्मूर्त्त तत्तस्यावाची यथा काश्याः रामेश्वरक्षेत्रम् । एवं खण्डान्तरमपि । तदुक्तम् “सर्वेषामेव वर्षाणां मेरुरुत्तरतः स्थितः " एवं महादिशि इममेवोपाधिमादाय तादृशव्यवहारो बोध्यः । इदं तु बोध्यं जन्यमात्रं क्रियामात्रं वा कालोपाधिः मूर्त्तमात्रं दिगुपाधिरिति । इति दिग्ग्रन्थः ।

आत्मा

ज्ञानाधिकरणमात्मा स द्विविधः परमात्मा जीवात्मा च । तत्रेश्वरः सर्वज्ञः परमात्मैक एव । जीवः प्रतिशरीरं भिन्नो विभुर्नित्यश्च

आत्मानं निरूपयति ज्ञानाधिकरणम् इति ।
समवायेन ज्ञानाधिकरणम् इत्यर्थः ।
तेन काले नातिव्याप्तिः ।

परमात्मा

आत्मानं विभजते परमात्मेति

१ जीवपदेनात्मा गृह्यते ।

तल्लक्षणं तु “इच्छा-द्वेष-प्रयत्न-सुख-दुःख-ज्ञानान्य् आत्मनो लिङ्गम्” ( गौ० १ । १ । १० । )
इति।
जीव-सद्-भावे प्रमाणं प्रत्यक्षम् एव -
जीवस्य अहं सुखी, दुःखी, तत्राहम् इति मानस-प्रत्यक्ष-विषयत्वाद्
इति नैयायिकाः ।
जीवो न मानस-प्रत्यक्ष-विषय इति वैशेषिकाः ।
वैशेषिकाणाम् अयम् अभिप्रायः -
“अहं सुखी” इत्याकारकं योग्य-विशेष-गुण-योगेनैवात्मनः प्रत्यक्षं
न तु केवलम् “अहम्” इत्याकारकम् ।

परमत्वं चोत्कृष्टत्वं तच् च प्रकृते सृष्टि-स्थिति-प्रलय-कर्तृत्वम् ।
परमात्म-जीवयोर् वैलक्षण्यम् अभिधत्ते तत्रेति
परमात्म-जीवयोर् मध्ये परमात्मा ईश्वरः सर्वज्ञश् च भवति।

[[२९]]

स त्व् एक एवेत्यर्थः ।
नित्य-ज्ञानाधिकरणत्वं तल्-लक्षणम् अवगन्तव्यम् ।
अथेश्वरे कथं नित्य-ज्ञानम् इति चेत् -
सर्गाद्य्-अवसरे “परमाणुना द्व्य्-अणुकं करिष्यामी"ति ज्ञानस्यावश्यकत्वेन
तद्-उत्पादक-शरीरादि-कारण-कलापस्य,
तदानीं व्यतिरेकेण तस्य,
नित्यत्वम् उररी कुर्म्मः ।
इत्थम् ईश्वरेच्छाकृत्योर् अपि ।

ईश्वरवादः

अत्र चार्वाकाः ।

ईश्वर-सद्-भावे मानाभावः ।
न च वक्तव्यं प्रत्यक्ष-प्रमाणम् इति,
तार्किकाणां मते तस्य नी-रूप-स्पर्श-द्रव्यत्वेन बाह्य-प्रत्यक्षासम्भवात् ।
नाभ्यन्तरम् अपि मनसा परमात्म-प्रत्यक्षासम्भवात्।
नाप्य् अनुमानम् - ईश्वर-निरूपित-व्याप्तेर् अप्रसिद्धेः ।
न च “द्यावा-भूमी जनयन् देव एकः
विश्वस्य कर्त्ता भुवनस्य गोप्ता”
इत्यादि वेदः प्रमाणम् इति,
ईश्वरोक्तत्वाद् एव तस्य प्रामाण्य-सम्भवेनेश्वराभावे तस्याप्यप्रमाणत्वाद्

इत्याहुः ॥

तद् असत् -
“यत्र कार्य्यवं तत्र कर्त्तृ-जन्यत्वम्” इति व्याप्तेः प्रसिद्धत्वेन,
अङ्कुरादिरूपं कार्य्यं कर्तृ-जन्यं कार्य्यत्वाद् घटवद्
इत्य् अनुमानेन कर्तृ-जन्यत्वे साधनीये,
तत्-कर्त्तृत्वेनेश्वर-सिद्धेः ।

न च “विना कर्त्तारं धरणी-सलिल-संयोगादिभिर् एवाङ्कुरादीनाम् उत्पत्तिर्” इति शङ्क्यं -
घटादीनामपि तथात्वापत्तेः ।
+++(abiogenesis इति न विदुः!)+++

तद् उक्तम्-

“जगतां यदि नो कर्त्ता
कुलालेन विना घटः ।
चित्रकारं विना चित्रं
स्वत एव भवेत् तदा ॥

इति।

न च “स्वेदजादीनाम् +++(कृमीनाम्)+++ इव +अङ्कुरादीनाम् अपि तथात्वे का क्षतिर्” इति वाच्यं,
स्वेदजादीनां कर्त्तृ-जन्यत्व-स्वीकारेण दृष्टान्त-विरोधात्,
तेषाम् अपि पक्षतावच्छेदकाक्रान्तत्वात् ।

अन्यथा संसारे नियन्तुर् अभावेन
ग्रहाणां विपरीतोदयापत्तिः,
एवं जल-धर+++(=मेघ)+++-पटलेन काले दृष्ट्य्-अनुत्पादापत्तिः -
सचेतनम् अन्तरेणाचेतनस्य विनियत-काले गमनागमनासम्भवात् ।
+++(न युक्तम् एतद् उक्तम्।)+++

तस्माज् जगत्-कर्त्ता कश्चनावश्यकः,
स एवास्माकम् ईश्वरः ।

[[३०]]

एवं पतनाभाववद्-गुरुत्वाश्रयः
पतन-प्रतिबन्धक-प्रयत्न-प्रयुक्तः
धृतिमत्त्वान् नौका-धृति+++(-क्रिया)+++-वद्
इत्याद्य् अनुमानम् अपि मानम् इत्य् उद्यम्।

“एवमीश्वरम् उपासीत” “यस्य ज्ञानमयं तपः”
इत्यादि-श्रुतयो ऽप्य् अनुसन्धेयाः ।
कर्तृत्वं च कृतिमत्वम् ।

यत् तूपादान-गोचरापरोक्ष-ज्ञान-चिकीर्षा-कृतिमत्त्वं कर्तृत्वम् इति,
तन् न, गौरवात् ।

केचित् तु - कार्य्यमात्रं प्रति जीवेश्वरयोर् - न कर्तृत्वेन - कारणत्वम्,
अनेक-कृतिषु कारणतावच्छेदकत्वे गौरवात् -
किन्त्व् आत्मत्वेनैव +++(कार्य्यमात्रं प्रति कारणत्वम्)+++ ।

एवं सतीश्वर-साधारणात्मत्व-जातिर् अपि सिद्ध्यति ।
एतेन “सुखादि-समवायि-कारणतावच्छेदकतया
नेश्वर-साधारणता सिद्ध्यती"ति पक्षानादरणेऽपि न क्षतिः ।

अथ “कथम् ईश्वर-साधकानुमानम्” इति चेत्,
“अङ्कुरादिकम् आत्मजन्यं कार्य्यत्वाद् घटवद्” इति विभावयाम् आसुः।

मीमांसकास् तु

कर्मैवेश्वरः,
स्वर्गादिकम् एव पुरुषार्थः
मन्त्रमयी देवता,
अर्थवाद-वेदो न प्रमाणम्

इति गदन्ति ।
मीमांसकैक-देशिनस् तु
“परिचारक-कृत-कर्म्मणः फलदाता यथा भूपालस्
तथा वेदोक्त-कर्म्मणः फलदातेश्वर एवे"ति समूचिरे ।

इति ईश्वरवादः ॥

ननु ईश्वरः किं शरीरी उत तद्-रहितः?

नाद्यः।
तच्-छरीरस्य महत्त्वे
औदुम्बर-फलादौ मशक-विशेषोत्पत्तिर् न स्यात्
तत्र तस्य प्रवेशासम्भवात्;
मध्यम-परिमाणत्वे ऽनित्यत्व-प्रसङ्गाद्
देशान्तरे कार्यानुत्पत्ति-प्रसङ्गाच् च,
अणुत्वे दूषणं दरीदृश्यत एव।

“नान्त्यः - शरीराभावे कर्तृत्वस्यैवासम्भवाद्” इति चेन् न,
शरीरवत एव कर्त्तृत्वे मानाभावात्।
शरीरम् अन्तरेणैवेश्वरेण मन्त्रादिवत् कार्योत्पादनात् ।

“ईश्वरस्य परमाणव एव शरीरम्” इति केचित् ।
“आकाश-शरीरं ब्रह्मे"ति श्रुतेर् “आकाशम् एव तद्” इत्य् अपरे ।
अन्ये तु

संसारिणाम् अदृष्टवशाद् ईश्वरस्य शरीरं,
तच् च ब्रह्म-विष्णु-शिवानाम्

इति ब्रुवन्ति ।

[[३१]]

अपरे तु भूतावेश-न्यायेनेश्वरस्य शरीरम् इति मेनिरे ।

अत्राहुः - ईश्वरः शरीर-रहित एव,
परन्तु तत्त्व-ज्ञान-साध्य–परम-पुरुषार्थ-पद-प्रणालिका-मूली- भूतोपासनादिभिः
संसार-पङ्क-निमग्नाज्ञानिन उद्दिधीर्षुर् लीलाविग्रहं दधाति ।
स +++(विग्रहः)+++ च शिव-शक्ति-गणेशार्क-विष्णूनां ब्रह्मणश् च ।

तदुक्तम् ।

शिव-शक्ति-गणेशार्क-
विष्णु-रूपात् स ईश्वरः ।
उपासनानुसारेण
भक्तेभ्यो भुक्ति-मुक्तिदः ॥

इति ।
अत्र वैष्णवाः -

शिवादीनां नेश्वरत्वं,
शिवस्तु विष्णोर् उपासकः,
तामसत्वान् नोपास्यश् च।
शक्तिस् तु तदीया माया।
ब्रह्मादयस् तु तद्-आज्ञावर्तिनः‌।
यो लक्ष्मी-निवासः तत्-साम्यं कुतः शिवस्य श्मशानवासिनः,
सुतरां शक्त्यादीनां किञ्च विष्णुव्यतिरिक्तानाम् उपासनैव निषिद्धा ।
तदुक्तम् -

वासुदेवं परित्यज्य
य उपास्तेऽन्यदैवतम् ।
तृषितो जाह्नवीतीरे
कूपं खनति दुर्मतिः ॥

इत्याहुः ।

अत्र शैवाः -

श्रीमच्-छिवस्य कटाक्ष-लेश-मात्रम् आश्रित्य
महा-पदवीं प्राप्तवतां विष्ण्व्-आदीनां
कुत ईश्वरत्वं,
विष्णुस्तु शिवस्योपासकः,
अत एव स्वनेत्रं समर्प्य,
चक्री-पुण्डरीकाक्ष इति नाम लब्धवान्,
आराधनान्तरेण लक्ष्मीं वैकुण्ठं च।
स्वत एवाद्यापि रामेणापि पूजितो रामनाथः सेतौ प्रत्यक्ष-सिद्धः ।
न च तर्हि “कथं विष्णु-चरणोदकं बिभर्ति हर” इति,
तच् च भक्त-पराधीनत्वाद्,
अत एवेश्वरः परमेश्वर इत्य् अयम् एव व्यवह्रियते।
शक्तिरस्यैव माया।
यः शुद्ध-स्फटिक-सङ्काशः, सूर्य्य-चन्द्राग्नि-लोचनः लीला-नाटक-सूत्र-धारः
क्वचिद् घोर-रूपः, क्वचित् सौम्य-रूपः,
क्वचिच् छ्मशान-वासी
क्वचिद् अनेक-देव-गण-समाश्रितानुपम-कैलास–शिव-लोकादि-वासी।
तस्य शिवस्य साम्यं कुतो विष्ण्व्-आदीनां, कुतो वा उपास्यत्वम् ?
तदुक्तम् -

शुद्धस्फटिक-सङ्काशं
सर्वव्यापिनम् ईश्वरम् ।
कलये जगद्-आधारं
विष्णु-ब्रह्मादि-सेवितम् ॥

इति। [[३२]]
शिवस्तामस इति यद् उक्तं तत् तुच्छं,
रुद्रावतारस्य भिन्नत्वात् ।
तत् तु श्याम-वर्णादि-दर्शनेन विष्णोर् एव - तामसत्वात् ।
श्मशान-वासित्वेन नैकृश्यं यद् दर्शितं,
तद् अपि न तस्य - स्वातन्त्रत्वात् ।
तदुक्तम् -

अनन्तरूपस्य शिवस्य लीलया
विहारशीलस्य विचित्रकर्मणः ।
अनेकरूपेण च भीषणेन
स्वरूप-हानिर् न भवेत् कदाचन ॥

सुखं वा कुतस् तस्य? दुःखं कुतो वा?
कुतः सुन्दरत्वं, कुतोऽसुन्दरत्वम्?
अनेकैः स्वरूपैर्, अनेकैः प्रकारैः
सदा लीलया खेलतश् चिन्मयस्य ॥

इति ।
किञ्च शिवातिरिक्त-देवतानाम् उपासनैव निषिद्धा !
तद् उक्तम् -

महादेवं परित्यज्य
य उपास्ते ऽन्यदैवतम् ।
स मूढो विषम् अश्नाति
सुधां त्यक्त्वा क्षुधातुरः ॥

इति गायन्ति ।

अत्र शाक्तिकाः -

किं शम्भोर् उपासनया,
यया शक्त्या ब्रह्म-विष्णु-महेशा निर्मिताः
यत्-कृपाम् अवलम्ब्य ब्रह्मादयः सृष्ट्य्-आदिकं रचयन्ति
तत्-साम्यम् अपि प्राप्तुं नार्हन्ति ते त्रयो देवाः।
कुतो वा तद्-अधीनत्वं,
तस्याः परदेवताया?
निगदितम् अज्ञानत

इति समूचिरे ।
एवं गाणपत्यादयस् तत्-तद्-औत्कृष्ट्यं वर्णयाम् आसुः ।
अत्र स्मार्त्त-पौराणिकादयः -

एतेषां मोक्षः कथं भवेत्?
तदुक्तम् -

माधवोमा-धवाव् ईशौ
सर्वसिद्धि-विधायिनौ ।
वन्दे परस्परात्मानौ
परस्पर-नति-प्रियौ ॥

इति ।

मया पुराणोपपुराणयुक्ताः
साङ्गाश्च वेदाः स्मृतयः समस्ताः ।
शास्त्राणि सर्वाणि विलोकितानि
न कापि दृष्टः शिवविष्णुभेदः ॥

इति । तद् उक्तं -

शिवस्य हृदयं विष्णुर्
विष्णोश्च हृदयं शिवः ।
ईषदप्य् अन्तरं कृत्वा
रौरवं नरकं व्रजेत् ॥

इत्य् एवम्।

अत्र वेदोऽप्याह [[३३]] -

स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराड्

इति।
तत्-तद्-देवता-प्रस्तावे
तत्-तद्-देवता-मुख्य-कर्तृक-सृष्ट्य्-आदि-प्रदर्शनं तु
कल्प-भेदाभिप्रायकम् ।
अत एव शक्त्य्-आदीनाम् अपि ताभ्याम् अ-भेदः ।
तद् उक्तम् -

शैवाः शाक्ताश् च गाणेशाः
सौरा विष्णुप्रपूजकाः ।
विद्विषन्ति मिथो भ्रान्त्या
तेषां भक्तिश्च निष्फला ॥
सिद्धान्ता बहवः प्रोक्ताः
श्रुत्या नानाप्रयोजनैः ।
परं त्वस्या अभिप्रायं
जानाति विरलः कृती ॥
अनेककार्य्य-सिद्ध्यर्थं
रूपं बहुविधं विभोः ।
तत्कार्य्याज्ञानतो मूढैस्
तत्पाषण्डं प्रतिष्ठितम् ।

इति +इयान् विशेषः ।
यदि शिवे भक्तिर् महती स्यात्,
तदा विष्णुरपि शिवत्वेनैव ज्ञेयः । तद् उक्तम् -

शिवे च भक्तिर्बहुला यदि स्यात्
तथा शिवत्वेन भजेद्+धरिं च ।
हरौ च भक्तिर् बहुला यदि स्यात्
तथा हरित्वेन भजेच् छिवं हि ॥

इति।

अतः कूपमण्डूकन्यायेन लोकाः ज्ञान-शून्या भवन्तीति जगदुर् इति शरीरेश्वर-वादः ।

जीवः

जीव इति ।
‘तत्र’ इत्य् अनुषज्यते।
बन्ध-मोक्ष-योग्यो जीवः, जन्य-ज्ञानाधिकरणं वा।
अयम् एव क्षेत्रज्ञ इत्य् उच्यते ।
प्रतिशरीरं भिन्न इति -
सुख-दुःखादि-वैचित्र्याद् इति हेतुः पूरणीयः ।
जीवस्याणुत्वे सर्वशरीर-व्यापि सुखाद्य्-अनुपलब्धि-प्रसङ्गः ।
मध्यम-परिमाणत्वे ऽनित्यत्वापत्त्या कृतहानाकृताभ्यागमप्रसङ्ग
इत्य् अभिप्रायवान् आह विभुर् इति ।

[[३४]]

विभुत्वान् नित्यत्वम् अर्थाद् आयातम्
इत्य् आह नित्यश् चेति ।

ननु “जीव-सद्भावे किं मानम्” इति चेन् -
न, अहं सुख्य्, अहं दुःखीति मानस-प्रत्यक्षस्य मानत्वात् ।

न “चात्मा तावन्न् अप्रत्यक्ष” इति भाष्य-विरोध इति वाच्यम्,
तस्य परमात्म-परत्वात् प्रति-पादितं चैवात्मतत्व-विवेके ।

ननु “विप्रतिपन्नं प्रति कथं प्रत्यक्षम् उपन्यस्तुं शक्यम्” इति
तत्रानुमानम् एव मानं,
बुद्ध्यादयः पृथिव्याद्य्-अष्ट-द्रव्यातिरिक्त-द्रव्याश्रिताः
पृथिव्याद्य्-अष्ट-द्रव्यानाश्रितत्वे सति
गुणत्वाद् यो यद्-अनाश्रितो गुणः
स तद्-अतिरिक्त-द्रव्याश्रितः,
यथा “पृथिव्याद्य्-अनाश्रितः शब्द”,
इत्य् अनुमानेन नवमं द्रव्यम् आत्मा सिद्ध्यति ।

न च वक्तव्यं “ते भूतानां गुणा भवन्व्” इति,
तथा सति तेषाम् आभ्यन्तर-प्रत्यक्षानुपपत्तेः,
भूत-गुणानां रूपादीनां बाह्य-प्रत्यक्षस्यैवानुभव-सिद्धत्वात् ।
+++(नैतद् एवम् इत्य् आधुनिकविज्ञानसिद्धम्।)+++

अत एव भूतत्वं बहिर्-इन्द्रिय-ग्राह्य-विशेष-सगुणवत्त्वम् इति सङ्गच्छते ।

विशेष-गुणत्वाद् एव न दिक्-काल-मनसां गुणाः ।

ननु “+++(बुद्ध्यादेर्)+++ विशेष-गुणत्व एव मानं न लभामहे” इति चेन् न,
“बुद्ध्य्-आदयो विशेष-गुणाः -
+++(मनसेति)+++ एकेन्द्रिय-ग्राह्यत्वे सति
गुणत्वाद् रूपवद्” इत्य् अनुमानं मानम्।

एवम् इन्द्रियं सकर्त्तृकं,
+++(इन्द्रियस्य)+++ करणत्वात् कुठारादिवद्
इत्य् अनुमानेनाप्य् आत्मा सिद्ध्यति ।

अत्र षड् अपि नास्तिकाः क्रमशः शङ्कन्ते स्म ।

तत्रादौ शून्य-वादिनो माध्यमिकाः।

१ प्रदेश-विशेषावस्थित-मनः-संयोगः सुषुप्तिः ।
स च प्रदेशः पुरी-तद्+++(=अन्न-नाल)+++-आत्मकः ।
पुरीतत् अन्ताख्यो नाडी-विशेषः ।
तथा च श्रुतिः ।

अथ यदा सुप्तो भवति
तदा न कस्यचन वेद।
हिता नाम नाड्यो द्वासप्तति-सहस्राणि
हृदयात् पुरीततम् अभिप्रतिष्ठन्ते,
ताभिः प्रत्य्-अवसृप्य पुरीतति शेते (शतपथ ) ।

सुषुप्तेर् उत्पत्तिस् तु नवीनैर् इत्थं प्रतिपादिता ।
प्रथमं सुषुत्य्-अनुकूल-मनः-क्रियया
मनसा आत्मनो विभागः,
तद् आत्म-मनः संयोग-नाशः,
ततः पुरीतद्-आत्मकोत्तर-देशेन मनसः संयोग उत्पद्यते,
सैव सुषुप्तिः ॥ ( दि० )

[[३५]]

सुषुप्त्य्-अव्यवहितोत्तरक्षणे
उत्थितस्य सुषुप्ताव् अहं नासम्
इत्य् अनुभवात् शून्यम् एवात्मा,
अत एव सर्वम् इदं मिथ्यैव

तत्र श्रुतिर् अप्याह

असद् एवेदम् अग्र आसीद् इत्य् आहुः ।

तद् असत् -
सुषुप्ताव् अहं नासम् इत्य् अनुभवस्याप्रामाणिकत्वात्
प्रामाणिकत्वे त्व् आत्मनि तस्य ज्ञानाभावोपरक्तत्वात्।
यन् मिथ्येदम् उक्तं, तदपि न सत्
प्रत्यक्षतो ऽनुभूयमान-पदार्थस्याशक्यापलापत्वात्।

उपदर्शित-वेदस्य गतिर् वक्ष्यते ।

क्षणिकविज्ञानवादिनो योगाचार्यास् तु क्षणिकविज्ञानमेवात्मा, तद् द्विविधं - प्रवृत्तिविज्ञानम् आलयविज्ञानं च।
“तत्रायं घट” इत्यादि प्रवृत्तिविज्ञानं “सुषुप्ताव् अहम्” इत्यालयविज्ञानम् ।
सुखादिकमस्यैव विकारः तद्-अतिरिक्तवस्तु नास्त्येवाप्रसिद्धेः ।
अत्र च श्रुतिरप्याह “अन्योऽन्तरात्मा विज्ञानमय इत्याहुः” ।

तद् असत् पूर्वानुभूतपदार्थ-स्मरणानुपपत्तेः,
अनुभवितुर् इदानीम् अभावाद् अन्यानुभूते ऽर्थे ऽन्यस्यानुसन्धानायोगात् ।

ननु “कस्तूरी-सुरभि-पटवत्
पूर्व-पूर्व-विज्ञानोत्पादित-तत्-तत्-संस्काराणाम्
उत्तरोत्तरविज्ञाने सङ्क्रान्तत्वम् इच्छाम” इति माभाषिष्ठाः,
तथा सति जनन्य्-अनुभूतपदार्थस्य
गर्भस्थात्मजेन स्मरणापत्तेर्
इत्याद्य् अन्यत्र विस्तरः ।

सौत्रान्तिकास् तु ज्ञानाकारानुमेय-क्षणिकबाह्यार्थ एवात्मेतीच्छन्ति ।
वैभाषिका क्षणभङ्गुर-वादिनस्तु क्षणिक-बाह्यार्थ एवात्मेतीच्छन्ति।
तद् उभयम् अपि तुच्छं - घटादीनां तथात्वे मानाभावात् ।

एते चत्वारो नास्तिका बौद्धा इत्युच्यन्ते ।
बौद्धानाम् अष्टादश भेदाः मसिद्धाः । उपभेदास्तु बहवः, ते च विस्तरभियेह नोक्ताः ।

चार्वाकास्तु -
“ब्राह्मणोऽहं, गौरोऽहं, स्थूलोऽहं, जानामी"त्य्-आदि सामानाधिकरण्य-प्रतीतेः
ब्राह्मणत्वादिधर्मवति शरीर एव ज्ञान-सुखाद्य्-आश्रयत्वं सिद्ध्यतीति
शरीरम् एवात्मा।
अत्र श्रुतिरप्याह स वा एष पुरुषोऽन्नरसमय इति ।

[[३६]]

ननु “शरीरस्य पार्थिवत्वे घटादिवन् न चेतनं तद्” इति चेन्
मैवं मंस्थाः,
केवल-नागवल्ली-दलस्य रागानुत्पादकत्वेऽपि
नागवल्ली-दल–खदिर-चूर्ण-क्रमुक+++(=पूग)+++-समुदायात्मक-ताम्बूलस्य रागोत्पादकत्ववत्
केवल-पार्थिवस्य चैतन्यानुत्पादकत्वेऽपि
भूत-चतुष्टय-समुदायात्मक-शरीरस्य तद्-उत्पादकत्वे किं बाधकम्
इत्य् आहुः ।
तन् न मृतक-शरीरेऽपि ज्ञानापत्तेः ।
ननु

ज्ञानं प्रति शरीर-प्राण-संयोगस्यापि कारणत्वेन,
तदानीं तद्-अभावान् न तद्-उत्पत्तिः,
इतरथा नैयायिकानां नये आत्मना विभुत्वेन मृत-शरीर-ज्ञानापत्ति-वारणं तु गीर्वाण-गुरूणाम् अप्य् अशक्यम्

इति चेन् न,
अवयवोपचयापचयैः शरीरस्योत्पाद-विनाश-शालित्वेन बाल्यानुभूत-पदार्थस्य
वार्धके स्मरणानुपपत्तेः ।

वीचि-तरङ्ग-न्यायेन संस्कार-परम्पराङ्गीकारस् तु न युज्यते बाढं गौरवात्।
“फलमुखं गौरवं न दोषाये"ति चेत्
तर्हि विद्वत्त्व-नृपत्व-मूर्खत्व-दरिद्रत्वादि-नियामकं भवन्तः किं ब्रुवन्ति ?
“संसारस्य स्वभाव एवेदं सर्वम्” इति चेद् वैपरीत्ये किं नियामकम् ?
“अस्तु जन्म-समय एवे"ति चेत्
तर्हि तत् तस्मिन्न् एव समये जन्म, न तु समयान्तर इत्य् अत्रैव किं नियामकम् ?
“अस्तु ईश्वर एव भवन्-मते नियामक” इति वक्तुम् अशक्यं - तस्य सम-दर्शित्वात् ।
तस्माद् “अदृष्टम् एव नियामकम्” इति वाच्यम् ।
तच् चात्मानम् अन्तरेणानुपपन्नम् इति शरीरातिरिक्त एवात्मा ऽभ्युपेयः ।

चार्वाकैकदेशिनस्तु “काणोऽहमहं जानामी"तीन्द्रिय-धर्म-सामानाधिकरण्य-दर्शनात्
सुषुप्ति-दशायां सत्यपि शरीरे चक्षुर्-आद्य्-उपरमे घटाद्य्-अनुपलब्धेश्
चेन्द्रियम् एवात्मेत्याहुः ।
तच्च बालप्रलपितं -
“चक्षुर्-आदि-नाशे
योऽहं घटम् अद्राक्षं
सोऽहमिदानीं स्पृशामी"त्य्
अभेद-प्रत्ययानुपपत्तेः।
न चेन्द्रियान्तरेणानुसन्धीयत इति वाच्यम्,
अन्यानुभूते ऽर्थे ऽन्यानुसन्धानायोगाच्च ।

[[३७]]

अपरे चार्वाकास् तु -

सुषुप्ति-दशायां
चक्षुर्-आदीनाम् उपरमेऽपि
मनसा सर्व-व्यवहार-दर्शनात्
तस्य नित्यत्वाच् च मन एवात्मा।

अत्र श्रुतिर् अप्याह “अन्योऽन्तरात्मा मनोमय इति मन्यन्ते” ।
तद् असत् - मनसो ऽणुत्वेन सुखाद्य्-अनुपलम्भ-प्रसङ्गात्।

इतरे चार्वाकास् तु

प्राणेन विना व्यवहारादर्शनात्
पिपासावान् अहम् इत्याद्युपलब्धेश् च
प्राण एवात्मा।

अत्र श्रुतिर् अप्य् आह - “अन्योऽन्तरात्मा प्राणमय इति कलयन्ति” ।
तदपि न युक्तम् ।
तस्यानित्यत्वेन तद्-उरस्य् उपदर्शित-दूषण-गण-बाण-प्रहार-पातात् ।

पुत्रे पुष्टे ऽहम् एव पुष्टः,
पुत्रे नष्टेऽहमेव नष्ट

इत्याद्य्-अनुभवदर्शनाद्

आत्मा वै जायते पुत्र

इति श्रुतेश्च पुत्र एवात्मेत्य् अपि कश्चित् ।
तद् अपि न - तादृशानुभवस्याभिमानत्वात्।

उपदर्शित-श्रुतीनाम् आत्मनां
ज्ञानाधिकरणत्व-प्रतिपादक-“सत्यं ज्ञानम्”-इति-दृश्यमान-श्रुति-बाध्यत्वात्
पूर्वपक्षे तात्पर्यम् ।

दिगम्बरास् तु-
“देहातिरिक्त देहपरिमाण आत्मा,
स च दीप-प्रभावत् सङ्कोच-विकास-शाली"त्य् आहुः ।
तद् अप्य् अकिञ्चित्-करं
तस्यानित्यत्वापत्त्या तच्-छिरसि पूर्वोक्त-दोष-वज्र-प्रहार-पातात् ।

इति सङ्क्षेपः ।
इति नास्तिकमतखण्डनम् ।

अथ साङ्ख्यशास्त्रज्ञाः -

आत्म-मूल-प्रकृति-महद्-अहङ्कार–पञ्च-तन्-मात्रा–षोडश-विकार-भेदात्
पञ्च-विंशतिः तत्त्वानि

तत्र शीकर-निर्लिप्त-तामरस-पलाशवत्
कर्त्तृत्व-भोकृत्वादि-निर्लिप्त आत्मा
स च न प्रकृतिर्, न विकृतिश् च, न कारणं, न कार्य्यम् इति यावत्।
परन्तु चेतनः।

मूल-प्रकृतिस् तु जगत्-कर्त्री नित्या जण्डा च।
अत एव न विकृतिः।
महत्-तत्वं च प्रकृतेः परिणामः - प्रकृति-कार्य्यम् इति यावत् ।

अहङ्कारश् “चाहं सुखी अहं दुःखी"त्याद्य्-अभिमानः।
अयं च महत्-तत्त्वस्य कार्य्यं,
तन्मात्रं च शब्द-स्पर्श-रूप-रस-गन्धाः,
एतेऽहङ्कारस्य कार्य्याणि।

महदादयश् चैते सप्त प्रकृतयो,
विकृतयश् च विकारास् तु
श्रोत्र-त्वक्-चक्षू-रसना-घ्राणानि पञ्चज्ञानेन्द्रियाणि,
वाक्पाणिपादोपस्थपायवः पञ्च-कर्मेन्द्रियाणि,
मन, आकाश-वायु-तेजो-जल-पृथिव्यः पञ्च-महा-भूतानीति षोडशसङ्ख्याकाः।

[[३८]]

तैर् महाभूतैः शरीरम् उत्पाद्यते।
तत्-सम्बन्ध-वशा प्रकृतिर् एव सर्वं करोति।
तत्-संसर्ग-वशाद् आत्मनो “ऽहङ्करोमी"त्यभिमानो जायते।
स एवात्मनो बन्ध इत्य् उच्यते।
तन्-निवर्त्तनाच् च मोक्ष

इत्याहुः ।

तद् असत् -
“अहं कर्त्ता, ऽहं भोक्ता, ऽहं जानामी"ति
कर्तृत्व-भोकृत्व-चैतन्यानां सामानाधिकरण्य-प्रतीतेश्
चेतनातिरिक्त-प्रकृति-सद्-भावे मानाभावात्,
जडायाः प्रकृतेः कर्त्तृत्वासम्भवाच् च ।

ननु

प्रकृतेः क्रियामाणानि
गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा
कर्त्ताहमिति मन्यते ॥

इति भगवद्-उक्तेः सामानाधिकरण्योपलम्भो भ्रम एवेति चैन् न -
प्रकृतेर् अ-दृष्ट-विशेषस्य गुणैस् तज्+++(→कर्म)+++-जन्म +इच्छादिभिर्,
“अहम् एव कर्ते"ति तद्-अर्थत्वात् ।
यद् वा प्रकृतेर्
ईश्वरेच्छानुसार-वशाद्
गुणैर् = जन्य-ज्ञानादिभिर् इत्य् अर्थत्वात् ।
अत एव

“तत्रैवं सति कर्त्तारम्
आत्मानं केवलं तु यः”

इत्युपरितन-भगवद्-उक्तिः सङ्गच्छते
इति कृतं पल्लवितेन ।

इति साङ्ख्यमतनिरूपणम् ।

पातञ्जलशास्त्रज्ञास्तु ।
आत्मा योग-गम्यः ।
योगश् चित्त-वृत्ति-निरोधनम् ।
तच् च चित्तस्य बाह्य-विषय-निवर्त्तनाद् अन्तरा ऽभि-निवेशः ।
यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधि-भेदाद्
अष्टौ योगाङ्गानि
तत्रास्तेय–कर्म-निवृत्ति–करुणा-ऽऽर्जव-शान्ति-शौच-धृति-मिताहार–सत्य-भाषण–जीवाहिंसन-ब्रह्मचर्य-भेदाद् दश यमाः
आस्तिकत्व-हर्ष-तपः-सुरार्चन-दान-लज्जा-सञ्ज्ञान-होम–स च्-छ्रवण–जप-भेदा दश नियमाः
पद्मासन-स्वस्तिक-भद्र-वज्र-वीरासन-भेदात् पञ्च मुख्यासनानि
अन्यान्यपि एकोनाशीतिर् आसनानि सन्ति ।
पूरक-कुम्भक-रेचक-भेदात् प्राणायामस् त्रिविधः ।
स चाल्प-प्राण-सञ्चार-नियामकः ।
इन्द्रियाणां विषय-निवर्त्तनं प्रत्याहारः
अङ्गुष्ठादि-ब्रह्म-रन्ध्रान्तं तत्-तत्-स्थानेषु प्राण-धारणं धारणा
ततो हृदयारविन्दे शिवस्य विभावनं ध्यानम्

[[३९]]

ततः प्राणान् निरुध्यात्मना सह शिवस्यैक-भावनं समाधिः
एतादृशाङ्ग-सहितेन योगेन
शिवमयं ज्योतिर् अवलोक्यते,
इदमेव समाधि-सिद्धिर् इत्युच्यते ।

तद् उक्तं

चित्तस्याधिक-साधितस्य तु बहिर्-वृत्तेर् निरोधः क्रमाद्
अन्तर्-वृत्तितया ऽन्तर् एव विगलत्-पीयूषम् आस्वादयेत् ।
स्वात्मन्य् एव सदा सदा-शिवमयं तज् ज्योतिर् आलोकयेत्
सान्द्रानन्द-परम्पराम् अनुभवेत् सिद्धिः समाधेर् इयम् ॥

इत्य् आहुः ॥
इति पातञ्जल-मत-निरूपणम् ।

वेदान्तिनस् तु “एकम् एवाद्वितीयं ब्रह्मे"त्य्-आदि-श्रुतेर्
एकं ब्रह्मैवास्ति,
तच् “चाविनाशी वारेऽयमात्मा, सत्यं ज्ञानम् अनन्तं ब्रह्मे"ति श्रुतेर्
नित्य-विज्ञान-स्वरूपं, “तद् एवैकोऽहं बहु स्याम्” इति श्रुतेर्
उपाधि-वशाज् जीव इत्य् उच्यते ।
तस्यैव स्वमाया-निर्मिता ऽविद्या-विद्याभ्यां बन्ध-मोक्षौ भवतः ।
शरीरे आत्मत्वाभिमान-कारयित्र्य् अ-विद्या,
विद्या तु तन्-निवर्तिका,
शरीरे आत्मत्वाभिमानो बन्धः,
तन्-निवृत्तिर् एव मोक्ष इत्य् उच्यते।
तस्मिन्न् एव ब्रह्मणि रज्जौ,
सर्प इव मिथ्या-भूत-संसारो भासते।
तस्माद् ब्रह्मैव सत्यं जगन् मिथ्या इत्य् आहुः ।

इदम् अपि युक्तं न प्रतिभाति प्रत्यक्ष-सिद्ध-पदार्थस्य मिथ्यात्वासम्भवात् ।

न च “+++(तथा सति)+++ रज्जौ तर्हि कथं सर्पस्य मिथ्यात्वम्” इति वाच्यम्,
+++(जगतो ऽप्रसिद्धौ विवक्षितायां सत्याम्,)+++
प्रसिद्धस्यैव सर्पस्य तत्र भानाङ्गीकारेण दृष्टान्त-वैषम्यात् । न च तत्राप्य् “असद् एव सर्पो भासते” इति वाच्यं -
तथा सति शशक-शृङ्गस्यापि भानापत्तेः ।

अथ “तर्हि स्वप्ने कथं शस्त्र-प्रहारादेर् मिथ्यात्वम्” इति मा भाषिष्ठाः,
प्रसिद्धस्यैव शस्त्र-प्रहारादेः स्वस्मिन्न् आरोप-मात्रत्वात् ।
अत एव स्वप्नो मानस विपर्यय इति वक्ष्यामः।

[[४०]]
न च “मिथ्यात्व-प्रतिपादक-श्रुतेर् अप्रामाण्यापत्तिर्” इति वाच्यम्,
तस्या जन्य-भावस्य नश्वरत्व-प्रतिपादने तात्पर्यात् ।
अन्यथा वेदस्यापि मिथ्यात्वापत्त्या,
तत्-प्रतिपाद्य-ब्रह्मणो ऽपि तथात्वापत्त्या,
नास्तिक-मत-प्रवेश-प्रसङ्गः ।

तद् उक्तम् ॥

प्रत्यक्षादि-प्रमा-सिद्ध-
विरुद्धार्थ-प्रबोधकः ।
वेदान्तो यदि शास्त्रं स्याद्
बौद्धैः किम् अपराध्यते ॥

[[731]]

एवं यन् नित्य-विज्ञानं ब्रह्मेत्य् उक्तं,
तदपि न,
तस्य दुर्-उपपादकत्वात् ।

तथा हि
किम् आत्म-मात्रं नित्य-विज्ञान-स्वरूपम्,
उत जीवः, किम् उतेश्वरः?

नाद्यः +++(आत्ममात्रम्)+++ - “यद् यज् ज्ञानं, तत् तत् सविषयकम्” इति नियमात्
तस्यापि कश्चन विषयो वाच्यः ।
स +++(विषयः)+++ किं “यावज् जगद्” इति ब्रूषे,
किं वा “यत्किञ्चित् घटपटादिः” ।

  • नाद्यः मेर्व्-आदीनाम् अपि यावद् अन्तर्गतत्वेन,
    “मेरुर् मद्-विषय” इत्य् अनुभवापत्तेः
    सुषुप्ताव् अपि विषयाभासप्रसङ्गाच् च ।
  • न च वक्तव्यं “निर्विषयकम् एव तद् उररी-क्रियते” इति
    निर्विषयकस्य ज्ञानत्वे मानाभावात् ।
  • न द्वितीयः - “घटस् तद्-विषयः, पटस् तद् विषयो वे"त्य् अत्र
    विनिगमनाविरहेण -
    “भक्षितेऽपि लशुने न प्रशान्तिर् व्याधेर्” इति न्यायेन
    तद्-दोष-तादवस्थ्यात् ।
    विनिगमना च एकत्र-पक्ष-पातिनी युक्तिः ।

जीवस्य नित्य-विज्ञान-रूपत्वे उपदर्शित-दोष-वारणं
चतुर्मुखब्रह्मणो ऽप्य् अशक्यं - प्रमाणाभावाच् च ।

न चेश्वरस्यापि नित्य-विज्ञान-स्वरूपत्वं सम्भवति -
“सत्यं ज्ञानम्” इत्यस्य “घटो नील” इत्यस्येव ज्ञान-गुणवद् इति तद्-अर्थवत्त्वात् ।
अत एव “यः सर्वज्ञः स सर्वविद्” इति श्रुतेः प्रामाण्यं निर्वहति ।

“जीव-ब्रह्मणोर् ऐक्यम्” इति यद् उक्तं
तद् अपि न -
सुख-दुःखादि-वैचित्र्याज् जीवानाम्
अनेकत्वेन तत्रैकत्वासम्भवात्,
अहं जीवो नेश्वर इति प्रतीतेश् च ।
अत एव कश्चन संसारी बद्धः,
कश्चन संसारी मुक्त
इति व्यवहार उपपद्यते ।

[[४१]]

“नन्व् एकम् एवाद्वितीयं ब्रह्मे"ति श्रुतेः का गतिर्
इति चेन् न,
एकत्व-सम-नियत-विजातीय-वैलक्षण्यस्यैवाद्वितीय-पदार्थत्वात्
प्रकृते जगत्-कर्त्तृत्वम् एव वैलक्षण्यम्।
“एको विद्वान् अद्वितीय” इत्यादौ
विद्याधिक्य-रूप-वैलक्षण्यवत्
समानेषु दश-मुक्ता-फलेषु विजातीयो घटस्,
तद्-वैलक्षण्य-सत्त्वेनाद्वितीय-व्यवहारापत्ति-वारणायैकत्व-सम-नियतत्वं
वैलक्षण्य-विशेषणम्।

नन्व् एवं सति “सर्वं खल्व् इदं ब्रह्मे"ति श्रुति-विरोध
इति चेन् न,
ब्रह्मेत्य् अस्य “ब्रह्म-व्याप्तम्”-इत्य्-अर्थकत्वात्।
व्याप्तवं सम्बन्धत्वम् -
अन्यथा घटादीनाम् अपि ब्रह्मत्वापत्त्या
ब्रह्मणो ऽनित्यत्वापत्तिः जडत्वापत्तिश् च। ।

न “चैकोऽहं बहु स्याम्” इति श्रुतेर् अप्रामाण्य-प्रसङ्ग इति वाच्यम्,
एकोऽहं निराकारो ब्रह्म-विष्णु-शिव-रूपेण बहुस्याम् इति तदर्थत्वात् ।

ननु “तत् त्वम् असि”, “ब्रह्म-विद् ब्रह्मैव भवति” इत्यादि-श्रुतेर्
जीवेश्वरयोर् अभेद-प्रतिपादिकाया
अप्रामाण्यम् अवलम्ब्यताम्
इति चेन्न,
“तत्त्वमसी"त्यस्य “निर्दुःखत्वेन तत्-सदृशस् त्वम् असी"त्य्-अर्थकत्वात् ।
एवं “ब्रह्मैव भवति” इत्य् अस्य
“निर्दुःखत्वेन ब्रह्मसदृशो भवती"त्यर्थकत्वात् ।
ऐश्वर्य्याधिक्येन वैश्योऽयं राजैवेतिवत् ।
अत एव “सर्वे आत्मानः समर्पिताः,
निरञ्जनः परम-साम्यम् उपैती"त्यादिश्रुतिः प्रामाण्यम् आप्नोति ।

वस्तुतः पूर्व-पक्ष-श्रुतीनाम् इव
वेदान्तोपयोगि-श्रुतीनाम् अर्थ-करणे
प्रयोजनाभाव इति सङ्क्षेपः ।

इत्यात्मनिरूपणम् ।

मनः

सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ।

  • सर्वप्रस्तुताव् ईक्षताम्।

[[४३]]

द्रव्याणां साधर्म्यवैधर्म्य-प्रक्रिया

अथ द्रव्याणां साधर्म्यवैधर्म्य-प्रक्रिया । पृथिव्यादिनवानां समवायिकारणत्वं साधर्म्य नित्य- द्रव्याणामवृत्तित्वम् पृथिव्यप्तेजोवायुमनसां मूर्त्तलं क्रियावत्त्वं वेगवत्त्वं परत्वापरत्वे च मूर्त्तत्वं परिच्छिन्नपरिमाणवत्त्वमिति सम्प्रदायविदः । क्रियासमवायिकारणतावच्छेदकतया सिद्धो जातिविशेष इति नव्याः । आकाशादिचतुष्टयस्य विभुत्वं च किन्नाम विभुत्वमिति चेत्सर्वमूर्त्तद्रव्यसंयोगित्वं परममहत्परि- माणवत्त्वं वा दिक्कालमनोभिन्नद्रव्याणां षण्णां विशेषगुणवत्त्व- माकाशजीवयोरव्याप्यवृत्तिविशेषगुणवत्त्वं क्षणिकविशेषगुण- वत्त्वं च । अव्याप्यवृत्तित्वं नाम स्वात्यन्ताभावसमानाधिकर- णत्वं यथा एकस्मिन्नेवात्मनि शरीरावच्छेदेन ज्ञानं घटावच्छेदेन तदत्यन्ताभावश्च तिष्ठति तत्समानाधिकरणलं ज्ञानेऽक्षतम् । क्षणिकत्वं च तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वमिदमपि ज्ञानेऽ- क्षतमेव । एवमन्यत्राप्यूह्यम् । पृथिव्यादिपञ्चानां भूतत्वं तच्चात्मा- वृत्तिविशेषगुणवत्त्वं वा । पृथिव्यादिचतुर्णां द्रव्यसमवायिकार- णत्वं स्पर्शवत्त्वं च । पृथिव्यादित्रयाणां रूपवत्त्वं द्रवत्ववत्त्वं च पृथिवीजलयो रसवत्त्वं गुरुत्ववच्त्वं च । वैधर्म्यं पूर्ववद्बोध्यम् । इ- दानीं पृथिव्यादीनां गुणाः प्रदर्श्यन्ते । चतुर्दशगुणाः पृथि- व्याः ते च रूपादित्रयोदश संस्कारश्च । चतुर्दशगुणाः जलस्य तेच गन्धवर्जरूपादिस्नेहान्ताः संस्कारश्च । एकादशगुणास्तेज- सस्ते च रसगन्धगुरुत्ववर्जरूपादिद्रवखान्ताः संस्कारश्च । नव- गुणाः वायोस्ते च रूपरसगन्धवर्जस्पर्शाद्यपरत्वान्ताः संस्कारश्च । षड्गुणा आकाशस्य ते च सङ्ख्यादिविभागान्ताः शब्दश्च । पञ्च गुणाः कालदिशोः ते च सङ्ख्यादि पञ्च । अष्टौ गुणाः परमात्मनः ते सङ्ख्यादिपञ्च बुद्धीच्छाप्रयत्नाश्च । चतुर्दश गुणाः

[[४४]]

जीवस्य ते च सङ्ख्यादि पञ्च बुद्ध्यादिनव च । अष्टौ गुणाः मनसः ते च सङ्ख्यादिसप्त संस्कारश्च । तदुक्तम् ।

वायोर्नवैकादश तेजसो गुणा जलक्षितिप्राणभृतां चतुर्दश । दिकालयोः पञ्च षडेव चाम्बरे महेश्वरेऽष्टौ मनसस्तथै- व च ॥ इति

इति सिद्धान्तचन्द्रोदये तर्कसङ्ग्रहव्याख्याने द्र- व्यविशेषनिरूपणं नाम द्वितीयः परिच्छेदः ॥

चक्षुर्मात्रग्राह्यो गुणो रूपं तच्च शुक्लनील- पीतरक्तहरितकपिशचित्रभेदात्सप्तविधं पृ- थ्वी जलतेजोवृत्ति तत्र पृथिव्यां सप्तविधं अभास्वरशुक्लं जले भास्वरशुक्लं तेजसि अथ गुणान्निरूपयितुं तत्र प्रथमोद्दिष्टं रूपं निरूपयति च- क्षुर्मात्रेति । रूपत्वादिवारणाय गुणपदम् । रसादिवारणाय चक्षुर्ग्राह्येति । सङ्ख्यादिवारणाय मात्रपदं यद्यपि प्रभाभित्ति- संयोगवारणाय गुणपदेन विशेषगुणस्य विवक्षणीयतयातत एव सङ्ख्यादिवारणं सम्भवति तथापि सांसिद्धिकद्रवत्ववार- णाय तदावश्यकम् । वस्तुतस्तु परमाणुरूपेऽव्याप्तिवारणाय चक्षुर्मात्रग्राह्यजातिमत्वे सति गुणत्वस्य विवक्षणीयतया विशेषपदं न देयम् । त्र्यणुकादिवारणाय गुणपदं तु देयम् । रूपत्वादीनि सर्वाण्येव जातयः । रूपं विभजते तच्चेति । रूपं चेत्यर्थः । इदं सप्तविधमित्यनेनान्वेति । सप्तविधे हेतुमाह शुक्लेति । ननु चित्ररूपे किम्मानं चित्रपट इति प्रती- तिस्तु तन्तुगतनीलपीतादीनामेवेति चेन्न, तथासति पटस्याप्रत्य- क्षत्रापत्तेः । बहिर्द्रव्यप्रत्यक्षे समवायेन रूपस्य कारणत्वात् । ननु रूपवत्समवेतत्वमेव बहिर्द्रव्यप्रत्यक्षे कारणमस्तु प्रकृते रूपवान्

[[४५]]

तन्तुस्तत्समवेतखं पटेऽव्याहतमेवेति चेन्न, लाघवेन रूपस्यैव कारणत्वात् । अथाव्याप्यवृत्तिनीलपीतादीनां निकुरम्बमेव चित्ररूपमस्तु किमतिरिक्तकल्पनेनेति मा वह गर्व व्याप्यवृत्तिजा- तीयगुणानां व्याप्यवृत्तित्वनियमात् । किञ्च तन्तुगतनीलपीता- दीनां परस्परविरोधेन पटे नीलादिनिकुरम्बस्यैवानुत्पत्तेः । रूपस्याश्रयमाह । पृथिवीजलतेजोवृत्ति । आश्रयं विभज्य दर्शयति । तत्रेति । पृथिव्यादित्रय इत्यर्थः । सप्तविधमिति रूप- मित्यनुषज्यते । अभाखरशुक्लमिति । ननु यमुनासलिलादौ कथं नीलिमोपलम्भ इति चेन्न, तस्य स्थलोपाधिकत्वात् । भाख- रशुक्लमिति वैश्वानरादौ उपष्टम्भकपार्थिवरूपप्रतिबन्धाद्भा- स्वरशुक्लस्यानुपलब्धिः । इति रूपनिरूपणम्।रसं निरूपयति रसनग्राह्यो गुणो रसः स च मधुराम्लल- वणकटुकषायतिक्तभेदात् षड्विधः पृथिवी- जलवृत्तिः । पृथिव्यां षड्विधः । जले मधुर-

एव ॥ १ ॥

रसनेति । षड्विध इति । तथाचावयवगतनानारस समुदाया- देव सामञ्जस्ये चित्ररसो नान्वेषितव्य इति भावः । रसस्याश्र- यमाह । पृथिवीति । आश्रयं विभज्य दर्शयति । तत्रेति । पृ- थिवीजलयोरित्यर्थः । षड्विध इति । रस इत्यनुवर्त्तते । जले मधुर एवेति । ननु जम्बीरजलादावाम्लोपलब्धः कथं मधुर- एवेति चेन्न, तस्य जम्बीराद्यौपाधिकत्वात् । जले माधुर्यसत्त्वे कुतो नोपलभ्यते इति चेन्न, आमलकभक्षणादीनां तद्व्यञ्ज-

घ्राणग्राह्यो गुणो गन्धः स द्विविधः । सुरभिरसु- रभिश्च । पृथ्वीमात्रवृत्तिः । त्वगिन्द्रियमात्रग्राह्यो

[[४६]]

गुणः स्पर्शः । स त्रिविधः । शीतोष्णानुष्णाशीतभे- दात् । स च पृथिवीजलतेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः । रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्य- त्रापाकजं नित्यमनित्यं च नित्यगतं नित्यं अनि- त्यगतमनित्यम् ॥

कत्वात् । इति रसनिरूपणम् । गन्धं निरूपयति घ्राणेति पृथिवीमात्रवृत्तिरिति । पृथिवीसंवन्धसच्चे गन्धप्रतीतिस- त्वं पृथिवी सम्बन्धाभावे गन्धप्रतीत्यभाव इत्यन्वयव्यतिरेकाभ्य पृथिवीगन्धस्यैव जले प्रतीतिर्बोध्या । एवं वायावपि । स्पर्श निरू- पयति त्वगिति । सङ्ख्यादिवारणाय मात्रपदम् । तत्रेति । पृथिव्यादिचतुष्टय इत्यर्थः । शीत इति । शीतस्पर्श इत्यर्थः । एवमुष्ण इत्यत्रापि । इति स्पर्शनिरूपणम् । प्रसङ्गाडूपा- दिचतुष्टयस्य पाकजलापाकजले प्रतिपादयन्नित्यत्वानित्यले प्रतिपादयति रूपादिचतुष्टयं पृथिव्यां पाकजमिति । पाकजमपीत्यर्थः । पाकस्तेजः संयोगः पाकासमवायिकारण- कमिति यावत् । ननु कथं पाकात्तज्जन्मेति चेदत्र पीलुपाकवा- दिनो वैशेषिकाः । आमनिक्षिप्ते घटे हुताशनसंयोगात्परमा-

१ पीलुपाकवादिनो वैशेषिकाः । पीलवः ( परमाणवः ) एव स्वतन्त्राः पच्यन्ते तत्रैव पूर्वरूपनाशाग्रिमरूपाद्युत्पत्तिः, कारणगु- णक्रमेण चावयविनि रूपाद्युत्पद्यते इत्येवं ये मन्यन्ते ते ॥ इति कणा- दमतमवलम्ब्य प्रतिपादयति, आमनिक्षिप्त इति ॥

[[४७]]

ण्वादिकपालपर्यन्तावयवेषु क्रिया ततः परस्परविभागः ततः परस्परसंयोगनाशः ततोऽसमवायिकारणनाशाद् द्रव्य- नाश इति नियमेन श्यामघटनाशे शिष्टाः परमाणवः पच्य- न्ते तत्र पाकेन रूपादिचतुष्टयोत्पत्तिस्ततः परमेश्वरेण सर्गा– दाविव व्यणुकादिक्रमेण पूर्ववद्रक्तघटो निमयते परमाणुरूपेण द्व्यणुकरूपं जन्यते एवं क्रमः अन्यथा घटस्य दृढतरले हुता- शनप्रवेशासम्भवाद्रूपाद्युत्पत्तिर्न स्यादित्याहुः । पिठरपाकवा- दिनो नैयायिकास्तु घटादिकं सच्छिद्रमेव अन्यथा तदन्तर्ग- ततण्डुलादेः पाको न स्याद् अत एकदैव परमाण्वादिघटप- र्यन्तेषु घटनाशं विना पाकेनैव रूपाद्युत्पत्तिरिति वदन्तीति सङ्ग्रहः । ननु स्पर्शः कथं पाकज इति चेन्न, रसालफलादावात- पादिना कोमलकठिनत्वस्पर्शोत्पादनस्य प्रत्यक्षसिद्धनात् । केचित्त्ववयवसंयोगविशेष एव काठिन्यादिरित्याहुः । तदसत् तथासति तस्य चाक्षुषत्त्रापत्तेः । स्पार्शनसंयोगस्य चाक्षुपल- नियमात् । पाकजखादेवानित्यमित्याह । अनित्यं चेति । अन्यत्र जलादावित्यर्थः । अपाकजमिति । अपाकजमेवेत्यर्थः । रूपा- एकत्वादिव्यवहारहेतुस्सङ्ख्या नवद्रव्यवृत्तिः एकत्वादिपरार्द्धपर्य्यन्ता । एकत्वं नित्यम- नित्यं च नित्यगतं नित्यमनित्यगतमनित्यं द्वित्वादिकं तु सर्वत्रानित्यमेव ॥ मानव्यव- हारासाधारणकारणं परिमाणम् ।

१ पिठरपाकवादिनो नैयायिकाः । कार्यकारणसमुदायोऽपि प- च्यते नतु परमाणव एव पच्यन्ते इति ये मन्यन्ते ते । इति गोत- ममतमवलम्ब्य प्रतिपादयति घटादिकमिति ॥

[[४८]]

दिचतुष्टयमित्यनुषज्यते । इति पाकवादः । सङ्ख्यां निरूप- यति एकत्वादीति । एकत्वमित्यादिर्यो व्यवहारः एकलं द्वित्वमित्याद्यात्मकस्तस्य हेतुः सङ्ख्येत्यर्थः । ननु सङ्ख्याया अ- वधिरस्ति न वेत्याशङ्क्याह एकत्वादिपरार्द्धपर्यन्ता। तथा च

एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरर्बुदमेव च ॥ वृन्दं खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः ।

अन्त्यं मध्यं परार्द्ध च दशवृद्ध्या यथाक्रमम् ॥

इति महदुक्तेः परार्द्धपर्यन्तैव सङ्ख्येति भावः । नित्यानित्यत्व- भेदेनैकत्वं द्विविधमित्याह एकत्वं नित्यगतमिति । गगनपर- माण्वादिगतमित्यर्थः । अनित्यगतमिति परमाणुभिन्नपृथि- व्यादिचतुष्टयगतमित्यर्थः । अत्र च कारणगतमेकत्वमसमवायि- कारणमिति बोध्यम् । द्वित्वादिकमनित्यमेवेत्याह द्वित्वादि- कन्त्विति । आदिना त्रिखादिपरिग्रहः। सर्वत्रेति । नित्या- नित्यद्रव्ययोरित्यर्थः । तथाचापेक्षाबुद्धिजन्यखाद् द्विलादिक- मनित्यमेवेति भावः । ननु कथमपक्षाबुद्धिजन्यसमितिचेदुच्यते घटद्वयसन्निकर्षानन्तरमयमेको ऽयमेक इति ज्ञानं इदमेवापेक्षा बुद्धिरित्युच्यते । ततो घटद्वये द्वित्वमुत्पद्यते अत्र घटद्वयगतमेकत्वमसमवायिकारणम् । घटद्वयं समवा- यिकारणम् । अपेक्षाबुद्धिः निमित्तकारणम् । ततो द्विल- द्विवखनिर्विकल्पकं ततो इमौ द्वाविति द्विलविशिष्टस्य प्रत्यक्षं तन्निर्वाहार्थमेवापेक्षाबुद्धे खिक्षणावस्थायितं कल्प्यते तस्मिन्नेव क्षणेऽपेक्षा बुद्धेर्नाशः तदुत्तरक्षणे च द्वित्रस्य नाशस्तत्रापेक्षा-

जन्यते

[[४९]]

बुद्धिनाशः कारणम् । अन्यथापेक्षा बुद्धिनाशानन्तरमपि द्विलम- त्यक्षापत्तिः । एवं त्रिलादावपि बोध्यम् । अतीन्द्रिये द्विलादि- कं तु योगीश्वरापेक्षा बुद्ध्या जन्यते तन्नाशश्च योगिनामपेक्षाबु- द्विनाशादिना इति ध्येयम् । नतु शब्दबुद्धिकर्मादीनां द्विक्ष- णावस्थायित्वात्कथमपेक्षा बुद्धिस्त्रिक्षणावस्थायिनी किञ्च यो- ग्यविभुविशेषगुणनाशं प्रति खोत्तरवृत्तिगुणानां कारणवाद्वि- खनिर्विकल्पकेनैवापेक्षा बुद्धिनाशाच्चेति चेन्मैवम्, अपेक्षाबुद्धि- भिन्नानामेव विवक्षितत्वात् । इति सङ्ख्या निरूपणम् । परि- माणं निरूपयति मानेति । मानं परिमितिस्तस्य यो व्यवहारः इदं महदिदमण्वित्याद्यात्मकस्तस्य कारणं परिमाणमित्यर्थः ।

नवद्रव्यवृत्ति । तच्चतुर्विधम् । अणुमहद्दीर्घद्रखं चेति । पृथग्व्यवहारासाधारणकारणं पृथक्त्वं सर्वद्र- व्यवृत्ति । संयुक्तव्यवहारहेतुस्संयोगः सर्वद्रव्यवृत्तिः। परिमाणस्याश्रयमाह नवद्रव्येति । तच्च नित्यगतं नित्यमनि- त्यगतमनित्यम् । परिमाणं विभजते तदिति । परिमाणमित्यर्थः । चातुर्विध्यं दर्शयति अण्विति । अणुखं महत्त्वं दीर्घत्वं ह्रस्वत्वं चेत्यर्थः । तेन द्रव्यस्याप्यणुरूपादिना व्यवहारेऽपि न क्षतिः । परममध्यमभेदेन तद् द्विविधम् तत्र परमाणुवहस्वत्ले परमाणुमनसोः । मध्यमाणुसहस्वले व्यणुके । परममहत्त्वदी- र्घत्वे गगनादौ । मध्यममहत्त्वदीर्घले घटादौ इति बोध्यम् ।

१ इदं द्वित्वं तु व्यासज्यवृत्ति, पर्याप्तिसम्बन्धेन द्वयोरेव द्रव्ययो- स्तिष्ठति न प्रत्येकस्मिन् । इदमेव द्वित्वमपेक्षाबुद्ध्या जयते तन्ना- शेन नश्यति च । अपेक्षाबुद्धिश्च-अयमेकः-अयमेकः - इति बुध्य- नन्तरमिमौ द्वाविति जायते - एवं त्रित्वचतुष्ट्वाद्यारभ्य परार्द्धत्वप- र्यन्तं ज्ञेयम् ॥

[[५]]

[[५०]]

एतन्मौक्तिकादिदं मौक्तिकमण्विति व्यवहारस्यापकृष्टमहत्त्वा- गौणत्वं द्रष्टव्यम् । एवं केतनाद्व्यजनं ह्रस्वमित्यत्राप्यपकृष्टदीर्घ- त्वाद्गौणत्वम् । परिमाणं क्वचित्सङ्ख्याजन्यं क्वचित्परिमाण- जन्यं क्वचित्प्रचयाख्यसंयोगजन्यं च । तत्राद्यं परमाणुद्वित्व- जन्यं द्व्यणुके द्व्यणुकबहुत्वजन्यं त्र्यणुके । द्वितीयं कपालपरिमा- णजन्यं घटपरिमाणम् । तृतीयं तूलावयवसंयोगजन्यं तूलपि- ण्डपरिमाणमयमेव संयोगः शिथिल इत्यप्युच्यते । इति परि- माणनिरूपणम् । पृथक्त्वं निरूपयति पृथगिति । अयमस्मा- त्पृथगिति यो व्यवहारस्तस्य कारणं पृथक्त्वमित्यर्थः । तच्चैकपृथ- क्त्वद्विपृथक्त्वत्रि पृथक्त्वादिभेदेन बहुविधम् । तत्रैकपृथक्त्वं नि- त्यगतं नित्यमनित्यगतमनित्यं द्विपृथक्त्वादिकं सर्वत्रानित्यमेव । ननु भेदातिरिक्तपृथक्त्वे किम्मानमितिचेन्न, घटः पटो नेति प्र- तीतिविलक्षणाया घटः पटात्पृथगिति प्रतीतेरेव मानत्वात् ॥ इतिपृथक्त्वनिरूपणम् ॥ संयोगं निरूपयति संयुक्तेति । इमौ संयुक्ताविति यो व्यवहारस्तस्य हेतुः संयोग इत्यर्थः । उ- पदर्शितलक्षणचतुष्टये असाधारणपदं देयं । क्वचित्पुस्तके परि- माणपृथक्त्वलक्षणे असाधारणपदं दृश्यते तच्चाधुनिकैर्न्यस्तमि- ति बोध्यम् । संयोगस्त्रिविधः । अन्यतरकर्मजोभयकर्मजसंयोग- जभेदात् । तत्राद्यः शकुन्तशैलसंयोगः । द्वितीयो मेषयोः संयोगः । तृतीयस्तु दर्शित एव । संयोगजः हस्तपुस्तकसंयोगात् काय- पुस्तकसंयोगः । कर्मजोऽपि द्विविधः । अभिघातो नोदनं चेति । तत्रादिमस्तु शब्दकारणीभूतः । द्वितीयस्तु क्रियादिकारणी-

संयोगनाशको गुणो विभागः सर्वद्रव्यवृत्तिः । परापरव्यवहारासाधारणकारणे परत्वापरत्वे पृथिव्यादिचतुष्टयमनोवृत्तिनी ।

[[५१]]

भूतः । इति संयोगनिरूपणम् ॥ विभागं निरूपयति संयोगनाशक इति । संयोगनाशजनक इत्यर्थः । कालेs- तिव्याप्तिवारणाय गुणपदम् । नतु ईश्वरेच्छायामतिव्याप्ति- वारणाय यद्यसाधारणजनको विवक्षितस्तदा गुणस्य वैयर्थ्य रयादिति चेन्मैवं क्रियायामतिव्याप्तिवारणाय तस्यावश्यक- वात् । क्रियाक्रियातो विभागः विभागात्पूर्वसंयोगनाशः उत्तर- देशसंयोगोत्पत्तिरिति नियमात् । क्रियाया अपि तज्जनकत्वात् । नुनु ययोः संयोगस्तयोरेव विभाग इति नियमात् मेरुकैलासौ विभक्ताविति व्यवहारः कथमिति चेन्न, तस्य गौणत्वात् । विभा- गोऽपि त्रिविधः॥ अन्यतरकर्म्मज उभयककर्म्मजो विभागज- श्चेति । उदाहरणं पूर्ववद्बोध्यम् । विभागजविभागोऽपि द्विविधः कारणमात्रविभागजः कारणकारणविभागजश्चेति । तत्रादिमस्तु कपालद्वयविभागात्कपालपूर्वदेश विभागः । द्वितीयस्तु हस्तपुस्त- कविभागात्काय पुस्तकविभागः । तस्याश्रयमाह नवेति । इति विभागनिरूपणम् । परत्वापरले निरूपयति परापरेति । परव्यवहारासाधारणं कारणं परत्नम् । अपरव्यवहारासाधारणं

ते द्विविधे दिक्कते कालकृते चेति । दूरस्थे दिक्कतं परत्वं समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वं कनिष्ठे कालकृतमप- रत्वम् । आद्यपतनासमवायिकारणं गुरुत्वं पृथिवीजलवृत्ति । आद्यस्यन्दनासमवायि- कारणं द्रवत्वं पृथिव्यप्तेजोवृत्ति । तद् द्वि- विधं सांसिद्धिकं नैमित्तिकं च । सांसि-

[[५२]]

द्धिकं जले नैमित्तिकं पृथिवीतेजसोः । पू- थिव्यां घृतादौ अभिसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ॥ चूर्णादिपिण्डीभाव- हेतुर्गुणः स्नेहो जलमात्रवृत्तिः ।

I

कारणमपरत्वमित्यर्थः । परत्वापरले विभजते त इति । द्वैविध्यं व्युत्पादयति दिक्कृते कालकृते चेति । दैशिकपरत्वापरत्वे कालिक परत्वापरत्वे चेत्यर्थः । तत्र दैशिकपरत्वमुदाहरति दूर- स्थेति । तदुत्पत्तिक्रमस्त्वभिहित एव । अत्र दिपिण्डसंयोगो- ऽसमवायिकारणम् । शेषं सुगमम् । दैशिकमपरत्वमुदाहरति स- मीपस्थेति । तदुत्पत्तिश्चाल्पतरमूर्त्तसंयोगविशिष्टशरीरज्ञानाद् दैशिकपरत्वापरत्वे मूर्तमात्रवृत्तिनी भवतः । कालिकपरत्वमु- दाहरति ज्येष्ठे कालकृतं परत्वमिति । कालकृतं पर- त्वमिति । कालिकपरत्वमित्यर्थः । तच्च ज्येष्ठत्वमेव तदुत्पत्तौ च कालपिण्डसंयोगोऽ समवायिकारणम् । कालिकमपरत्वमुदाह- रति कनिष्ठेति । कनिष्ठत्वमेव कालिकमपरत्वम् । तदुत्पत्तिश्चा- ल्पतरदिवाकरक्रियाविशिष्टशरीरज्ञानात् । कालिकपरत्वापरत्वे जन्यद्रव्यमात्रवृत्तिनी भवतः । इति परत्वापरत्वनिरूप- णम् । गुरुत्वं निरूपयति आद्य इति । आद्यं यत्पतनं कर्म- विशेषस्तस्यासमवायिकारणं गुरुत्वमेवेत्यर्थः । द्वितीयादिपत- नासमवायिकारणवेगेऽतिव्याप्तिवारणाय आद्येति । तच्च रति- कमाषकतोलकादिभेदेनानेकधा । नित्यगतं नित्यमनित्यगतम- नित्यम् । इति गुरुत्वनिरूपणम् । द्रवत्वं निरूपयति आद्य- स्यन्दनेति । स्यन्दनं स्रवणं तस्यासमवायिकारणं द्रवत्वमि- त्यर्थः । तस्याश्रयमाह पृथिवीजलतेजोवृत्तीति । तच्च जलपर-तर्कसङ्ग्रहटीका.

[[५३]]

माणुभिन्नेऽनित्यमित्यपि बोध्यम् । द्रवत्वं विभजते तदिति । द्वै- विध्यं दर्शयति सांसिद्धिकमिति । स्वाभाविकं सांसिद्धिकं तेजःसंयोगजन्यं नैमित्तिकमित्यर्थः । तत्र सांसिद्धिकमुदाहरति सांसिद्धिकमिति । नैमित्तिकमुदाहरति नैमित्तिकमिति। ननु, नैमित्तिकद्रवत्वस्य पृथिव्यां घटादौ तेजसि वन्ह्यादौ चा- भावात् कथं पृथिवीतेजसोरत आह पृथिव्यामिति । इति द्रवत्वनिरूपणम्। स्नेहं निरूपयति चूर्णेति । चूर्ण पिष्टं तदेवा- दिर्यस्य मृत्तिकादेः स चूर्णादिस्तस्य पिण्डीभावः संयोगविशे- षस्तस्य हेतुर्निमित्तकारणं स्नेह एवेत्यर्थः । कालादावतिव्या- शिवारणाय गुणपदं रूपादावतिव्याप्तिवारणाय पिण्डीभावेति चूर्णपदं स्पष्टार्थम् । स च नित्यगतो नित्योऽनित्यगतोऽनि- त्यश्चेति बोध्यं तैलादावन्तर्गतजलभागस्यैव स्नेहः स्नेहप्रकर्षेण जलमपि दहनानुकूलमेव । इति स्नेहनिरूपणम् । शब्द नि- श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः। स द्विविधः । ध्वन्यात्मको वर्णात्मकश्चेति । ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृत- भाषादिरूपः । सर्वव्यवहारहेतुर्बुद्धिर्ज्ञानम् । साद्विविधा स्मृतिरनुभवश्चेति । संस्कारमा- त्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विविधो यथार्थोऽयथार्थश्च । तद्धति तत्प्र- कारकानुभवो यथार्थः । यथा रजते इदं रज- तमिति ज्ञानम् ।

रूपयति श्रोत्रेति । शब्दत्वेऽतिव्याप्तिवारणाय गुण इति ।

[[0]]

[[५४]]

वस्तुतस्तु श्रोत्रोत्पन्नशब्दस्यैव श्रोत्रग्राह्यत्वेन तद्भिन्नेऽव्या- प्तिवारणाय श्रोत्रग्राह्यजातिमत्त्वे तात्पर्यागुणपदमनुपादेयम् । अथ भेर्य्याद्यवच्छेदेनोत्पन्नशब्दस्य कथं श्रोत्रदेशे ज्ञानोत्प- चिरिति चेन्न, वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा त- दुत्पत्तेः । भेरीशब्दो मया श्रुत इति धीस्तु भ्रान्तिरेव । अत एव भेरीजन्यतारशब्दान्मया मन्दशब्दस्तादृशः श्रुत इत्यनुभवः । साङ्ख्यवेदान्तिनौ पृथिव्यादिपञ्चसु शब्दमिच्छतः । स्वतन्त्रास्तु भेय्य शब्दः मृदङ्गे शब्द इति व्यवहारात्पृथिव्यामेव शब्द- मिच्छन्ति । तन्मतनिरासार्थमाह आकाशमात्रवृत्तिरिति । तत्र युक्तिस्तु प्रदर्शितैव । शब्दं विभजते स द्विविध इति । भे- र्यादाविति । भेर्य्याद्यवच्छेदेनेत्यर्थः । आकाशे जायमान इति शेषः । आदिना वेणुवीणामृदङ्गादेः परिग्रहः । वर्णात्मकमुदाह- रति । वर्णात्मक इति । संस्कृतभाषादिरूप इत्येतदुत्तरम् । स चेति पूरणीयम् । अत्रादिपदेन लौकिकभाषापरिग्रहः । द्विवि- धोऽपि शब्दस्त्रिविधः । संयोगजो विभागजः शब्दजश्चेति । तत्रा- द्यः भेरीदण्डसंयोगाद् ध्वन्यात्मकः । वायुकण्ठसंयोगाद्वर्णात्मकः। द्वितीयश्च वंशे पाठ्यमाने दलद्वयविभागाद् ध्वन्यात्मकः । स च चटचटात्मकः शब्दः । ओष्ठद्वयविभागाद्वर्णात्मकः । स च कका- रादिस्तृतीयश्च द्वितीयशब्दादिचरमशब्दान्तः । अत्र सर्वत्रा- काशः समवायिकारणं भेय्र्याकाशसंयोगः कण्ठाकाशसंयोगः वंशदलाकाश विभागः ओष्ठाकाशविभागः । शब्दश्च तत्र तत्रा- समवायिकारणमन्यत्सर्वं निमित्तकारणम् । तदुक्तम् । संयो- गाच्च विभागाच्च शब्दाच्च शब्दनिष्पत्तिरिति । तन्नाशश्चोत्तरो- तरशब्देन योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तिगुणानां कारणत्वात् । अन्त्यशब्दनाशस्तूपान्त्यशब्दनाशेनेति बोध्यम् ।

[[५५]]

केचित्तु सुन्दोपसुन्दन्यायेनोपान्त्य शब्दस्यान्त्य शब्देनान्त्यश ब्दस्योपान्त्यशब्देन नाश इत्यूचुस्तन्न, अन्त्यशब्दनाशपूर्वक्षणे उपान्त्यशब्दस्यैव नष्टत्वेन तस्य कारणत्वासम्भवात् । ननु जै- मिनीयाः सोऽयं ककार इति प्रत्यभिज्ञावलाच्छब्दस्य नित्यत्व- मङ्गीचकुस्तत्कथमनित्यत्वमुपपादितमिति चेन्न, तदेवेदमौषध- मिति प्रतीतिवत्तस्या अपि साजात्यालम्बनत्वात् । अतएवोत्पन्नः ककारो विनष्टः ककार इति प्रतीतिः । इति शब्दनिरूप- णम्। बुद्धिं निरूपयति सर्वेति । जानामीत्यनुव्यवसायगम्य-

१ सुन्दोपसुन्दन्यायस्वरूपं तु यत्रोभयोः पदार्थयोर्न कार्यसिद्धिः किं तूभयोः पदार्थयोरेकत्र प्रवृत्तौ सत्यामुभयोर्नाशः । सुन्दोपसुन्द- नामानौ द्वावसुरौ तौ च आवयोः कदापि मरणं माभूदितीच्छया ब्रह्मण अत्युत्कटतपश्चर्या चेरतुः । तपसा प्रसन्नश्चतुरानन उवाच वरं ब्रूतमिति । तावूचतुः - अमरत्वं याचावहे । ब्रह्मोवाच । स्वयमन्य- थासिद्धः परान् कथं साधये ममैव शतवर्षपर्यन्तं जीवितं वर्तते कथं युवयोरमरत्वं कर्त्तुं शक्योऽस्मि । परस्परं संलापादिकं कृत्वा तावूच- तुः । भो ब्रह्मन् - आवयोः अन्योऽन्यं युद्धमन्तरा कदापि मरणं माभू- दिति याचावहे । तथास्तु - इत्युक्त्वा ब्रह्मा दिवं गतः । वरप्रमत्तौ तावपि त्रैलोक्यस्य राज्यं चक्रतुः । ताभ्यां पराभूताः सर्वेऽपि देवाः सकललोकैककारणं नारायणं प्रत्याजग्मुः । निवेदितं तच्चेष्टितम् । नारायणेनोक्तं गच्छत स्वस्थानं शीघ्रमेव तदर्थं यतिष्ये । तदनन्तरं विष्णुः स्वयमेव तिलोत्तमाप्सरसो रूपं धृत्वा हस्ते वीणां गृहीत्वारण्ये स्थितः । तदानी भृगयार्थमागताभ्यां ताभ्यां दृष्टः । ज्येष्ठेनैको हस्तो गृहीतः कनिष्ठेन द्वितीयो गृहीतः । परस्परं युद्धं कृत्वा द्वावपि मृतौ कस्यापि स्त्रीप्राप्तिरूपकार्यसिद्धिर्न जाता ॥

[[५६]]

मानत्वं बुद्धेर्लक्षणम् । सर्वे ये व्यवहारा आहारविहारादयस्तषां हेतुर्बुद्धिरित्यर्थः । साङ्ख्यमते बुद्धिशब्दस्य महत्तत्ववाचकत्वा- दन्तःकरणात्मकत्वाच्चाह ज्ञानमिति । तथाच मनोभिन्ना- न्तःकरणे मानाभावः । अथवा बुद्धिशब्दस्यायं बुद्धिमानि- त्यत्र ज्ञानविशेषे व्यवहारदर्शनात् किं ज्ञानविशेषो बुद्धिरत आह ज्ञानमिति । बुद्धिं विभजते सेति । बुद्धिरित्यर्थः । द्वै- विध्यं व्युत्पादयति स्मृतिरिति । स्मृतेर्लक्षणमाह संस्का- रेति । संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानपदमिति । अ- नुभवेऽतिव्याप्तिवारणाय संस्कारेति । तथापि प्रत्यभिज्ञाया- मतिव्याप्तिवारणाय संस्कारमात्रजन्यत्वं विवक्षणीयं कचित्त- थैव पाठः । नचैवं सत्यसम्भवः, स्मृतेः संस्कारजन्यत्वे सति इ- न्द्रियार्थसन्निकर्षाजन्यत्वात् स्मृतित्वं च स्मरामीत्यनुभव- सिद्धो जातिविशेषः । इति स्मृतिसामान्यनिरूपणम् । अनुभवामीत्यनुभवसिद्धमनुभवत्वं प्रत्यक्षजातिरेव नत्वनुमि- त्यादिसाधारणं तत् तत्र तादृशप्रत्ययाभावादतोऽनुभवलं निर्वक्ति तद्भिन्नमिति । स्मृतित्वावच्छिन्नभिन्नमित्यर्थः । तेन यत्किञ्चित्स्मृतिभिन्नत्वस्यास्मृतौ सत्त्वेऽपि न क्षतिः । घटादि- वारणाय ज्ञानमिति । स्मृतिवारणाय तद्भिन्नमिति । इत्यनुभ- वसामान्यनिरूपणम् । अनुभवं विभजते सेति । यथार्था- नुभवं लक्षयति तद्वतीति । तद्वति तदेव प्रकारो यस्य स त- थेत्यर्थः । तद्वद्विशेष्यकं तत्प्रकारक इति यावत् । भवति चायं घट इति ज्ञानं घटत्ववद्वट विशेष्यक घटत्वप्रकारकं च । स्मृतिवा- रणायानुभव इति । अयथार्थानुभववारणाय तद्वतीति । यथार्थ इति । अनुभव इत्यनुषज्यते । घटे घटो नवेत्यांशिक संशयोऽपि

तर्कसङ्ग्रहटी का.

[[५७]]

घटत्वांशे प्रमैव । ननु रजते रजतत्वमिति प्रमायामव्याप्तिः तस्याः रजतप्रकारकत्वेऽपि विशेष्यीभूतरजतत्वे रजतस्यास- त्त्वेन रजतवद्विशेष्यकत्वाभावादिति चेत्, तद्वति तत्प्रकारकत्व- मित्यस्य तत्सम्बन्धवति तत्प्रकारकत्वमित्यर्थम नुसरामः । रजतले रजतस्यासत्त्वेऽपि रजतस्याधेयतात्मकस्य सम्बन्धस्य सत्त्वेन र- जतसम्बन्धवति रजतत्वे रजतप्रकारकत्वं तादृशप्रमायामव्याहत- मेव । ननु शास्त्रे प्रमापि श्रूयते सा किं यथार्थानुभवात्मिका बुद्धिः स एव प्रमेत्युच्यते । तदभाववति तत्प्रकार- कानुभवोऽयथार्थः । यथा शुक्ताविदं रजत- मिति ज्ञानम् । यथार्थानुभवश्चतुर्विधः ।

किं वा तदतिरिक्तेत्याशङ्क्य निरस्यति सैव प्रमेत्युच्यते । यथार्थानुभवात्मिका बुद्धिः सैव प्रमेत्युच्यत इत्यर्थः । इति यथार्थानुभवसामान्यनिरूपणम् । अयथार्थानुभवं लक्ष- यति तदभाववतीति । तदभाववद्विशेष्यकस्तत्प्रकारकानु- भवोऽयथार्थ इत्यर्थः। यथा शुक्ताविदं रजतमिति ज्ञानं भवति हि रजतत्वाभाववच्छुक्तिविशेष्यकं रजतत्वप्रकारकं च । ननु वृक्षः कपिसंयोगीति प्रमायामतिव्याप्तिः तस्या मूलावच्छेदेन कपिसंयोगाभाववति वृक्षे कपिसंयोगप्रकारकत्वादिति चेन्न, तदभावावच्छेदकावच्छेदेन तत्प्रकारकत्वमिति तदर्थत्वात् । ता- दृशप्रमायां कपिसंयोगाभावावच्छेदकी भूतमू लावच्छेदेन कपि- संयोगप्रकारकत्वाभावेनातिव्याप्तिविरहात् । अत्र मीमांसकाः । अयथार्थज्ञानमेवाप्रसिद्धम् । नच तस्याप्रसिद्धत्वे कथं तर्हि शुक्तौ रजतत्वप्रकारकविसंवादीच्छया रजतार्थिनो विसंवादिप्रवृत्ति- रिति वाच्यं, पुरोवर्त्तिज्ञानरजतत्वस्मरणाभ्यामेव सम्भवादि-,

[[५८]]

त्याहुः । इदमकिञ्चित्करं तथासति नेदं रजतमिति बाधज्ञाना- दपि तदापत्तेः । उपस्थितेष्टभेदज्ञानाभाव एव विसंवादिप्रवृत्तौ बीजमिति चेन्न, सत्यरजतस्थले विशिष्टज्ञानस्यैव प्रवर्त्तकत्वस्य प्रामाणिकत्वेन लाघवात्तस्यैव सर्वत्र प्रवर्त्तकत्वौचित्यादित्य- न्यथाख्यातिसिद्धेः । वाचस्पतिमिश्रास्तु । शुक्ताविदं रजत- मिति ज्ञाने प्रसिद्धशुक्तिरजतत्वयोरलीक एव समवायो भासते इत्यसत्ख्यातिमङ्गीचक्रुः । नैतद्युक्तमसतो मानासम्भवात् । इत्ययथार्थानुभव सामान्यनिरूपणम् । यथार्थानुभवं विभजते यथार्थानुभवश्चतुर्विध इति । यथार्थानुभवश्च प्रत्यक्षमेवेति चार्वाकाः । अनुमितिरपीति कणादबौद्धौ । उप- मितिरपीति नैयायिकैकदेशिनः । अर्थापत्तिरपीति प्राभा- कराः । अनुपलब्धिरपीति भाट्टवेदान्तिनौ । सम्भवैतिह्यकावपीति पौराणिकाः । चेष्टापीति तान्त्रिकाः एतेषां मतेऽखरसात्तस्य चातुर्विध्यं स्वयं दर्शितम् । अस्वरसबीजं तु स्फुटीभविष्यति । प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करण- मपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्द- भेदात्। व्यापारवदसाधारणं कारणं करणम् । चातुर्विध्ये हेतुमाह प्रत्यक्षानुमित्युपमितिशाब्दभेदा- त् । इतिप्रमाविभागः । प्रसङ्गात्प्रमाणं विभजते तत्कर- णमपीति । यथार्थानुभवात्मकप्रमायाः करणमित्यर्थः । प्रमा- करणं प्रमाणमिति प्रमाणसामान्यलक्षणम् । अनधिगतार्थगन्तृ- प्रमाणमिति मीमांसकास्तदसत् एकस्मिन्नेव घटे घटोsयं- घटोssयं घटोऽयमिति धारावाहिकप्रत्ययस्थलेऽधिगतार्थग- न्तृणामप्रामाण्यापत्तेः । चातुर्विध्ये हेतुमाह प्रत्यक्षानुमानो-

[[५९]]

पमानेति । तथाच न्यायसूत्रं “ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति” इतिप्रमाणविभागः । प्रमाणज्ञानस्य कर- णज्ञानाधीनत्वादादौ करणं निर्वक्ति असाधारणमिति । असाधारणत्वं च फलायोगव्यवच्छिन्नं कारणं करणमिति मते कलायोगव्यवच्छिन्नम् । व्यापारवत्कारणं करण- मिति भते फलायोगव्यवच्छिन्नलक्षणव्यापारवत्त्वं व्यापा- रश्च द्रव्यान्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनकः करण- त्वस्य कारणत्वघटितत्वात्तज्जिज्ञासां निवारयितुं कारणत्वं अनन्यथासिद्धिकार्यनियतपूर्ववृत्तिकारण- म् कार्यम्प्रागभावप्रतियोगि । कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् । यत्सम- वेतं कार्यमुत्पद्यते तत्समवायिकारणं यथा तन्तवः पटस्य पटच स्वगतरूपादेः । कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति कारणमसमवायिकारणं यथा तन्तुसंयोगः पटस्य तन्तुरूपं पटगतरूपस्य । तदुभयभिन्नं कारणं निमित्तकारणं यथा तुरीवेमादिकं पटस्य विवेषयति अनन्यथासिद्धकार्येति । कार्यान्नियताs- वश्यम्भाविनी पूर्ववृत्तिः पूर्वलक्षणवृत्तिर्यस्य तत्तथेत्यर्थः । अनियतरासभादिवारणाय नियतेति । कार्यवारणाय पूर्वेति । आरण्यस्थदण्डेऽपि स्वरूपयोगत्वसत्त्वाद्धटकारणत्वनिर्वाहः स्वरूपयोग्यत्वं च कारणतावच्छेदकधर्मवत्त्वं प्रकृते दण्ड- त्वमेव तथा इदं तु बोध्यं दण्डत्वादिवारणायानन्यथासिद्धल-

[[६०]]

विशेषणस्यावश्यकत्वेन तत एव रासभादिवारणसम्भवे निय- तपदमनर्थकम् एवं चानन्यथासिद्ध पूर्ववृत्तिकारणमिति फ- लितम् । ननु कार्यमेव किमित्याकाङ्क्षायामाह कार्यमिति । अनन्यथासिद्धत्वं चान्यथासिद्धिशून्यत्वम् । अन्यथासिद्धि- श्रावश्यकॢप्तनियतपूर्ववर्त्तिन एव कार्यसम्भवे तत्सहभूतलं यथा- वश्यकॢप्तनियतपूर्ववर्त्तिभिः दण्डादिभिरेव घटरूपकार्य सम्भवे तत्सहभूतत्वं दण्डत्त्रादौ अतस्तदन्यथासिद्धं केचित्तु अन्य- त्रकुप्तनियतपूर्ववर्तिन एवं कार्यसम्भवे तद्भिन्नमन्यथासिद्धं यथा रूपमागभावशून्यस्थले कॢप्तनियतपूर्ववर्त्तिनो गन्धमा- गभावादेव पाकजस्थलेऽपि गन्धरूपकार्य्यसम्भवे तद्भिन्नोरूप- प्रागभावो गन्धप्रागभावेनान्यथासिद्ध इति वदन्ति । तदसत् दण्डत्वादेरन्यथासिद्धत्वानापत्तेः । अथ दण्ड एवान्यथासिद्धः किं न स्यादितिचेन्न, तस्य लाघवेन कारणत्वात् तच्च लाघवं त्रिविधं शरीरकृतमुपस्थितिकृतं सम्बन्धकृतं च । तत्राद्यं प्रत्यक्षे महत्त्वमनेकद्रव्यखापेक्षाया अनेकावयवजन्यद्रव्यत्वं वा । अनेकद्रव्यत्वं च पारिमाण्डिल्या भावविशिष्टद्रव्यत्वम् । द्वि- तीयं गन्धप्रागभावे तृतीयं च दण्डत्वापेक्षया साक्षात्सम्बन्धकृतं दण्डे इत्यलमप्रकृत विचारेण । ननु पञ्चमान्यथासिद्धिरेव कुतः प्रदर्शिता अन्या अपि चतस्रः सन्ति । तत्राद्या तु येन रूपेण पूर्ववृत्तित्वं कारणस्य तत्त्वं यथा घटं प्रति दण्डत्वस्य । द्वितीया च यस्य कारणमादायैवान्वयव्यतिरेकौ गृह्येते न तु स्वात- न्त्र्येण तत्त्वं यथा घटं प्रति दण्डरूपस्य । तृतीया च यस्यान्यं प्रति पूर्ववृत्तिलं गृहीत्वैव कचित्पूर्वदृत्तिलं गृह्यते तत्त्वं यथा घटं प्रत्याकाशस्य शब्दसमवायिकारणत्वेन रूपेण । चतुर्थी च यस्य कारणं प्रति पूर्ववृत्तित्वं गृहीलैव कार्य्यं प्रत्यपि वृत्तित्वं

[[६१]]

गृह्यते तत्त्वं यथा घटं प्रति कुलालपितृत्वेन रूपेण कुलालपितुः कुलालखेन रूपेण तु कारणत्वमेवं तस्येति चेन्न, पञ्चमान्यथासि- द्धेरैव सर्वत्र सम्भवेन तासामकिञ्चित्करत्वाद्वालघीवैशद्यार्थमेव स्फुरति चेत्स्यादेतत् । यत्समवेतमिति । यस्मिन्समवायसं- बन्धेन वर्तमानं सदित्यर्थः । उदाहरति यथा तन्तव इति । स्वगतरूपादेरित्यत्रादिना गन्धादेः परिग्रहः । ननु पटरूपं प्रति तन्तुरूपमसमवायिकारणं न स्यात्तयोः सामानाधिकरण्याभा- वात् समानाधिकरणयोरेव कार्य्यकारणभावनियमादत आह काय्यैणेति । कारणेनेति कार्य्यसमवायिकारणेनेत्यर्थः । त- थाच पटरूपसमवायिकारणी भूतपटसामानाधिकरण्यस्य तन्तुरूपे सत्त्वात्परम्परासम्बन्धेन पटरूपसामानाधिकरण्यमपि सुलभमे- वेति भावः । परम्परासम्बन्धश्च स्वसमवायिसमवायः । समवायसं- बन्धेन कार्य्यसामानाधिकरण्यमेवं कार्य्यैकार्थप्रत्यासत्तिरित्यु- च्यते स्वसमवायिसमवायसम्बन्धेन कार्य्यसामानाधिकरण्यमेव कारणैकार्थप्रत्यासत्तिरित्युच्यते । तथाच समवाय स्वसमवायि- समवायान्यतरसम्बन्धेन कार्येण सहैकस्मिन्नर्थे समवायेन प्र- त्यासन्नत्वे सति आत्मविशेषगुणान्यले सति कारणमसमवायि- कारणमिति फलितोऽर्थः । नच तुरीतन्तुसंयोगादावतिव्या- प्तिरिति वाच्यम्, तन्तुमात्रसमवेतले सति पटकारणं पटासमवा- यिकारणमिति विशेषलक्षणस्य विवक्षितत्वात् । एवमन्यत्रापि । निमित्तकारणं लक्षयति तदुभयेति । इदं च कारणत्रयं भाव- कार्य्यस्यैव अभावस्य तु निमित्तमात्रम् । कारणलक्षणमुपसंहरति तदेतत्रिविधकारणमध्ये यदसाधारणं का- रणं तदेव करणम् ।

तदिति । यस्मात्कारणात्कारणत्वघटकं कारणमुपदर्शितं तस्मा-

[[६]]

[[६२]]

त्कारणादेत त्रिविधसाधकमध्ये यत्साधकतमं तदेव करणमित्य- र्थः । इति करणप्रपञ्चः । करणप्रपञ्चं निरूप्य पूर्वोद्दिष्टप्रमाण- तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । इन्द्रियार्थस- न्निकर्षजन्यं ज्ञानं प्रत्यक्षम् ।

विशेषणं लक्षणं वक्तुमुपन्यस्यति तत्रेति । तत्र प्रमाणचतुष्टयमध्ये साक्षात्कारप्रमाकरणं प्रत्यक्षं प्रत्यक्षप्रमाणमित्यर्थः । अनुमानवा- रणाय प्रत्यक्षेति । यद्यपि प्रमायाः प्रथमोद्दिष्टखात्तस्या एवादौ लक्षणं वक्तुमुचितं तथापि तस्याः प्रमाणोपजीवकखेन तदुपजी- व्यप्रमाणलक्षणमेवादावुचितमिति भावः । तच्च क्वचिदिन्द्रियं क- चिदिन्द्रियार्थसन्निकर्षः क्वचिज्ज्ञानम् । तत्राद्यं निर्विकल्पकज्ञाने । द्वितीयं सविकल्पकज्ञाने निर्विकल्पक ज्ञानद्वारा इन्द्रियार्थसन्नि- कर्षः। तृतीयं च सविकल्पकज्ञानानन्तरम् । यत्र हानोपादानोपेक्षा बुद्धयो भवन्ति तत्र सविकल्पक ज्ञानं द्वारीकृत्य निर्विकल्पज्ञानं हानं दुःखसाधनत्वज्ञानं यथा सर्पो मे दुःखसाधनमिति उपा- दानं च सुखसाधनत्वज्ञानं यथा स्रक्चन्दनवनितादिकं मत्सु- खसाधनमिति उपेक्षाचोभयासाधनत्वज्ञानं यथा तृणादाविति व्यापारवतः करणत्ववादिनः । इति प्रत्यक्षप्रमाणनिरूप- णम् । प्रत्यक्षममां लक्षयति इन्द्रियार्थेति । इन्द्रियं चक्षुरादिक- मर्थो घटादिस्तयोः सन्निकर्षः संयोगादिस्तज्जन्यं ज्ञानं प्रत्यक्षमि- त्यर्थः । सन्निकर्षध्वंस वारणाय ज्ञानमिति । अनुमित्यादिवारणा- येन्द्रियार्थसन्निकर्षेति । अथ काचादिव्यवहितपदार्थप्रत्यक्षेऽव्या- प्तिरितिचेन्न, स्वच्छद्रव्यस्य तेजोऽनिरोधकत्वेन तदन्तश्चक्षुषः वेप्रेशसम्भवात् । अथ दर्पणे कथं मुखप्रत्यक्षमितिचेन्न, दर्पणमा- प्तचक्षुषैव परावृत्या मुखं प्राप्य प्रत्यक्षजननात् । कचित्स्वच्छद्र- व्यस्यैव दोषवशादन्यथाभानं दर्पणे मुखं पश्यामीति धीस्तु भ्रम एव एतेन प्रतिबिम्बं परास्तम् । नचेश्वरमत्यक्षेऽव्याप्तिरिति वा-तर्कसङ्ग्रहटीका.

[[६३]]

च्यम्, अत्र जन्यप्रत्यक्षस्यैव लक्षितलात् । यदाह भगवान्सूत्रकारः “ इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यव- सायात्मकं प्रत्यक्षमिति” अन्ये तु ज्ञानाकरणकं ज्ञानं प्रत्यक्षं इदं चेश्वरप्रत्यक्षसाधारणमिति । इति प्रत्यक्षप्रमाणनिरूप-

• तद्विविधं निर्विकल्पकं सविकल्पकं चेति । तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किञ्चित् । सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं ब्राह्मणोऽयं श्यामोऽयमिति । णम् । प्रत्यक्षप्रमां विभजते तद्विविधमिति । यथा किञ्चिदिद- मितिनामजात्यादियोजनाहीनं वस्तुमात्रावगाहि ज्ञानमित्यर्थः । ननु निर्विकल्प किं प्रमाणमिति चेन्न, अयं घट इति विशिष्टबु- द्धिः विशेषणज्ञानजन्या विशिष्टबुद्धिवाद किरीटीति विशिष्ट- द्विवदित्यनुमानस्यैव हेतुत्वात् । अत्र घटत्वरूपं यद्विशेषणं तद्भान- मेव निर्विकल्पक मित्युच्यते । नच विशेषणज्ञानमपि सविकल्पक- मेवास्तामिति वाच्यम्, अनवस्थाप्रसङ्गात्। इति निर्विकल्प- कनिरूपणम् ॥ सविकल्पकं निरूपयति सप्रकारकमिति । विशिष्टज्ञानमित्यर्थः । अत्र नास्तिकाः । सविकल्पकं न प्रत्यक्षं तस्य घटत्वादिरूपालीकोपरक्तत्वात् वन्ध्यापुत्रज्ञानवत् । निर्वि- कल्पकं स्वलक्षणवस्तूपरक्तवात्स्यादेव प्रत्यक्षम् । नच किमुल्ले- खनी अयं घटोऽयं घट इत्येकाकारा प्रतीतिर्भिन्नेषु विलक्षणेषु घटेषु अतः सर्वानुगतधर्म आवश्यक इति वाच्यं, तस्यातद्व्या- वृत्त्यात्मवात् । अतद्व्यावृत्तिश्च तद्भिन्नभेदः स च तुच्छ एवेत्याहुः । तदसत् । विधिमुखेनैव एकाकारप्रतीतेः तस्य निषेधरूपत्वायो- गात् । इति सविकल्पकनिरूपणम् । अथ प्रत्यक्षं षडिधं घ्राणजरासनचाक्षुपश्रोत्रस्पार्शनमानसभेदात् । घ्राणजलादिकं

[[६४]]

तु जिघ्रामि आस्वादयामि पश्यामि शृणोमि स्पृशामि मनसा सुखं साक्षात्करोमीत्यनुभवसाक्षिको जातिविशेषः । इति प्रत्य- प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड़िधः । संयोगः संयुक्तसमवायः संयुक्तसमवेतसम- वायः समवायः समवेतसमवायो विशेषण- विशेष्यभावश्चेति ।

क्षप्रमाविशेषनिरूपणम् । ननु प्रत्यक्षकारणीभूतेन्द्रिय- निष्ठप्रत्यक्ष सामानाधिकरण्यघटकसन्निकर्षः क इत्याकाङ्क्षायां तं दर्शियितुं विभजते । प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्नि कर्षः षडिधः । संयोगः संयुक्तसमवायः संयुक्तसमवेतसम- वायः समवायः समवेतसमवायः विशेषणविशेष्यभावश्चेति । प्रत्यक्षेति लौकिकप्रत्यक्षे इत्यर्थः । संयोगमुदाहरति सन्निकर्ष चक्षुपा घटप्रत्यक्षजनने संयोगसन्निकर्षः । घटरूपप्रत्यक्षजनने संयुक्तसमवायसन्निकर्षः चक्षुःसंयुक्ते घटे रूपस्य समवायात् ।

इति । चक्षुषेति । तथा द्रव्यचाक्षुषस्पार्शनमानसेषु संयोग एव सन्निकर्ष इति भावः । संयुक्तसमवायमुदाहरति घटरूपेति । च- क्षुषा जननीय इत्यनुषज्यते । तथा च द्रव्यसमवेतचाक्षुषस्पार्शन- मानसरास नघ्राणजेषु संयुक्तसमवाय एव सन्निकर्ष इति भावः । ननु घटरूपे कथं चक्षुप्रः संयुक्तसमवायोऽतस्तमुपपादयतिचक्षुः संयुक्त इति । नतु दूरस्थघटादौ सत्यपि संयुक्तसमवाये कुतः परिमाणाग्रहणमिति चेदत्राहुः परिमाणग्रहणे चतुष्ट- यसन्निकर्षोऽप्यधिकं कारणं स चेन्द्रियावयवार्थावयवयोरि- न्द्रियावयव्यर्थावयविनोरिन्द्रियावयव्यर्थावयवयोरिन्द्रियाव-

[[६५]]

यवावयविनोश्च संयोग इति । इतरे तु दोषवशादेव न रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः चक्षुःसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात्

ग्रहणमिति वदन्ति । संयुक्तसमवेतसमवायमुदाहरति रूपत्वे- ति । रूपत्वात्मकं यत्सामान्यं तत्प्रत्यक्ष इत्यर्थः । अत्रापि चक्षुषा जननीय इति शेषः । तथा च द्रव्यसमवेतसमवेत- चाक्षुपरासनघ्राणजस्पार्शनमानसेषु संयुक्तसमवेतसमवाय एव सन्निकर्ष इति भावः । अथ द्रव्यतत्समवेतमत्यक्षेऽपि संयुक्तस- मवेतसमवाय एव सन्निकर्षोस्त्रिति चेन्नैतत्, आत्मनोऽप्यन- श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्नि- कर्षः कर्णविवरवर्त्त्याकाशस्य श्रोत्रत्वात् श- व्दस्याकाशगुणत्वाद्गुणगुणिनोश्च सम-

वायात्

ध्यक्षप्रसङ्गात् । समवायसन्निकर्षमुदाहरति श्रोत्रेणेति । शब्द- साक्षात्कारे जननीय इति शेषः । नतु श्रोत्रशब्दयोः कथं समवाय इत्यपेक्षमाणं प्रत्युपपादयति कर्णेति । अथ समवाय- स्य नित्यत्वेन शब्दप्रत्यक्षे को व्यापार इति चेच्छन्दः श्रोत्रमनः- शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निक- र्षः श्रोत्रसमवेते शब्दे शब्दत्वस्य समवा-

यात् ।

संयोगो वेति गृहाण । समवेतसमवायमुदाहरति शब्दत्वेति । विशेषणविशेष्यभावमुदाहरति विशेषणेति । विशेषणभावो

[[६६]]

विशेष्यभाव इत्यर्थः । इन्द्रियसम्बद्धविशेषणत्वमिन्द्रियसम्बद्ध- विशेष्यत्वमिति यावत् । विशेषणतासन्निकर्षमुपपाद्य दर्श- यति घटाभाववदिति । इह भूतले घटो नास्तीत्यादौ विशेष्यतासन्निकर्षोऽवसेयः सप्तम्यन्तस्य विशेषणसनियमात् । अत्रेदं बोध्यं । इन्द्रियसंयुक्त विशेषणता संयुक्तसमवेतविशेषणता- दिभेदेन तस्या नानालेऽपि विशेषणताखेन सा एकैव एवं विशे- षणताविशेष्यतयोरन्यतरत्वेन ग्रहणमतो न सन्निकर्षपट्टत्वविरो- धः । इति लौकिकसन्निकर्षविचारः । ननु विशेषणतास- न्निकर्ष एव नास्ति अत एवाभावप्रत्यये योग्यानुपलब्धिः कारण- मिति चेन्न, यद्यत्र घटः स्यात्तर्हि भूतलमिव दृश्यते अतो दर्शनाभा- वान्नास्तीति घटरूपप्रतियोगिसत्त्वप्रसक्त्तया तर्कितो यो घटोपलं- भः तत्प्रतियोगिताका भावात्मक योग्याऽनुपलब्धिसहकृतेन्द्रिये - अभावप्रत्यक्षे विशेषणविशेष्यभावः स- न्निकर्षः घटाभाववद्भूतलमित्यत्र चक्षुस्सं- युक्ते भूतले घटाभावस्य विशेषणत्वात् । णैवाभावप्रत्ययसम्भवेऽनुपलब्धेः कारणत्वस्यान्याय्यलात् । अ- भावाधिकरणप्रत्यक्षं प्रति इन्द्रियकरणत्वस्यावश्यकत्वेनाभावप्र- त्यक्षं प्रत्यपि विशेषणतासन्निकर्षद्वारा तस्यैव करणखस्योचित- त्वादित्यास्तां विस्तरः । इत्यनुपलब्धिवादः । इदानीमलौ- किकसन्निकर्षो निरूप्यते । स त्रिविधः । सामान्यलक्षणो झन- लक्षणो योगजधर्मलक्षणश्चेति । तत्राद्यः इन्द्रिय सम्बद्ध विशेष्यज्ञा- नप्रकारीभूतघटत्वादिः भवति च घटत्वादिरिन्द्रियसम्बद्धवि- शेष्यकेऽयं घट इति लौकिकप्रत्यक्षे प्रकारः तदनन्तरं तेन सन्निकर्षेण सर्वे घटा इत्यलौकिकप्रत्यक्षं जायते । नचेन्द्रियसं- बद्धं सामान्यमेव प्रत्यासत्तिः मृगतृष्णादौ जलभ्रमानन्तरं

[[६७]]

" सकलजलज्ञानं न स्यात्, तत्रेन्द्रियजलत्वयोः सम्बन्धाभावात् मानसस्थले तु ज्ञानप्रकारीभूतं सामान्यमेव प्रत्यासत्तिः अन्य- था परमाणुत्वेन यत्किञ्चित्परमाणूपस्थितौ परमाणुत्वसामान्य- लक्षणया सकलपरमाणूल्लेखनी मानसप्रतीतिर्न स्यात्परमाणु- मनसोः सम्बन्धाभावात् । द्वितीयो यथा । यत्र सौरभज्ञानलक्षणया ‘चाक्षुषसामग्र्या च सुरभिचन्दनखण्डमिति सौरभांशेऽलौ- किकं चन्दनखण्डांशे लौकिकं चाक्षुषं जायते तत्र सौरभज्ञाने सौरभस्मरणमेव प्रत्यासत्तिः सौरभांशे चक्षुःसन्निकर्षासम्भ- वादित्यन्यत्र विस्तरः । तृतीयश्चादृष्टविशेष एव । स द्विविधः । युक्तयुञ्जानभेदाद्योगिनो द्वैविध्यं तत्र युक्तस्य योगिनः प्रथम- प्रत्यासच्या निरन्तरमखिलपदार्थज्ञानं जायते । युञ्जानस्य चिन्ता- विशेषसनाथद्वितीयप्रत्यासत्त्या समयविशेषे ज्ञानं जायते । इत्य- लौकिकसन्निकर्षनिरूपणम् । ननु योगिसद्भावे किं प्रमाणमिति चेत् परमाण्वादिः जन्यप्रत्यक्षविषयः अभिधेय- त्वात् घटवदित्यनुमानं गृहाण तत्प्रत्यक्षं तु नास्माकं किन्तु एवं सन्निकर्षषटुजन्यं ज्ञानं प्रत्यक्षम् । त- त्करणमिन्द्रियं तस्मादिन्द्रियं प्रत्यक्षप्रमा- णमिति सिद्धम् ।

इति प्रत्यक्षखण्डः ।

योगिनामेवेति ॥ ध्येयम् । प्रत्यक्षप्रमामुपसंहरति एवमिति । उ- पदर्शितक्रमेणेत्यर्थः । ननुसिद्धान्ते प्रत्यक्षज्ञानकरणमिन्द्रियार्थ- सन्निकर्षः किं न स्यादत आह तत्करणमिन्द्रियमिति । प्रत्यक्षप्रमाणं निगमयति तस्मादिति । प्रत्यक्षप्रमाकरणत्वादि- त्यर्थः । सिद्धमिति सिद्धान्ते सिद्धमित्यर्थः । इति प्रत्यक्षप्र-

[[0]]

[[६८]]

अनुमितिकरण मनुमानं परामर्शजन्यं ज्ञा- नमनुमितिः व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः यथा वह्निव्याप्यधूमवानयं प- र्वत इति ज्ञानं परामर्शः तज्जन्यं पर्वतो व- हिमानिति ज्ञानमनुमितिः। यत्र धूमस्तत्रा- मिरिति साहचर्यनियमो व्याप्तिः ।

माणम् । प्रत्यक्षानुमानयोरुपजीव्योपजीवकभावसङ्गतिमभि- प्रेत्य प्रत्यक्षानन्तरमनुमानं निरूपयति अनुमितीति । अनु- मितेः करणमनुमानमित्यर्थः । तच्च लिङ्गपरामर्श एवेति निवे- दयिष्यति । अथानुमितिः केत्यत आह परेति । प्रत्यक्षादिवार- णाय जन्यान्तम्। परामर्शध्वंसवारणाय विशेष्यम् । तथापि परा- मर्शप्रत्यक्षेऽतिप्रसक्तिरिति चेन्मैवम्, साधनानवगाहिलेनापि वि- शेषणीयत्वात् । नच तथा सति धूमवान् पर्वतो वह्निमानित्याकार- कलिङ्गोपहितलैङ्गिकभानात्मकानुमितावव्याप्तिरिति वाच्यम्, तादृशानुमितेर स्वीकारात्। ननु स्थाणुर्वा पुरुषो वेति संशयानन्तरं पुरुषत्वव्याप्य करादिमानयमिति विशेषदर्शने सत्ययं पुरुष एवेति प्रत्यक्षोदयात् तत्रातिव्याप्तिरिति चेन्न, सामान्यविषय- कप्रत्यक्षसामग्र्यभाव सहकृतपरामर्शजन्यत्वस्येह विवक्षितत्वात् । सा च पक्षविशेष्यकपरामर्शात्पक्षविशेष्यिका पक्षप्रकारकयरा- मर्शात्पक्षप्रकारिका द्विविधादपि परामर्शात्पक्षविशेष्यकैवेत्या- स्तां विस्तरः । इत्यनुमितिलक्षणम् । नन्वत्र परामर्शः क अ- तस्तं निर्वक्ति व्याप्तीति । विषयितासम्बन्धेन व्याप्तिविशिष्टं यत्पक्षधर्मताज्ञानं तदेव परामर्श इत्यर्थः। उदाहरति यथेति । तथा च वह्निव्याप्येत्यत्र व्याप्तेर्भानाडूमवानित्यत्र पक्षधर्मतायाभा-

[[६९]]

नाद्भवत्येव व्याप्तिविषयकं पक्षधर्मताविषयकं चेति भावः । ता- बता परामर्शोऽवगतस्तज्जन्यत्व घटित लक्षण विशिष्टानुमितिः की- दृशी अतस्तामभिनयति तज्जन्यमिति । तदितिपरामर्शजन्यमि- त्यर्थः । इतिं परामर्श निरूपणम् । अथ व्याप्तिविशिष्टेत्यत्रका व्याप्तिरित्याकाङ्क्षायामाह यत्रेति । यत्र धूमस्तत्राग्निरिति व्या- प्तेरभिनयः । साहचर्य्यनियम इति लक्षणम् । सहचरतीति सहच- रस्तस्य भावः साहचर्य्यं सामानाधिकरण्यमित्यर्थः तस्य नियमो व्याप्तिः सचाव्यभिचरितत्वं तच्च व्यभिचाराभावः व्यभिचारश्च साध्याभाववद्वृत्तित्वं तथाच साध्याभाववदवृत्तित्वं व्याप्ति- रिति पर्य्यवसन्नम् । वह्निमान् धूमादित्यादौ साध्यो वह्निस्तद- भाववान् जलहूदादिस्तद्वृत्तित्वं नौकादाववृत्तित्वं प्रकृतहेतुभूत- धूमे इति लक्षणसमन्वयः । धूमवान् वह्नेरित्यादौ साध्यो धूम- स्तदभाववदयोगोलकं तद्वृत्तित्वमैव वह्नाविति नातिव्याप्तिः । न- न्विदं वाच्यं ज्ञेयत्वादित्यादौ साध्याभावाप्रसिध्याऽव्याप्तिः । नच सोन्दडोपाध्यायैर्व्यधिकरणधर्मावच्छिन्नाभावस्योपगमेन तत्र वाच्यत्वाभावस्य समानाधिकरणधर्मावच्छिन्न प्रतियोगिता- कस्याप्रसिद्धत्वेऽपि घटत्वेन वाच्यत्वाभावस्य व्यधिकरणधर्मा- वच्छिन्नप्रतियोगिताकस्य प्रसिद्धत्वेन कथमव्याप्तिरिति शङ्क्यम्, चिन्तामणिकारेण तस्य खण्डितत्वात् । अङ्गीकारपक्षेऽपि तद्वद- वृत्तित्वस्याप्रसिद्धेः । प्रकृते तस्यानुपयोगाच्चेति चेन्न, केवलान्व- यिन्यनुमितेर स्वीकारात् । स्वीकारे तु भ्रमात्मिकैव सेति नव्याः । अत्रोच्यते हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसा - मानाधिकरण्यं व्याप्तिः । वह्निमान् धूमादित्यत्र हेतुर्धूमस्तत्समा- नाधिकरणात्यन्ताभावो घटात्यन्ताभावस्तत्प्रतियोगी घटोsप्र- तियोगी वह्निरूपं साध्यं तत्सामानाधिकरण्यं धूमे इति लक्ष- णसमन्वयः । धूमवान् वह्नेरित्यत्र नातिव्याप्तिः । हेतुर्वह्निस्तत्स-

[[७०]]

मानाधिकरणात्यन्ताभावोऽयोगोलके धूमात्यन्ताभावस्तत्प्रति- योगि धूमरूपं साध्यमिति नातिव्याप्तिः । इदं वाच्यं ज्ञेयत्वा- दित्यादौ हेतुज्ञेयत्वं तत्समानाधिकरणात्यन्ताभावो घटात्यन्ता- भावस्तत्प्रतियोगी घटोsप्रतियोगि वाच्यत्वरूपं साध्यं तत्सा- मानाधिकरण्यं ज्ञेयत्वे इति कृत्वा नाव्याप्तिः । अथ कपिसंयोगी एतद्वृक्षत्वादित्यत्र हेतुरेतद्वृक्षत्वं तत्समानाधिकरणात्यन्ता- भावो मूलावच्छेदेन कपिसंयोगात्यन्ताभावस्तत्प्रतियोगि कपि- संयोगरूपं साध्यमित्यव्याप्तिरिति चेन्न, प्रतियोगिव्यधिकरण- हेतुसमानाधिकरणात्यन्ताभावस्याभिमतत्वादित्यलं कर्कशवि- व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता । अनु- मानं द्विविधं स्वार्थं परार्थं च । स्वार्थं स्वानु- मितिहेतुः । परार्थं परप्रतिपत्तिहेतुः । तथाहि स्वयमेव भूयोदर्शनेन यत्र धूमस्तत्राभिरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गत्वा तद्गते चामौ सन्दिहानः पर्वते धूमं प- श्यन् व्याप्तिं स्मरति यत्र धूमस्तत्राभिरिति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते । अयमेव लिङ्गपरामर्श इत्यु- च्यते। तस्मात् पर्वतो वह्निमानिति ज्ञानम- नुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम्

चारेण बालानाम् । इति व्याप्तिः । ननु ज्ञातेयं व्याप्तिः परन्तु

[[9]]

[[0]]

.

[[७१]]

पक्षधर्मतेत्यत्र का नाम पक्षधर्मतेत्यपेक्षमाणं प्रति पक्षधर्मतास्वरूपं निरूपयति व्याप्यस्येति । व्याप्यो नाम व्याध्याश्रयः स च धूमादिरेव तस्य पर्वतादि निरूपितवृत्तित्वं पक्षधर्मतेत्यर्थः । इति पक्षधर्मता । अथ कथमनुमानमनुमितिकरणं कथं वा तस्मादनुमितेर्जनिरिति जिज्ञासायां लाघवादनु- मानमुखेनैव बोधयितुमनुमानं विभजते अनुमानमिति । द्वैविध्यं दर्शयति स्वार्थं परार्थं चेति । स्वस्यार्थः प्रयोजनं यस्मात्तत्स्वार्थमिति समासः स्वप्रयोजनं च स्वस्या- नुमेयपदार्थप्रतिपत्तिः एवं पक्षार्थमित्यस्यापि इदमेव तात्पर्य मनसि निधाय स्वार्थानुमानं लक्षयति स्वार्थमिति । तदेवोपपादयितुं भूमिकां रचयति तथेति । भूयोदर्शनेने- ति । धूमायोर्व्याप्तिग्रहे साध्यसाधनयोर्भूयः सहचारदर्शनेने- त्यर्थः । नतु पार्थिवत्वलो हलेख्यत्वादौ शतशः सहचारज्ञानेऽपि वज्रादौ व्यभिचारोपलम्भेन कथमिदं व्याप्तिग्राहकमिति चेन, सहचारज्ञानपदेन व्यभिचारज्ञानविरहसहकृत संहचारज्ञानस्यै- वाभिमतत्वात् । व्यभिचारज्ञानं द्विविधम् यथार्थमयथार्थं च । तदपि द्विविधम्। निश्चयः शङ्का च तद्विरहः कचित्तर्कात् यथा धूमवहचोर्व्याप्तिग्रहे धूमो वह्निव्यभिचारी न वेति शङ्कायां धूमो वह्निव्यभिचारीति निश्चये वा यदि धूमो वह्निव्यभिचारी स्यातर्हि वह्निजन्यो न स्यादिति धूमवह्नयोः कार्य्यकारणभाव- भङ्गसङ्गरूपतर्को यदि भवति तदैतस्मादेव तर्काव्यभिचारज्ञानं निवर्त्तते अतस्तत्र तर्कादेव व्यभिचारज्ञानविरहः क्वचित्स्वतः- सिद्ध एव यथा यदा न धूमे व्यभिचारज्ञानं तदा यत्र धूमस्त- त्राग्निरितिधूमत्वावच्छिन्नोऽग्नित्वावच्छिन्नव्याप्य इत्यर्थः । अथ दे- शान्तरीयवद्विधूमानामिन्द्रियसन्निकर्षासम्भवेन कथं धूमसामान्ये

[[७२]]

वह्निसामान्यव्याप्तिग्रह इति चेन्न, धूमत्ववह्नित्वरूप सामान्यल- क्षणप्रत्यासत्यैव सकलधूमवह्निज्ञानसम्भवेन तत्र व्याप्तिग्रहस्यापि सम्भवात्। महानसादाविति । महानसाद्यवच्छेदेन धूम इत्यर्थः। तद्गते च पर्वतगते च चशब्दो वाक्यालङ्कारे । ननु परामर्श प्रति व्याप्तिज्ञानस्य कारणत्वेन तत्पूर्वक्षणे पर्वतादौ महानसाधव- च्छेदेन गृहीतव्याप्तेः कथं ज्ञानमत आह व्याप्तिं स्मरतीति । तथाच धूमदर्शन रूपोद्बोधकवशाव्याप्तिस्मरणं भवत्येव । तदन- न्तरमिति । व्याप्तिस्मरणोत्तरक्षणे इत्यर्थः । अयमेव लिङ्गपरामर्श इत्युच्यते । अयमिति । व्याप्तिबलेन लीनमर्थं गमयतीति लिङ्गम् । तच्च धूमादिस्तस्य परामर्शो ज्ञानविशेष इत्यर्थः । तस्मादिति लिङ्ग परामर्शादित्यर्थः । इतिस्वार्थानुमानम्। क्रमप्राप्तं परार्था यत्तु स्वयं धूमादग्निमनुमाय परम्प्रतिबोध- यितुं पञ्चावयववाक्यं प्रयुङ्क्ते तत्परार्थानु- मानम् । यथा पर्वतो वह्निमान् धूमवत्त्वात् यो यो धूमवान् स स वह्निमान् यथा महा- नसः तथाचायं तस्मात्तथेति । अनेन प्रति- पादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते ।

नुमानं निरूपयति यत्त्विति । यत्पञ्चावयववाक्यं तत्परार्थानु मानमिति सम्बन्धः । अथावयवत्वं नाम द्रव्यसमवायिकारणत्वं प्रतिज्ञादिषु तदभावात्कथमेतेऽवयवाः स्युरिति चेदनुमानवा- क्यैकदेशत्वादवयवा इवावयवा इत्युपचर्यत इति गृहाण । नन्वे- वमपि पञ्चावयववाक्यस्यानुमानत्वमेव न विचारसहं तस्य लिङ्ग- परामर्शत्वाभावादिति चेन्मैवम्, लिङ्गपरामर्शप्रयोजकं लिङ्गमति-तर्कसङ्ग्रहटीका.

[[७३]]

पादकत्वेनानुमानमित्युपचारात् तदुदाहरति यथेति । तथाचा- यमिति।अयं च पर्वतस्तथा वह्निव्याप्यधूमवानित्यर्थः । तस्मा- त्तथेति । वह्निव्याप्यधूमवत्त्वाद्वह्निमानित्यर्थः । अनेनेति । अ- नेन पञ्चावयववाक्येनेत्यर्थः । इति परार्थानुमानम् । ननु प-

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चा- वयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूम- वत्वादिति हेतुः । यो यो धूमवान् सोऽमि -

मान् यथा महानस इत्युदाहरणम् । तथाचा- यमित्युपनयः । तस्मात्तथेति निगमनम् । स्वार्थानुमिति परार्थानुमित्योर्लिङ्गपरामर्श एव कारणं तस्माल्लिङ्गपरमर्शोऽनुमानम् ।

शिवचरणगिरिका पुस्तक

ञ्चावयववाक्यमित्यत्र के ते पञ्चावयवा अतस्तान्दर्शयति प्रति- ज्ञेति । प्रतिज्ञाद्यन्यतमत्वमवयवत्वम् । साध्यविशिष्टपक्षबोधकव- चनं प्रतिज्ञा । पञ्चम्यन्तं तृतीयान्तं वा लिङ्गवचनं हेतुः । व्याप्तिप्रति- पादकं दृष्टान्तवचनमुदाहरणम् । उदाहृतव्याप्तिविशिष्टत्वेन हेतोः पक्षधर्मताप्रतिपादकं वचनमुपनयः । पक्षे साध्यस्यावाधितत्वम- तिपादकं वचनं निगमनम् । इदमेव लक्षणं हृदि निधाय प्रतिज्ञा- दीन् विशिष्य दर्शयति पर्वतोऽग्निमानिति । इत्यवयवाग्र- न्थः । ज्ञायमानं लिङ्गमनुमितिकरणमिति वृद्धोक्तं न युक्तम्, इयं यज्ञशाला वह्निमत्यतीतधूमादित्यादौ लिङ्गाभावेऽप्यनुमितिद- “र्शनादित्यभिप्राय वाल्ँलिङ्गपरामर्श एव करणमिति व्याचष्टे लिङ्ग- परामर्श एवेति । अनुमानमुपसंहरति तस्मादिति । अनु-

[[७४]]

मितिकरणत्वादित्यर्थः । अयमेव तृतीयज्ञानमित्युच्यते । तथाहि । महानसादौ धूमाग्न्योर्व्याप्तौ गृह्यमाणायां यहूमज्ञानं तदादि मं पक्षे यद्धमज्ञानं तद्वितीयम् । अत्रैव वह्निव्याप्यत्वेन यद्धूम- ज्ञानं तत्तृतीयम् । इदमेव लिङ्गपरामर्श इत्युच्यते । मीमांसकास्तु धूमवान् पर्वत इति पक्षधर्मताज्ञानमथ च वह्निव्याप्यो, धूम - इति व्याप्तिस्मरणमेतदुभयमेवानुमितिकरणं न तु लिङ्गपरामर्शोपि गौरवादित्याहुस्तन्न, द्रव्यवान् पर्वतो धूमो वह्निव्याप्य इति ज्ञा- नद्वयादनुमित्यापत्तेः द्रव्यत्वेन रूपेण धूमस्यैव भानात् । ननु पत्र व्याप्यतावच्छेदकरूपेणैव हेतोः पक्षवृत्तिलज्ञानं विवक्षितमिति मा वद व्याप्यतावच्छेदकाननुसन्धानेऽपि वह्निव्याप्यवान्पर्वत इति शब्दजन्यशाब्दपरामर्शादनुमित्यनुपपत्तेः। व्यापारवत्कार- व णं करणमिति मते व्याप्तिज्ञानमेवानुमानं लिङ्गपरामर्शो व्यापार तिः

इत्यवसेयम् । इत्यनुमानोपसंहारः । लिङ्गं विभजते लिङ्गमिति । लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवला- न्ययि केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि यथा वह्नौ साध्ये धूमवत्त्वं यत्र धूमस्तत्रा- निर्यथा महानस इत्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महा- ह्रद इति व्यतिरेकव्याप्तिः ।

ע

अन्वयव्यतिरेकिणो लक्षणमाह अन्वयेनेति । तृतीयायाः प्रयो- ज्यत्त्रमर्थः साध्यसाधनयोः साहचर्यमन्वयः तदभावयोः साह- चर्य व्यतिरेकः तथाचान्वयप्रयोज्यव्याप्तिमद्व्यतिरेकप्रयोज्यव्या-

[[७५]]

प्तिमदन्वयव्यतिरेकीत्यर्थः । उदाहरति यथेति । धूमवत्त्वमिति धूमवत्त्वात्मकं लिङ्गमित्यर्थः । ननु कथमत्रान्वयव्याप्तिर्व्यतिरेक- व्याप्तिश्च अतस्तां क्रमेणाभिनयति यत्रेति । तथाचान्वयव्याप्ति- स्तूपदर्शितैव व्यतिरेकव्याप्तिश्च साध्याभावव्यापकीभूताभावप्र- तियोगित्वमित्यवसेयमिति भावः । केचित्तु । साध्याभावसाधना- भावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः । अन्यनिष्ठव्याप्त्या कथं साधना- दनुमितिरितिचेत् साध्याभावव्यापकीभूताभावप्रतियोगित्वेन साधनस्य पक्षवृत्तित्वज्ञानं सहकारि । तदुक्तम्

व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥

अन्वये साधकं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोऽन्यथाव्याप्यो व्यापकः साधनात्ययः ॥ इत्याहुः । अन्वयदृष्टान्तस्य स्फुटतरत्वाद् व्यतिरेकदृष्टान्तं दर्शयति येथेति । यद्यप्यन्वयव्याप्तेः प्राग्दर्शितत्वात्पुनस्तदर्श- नमनुचितं तथापि तदानीं तस्यास्तत्त्वेनाप्रदर्शितवान्न दोषः । अन्वयमात्रव्याप्तिकं केवलान्वयि यथा घटोऽभिधेयः प्रमेयत्वात् अत्र प्रमेयत्वाभि- धेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति सर्वस्य प्रमेयत्वादभिधेयत्वाच्च । व्यतिरेकमात्रव्या- प्तिकं केवलव्यतिरेकि यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वाद् । यदितरेभ्यो न भिद्यते इत्यन्वयव्यतिरेकिग्रन्थः । केवलान्वयिनो लक्षणमाह अ- न्वयेति । अन्वयेनैव व्याप्तिर्यस्मिन्स तथेति उदाहरति य- थेति । प्रमेयखाभिधेयत्वयोर्व्यतिरेकव्याप्तिं निराकरोति अभि

[[७६]]

का

वेयल साधनानुमाने इत्यर्थः । ननु कुतस्तन्निषेधोऽतस्तत्र हेतु- माह सर्वस्येति । पदार्थमात्रस्येत्यर्थः । तथा च सकलपदार्थाभि- वेयत्वस्येश्वरप्रमाविषयत्वस्य चात्यन्ताभावाप्रतियोगित्वरूपके- वलान्वयित्वेन तदभावाप्रसिध्या तद्घटितव्यतिरेकव्याप्तिर्न सम्भ- वत्येवेति भावः । इति केवलान्वयिग्रन्थः । केवलव्यतिरेकिणो न तद्गन्धवत् यथा जलम् । नचेयं तथा त- स्मान्न तथेति । अत्र यद्गन्धवत्तदितरभिन्न- मित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ।

लक्षणमाह केवलव्यतिरेकीति । पूर्ववत्समासः । उदाहरति य- थेति । नचेयं तथेति । इयं पृथिवी न तथा न गन्धाभाववतीत्य- र्थः । तस्मान्नतथेति । गन्धाभाववत्त्वाभावादितर भेदाभाववती नेत्यर्थः । नन्वत्र किमिति नान्वयव्याप्तिरित्याशङ्क्य परिहरति अत्रेति । इतरभेदसाधकानुमाने इत्यर्थः । इदमुपलक्षणं जीवच्छ- रीरं सात्मकं प्राणादिमत्त्वात् यन्नैवं तन्नैवं यथा घटः प्रत्यक्षादिकं प्रमाणमिति व्यवहर्त्तव्यं प्रमाकरणत्वात् यन्नैवं तन्नैवं यथा प्रत्य- क्षाभासः विवादास्पदमाकाशमितिव्यवहर्त्तव्यं शब्दवच्चादि- त्यादिकमपि केवलव्यतिरेकीति द्रष्टव्यम् । अथेतरभेदः प्रसिद्धो न वा । नाद्यः यत्र प्रसिद्धस्तत्र गन्धवत्त्वस्यापि सच्चे कृतोऽथम- स्मच्छिरसि क्षीराभिषेकः तदधिकरणस्यैवान्वयदृष्टान्तत्वेन के - वलव्यतिरेकिखव्याघातात् यदि तत्र नास्ति गन्धवत्त्वं तदा तस्यासाधारणत्वापत्तिः । न द्वितीयः विशिष्टबुद्ध विशेषणज्ञा- नस्य हेतुत्वेन पृथिवीतरभेदवतीति साध्यविशिष्टानुमित्यनुत्पत्तेः विशेषणी भूतेतर भेदस्याप्रसिद्ध्या तज्ज्ञानस्याप्यप्रसिद्धेः । नच

[[७७]]

“केवलमिदमेव दूषणं, व्यतिरेकव्याप्तिज्ञानस्याप्यसम्भवेन दूष- णान्तरस्यापि जागरूकत्वात् । कथं तदसम्भव इति चेन्न, तज्जनके- तरभेदाभावज्ञानस्यायोगात् । स एव कुत इति चेन्न, तादृशका- रणीभूतेतर भेदज्ञानाप्रसिद्धेः । नच वक्तव्यं कथं तत्तत्र कारण- मिति ‘अभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वादिति मावह गर्वम् । जलभेदस्य तेजसि तेजोभेदस्य जले इति रीत्येतरभे- दस्य प्रत्येकाधिकरणप्रसिद्ध्या पृथिव्यां तत्पटलस्य साधनी- यतया तद्विशिष्टानुमितिसम्भवात्सुतरां व्यतिरेकव्याप्तिज्ञान- मपि सम्भवति इतरभेदपटलस्य पक्षातिरिक्तेऽप्रसिद्धत्वेन ना- न्वयदृष्टान्तश्च । अत एव नासाधारण्यमपीति कृतं पल्लवितेन । अत्रेदं बोध्यम्, अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं तानि का- नीतिचेच्छ्रयताम् । पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्व्यावृत्तिर- बाधितविषयत्वमसत्प्रतिपक्षलं चेति । अबाधितः साध्यरूपवि- षयो यस्य तत्तथा तस्य भावस्तत्त्वं साध्याभावसाधकं हेलन्तरं सत्प्रतिपक्ष इत्युच्यते । स एव नास्ति यस्य सोऽसत्प्रतिपक्ष- स्तस्य भावस्तत्त्वमिति बोध्यम् । केवलान्वयि तु चतूरूपो- पपन्नमेव । स्वसाध्यं साधयितुं क्षमते तस्य विपक्षविपर्ययेण तद्व्यावृत्तिविपर्ययात् केवलव्यतिरेक्यपि तथा । तस्य सपक्षवि- पर्ययेण तत्सच्चविपर्ययादिति । इति केवलव्यतिरेकिग्रन्थः । अत्र पृथिवीमात्रस्य पक्षत्वादित्यत्र का नाम पक्षता अतस्तां निर्वक्ति सन्दिग्धसाध्यवान्पक्षः यथा धूमवत्त्वे हेतौ पर्वतः । निश्चितसाध्यवान् सपक्षः यथा तत्रैव महानसः । निश्चितसाध्याभाववान् विपक्षः यथा तत्रैव महाइदः ।

[[७८]]

सन्दिग्धेति । अथ यत्र घनगर्जितेन मेघानुमितिस्तत्राच्या- सिर्वह्निमत्यक्ष कालीन वह्नयनुमितिर्मे जायतामित्यनुमित्साज- न्यानुमितिस्थले च तत्र सन्दिग्धसाध्यस्याभावादिति चेन्न, एतन्मते तत्रानुमितेर स्वीकारात् । तदुक्तं नानुपलब्धेन नि- णीन्तेऽर्थे न्यायः प्रवर्त्तते अपि तु सन्दिग्धार्थ एवेति । अथवा सिषाधयिषाविरहविशिष्टसिद्ध्यभावः पक्षता । साधयितुमिच्छा सिषाधयिषा तस्या विरहोऽभावस्तद्विशिष्टा या सिद्धिः सा- ध्यनिश्चयस्तदभाव एव पक्षतेति तदर्थः । अस्ति च वह्नयनुमिति- प्राक्क्षणे पर्वते तदानीं सिषाधयिषायाः सिद्धेवाभावात् अभावमात्रं न पक्षता पर्वते वह्निमनुमिनुयामिति सिषाधयि- षाशून्यकाले सिद्धिसत्त्वेऽप्यनुमित्यापत्तेः तदानीं यत्किञ्चि- दभावस्य सत्त्वात् । अस्तु च सिद्ध्यभाव एव नेति चेत् पर्वते व- हयनुमितिर्मे भूयादितीच्छाकाले सिद्धिसत्वेऽप्यनुमितिर्जायते सा न स्यात् तदानीं सिद्ध्यभावाभावात् । अतः सिषाधयि- षाविरहविशिष्टत्वं सिद्धावावश्यकम् । तथाचानुमितौ सिषाधयि- षोत्तेजिका तद्विरहविशिष्टसिद्धिरेव प्रतिबन्धिका तदभाव एव कारणमिति फलितमिति दिक् । इति पक्षताग्रन्थः । प्रसङ्गा- त्सपक्षविपक्षौ क्रमेण निरूपयति निश्चितेति। तत्रैवेति । धूम- वच्त्वे हेतावेवेत्यर्थः । एवमग्रेऽपि । इति सपक्षविपक्षनिरूपणम् । सव्यभिचारविरुद्ध सत्प्रतिपक्षासिद्धबाधिताः पञ्चहेत्वाभासाः। सव्यभिचारोऽनैकान्तिकः । स त्रिविधः। साधारणासाधारणानुपसंहारि- भेदात् । तत्र साध्याभाववद्वृत्तिः साधारणोऽ नैकान्तिकः यथा पर्वतो वह्निमान् प्रमेय-

C

त्वादिति प्रमेयत्वस्य वयभाववति हदे विद्यमानत्वात् । सर्वसपक्षविपक्षव्यावृ-

तोऽसाधारणः यथा शब्दो नित्यः शब्द-

[[७९]]

त्वादिति शब्दत्वं सर्वेभ्यो नित्येभ्योऽनित्ये- भ्यश्र व्यावृत्तं शब्दमात्रवृत्ति । अन्वयव्य- तिरेकदृष्टान्तरहितोऽनुपसंहारी यथा सर्व- मनित्यं प्रमेयत्वादिति अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तों नास्ति ।

हेतून्निरूप्य प्रसङ्गाद्धेलाभासान्निरूपयति सव्यभिचारेति । उपदर्शितरूपाणां मध्ये कतिपय रूपोपपन्नत्वाद्धेतुवदाभासं ते इति हेत्वाभासाः। तत्त्वं चानुमितितत्करणान्यतरमतिबन्धकयथार्थ- ज्ञानविषयत्वम् । बाधस्थले वह्निरनुष्ण इत्यनुमितिप्रतिबन्धकं यज्ज्ञानमुष्णखवद्वद्वावनुष्णत्वसाधकं द्रव्यत्वमित्याकारकं तद्वि- षयत्वस्य द्रव्यत्वरूपहेत्त्वाभासे सत्त्वाल्लक्षणसमन्वयः। इत्थमसा- धारणविरुद्ध सत्प्रतिपक्षज्ञानस्यापि साक्षादनुमितिप्रतिबन्धकलं बोध्यम् । बाधश्च साध्याभावस्तद्विशिष्टः पक्षो वा वह्निमान्प्रमेय- त्वादित्यादौ व्यभिचारिणि पर्वतो वह्निमानित्याद्यनुमितिक- रणम् वह्निव्याप्यं प्रमेयत्वमित्यादिज्ञानं तत्प्रतिबन्धकलं च वह्नयभाववद्वृत्तिप्रमेयत्वमित्यादिज्ञाने तद्विषयत्वस्य प्रमेयत्वा- दौ सत्वाल्लक्षणसमन्वयः। इत्थमनुपसंहारिप्रभृतिज्ञानानामनुमि- तिकरणप्रतिबन्धकत्वं बोध्यम् । बाधभ्रममादाय सद्धेतुवारणाय यथार्थेतीति दिक् । इति हेत्वाभाससामान्यनिरूपणम् । बाला- न्बोधयितुं प्राचीन सङ्केतमपि दर्शयति अनेकान्तिक इति । उ-

[[८०]]

च्यते इति शेषः । तत्त्वं च साधारणाद्यन्यतमत्वम् । विभजते स- त्रिविध इति । साधारणं लक्षयति तत्रेति । साधारणादित्रि- तयमध्य इत्यर्थः । उदाहरति यथेति । ननु प्रमेयत्वस्य कथं सा- ध्याभाववद्वृत्तित्वम् । तदुपपादयति प्रमेयत्वस्येति । अथ वि- रुद्धेऽतिप्रसक्तिरिति तन्न सपक्षवृत्तित्वस्यापि निवेशात् । अथैवम- पि स्वरूपासिद्धेर्दृपणं जागतति मा वह गर्वम् पक्षवृत्तित्वस्यापि तथात्वात् । असाधारणं लक्षयति सर्वेति । सर्वे ये सपक्षवि - पक्षास्तेभ्यो व्यावर्त्तते निवर्त्तत इति व्यावृत्त उदाहरति य- थेति । उपपादयति शब्दत्वंहीति । नित्येभ्य इति आकाशा- दिभ्य इत्यर्थः। अनित्येभ्य इति घटपटादिभ्य इत्यर्थः । अत्रा- काशादिः सपक्षो घटादिर्विपक्ष इति बोध्यम् । अनुपसंहारिणं लक्षयति अत्रेति । उपदर्शितानुमाने इत्यर्थः । इति व्यभि- साध्याभावव्याप्यो हेतुर्विरुद्धः यथा शब्दो नित्यः कृतकत्वादिति कृतकत्वं हि नि- त्यत्वाभावेनानित्यत्वेन व्याप्तम् । साध्या- भावसाधकं हेत्वन्तरं यस्य स सत्प्र- तिपक्षः यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववदिति । शब्दोऽनित्यः कार्यत्वात्

चारनिरूपणम् । विरुद्धं लक्षयति साध्येति । कृतकत्वादि- ति। कार्यत्वादित्यर्थः। अनित्यत्वेन व्याप्तमिति । यद्यत्कृतकं तत्तदनित्यमिति । व्याप्तिर्भवत्येवेति भावः । इति विरुद्ध नि० । सत्प्रतिपक्षं लक्षयति यस्येति । यस्य हेतोः साध्याभावसाधकं साध्याभावानुमापकं हेलन्तरं प्रतिपक्षो हेतुर्विद्यते स हेतुः

[[८१]]

सत्प्रतिपक्ष इत्यर्थः। अयमेव प्रकरणसम इत्युच्यते । इति सत्प्रति- घटवदिति । असिद्धस्त्रिविधः । आश्रयासि- द्धः स्वरूपासिद्धो व्याप्यत्वासिद्धश्रेति । आश्रयासिद्धो यथा गगनारविन्दं सु- रभि अरविन्दत्वात् सरोजारविन्दवत् अत्र गगनारविन्दमाश्रयः स च नास्त्येव । स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुष- त्वात् अत्र चाक्षुषत्वं शब्दे नास्ति श ब्दस्य श्रावणत्वात् ।

पक्षनि० । असिद्धं विभजते असिद्ध इति । आश्रयासिद्धाद्य- न्यतमत्वमसिद्धत्वम् । त्रैविध्यं दर्शयति आश्रयासिद्ध इति । आश्रयासिद्धत्वं च पक्षतावच्छेदकाभावकत्वम् । भवति हि अरविन्दं गगनीयत्वरूपपक्षतावच्छेदकाभावकम् । अरविन्दरू- पपक्षे गगनीयत्वस्य विरहात् । आश्रयासिद्धमुदाहरति यथेति । ननु कथमरविन्दे गगनीयखविरहः अत आह अत्रेति । उपदर्शि- तानुमाने इत्यर्थः । स्वरूपासिद्धमुदाहरति स्वरूपासिद्धेति । पक्षावृत्तित्वं स्वरूपासिद्धत्वमिदमेव लक्षणं मनसि निधायो- पपादयति अत्रेति । उक्तानुमाने इत्यर्थः । तथा चाक्षुषलं शब्दे नास्तीत्यनेन चाक्षुषले पक्षावृत्तित्रमर्यादायातमिति भावः । अ- थ शब्दे कुतो न चाक्षुपत्त्रमत आह शब्दस्येति । सोऽयं स्वरू- पासिद्धः शुद्धासिद्धभागासिद्धविशेषणासिद्धविशेष्यासिद्धभे- देन बहुविधः । तत्राद्यस्तूपदर्शित एव । द्वितीयो यथा रूपादि- चतुष्टयं गुणो रूपखात् । अत्र रूपखहेतोः पक्षैकदेशावृत्तिलेन भा-

[[८२]]

गे स्वरूपासिद्धत्वम् । तृतीयो यथा वायुः प्रत्यक्षो रूपवत्त्वें स- ति स्पर्शवत्त्वात् अत्र रूपवत्त्वविशेषणस्य वायाववृत्तेस्तद्विशिष्ट- स्पर्शवत्त्वस्यापि तथालेन तस्य स्वरूपासिद्धलं विशेषणाभावे विशिष्टस्याप्यभावात् । तुरीयो यथा अत्रैव विशेषणविशेष्यवैप- रीत्येन हेतुः तस्य स्वरूपासिद्धत्वं तु विशेष्याभावप्रयुक्तविशि- ष्टाभावादिति बोध्यम् ।

सोपाधिको हेतुर्व्याप्यत्वासिद्धः । साध्य- व्यापकत्वे सति साधनाव्यापक उपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगि-

त्वं साध्यव्यापकत्वम्। साधनवन्निष्ठात्यन्ता- भावप्रतियोगित्वं साधनाव्यापकत्वम् । पर्व- तो धूमवान् वह्निमत्त्वादित्यत्र आर्द्रेन्धन- संयोग उपाधिः । तथाहि । यत्र धूमस्तत्रार्द्रे- न्धनसंयोग इति साध्यव्यापकता ।

व्याप्यत्वासिद्धं निरूपयति सोपाधिक इति। ननु कोऽयमुपा- धिरत आह साध्येति । ननु किन्तहिं साध्यव्यापकत्वं साधनाव्याप कलं च । अतस्तत्क्रमेण दर्शयति साध्येति। लक्ष्ये लक्षणं योजय- ति यत्रेति । उपाधिभेदमादायासम्भववारणाय व्यापकत्वशरीरे- ऽत्यन्तपदम्। साधनभेदमादाय साधनस्योपाधितवारणाय व्या- पकत्वशरीरेऽत्यन्तपदमावश्यकम्। उपाधिमुपसंहरति एवमिति । उक्तरीत्येत्यर्थः । सोऽयमुपाधिस्त्रिविधः । केवलंसाध्यव्यापकः पक्षधर्मावच्छिन्नसाध्यव्यापकः साधनावच्छिन्नसाध्यव्यापकश्चेति । तत्राद्यस्तूपदर्शित एव ऋत्वन्तर्वर्तिनी हिंसाऽधर्मसाधनं हिंसातर्कसङ्ग्रहटीका.

[[८३]]

त्वात्क्रतुबाह्यहिंसावदित्यत्र निषिद्धत्वमुपाधिः तस्य यत्राधर्म- साधनत्वं तत्र निषिद्धत्वमिति साध्यव्यापकता यत्र हिंसात्वं तत्र न निषिद्धत्वमिति साधनाव्यापकता च क्रतुहिंसायां निषिद्धत्वस्याभावात् । न हिंस्यात्सर्वाभूतानि इति सामान्य- वाक्यतः पशुना यजेतेत्यादिविशेषवाक्यस्य बलीयस्त्वात् । अत एव हिंसात्वं नाधर्मसाधनत्वे प्रयोजकमपि तु निषिद्धत्वमेवेत्या- दिकमपि द्रष्टव्यम् । द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शा- श्रयत्वादित्यत्रोद्भूतरूपवत्त्वमुपाधिः । तस्य यत्र प्रत्यक्षत्वं तत्रो- द्भूतरूपवत्त्वमिति न केवलसाध्यव्यापकत्वं रूपे व्यभिचारात् किन्तु द्रव्यवलक्षणो यः पक्षधर्मस्तदवच्छिन्नवहिः प्रत्यक्षत्वं य- त्र तत्रोद्भूतरूपवत्त्वमिति पक्षधर्मावछिन्नसाध्यव्यापकत्वमेव। आ- त्मनि व्यभिचारणाय वहिः पदम् । यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र नोद्भूतरूपवत्त्वमिति साधनाव्यापकत्वं च वायावुद्भूतरूपवत्त्व- स्य विरहात्। तृतीयो यथात्रागभावोऽपि विनाशीजन्यत्वादित्यत्र यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति अ- योगोलके आर्द्रेन्धनसंयोगाभावादिति सा- धनाव्यापकता एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः ।

भावत्वमुपाधिः । तस्य यत्र विनाशित्वं तत्र भावत्खमिति न के- वळसाध्यव्यापकत्वमस्ति प्रागभावे भावत्वविरहात् किं तु ज- न्यत्वरूपसाधनावच्छिन्नविनाशित्वं यत्र तत्र भावत्वमिति सा- धनावछिन्नसाध्यव्यापकत्वमेवास्ति यत्र जन्यत्वं तत्र न भाव- त्वमिति साधनाव्यापकत्वं च ध्वंसे भावत्रविरहात् एवं स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वमुपाधिः श्याम-

[[८४]]

त्वस्य नीलघटेऽपि सत्वान्न केवलसाध्यव्यापकत्वं किं साधनावच्छिन्नसाध्यव्यापकत्वमेव अष्टमपुत्रे शाकपाकजत्ववि- रहेण साधनाव्यापकत्वं चेत्यादिकमपि द्रष्टव्यम् । अथ वह्निमा- न् धूमादित्यत्र महानसत्वाभावोऽप्युपाधिः स्यात् तस्य म- हानसान्यत्वलक्षणपक्षधमार्वच्छिन्नसाध्यव्यापकत्वादिति चेन्न, पक्षधर्मेत्यत्र पक्षदृष्टान्तोभयसाधारणधर्मस्यैव विवक्षितत्वात् । अ- थ तर्हि गतमुपाधिलक्षणमिदमितिचेन्न, निरवच्छिन्नसाध्यपक्षदृ- ष्टान्तोभयसाधारणधर्मसाधनान्यतरावच्छिन्नसाध्यान्यतरव्याप कत्वे सति साधनाव्यापक उपाधिरिति तस्य परिष्करणीयत्वात् । इदं च लक्षणमाचार्याणामेवाभिमतम् लक्षणान्तरं तु ग्रन्थान्तरे द्रष्टव्यम् । इत्युपाधिः । नन्वेवं तावतोपाधिरवगतः किं तर्हि व्या- प्यत्वासिद्धमत आह वह्निमत्त्वमिति । तस्य व्याप्यत्वासिद्ध- सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम् । यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः यथा वह्निरनुष्णो द्रव्यत्वादि- ति अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति बाधितत्वम् । व्याख्यातमनुमानम्। उपमितिकरणमुपमा- नम् । सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानमुपमितिः तत्क रणं सादृश्यज्ञानम्

त्वे हेतुमाह सोपाधिकत्वादिति । इत्थमुपदर्शितहेतवोऽपि द्रष्टव्याः । इत्यसिद्धनि० । बाधितं लक्षयति यस्येति । अयमेव का लात्ययापदिष्ठ इत्युच्यते । स्पर्शनेनेति लगिन्द्रियेणेत्यर्थः । एवं

[[८५]]

घटः क्षणिकः सत्त्वादित्यादिरपि बाधितः तत्र सोऽयं घट इतिप्रत्यभिज्ञानरूपप्रत्यक्षेण क्षणिकत्वलक्षणसाध्याभावस्य प- रिच्छिन्नत्वात् । इतिबाधितः । दुष्टलक्षणमपि हेत्वाभास एव यथातिप्रसक्तलक्षणं व्याप्यत्वासिद्धेऽन्तर्भवति अत्र साधार- णधर्ष एवोपाधिः । अव्याप्तलक्षणं तु भागासिद्धेऽन्तर्भवति । अ- सम्भवग्रस्तलक्षणं तु स्वरूपासिद्धेऽन्तर्भवति । सिद्धसाधनं त्वा श्रयासिद्धेऽन्तर्भवति । सन्दिग्धसाध्यवत एवाश्रयत्वात् नव्यास्तु सिद्धसाधनं निग्रहस्थानेऽन्तर्भवतीतिवदन्ति । इतितर्कसङ्ग्र- हव्याख्यानेऽनुमानपरिच्छेदः । अवसरसङ्गतिमभिप्रेत्या- नुमानानन्तरमुपमानं निरूपयति उपमितीति । उपमितेः करणमु- पमानमित्यर्थः। तच्च सादृश्यज्ञानमिति निवेदयिष्यति । ननूपमि - तिरेव केत्यत आह सञ्ज्ञेति । सञ्ज्ञा च पदं सञ्ज्ञीचार्थस्तयोः सं- बन्धो वाच्यत्वं तत्तत्प्रकारकोऽयं गवयपदवाच्य इति ज्ञानमुप- मितिरित्यर्थः । उपमितित्वं चोपमिनोमीत्यनुभवसिद्धो जाति- विशेषः । ननूपमितिकरणमुपमानमित्युक्तं किं तदत आह त- त्करणं सादृश्यज्ञानमिति सादृश्यप्रकारकज्ञानमित्यर्थः । उ- पमितिकरणत्वं तस्य तस्य प्रतिपादयितुं प्रतिजानीते तथाही ति वाक्यार्थ स्मरन् गोसदृशं पश्यतीति गोसदृशं पश्यन्नतिदेश- वाक्यार्थ स्मरतीत्यर्थः । अयं गवयपदवाच्य इत्यभिप्रेतगवयो गव- यपदवाच्य इत्यर्थः । तेन गवयान्तरे शक्तिग्रहाभावप्रसङ्ग इति परास्तम् । तथाच गोसादृश्य विशिष्टपिण्डज्ञानं करणमतिदेश- वाक्यार्थस्मरणं व्यापार उपमितिः फलमिति सारम् । तच्चोप- मानं त्रिविधम् । सादृश्य विशिष्टपिण्डज्ञानमसाधारणधर्मविशिष्ट- पिण्डज्ञानं वैधर्म्यविशिष्टपिण्डज्ञानं च । तत्राद्यमुक्तमेव । द्वितीयं यथा खङ्गमृगः कीदृगिति पृष्ठे नासिकालसदेकशृङ्गोऽतिक्रा-

C

[[८६]]

न्तगजाकृतिश्चेति तज्ज्ञातुभ्यः श्रुत्वा कालान्तरे तादृशपिण्ड

अतिदेशवाक्यार्थस्मरणमवान्तरव्यापारः । तथाहि । गवयशब्दवाच्यमजानन् कुतश्चि- दारण्यक पुरुषाद्गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन गोसदृशपिण्डं पश्यति तदनन्तरं - असौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते । व्याख्यातमुपमानम् । पश्यन्नतिदेशवाक्यार्थं स्मरति तदनन्तरं खड्गः खड्गपदवाच्य इत्युपमितिस्तूत्पद्यते । अत्र नासिकालसदेकशृङ्ग इत्यसाधा- रणधर्मः । तृतीयं यथा उष्ट्रः कीदृगिति पृष्ठेनाश्वादिवत्समानपृ- टोsस्वग्रीवशरीर इत्याप्तोदिते कालान्तरे तत्तत्पिण्डदर्शना- द्वैधर्म्यविशिष्टपिण्डज्ञानं ततोऽतिदेशवाक्यार्थस्मरणं तत उष्ट्रः उष्ट्रपदवाच्य इत्युपमितिरुत्पद्यते इत्याहुः । नन्वाप्तवाक्यजन्य- त्वाच्छाब्दबोध एवास्त्वितिचेन्न, उपमिनोमीत्यनुव्यवसायस्या पलापप्रसङ्गादिति सर्वं रमणीयम् । इति तर्कसङ्ग्रहव्याख्या- ने उपमानपरिच्छेदः । अवसर सङ्गतिमभिप्रेत्योपमानानन्तरं आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वा- क्यं पदसमूहः । यथा गामानयेति शक्तं पदम् । अस्मात्पदादयमर्थो बोद्धव्य इति ईश्वरे- च्छासङ्केतः शक्तिः ।

निरूपयति आप्तेति । शब्देति शब्दप्रमाणमित्यर्थः । भ्रान्तवि- प्रलम्भकयोर्वाक्यस्य शब्दममाणत्ववारणायाप्तेति । ननु कोऽय-

[[612]]

माप्तोऽत आह आप्तस्त्विति । यथाभूताबाधितार्थोपदेष्टा । ननु वाक्यं किमत आह वाक्यमिति पदं लक्षयति शक्तमिति निरूपकतासम्बन्धेन शक्तिविशिष्टमित्यर्थः । इति पदसामा- न्यनि० ननु शक्तिरेव केत्यत आह अस्मात्पदादिति घटपदाद्घटपदार्थो बोद्धव्य इतीश्वरेच्चैव शक्तिरित्यर्थः । अर्थ- स्मृत्यनुकूलपदपदार्थसम्बन्धत्वं शक्तित्वम् । सा च पदार्थान्तर- मेवेति मीमांसकास्तन्न मानाभावात् । आधुनिके नाम्नि एका- दशेऽह्नि पिता नाम कुर्यादितीश्वरेच्छास्त्येव । नव्यास्तु । आधुनिकसङ्केतितडित्थादिपदे ईश्वरेच्छाया अभावादिच्छैव शक्तिरिति भणन्ति । शक्तिग्रहश्च वृद्धव्यवहाराद्भवति यथो- तमवृद्धेन घटमानयेति वाक्ये प्रयुक्ते मध्यमवृद्धो घटमानयति तदवलोक्य व्युत्पित्सुर्बालोऽन्वयव्यतिरेकाभ्यां घटमानयेति वाक्यजन्यत्वं मध्यमप्रवृत्तिजनकज्ञाने निश्चिनोति ततो गामा- नय घटं नयेति वाक्यान्तरं शृण्वन्नावापोद्वापाभ्यां घटपद- स्य घटत्वविशिष्टे शक्तिः गोपदस्य गोलविशिष्टे शक्तिरिति गृह्यते। एवमसति बाधके धातुप्रत्ययादीनां शक्तिग्रहो व्याकर- णाद्भवति कचिदुपमानादपि तदुक्तम् ।

“शक्तिग्रहो व्याकरणोपमान- कोशाप्तवाक्यात् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति

सान्निध्यतः सिद्धपदस्य वृद्धाः” इति । यवमयश्चरुर्भवतीत्यत्र यवपदस्य दीर्घशुकविशेषे

• वसन्ते सर्वसस्यानां जायते यत्र शातनम् । मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ॥

इति वाक्यशेषाच्छक्तिरवधार्यते । हस्ती घूर्णतीत्यस्य

[[८८]]

रास्तु

A

गजो घूर्णतीति विवरणेन हस्तिपदस्य गजे शक्तिग्रहः । विवरणं च समानार्थबोधकपदान्तरेण तदर्थकथनमिदमेव विवृत्तिरित्युच्यते इह विकचसरोरुहे भ्रमर इत्यादौ प्रसिद्धपदसान्निध्याद्धमरे शक्तिग्रहः । शेषं सुगमम् । नव्या- स्तु गवादिपदानां व्यक्तावेव शक्तिर्नतु जातावपि गौ- रवादिति मेनिरे । मीमांसकास्तु विशेषणत्वेन गोत्वा- देरेव प्रथममुपस्थितत्वाद्गवादिपदानां गोत्वादावेव शक्तिः व्यक्तिलाभस्तु गोत्वं ह्याश्रयं विनानुपपन्नमित्याक्षेपादित्याहुः । तदसत् । विनाप्याक्षेपं गौचरतीत्यनेन व्यक्तिप्रतीतेः । प्राभाक- गवादिशब्दानामानयनादिरूपकार्यान्विते गवादौ शक्तिः सर्वत्र कार्यवाक्यादेव व्युत्पत्तेः - भूतले घट इत्यादिसिद्धवा- क्यं तु न व्युत्पत्तिरित्याहुः। तदसत्। इह कोऽयं पुर्यां सकलमनो- रथदायिनीं करुणां वेत्ति इति सिद्धवाक्येऽपि पामराणां व्युप- तिदर्शनात् । चैत्रः पचतीत्यादावाख्यानस्य कर्तरि शक्तिरिति वै- याकरणास्तत्र गौरवात् किन्तु कृतावेव । तथा च गवादिशक्तिग्रहे गृहीतशक्तिकगवादिशब्दस्तज्ज्ञानं करणं पदजन्यपदार्थस्मरणं व्यापारः आकाङ्क्षायोग्यतासत्तितात्पर्यज्ञानानि सहकारीणि शाब्दबोधः फलमिति सारम् । इति शब्दशक्तिनि० पदं चतु- र्विधं यौगिकं रूढं योगरूढं यौगिकरूढं च । अवयवशक्तिर्योगः । अवयवमात्रशक्तिकं यौगिकं यथा पाचकादिपदम् समुदायशक्तिः रूढिः समुदायमात्रशक्तिकं रूढं यथा गोपदम् अवयव समुदायोभ- यशक्तिकमेकजातीयार्थप्रतिपादकं योगरूढं यथा पङ्कजादिपदम् अवयवशत्तया पङ्कजत्वेन रूपेण कमलमेव बोधयति । समुदायश- क्त्या च कमलत्वेन रूपेण। अत एव समुदायशक्तिरावश्यकी । यौ- गिकार्थरूढ्यर्थयोः स्वातन्त्र्येण बोधकं यौगिकरूढं यथोद्भिज्जा- दिपदं तच्च योगेन तरुगुल्मादिकं बोधयति रूढ्या उद्भिज्जश्चाध्व-

[[८९]]

रेप्रसिद्धः शक्तिरिव पदस्य लक्षणापि वृत्तिः। इति पदनि० अथ केयं लक्षणा शक्यसम्बन्धो लक्षणा वर्त्तते च गङ्गायां घोष इत्यत्र गङ्गापदशक्यः प्रवाहसम्बन्धस्तीरे लक्षणाबीजं तु तात्पर्यानुपप- त्तिः । अत एव प्रवाहे घोषतात्पर्यानुपपत्तेस्तीरे लक्षणा । तात्पर्य तु वक्तुरिच्छा वक्ता चाभिसन्धाययिता तेन न मौनिवाक्येऽव्या- प्तिः । सा च लक्षणा त्रिधा । जहल्लक्षणा अजहल्लक्षणा जहदजह- लक्षणा चेति । यत्र वाच्यार्थस्य नान्वयः तत्राद्या । यथा गङ्गायां घोषः मञ्चाः क्रोशन्तीत्यादौ । यत्र वाच्यस्यार्थस्याप्यन्वयस्तत्र द्वितीया । यथा छत्रिणो यान्तीत्यादौ अत्र छत्रिणस्तदितरेषाञ्च गमनान्वयः । यत्र वाच्यैकदेश बाधेनैकदेशान्वयस्तत्र तृतीया यथा सोऽयं देवदत्त इत्यादौ । अत्र तद्देशकालविशिष्टस्य बाधः । त त्पुरुषे, राजपुरुष इत्यत्र राजपदस्य राजसम्बन्धिनि लक्षणा । बहु- व्रीहावपि लक्षणा । यथा चित्रगुरित्यत्र गोपदस्य गोस्वामिनि लक्ष- णा चित्रपदं तात्पर्यग्राहकम् । द्वन्द्वे धवखदिरौ छिन्धीत्यत्र धवख- दिरपदयोस्तदर्थे प्रकारतयाभासमान द्विवचनार्थद्वित्वे लक्षणा । कर्मधारये तु नीलोत्पलमित्यादौ न लक्षणा। निषादस्थपतिं याज- येदित्यत्रापि कर्मधारये न लक्षणा वेदबोधितयाजनानुपपत्त्या यागोपयुक्त वेदस्याधिकारकल्पनात् । स्त्रीशूद्रौ नाधीयातामिति वेदस्य निषादातिरिक्तस्त्री शुद्रपरत्वात् तस्य सामान्यवचनत्वात् । दध्यानयेत्यत्र द्वितीयालोपस्थले दधिपदस्य दधिकर्मले लक्षणा घटो न पट इत्यत्राभावार्थकनको घटभिन्ने लक्षणा । घटं जानामी- त्यादावाख्यातस्याश्रये लक्षणा । रथो गच्छतीत्यादावाख्यातस्य व्यापारे लक्षणा । प्रजयतीत्यादौ जयार्थकधातोः प्रकृष्टजये ल- क्षणा । उपसर्गस्तु तात्पर्यग्राहक इति सङ्क्षेपः ।

P

गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शुभाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ।

इत्यत्रखगमनान्मत्प्राणवियोगो भविष्यतीति बोधाद्व्यञ्जनाख्य-

[[०]]

[[९०]]

वृत्त्यन्तरमैच्छन्नालङ्कारिकाः। तन्न लक्षणायां तस्या अन्तरभावात् । अथाग्निर्माणवक इत्यत्र माणवकाग्निसादृश्यबोधाद्गौणीवृत्त्यन्तर- मेवेति मैवं मंस्थाः । तस्या लक्ष्यमाणगुणसम्बन्धात्मकलेन लक्ष- णानतिरेकात्। इतिलक्षणा ॥ ननु वृत्तिग्रह एव शाब्द हेतुस्त- आकाङ्क्षा योग्यता सन्निधिश्व वाक्यार्थज्ञा- नाहेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्ता- न्वयाननुभावकत्वमाकाङ्क्षा ।

दा गौरश्व इति वाक्यादपि शाब्दापत्तिरत आह आकाङ्क्षेति । अत्र चकारेण तात्पर्यग्रहः । तथाचाकाङ्क्षाज्ञानं योग्यताज्ञानं सन्निधिज्ञानं तात्पर्यज्ञानं च शाब्दहेतुरित्यर्थः । तेनाकाङ्क्षादिवि- पर्ययेण शाब्दविपर्ययेऽपि न क्षतिः । आकाङ्क्षां व्युत्पादयति पदस्येति घटादिलक्षणनामपदस्य पदान्तरं विभक्तिपदं तस्य व्यतिरेकोऽभावस्तत्प्रयुक्तं तत्प्रयोज्यमन्वयाननुभावकत्रं शा- ब्दबोधानुपधायकत्वमाकाङ्क्षेत्यर्थः । एवं धातुपदाख्यातपदयो- र्गामानयेत्यादिसुबन्ततिङन्तयोर्द्रष्टव्यम् । इत्याकाङ्क्षा । योग्यता- अर्थाबाधो योग्यता ।पदानामविलम्बेनोच्चा- रणं सन्निधिः । आकाङ्क्षादिरहितं वाक्यम- प्रमाणं यथा गौरवः पुरुषो हस्तीति न प्रमाणमाकाङ्क्षाविरहात् । अग्निना सिञ्चे- दिति न प्रमाणं योग्यताविरहात् । प्रहरे प्रहरे असहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात् ।

माह

अर्थेति । पयसा सिञ्चतीत्यत्र पयसि सेककरणत्वस्यावा-

[[९१]]

धितखात्तद्योग्यम् । इति योग्यतानि० सन्निधिं व्युत्पादयति पदानामिति अविलम्बेन पदोपस्थितिः सन्निधिः कचिदु- च्चारणं तदुपयोगीति तात्पर्यं तेन मौनिश्लोकादौ तदभावेऽपि न शङ्कापङ्ककलङ्कावकाशः । इति सन्निधिः । अत्र वैयाकरणाः। अविलंवेन पदोपस्थितिर्न सम्पद्यते तत्कारणीभूतपदानुभवजनि तसंस्कारस्यायोगात् वर्णानामाशुतरविनाशिखेन पदस्यैवाप्रसि- द्धेः सुतरां तदनुभवस्यापि यदि स्फोटात्मकपदं स्वीक्रियते तदा प्रविष्टमेवास्माकं मतमित्याहुस्तन्न, तद्वर्णानुभवजनितसंस्कार- कूटादेव सहकारिणो बलात् खलेकपोतकन्यायेन समूहालम्बना- त्मकपदस्मरणसामञ्जस्ये स्फोटस्याकिञ्चित्करत्वात् । इति स्फोट० सैन्धवमानयेत्यादौ तात्पर्यज्ञानादेव कचिल्लवणस्य क्वचिदश्वस्य बोधात्तस्यापि कारणत्वं सञ्जाघटीति नानार्थानु- रोधात्प्रकरणादिकम् तात्पर्यग्राहकं द्वारमित्यादौ पिधेहीति शब्दज्ञानादेव शाब्दबोधः अतः शब्दाध्याहार एव युक्तः नतु पिधानरूपार्थाध्याहारः पदजन्यपदार्थोपस्थितेरेव बीजखात् इतरथा घटः कर्मत्वमानयनं कृतिरित्यादितोऽपि तदापत्तेः । इति तात्पर्यनिर्णयः । आकाङ्क्षादिशून्यवाक्यस्यागमप्रमाण- त्वं निषेधयति तथाचेति । आकाङ्क्षादिकं शाब्द हेतुरित्युक्तं चेत्यर्थः अनाकाङ्क्षाद्युदाहरति यथागौरश्व इति वाक्यं विभजते वाक्यमिति । वेदः पौरुषेयो वाक्यत्वात् भारतादिवदित्यनु- मानात्तत्सिद्धिर्बोध्या । ननु स्मर्यमाणकर्त्तृत्वमुपाधिस्तस्य भार- तादौ साध्यव्यापकत्वात् वेदे साधनाव्यापकत्वाच्चेति चेन्न, वेदे ऽपि तस्य सच्त्वात् अत एव ब्रह्मा वेदकर्त्तेत्यद्यापि किंवदन्ती । सर्वमेवेति अवाध्यं वाक्यं सर्वमेवेत्यर्थः । तेनात्मा वै जायते पुत्र इति वेदस्याप्रामाण्येऽपि न क्षतिः । स्मृतिपुराणेतिहाससदा- चाराणां वेदमूलकत्वेन प्रामाण्यम् । तन्मूलवेदानामिदानीमनु-

[[9]]

[[९२]]

पलभ्यत्वेन शाखा काचिदुच्छिन्नैवेति कल्प्यते । केचित्तु यत्र वेदमूलकत्वं दृश्यते तस्यैव प्रामाण्यमन्यथास्मदादिकल्पितवा• क्यानामपि तदापत्तेः । नच यत्र ऋषिप्रणीतं तत्र प्रामाण्यं, बृह- स्पतिप्रणीतनास्तिकसूत्रस्यापि तदापत्तेरित्याहुः । लौकिकं तु आप्तोक्तं प्रमाणम्, अन्यदप्रमाणं, तर्हि बृहस्पतेराप्तत्वे कथं तदु- क्तमप्रमाणं, अत आह यत् धर्मबुद्ध्या उक्तं तत्रैव प्रामाण्यम् । इति वाक्यविभागः । नन्वेतावता शाब्दसामग्री प्रपञ्ञ्चिता प्रमाविभाजकवाक्ये शाब्दस्याप्युद्दिष्टत्वेन तत्कुतो न प्रदर्शितमत वाक्यं द्विविधं वैदिकं लौकिकञ्च । वैदिक- मीश्वरोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकन्तु आप्तोक्तम्प्रमाणं- अन्यदप्रमाणम् वाक्यार्थ- ज्ञानं शाब्दज्ञानं तत्करणंशब्दः । इति यथा- र्थानुभवो निरूपितः ॥

आह वाक्यार्थेति । शाब्दत्वं च शब्दात् मत्येमीत्यनुभव- सिद्धा जातिः । शाब्दबोधक्रमो यथा चैत्रो ग्रामं गच्छतीत्यत्र ग्रामकर्मकगमनानुकूलवर्त्तमानकृतिमानिति बोधः । द्वितीयायाः कर्मखमर्थः धातोर्गमनमनुकूलत्वं संसर्गमर्यादया भासते लटो वर्त्त- मानत्वमाख्यातस्य कृतिस्तत्सम्बन्धः संसर्गमर्यादया भासते। रथो गच्छतीत्यत्र गमनानुकूलव्यापारवान् रथ इति बोधः । स्नात्वा ग- च्छतीत्यत्र गमनप्रागभावावच्छिन्नकालीनस्नानकर्ता गमनानुकू- लवर्त्तमानकृतिमानिति शाब्दबोधः । क्त्वाप्रत्ययस्थ पूर्वकालीन सं चार्थः भोक्तुं गच्छतीत्यत्र भोजनप्राग्भावकालीन भोजन विषयके- च्छावान् गच्छतीतिबोधः । चैत्रेण पच्यते तण्डुल इत्यत्र चैत्रवृत्ति- कृतिजन्यपाकजन्य फलशाली तण्डुल इति शाब्दबोधः । वृत्तित्वन्तर्कसङ्ग्रहटीका.

[[९३]]

संसर्गबललभ्यं जन्यत्वं च संसर्गबललभ्यं धातोः पाकः जन्यत्वं संसर्गबललभ्यं कर्मणः फलमात्मनेपदस्य शालित्वं संसर्गः क्वचिदात्मनेपदार्थो न भासते यथा चैत्रेण सुप्यते इत्यत्र चैत्र- त्तिकृतिजन्यः स्वाप इति बोधः । चैत्रः पक्ष्यतीत्यत्र वर्त्तमानप्राग- भावप्रतियोग्युत्पत्तिकपाकजनककृतिमान् चैत्र इति बोधः । गा- मानयेत्यत्र गोकर्मकमदिच्छाविषयानयनानुकूलकृतिमांस्त्वमिति बोधः । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यत्र कृतिसाध्यबलवदनिष्टा- Sजन केष्टसाधन ज्योतिष्टोमनामकयागकः स्वर्गकाम इत्यर्थः । एव- मेव सर्वत्र प्रथमान्तमुख्यविशेष्यकः शाब्दबोधो ज्ञेयः । वैयाकरणा- स्तु धात्वर्थमुख्यविशेष्यक एव शाब्दबोधः । यथा चैत्रः पचति तण्डुलमित्यत्र तण्डुलनिष्ठविक्लित्त्यनुकूलश्चैत्रकर्त्तृकपाक इति बोध इत्याहुः । सर्वत्र दुष्टाः सन्त्येवेत्यत्र क्रियायुक्तैवकारस्यात्यन्ता- योगव्यवच्छेदोर्थः । शङ्खः पाण्डुर एवेत्यत्र विशेषणयुक्तस्यैवकार- स्यायोगव्यवच्छेदोर्थः। कर्ण एव दातेत्यत्र विशेष्ययुक्तैवकारस्या- ‘न्ययोगव्यवच्छेदोऽर्थः । इति सङ्क्षेपः । इदमपि बोध्यम् लटोवर्त्त- मानवम् । लिटो भूतानद्यतनपरोक्षत्वम् । लुटो भविष्यानद्यतन- त्वम्। ऌटो भविष्यत्वम् । लोटो वक्रिच्छाविषयत्वम् । लङने भूतान- द्यतनत्वम् । लिङ् द्विधा विधिलिङाशीलिङ्ङ् च । तत्र विधिलिङः कृतिसाध्यत्वे सति बलवदनिष्टाजन केष्टसाधनत्वम् । आशीर्लि- ङो वक्रिच्छाविषयत्वम् । लुङो भूतत्वम् । लुङोऽतीतत्वं भवि- ध्यत्त्वं चेति।इतिशाब्दबोधनिर्णयः । शब्दमुपसंहरति तत्क- रणमिति । सोऽयं शब्दस्त्रिविधः। विधिमन्त्रार्थवादभेदात् । तत्रा- द्योतयभिधायकप्रत्ययघटितं वाक्यम् । स च प्रत्ययो लिङ्ले- ट्लोट्तव्यकृत्प्रत्ययरूपः। भवति हि ज्योतिष्टोमेन स्वर्गकामो य- जतेति वाक्यं तथा अत्र लिङेव तादृशमत्ययः विध्यभिधायकेत्य-

Q

[[९४]]

त्राभिधेयविधिर्ज्ञेयः स च प्रयत्नजनकचिकीर्षाजनकज्ञानविषयः कृतिसाध्येष्टसाधनत्वमेव सः इदमेव लिडर्थः विध्यर्थ इत्यप्यु- च्यते भवति च यागनिष्टं तत् यागो मत्कृतिसाध्यो मदिष्टसा- धनं चेति ज्ञानविषयः जानातीच्छति यतते इति नियमात् । ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिकाम्यस्थलेऽहरहः सन्ध्या- मुपासीत यावज्जीवमग्निहोत्रं जुहुयादित्यादिनित्यस्थले चिकी- र्षाद्वारा कृतिसाध्येष्टसाधनताज्ञानं प्रवृत्तिं प्रति कारणं नित्येपि सन्ध्यावन्दनादौ प्रत्यवायपरिहारादिकमिष्टं कल्प्यते । न कल भक्षयेदित्यादौ नञा विध्यर्थाभावो बोध्यते । अत्र प्राभा- कराः । कार्यत्वं विध्यर्थः प्रवृत्तिं प्रति कृतिसाध्यताज्ञानं हेतुः । तेन कृत्यसाध्ये न प्रवृत्तिः । ननु विषभक्षणादौ प्रवृत्तिप्रसङ्ग इति चेत्, तदनुयायिनः इष्टसाधनता लिङ्गक कृतिसाध्यतानुमितिरिष्ट- साधनताज्ञानकालीन कृतिसाध्यताज्ञानं वा काम्यस्थले प्रवर्त्त- कमतो नोक्तदोषः । नित्यस्थले चाहमिदानीन्तनकृतिसाध्यसन्ध्या- वन्दनको ब्राह्मणत्वे सति विहितसन्ध्याकालीनशौचादिमत्त्वा- शौचादिमत्त्वप्रतिसन्धानजन्यकृतिसाध्यताज्ञानमिति स- मादधते । अथाननुगम इति चेत्स्वविशेषणवत्ताप्रतिसन्धानजन्य- नमेव कृतिसाध्यताज्ञानेऽनुगतम् । स्वं पुरुषस्तत्र काम्ये इच्छैव विशेषणं नित्ये शौचादिकमेवेति प्रलपन्ति । तन्न । अलघीयस्ता- त् । इति विधिसामान्यनिर्णयः । स त्रिधा । अपूर्वविधिनि- यमविधिपरिसङ्ख्याविधिभेदात् । तत्रात्यन्ताप्राप्तौ विधिराद्यः। य- था स्वर्गकामो यजेतेत्यादौ । अत्र यजनस्याप्राप्तत्वात् । यत्रोभयोः प्राप्तावेको नियम्यते तत्र द्वितीयः । यथा व्रीहीनवहन्तीति । अत्र व्रीहिषु नखविदलनमुसलावहननयोः प्राप्तौ मुसलावहजनमेव नियम्यते । सर्वत्र प्राप्तस्य क्वचिद्विधिस्तृतीयः । यथा पञ्चपञ्चनखा भक्ष्या इत्यत्र सर्वेषां पञ्चनखानां भक्षणे प्राप्ते पञ्चैव पञ्चनखा

दिति

‘तर्कसङ्ग्रहटीका.

[[९५]]

भक्ष्या इति विधीयते । शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चम इति पञ्चनखा ज्ञेयाः । इति विधिविशेषनिर्णयः । अर्थवाद- स्त्रिधा । गुणवादोऽनुवादो भूतार्थवादश्चेति । तत्राद्यो यथा । आ- दित्यो यूपो यजमानः प्रस्तर इति प्रमाणान्तरेण निर्णीतार्थस्य ज्ञापकोऽनुवादः । यथाग्निर्हिमस्य भेषजमिति । तत्कालेऽपि त- गुणज्ञापको भूतार्थवादः । यथा जरायामप्ययं शूरः । इत्यर्थवादः । मन्त्रस्त्वापः पुनन्त्रित्यादि । इति मन्त्रनिर्णयः । ननु शब्दो न प्रमा- णान्तरं संसर्गज्ञानं वनुमानादेव गृह्यते तथाहि गामानयेत्यादि- पदानि स्मारितार्थ संसर्गवन्ति आकाङ्क्षादिमत्पदकदम्बखात् मदू- द्वाक्यवदिति चेन्न, अनुमितिविलक्षणस्य शब्दात्प्रत्येमीत्यनुभ- वसाक्षिकशाब्दस्यापलपितुमशक्यत्वात्। अर्थापत्तिरपि न प्रमा- णान्तरम् । तथाहि । पीनो देवदत्तो दिवा न भुङ्क्ते इति दृष्टे श्रु वा दिवाऽभुञ्जानस्य पीनलं रात्रिभोजनं विनानुपपन्नमित्य- नुपपत्तिज्ञानं भवति इयमेवार्थापत्तिस्ततो देवदत्तो रात्रौ भुङ्क्ते इत्यनुभवो जायते देवदत्तो रात्रिभोजी दिवाऽभुञ्जानले सति पीनलादिति केवलव्यतिरेक्यनुमानेनैव तत्सिद्धौ तस्या अकिं- चित्करत्नात् । अनुपलब्धेः प्रमाणत्वं निराकृतमेव प्राक् । सम्भवो- ऽपि न प्रमाणान्तरम् । तथाहि । स द्विविधः । सम्भावनात्मको निर्ण- यात्मकश्चेति । तत्रादिमो न प्रमाणम् । यथा ब्राह्मणेषु चतुर्दशवि- द्याभिज्ञत्वं सम्भवतीति । चतुर्दशविद्याश्व

ऋग्वेदश्च यजुर्वेदः सामवेदो ह्यर्थवणः ।

शिक्षाकल्पो व्याकरणं ज्योतिश्छन्दो निरुक्तयः ॥ मीमांसा तर्कशास्त्रं च पुराणं धर्मशास्त्रकम् ।

विद्याश्चतुर्दशैताथ पुरुषार्थनिदानकाः ॥”

इति वेदान्तस्य मीमांसायामन्तर्भावः वैशेषिकस्य तर्फे सां-

[[4]]

[[०]]

[[९६]]

ख्यपातञ्जलपाशुपतवैष्णवरामायणभारतादीनां धर्मशास्त्रे । पुराणं च ब्राह्मपाद्मस्कान्दमार्कण्डेयशैव वैष्णवगाणेशभागव- ताङ्ग्नेयभविष्यब्रह्मवैवर्त्तलैङ्गवारा हकौर्ममात्स्यगारुड ब्रह्माण्डभे- दादष्टादशधा । वासिष्ठ लैङ्गनारसिंहनन्दीयनारदीयवाम- नीयहं सतत्वसारदौर्वा सशैव धार्मिक कापिलमानववारुणरेणुक- वायवीयकालीयमाहेश्वरपाराशरमारीच भार्गवादिभेदादुपपुरा- णानि बहुविधानि । मनुयाज्ञवल्क्य विष्णुयमाङ्गिरसवसिष्ठदत्त- संवर्त्तशातातपपाराशर गौतमशङ्ख लिखितद्दारीतापस्तम्बोशनस- कात्यायनद्राह्मायन बृहस्पतिदैव लपैठीनसिप्रभृतिकृतानि बहूनि धर्मशास्त्राणि तस्माच्चतुर्दशैव विद्याः । ननु आयुर्वेदधनुर्वेदगान्धर्व- वेदार्थशास्त्रभेदादुपवेदचतुष्टयमप्यस्ति, कामशास्त्रस्यायुर्वेदान्त-

र्भावः नीतिशास्त्रशिल्पिशास्त्राश्वशास्त्रसूपकारशास्त्रचतुःषष्टिक- लाशास्त्राणामर्थशास्त्रेन्तर्भावः तस्मादष्टादशैव विद्येति चेत्स्यादे- व शते पञ्चाशदिति निर्णयात्मकसम्भवोऽनुमानान्तर्भूतः । इह वटे यक्षस्तिष्ठतीत्यैतिह्यमपि न प्रमाणान्तरम् किंलज्ञातमूलवत- कः शब्दः । चेष्टापि न प्रमाणान्तरं किन्त्वनुमानप्रयोजिकैव । तस्मा- चत्वार्येव प्रमाणानीति सिद्धम् । एतेनोपलब्धिकादिप्रमाप्यप्र- सिद्धा इति बोध्यम् । इति शब्दखण्डः । ज्ञाननिष्ठं तद्वतितत्म- कारकत्वात्मकं प्रामाण्यं स्वतो ग्राह्यं परतो वेति विप्रतिपत्तिः । अत्र ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्री- ग्राह्यत्वमिदमेव स्वतो ग्राह्यमिति किंवदन्ती। अस्यार्थः । ज्ञानमामा- ण्यं ज्ञाननिष्ठाप्रामाण्याग्राहिका यावतीज्ञानग्राहिकानुव्यवसा- यादिरूपा सामग्री तद्राह्यमिति । इदमेव ज्ञप्तौ स्वतस्त्वमित्युच्यते । यत्र गुञ्जापुञ्जेऽयं वह्निरिति भ्रमः पश्चादिदं ज्ञानमप्रमेति प्रमा ततो द्वितीयज्ञानं प्रमेति प्रमा तत्र तृतीयज्ञानग्राह्यत्वस्यानुव्य- वसाय गतप्रामाण्ये सत्त्वेऽपि तृतीयज्ञानस्य व्यवसायनिष्ठाप्रा-

Q

[[९७]]

ण्यग्राहकत्वेनाप्रामाण्याग्राहकत्वाभावात्स्वतस्त्वं न सञ्जाघ- टीति अतस्तदिति । प्रामाण्याधार एव तत्पदार्थः । यत्रायं घट इति प्रमानन्तरमिदं ज्ञानमप्रमेत्यप्रमा तत्र धूलीपटलेऽयं धूम इति ज्ञानप्रकारत्वस्य धूलीपटलत्वेऽसत्त्ववत्स्वतो ग्राह्य- त्वस्य प्रामाण्येऽसत्वाद्वाधः अतोऽप्रामाण्याग्राहकेति । सि- द्धसाधनवारणाय यावदिति । नन्वनुव्यवसायेन कथं प्रा- माण्यं गृह्यते इति चेत् घटमहं जानामीत्यनुव्यवसायो घटं घटत्वं समवायं च विषयीकुर्वन्नात्मनि प्रकारीभूतघटमात्मानं तत्सम्बन्धीभूतव्यवसायं विषयीकरोति एवं सति पुरोवर्त्तिप्रका- रसम्बन्धस्यैव प्रमापदार्थत्वेन स्वत एव प्रामाण्यं गृह्णातीति मुरा- रिमिश्राः । अनुव्यवसायात्मकमेव सर्वं ज्ञानं तच्च स्वप्रकाश- मिति मातृमेयविषयत्वात्रिपुटीत्युच्यते स्वमकाश सामर्थ्यादे- व स्वात्मानमिव स्ववृत्तिप्रामाण्यं स्वत एव गृह्णातीति प्रा- भाकराः । अयं घट इति ज्ञानानन्तरं घटे ज्ञाततानाम फलं भवति । ततो ज्ञातो घट इति तत्प्रत्यक्षम् । पश्चात्तया ज्ञानमात्र- स्यातीन्द्रियत्वात् ज्ञानं तन्निष्ठप्रामाण्यं चाहं घटत्वप्रकारकज्ञा- नवान् घटत्वप्रकारकज्ञाततावत्त्वादित्यनुमीयते तस्मात्स्वत एव प्रामाण्यं गृह्यते । स्वतो ग्राह्यलं च ज्ञानग्राहकातिरिक्ता- नपेक्षत्वमिति भट्टाः । तन्नेति गौतमीयाः । एषामयमाशयः इदं जलमिति ज्ञानानन्तरमनभ्यासदशायां ममोत्पन्नं ज्ञानं प्रमा नवेति संशयो न स्यादिति । तत्र पूर्व प्रामाण्यस्य निश्चित- नात् । स्वप्रकाशस्त्रमपि दुर्वचम्, चाक्षुषादिना स्वात्मनो विष- यीकर्तुमशक्यत्वात्, ज्ञानविषयतातिरिक्तज्ञाततायां मानाभा- वादले निषेधकोटिरेव वलीयसीति कृतं तर्ककर्कशविचार- भारधारणेन शिशूनाम् । अथ कथं परतः प्रामाण्यं गृह्यते इति चेत्, उच्यते प्रथमं जलजलन योर्निर्विकल्पकं तत इदं जलमिति

S

[[0]]

[[९८]]

विशिष्टज्ञानं तत इच्छा ततः प्रवृत्तिस्तदनन्तरं जललाभस्त- दनन्तरं पूर्वोत्पन्नं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वात् यन्नैव तन्नैवं यथाऽप्रमेति व्यतिरेकिणा यथा घटज्ञानमित्यन्वयदृष्टान्तस्यापि सम्भवेनान्वयव्यतिरेकिणा वा प्रामाण्यं निर्धार्यते इति । ज्ञप्तौ परतस्त्रं प्रमाया गुणजन्यत्वादुत्पत्तौ परतस्त्वम् गुणस्य प्रमाड साधारणकारणत्वात् यथा प्रत्यक्षे सन्निकर्षः अनुमितौ विशिष्टपरामर्शः उपमितौ सादृश्यज्ञानं शाब्दे शब्दज्ञानं ए- वमप्रामाण्यमपि परतो गृह्यते इदं च मीमांसकानामप्यनुमतम् पुरो वर्तिनि प्रकाराभावस्यानुव्यवसायेनानुपस्थितत्वात् अप्रमायाः पित्तमण्डूकवसाञ्जनचाकचिक्यदूरखादिदोषजन्य- खादुत्पत्तौ परतस्त्वं दोषस्य अप्रमाऽसाधारणकारणत्वादि- त्यास्तां विस्तरः । इति प्रामाण्यवादः ॥ अवथार्थानुभव अयथार्थानुभवस्त्रिविधः । संशयविपर्ययत- र्कभेदात् । एकस्मिन्धर्मिणि विरुद्धनानाध- वैशिष्ट्यावगाहिज्ञानं संशयः । यथा स्था- णुर्वा पुरुषो वेति । मिथ्याज्ञानं विपर्ययः । यथा शुक्ताविदं रजतमिति ॥ व्याप्यारोपे - ण व्यापकारोपस्तर्कः । यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति । स्मृतिरपि द्विधा । यथार्थायथार्थी च । प्रमाजन्या यथा- र्था अप्रमाजन्याऽयथार्था । सर्वेषामनुकूल- तया वेदनीयं सुखम् । प्रतिकूलतया वेदनी- यं दुःखम् । इच्छा कामः ।

[[2]]

[[९९]]

विभजते अयथार्थाऽनुभव इति संशयं लक्षयति एक- स्मिन्निति एकस्मिन्धर्मिणि एकस्मिन्नेव पुरोवर्त्तिपदार्थों विरुद्धा व्यधिकरणा ये नानाधर्माः स्थाणुलपुरुषत्वादयः तेषां च वैशिष्टयं सम्बन्धस्तदवगाहि ज्ञानं संशय इत्यर्थः । घट- पटाविति समूहालम्बनज्ञानस्य घटत्वरूपविरुद्धनानाधर्मवैशि- ष्ट्यावगाहित्वादतिप्रसङ्गवारणायैकस्मिन्निति । पटः पृथि- वीति ज्ञानस्य एकस्मिन् धर्मिणि पटे पटल पृथिवीलरूप- नानाधर्मवैशिष्ट्यावगाहित्वादतिप्रसक्तिरतो विरुद्धेति पटलवि- रुद्धघटत्ववान् घट इति ज्ञानेऽतिप्रसक्तिस्तद्वारणाय ना- नेति । उदाहरति यथेति । स त्रिविधः साधारणधर्मधीज- न्योऽसाधारणधर्मधी जन्यो विप्रतिपत्तिजन्यश्चेति । विशेषादर्शनं कोटिद्वयस्मरणं संशयमात्रे हेतुः तत्राद्यस्तूपदर्शित एव उच्चैस्त- रखं तत्र साधारणधर्मः स्थाणुखनिश्चायक वक्रकोटरादिमखं पुरु- पत्त्रनिश्चायककरादिमत्त्रं वा विशेषः स्थाणुखं पुरुषलं च को- टिद्वयम् । द्वितीयो यथा शब्दखं नित्यानित्यव्यावृत्तं शब्दमात्रवृ- त्तीति ज्ञाने शब्दो नित्यो न वेति संशयः । तृतीयो यथा प्रामा- ण्यं स्वतो ग्राह्यं परतो ग्राह्यं वेति संशयः । इति संशयनिर्णयः। विपर्ययं लक्षयति मिथ्येति विपर्ययः यथा शुक्ताविदं रजतमिति इति विपर्ययः । तर्क लक्षयति व्याप्यारोपेणेति । वह्नय- भावो व्याप्यः धूमाभावो व्यापकः उदाहरति यथेति । यद्यपि तर्कस्य विपर्ययात्मकत्वेन पृथग्विभागोऽनुचितस्तथापि प्रमा- णानुग्राहकखात्स उचित इति बोध्यम् । स्वनस्तु पुरीतद्बहिर्दे- शयोः सन्धौ मनसि स्थितेऽदृष्टविशेषेण चिन्ताविशेषेण धातुदोपेण’ वा जन्यते स च मानसविपर्ययेऽन्तर्भूतः । इदं किञ्चिदित्यन- ध्यवसायश्च विशेषादर्शनेन जन्यते स च विपर्यय एव । इति तर्कनिर्णयः । इत्ययथार्थानुभवः । स्मृतिं विभजते स्मृति-

[[१००]]

रपि इति । प्रमाजन्येति । खजन्यसंस्कार सम्बन्धेन प्रमायाः स्मृतिकारणत्वमिति भावः । अप्रमाजन्येति । इदं रजत- मित्यप्रमातो रजतखेन शुक्तेः स्मरणमयथार्थम् । इति स्मृ- तिनिर्णयः । इति बुद्धिग्रन्थः । सुखं निरूपयति सर्वेषा- मिति । सर्वात्मनानुकूलं वेद्यं यत्तत्सुखमित्यर्थः । अनुकूलल- मिष्टत्वम् । अहं सुखीत्यनुभवसिद्ध सुखत्वजातिमद्धर्ममात्रा- साधारणकारणकगुणो वा सुखम् । तच्चतुर्विधम् । वैषयि- काभिमानिकमानोरथिका भ्यासिकभेदात् । विषयसाक्षात्का- रजं प्रथमम् । राज्याधिपत्यपाण्डित्यगर्वादिजं द्वितीयम् । विष- यध्यानजं तृतीयम् । सूर्यनमस्कारायासादिजं लाघवरूपं तुरीयम् । इति सुखनिर्णयः । दुःखं निरूपयति प्रतिकू- लमिति । प्रतिकूलत्वं च द्विष्टत्वम् । दुःखत्वजातिप्रदधर्ममात्रा- साधारणकारणकगुणो वा दुःखम् । इदमपि सुखवच्चतुर्विधम् । इति दुःखनिरूपणं । इच्छां निरूपयति इच्छा इति । काम इति पर्यायः । इच्छात्वजातिमतीच्छा । सा द्विधा । फलेच्छोपायेच्छा च। फलं सुखादिकमुपायो यागादि । इति इच्छानिर्णयः । द्वेपं क्रोधो द्वेषः। कृतिः प्रयत्नः। विहितकर्मजन्यो धर्मः। निषिद्धकर्मजन्यस्त्वधर्मः । बुद्ध्याद- योऽष्टावात्ममात्रगुणाः । बुद्धीच्छाप्रयत्ना द्विविधा नित्या अनित्याश्च । नित्या ईश्वरस्य अनित्या जीवस्य । संस्कारस्त्रिविधो वेगो भावना स्थितिस्थापकश्चेति ।

निरूपयति क्रोध इति । द्वेष्टीत्यनुभवसिद्धद्वेषत्वजातिमान् द्विष्टसाधनताज्ञानजन्यो गुणो वा द्वेषः । इति द्वेषः । प्रयत्नं

[[१०१]]

निरूपयति कृतिरिति । प्रयत्नत्वजानिमान्प्रयत्नः । स त्रिविधः प्रवृत्तिनिवृत्तिजीवनयोनिभेदात् । इच्छाजन्यो गुणः प्रवृत्तिः । द्वेष- जन्यो गुणो निवृत्तिः । जीवनादृष्टजन्यो गुणो जीवनयोनिः । स च प्राणसञ्चारकारणम् । इति प्रयत्नः । धर्मं निरूपयति विहि- तेति । वेदविहित इत्यर्थः । स च कर्मनाशाजलस्पर्शकीर्तनभो गतत्वज्ञानादिना नश्यति । इति धर्मः । अधर्मं निरूपयति नि- षिद्धेति । वेदनिषिद्ध इत्यर्थः । स च भोगप्रायश्चित्तज्ञानादिना नश्यति । एतावदृष्टमिति कथ्येते वासनाजन्यौ च वासना च विलक्षणसंस्कारः तत्सद्भावे च चैत्रस्य शरीरादिकं चैत्रस्य विशेषगुणजन्यकार्यत्वे सति चैत्रस्य भोगहेतुत्वात् चैत्रप्रय- त्नजन्यकुसुमपर्यकादिवदित्यनुमानं मानम् । लाघवमनुसृत्य बुद्धयाद्यष्टानामिदानीं युगपदाश्रयं दर्शयति बुद्ध्यादय इति । अत्र मात्रपदमवधारणार्थम् । इत्यधर्मः । संस्कारं विभजते संस्कारइति । सामान्यगुणात्म विशेषगुणोभयवृत्तिगुणत्व- व्याप्यजातिमान् संस्कारः । द्वितीयपतनासमवाधिकारणं वेगः । स द्विविधः। कर्मजो वेगजश्चेति । तत्राद्यो नोदनोत्पादककर्मजन्यः शरीरादौ प्रसिद्धः वेगवत्कपालजन्यघटे द्वितीयः तस्य कपालज- वेगः पृथिव्यादिचतुष्टयमनोमात्रवृत्तिः । अ- नुभवजन्या स्मृतिहेतुर्भावना । आत्ममात्र- वृत्तिः । अन्यथा कृतस्य पुनस्तादवस्थपा- दकः स्थितिस्थापकः। कटादिपृथिवीवृत्तिः । इति गुणाः । चलनात्मकं कर्म ।

न्यत्वात् । आश्रयमाह वेग इति । भावनां लक्षयति अनुभवेति । आत्मादिवारणाय प्रथमदलम् । अनुभवध्वंस वारणाय द्वितीयद-

[[१०२]]

I

लम् । अत्रानुभव उपेक्षाभिन्नो ग्राह्यः । इदं तु बोध्यं उद्धद्धसंस्कार एव स्मृत्युपधायकः। उद्बोधकं च चिन्तादिकम् । तदुक्तम् “सदृशा- दृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः” इति । अत्र नव्याः संस्कारं प्रति स्मरणमपि कारणम् । आश्रयमाह आत्ममात्रवृत्तिरि- ति । स्थितिस्थापकं निरूपयति अन्यथेति । पृथिवीमात्रसमवे - तसमवेतसंस्कारत्वव्याप्यजातिमत्त्वं तलक्षणं बोध्यं । आश्रयमाह कटादीति । आदिना कार्मुकादेः परिग्रहः । इति संस्कारः। अथ गुणानां साधर्म्यवैधर्म्यप्रक्रिया । गुणलक्षणं तु प्रागभिहित- मेव । रूपादिचतुष्टयसांसिद्धिकद्रवत्व स्नेहा दिदशभावनानां वि- शेषगुणत्वम् । तच्च पृथिवीसमवेतसमवेतद्वीन्द्रियग्राह्यसांसिद्धिकद्र-

वत्वभावनान्यत्वविशिष्टगुणत्वापरजात्यनधिकरणत्वे सति गुरु- त्वान्यगुणम् । सङ्ख्याद्यष्टनैमित्तिकद्रवत्वस्थितिस्थापक वेगानां सामान्यगुणत्वम् । रूपादिचतुष्टयपरत्वापरत्वद्रवत्वस्नेहवेगानां मूर्त्तवृत्तिगुणत्वम् । शब्दादिदशभावानाममूर्त्तवृत्तिगुणत्वम् । सं- ख्यादिपञ्चानां मूर्त्तामूर्तोभयवृत्तिगुणत्वम् । एकत्वभिन्नसङ्ख्यै- कपृथक्त्वभिन्नपृथक्त्वसंयोगविभागानामनेकटत्तिगुणत्वम् । तदन्येषां गुणानामेकैकट्टत्तिगुणत्वम् । रूपादिचतुष्टयशब्दानां बाह्यैकैकेन्द्रियग्राह्यगुणत्वं सङ्ख्यादिसप्तद्रवत्वस्त्रे हवेगानां द्वीन्द्रिय- ग्राह्यगुणत्वं बुद्धयादिपट्टानामान्तरेन्द्रियग्राह्यगुणत्वम् गुरुत्व- धर्माधर्मस्थितिस्थापकभावनानामतीन्द्रियगुणत्वम् । अपाकप्रभ- वरूपादिचतुष्टयमध्यमपरिमाणैक पृथक्त्व गुरुत्व सांसिद्धिकद्रव- त्वस्नेहवेगस्थितिस्थापकानां कारणगुणपूर्वकत्वम् । जन्यद्रव्या- वृत्तिविशेषगुणानामकारणगुणपूर्वकत्वम् । संयोगविभाग़वेगा- नां कर्मासमवायिकारणकत्वं कारणगुणासमवायिकारणक- त्वं च संयोगविभागशब्दाद्यष्टभावनानामव्याप्यवृत्तिगुणत्वम् । बुद्धीच्छाप्रयत्नद्वेषभावनानां सविषयत्वं गन्धसंयोगादिचतुष्टयश-तर्कसङ्ग्रहटीका.

[[१०३]]

ब्दसुखदुःखद्वेषधर्माधर्मसंस्काराणामनित्यगुणलं तदितरगुणानां नित्यगुणत्वम् । वैधर्म्यं पूर्ववद्बोध्यम् । इति गुणसाधर्म्यवैध- र्म्यम् । क्रमप्राप्तं कर्मणः स्वरूपमाह चलनात्मकेति । तल्लक्षण- ऊर्ध्वदेंशसंयोग हेतुरुत्क्षेपणम् । अधोदेशसं-

•योग हेतुरपक्षेपणम् । शरीरस्य सन्निकृष्टसंयो- गहेतुराकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसा रणम् । अन्यत्सर्वं गमनम् पृथिव्यादिचतु- ष्टयमनोमात्रवृत्ति । नित्यमेकमनेकानुगतं सामान्यं द्रव्यगुणकर्मवृत्ति । तद्विविधम् ।

परापरभेदात्परं सत्ता अपद्रव्यत्वादि । नि-

त्यद्रव्यवृत्तयो व्यावर्त्तका विशेषाः । नित्य- सम्बन्धः समवायः। अयुतसिद्धवृत्ति । ययो- ईयोर्मध्ये एकमविनश्यदपराश्रितमेवाव- तिष्ठते तावयुतसिद्धौ ।

मुदीरतमेव प्राक् । उत्क्षेपणं लक्षयति ऊर्ध्वदेशेति। ऊर्ध्वदेशस्य हस्तेन यः संयोगस्तस्यासमवायिकारणमुत्क्षेपणमित्यर्थः । एव- मग्रेऽपि । ननु भ्रमणरेचनस्यन्दनतिर्यग्गमनज्वलनानामतिरि- क्तखेन कुतो नोक्तान्यत आह अन्यदिति । इति कर्मनिर्ण- यः । सामान्यं निरूपयति नित्येति । आश्रयमाह द्रव्येति । इति सामान्यनिर्णयः । विशेषं निरूपयति नित्येति । स्वतो व्या- वर्त्तका इत्यर्थः । इति विशेषनिर्णयः । समवायं निरूपयति नित्यइति । स्थानमाह अयुतसिद्धेति । नन्वयुतसिद्धपदेन किं ग्राह्यमत आह ययोरिति । उक्तं च । तावेवायुतसिद्धौ द्वौ वि-

[[०]]

[[१०४]]

Q

ज्ञातव्यौ ययोर्द्वयोरविनश्यदेकमपराश्रितमेवावतिष्ठते” इति क- पालघटयोर्मध्ये एको घटोऽविनश्यन्नपरं कपालमाश्रित एवाव- तिष्ठतेऽतस्तावयुतसिद्धावित्यर्थः । विनश्यदवस्थस्यापरानाश्रि- तत्वेनायुतसिद्धत्वं न स्यात् अत उक्तमविनश्यदिति । उदाह- अवयवावयविनौ गुणगुणिनौ क्रियाक्रि- यावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चे- ति । अनादिः सान्तः प्रागभावः उत्पत्तेः पूर्व कार्यस्य । सादिरनन्तः प्रध्वंसः उत्पत्त्य- नन्तरं कार्यस्य । त्रैकालिकसंसर्गावच्छिन्न- प्रतियोगिताकोऽत्यन्ताभावः यथा भूतले घटो नास्तीति । तादात्म्यसम्बन्धावच्छिन्नप्र- तियोगिको ऽन्योन्याभावः यथा घटः पटो न भवतीति । सर्वेषां पदार्थानां यथा- यथमुक्तेष्वन्तर्भावात्सप्तैव पदार्था इति सि-

द्धम् ।

कणादन्यायम तयोर्बालव्युत्पत्तिसिद्धये । अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ॥ इति महामहोपाध्याय श्रीअन्नम्भ- हविरचितस्तर्कसङ्ग्रहः समाप्तः ॥

रति अवयवेति । इति समवायनिरूपणम् । प्रागभावं ल- क्षयति अनादिरिति । घटादिवारणाय प्रथमदलं परमाणुवा-

[[१०५]]

‘रणाय द्वितीयदलम् । ननु प्रागभावः कस्मिन्कालेऽस्ति, इत्याह उत्पत्तेरिति कार्योत्पत्तेःप्राक् स्वप्रतियोगिसमवायिकारणे व- र्त्तत इत्यर्थः । अथ प्रागभावः कथं सिद्ध्यतीति चेत्सत्यामपि सामग्र्यामुत्पन्नस्य पुनरुत्पत्तिसाध्वसेन तत्सिद्धिः । इह कपाले घटो भविष्यतीति प्रतीतिरपि मानम् । इति प्रागभावः । ध्वंसं लक्षयति सादिरिति । कार्योत्पत्त्यनन्तरं स्वप्रतियो- गिसमवायिकारणवृत्तिरित्यर्थः । स च ध्वस्त इति प्रत्यय- विषयः । इति ध्वंसः । अत्यन्ताभावं लक्षयति त्रैकालि- केति । त्रैकालिकत्वे सति संसर्गावच्छिन्नप्रतियोगिताकोऽत्यं- ताभाव इत्यर्थः । ध्वंसप्रागभाववारणाय त्रैकालिकेति । भेद- वारणाय संसर्गेत्यादि । उदाहरति यथेति । स द्विविधः । एक- पर्याप्तधर्मावच्छिन्नप्रतियोगिताकोऽने कपर्याप्तधर्मावच्छिन्नप्रति- योगिताकश्च । तत्राद्येो धर्मो घटत्वादिः । द्वितीय उभयत्वादिः । अयमेव व्यासज्यवृत्तिधर्म इत्युच्यते । सामयिकाभावो नाङ्गीक्रि- यते । घटवति भूतले घटाभावस्य सत्त्वेऽपि सामग्रयभावात्तत्म- तीत्यभावः । सा च सामग्रीभूतलघटसंयोगप्रागभावध्वंसान्यत- रत्तादृशाप्रतीतिकालीन भूतलादिकमित्यप्रतियोगितावच्छेदकै- क्येऽपि एकप्रतियोगिकानां तेषां संसर्गभेदेन बहुत्वम् । विशे- षाभावसमुदायात्सामान्याभावोऽतिरिक्त एव । अनवस्थासा- ध्वसेन द्वितीयाभावो भावस्वरूप एवेति सम्प्रदायविदः भावस्य निषेधमुखप्रमाणगम्यत्वासम्भवेन तृतीयाभावः मथमाभाव- स्वरूप इति नवीना इत्यास्तां विस्तरः । इत्यत्यन्ताभावः । अन्योन्याभावं लक्षयति तादात्म्येति । इत्यभावः । अथ " प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्क निर्ण- थवादजल्पवितण्डाहेलाभासच्छलजातिनिग्रहस्थानानां तत्रज्ञा- नान्निःश्रेयसाधिगमः” इति न्यायस्य प्रथमसूत्रे षोडशपदार्थानां

[[१०६]]

प्रतिपादितत्वात्कथं सप्तपदार्था एव निरूपिता अत आह सर्वेषामपीति । तथा च तेषां साक्षान्मोक्षोपयोगित्वेन तेषां विभागः इत्याकरेष्वपि प्रतिपादितत्वादिति भावः । कथमन्त- र्भावः । प्रमाणस्य द्रव्यगुणयोरन्तर्भावः । आत्मशरीरेन्द्रिया- र्थबुद्धिमनःप्रवृत्तिदोषमेत्यभावफलदुःखापवर्गास्तु प्रमेयमिति सूत्रम् । तत्राद्यानां त्रयाणां द्रव्ये चाक्षुषादिविषयरूपादिपञ्चा- र्थानां गुणे बुद्धेर्गुणे मनसो द्रव्ये धर्माधर्मात्मकप्रवृत्तेर्गुणे राग- द्वेषमोहात्मकदोषस्य गुणे प्रेत्यभावो मरणोत्तरं जन्म मरणं च चरमशरीरप्राणसंयोगध्वंसः आद्यशरीरप्राणसंयोगो जन्म तथा च मरणोत्तरतादृशसंयोगरूपस्य तस्य गुणे सुखदुःखसं- वेदनात्मकफलस्य गुणे दुःखस्य गुणे अपवर्गस्याभावे स च दुःखध्वंसस्वरूपः संशयस्य गुणे साध्यतया कामनाविषयरू- पप्रयोजनस्य यथायथं द्रव्यादौ महानसादिदृष्टान्तस्य यथायथं द्रव्यादौ प्रामाणिकत्वेनाभ्युपगतार्थसिद्धान्तस्य यथायथं द्रव्या- दौ प्रतिज्ञाद्यवयवस्य गुणे तर्कस्य गुणे निर्णयस्य गुणे तत्त्व- बुभुत्सोः कथावादस्तस्य गुणे विजिगीषुकथाजल्पस्तस्य गुणे स्वपक्षस्थापनाहीनकथावितण्डा तस्या गुणे हेत्वाभासानां यथायथं द्रव्यादौ अभिप्रायान्तरेण प्रयुक्तस्यार्थान्तरं परिक- ल्प्य दूषणाभिधानं छलं तस्य गुणे असदुत्तरं जातिस्तस्या गुणे पराजयहेतुर्निग्रहस्थानम् तच्च प्रतिज्ञाहानिः प्रतिज्ञान्तरम् प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासः हेत्वन्तरमर्थान्तरं निरर्थकमपा- र्थमप्राप्तकालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभाड- मतानुज्ञाविक्षेपः पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अ- पसिद्धान्तो हेलाभासाचेति बहुधा एषां यथायथं द्रव्यादौ । ननु मणिसत्त्वे वह्निना दाहानुत्पादाद्वह्नावनित्यशक्तिरतिरिक्तै-

[[0]]

[[१०७]]

इति चेन्न, उत्तेजकाभावविशिष्टमण्यभावस्यैव दाहकारणलेन तस्यां मानाभावात् । सादृश्यमपि न पदार्थातरमपि तु तद्भि- नल्ले सति तद्गतभूयो धर्मवत्वम् । शुद्धिरपि नातिरिक्ता किं तु भस्मादिसंयोगसमानकालीनास्पृश्यस्पर्शप्रतियोगिकयाव- दभावसहितभस्मादिसंयोगध्वंस इति सङ्क्षेपः । इत्यन्त- र्भावः पदार्थानाम् । पदार्थज्ञानस्य परप्रयोजनं मोक्ष इत्यामनन्ति । स च स्वर्गादिरिति मीमांसकाः । नित्यसुखाभिव्य- क्तिरिति तदेकदेशिनः । अहङ्कारनिवृत्तावौदासीन्यमिति सां- ख्यज्ञाः । ब्रह्मांशिकजीवस्याविद्याप्रभवमिथ्याज्ञाननिवृत्तौ स्वस्वरूपताधिगम इति वेदान्तिनः । सारूप्यसालोक्यसामी- प्यसायुज्यभेदाच्चतुर्विध इति सगुणोपासकाः । अपराधीनतेति चार्वाकाः । ऊर्ध्वगतिरित्यपि केचित् । तत्सर्वं धीमता चिन्तनी- यम् । अपि तु आत्यन्तिकैकविंशतिदुःखध्वंसः आत्यन्तिकलं च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वम् । एक- विंशतिदुःखानि च शरीरं षडिन्द्रियाणि षडिषयाः पड्बु- द्धयः सुखन्दुःखञ्चेति । दुःखानुषङ्गिखाच्छरीरादौ गौणं दुःख- त्वम् । तथाचात्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या- सितव्य इति श्रुतेरात्मज्ञानसाधननिदिध्यासनसाधनमनन- साधनत्वं पदार्थज्ञाने सञ्जाघटीति एवं सति तत्त्वज्ञाने जाते शरीरपुत्रादावात्मस्वीयत्वाभिमान रूपमिथ्याज्ञानस्य नाशः । तेन दोषाभावः तेन प्रवृत्त्यनुत्पत्तिः ततस्तत्कालीनशरीरेण कायव्यूहेन वा भोगतत्त्वज्ञानाभ्यां प्रारब्धकर्मणां नाशः । ततो जन्माभावः ततो मोक्ष इति क्रमः ।

" नित्यनैमित्तकैरेव कुर्वाणो दुरितक्षयम्

ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् ॥

[[१०८]]

अभ्यासात्पकविज्ञानः कैवल्यं लभते नरः "

इत्यादि वचनात् । तमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यतेऽयनायेति श्रुतेश्च । सगुणोपासनाकाशीमरणादेरपि त- वज्ञानद्वारामुक्तिहेतुत्वम् । अत एव परमेश्वरः काश्यां तारक- मुपदिशतीति सारम् । इति मोक्षनिरूपणम् । इतिश्री सिद्धान्तचन्द्रोद्यनामकं तर्कसङ्ग्रहविवरणं समाप्तम् ॥