०
श्रीः ।
श्रीमदन्नम्भट्टविरचितः तर्कसङ्ग्रहः ।
न्यायवोधिनी - पढकृत्यव्याख्योपेतः ।
विषमस्थलटिप्पणीयुतश्च
चाक्र इत्युपाद्दगङ्गाधरभट्टतनुजनुपा महादेवशर्मणा संस्कृतः
तस्येदं षष्ठं संस्करणम् ।
स च
मुम्बय्याम्
पाण्डुरङ्ग जावजी
इत्येतैः स्वीये निर्णयसागराख्यमुद्रणयन्त्रालये
रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा
प्रकाशितः ।
RAMJ
शकाव्दा. १८४१, ख्रिस्ताब्दा. १९१९.
श्री ६ गुरुचरणारविन्दाभ्यां नमः । दुःखपङ्कनिमग्नमेतज्जगदुज्जिहीर्षुः परमकारुणिको भगवानक्षपादः कणादश्च क्रमेण पञ्चलक्षणीमान्वीक्षिकीं दशलक्षणी च विरचयामा- सतुः । तत्राद्यां पञ्चलक्षणीमान्वीक्षिकीं न्यायशास्त्रपदेन व्यपदि - शन्ति, परार्थानुमानापरपर्यायस्य न्यायस्य सकल विद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया प्रधानत्वात् । असाधारण्येन व्यपदेशा भव- न्तीति न्यायात् । अपरां च दशलक्षणीं वैशेषिकतन्त्रपदेन । तत्र कणभक्षकस्य वैशेषिकपदव्यपदेश्यत्वे हेतुं बोधयत्ययं श्लोकः-
द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे ।
यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ॥ १ ॥ इति । तदेतच्छास्त्रद्वयमपि श्रीमद्गङ्गेशोपाध्यायादुत्तरमविभक्तमभूत् । श्रीमद्वङ्गेशोपाध्यायैः तत्त्वचिन्तामणिर्नाम सन्निवेशितोभयशास्त्ररहस्यः सदर्भः प्रत्यक्षानुमानोपमानशब्दखण्डैश्चतुर्धा प्रविभक्तो व्यरचि । ततः प्रभृति प्रकरणान्यपि तथाविधान्येवाऽभवन् । तेष्वयं तर्क- सङ्ग्रहोऽतिक्षेपेण शास्त्रद्वयस्यापि तत्त्वं स्पष्टं प्रतिपादयति । न्यायबोधिनीसञ्ज्ञिकास्य टीकापि न्यायशास्त्रीयपारिभाषिकशब्दानां शीघ्रमनायासेन परिचायिका । एवं पदकृत्यमपि लक्षणगतशब्दानां प्रयोजनं प्रदर्शयति । तस्मादेतट्टीकाद्वयमपि प्राथमकल्पिकानां बहूनां बहुतरमुपकारमातनोति । अत एतट्टीकाद्वयेन संयोज्यैष तर्कसङ्ग्रहः सम्यक्परिशोध्य क्वचिट्टिप्पणीपरिष्कृतोऽध्येतॄणामुपकारक्षमो भूयादि - त्याशास्ते-
विदुषामनुचरः
बाक्रे इत्युपाहो महादेवशर्मा ।U
चतुर्थावृत्तिः
अस्यां चतुर्थावृत्तौ न्यायबोधिनीं प्राचीन लिखितपुस्तकमनुसृत्य पर्यशोधयम् ; न्यवेशयं च बहुषु स्थानेषु सुगमां विस्तरतष्टिप्पनी या मनागिव विद्यार्थिना विषमस्थाने प्वालम्बनं भविष्यतीति शम् ।
बा इत्युपाहो महादेवशर्मा ।
विशेषतो द्रष्टव्यम् ।
तृतीयपृष्ठे ३ य टिप्पन्यां ’ द्रव्यत्वाभाव सामानाधिकरण्ये सति’ इत्यत्र ‘द्रव्यत्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वे सति’ इति पठ- नीयम् ।अनुक्रमणिका ।
विषय.
पृष्ठाङ्क
१ । दिक्
आत्मा
विषय
मनः
प०
"
रूपम्
मङ्गलाचरणम्
बाललक्षणम् उद्देशलक्षणम्
लक्षणलक्षणम् परीक्षालक्षणम्
पदार्थोद्देश
शक्त्यादेरतिरिक्तत्व-
समर्थनं तन्निरसनं च
द्रव्योद्देश
अन्धकारस्य दशमद्रव्य- त्वशङ्का तन्निराकरणं च
द्रव्यसामान्यलक्षणम्
गुणोद्देशः कर्मविभाग’
सामान्य विभाग
विशेषकथनम्
समवायकथनम्
अभावभेदाः
發
पृथिवीनिरूपणम्
अव्याप्तिलक्षणम्
पृष्ठाङ्कः
[[६]]
[[97]]
रस
[[22]]
गन्ध*
}
न्या०
१-२ स्पर्श.
न्या०
रूपादिचतुष्टयस्य पाकजत्वादि- भेदेनाधिकरणविचारः
" पाकविचारः न्या० …
[[22]]
सङ्ख्या
परिमाणम्
पृथक्त्वम् संयोगः
! विभाग.
परत्वापरत्वे…
गुरुत्वम्
C
[[९]]
"
[[१०]]
[[११]]
[[22]]
[[१२]]
अतिव्याप्तिलक्षणम् प ० …
असभवलक्षणम्
अपा निरूपणम्
तेजोनिरूपणम्
द्रवत्वम्
“>
स्नेहः
शब्दः
बुद्धिः
स्मृतिः
A
自
.
वायु निरूपणम्
अव्याप्यतिव्यात्यसभ- वाना निष्कृष्टलक्षणानि
आकाश निरूपणम् विभुत्वलक्षणम् मूर्तवलक्षणम् - न्या० भूतवलक्षणम्
कालः
[[000]]
}
न्या०
अनुभवः अयथार्थानुभव.
५ यथार्थानुभवविभागः
[[22]]
तत्करणविभागः
करणलक्षणम्
६ असाधारणत्वम् ?
साधारणत्वम्
व्यापारलक्षणम् प०
न्या०
[[१३]]
[[23]]
[[१४]]
[[१५]]
[[१६२]]
विषयः
कारणलक्षणम् अन्यथासिद्धिलक्षणम् प०
कार्यलक्षणम्
अनुक्रमणिका ।
पृष्ठाङ्कः
१६, पक्ष.
१७ । सपक्षः
[[27]]
विपक्षः
विपयः
कारणविभागः
समवायिकारणम्
असमवायिकारणम्
निमित्तकारणम् करणलक्षणोपसहारः
प्रत्यक्षप्रमाणलक्षणम्
प्रत्यक्षप्रमालक्षणम्
निर्विकल्पकम्
सविकल्पकम्
ॐ
$
自
每
[[१८]]
हेत्वाभास विभागः
सव्यभिचारः
साधारणः
१९ । असाधारणः
अनुपसहारी
२० विरुद्ध
सत्प्रतिपक्ष
२१ । असिद्धविभागः
आश्रयासिद्धः
“2
२२ । खरूपासिद्धः
自
藝
蓉
पृष्टाड्डू
a
[[३१]]
AU
[[३२]]
[[३३]]
[[22]]
,,
[[३४]]
"
[[३५]]
[[22]]
"
सन्निकर्षविभागः
संयोगसनिकर्षोदाहरणम्
"
संयुक्तसमवायसन्निकर्षोदाहरणम्
संयुक्तसमवेतसमवायसन्निकर्षोदा ० समवायसनिकर्षोदा ० समवेतसमवायसन्निकर्षोदा •
विशेषणविशेष्यभावसन्निकर्षोदा •
प्रत्यक्षप्रमाणलक्षणोपसहारः
"
शब्दः
२३ । व्याप्यत्वासिद्ध
RAJ
[[३६]]
त्रिविधोपाधिप्रदर्शनम्. प०
[[३७]]
[[92]]
बाधित.
[[३८]]
उपमानम् - उपमितिश्च
[[३८]]
,”
आप्त
[[29]]
[[23]]
वाक्यम् शक्तिः
[[6]]
[[25]]
अनुमानलक्षणम्
[[२४]]
अनुमितिलक्षणम्
परामर्शः
लक्षणा गौणी लक्षणा
व्याप्ति.
२५ । शुद्धा लक्षणा
न्या०
RAJ
[[३९]]
पक्षधर्मता
जहल्लक्षणा
अजहल्लक्षणा
अनुमानविभागः
[[२७]]
जहदजहल्लक्षणा
स्वार्थानुमानम्
परार्थानुमानम्
वाक्यार्थज्ञानहेतवः
"
पञ्चावयवाः
अनुमानलक्षणोपसहारः
लिङ्ग विभागः अन्वयव्यतिरेकि केवलान्वयि
आकाङ्क्षादीना लक्षणादीनि …
[[४०]]
每
२८ वाक्यविभागः
"
शाब्दज्ञानम् अयथार्थानुभवविभागः
[[४१]]
केवलव्यतिरेकि
२९ संशयः ३० । विपर्ययः
[[46]]
૪૨अनुक्रमणिका ।
mo
तकः
विषय.
अस्मृतिः
सुखम्
दु खम्
इच्छा-द्वेषः प्रयत्न. धर्म - अधर्मः आत्मविशेपगुणाः सस्कार विभागः
वेगः
भावना
S
G
पृष्ठाङ्कः
वियष
पृष्ठाङ्कः
४२ स्थितिस्थापक. कर्मनिरूपणम् सामान्यनिरूपणम् विशेष निरूपणम्
४३ । समवायनिरूपणम्
प्रागभाव.
[[22]]
[[23]]
[[४५]]
[[૪૬]]
[[23]]
[[४७]]
"
प्राध्वंसाभावः
४४ । अत्यन्ताभाव
अन्योन्याभावः
[[22]]
उपसंहार.
[[23]]
१
श्रीः
तर्कसङ्ग्रहः ।
न्यायबोधिनी - पदकृत्यव्याख्योपेतः । निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥ १ ॥ न्यायबोधिनी ।
अखिलागमसञ्चारि श्रीकृष्णाख्यं परं महः । ध्यात्वा गोवर्धन सुधीस्तनुते न्यायबोधिनीम् ॥ १ चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्टदेवतानमस्कारात्म- कं मङ्गलं शिष्यशिक्षार्थं ग्रन्थादौ निबध्नाति - निधायेति ॥ १ ॥
पदकृत्यम् ।
श्रीगणेशं नमस्कृत्य पार्वतीशङ्करं परम् ।
मया चन्द्रजसिहेन क्रियते पदकृत्यकम् ॥ १ ॥ यस्मादिदमहं मन्ये बालानामुपकारकम् ।
तस्माद्धितकरं वाक्यं वक्तव्यं विदुषा सदा ॥ २ ॥
विश्वेशं जगत्कर्तार श्रीसाम्बमूर्ति हृदि मनसि निधाय नितरां धारयिला गुरु- चन्दनं च विधाय कृत्वेत्यर्थ । वालेति । अत्राधीतव्याकरणकाव्यकोशानधीत- न्यायशास्त्रो बाल । व्यासादावतिव्याप्तिवारणायानधीतन्यायेति । स्तनन्धयेऽतिप्रस- क्तिवारणायाधीतव्याकरणेति । सुखेति । सुखेनानायासेन वोधाय पदार्थतत्त्व- ज्ञानायेत्यर्थ. । तर्क्यन्ते प्रमितिविषयीक्रियन्ते इति तर्का द्रव्यादिपदार्थास्तेषा सं- ग्रह सङ्क्षेपेणोद्देश लक्षणपरीक्षा यस्मिन् स ग्रन्थः । नाममात्रेण वस्तुसङ्कीर्तन मु देश । यथा द्रव्यं गुणा इति । असाधारणधर्मो लक्षणम् । यथा गन्धवत्त्वं पृथिव्या । लक्षितस्य लक्षणं सभवति न वेति विचार परीक्षा । अत्रोद्देशस्य पक्ष- ज्ञानं फलं लक्षणस्येतरभेदज्ञानं परीक्षाया लक्षणे दोपपरिहार इति मन्तव्यम् ॥
द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः ॥ ( न्या० ) अथ पदार्थान्विभजते- द्रव्येति । तत्र सप्तग्रहणं पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्याप्तिलाभाय । ननु
१ उद्देशस्यापि विभागसमानविषयत्वादर्यात्सिद्धिरतो नास्योद्देशग्रन्थत्वानुपपत्तिः ।तर्कसङ्ग्रहः ।
शक्तिपदार्थस्याष्टमस्य सत्त्वात्कथं सप्तैवेति । तथाहि — वह्निसंयुक्ते- न्धनादौ सत्यपि मणिसंयोगे दाहो न जायते । तच्छून्येन तु जायते । अतो मणिसमवधाने शक्तिर्नश्यति मण्यभावदशायां दाहानुकूला शक्तिरुत्पद्यत इति कल्प्यते । तस्माच्छक्तिरतिरिक्तः पदार्थ इति चेत् । न । मणेः प्रतिबन्धकत्वेन मण्यभावस्य कारणत्वेनैव निर्वाहे मणिसमवधानासमवधानाभ्यामनन्तशक्तितस तत्प्रागभावकल्पनाया अन्याय्यत्वात् । तस्मात्सप्तैवेति सिद्धम् ॥
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥
( न्या० ) द्रव्याणि विभजते- पृथिवीति । नन्वन्धकारस्य दशमद्रव्यस्य सत्त्वात्कथं नवैवेति । तथाहि — नीलं तमश्चलतीति प्रतीतेर्नीलरूपाश्रयत्वेन क्रियाश्रयत्वेन च द्रव्यत्वं सिद्धम् । नच क्लृप्तद्रव्येष्वन्तर्भावात्कुतो दशमद्रव्यत्वमिति वाच्यम् । आकाशादिपञ्च- कस्य वायोश्च नीरूपत्वान्न तेष्वन्तर्भावः । तमसो निर्गन्धत्वान्न पृथि- व्यामन्तर्भावः । जलतेजसोः शीतोष्णस्पर्शवत्त्वान्न तयोरन्तर्भावः । तस्मात्तमसो दशमद्रव्यत्वं सिद्धमिति चेत् न, तेजोभावरूपत्वेनैवोप-. पत्तावतिरिक्ततत्कल्पनायां मानाभावात् । नच विनिगमनाविरहात्तेज एव तमोऽभावस्वरूपमस्त्विति वाच्यम् । तेजसोऽभावस्वरूपत्वे सर्वानुभूतोष्णस्पर्शाश्रयद्रव्यान्तरकल्पने गौरवात् । तस्मादुष्णस्पर्श - गुणाश्रयतया तेजसो द्रव्यत्वं सिद्धम् । तमसि नीलत्वादिप्रतीतिस्तु भ्रान्तिरेव दीपापसरणक्रियाया एव तत्र भानात् ॥
( प ० ) तत्रेति । तत्र सप्तपदार्थमध्ये इत्यर्थः । द्रव्याणि नवैवेत्यन्वय । एवं
। तत्रेति पदं चतुर्विंशतिर्गुणा इत्यादिनाऽप्यन्वेति । द्रव्यत्वजातिमत्त्वं गुणवत्त्वं समवायिकारणत्वं वा द्रव्यसामान्यलक्षणम् ॥
रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्व संयोगविभागप- रत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुः खेच्छाद्वेपप्र- यत्त्रधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः ॥ उत्क्षेपणापक्षेप- णाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥ परमपरञ्चेति द्विविधं सामान्यम् ॥ नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता
१ आदिशब्दाच्चलनस्य ग्रहणम् ॥न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
एव । समवायस्त्वेक एव । अभावश्चतुर्विधः । प्राग- भावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति ॥ इत्युद्देशग्रन्थः ॥
।
[[३]]
( प ० ) परमपरं चेति । परसामान्यमपरसामान्यमित्यर्थ । परत्वं चाधिक- देशवृत्तित्वम् । अपरत्वं न्यून देशवृत्तित्वम् ॥
तत्र गन्धवती पृथिवी । सा द्विविधा । नित्याऽनित्या च। नित्या परमाणुरूपा । अनित्या कार्यरूपा । पुन- स्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादी- नाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । वि-
यो मृत्पाषाणादिः ॥
(न्या०) गन्धवतीति । गन्धर्वत्त्वं पृथिव्या लक्षणम् । लक्ष्या पृथिवी । पृथिवीत्वं लक्ष्यतावच्छेदकम् । यद्धर्मावच्छिन्नं लक्ष्यं स धर्मों लक्ष्यतावच्छेदकः । यो धर्मो यस्यावच्छेदकः स तद्धर्मावच्छि- नः । तथाच लक्ष्यतावच्छेदकं पृथिवीत्वं चेल्लक्ष्यता पृथिवीत्वाव- च्छिन्ना । गैन्धसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वं पृथिव्या लक्ष- णम् ॥ एवं शीतस्पर्शवत्त्वादिलक्षणेषु जलादीनां लक्ष्यता जलवा - दीनां लक्ष्यतावच्छेदकत्वं च बोध्यम् ॥
( प ० ) तदेव हि लक्षणं यदव्यात्यतिव्याप्यसभवरूपदोषत्रयशून्यम् । यथा गो. सास्नादिमत्त्वम् । अव्याप्तिश्च लक्ष्यैकदेशावृत्तित्वम् । अतएव गोर्न कपिलत्वं लक्षणं तस्याव्याप्तिग्रस्तत्वात् । अतिव्याप्तिश्च लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वम् । अत एव गोर्न वङ्गित्वं लक्षणं तस्यातिव्याप्तिग्रस्तत्वात् । असभवश्च लक्ष्यमात्रा- वृत्तित्वम् । यथा गोरेकशफवत्त्वं न लक्षणं तस्यासम्भवग्रस्तत्वात् । नित्येति । ध्वंसमिन्नत्वे सति ध्वसाप्रतियोगित्वं नित्यत्वम् । ध्वंसेऽतिव्याप्तिवारणाय ध्वंस • मिनेति विशेषणम् । घटादावतिव्याप्तिवारणाय विशेष्यदलम् । ध्वंसप्रतियोगित्वं प्रागभावप्रतियोगित्वं वाऽनित्यत्वम् । यद्भोगायतनं तदेव शरीर चेष्टाश्रयो वा । इन्द्रियमिति । चक्षुरादावतिव्याप्तिवारणाय गन्धग्राहकमिति । कालादावति -
१ अत्राधिकरणार्थकमतुबन्तात्त्वप्रत्ययविधानाद्गन्ववत्त्वमित्यस्य गन्धाधिकरणत्वमर्थ तच्च समवायेन बोध्यम् । समवायसबन्धावच्छिन्नगन्धत्वावच्छिन्नाधेयतानिरूपिताधि- करणतावत्त्वमिति निष्कर्षः । २ उत्पत्तिकालावच्छेदेन घटादावव्याप्तेराह - गन्धेति । ३ व्याप्यत्व न्यूनदेशवृत्तित्व द्रव्यत्वाभावसामानाधिकरण्ये सति द्रव्यत्वाभाववदवृ- त्तित्वरूपं तेन द्रव्यत्वस्य द्रव्यत्वव्याप्यत्वेऽपि न क्षतिः । अव्यापकत्वं वा निवेश्य, तस्य गुणत्वादिसाधारण्येऽपि तत्र गन्धसमानाधिकरणत्वाभावान्नातिव्याप्ति ।
[[1४]]
तर्कसङ्ग्रहः ।
प्रसक्तिवारणायेन्द्रियमिति । विषय इति । शरीरेन्द्रियमिन्नत्वे सत्युपभोगसा-
धनं विषय । शरीरादावतिव्याप्तिनिरासाय सत्यन्तम् । परमाण्वादावतिव्याप्तिवा- रणाय विशेष्यदलम् । कालादिवारणाय जन्यत्वे सतीत्यपि वोभ्यम् ॥
शीतस्पर्शवत्य आपः । ता द्विविधाः । नित्या अनित्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रि- विधाः शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवति । विषयः सरित्स- मुद्रादिः ॥
।
(प०) शीतेति । तेजआदावतिव्याप्तिवारणाय शीतेति । आकाशवारणाय स्प- शैति । कालादावतिप्रसक्तिवारणाय समवायसबन्धेनेति पदं देयम् । इन्द्रियमिति त्वगादावतिव्याप्तिवारणाय रसग्राहकमिति । रसनेन्द्रिय रससनिकपदावतिव्याप्ति- निरासायेन्द्रियमिति । सरिदिति । आदिना तडागहिमकरकादीना सग्रह. ॥ उष्णस्पर्शवत्तेजः । तच्च द्विविधम् । नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधं
। शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषय- चतुर्विधो भौमदिव्योदर्याकरजभेदात् । भौमं वह्नचा- दिकम् । अविन्धनं दिव्यं विद्युदादि । भुक्तस्य परि
। णामहेतुरुदर्यम् । आकरजं सुवर्णादि ॥
( प ० ) उष्णेति । जलादावतिव्याप्तिनिरासायोष्णेति । कालादावतिप्रसङ्गवार- णाय समवायसबन्धेनेति पदं देयम् । इन्द्रियमिति । घ्राणादावतिव्याप्तिवार- णाय रूपग्राहकमिति । कालादावतिव्याप्तिनिरसनायेन्द्रियमिति । भेदादिति पदं प्रत्येकमभिसम्बध्यते । भौममिति । आदिपदेन खद्योतगततेज. प्रभृते परिग्रहः । विद्युदादीति । आदिनार्कचन्द्रादीना परिग्रह । भुक्तेति । भुक्तस्यान्नादे- पोतस्य जलस्य परिणामो जीर्णता तस्य हेतुरुदर्यमित्यर्थ. । सुवर्णेति । आदिना रजतादिपरिग्रह ।
।
रूपरहितः स्पर्शवान्वायुः । स द्विविधः । नित्यो नित्यश्च
। नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति । विषयो वृक्षादिक-
१ रसनेन्द्रियस्य रसेन साकं य सनिकर्ष सयुक्तसमवायस्तद्वारणायेत्यर्थ ।
Hsippin
न्यायबोधिनी - पदकृत्य व्याख्योपेतः ।
म्पनहेतुः । शरीरान्तः सञ्चारी वायुः प्राणः । स चैको- ऽप्युपाधिभेदात्प्राणापानादिसञ्ज्ञां लभते ॥
GOS
( न्या० ) एवं पृथिव्यादित्रिकं निरूप्य वायुं निरूपयति–रूप- रहित इति । रूपरहितत्वे सति स्पर्शवत्त्वं वायोर्लक्षणम् । सति सप्तम्या विशिष्टार्थकतया रूपरहितत्वविशिष्टस्पर्शवत्त्वं वायोर्लक्ष- णम् । विशेषणांशानुपादाने स्पर्शवत्त्वमात्रस्य लक्षणत्वे पृथिव्या- दित्रिकेऽतिव्याप्तिः । तद्वारणाय विशेषणोपादानम् । तावन्मात्रोपा- दाने आकाशादावतिव्याप्तिः । तद्वारणाय विशेष्योपादानम् । अति- व्याप्तिर्नाम अलक्ष्ये लक्षणसत्त्वम् । यथा गोः शृङ्गित्वं लक्षणं कृतं चेल्लक्ष्यभूतगोभिन्नमहिष्यादावतिव्याप्तिस्तत्रापि शृङ्गित्वस्य विद्यमान- त्वात् । अव्याप्तिर्नाम लक्ष्यैकदेशावृत्तित्वम् लक्ष्यैकदेशे लक्ष्यताव- च्छेदकाश्रयीभूतकचिल्लक्ष्ये लक्षणासत्त्वमव्याप्तिरित्यर्थः । यथा गोनी - लरूपवत्त्वं लक्षणं कृतं चेल्लक्ष्यतावच्छेदकाश्रयीभूतश्वेतगवि अव्या- प्तिस्तत्र नीलरूपाभावात् । असम्भवो नाम लक्ष्यमात्रे कुत्रापि लक्षणा- सत्त्वम् । यथा गोरेकशफवत्त्वम् । गोसामान्यस्य द्विशफवत्त्वेन एक- शफवत्त्वस्य कुत्राप्यसत्त्वात् । अतिव्याप्त्यव्यात्यसम्भवानां निष्कृष्टलक्ष- णानि-लेक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यम-
तिव्याप्तिः । अव्याप्तिस्तु लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ता- भावप्रतियोगित्वम् । असम्भवस्तु लक्ष्यतावच्छेदकव्यापकीभूताभा- वप्रतियोगित्वम् ॥
( प ० ) रूपेति । घटादिवारणाय विशेषणम् । आकाशादिवारणाय विशेष्यम् । इन्द्रियमिति । चक्षुरादिवारणाय स्पर्शग्राहकमिति । कालादावतिव्याप्तिवारणा- येन्द्रियमिति । वृक्षेति । आदिपदेन जलादिपरिग्रहः । शरीरान्तरिति । महावाय्वादावतिव्याप्तिवारणाय विशेषणम् । मनआदिवारणाय विशेष्यम् । धनं- जयवारणाय सञ्चारीति । उपाधीति । मुखनासिकाभ्यां निर्गमनप्रवेशनात्प्राण’, जलाढेर वोनयनादपान, भुक्तपरिणामाय जाठरानलस्य समुन्नयनात्समान, अन्नादेरूर्ध्वनयनादुदान., नाडीमुखेषु वितननाद्यान, इति क्रियारूपोपाधिभेदा- तथा व्यवहियत इत्यर्थ. ॥
१ सति सप्तम्या बोधित वैशिष्ट्य सर्वत्र सामानाधिकरण्येन बोध्यम् । २ ‘लक्ष्य- नावच्छेदकसामानाधिकरण्ये सति’ इति पुस्तकान्तरेऽधिकम् ।६
तर्कसङ्ग्रहः ।
शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च ॥
( न्या० ) आकाशं लक्षयति — शब्दगुणकमिति । गुण- पदमाकाशे शब्द एव विशेषगुण इति द्योतनाय न त्वतिव्याप्तिवार- णाय, समवायेन शब्दवत्त्वमात्रस्य सम्यक्त्वात् । तच्चैकमिति । अनेकत्वे मानाभावादिति भावः । विभिवति । सर्वमूर्तद्रव्यसंयो- गित्व विभुत्वम् । मूर्तत्वं च क्रियावत्त्वम् । पृथिव्यप्तेजोवायुमनांसि मूर्तनि । पृथिव्यप्तेजोवाय्वाकाशेतिपञ्चकं भूतपदवाच्यम् । भूतत्वं नाम बहिरिन्द्रियग्राह्म विशेषगुणवत्त्वम् ॥
( प ० ) शब्देति । शब्दो गुणो यस्य तत्तथा । असम्भववारणाय शब्दगुणो- भयम् । विविति । सर्वमूर्तद्रव्यसयोगि ।
अतीतादिव्यवहारहेतुः कालः स चैको विभुर्नित्यश्च ॥
( न्या० ) कालं लक्षयति- अतीतेति । व्यवहारहेतुत्वस्य लक्षणत्वे घट इति व्यवहारहेतुभूतघटादावतिव्याप्तिः । तद्वारणाय अतीतादीति विशेषणोपादानम् ॥
( प०) अतीतेति । अतीत इत्यादिर्यो व्यवहारोऽतीतो भविष्यन्वर्तमान इत्या- त्मकस्तस्यासाधारण हेतु काल इत्यर्थ । नन्विदं लक्षणमाकाशेऽतिव्याप्तं व्यव- हारस्य शब्दात्मकत्वादिति चेत् । न अत्र हेतुपदेन निमित्तहेतोर्विवक्षितत्वात् । न चैवं कण्ठतालवाद्यभिघातेऽतिव्याप्तिरिति वाच्यं, विभुत्वस्यापि निवेशात् ।
प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका नित्या विभ्वी च ॥ ( न्या० ) दिशो लक्षणमाह - प्राच्येति । उदयाचलसन्निहिता या दिक् सा प्राची । अस्ताचलसन्निहिता या दिक्सा प्रतीची । मेरोः सन्निहिता या दिकू सोदीची । मेरोर्व्यवहिता या दिक् साऽवाची ॥
( प ० ) प्राचीति । इय प्राचीयमवाचीयं प्रतीचीयमुदीचीत्यादिव्यवहारासा - धारणं कारणं दिगित्यर्थ । हेतुर्दिगित्युच्यमाने परमाण्वादावतिव्याप्ति स्यात्त- द्वारणाय प्राच्यादिव्यवहार हेतुरिति । आकाशादिवारणायासाधारणेत्यपि बोध्यम् ॥ ज्ञानाधिकरणमात्मा । स द्विविधः । जीवात्मा पर मात्मा चेति । तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥
।
१ रूप गन्धो रसः स्पर्श. स्नेह सासिद्धिको द्रव । बुद्ध्यादिभावनान्ताश्च शब्दो वैशेषिका गुणा । वैशेषिका विशेषाः ।न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[७]]
( न्या० ) आत्मानं निरूपयति - ज्ञानाधिकरणमिति । अधिकरणपदं समवायेन ज्ञानाश्रयत्वलाभार्थम् ॥
( प ० ) ज्ञानाधिकरणेति । भूतलादिवारणाय ज्ञानेति । कालादिवारणाय समवायेनेत्यपि देयम् । ईश्वर इति । समवायसबन्धेन नित्यज्ञानवानीश्वरः । जीव इति । सुखादिसमवायिकारणं जीव इत्यर्थ. ॥
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः तच प्रत्यात्मनि- यतत्वादनन्तं परमाणुरूपं नित्यं च ॥
( न्या० ) मनो निरूपयति-सुखादीति । उपलब्धिर्नाम - साक्षात्कारः । तथाच सुखदुःखादिसाक्षात्कारणत्वे सति इन्द्रियत्वं मनसो लक्षणम् । इन्द्रियत्वमात्रोक्तौ चक्षुरादावतिव्याप्तिः । अतः सुखादिसाक्षात्कारकारणत्वविशेषणम् । विशेप्यानुपादाने आत्मन्य- तिव्याप्तिः । आत्मनः सुखादिकं प्रति समवायिकारणत्वात् । अत इन्द्रियत्वरूपविशेष्योपादानम् ॥
(प०)
( प ० ) सुखेति । आत्ममन सयोगादिवारणायेन्द्रियमिति । चक्षुरादिवारणाय सुखेति ॥
चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तह- रितकपिशचित्र भेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भा- स्वरशुक्लं तेजसि ॥
(न्या० ) रूपं लक्षयति — चक्षुरिति । चक्षुर्मात्राद्यत्वविशि-
लक्षयति–चक्षुरिति ष्टगुणत्वं रूपस्य लक्षणम् । विशेष्यमात्रोपादाने रसादावतिव्याप्तिः । अतश्चक्षुर्मात्रग्राह्यत्व विशेषणम् । तावन्मात्रोपादाने रूपत्वेऽतिव्याप्तिः । यो गुणो यदिन्द्रियग्राह्यस्तनिष्ठा जातिस्तदिन्द्रियग्राह्येति नियमात्तद्वा- रणाय विशेष्योपादानम् । चक्षुर्मात्रग्राह्यत्वं नाम चक्षुर्भिन्नेन्द्रियाग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम्। मात्रपदानुपादाने सङ्ख्यादिसामान्यगुणेऽतिव्याप्तिः, चक्षुर्ग्राह्यत्वविशिष्टगुणत्वस्य सत्त्वात् । अतस्तद्वारणाय मात्रपदं, सङ्ख्या- देश्चक्षुर्भिन्नत्वगिन्द्रियग्राह्यत्वाच्चक्षुर्मात्रग्राह्यत्वं नास्ति । अतीन्द्रियगुरु-
१ नचात्र ‘गुणे शुक्लादय. पुसि’ इत्यनुशासनविरोध. शङ्कय । तस्य विशेष्यासममि- व्याहारविषयकत्वादत्र च रूपमित्यस्यानुषङ्गात् । येनेन्द्रियेण या व्यक्तिर्गृह्यते तद्गता जातिस्तदभावश्च तेनैवेन्द्रियेण गृह्यत इति नियमस्य प्रकृतोपयोग्य शमात्रोपादानमिदम् ॥V
तर्कसङ्ग्रहः ।
त्वादावतिव्याप्तिवारणाय चक्षुग्रह्येति । अत्र लक्षणे ग्राह्यत्वं नाम प्रत्यक्षविषयत्वम् । अग्राह्यत्वं नाम तदविषयत्वम् । तथाच चक्षुभि- नेन्द्रियजन्यप्रत्यक्षाविषयत्वे सति चक्षुर्जन्यप्रत्यक्ष त्रिपयत्वमिति फलि - तोऽर्थः । ननु प्रभाघटसंयोगे रूपलक्षणस्यातिव्याप्तिस्तस्य चक्षुर्मात्र ग्रामगुणत्वादिति चेन्न । गुणपदस्य विशेषगुणपरत्वात् । न चैवं विशेषगुणत्वघटितलक्षणे सङ्ख्यादावतिव्याप्त्यभावान्मात्र पदवैयर्थ्यमिति वाच्यम् । जलमात्रवृत्तिसांसिद्धिकद्रवत्वादावतिव्याप्तिवारणाय तदुपा- दानात् । अथवा चक्षुर्मात्रग्राह्यजातिमगुणत्वस्य लक्षणत्वान्न प्रभाघ- टसंयोगादावतिव्याप्तिः । संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात् । घटपटसंयोगस्य त्वगिन्द्रियग्राह्यत्वात्तद्गतजातेरपि त्वगिन्द्रियग्राह्य- त्वात् । यो गुणो यदिन्द्रियग्राह्यस्खन्निष्ठजातेरपि तदिन्द्रियग्राह्यत्वात् । अत्रजातिघटितलक्षणे गुणत्वानुपादाने चक्षुर्मात्रग्राह्यजातिमति सुव- र्णादावतिव्याप्तिरतस्तद्वारणाय तदुपादानम् । एवं रसादिलक्षणे विशे- षणानुपादाने लक्ष्यभिन्नगुणादावतिव्याप्तिः । विशेप्यानुपादाने लक्ष्यमात्रवृत्तिरसत्वगन्धत्वादावतिव्याप्तिः । अतो विशेषणविशेष्य- योरुपादानम् ॥
( प ० ) चक्षुरिति । रूपत्वादिवारणाय गुणपदम् । रसादिवारणाय चक्षुर्ग्राह्य इति । सङ्ख्यादिवारणाय मात्रपदम् । यद्यपि प्रभामित्तिसयोगवारणाय गुणपदेन विशेषगुणस्य विवक्षणीयतया तत एव सङ्ख्यादिवारणं सभवतीति मात्रपदं व्यर्थ तथापि सासिद्धिकद्रवत्ववारणाय तदावश्यकम् । वस्तुतस्तु परमाणुरूपेऽव्याप्तिवा- रणाय चक्षुर्मात्रग्राह्यजातिमत्त्वस्य विवक्षणीयतया विशेषपदं न देयम् । त्र्यणु- कादिवारणाय गुणपदं तु देयम् । सप्तेति । रूपमित्यनुषज्यते ॥
रसनग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुक- षायतिक्तभेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव ॥
(१०) रसनेति । रसत्वादिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय रस- नेति । तत्रेति । पृथिवीजलयोरित्यर्थ । षड्विध इति । अत्र रस इत्यनुवर्तते ॥ प्राणग्राह्यो गुणो गन्धः । स द्विविधः । सुरभिरसुर- भिश्च । पृथिवीमात्रवृत्तिः ॥
१ अतीन्द्रिये परमाण्वादिरूपेऽव्याप्तिवारणायाह- अथवेत्यादि ।न्यायवोधिनी - पदकृत्यव्याख्योपेतः ।
[[९]]
(१०) प्राणग्राह्य इति । गन्धत्वादावतिव्यामिवारणाय गुण इति । रूपादावति- व्यामिवारणाय प्राणग्राह्य इति । पृथिवीति । पृथिवीसबन्धसत्त्वे गन्धप्रतीति सत्त्वं पृथिवीसबन्धाभावे गन्धप्रतीत्यभाव इत्यन्वयव्यतिरेकाभ्या पृथिवीगन्धस्यैव जले प्रतीतिर्बोध्या । एवं वायावपि । ननु देशान्तरस्थ कस्तूरी कुसुम सम्बद्धपवनस्यैतद्देशे तत्सबन्धाभावाद्गन्धप्रतीत्यनुपपत्ति । नच वाय्वानीतत्र्यणुकादिसवन्धोऽस्त्येवेति वाच्यं कस्तूर्याी न्यूनतापत्ते, कुसुमस्य च सच्छिद्रत्वापत्तेरिति चेन्न । भोऋदृष्ट- विशेषेण पूर्ववत्र्यणुकान्तराद्युत्पत्ते । कर्पूरादौ तु तदभावान्न तथात्वमिति ॥ त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः । शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजो वायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथि- वीवाय्वोः ॥
।
ht
(न्या० ) स्पर्श लक्षयति - त्वगिन्द्रियमात्रग्राह्य इति । अत्रापि मात्रपदं सङ्ख्यादिसामान्यगुणादावतिव्याप्तिवारणाय । अन्य- विशेषणकृत्यं पूर्ववद्बोध्यम् । ग्राह्यत्वपदार्थोऽपि पूर्ववदेव प्रत्यक्ष- विषयत्वरूप एव बोध्यः ॥
( प ० ) स्पर्शत्वादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय त्वगिन्द्रियेति । सख्यादिवारणाय मात्रपदम् । तत्रेति । पृथिव्यादिचतुष्टये शीत इति शीतस्पर्श. । उष्ण इति उष्णस्पर्श ॥
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रापा - कजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्य गतमनित्यम् ॥
(न्या० ) रूपादिचतुष्टयमिति । एतत्तत्त्वनिर्णयश्चेत्थम् । पाको नाम विजातीयतेजः संयोगः । स च नानाजातीयरूपजनको विजातीयस्तेजः संयोगः । तदपेक्षया रसजनको विजातीयः । एवं गन्धजनकोऽपि ततो विजातीय एव । एवं स्पर्शजनकोऽपि तथैव । एवम्प्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः । यथा तृणपुञ्जनिक्षिप्त आम्रादौ ऊप्मलक्षणविजातीयतेजः संयोगात्पूर्व- हरितरूपनाशेन रूपान्तरस्य पीतादेरुत्पत्तिर्न तु रसादेरुत्पत्तिः । पूर्व- रसस्याम्लस्यैवानुभवात् । क्वचित्पूर्वहरितरूपसत्त्वेऽपि रसपरावृत्ति - श्यते । विजातीयतेजः संयोगरूपपाकवशात्पूर्वतनाम्लरसनाशेन मधुर- रसस्यानुभवात् । तस्माद्रूपजनकापेक्षया रसजनको विलक्षण एवाङ्गी-१०
तर्कसङ्ग्रहः ।
कार्यः । एवं गन्धजनको विलक्षण एव । रूपरसयोरपरावृत्तावपि पूर्वगन्धनाशेऽपि विजातीयपाकवशात्सुरभिगन्धोपलब्धेः । एवं स्पर्श- जनको पाकवशात्कठिनस्पर्शनाशेन मृदुस्पर्शानुभवात् । तस्मा- पादिजनका विजातीया एव पाकाः । अत एव पार्थिवपरमाणूना- मेकजातीयत्वेऽपि पाकमहिना विजातीयद्रव्यान्तरानुभवः । यथा गोभुक्ततृणादीनामापरमाण्वन्तभङ्गे तृणारम्भकपरमाणुपु विजातीय- तेज संयोगात्पूर्वरूपादिचतुष्टयनाशे तदनन्तरं दुग्धे यादृशं रूपा- दिकं वर्तते तादृशरूपरसगन्धस्पर्शजनकास्तेजः संयोगा जायन्ते । तदु- चरं तादृशरूपरसादय उत्पद्यन्ते । तादृशरूपरसादिविशिष्टपरमा- णुभिर्दुग्धव्यणुकमारभ्यते । ततख्यणुकादिक्रमेण महादुग्धारम्भः । एवं दुग्धारम्भकैः परमाणुभिरेव दध्यारभ्यते । एवं पाकमहिना दध्यारम्भकैरेव परमाणुभिर्नवनीतादिकमिति दिक् ॥
एकत्वादिव्यवहारहेतुः सङ्ख्या । सा नवद्रव्यवृत्तिः । एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नि- त्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु
। सर्वत्रानित्यमेव ॥
( प ० ) एकत्वादीति । एकत्वमित्यादिर्यो व्यवहार. । एको द्वावित्याद्यात्मक- स्तस्य हेतु सख्या इत्यर्थ । घटादिवारणाय एकत्वादीति । कालादिवारणायासा- धारणेत्यपि देयम् । ननु सङ्ख्याया अवधिरस्ति न वेत्यत आह-एकत्वादीति । तथाच ‘एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरर्बुद- मेवच ॥ वृन्दं खर्वो निखर्वश्च शङ्ख पद्मश्च सागर । अन्त्यं मध्यं परार्ध च दग- वृद्ध्या यथाक्रमम्’ ॥ इति महदुक्ते परार्धपर्यन्तैव सङ्ख्या इति भाव ॥
मानव्यवहारासाधारणं कारणं परिमाणम् । नवद्रव्य-
। वृत्ति । तच्चतुर्विधम् । अणु महद्दीर्घं हस्वं चेति ॥
( प ० ) मानेति । मानं परिमितिस्तस्या यो व्यवहार इदं महदिदमणु इत्याद्या- त्मकः तस्य कारणं परिमाणमित्यर्थः । दण्डादिवारणाय मानेति । कालादिवार- णायासाधारणेति । शब्दत्ववारणाय कारणमिति । नवद्रव्येति । चतुर्विधमपि परमध्यभेदेन द्विविधम् । तत्र परमाणुह्रस्वत्वे परमाणुमनसोः । मध्यमाणुहखत्वे यणुके । परममहत्त्व दीर्घत्वे गगनादौ । मध्यममहत्त्वदीर्घत्वे घटादौ । एतन्मौ- क्तिकादिद मौक्तिकमण्विति व्यवहारस्यापकृष्टमहत्त्वाश्रयत्वाद्गौणत्वं बोध्यम् एवमेव केतनाध्यञ्जनं हखमित्यत्रापि निकृष्टदीर्घत्वाद्गौणत्वम् ॥न्यायवोधिनी - पदकृत्यव्याख्योपेतः ।
पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति ॥
।
[[११]]
( प ० ) पृथगिति । अयमस्मात्पृथगिति यो व्यवहारस्तस्य कारणं पृथक्त्व- मित्यर्थः । दण्डादिवारणाय पृथगित्यादि । कालादिवारणाय साधारणेति । पृथ- ग्व्यवहारत्ववारणाय कारणमिति ॥
संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः ॥
।
( प ० ) संयुक्तेति । इमौ सयुक्ताविति यो व्यवहारस्तस्य हेतु. संयोग इत्यर्थ. । दण्डादिवारणाय संयुक्तव्यवहारेति । कालादिवारणायासाधारणेत्यपि देयम् । सयुक्त व्यवहारत्वेऽतिप्रसक्तिवारणाय हेतुरिति । उपदर्शितलक्षणचतुष्ट- येऽसाधारणपदं देयम् । क्वचित्पुस्तके परिमाणपृथक्वलक्षणे ईश्वरेच्छादिवारणा- यासाधारणेति दृश्यते तत्त्वाधुनिकैन्यस्तमिति बोध्यम् ॥
संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ॥
(न्या० ) विभागं लक्षयति-संयोगेति । संयोगनाशकत्वविशि- ष्टगुणत्वं विभागस्य लक्षणम् । विशेषणमात्रोपादाने क्रियाया अपि संयो गनाशकत्वात्तत्रातिव्याप्तिस्तद्वारणाय गुणत्वमिति विशेष्योपादानम् ॥ ( प ० ) संयोगेति । संयोगनाशजनक इत्यर्थ । कालेऽतिप्रसक्तिवारणाय गुणपदम् । ईश्वरेच्छादिवारणायासाधारणेत्यपि बोध्यम् । ननु असाधारणपदो-
। पादाने गुणपदस्य वैयर्थ्य स्यादिति चेत् । न । क्रियायामतिप्रसक्तिवारणाय
तस्याप्यावश्यकत्वात्
।
परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथि- व्यादिचतुष्टयमनोवृत्तिनी । ते च द्विविधे। दिक्कते कालकृते चेति । दूरस्थे दिकृतं परत्वम् । समीपस्थे दिकृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वं कनिष्ठे काल- कृतमपरत्वम् ॥
( प ० ) परेति । परव्यवहारासाधारणं कारणं परत्वम् । अपरव्यवहारासाधारणं कारणमपरत्वमित्यर्थः । दण्डादिवारणाय परव्यवहारेति । कालादिवारणायासा- धारणेति । परव्यवहारत्ववारणाय कारणेति । एवमेव द्वितीयेऽपि बोध्यम् ॥ आद्यपतनासमवायिकारणं गुरुत्वं पृथिवीजलवृत्ति ॥ ( न्या० ) गुरुत्वं लक्षयति — आद्येति । द्वितीयपतनक्रियायां वेगस्यासमवायिकारणत्वात्तत्रातिव्याप्तिवारणायाद्येति । उत्तरत्र स्य- न्दने आद्यविशेषणमपि पूर्ववदेव योजनीयम् ।
(१०) आद्येति । दण्डादिवारणायासमवायीति । रूपादिवारणाय पतनेति । वेगेऽतिव्याप्तिवारणायाद्येति ॥१२
तर्कसङ्ग्रहः ।
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिव्यप्तेजो- वृत्ति । तद्विविधम् । सांसिद्धिकं नैमित्तिकं च । सांसि - द्विकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ॥
( प ० ) आद्यस्यन्दनेति (१०) स्यन्दनेति ॥
। दण्डादिवारणायासमवायीति । रसादिवारणाय
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ॥ (न्या० ) स्नेहं लक्षयति — चूर्णादीति । चूर्णादिपिण्डीभावहे- तुत्वे सति गुणत्व स्नेहस्य लक्षणम् । पिण्डीभावो नाम चूर्णादेर्धा- रणाकर्षणहेतुभूतो विलक्षणः संयोगः । तादृशसयोगे स्नेहस्यैवासा- धारणकारणत्वं न तु जलादिगतद्रवत्वस्य । तथा सति द्रुतसुवर्णादिस- योगेन चूर्णादेः पिण्डीभावापत्तेः । अतः स्नेह एवासाधारणं कार- णम् । विशेषणमात्रोपादाने कालादावतिव्याप्तिरतस्तद्वारणाय विशे- प्योपादानम् । वस्तुतस्तु द्रुतजलसयोगस्यैव पिण्डीभावहेतुत्वं स्नेहस्य पिण्डीभावहेतुत्वे मानाभावात् । जले द्रुतत्वविशेषणात्कर- कादिव्यावृत्तिः ॥
(१०) चूर्णादीति । चूर्ण पिष्टं तदेवादिर्थस्य मृत्तिकादे स चूर्णादिस्तस्य पिण्डीभाव सयोगविशेषस्तस्य हेतुर्निमित्तकारणं स्नेह इत्यर्थ. । कालादावतिव्या- प्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय पिण्डीभावेति । चूर्णपदं स्पष्टार्थम् ॥
श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्वि- विधः । ध्वन्यात्मको वर्णात्मकश्च । तत्र ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः ॥
( न्या० ) शब्द लक्षयति-श्रोत्रेति । शब्दत्वेऽतिव्याप्तिवा- रणाय गुण इति । रूपादावतिव्याप्तिवारणाय श्रोत्रेति । स त्रिविधः सयोगजो विभागजः शब्दजश्चेति । यथा भेरीदण्डसंयोगजो भाङ्का- रादिशब्दः, हस्ताभिघातसंयोगजन्यो मृदङ्गादिशब्दः । वंशे पाट्य- माने दलद्वयविभागजश्चटचटाशब्दः । शब्दोत्पत्तिदेशमारभ्य श्रोत्रदे- शपर्यन्तं वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा निमित्तपवनेन शब्दधारा जायन्ते । तत्र उत्तरोत्तरशब्दे पूर्वपूर्वशब्दः कारणम् ॥न्यायपोधिनी - पदकृन्यव्याख्योपेतः ।
[[१३]]
( प ० ) श्रोत्रेति । शब्दन्वेऽतिव्याप्तिवारणाय गुण इति । रूपादिवारणाय इति । वस्तुतस्तु श्रोत्रोत्पन्नशब्द स्यैव श्रोत्रग्राह्यत्वेन तद्भिन्नेऽव्याप्ति- वारणाय श्रोत्रग्राद्यजातिमत्त्वे तात्पर्यागुणपदमनुपादेयमेव ॥
श्रोत्र
सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा । स्मृति- रनुभवश्च ॥
संस्कारमात्रजन्यं ज्ञानं स्मृतिः ॥
( न्या० ) तिं लक्षयति-संस्कारेति । संस्कारजन्यत्व- विशिष्टज्ञानत्वं स्मृतेर्लक्षणम् । विशेषणानुपादाने प्रत्यक्षानुभवेऽति- व्याप्तिस्तद्वारणाय विशेषणोपादानम् । सस्कारध्वंसेऽतिव्याप्तिवार- णाय विशेष्योपादानम् । ध्वंसं प्रति प्रतियोगिनः कारणत्वात् सं- स्कारध्वंसेऽपि संस्कारजन्यत्वस्य सत्त्वात् । प्रत्यभिज्ञायामतिव्याप्ति- वारणाय मात्रपदम् ॥
( प ० ) संस्कारेति । संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति । अनुभ- वेऽतिव्याप्तिवारणाय संस्कारजन्यमिति । तथापि प्रत्यभिज्ञायामतिव्याप्तिवारणाय सस्कारमात्रजन्यत्व विवक्षणीयम् । क्वचितचैव पाठ । नचैव सत्यसम्भवस्तस्य संस्कारजन्यत्वे सतीन्द्रियार्थसनिकर्पाजन्यार्थकत्वात् ॥
तद्भिन्नं ज्ञानमनुभवः । स द्विविधः । यथार्थोऽयथार्थश्च ॥ ( न्या० ) अनुभवं लक्षयति-तद्भिन्नमिति । तद्भिन्नत्वं नाम स्मृतिभिन्नत्वम् । स्मृतिभिन्नत्वविशिष्टज्ञानत्वमनुभवस्य लक्षणम् । तत्र • विशेषणानुपादाने स्मृतावतिव्याप्तिः, विशेप्यानुपादाने घटादा-
१ बुद्धिर्ज्ञानमिति पर्यायोपादान ज्ञानवृद्ध्युपलब्धिशब्दानामस्मिञ्शास्त्रे समानार्थ- कत्वं न माख्यानामिव भिन्नार्थकत्वमिति ज्ञापयितुन् । २ अत्र प्रतियोगित्व सबन्धेन ध्वंसं प्रति तादात्म्य सम्बन्धेन प्रतियोगिन कारणत्वमिति कार्यकारणभावो बोध्यः । ३ पुरोवर्तिनि पूर्वदृष्टस्याभेदावगाहिज्ञान प्रत्यभिज्ञा । यथा ‘सोऽय देवदत्त ’ इति ज्ञानम् । इदच सस्कारेन्द्रियसनिकर्षाभ्या जन्यते । तत्र तत्ताशे संस्कारः,
।
इदन्ताशे इन्द्रियसन्निकर्षो हेतुः । अतस्तत्तदन्तावगाहि ज्ञानमित्यपि लक्षण बोध्यम् ।१४
तर्कसङ्ग्रहः ।
वतिव्याप्तिरतस्तद्वारणाय विशेषणविशेष्ययोरुभयोरुपादानम् । अनु- भवं विभजते- सद्विविध इति ॥
( प ० ) तदिति । स्मृतित्वावच्छिन्नभिन्नमित्यर्थः । तेन यत्किचित्स्मृतिभि- न्नत्वस्य स्मृतौ सत्त्वेऽपि न क्षति । घटादावतिव्याप्तिवारणाय ज्ञानमिति । स्मृति- वारणाय तद्भिन्नमिति ॥
तद्वति तत्प्रकारकोऽनुभवो यथार्थः । सैव प्रमेत्युच्यते ।
( न्या० ) यथार्थानुभवं लक्षयति तद्वतीति । तद्वतीत्यत्र सप्तम्यर्थो विशेप्यत्वम् । तच्छब्देन प्रकारीभूतो धर्मो धर्तव्यः । तथाच तद्वद्विशेप्यकत्वे सति तत्प्रकारकानुभवेत्वं यथार्थानुभवस्य लक्षणम् । उदाहरणम् — रजते ‘इदं रजतम्’ इति ज्ञानम् । अत्र रजत- त्ववद्विशेष्यकत्वे सति रजतत्वप्रकारकत्वस्य सत्त्वाल्लक्षणसमन्वयः । तद्वन्निष्ठविशेप्यतानिरूपिततन्निष्ठप्रकारताशीलित्वमिति तु निष्कर्षः । अन्यथा यथाश्रुते रङ्गरजतयोरिमे रजतरङ्गे इत्याकारकसमूहालम्बन- भ्रमेऽतिव्याप्तिः, तत्रापि रजतत्ववद्विशेष्यकत्वरजतत्वप्रकारकत्वयो रङ्गत्ववद्विशेष्यकत्वरङ्गत्वप्रकारकत्वयोः सत्त्वात् । उक्त निष्कर्षे तु ना- तिव्याप्तिः, रजतत्वप्रकारताया रजतत्ववद्विशेष्यतानिरूपितत्वाभावात्, एवं रङ्गत्वप्रकारताया रङ्गत्ववद्विशेष्यता निरूपितत्वाभावात् । किन्तु समूहालम्बनभ्रमस्य रङ्गांशे रजतत्वावगाहित्वेन रजतत्वप्रकारताया रङ्गत्ववद्विशेप्यतानिरूपितत्वात् । एवं रजतांशे रङ्गत्वावगाहित्वेन रङ्गत्वप्रकारताया रजतत्ववद्विशेष्यतानिरूपितत्वाच्चेति । नानामुख्य- विशेष्यताशालि ज्ञानं समूहालम्बनम् ॥
।
( प ० ) तद्वतीति । तद्वति तत्प्रकारो यस्य स तथेत्यर्थः । तद्वद्विशेष्यकत- त्प्रकारक इति यावत् । स्मृतिवारणायानुभव इति । अयथार्थानुभववारणाय तह- तीति । निर्विकल्पकेऽतिव्याप्तिवारणाय तत्प्रकारक इति ॥
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः ॥
१ अत्र ‘विशेष्यत्वस्य निरूपकत्व सबन्धेन अनुभवेऽन्वय इति शेष । २ तद्व- न्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सत्यनुभवत्वमित्यर्थः ३ शालित्वमत्र निरूपकत्वम् । ४ अन्यथा = लक्षणघटक विशेष्यत्वप्रकारत्वयोनिरूप्य - निरूपकभावस्याविवक्षायाम् । ५ विशेष्यत्वस्य साक्षादनुभव विशेषण वे । ६ सप्त- व्यर्थविशेष्यत्वस्य प्रकारताद्वारानुभव विशेषणत्वरूपनिष्कर्षे ।न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[१५]]
( न्या० ) अयथार्थानुभवं लक्षयति - तदभाववतीति । अत्रापि पूर्ववत्तदभाववन्निष्ठ विशेप्यतानिरूपित तन्निष्ठप्रकारताशालि- ज्ञानत्वं विवक्षणीयम् । अन्यथा रङ्गरजतयोरिने रङ्गरजते इत्याकार- समूहालम्बनप्रमायामतिव्याप्तिः । एतत्समूहालम्बनस्य रङ्गरजतोभय- विशेष्यकत्वेन रजतत्वरङ्गत्वोभयप्रकारकत्वेन च रजतत्वाभाववद्रज- विशेष्यकत्व रजतत्वप्रकारकत्वयो रङ्गत्वाभाववद्रजतविशेष्यकत्वरङ्ग- त्वप्रकारकत्वयोश्च सत्त्वात् । निष्कर्षे तु रजताशे रजतत्वावगाहि- त्वेन रङ्गांशे रङ्गत्वावगाहित्वेन च रजतत्वप्रकारताया रजतत्वाभाव - बद्रङ्गविशेप्यतानिरूपितत्वाभावात् । एवं रङ्गत्वप्रकारताया रङ्गत्वा - भाववद्रजतविशेष्यतानिरूपितत्वाभावान्नातिव्याप्तिः । उदाहरणम्- यथा शुक्तौ ‘इदं रजतम्’ इति ॥
( प ० ) तदभावेति । तदभाववद्विशेष्यकतत्प्रकारकोऽनुभवोऽयथार्थानुभव इत्यर्थ । यथा शुक्तौ ‘इदं रजतम्’ इति ज्ञानम् । स्मृतिवारणायानुभव इति ।
। यथार्थानुभवेऽतिव्याप्तिनिरसनाय तदभाववतीति । निर्विकल्पकवारणाय तत्प्रका- रक इति ॥
यथार्थानुभवश्चतुर्विधः । प्रत्यक्षानुमित्युपमितिशाब्द भेदात् ॥ ( न्या० ) यथार्थानुभव विभजते- चतुर्विध इति ॥
( प ० ) यथार्थेति । यथार्थानुभव. प्रत्यक्षमेवेति चार्वाका । अनुमितिर- पीति काणादबौद्धा । उपमितिरपीति नैयायिकैकदेशिन । शाब्दमपीति नैया- यिका । अर्थापत्तिरपीति प्राभाकरा । आनुपलब्धिकोऽपीति भाट्टवेदान्तिनौ । साभविकैतिह्यकावपीति पौराणिका । चैष्टिकोऽपीति तान्त्रिका । एतेषा मतेs - स्वरस सम्भाव्य तस्य चातुर्विध्यं दर्शितम् ॥
तत्करणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात् ॥ (न्या० ) तत्करणमिति । फलीभूत प्रत्यक्षादिकरणं चतुर्विध- मित्यर्थः । प्रत्यक्षादिचतुर्विधप्रमाणानां प्रमाकरणत्वं सामान्यलक्षणम् । एकैकप्रमाणलक्षणं तु वक्ष्यते प्रत्यक्षज्ञानेत्यादिना ॥
( प ० ) तदिति । यथार्थानुभवात्मकप्रमाया. करणमित्यर्थ ॥ (५०)
असाधारणं कारणं करणम् ॥
(न्या० ) करणलक्षणमाह — असाधारणमिति । व्यापारवद- साधारणं कारणं करणमित्यर्थः । असाधारणत्वं च कार्यत्वातिरिक्त-१६
तर्कसङ्ग्रहः ।
धर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वम् । यथा दण्डादेर्घटा- दिकं प्रत्यसाधारणकारणत्वम् । कार्यत्वातिरिक्तो घटत्वादिरूपो धर्मः तदवच्छिन्नकार्यता घटे । तन्निरूपितकारणता दण्डे । अतो घटं प्रति दण्डः असाघारणं कारणम् । भ्रम्यादिरूपव्यापारवत्त्वाच करणम् । साधारणत्वं च कार्यत्वावच्छिन्न कार्यतानिरूपितकारणताशालित्वम् । ईश्वरादृष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात्साधारणकारणत्वम् ॥
( प ० ) असाधारणमिति । कालादिवारणायासाधारणमिति । व्यापारेऽ- तिव्याप्तिवारणाय व्यापारवदित्यपि देयम् । व्यापारश्च द्रव्यान्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनक । ईश्वरेच्छादिवारणाय तज्जन्यत्वे सतीति । कुलालजन्यत्वे सति कुलालजन्यघटजनकत्वं कुलालपुत्रस्याप्यस्त्यतस्तत्रातिव्याप्तिवारणाय प्रथमं सत्यन्तम् । दण्डरूपादिवारणाय तज्जन्यजनक इति ॥
कार्यनियतपूर्ववृत्तिकारणम् ॥
।
(न्या० ) कारणं लक्षयति — कार्यनियतेति । कार्यं प्रति नियं- तत्वे सति पूर्ववृत्तित्वम् । नियतत्वविशेषणानुपादाने पूर्ववर्तिनो- रासभादेरपि घटादिकारणत्वं स्यादतो नियतत्वे सतीति विशेषणम् । नियतपूर्ववर्तिनो दण्डरूपादेरपि घटकारणत्वं स्यादतोऽनन्यथासिद्धप- दमपि कारणलक्षणे निवेशनीयम् । दण्डरूपादीनां त्वन्यथासिद्धत्वात् ॥
( प ० ) कार्येति । कार्यान्नियतावश्यम्भाविनी पूर्ववृत्ति. पूर्वेक्षणवृत्तिर्यस्य तत्तथेत्यर्थ । अनियतरासभादिवारणाय नियतेति । कार्यवारणाय पूर्वेति । दण्ड- त्वादिवारणायानन्यथासिद्धत्वविशेषणस्यावश्यकत्वेन तत एव रासभादिवारणसं- भवे नियतपदमनर्थमेव । एवञ्चानन्यथासिद्धकार्य पूर्ववृत्ति कारणमिति फलितम् । अनन्यथासिद्धत्वमन्यथासिद्धिशून्यत्वम् । अन्यथासिद्धिश्वावश्यक्लृप्तनियतपूर्वव- तिनैव कार्यसभवे तत्सहभूतत्वम् । यथावश्यक्लृप्त नियतपूर्ववर्तिभिर्दण्डादिभिरेव घटरूपकार्यसभवे तत्सहभूतत्वं दण्डवादौ तदन्यथासिद्धम् ॥
कार्य प्रागभावप्रतियोगि ॥
( न्या० ) कार्य लक्षयति - कार्यमिति । प्रागभावप्रतियोगित्वं कार्यस्य लक्षणम् । कार्योत्पत्तेः पूर्वम् ’ इह घटो भविष्यति’ इति
१ नियतत्व व्यापकत्वम् । तद्घटकाभावश्च कार्याव्यवहितप्राक्क्षणावच्छिन्नो ग्राह्य । एतत्तात्पर्य ग्राहकमेव पूर्ववृत्तीति । तेन घटाद्युत्पत्त्यनन्तर कपालादौ दण्डाद्यभावेऽपि न क्षतिः ।न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[१७]]
प्रतीतिर्जायते एतत्रतीतिविपयीभूतो योऽभावः स प्रागभावः तत्प्र- तियोगि घटादिरूपं कार्यम् ॥
( प ० ) प्रागभावेति । कालादिवारणाय प्रागिति । असम्भववारणाय प्रति- योगीति ।
कारणं त्रिविधं समवाय्यसमवायिनिमित्तभेदात् ॥
(न्या० ) कारणं विभजते - कारणमिति । समवायिकारणम-
। समवायिकारणं निमित्तकारणं चेति ॥
यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य । पटच स्वगतरूपादेः ॥
(न्या० ) समवायिकारणं लक्षयति-यत्समवेतमिति । यस्मि - न्समवेतं सत्समबायेन सबद्धं सत् कार्यमुत्पद्यते तत्समवायिकारणमि- त्यर्थः । उदाहरणम् — यथा तन्तव इति । तन्तुषु समवायेन सम्बद्धं सत्पात्मकं कार्यमुत्पद्यते तत् तन्तवः समवायिकारणमित्यर्थः । सामा- न्यलक्षणं तु समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धा- वच्छिन्नकारणत्वं समवायिकारणत्वमिति । समवायसम्बन्धेन वटाधि- करणे कपालादौ कपालादेः तादात्म्यसम्बन्धेनैव सत्त्वात् समवाय सम्ब- न्धावच्छिन्न-घटत्वावच्छिन्न कार्यतानिरूपिततादात्म्य सबन्धावच्छिन्न- कारणतायाः कपालादौ सत्त्वाल्लक्षणसमन्वयः । जन्यभावत्वावच्छिन्नं प्रति तादात्म्यसबन्धेन द्रव्यस्यैव कारणत्वाज्जन्यभावेषु द्रव्यगुणकर्मसु त्रिषु द्रव्यमेव समवायिकारणम् । द्रव्ये तु द्रव्यावयवाः समवायिका- रणम् । अतो गुणादावपि द्रव्यमेव समवायिकारणमित्याशयेनाह— पटश्च स्वगतरूपादेरिति । समवायिकारणमित्यनुषज्यते ।
[[१]]
( प ० ) यदिति । यस्मिन्समवायसबन्वेन वर्तमानं तदित्यर्थ । चत्रादि- वारणाय समवेतमिति ॥
कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् का- रणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य । तन्तुरूपं पटरूपस्य ॥
१ उत्पद्यत इति सत्कार्यवा दिसाख्यनिरासाय । स हि सत एव कार्यस्य कारणव्यापारैरभिव्यक्ति मन्यते ।१८
तर्कसङ्ग्रहः ।
( न्या० ) असमवायिकारणं लक्षयति-कार्येणेति । कार्येण सहैकस्मिन्नर्थे समवेतं सत् यत् कारणं तत् असमवायिकारणमित्य- न्वयः । कारणेन सहैकस्मिन्नर्थे समवेतं सत् यत् कारणं तदसमवा- यिकारणमित्यन्वयः । अत्र कारणेनेत्यस्य स्वकार्यसमवायिकारणेने- त्यर्थः । जन्यद्रव्यमात्रे अवयवसंयोगस्यैवासमवायिकारणत्वात्प- टात्मककार्ये तदवयवतन्तुसयोगस्यैवासमवायिकारणत्वमिति दर्शयति - यथा तन्तुसंयोगः पटस्येति । पटात्मककार्येण सहैकस्मि न्नर्थे तन्तौ समवेतं सत्समवायसम्बन्धेन वर्तमानं सत्पटात्मककार्य प्रति तन्तुसंयोगात्मकं कारणमसमवायिकारणमित्यर्थः । द्वितीयमस- मवायिकारणं कारणेन सहेत्यादिना पूर्वोक्तं तदुदाहरति-तन्तु- रूपमिति । कारणेन सह पटरूपसमवायिकारणीभूतपटेन सह एकस्मिन्नर्थे तन्तुरूपेऽर्थे समवेतं सत्समवायसम्बन्धेन वर्तमानं सत् तन्तुरूपं पटगतरूपं प्रति कारणं भवति, अतोऽसमवायिकारणं तन्तुरूपं पटगतरूपस्य । सामान्यलक्षणं तु समवायसम्बन्धावच्छिन्नका- येतानिरूपिता या समवायख समवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्ना कारणता तदाश्रयत्वमसमवायिकारणत्वमिति । द्रव्यासमवायिकारणी - भूतावयवसंयोगादौ तु समवायसम्बन्धावच्छिन्नघटत्वावच्छिन्नकार्य- तानिरूपिता समवायसम्बन्धावच्छिन्ना कपालद्वयसंयोगनिष्ठा कारणता कपालद्वयसयोगे वर्तते । एवमाद्यपतनक्रियायामाद्यस्यन्दनक्रियायां च गुरुत्वद्रवत्वे असमवायिकारणे भवतः । आद्यपतनक्रियां प्रति-
१ कार्यकारणयो. सामानाधिकरण्यमपेक्षितं तच्च एकस्मिन्नविकरणे वृत्तित्वम् । तत्र येन सबन्वेन कार्यस्य येन च कारणस्य वृत्तित्वमपेक्षितं तावुभौ क्रमेण कार्य- ताया कारणतायाश्चावच्छेदकसबन्धौ भवतः । द्विविधेऽपि असमवायिकारणस्थले एकस्मिन्नधिकरणे कार्यस्य समवायेनैव वृत्तित्वमपेक्षितमिति उभयत्रापि समवाय एव- कार्यतावच्छेदकसम्बन्ध । कारणतावच्छेदकश्च प्रथमे समवाय, द्वितीये स्वसमवा- थिसमवेतत्वम् । स्वशब्देन असमवायिकारणतयाभिमतस्य तन्तुरूपादेर्यहणं, तत्सम- वायि नाम समवायेनाश्रय तन्त्वादि, तत्र समवेतत्वं समवायेन वृत्तित्व पदादौ इति पटात्मके एकस्मिन्नधिकरणे पटरूपात्मककार्यस्य समवायेन तन्तुरूपात्मककारणस्य स्वसमवायिसमवेतत्व सबन्धेन वृत्तित्वात्स्वसमवायिसमवेतत्व सबन्धावच्छिन्ना कारणता तन्तुरूपे अस्तीति बोध्यम् ।न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[१९]]
आद्यस्यन्दनक्रियां प्रति च समवाय सम्बन्धेनैव तयोः कारणत्वात् । अव- यत्रिगुणादौ त्ववयवगुणादेः स्वसमवायिसमवेतत्व सम्बन्धेनैव कारण- स्वात्, तत्सम्बन्धावच्छिन्नकारणताश्रयत्वमवयवगुणादौ वर्तते । अव- यवगुणकपालतन्तुरूपादेः खशब्द्गाह्य कपालरूपतन्तुरूपसमवायिक- पालतन्तुसमवेतत्व सबन्धेन घटपटादौ सत्त्वात् ॥
( प ० ) कार्येणेति । कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे मति आत्मविशेषगुणभिन्नत्वे सति यत् कारणं तदसमवायिकारणम् । तन्तुसयोगादाव- व्याप्तिवारणाय कार्येणेति । तन्तुरूपादावव्याप्तिवारणाय कारणेनेति आत्मवि- शेषगुणेऽतिव्याप्तिवारणायात्म विशेषगुणभिन्नत्वे सतीति । विशेषवारणाय कार- णमिति ॥
तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमा- दिकं पटस्य ॥
( न्या० ) निमित्तकारणं लक्षयति - तदुभयभिन्नमिति । समवायिकारणभिन्नत्वे सति असमवायिकारणभिन्नत्वे सति कारणत्वं निमित्तकारणत्वमित्यर्थः ॥
( प ० ) तदुभयभिन्नं कारणं निमित्तकारणमिति । समवाय्यसमवा- यिकारणवारणाय तदुभयमिन्नमिति । विशेपादावतिव्याप्तिवारणाय कारणमिति ॥ तदेतत्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥
(न्या० ) तदेतदिति । यदसाधारणमिति । व्यापारवत्त्वे सतीत्यपि पूरणीयम् । अन्यथा तन्तुकपालसयोगयोरतिव्याप्तिः । तन्तुकपालसंयोगयोरपि कार्यत्वातिरिक्तपटत्वघटत्वावच्छिन्नं प्रति कारणत्वादसाधारणत्वमस्त्येवेत्यतस्तत्र करणत्ववारणाय व्यापारवत्त्वे सतीति करणलक्षणे विशेषणं देयम् । व्यापारत्वं च तज्जन्यत्वे सति तज्जन्यजनकत्वम् । भवति हि दण्डजन्यत्वे सति दण्डजन्यघट- जनकत्वाद्रम्यादेर्दण्डव्यापारत्वम् । एवं कपालसंयोग तन्तु संयोगादे- रपि कपालतन्तुव्यापारत्वं कपालतन्तुजन्यत्वे सति कपालतन्तुजन्य- घटपटजनकत्वात् । करणलक्षणेऽसाधारणत्वविशेषणानुपादाने ईश्व रादृष्टादेरपि व्यापारवत्कारणत्वस्य सत्त्वात्, तत्रातिव्याप्तिवारणायासा- धारणेति विशेषणम् ॥२०
तर्कसङ्ग्रहः ।
( प ० ) तदेतदिति । यस्मात्कारणात्करणत्वघटकं कारणमुपदर्शितं तस्मा- देतत्रिविधसाधकमध्ये यत्साधकतमं तदेव करणमिति भावः ॥ इति करण-
प्रपञ्चः ॥
तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ॥
(न्या० ) षड्विधेन्द्रियभूतप्रत्यक्षप्रमाणस्य लक्षणमाह -तत्रेति । प्रमाभूतेषु प्रत्यक्षात्मकं यज्ज्ञानं चाक्षुषादिप्रत्यक्षं तत्प्रति व्यापारवद- साधारणं कारणमिन्द्रियं भवति । अतः प्रत्यक्षज्ञानकरणत्वं प्रत्यक्षस्य लक्षणम् । आद्यसनिकर्षातिरिक्तचतुर्विधसन्निकर्षाणां समवायरूपत्वे- नेन्द्रियजन्यत्वाभावाद्व्यापारत्वं न सम्भवतीति इन्द्रियननः सयोगस्यैव वाह्यप्रत्यक्षे जननीये इन्द्रियव्यापारता बोध्या । मानसप्रत्यक्षे त्वात्म- मनः संयोगस्यैव सा बोध्या ॥
( प ० ) तत्रेति । प्रमाणचतुष्टयमध्ये । दण्डादिवारणाय ज्ञानेति । अनुमा- नादिवारणाय प्रत्यक्षेति ॥
[ ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् ] इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्विविधम् । निर्विकल्पकं सविक - ल्पकं चेति ॥
( न्या० ) प्रत्यक्षप्रमाणलक्षणमुक्त्वा प्रत्यक्षप्रमालक्षणमाह - [ज्ञा- नाकरणकमिति । क्षेपकं लक्षणमिदम् । ज्ञानं व्याप्तिज्ञानं सादृश्य- ज्ञानं पदज्ञानं च करणं येषां ते ज्ञानकरणका अनुमित्युपमितिशाब्दाः । ज्ञानकरणकं न भवतीति ज्ञानाकरणकम् । तत्त्वं प्रत्यक्षलक्षणम् । इदं लक्षणमीश्वरप्रत्यक्षसाधारणम् । ईश्वरप्रत्यक्षस्याजन्यत्वात् जन्य- प्रत्यक्षे च इन्द्रियाणामेव करणत्वं न तु ज्ञानस्येति तयोरुभयोः सङ्ग्रहः ।] इन्द्रियार्थसन्निकर्षेति । जन्यप्रत्यक्षस्यैव लक्ष्यत्वमित्य- भिप्रायेणेदं लक्षणम् । प्रत्यक्षं विभजते — निर्विकल्पकमिति ॥
( प ० ) इन्द्रियार्थेति । इन्द्रियं चक्षुरादिकमर्थो घटादिस्तयोः सन्निकर्षः सयोगादिस्तज्जन्य ज्ञानं प्रत्यक्षमित्यर्थ । सनिकर्षध्वंसवारणाय ज्ञानमिति । अनु- मित्यादिवारणायेन्द्रियार्थसनिकर्षेति । ननु सोपनेत्रचक्षुषा कथं पदार्थग्रहणञ्चक्षुष उपनेत्रनिरुद्धत्वेन पदार्थेन सह सनिकर्षाभावात् । कथं वा स्वच्छजाह्नवीसलि- लावृतमत्स्यादेश्चक्षुपा ग्रहणमिति चेन्न । स्वच्छद्रव्यस्य तेजोनिरोधकत्वाभावेन तदन्तश्चक्षु प्रवेशसम्भवात् । न चेश्वरप्रत्यक्षेऽव्याप्तिरिति वाच्यम् । अत्र जन्य- प्रत्यक्षस्यैव लक्षितत्वात् ॥न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकम् ॥
[[२१]]
( न्या० ) तल्लक्षयति — तत्र निष्प्रकारकमिति । प्रकारताशू- न्यज्ञानत्वमेव निर्विकल्पकत्वमित्यर्थः । निर्विकल्पके चतुर्थी विष- यता स्वीक्रियते । न तु त्रिविधविषयतामध्ये कापि तत्रास्ति । अतो विशेप्यताशून्यज्ञानत्वं संसर्गताशून्यज्ञानत्वमित्यपि लक्षणं सम्भवति ॥
( प ० ) तत्र निष्प्रकारकमिति । सविकल्पकेऽतिव्याप्तिवारणाय निष्प्र- कारकमिति । प्रकारवारणाय ज्ञानमिति ॥
सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोऽयं ब्राह्म- गोऽयं श्यामोऽयमिति ॥
( न्या० ) सविकल्पकं लक्षयति-सप्रकारकमिति । विषय- ताया ज्ञाननिरूपितत्वाज्ज्ञानस्य विषयतानिरूपकत्वेन प्रकारतानि- रूपकज्ञानत्वं सविकल्पकस्य लक्षणम् । एवं विशेष्यतानिरूपकज्ञा- नत्वं संसर्गतानिरूपकज्ञानत्वमित्यपि लक्षणं सम्भवति । उदाहरणम् — यथेति । इदन्त्वावच्छिन्नविशेष्यतानिरूपितडित्थत्वप्रकारता- शालिज्ञानं ब्राह्मणत्वप्रकारताशालिज्ञानं च सविकल्पकमित्यर्थः ।
( प ० ) सप्रकारकमिति । घटादिवारणाय ज्ञानमिति । निर्विकल्पकवारणाय सप्रकारकमिति ॥
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवे- तसमवायो विशेषणविशेष्यभावश्चेति ॥
(न्या०) चाक्षुषादिषड्विधप्रत्यक्षकारणीभूतान् षड्विधसन्निकर्षान्विभ- जते - संयोग इत्यादिना । द्रव्यवृत्तिलौकिक विषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुः संयोगः कारणम् । द्रव्यसमवेतवृत्तिलौ- किकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुः संयुक्तसमवायस्य हेतुत्वम् । द्रव्यसमवेतसमवेतवृत्तिलौकिक विषयतासम्बन्धेन चाक्षुषत्वा- वच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतसमवायस्य हेतुत्वम् । द्रव्यग्राहका- णीन्द्रियाणि चक्षुस्त्वड्मनांसि त्रीण्येव । अन्यानि प्राणरसनश्रव - णानि गुणग्राहकाणि । अतस्त्वगिन्द्रियस्थले द्रव्यवृत्तिलौकिक वेष- यतासम्बन्धेन त्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयोगस्य हेतुता ।
蔻२२
तर्कसङ्ग्रहः ।
एवं द्रव्यसमवेतत्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्संयुक्तसमवायस्य हेतुता । द्रव्यसमवेतसमवेतोष्णत्वशीतत्वादिजातिस्पार्शनप्रत्यक्षे त्व- क्संयुक्तसमवेतसमवायस्य हेतुता । एवमात्ममानसप्रत्यक्षे मनः संयो- गस्य हेतुता । आत्मसमवेत सुखादिमानसप्रत्यक्षे मनः संयुक्तसमवा- यस्य हेतुता । आत्मसमवेतसमवेतसुखत्वादिमानसप्रत्यक्षे मनःसंयु- क्तसमवेतसमवायस्य हेतुता । रसनत्राणयोस्तु रसगन्धतद्गतजाति- ग्राहकत्वेन द्वितीयतृतीययोः सनिकर्षयोरेव तत्र हेतुता वाच्या श्रवणेन्द्रियस्याकाशरूपत्वेन शब्दस्याकाशगुणत्वेन श्रवणेन्द्रियेण च समं शब्दस्य समवायः सनिकर्षः । शब्दवृत्तिशब्दत्वकत्वखत्वा- दिजातिविषयक श्रावणप्रत्यक्षे समवेतसमवायस्य हेतुता । अभावप्र- त्यक्षे विशेषणविशेष्यभावो नाभ विशेषणतासन्निष्कर्षः पञ्चविध- सन्निकर्षोपरि विशेषणता योजनीया । तथाहि — द्रव्याधिकरणका- भावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता । द्रव्यसमवेताधिकरणका- भावप्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवेतविशेषणता
1 संयोग- स्थाने संयुक्तपदं घटयित्वा समवायस्थाने समवेतपदं घटयित्वा अभावप्रत्यक्षस्थले निर्वाह्यम् । तथा घटद्रव्यसमवेतं घटत्वं पृथ्वीत्वा- दिकं रूपादिकं च । तत्र नीलादौ पीतत्वाभावः घटत्वादिजातौ
। पटत्वाभावश्च वर्तते स चाभावः संयुक्तसमवेतविशेषणतासनिकर्षेण गृह्यते । एवं नीलत्वादिजादौ पीतत्वाभावोऽपीन्द्रियसंयुक्तसमवेतसम- वेतविशेषणतासन्निकर्षेण गृह्यते घटसमवेतं नीलं तत्समवेतं नीलत्वं तद्विशेषणता पीतत्वाभावे वर्तत इति सङ्क्षेपः ॥ इति प्रत्यक्षपरि- च्छेदः ॥
( प ० ) प्रत्यक्षेति । तच्च प्रत्यक्षं षड्विधं घ्राणजरासनचाक्षुषश्रौत्रत्वाचमान-
। सभेदात् । ननु प्रत्यक्षकारणीभूतेन्द्रियनिष्टप्रत्यक्षसामानाधिकरण्यघटकः सनि- कर्षः क इत्यपेक्षाया त विभज्य दर्शयति — प्रत्यक्षेति । लौकिकप्रत्यक्षेत्यर्थ. ॥
चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ॥
( प ० ) संयोगमुदाहरति-चक्षुषेति । तथाच द्रव्यचाक्षुषत्वाचमानसेषु सयोग एव सनिकर्ष इति भाव ॥न्यायवोविनी - पदकृत्यव्याख्योपेतः ।
घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः । चक्षुः- संयुक्त घटे रूपस्य समवायात् ॥
[[२३]]
( प ० ) घटरूपेति । चक्षुपा इत्यनुपज्जते । तथा च द्रव्यसमवेतचाक्षुषत्वा- चमानसरामन प्राणजेषु सयुक्तसमवाय एव सनिकर्ष इत्यर्थ ॥
रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् ॥ रूपत्वेति । रूपत्वात्मकं यत्सामान्यं तत्प्रत्यक्ष इत्यर्थ । अत्रापि चक्षुपा इत्यनुषज्यते । तथाच द्रव्यसमवेतसमवेतचाक्षुपरासनप्राणजस्पार्शनमान- तेषु संयुक्तसमवेतसमवाय एव सनिकर्ष इति भाव । अथ द्रव्यतत्समवेत प्रत्य- क्षेऽपि सयुक्तसमवेतसमवाय एव सन्निकर्पोऽस्त्विति चेन्नैतत् । ईश्वरात्मा दे (आत्म- मुखादे ? ) रनध्यक्षत्वप्रसङ्गात् ॥
श्रोत्रेण शब्द साक्षात्कारे समवायः सन्निकर्षः। कर्णविवरव- याकाशस्य श्रोत्रत्वाच्छब्दस्याकाशगुणत्वात् गुणगुणि- नोश्च समवायात् ॥ शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः । श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् ॥
( प ० ) समवायसनिकर्षमुदाहरति — श्रोत्रेणेति । जननीय इति शेष ।
- ननु श्रोत्रशब्दयो कथं समवाय इत्यपेक्षमाणं प्रति तमुपपाद्य दर्शयति—क- र्णेति । अथ समवायस्य नित्यत्वेन शब्दप्रत्यक्षे को व्यापार इति चेत् शब्द श्रोत्रमन संयोगो वेति गृहाण । शब्दत्वेति । श्रोत्रेण जननीये इत्यनुकर्षशेषौ ॥ अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः । घटा- भाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य विशेषणत्वात् ॥
( प ० ) विशेषणेति । विशेपणभावो विशेष्यभावश्चेति बोध्यम् । इन्द्रिय- सम्बद्धविशेषणत्वमिन्द्रियसम्बद्धविशेष्यत्वमिति यावत् । विशेषणभावसन्निकर्षमुप- पाद्य दर्शयति-घटाभाववदिति । इह भूतले घटो नास्तीत्यादौ विशेष्यतास- निकर्पोsवसेय । सप्तम्यन्तस्य विशेषणत्वात् ॥
एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं तत्करणमिन्द्रियं, तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥
( प ० ) प्रत्यक्षप्रमामुपसंहरति - एवमिति । उपदर्शितक्रमेणेत्यर्थः । ननु सिद्धान्ते प्रत्यक्षज्ञानकरणमिन्द्रियार्थसनिकर्ष कि न स्यादिति चेन्नेत्याह- तत्करणमिति । प्रत्यक्षप्रमाणं निगमयति - तस्मादिति । प्रत्यक्षप्रमाकरण- त्वादित्यर्थ । सिद्धमिति । न्यायसिद्धान्ते सिद्धमित्यर्थः ॥
इति पदकृत्य के प्रत्यक्षपरिच्छेद . ॥२४
तर्कसग्रह :
ः।
अनुमानपरिच्छेदः ।
अनुमितिकरणमनुमानम् ।
(न्या० ) अनुमानं लक्षयति - अनुमितीति । अनुमितौ व्या- प्तिज्ञानं करणं, परामर्शो व्यापारः, अनुमितिः फलं, कार्यमित्यर्थः । परामर्शस्य व्याप्तिज्ञानजन्यत्वाद्व्याप्तिज्ञानजन्यानुमितिजनकत्वात्चजन्य- त्वे सति तज्जन्यजनकत्वरूपव्यापारत्वमुपपन्नम् । अनुमितिकरणत्व- मनुमानस्य लक्षणम् । अनुमानं व्याप्तिज्ञानम् । एतस्य परामर्शरूपव्या- पारद्वारा अनुमितिं प्रत्यसाधारणकारणतयानुमितिकरणत्वमुपपन्नम् ॥
( प ० ) प्रत्यक्षानुमानयो कार्यकारणभावसङ्गतिमभिप्रेत्य प्रत्यक्षानन्तरमनु- मानं निरूपयति - अनुमितीति । अनुमिते करणमनुमानमित्यर्थ । तच्च लिङ्गपरामरी एवेति निवेदयिष्यते । कुठारादावतिव्याप्तिवारणाय अनुमितीति । प्रत्यक्षादावतिव्याप्तिवारणाय अन्विति ॥
परामर्शजन्यं ज्ञानमनुमितिः ।
(न्या० ) परामर्शजन्यमिति । परामर्शजन्यत्वविशिष्टज्ञानत्व- मनुमितेर्लक्षणम् । अत्र ज्ञानत्वमात्रोपादाने प्रत्यक्षादावतिव्याप्तिः, अतस्तद्वारणाय परामर्शजन्यत्वे सतीति विशेषणोपादानम् । परामर्श- जन्यत्वमात्रोक्तौ परामर्श ध्वंसेऽतिव्याप्तिरतस्तद्वारणाय ज्ञानत्वोपादा-
नम् ॥
( प ० ) नन्वनुमितेरेव दुर्निरूपत्वात्तद्घटितानुमानमपि दुर्निरूपमित्यत आह- परामशैति । प्रत्यक्षादावतिव्याप्तिवारणाय परामर्शजन्यमिति । परामर्श-वंस- वारणाय ज्ञानमिति । परामर्श प्रत्यक्षवारणाय हेत्वविषयकमित्यपि बोध्यम् ॥
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः । यथा वह्नि- व्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः । तञ्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ॥
( न्या० ) अनुमितिलक्षणघटकी भूतपरामर्शलक्षणमाचष्टे – व्या- तिविशिष्टेति । व्याप्तिविशिष्टं च तत्पक्षधर्मताज्ञानं चेति कर्म- धारये विशिष्टपदस्य प्रकारतानिरूपकत्वात्, पक्षधर्मताज्ञानमि- त्यत्र षष्ठ्या विषयत्वबोधनात्, धर्मतापदस्य सम्बन्धार्थकत्वाच्च, कर्म-
१ व्याप्तिविशिष्टे यत्पक्ष वर्मताज्ञानमिति सप्तमीसमासे परामर्शत्वस्य व्याप्यनवगाहि- ‘धूमवान्पर्वत. ’ इत्यादिज्ञानसाधारण्यापत्तेराह — व्याप्तिविशिष्टमिति । २ पक्ष- वर्मतायाः ज्ञानमिति विग्रहवाक्यस्यषष्ठयेत्यर्थः ।न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[२५]]
धारयसमासे समस्यमानपदार्थयोरभेदसंसर्गलाभेन च व्याप्तिप्रका- रकाभिन्नं यत्पक्षसम्बन्धविषयकं ज्ञानं तत्परामर्श इति लभ्यते । एवं सति ‘धूमोवह्निव्याप्यः आलोकवान्पर्वतः’ इत्याकारकसमूहालम्बने परामर्शलक्षणमस्तीत्यतिव्याप्तिस्तद्वारणाय पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता तन्निरूपिता या व्याप्तिनिष्ठा प्रकारता तच्छालि ज्ञानं परामर्श इति निष्कर्षः । एतादृशपरामर्शजन्यत्वे सति ज्ञानत्व- मनुमितेर्लक्षणम् । अनुमितिपरामर्शयोर्विशिष्य कार्यकारणभावश्चे- त्थम् ॥ पर्वतत्वावच्छिन्नोद्देश्यतानिरूपित - संयोगसम्बन्धावच्छिन्नव- हित्वावच्छिन्न- विधेयताकानुमितित्वावच्छिन्नं प्रति वहिव्याप्तिप्रकार- तानिरूपिता या धूमत्वावच्छिन्नप्रकारता तन्निरूपिता पर्वतत्वाव- च्छिन्ना विशेष्यता तच्छालिनिर्णयः कारणम् ॥ स च निर्णयः वह्निव्याप्यधूमवान्पर्वत इत्याकारको बोध्यः ॥
( प ० ) व्याप्तिविशिष्टेति । विषयितासम्बन्धेन व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्श इत्यर्थः । घटादिज्ञानवारणाय पक्षधर्मतेति । धूमवान्पर्वत इत्यादिज्ञान- वारणाय व्याप्तिविशिष्टेति । तदिति । परामर्शजन्यमित्यर्थः ।
यत्र यत्र धूमस्तत्राभिरिति साहचर्यनियमो व्याप्तिः ॥
( न्या० ) यत्र यत्रेति । यत्रपदवीप्सावशाद्भूमाधिकरणे यावति वमित्वलाभाद्यावत्पदमहिना वह्नेर्धूमव्यापकत्वं लब्धम् ॥ तदेव स्पष्टयति – साहचर्यनियम इति । एतदर्थस्तु नियत- साहचर्यै व्याप्तिरिति । नियतत्वं व्यापकत्वम् ॥ साहचर्यै नाम सामानाधिकरण्यम् । तथाच धूमनियतवहिसामानाधिकरण्यं व्याप्तिरि- त्यर्थः । अत्र वह्नेर्धूमव्यापकत्वं नाम धूमसमानाधिकरणात्यन्ताभावप्र तियोगितानवच्छेदकधर्मवत्त्वम् । यथाहि — धूमाधिकरणे पर्वतचत्व-
।
१ प्रकारत्वविशेष्यत्वयो. परस्परं निरूप्यनिरूपकभावोऽस्ति, नतु प्रकारतानिरू- पिता प्रकारता भवति विशेष्यतानिरूपिता वा विशेष्यता; तथापि समानाधिकरणविष- यतयोरेकत्वाभिमानेन हेतुनिष्ठप्रकारतानिरूपिता या व्याप्तिनिष्ठप्रकारतेत्युक्तम् । परामर्शे हेतौ व्याप्तिनिष्ठप्रकारतानिरूपित विशेष्यतायाः पक्षनिष्ठविशेष्यतानिरू- पितप्रकारातायाश्च सत्त्वात्तयोः सामानाधिकरण्यनिमित्तकाभेदाध्यवसाये हेतुनिष्ठपक्ष- निरूपितप्रकारतायामपि व्याप्तिनिरूपितविशेष्यतात्वाभिमानात् तस्यां च व्याप्तिनिष्ठ- प्रकारतानिरूपकत्वस्य सत्त्वात् हेतुनिष्ठप्रकारतानिरूपिता व्याप्तिनिष्ठप्रकारतेत्युक्त- मिति भावः ।२६
तर्कसङ्ग्रहः ।
रमहानसादौ वर्तमानो योऽभावः घटत्वाद्यवच्छिन्नप्रतियोगिताका- भावः न तु वह्नित्वावच्छिन्नप्रतियोगिताकाभावः । कुतः । पर्वतादौ वहेः सत्त्वात् । एवं सति धूमाधिकरणे पर्वतचत्वरादौ वर्तमानस्य घटाद्यभावस्य प्रतियोगितावच्छेदकं घटत्वादिकमनवच्छेदकं वह्नित्वं वौ वर्ततेऽतो धूमव्यापकत्वं वहौ वर्तते । इयमन्वयव्याप्तिः सिद्धा- न्तानुसारेण । पूर्वपक्षव्याप्तिस्तु - साध्याभाववदवृत्तित्वम् । साध्य- तावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नेप्रतियोगिताक- प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नवै- यधिकरण्यावच्छिन्ना-भाववन्निरूपितहेतुतावच्छेदकसम्बन्धावच्छिन्नवृ- त्तित्वत्वावैच्छिन्नप्रतियोगिताकाभाव इति निष्कर्षः । तच्च केवलाः न्वयिन्यव्याप्तमिति सिद्धान्तानुसरणम् ॥
( प ० ) यत्र यत्रेति । यत्र यत्र धूमस्तत्र तत्राग्निरिति व्याप्तेरमिनयः । तत्र साहचर्यनियम इति लक्षणम् । सह चरतीति सहचरस्तस्य भावः साहचर्यं सामा- नाधिकरण्यमिति यावत् । तस्य नियमो व्याप्तिरित्यर्थ । स चाव्यभिचरितत्वम् । तच्च व्यभिचाराभावः । व्यभिचारश्च साध्याभाववद्वृत्तित्वम् । तथाच साध्याभा- चवदवृत्तित्वं व्याप्तिरिति पर्यवसन्नम् । महानसं वह्निमत्, धूमादित्यादौ साध्यो वह्निस्तदभाववान् जलहदादिस्तद्वृत्तित्वं नौकादाववृत्तित्वं प्रकृते हेतुभूते धूमे इति कृत्वा लक्षणसमन्वयः । धूमवान् वह्नेरित्यादौ साध्यो धूमस्तदभाववदयोगो- लकं तद्वृत्तित्वमेव वह्न्यादाविति नातिव्याप्तिः ॥
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥
( प ० ) ननु ज्ञातेयं व्याप्ति पक्षधर्मताज्ञानमित्यत्र का नाम पक्षधर्मता इत्य- पेक्षमाणं प्रति तत्स्वरूपं निरूपयति - व्याप्यस्येति । व्याप्यो नाम व्याघ्या- श्रय । स च धूमादिरेव तस्य पर्वतादिवृत्तित्वं पक्षधर्मतेत्यर्थः ॥
१ वह्निमान्धूमादित्यादौ समवायेन वह्न्यभावमादायाव्याप्तिवारणार्थं प्रतियोगिताया प्रथममवच्छिन्नान्तं विशेषणम् । २ तत्रैव महानसीयवत्याद्यभावमादायाव्याप्तिवारणाय द्वितीयमवच्छिन्नान्तम् । ३ कपिसयोगी एतद्वृक्षत्वादित्यादावव्याप्तिवारणायाभावे वैयधि- करण्यावच्छिन्नान्तं विशेषणम्, प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगितावच्छेदकविशिष्ट- प्रतियोगिनो यदनघिकरणं तद्वृत्तिरिति तस्यार्थः । ४ वह्निमान्धूमादित्यादौ तादृशसा- ध्याभावाघिकरणे स्वावयवे धूमस्य समवायेन वृत्तित्वादव्याप्तिरवस्तद्वारणाय वृत्तित्वे हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वविशेषणम् । ५ धूमवान्वहेरित्यादौ हदादिरूपयत्कि - चित्साध्याभावाघिकरणवृत्तित्वाभावस्य वहौ सत्त्वादतिव्याप्तिरतस्तद्वारणाय वृत्तित्व- सामान्याभावो विवक्षित इति बोध्यम् । ६ इदं वाच्यं ज्ञेयत्वादित्यादौ ।न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
अनुमानं द्विविधं स्वार्थ परार्थं च ॥
(न्या० ) अनुमानं विभजते – स्वार्थमिति ।
[[२७]]
( प ० ) अथ कथमनुमानमनुमितिकरणं कथ वा तस्मादनुमितेर्जनिरिति जि- ज्ञासमानं प्रति लाघवादनुमान विभागमुखेनैव वुबोधयिषुरनुमानं विभजते- अनुमानमिति । द्वैविध्यं दर्शयति - स्वार्थे परार्थं चेति ।
स्वार्थ स्वानुमितिहेतुः । तथाहि - स्वयमेव भूयोदर्श- नेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति ‘यत्र यत्र धूमस्तत्राग्निः’ इति तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्प- द्यते । अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात्पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानु- मानम् ॥
( न्या० ) स्वार्थानुमानं नाम न्यायाप्रयोज्यानुमानम् ॥
( प ० ) स्वस्यार्थः प्रयोजनं यस्मात् तत्स्वार्थमिति समास । स्वप्रयोजनं च स्वस्यानुमेयप्रतिपत्तिः । एवं परार्थमित्यस्यापि । अयमिति । व्याप्तिबलेन लीनमर्थ गमयतीति लिङ्गम् । तच धूमादि । तस्य परामर्शो ज्ञानविशेष इत्यर्थः । तस्मादिति । लिङ्गपरामर्शादित्यर्थ. । स्वार्थानुमानमुपसंहरति- तदेतदिति । यस्मादिदं स्वप्रतिपत्तिहेतुस्तस्मादेतत्स्वार्थानुमान मित्यर्थः ॥
यत्तु स्वयं धूमादग्निमनुमाय परं प्रति बोधयितुं पञ्चा- वयववाक्यं प्रयुज्यते तत्परार्थानुमानम् । यथा पर्वतो वह्निमान् । धूमवत्त्वात् । यो यो धूमवान्स स वह्निमान
। यथा महानसम् । तथा चायम् । तस्मात्तथेति । अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते ।
(न्या० ) न्यायप्रयोज्यानुमानं परार्थानुमानम् । न्यायत्वं च प्रति- ज्ञाद्यवयवपञ्चकसमुदायत्वम् । अवयवत्वं च प्रतिज्ञाद्यन्यतमत्वम् ॥
१. प्रतिज्ञाद्यन्यतमत्व नाम प्रतिज्ञादिप्रतियोगिकभेदपञ्चकावच्छिन्नप्रतियोगिताक~- भेदवत्त्वम् । प्रतिज्ञादिषु पञ्चसु प्रत्येकस्मिन् स्वस्वप्रतियोगिकभेदाभावात् भेदचतुष्टय- सत्त्वेऽपि भेदपञ्चकस्याभावेन ‘प्रतिज्ञाभेदादिभेदपञ्चकवान्न’ इत्याकारकप्रतीतिसाक्षिक- भेदस्य प्रत्येकं प्रतिज्ञादिषु सत्त्वेन लक्षणसमन्वयः । ‘प्रतिज्ञाभेदादिभेदपञ्चकवान्न'२८
तर्कसङ्ग्रहः ।
( प ० ) क्रमप्राप्तं परार्थानुमानमाह-यत्त्विति । यत्पञ्चावयववाक्यं प्रयुज्य- ते तत्परार्थानुमानमिति सम्बन्धः । पञ्चावयवेति । अथावयवत्वं नाम द्रव्यसम- वायिकारणत्वम् । प्रतिज्ञादिषु तदसम्भवात्कथमेतेऽवयवाः स्युरिति चेदनुमानवा- क्यैकदेशत्वात्तु अवयवा इत्युपचर्यत इति गृहाण । नन्वेवमपि पञ्चावयववाक्य- स्यानुमानत्वमेव न विचारसहं तस्य लिङ्गपरामर्शलाभावादिति चेन्मैवम् । लिङ्ग- परामर्शप्रयोजकलिङ्गप्रतिपादकत्वेनानुमानमित्युपचारमात्रत्वात् । तदुदाहरति- यथेति । तथा चायमिति । अयं च पर्वतस्तथा वह्निव्याप्यधूमवानित्यर्थ. । तस्मात्तथेति । वह्निव्याप्यधूमवत्त्वाद्वह्निमानित्यर्थं । अनेनेति । अनेन पञ्चा- वयववाक्येनेत्यर्थ ॥
[[1]]
प्रतिज्ञाहे तूदाहरणोपनयनिगमनानि पञ्चावयवाः । प- र्वतो वह्निमानिति प्रतिज्ञा ॥ धूमवत्त्वादिति हेतुः । यो यो धूमवान् स स वह्निमानित्युदाहरणम् । तथा चाय- मित्युपनयः । तस्मात्तथेति निगमनम् ॥
( प ० ) ननु पञ्चावयववाक्यमित्यत्र के ते पञ्चावयवा अतस्तान्दर्शयति - प्र. तिज्ञेति । प्रतिज्ञाद्यन्यतमत्वमवयवत्वम् । साध्यविशिष्टपक्षबोधकवचनं प्रतिज्ञा । पञ्चम्यन्तं तृतीयान्तं वा लिङ्गवचन हेतुः । व्याप्तिप्रतिपादकदृष्टान्तवचनमुदाहर- णम् । उदाहृतव्याप्तिविशिष्टत्वेन हेतो पक्षधर्मताप्रतिपादकवचनमुपनयः । पक्षे साध्यस्याबाधितत्वप्रतिपादकवचनं निगमनम् । इदमेव लक्षणं हृदि निधाय प्रति- ज्ञादीन्विशिष्य दर्शयति— पर्वतो वह्निमानित्यादिना ॥
स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव करणम् । तस्मा लिङ्गपरामर्शो ऽनुमानम् ॥
( प ० ) लिङ्गेति । ज्ञायमानं लिङ्गमनुमितिकरणमिति वृद्धोक्तं न युक्तम्, इयं यज्ञशाला वह्निमती अतीतधूमादित्यादौ लिङ्गाभावेऽप्यनुमितिदर्शनादित्यभिप्रा- यवॉल्लिङ्गपरामर्श एवं कारणमित्याचष्टे - लिङ्गपरामर्श एवेति । अनुमानमु- पसहरति—- तस्मादिति । अनुमितिकरणत्वादित्यर्थः । अयमेव तृतीयज्ञानमि- त्युच्यते । तथाहि —महानसादौ धूमायोर्व्याप्तौ गृह्यमाणाया यद्धूमज्ञानं तदादि- मम् । पक्षे यद्धूमज्ञानं तद्वितीयम् । अत्रैव वह्निव्याप्यत्वेन यद्भूमज्ञानं तत्तृती- यम् । इदमेव लिङ्गपरामर्श इत्युच्यते । अनुमानमिति । व्यापारवत्कारणं कर- णमिति मते व्याप्तिज्ञानमेवानुमानं लिङ्गपरामर्शो व्यापार इत्यवसेयम् ॥
लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि केवलान्वयि केवल-
इत्याकारकभेदस्य प्रतियोगिता तादृशभेदपञ्चकवति तदवच्छेदकं तादृशभेदपञ्चकमिति ‘प्रतिज्ञाभेदादिभेदपञ्चकवान्न’ इत्यय भेदः प्रतिज्ञादिप्रतियोगिकभेदपञ्चकावच्छिन्न- प्रतियोगिताको बोध्य. ।न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[२९]]
व्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्व- यव्यतिरेकि यथा वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्रा निर्यथा महानसमित्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा हद इति व्यतिरेकव्याप्तिः ॥ (न्या० ) अन्वयेनेति । व्यापकसामानाधिकरण्यरूपव्याप्तिमा नित्यर्थः । व्यतिरेकेणेति । व्यतिरेको नामाभावः । तथा च साध्याभावहेत्वभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः । इयं च व्याप्तिर्यत्र यत्र वयभावस्तत्र तत्र धूमाभाव इति । यत्रपदवीप्सया वह्नय- भाववति यावति धूमाभावग्रहणे यावत्पदस्य व्यापकत्वपरतया धूमाभावे वह्न्यभावव्यापकत्वं लभ्यते । ऐवञ्च वयभावनिष्ठव्याप्तेः स्खाश्रयीभू- तवयभावव्यापकीभूताभावप्रतियोगित्वसम्बन्धेन धूमनिष्ठतया व्यति- रेकव्याप्तिमत्त्वेन [ धूमवत्त्वं] व्यतिरेकित्वेन धूमव्यापक वह्निसामाना- धिकरण्यरूपान्वयव्याप्तिमत्त्वेनान्वयित्वेन च गीयते । व्यतिरेकपराम- शस्तु वयभावव्यापकीभूताभावप्रतियोगिधूमवान्पर्वत इत्याकारकः ॥
( प ० ) अन्वयव्यतिरेकिणो लक्षणमाह-अन्वयेति । तृतीयायाः प्रयो- ज्यत्वमर्थः । साध्यसाधनयोः साहचर्यमन्वय । तदभावयोः साहचर्यं व्यतिरेक. । तथा चान्वयप्रयोज्यव्याप्तिमद्य तिरेकप्रयोज्यव्याप्तिमदन्वयव्यतिरेकीत्यर्थं । केव- लव्यतिरेकिन्यतिव्याप्तिवारणाय अन्वयेनेति । केवलान्वयिनि व्यभिचारवारणाय व्यतिरेकेणेति । तथा चान्वयव्याप्तिरुपदर्शितैव । व्यतिरेकव्याप्तिश्च साध्याभावव्या- पकीभूताभावप्रतियोगित्वमित्यर्थ. । तदुक्तं - व्याप्यव्यापकभावो हि भावयोर्यादृगि- ष्यते । तयोरभावयोस्तस्माद्विपरीतः प्रतीयते ॥ अन्वयो साधनं व्याप्यं साध्यं व्या- पकमिष्यते । साभ्याभावोऽन्यथा व्याप्यो व्यापकः साधनात्ययः ॥ इति ॥
अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात्पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेक- व्याप्तिर्नास्ति सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ॥
( न्या० ) केवलान्वयिनो लक्षणमाह – अन्वयेति । केवलान्व- यिसाध्यकत्वं हेतोः केवलान्वयित्वम् । साध्ये केवलान्वयित्वं चात्य- न्ताभावाप्रतियोगित्वम् । तथाच अभावाप्रतियोगिसाध्यकत्वं केवला-
१ वीप्सा द्विरुच्चारणम् । २ धूमाभावे वह्नयभावव्यापकत्वग्रहे वह्नयभावे धूमाभावव्याप्यत्वस्य तुल्यवित्तिवेद्यतया ग्रहादिति भावः ।३०
तर्कसङ्ग्रहः ।
न्वयिहेतोर्लक्षणम् । एतच्च लक्षणं हेतोर्व्यतिरेकित्वेऽपि सङ्गच्छते साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावादन्वयमात्रव्याप्तिकं केवलान्वयीति मूलकारोक्तं लक्षणमुपपन्नम् । नचात्यन्ताभावाप्रतियो- गित्वरूपकेवलान्वयित्वमाकाशाभावे संयोगाभावे चाव्याप्तमिति वाच्यम् । खेविरोधिवृत्तिमदत्यन्ताभावाप्रतियोगित्वस्यैव तदर्थत्वात् । एकजातीयसम्बन्धेन सर्वत्र विद्यमानत्वं केवलान्वयित्वमिति नव्याः ॥ ( प ० ) केवलान्वयिनो लक्षणमाह- अन्वयेति । अन्वयेनैव व्याप्तिर्य- लक्षणमाह–अन्वयेति स्मिन् स तथा । प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिं निराकरोति - अत्रेति । अभिधेयत्वसाभ्यकानुमान इत्यर्थः । ननु कुतस्तन्निषेधो ऽतस्तत्र हेतुमाह सर्व- स्येति । पदार्थमात्रस्येत्यर्थः । तथाच सकलपदाभिधेयत्वस्येश्वरप्रमाविषयत्वस्य चात्यन्ताभावाप्रतियोगित्वरूपकेवलान्वयित्वेन तदभावाप्रसिद्ध्या तद्घटितव्यतिरेक- व्याप्तिर्न सम्भवत्येवेति भावः ॥
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा पृथिवी- तरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद्गन्धवत् । यथा जलम् । न चेयं तथा । तस्मान्न तथेति । अत्र यगन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति । पृथिवीमात्रस्य पक्षत्वात् ।
१ अत्यन्ताभावप्रतियोगित्वेऽपीत्यर्थः । २ स्वविरोधीति । अत्र ‘स्वविरोधि— वृत्तिमत्’ इति विशेषणद्वयमत्यन्ताभावस्य । स्वविरोधी वृत्तिमांश्च योऽत्यन्ताभाव- स्तत्प्रतियोगिभिन्नत्वमित्यर्थः । स्वविरोधीत्यस्य स्वाघिकरणावृत्तिरर्थ । स्वपदेन लक्ष- णघटकीभूतात्यन्ताभावप्रतियोगित्वेनाभिमतस्य ग्रहणम् । तेन – स्वाघिकरणावृत्तिः वृत्तिमाश्च योऽत्यन्ताभावस्तत्प्रतियोगिभूतं यद्यत्स्वं तद्भिन्नत्वमित्यर्थो निष्पन्नः । इत्थं च केवलान्वयित्वेनाभिमतं यदि स्वपदेन धर्तु शक्येत तदाऽव्याप्तिः । सयोगाभावः आकाशाभावश्च न स्वपदेन धर्तु शक्यौ, तयोः स्वपदेन ग्रहणे अग्रे अत्यन्ताभावपदेन क्रमेण सयोगाकाशावेव ग्राह्यौ । तच्च न सम्भवति संयोगस्य संयोगाभावात्मकस्वविरो- घित्वाभावात्, आकाशस्य च आकाशाभावात्मकस्वविरोधित्वेऽपि वृत्तिमत्त्वाभावात् । तस्मात् स्वपदेन घटादेर्ग्रहण तद्विरोधी वृत्तिमांश्च अत्यन्ताभावः घटाद्यभाव. तत्प्रति- योगिभूतं यद्यत्स्वं घटादिक तद्भिन्नत्वस्य अभिधेयत्वादौ सयोगाभावादौ च सत्त्वान्न काप्यव्याप्तिः । नचात्र अभिधेयत्व - संयोगाभाव आकाशाभावादिलक्ष्यव्य क्तिभेदेन लक्षणे स्वपदग्राह्य भिद्येतेति भ्रमितव्यम्, यत्र लक्ष्यस्यैव स्वपदग्राह्यत्वं यथा स्वव्यापकसा व्यसामानाधिकरण्यं सद्धेतुत्वमित्यादौ — तत्रैव लक्ष्यभेदेन स्वपदग्राह्यस्य मेदात् प्रकृते तु स्वभिन्नत्वस्यैव लक्षणत्वेन लक्ष्यभिन्नस्यैव स्वपदग्राह्यत्वादिति ध्येयम् । स्वविरोधीत्यत्र प्रतियोगिव्यधिकरणत्वनिवेशस्तु सुखप्रतिपत्तिकरः ।न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[३१]]
( न्या० ) केवलव्यतिरेकिणो लक्षणमाह-व्यतिरेकेति । अन्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकित्वम् । यथा पृथिवीति । अत्र पृथिवीत्वावच्छिन्नं पक्षः । पृथिवीतरज- लाद्यष्टभेदः साध्यः । गन्धवत्त्वं हेतुः । अत्र यद्गन्धवत्तदितरभेदव- दित्यन्वयदृष्टान्ताभावाद्गन्धव्यापकेतरभेदसामानाधिकरण्यरूपान्वयव्या- प्तिग्रहासम्भवात् । किन्तु यत्र यत्र पृथिवीतरभेदाभावस्तत्र तत्र गन्धा- भावो यथा जलादिकमिति व्यतिरेकदृष्टान्ते जलादावितरभेदाभावरू- पसाध्याभावव्यापकता गन्धाभावे गृह्यते । इममेवार्थ मनसि निधाय यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलमिति ग्रन्थेन मूलकारो व्यतिरेकव्याप्तिमेव प्रदर्शितवान् । एवम्प्रकारेण व्यतिरेकव्याप्तिग्रहान- न्तरमितरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवीत्याका- रकव्यतिरेकिपरामर्शात्पृथिवीत्वावच्छिन्नोद्देश्यतानिरूपितेतरभेदत्वा- वच्छिन्न विधेयताका पृथिवी इतरभेदवतीत्याकारकानुमितिर्जायत इति तत्त्वम् । यथाश्रुतमूलार्थस्तु - यथा जलमिति । जलं इतरभेदा- भाववत् इतरभेदाभावव्यापकगन्धाभाववच्च । इत्येवम्प्रकारेण गन्धाभा- वनिरूपिता व्याप्यता इतरभेदाभावे गृह्यत इत्यर्थः । न चेयं तथा । इयं = पृथिवी तथा इतरभेदाभावव्यापकगन्धाभाववती न किं- तु तदभावात्मकगन्धवती । तस्मान्न तथेति । तच्छब्देन गन्धाभा- वाभावरूपस्य गन्धस्य परामर्शेन तस्मादिति पञ्चम्यन्तात् गन्धाभावा- भाववत्त्वादित्यर्थोपलब्धिः । तथा - इतर भेदाभाववती । न इत्यस्या- भावः । तथाच इतरभेदाभावाभाववती इतरभेदवतीत्यर्थः ॥
( प ० ) केवलव्यतिरेकिणो लक्षणमाह-व्यतिरेकेति । व्यतिरेकेणैव व्या- प्तिर्यस्मिंस्तत्तथा । अन्वयव्यतिरेकिण्यतिव्याप्तिवारणाय मात्रेति । न चेयं त- थेति । इयं पृथिवी न तथा न गन्धाभाववतीत्यर्थः ॥ तस्मान्न तथेति ।
। गन्धाभाववत्त्वाभावादितरभेदाभाववती नेत्यर्थ । नन्वत्र किमिति नान्वयव्याप्ति- रित्याशङ्क्य परिहरति — अत्रेति । इतर मेदसाधकानुमान इत्यर्थः । इदमुपलक्ष- -यम् । जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् । यन्नैवम् तन्नैवम् । यथा घट. । प्रत्यक्षादिकं प्रमाणमिति व्यवहर्तव्यं प्रमाकरणत्वात् । यन्नैवं तन्नैवम् । यथा प्र- त्यक्षाभास । विवादास्पदम् आकाशमिति व्यवहर्तव्यं शब्दवत्त्वादित्यादिकमपि केवलव्यतिरेकीति द्रष्टव्यम् ॥३२
तर्कसङ्ग्रहः ।
सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्त्वे हेतौ पर्वतः ॥ (न्या० ) पक्षलक्षणमाह -सन्दिग्धेति । साध्यप्रकारकसन्देहवि- शेष्यत्वं पक्षत्वम् । इदं च लक्षणमनुमितेः पूर्व साध्यसन्देहो नियमेन जायत इत्यभिप्रायेण प्राचीनैः कृतम् । गगनविशे- घ्यकमेघप्रकारक सन्देहाभावदशायामपि गृहमध्यस्थपुरुषस्य घनगर्जि- तश्रवणेन गगनं मेघवदित्याकारिकाया गगनत्वावच्छिन्नोद्देश्यतानि- रूपितमेघत्वावच्छिन्नविधेयताकाया अनुमितेर्दर्शनात्प्राचीनलक्षणं विहाय नवीनैरनुमित्युद्देश्यत्वं पक्षत्वमिति स्थिरीकृतम् ॥
( प ० ) अथ पृथिवीमात्रस्य पक्षत्वादित्यत्र किं नाम पक्षतेत्यपेक्षायां तां निर्वक्ति-सन्दिग्धेति । सपक्षवारणाय सन्दिग्धेति ॥
निश्चितसाध्यवान् सपक्षः । यथा तत्रैव महानसम् ।
( न्या० ) सपक्षलक्षणमाह — निश्चितेति । साध्यप्रकारकनिश्च- यविशेष्यत्वं सपक्षत्वम् । निश्चयश्च महानसं वह्निमदित्याकारकः । ( प० ) निश्चितेति । पक्षेऽतिव्याप्तिवारणाय निश्चितेति । तत्रैवेति । धूमवत्त्वे हेतावेवेत्यर्थ ॥
निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाहृदः ॥ ( न्या० ) विपक्षलक्षणमाह — निश्चितसाध्याभावेति । सा- ध्याभावप्रकारनिश्चयविशेष्यत्वं विपक्षत्वम् । निश्चयश्च हृदो वह्नय- भाववानित्याकारकः ।
( प० ) निश्चितेति । सपक्षेऽतिव्याप्तिवारणाय साध्येति । पक्षेऽतिव्याप्ति- वारणाय निश्चितेति । तत्रैव धूमवत्त्व एव ॥
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हे-
त्वाभासाः
॥
( न्या० ) एवं सद्धेतून्निरूप्य हेत्वाभासान्निरूपयति सव्यभि चारेति । हेतुवदाभासन्त इति हेत्वाभासाः । दुष्टहेतव इत्यर्थः । दोषाश्च व्यभिचारविरोधसत्प्रतिपक्षासिद्धिबाधाः । एतद्विशिष्टा हेतवो दुष्टहेतव इत्यर्थः । यद्विषयकत्वेन ज्ञानस्यानुमितितत्करणान्यतरप्रति-
१ अत्र तृतीयार्थः अवच्छिन्नत्व तस्य प्रतिबन्धकत्वेऽन्वयः । ज्ञानस्येत्यत्र ज्ञानपद- मनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयपर षष्ठयर्थ वृत्तित्व तस्य यद्विषयकत्वेऽन्वयः । तथा च अनाहार्याप्रामाण्यज्ञानानास्कन्दितनिश्चयवृत्तियद्विषयकत्वावच्छिन्न प्रकृतानुमि-न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[३३]]
बन्धकत्वं तत्त्वं दोषसामान्यस्य लक्षणम् । हेतौ दोषज्ञाने सत्यनुमि- तिप्रतिबन्धो जायते व्याप्तिज्ञानप्रतिबन्धो वा । अतो वादिनिग्रहाय वादिनोद्भाविते हेतौ दोषोद्भावनार्थं दुष्टहेतुनिरूपणमित्यर्थः । पर्वतो वह्निमान्, प्रमेयत्वादित्यत्र प्रमेयत्वहेतौ बयभाववद्वृत्तित्वरूपव्यभि- चारे ज्ञाते वयभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम् ॥
( प ० ) हेतून्निरूप्य प्रसङ्गाद्धेत्वाभासानाह - सव्यभिचारेति । अत्रेदं बोध्यम् — अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं स्वसाध्यं साधयितुं क्षमते तानि कानीति चेच्छ्रयताम् । पक्षधर्मत्वं सपक्षसत्त्वं विपक्षाद्व्यावृत्तिरवाघितविषयत्वम- सत्प्रतिपक्षत्वं चेति । अबाधित साध्यरूपो विषयो यस्य तत्तथोक्तम् । तस्य भावस्तत्त्वम् । एवं साध्याभावसाधकं हेलन्तर यस्य स सत्प्रतिपक्ष इत्युच्यते । स नास्ति यस्य सोऽसत्प्रतिपक्षः । तस्य भावस्तत्त्वमिति बोध्यम् । केवलान्वयि तु चतूरूपोपपन्नमेव स्वसाध्यं साधयितुं क्षमते तस्य विपक्षविपर्ययेण तव्यावृत्तिविप- र्ययात् । केवलव्यतिरेक्यपि तथा तस्य सपक्षविपर्ययेण तत्सत्त्वविपर्ययादिति । उपदर्शितरूपाणा मध्ये कतिपयरूपोपपन्नत्वात् । हेतुवदाभासन्ते इति हेला- भासा । तत्त्वं चानुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वम् । बाध- स्थले वह्निरनुष्ण इत्यनुमितिप्रतिबन्धकं यज्ज्ञानमुष्णत्ववद्वह्रावनुष्णत्वसाधकं द्रव्य- त्वमित्याकारकं तद्विषयत्वत्य विषयतासम्बन्धेन द्रव्यत्वरूप हेत्वाभासे सत्त्वालक्षण- समन्वय । सद्धेतुवारणाय यथार्थेति । घटादिवारणाय अनुमितितत्करणप्रतिब- न्धकेति । व्यभिचारिणि अव्याप्तिवारणाय तत्करणान्यतरेति ॥
सव्यभिचारोऽनैकान्तिकः । स त्रिविधः साधारणासा- धारणानुपसंहारिभेदात् । तत्र साध्याभाववद्वृत्तिः सा- धारणोऽनैकान्तिकः । यथा पर्वतो वह्निमान् प्रमेयत्वा- दिति । प्रमेयत्वस्य वचभाववति हदे विद्यमानत्वात् ॥
( प ० ) तत्रेति । साधारणादित्रितयमध्य इत्यर्थ. । अथ विरुद्धेऽतिप्रसक्ति-
। रिति मा स्म दृप्य सपक्षवृत्तित्वस्यापि निवेशात् । अथैवमपि स्वरूपासिद्धे दूषण जागतीति मा वह गर्व पक्षवृत्तित्वस्यापि तथात्वात् ॥
सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः । यथा शब्दो नित्यः शब्दत्वादिति । शब्दत्वं सर्वेभ्यो नित्ये- भ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्ति ॥
تريد
तितत्करणान्यतरप्रतिबन्धकत्व तत्त्व हेत्वाभासत्वमित्यर्थः । दोषविषयकज्ञानस्य प्रतिब- न्धकत्वात् दोषविषयकत्व प्रतिबन्धकतावच्छेदक भवति प्रतिबन्धकता च दोषविषयक - त्वावच्छिन्ना । यत्पदेन दोषस्य ग्रहणात्तत्त्वं दोषे ।३४
[[2200]]
तर्कसङ्ग्रहः ।
(न्या० ) असाधारण इति । सर्वसपक्षव्यावृत्तत्वं निश्चित - साध्यवदवृत्तित्वम् । साध्यवदवृत्तित्वं च साध्यासामानाधिकर- व्यम् । हेतौ साध्यासामानाधिकरण्ये निश्चिते साध्यासामानाधिकर- व्यरूपव्याप्तिज्ञानप्रतिबन्धः फलम् ॥
( प ० ) पक्षमात्रेति । सर्वे ये सपक्षा विपक्षास्तेभ्यो व्यावर्तत इति सपक्ष- विपक्षव्यावृत्त । केवलव्यतिरेकवारणाय तद्भिन्न इत्यपि देयम् ॥
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वम- नित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वाद्दृष्टान्तो नास्ति ॥ (न्या० ) अनुपसंहारिणं लक्षयति — अन्वयेति । उभयत्र दृष्टान्ताभावादन्वयव्याप्तिज्ञानव्यतिरेकव्याप्तिज्ञानोभयसामग्री नास्ती- त्यर्थः । सर्वस्यैव पक्षत्वात्पक्षातिरिक्ताप्रसिद्धेरिति भावः ॥
( प ० ) अन्वयेति । केवलान्वयिन्यतिव्याप्तिवारणाय अन्वयेति । केवलव्य - तिरेकिण्यतिव्याप्तिवारणाय व्यतिरेकेति । अत्रेति । उपदर्शितानुमान इत्यर्थं ॥ साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कु- तकत्वादिति । कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् ॥
( न्या० ) विरुद्धं लक्षयति - साध्याभावव्याप्त इति ॥ साध्याभावव्याप्तिः साध्याभावनिरूपितव्यतिरेकव्याप्तिः साध्यव्यापकी- भूताभावप्रतियोगित्वम् । तथाच पक्षविशेष्यकसाध्याभावव्याप्यहेतु- प्रकारकज्ञानात् पक्षविशेष्यक साध्यप्रकारकानुमिति प्रतिबन्धः फलम् । एवं सत्प्रतिपक्षेऽपि । विरुद्धसत्प्रतिपक्षयोर्विशेषस्तु विरुद्धहेतोरेक- त्वेन सत्प्रतिपक्षहेतोर्द्वित्वेन च ज्ञातव्यः । सत्प्रतिपक्षे द्वौ हेतू विरुद्ध एको हेतुरिति यावत् । साध्याभावसाधकहेतुः साध्यसाध- कत्वेनोपन्यस्त इत्यसामर्थ्य सूचनमपि ॥
( प ० ) विरुद्धं लक्षयति-साध्येति । सद्धेतुवारणाय साध्याभावव्याप्त इति । सत्प्रतिपक्षवारणाय सत्प्रतिपक्षमित्र इत्यपि बोध्यम् । कृतेति । कार्यत्वा- दित्यर्थ । कृतकत्वमिति । अनित्यत्वेन व्याप्तमिति । यद्यत्कृतकं तत्तद्- नित्यमिति व्याप्तिर्भवत्येव तथेति भाव ॥
१ हेतुसाध्ययोर्यत्र निश्चयस्तस्य दृष्टान्तत्वात् यत्र साध्यसशयस्तस्य पक्षत्वात् साध्य सन्देहवत्त्वस्य साध्य निश्चयवत्त्वस्य च विरोधात् पक्षभिन्नस्यैव दृष्टान्तत्वादिति भावः ।न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वाच्छब्दत्ववत् । शब्दोऽनित्यः कार्यत्वाद्धटवत् ॥
[[३५]]
( प ० ) सत्प्रतिपक्षं लक्षयति-साध्येति । यस्य हेतो साध्याभावसाधकं साध्याभावस्यानुमापकं हेत्वन्तरं प्रतिपक्षो हेतु विद्यते स हेतुः सत्प्रतिपक्ष इत्यर्थः । अयमेव प्रकरणसम इत्युच्यते । विरुद्धवारणाय हेलन्तरं यस्येति । बहचादिवारणाय साध्याभावेति ॥
असिद्धस्त्रिविधः आश्रयासिद्धः स्वरूपासिद्धो व्याप्य- त्वासिद्धश्चेति ॥
( प ० ) असिद्धं विभजते - असिद्ध इति । आश्रयासिद्धान्यतमत्वमसि - द्धत्वम् ॥
आश्रयासिद्धो यथा गगनारविन्दं सुरभि, अरविन्द - त्वात् । सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव ॥
(न्या० ) आश्रयासिद्ध इति । आश्रयासिद्धिर्नाम पक्षताव- च्छेदकविशिष्टपक्षाप्रसिद्धिः । यथेति । अत्रारविन्दे गगनीयत्वाभावे निश्चिते गगनीयत्वविशिष्टारविन्दे सौरभ्यानुमितिप्रतिबन्धः फलम् ॥
( प ० ) आश्रयासिद्धत्वं च पक्षतावच्छेदकाभाववत्पक्षकत्वम् । भवति हि अरविन्दत्वे गगनीयत्वरूपपक्षतावच्छेदकाभाववत्पक्षकत्वम्, अरविन्दरूपपक्षे गगनीयत्वविरहात् । ननु किमरविन्दे गगनीयत्वविरहोत आह-अत्रेति उपदर्शितानुमान इत्यर्थ. ।
स्वरूपासिद्धो यथा । शब्दो गुणश्चाक्षुषत्वात्, रूपवत् । अत्र चाक्षुषत्वं शब्दे नास्ति शब्दस्य श्रावणत्वात् ॥ (न्या० ) खरूपासिद्ध इति । खरूपासिद्धिर्नाम पक्षे हेत्वभावः । तथाच हेत्वभावविशिष्टपक्षज्ञानात्पक्षविशेष्यक हेतु प्रकार- कपरामर्शानुपपत्त्या परामर्शप्रतिबन्धः फलम् ॥
( प ० ) पक्षे हेत्वभावः खरूपासिद्धिः । सद्धेत्वभावेऽतिव्याप्तिवारणाय पक्षे इति । घटाद्यभाववारणाय हेलिति । सोऽयं स्वरूपासिद्ध · शुद्धासिद्धभागासिद्धवि- शेषणासिद्ध विशेष्यासिद्धभेदेन चतुर्विध । तत्राद्यस्तूपदर्शित एव । द्वितीयो यथा— उद्भूतरूपादिचतुष्टयं गुण, रूपत्वादित्यत्र रूपत्वहेतो. पक्षैकदेशावृत्तित्वेन. तस्य भागे खरूपासिद्धत्वम् । तृतीयो यथा - वायुः प्रत्यक्षः, रूपवत्त्वे सति स्पर्शवत्त्वादित्यत्र रूपवत्त्वविशेषणस्य वायावत्तैस्तद्विशिष्टस्पर्शवत्त्वस्यापि तथा-३६
तर्कसङ्ग्रहः ।
त्वेन तस्य खरूपासिद्धत्वं निर्वहति विशेषणाभावे विशिष्टस्याप्यभावात् । तुरीयो यथा— अत्रैव विशेषणविशेष्यवैपरीत्येन हेतुः । तस्य स्वरूपासिद्धत्वं तु विशेष्या- भावप्रयुक्त विशिष्टाभावादिति बोध्यम् ॥
सोपाधिको हेतुर्व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः । साध्यसमानाधिकरणात्य- न्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्नि-
। ष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् । पर्व- तो धूमवान् वह्निमत्त्वादित्यत्रार्द्रेन्धनसंयोग उपाधिः । यत्र धूमस्तत्रार्द्रेन्धनसंयोगो इति साध्यव्यापकता । यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति अयोगोलके आर्द्रेन्धन- संयोगाभावादिति साधनाव्यापकता । एवं साध्यव्या- पकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग पाधिः । सोपाधिकत्वाद्वह्निमत्त्वं व्याप्यत्वासिद्धम् ॥
उ.
(न्या० ) व्याप्यत्वासिद्ध इति । प्रकृते धूमव्यापकत्वमा-
। द्वैन्धनसंयोगे गृहीतं चेद्भूमे आर्द्रेन्धनसंयोगव्याप्यत्वं गृहीतम् । एवं वहरेव्यापकत्वमार्द्रेन्धनसंयोगे गृहीतं चेद्वह्नौ तदव्याप्यत्वं गृही- तम् । तदेव व्यभिचरितत्वम् । तथा चोपाधिव्यभिचरितत्वं साधने गृहीतं चेदुपाधिभूतार्द्रेन्धनसंयोगव्याप्यधूमव्यभिचारित्वं गृहीतमेव अनुमानप्रकारश्च पूर्वानुमानहेतुं पक्षीकृत्य वह्निर्धूमव्यभिचारी धूमव्या- पकार्द्रेन्धनसंयोगव्यभिचारित्वात् घटत्वादिवत् । यो यत्साध्यव्या- पक व्यभिचारी स सर्वोऽपि साध्यव्यभिचारीति । एवम्प्रकारेण प्रकृ- तानुमानहेतुभूते पक्षे साध्यव्यमिचारोत्थापकतया दूषकत्वमुपाधेः फलम् । तथाच धूमाभाववद्वृत्तित्वरूपधूमव्यभिचारे गृहीते वह धूमाभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम् ॥
( प ० ) व्याप्यत्वासिद्धं निरूपयति — सोपाधिक इति । ननु कोऽयमुप- विरत आह । साध्येति । साधनाव्यापक उपाधिरित्युक्ते शब्दोऽनित्य. कृतक- त्वादित्यत्र सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्रहणार्ह त्वमप्युपाधिः स्यात्तदर्थं म्राध्यव्यापकत्वमुक्तम् । तावत्युक्ते सामान्यवत्त्वादिनाऽनित्यत्वसाधने कृतकत्वमु- पाथिः स्यात्तदर्थ साधनाव्यापकत्वमुक्तम् । उपाधिभेदमादाय सम्भववारणाय व्याप- कत्वशरीरेऽप्यत्यन्तपदमादेयम् । साधनभेदमादाय साधनस्योपाधित्ववारणाया-न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[३७]]
व्यापकशरीरेऽयत्यन्तपदमावश्यकं देयम् । सोऽयमुपाधिस्त्रिविध. - केवलसाध्य - व्यापक पक्षधर्मावच्छिन्नसाध्यव्यापक साधनावच्छिन्नसाध्यव्यापकश्चेति । तत्राद्य उपदर्शितः । एवं ऋत्वन्तर्वर्तिनी हिमा अधर्मजनिका हिंसात्वात्, ऋतुबाह्य हिंसा- वदित्यत्र निषिद्धत्वमुपाधि तस्य यत्राधर्मजनकत्वं तत्र निषिद्धत्वमिति साध्यव्या- पकता । यत्र हिसात्वं तत्र न निषिद्धत्वमिति निषिद्धत्वमुपाधि साधनाव्यापक । ऋतुहिंसायां निषिद्धत्वस्याभावात् । ‘न हिस्यात्सर्वा भूतानि’ इति सामान्यवाक्यत. ‘पशुना यजेत’ इत्यादिविशेपचाक्यस्य बलीयस्त्वात् । अतो हिंसात्वं नाधर्मजनकत्वे प्रयोजकमपि तु निषिद्धत्वमेवेत्यादिकमपि द्रष्टव्यम् । द्वितीयो यथा - वायु प्र त्यक्ष. प्रत्यक्षस्पर्शश्रयत्वादित्यत्रोद्भूतरूपवत्त्वमुपाधि । तस्य यत्र प्रत्यक्षत्वं तत्रो- द्भूतरूपवत्त्वमिति न केवलसाध्यव्यापकत्वं रूपे व्यभिचारात् । किन्तु द्रव्यवलक्षणो यः पक्षधर्मस्तदवच्छिन्नवहि प्रत्यक्षत्वं यत्र तत्रोद्भूतरूपवत्त्वमिति पक्षधर्मावच्छि- नसाध्यव्यापकत्वमेव । आत्मनि व्यभिचारवारणाय बहि. पदम् । यत्र प्रत्यक्षस्प- शश्रियत्वं तत्र नोद्भूतरूपवत्त्वमिति साधनाव्यापकत्वं च वायावुद्भूतरूपविरहात् । तृतीयो यथा - ध्वंसो विनाशी जन्यत्वादित्यत्र भावत्वमुपाधिः तस्य यत्र विनाशित्वं तत्र भावत्वमिति न केवलसाध्यव्यापकत्वं प्रागभावे भावत्वविरहात् । कि तु जन्यत्वरूपसाधनावच्छिन्नविनाशित्वं यत्र तत्र भावत्वमिति साधनावच्छि- नसाध्यव्यापकत्वमेव । यत्र जन्यत्वं तत्र भवत्वमिति साधनाव्यापकत्वं च ध्वंसे भावत्वविरहात् । एवं स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजन्यत्वमु- पाधि । श्यामत्वस्य नीलघटेऽपि सत्त्वान्न केवलसाध्यव्यापकत्वं कि तु साधनाव- च्छिन्नसाध्यव्यापकत्वमेव । अष्टमे पुत्रे शाकपाकजन्यत्वविरहेण साधनाव्यापकत्वं चेत्यादिकमपि द्रष्टव्यम् ॥
water
-
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बा-
-
धितः । यथा वह्निरनुष्णो द्रव्यत्वादिति । अत्रानु-
। ष्णत्वं साध्यं तदभाव उष्णत्वं
इति बाधितत्वम् ॥
।
स्पर्शनप्रत्यक्षेण गृह्यते
( न्या० ) यस्येति । यस्य हेतोः साध्यस्याभावः साध्याभावः । स च प्रमाणान्तरेण प्रत्यक्षादिप्रमाणेन निश्चितः स बाधित इत्यर्थः । तथाच प्रात्यक्षिकसाध्यबाधनिश्चये जाते साध्यानुमितिप्रतिबन्धः फलम् । बाधितसाध्यकत्वाद्वाधित हेतुरित्युच्यते ॥ इति न्यायबोधि- न्यामनुमानपरिच्छेदः ॥
( प ० ) यस्येति । सद्धेतुवारणाय प्रमाणान्तरेणेति । घटादिवारणाय साध्येति ।
इति पदकृत्यकेऽनुमानखण्डः૩૮
तर्कसङ्ग्रहः ।
उपमानपरिच्छेदः ।
उपमितिकरणमुपमानम् । सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानमुप- मितिः तत्करणं सादृश्यज्ञानम् । तथाहि कश्चिद्भवयप- दार्थमजानन्कुतश्चिदारण्यकपुरुषागोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थ स्मरन्गोसदृशं पिण्डं पश्यति तदनन्तरमसौ गवयशब्दवाच्य इत्युपमितिरुत्पद्यते ॥ ( न्या० ) उपमानं लक्षयति - उपमितिकरणमिति । उप- मितिं लक्षयति – सञ्ज्ञासञ्ज्ञीति । सञ्ज्ञा नाम पदम् । सञ्ज्ञी अर्थः । तयोः सम्बन्धः शक्तिः । तथाच पदपदार्थ सबन्धज्ञानमुपमितिरित्यर्थः । उपमानं नामातिदेशवाक्यार्थज्ञानम् । अतिदेशवाक्यार्थस्मरणं व्या- पारः । उपमितिः फलम् । गोसदृशो गवयपदवाच्य इत्याकारक- वाक्याद्गोसादृश्यावच्छिन्नविशेष्यक गवयपदवाच्यत्वप्रकारकं यज्ज्ञानं जायते तदेव करणम् ॥ इति न्यायबोधिन्यामुपमानपरिच्छेदः ॥
- उप-
(१०) अवसर सङ्गतिमभिप्रेत्यानुमानानन्तरमुपमानं निरूपयति- उपमितीति । उपमिते. करणमुपमानमित्यर्थः । कुठारादिवारणाय मितीति । प्रत्यक्षादिवारणाय उपेति । सञ्ज्ञासञ्ज्ञीति । अनुमित्यादिवारणाय सबन्धेति । संयोगादिवारणाय सञ्ज्ञासञ्ज्ञीति । असौ गवयपदवाच्य इति । अभिप्रेतो गवयो गवयपदवाच्य इत्यर्थ । तेन गवयान्तरे शक्तिमहाभावप्रसङ्ग इति दूषणमपास्तम् । तथाच गोसा- दृश्यविशिष्टपिण्डज्ञानं करणम् । अतिदेशवाक्यार्थस्मरणमवान्तरव्यापार मिति. फलमिति सारम् । तच्चोपमानं त्रिविधं सादृश्यविशिष्टपिण्डज्ञानमसाधारण- धर्मविशिष्टपिण्डज्ञानं वैधर्म्य विशिष्टपिण्डज्ञानं च । तत्राद्यमुक्तमेव । द्वितीयं यथा -खड्गमृग. कीदृगिति पृष्टे नासिकालसदेकशृङ्गोऽनतिक्रान्तगजाकृतिश्चेति तज्ज्ञातृभ्य श्रुत्वा कालान्तरे तादृशं पिण्डं पश्यन्नतिदेशवाक्यार्थ स्मरति तदन- न्तर खड्गमृगः खड्गमृगपदवाच्य इत्युपमितिरुत्पद्यते । अत्र नासि कालसदेकवङ्ग एवासाधारणधर्म । तृतीयं यथा - उष्ट्र कीदृगिति पृष्टे अश्वादिवदसमानपृष्ठो न ह्रस्वग्रीवशरीरश्चेति आप्तोक्ते कालान्तरे तत्पिण्डदर्शनाद्वैधर्म्य विशिष्टपिण्डज्ञानं ततोऽतिदेशवाक्यार्थस्मरणं तत उष्ट्र उष्ट्रपदवाच्य इत्युपमितिरुत्पद्यते ॥
इति पदकृत्यके उपमानखण्डः ॥ शब्दपरिच्छेदः ।
आप्तवाक्यं शब्दः । आप्तस्तु यथार्थवक्ता । वाक्यं पद- समूहः । यथा गामानयेति । शक्तं पदम् । अस्मात्पदा- दयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः ॥न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
३९.
(न्या० ) [ शब्दं लक्षयति- आप्तेति । आप्तोच्चरितत्वे सति वाक्यत्वं शब्दस्य लक्षणम् । प्रेमाणशब्दत्वं लक्ष्यतावच्छेदकम् । वाक्यत्वमात्रोक्तावनाप्तोच्चरितवाक्येऽतिव्याप्तिरत आप्तोच्चरितत्वनि- वेशः । तावन्मात्रोक्तौ जयगडदशादावतिव्याप्तिरतो वाक्यत्वम् । आप्तत्वं च प्रयोग हेतुभूतयथार्थज्ञानवत्त्वम् । तथा च प्रयोगहेतुभूत- यथार्थज्ञानजन्यशब्दत्वमिति पर्यवसन्नोऽर्थः । वस्तुतस्तु ] पदज्ञानं करणम् । वृत्तिज्ञान सहकृतपदज्ञानजन्य पदार्थोपस्थितिर्व्यापारः वाक्यार्थज्ञानं शाब्दाबोधः फलम् । वृत्तिर्नाम शक्तिलक्षणान्यतररूपा । शक्तिर्नाम घटादिविशेप्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्व- रसङ्केतः ईश्वरसङ्केतो नाम ईश्वरेच्छा । सैव शक्तिरित्यर्थः ।
। शक्तिनिरूपकत्वमेव पदे शक्तत्वम् । विषयतासम्बन्धेन शक्त्याश्रयत्वं शक्यत्वम् । शक्यसम्बन्धो लक्षणा । सा द्विविधा गौणी शुद्धा चेति । गौणी नाम सादृश्यविशिष्टे लक्षणा । यथा सिंहो माणवर्क इत्यादौ सिंहपदस्य सिंहसादृश्यविशिष्टे लक्षणा । शुद्धा द्विविधा । जहल्ल- क्षणा अजहल्लक्षणा चेति । लक्ष्यतावच्छेदकरूपेण लक्ष्यमात्रबोधप्रयो- जिका लक्षणा जहल्लक्षणा । यथा गङ्गायां घोष इत्यत्र गङ्गापदवा- च्यप्रवाहसम्बन्धस्य तीरे सत्त्वात्तादृशशक्यसम्बन्धरूपलक्षणाज्ञानाद्गङ्गा- पदातीरोपस्थितिः । लक्ष्यतावच्छेदकरूपेण लक्ष्यशक्योभयबोधप्रयो- जिका लक्षणा अजहल्लक्षणा । यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकपदस्य दध्युपघातके लक्षणा । लक्ष्यतावच्छेदकं दध्युपघातकत्वम् । तेन रूपेण दध्युपघातकानां सर्वेषां काकविडालकुक्कुटसारमेयादीनां शक्यलक्ष्याणां सर्वेषां बोधात् । जहदजहल्लक्षणा वदान्तिनां मते । [ साच शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्र बोधप्रयोजिका यथा तत्त्वमसीत्यत्र सर्वज्ञत्वकि चिज्ज्ञत्व परित्यागेन व्यक्तिमात्रबोधनात् ]
( प० ) अवसरस गतिमभिप्रेत्योपमानानन्तर शब्दं निरूपयति - आप्तेति । शब्द इति । शब्दप्रमाणमित्यर्थः । श्रान्तविप्रलम्भकयोर्वाक्यस्य शब्दप्रमाण-
१ कुण्डलितः पाठः प्रक्षिप्तः, प्राचीन लिखित पुस्तकेष्वभावात् । २ एतच्च प्रमाणनिरूपणप्रस्तावाल्लब्धम् । पूर्ववाक्ये शब्दस्य लक्षणमित्यस्य प्रमाणशब्दस्य लक्षणमित्यर्थ इति भावः । ३ प्रयोगेति । ‘अर्थ बुद्धा वाक्यं प्रयुङ्क्ते’ इति नियमात् वाक्यप्रयोगात्पूर्वं प्रयोक्तुस्तदर्थज्ञानस्य आवश्यकत्वात् तस्य वाक्यप्रयोगहेतुत्वं बोध्यम्॥४०
तर्कसङ्ग्रहः ।
[[1]]
त्ववारणाय आप्तेति । ननु कोऽयमाप्त इत्यत आह- आप्तस्त्विति । यथार्थवक्ता यथाभूताबाधितार्थोपदेष्टा । वाक्यं लक्षयति - वाक्यमिति । घटादिसमूहवार- णाय पदेति । शक्तमिति । निरूपकतासबन्धेन शक्तिविशिष्टमित्यर्थ अस्मादिति । घटपदाद्घटरूपोऽर्थो बोद्धव्य इतीश्वरेच्छैव शक्तिरित्यर्थः । अर्थ- स्मृत्यनुकूलपदपदार्थसबन्धत्वं तल्लक्षणम् । शक्तिरिव लक्षणापि पदवृत्ति । अथ केयं लक्षणा । शक्यसबन्धो लक्षणा । सा च त्रिधा । जहत् - अजहत् - जहदज• हद्भेदात् । वर्तते च गङ्गाया घोप इत्यत्र गङ्गापदशक्यप्रवाहसवन्वस्तीरे । लक्षणाबीज च तात्पर्यानुपपत्ति । अत एव प्रवाहे घोषतात्पर्यानुपपत्तेस्तीरे लक्षणा सेत्स्यति । छत्रिणो यान्तीत्यादौ द्वितीया । सोऽयमश्व इत्यादौ तृतीया ॥ आकाङ्क्षा योग्यता सन्निधि वाक्यार्थज्ञाने हेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाका- वा । अर्थाबाधो योग्यता । पदानामविलम्बेनोच्चारणं क्षा । सन्निधिः । तथा च आकाङ्क्षादिरहितं वाक्यमप्रमा- णम् । यथा गौरश्वः पुरुषो हस्तीति न प्रमाणम् आ- काङ्क्षाविरहात् । वह्निना सिञ्चेदिति न प्रमाणं योग्य- ताविरहात् । प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्या- दिपदानि न प्रमाणं सान्निध्याभावात् ॥
।
( न्या० ) आकाङ्क्षां लक्षयति — पदस्येति । अव्यवहितोत्तरत्वा- दिसम्बन्धेन यत्पदे यत्पद्प्रकारकज्ञानव्यतिरेकप्रयुक्तो यादृशशाब्द- बोधाभावस्तादृशशाब्दबोधे तत्पदे तत्पदवत्त्वमाकाङ्क्षा । यथा घटमि - त्यादिस्थलेऽव्यवहितोत्तरत्वादिसबन्धेनाम्पदं घटपदवदित्याकारकाम्- पदविशेष्यकघटपदप्रकारकज्ञानसत्त्वे घटीयं कर्मत्वमिति बोधो जायते । अम् घट इति विपरीतोच्चारणे तु तादृशज्ञानाभावात्तादृश- शाब्दबोधो न जायते । अतस्तादृशाकाङ्क्षाज्ञानं शाब्दबोधे कारणम् । अर्थाबाध इति । बाधाभावो योग्यतेत्यर्थः । अग्निना सिञ्चेदित्यत्र सेककरणत्वस्य जलादिधर्मस्य वह्नौ बाधनिश्चयसत्त्वान्न तादृशवाक्या- च्छाब्दबोधः । सनिधिं निरूपयति — पदानामिति । असहो- च्चारितानि विलम्बोच्चारितानि ॥
।
( प ० ) असभववारणाय पदान्तरव्यतिरेकप्रयुक्त इति । पुनरसम्भववारणाय पदान्तरेति । अथैति । आकाङ्क्षावारणाय अर्थेति । पदानामिति । असहोचारि- तेष्वतिव्याप्तिवारणाय अविलम्बेनेति । आकाङ्क्षावारणाय पदानामिति । आका-न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[४१]]
।
ड्डादिशून्यवाक्यस्यात्र प्रमाणत्वं निषेधयति - तथा चेति । आकाङ्क्षादिकं
। शाब्दहेतुरित्युक्ते चेत्यर्थ । अनाकाङ्क्षाद्युदाहरणं दर्शयति-यथेति ॥
वाक्यं द्विविधम् । वैदिकं लौकिकं च । वैदिकमीश्व- रोक्तत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वाप्तोक्तं प्रमाणम् । अन्यदप्रमाणम् ॥
।
(न्या० ) वैदिकमिति । वेदवाक्यमित्यर्थः ॥ इदमुपलक्षणम् । वेदमूलस्मृत्यादीन्यपि ग्राह्याणि । लौकिकं त्विति । वेदवा- क्यभिन्नमित्यर्थः । आप्तत्वं च प्रयोग हेतुभूतयथार्थज्ञानवत्त्वम् । इति न्यायवोधिन्यां शब्दपरिच्छेदः ॥
वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ॥
( प ० ) नन्वेतावता शाव्दसामग्री प्रपञ्चिता । प्रमाविभाजकवाक्ये शाब्दस्या- प्युद्दिष्टत्वेन तत्कुतो न प्रदर्शितमित्यत आह-वाक्यार्थेति । शाब्दत्वं च शब्दात्प्रत्ये मीत्यनुभवसिद्धा जाति । शाब्दबोधक्रमो यथा— चैत्रो ग्रामं गच्छतीत्यत्र ग्रामकर्मकगमनानुकूलवर्तमानकृतिमाश्चैत्र इति शाब्दबोध । द्वितीयाया . कर्मत्वमर्थ । धातोर्गमनम् । अनुकूलत्वं च संसर्गमर्यादया भासते । लटो वर्तमानत्वमाख्यातस्य कृति । तत्सम्बन्ध संसर्गमर्यादया भासते । रथो गच्छतीत्यत्र गमनानुकूलव्यापारवान् रथ इति शाब्दबोध । स्नात्वा गच्छतीत्यत्र गमनप्रागभावावच्छिन्नकालीन स्नानकर्ता गमनानुकूलवर्तमानकृतिमानिति शाब्द- बोध. । क्वाप्रत्ययस्य कर्ता पूर्वकालीनत्वं चार्थः । एवमन्यत्रापि वाक्यार्थो बोध्यः ॥
इति पदकृत्ये शब्दपरिच्छेद . ॥
अयथार्थानुभवस्त्रिविधः संशयविपर्ययतर्कभेदात् । एक- स्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यावगाहिज्ञानं सं- शयः । यथा स्थाणुर्वा पुरुषो वेति ॥
(न्या० ) यथार्थानुभवं निरूप्यायथार्थानुभवं विभजते-संश- येत्यादिना । एकेति । एकधर्मावच्छिन्नविशेष्यतानिरूपितभा-
। वाभावप्रकारकज्ञानं संशय इत्यर्थः । भावद्वयकोटिकसंशयाप्रसिद्धेः
। स्थाणुर्वेत्यत्र स्थाणुत्वस्थाणुत्वाभावपुरुषत्वपुरुषत्वाभावकोटिक एव ॥
( प ० ) अयथार्थानुभवं विभजते-अयथार्थेति । संशयं लक्षयति -एक- स्मिन्निति । एकस्मिन्धर्मिणि एकस्मिन्नेव पुरोवर्तिनि पदार्थे विरुद्धा व्यधिकरणा ये नानाधर्मा. स्थाणुत्वपुरुषत्वादयस्तेषा वैशिष्ट्यं सबन्धः तदवगाहि ज्ञानं संशय इत्यर्थ । घटपटाविति समूहालम्बनज्ञानस्य घटलपटत्वरूपविरुद्धनानाधर्मवैशिष्ट्या -४२
तर्कसङ्ग्रहः ।
वगाहित्वादतिप्रसक्तिवारणाय एकस्मिन्निति । घट’ पृथिवीति ज्ञानस्यैकस्मिन्धर्मिणि घटे घटत्वपृथिवीत्वरूपनानाधर्मवैशिष्ट्या वगाहिलादतिप्रसङ्गवारणाय विरुद्धेति । पटत्वविरुद्धघटत्ववान् पट इति ज्ञानेऽतिप्रसक्तिवारणाय नानेति ॥
मिथ्याज्ञानं विपर्ययः । यथा शुक्तौ ‘रजतम्’ इति ॥ (न्या० ) मिथ्याज्ञानमिति । अयथार्थज्ञानमित्यर्थः । विप- र्ययो नाम भ्रमः ॥
( प ० ) मिथ्येति । यथार्थज्ञानवारणाय मिथ्येति । अयथार्थवारणाय ज्ञानेति ।
व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा यदि वह्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति ॥
( न्या० ) व्याप्यारोपेणेति । तर्के व्याप्यस्य व्यापकस्य च बाघनिश्चयः कारणम् । अन्यथा बाधनिश्चयाभाव इष्टापत्तिदोषेण तर्कानुत्पत्तेः ॥
(प०) तर्क लक्षयति - व्याप्यारोपेणेति । असम्भववारणाय व्याप्यारोपेणेति । पुनरसभववारणाय व्यापकारोप इति । अत्र वह्न्यभावो व्याप्यः धूमाभावो व्यापक । यद्यपि तर्कस्य विपर्ययात्मकत्वेन पृथग्विभागोऽनुचित, तथापि प्रमाणा- नुग्राहकत्वात् स उदित इति बोध्यम् । स्वप्नस्तु पुरीतद्बहिर्देशान्तर्देशयोः सन्धौ इडानाड्या वा मनसि स्थितेऽदृष्टविशेषेण धातुदोषेण वा जन्यते । स च मानसविपर्ययान्तर्भूत ॥
स्मृतिरपि द्विविधा । यथार्था अयथार्था च । प्रमाजन्या यथार्था अप्रमाजन्या अयथार्था ॥ सर्वेषामनुकूलवे- दनीयं सुखम् ॥
( न्या० ) सुखं निरूपयति — सर्वेषामिति । इतरेच्छाऽन- धीनेच्छाविषयत्वमिति निष्कर्षः । यथाश्रुते अनुकूलत्वप्रकारक - वेदना विशेष्यत्वस्य घटोsनुकूल इत्याकारकज्ञानदशायामनुकूल- त्वप्रकारकज्ञानविशेप्यत्वस्य घटादावपि सत्त्वाद्धटादावतिव्याप्तिरिति निष्कृष्टलक्षणमुक्तम् । भोजनादावतिव्याप्तिवारणाय इतरेच्छानधी- नेतीच्छा विशेषणम् । सुखेच्छायाः सुखत्वप्रकारकज्ञानमात्रजन्यत्वात् ॥ ( प ० ) सुखं निरूपयति - सर्वेषामिति । सर्वात्मनामनुकूलमिति वेद्यं यत्त- त्सुखमित्यर्थ । अहं सुखीत्यनुभवसिद्धसुखत्वजातिमत्, धर्ममात्र साधारणकारणो गुणो वा सुखम् । शत्रुदु खवारणाय सर्वेषामिति ॥
प्रतिकूलवेदनीयं दुःखम् ॥न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[४३]]
( न्या० ) दुःखं निरूपयति-— प्रतिकूलेति । अत्रापीत रद्वे- पानधीनद्वेपविपयत्वमिति निष्कृष्टलक्षणम् । द्वेषविषयत्वमात्रोक्तौ सर्पादावतिव्याप्तिस्तत्रापि द्वेषविषयत्वसत्त्वादतस्तत्रातिव्याप्तिवारणा- येतरद्वेषानधीनेति द्वेषविशेषणम् । सर्पजन्यदुःखादौ द्वेषात्सर्पेऽपि द्वेष इति सर्पद्वेषस्य सर्पजन्यदुःखद्वेषजन्यत्वादन्यद्वेषाजन्यद्वेष विषयत्व- रूपदुः खलक्षणस्य सर्पादौ नातिव्याप्तिः । फलेच्छा उपायेच्छा प्रति कारणम् । अतः फ्लेच्छावगादुपायेच्छा भवति । एवं फले द्वेषा- दुपाये द्वेषः ॥
( प ० ) प्रतिकूलेति । दु खखजातिमत्, अधर्ममात्रासाधारणकारणो गुणो वा दुखम् । पदकृत्य पूर्ववत् ॥
इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः ॥
।
।
( प ० ) इच्छा निरूपयति- इच्छेति । काम इति पर्याय. । इच्छात्वजाति- मती इच्छा । सा द्विविधा – फलेच्छा उपायेच्छा च । फलं सुखादिकम् । उपायो यागादि । द्वेषं निरूपयति — क्रोध इति । द्वेष्टीत्यनुभवसिद्धद्वेषत्वजातिमान् द्विष्टसाधनताज्ञानजन्यगुणो वा द्वेष । प्रयत्नं निरूपयति - कृतिरिति । प्रयत्न- त्वजातिमान्प्रयत्नः । स त्रिविध । प्रवृत्तिनिवृत्तिजीवनयोनिभेदात् । इच्छाजन्यो गुण प्रवृत्ति । द्वेषजन्यो गुणो निवृत्ति । जीवनादृष्टजन्यो गुणो जोवनयोनिः । स च प्राणसञ्चारकारणम् ॥
विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्यस्त्वधर्मः ।
( न्या० ) धर्माधर्मौ निरूपयति-विहितेति । वेदविहिते- त्यर्थः । । निषिद्धेति । वेदनिषिद्धेत्यर्थः ॥
।
(१०) धर्ममाह - विहितेति । वेदविहितेत्यर्थः । अधर्मवारणाय वेदविहि- तेति । यागादिक्रियावारणाय कर्मजन्य इति । स च कर्मनाशाजलस्पर्श कीर्तनभो- गतत्त्वज्ञानादिना नश्यति । अधर्मलक्षणमाह - निषिद्धेति । वेदेनेत्यर्थ । धर्मवारणाय वेदनिषिद्धेति । वेदनिषिद्धक्रियावारणाय धर्मजन्य इति । स च भोगप्रायश्चित्तादिना नश्यति । एतावेव अदृष्टमिति कथ्येते वासनाजन्यौ च । वासना च विलक्षणसंस्कार ॥
बुद्ध्यादयोऽष्टावात्ममात्रविशेषगुणाः । बुद्धीच्छाप्रयत्ना नित्या अनित्याच । नित्या ईश्वरस्य । अनित्या जीवस्य ॥ (न्या० ) बुद्ध्यादयोऽष्टाविति । बुद्धिसुखदुःखेच्छाद्वेषम- धर्माधर्मा इत्यर्थः ॥४४
तर्कसङ्ग्रहः ।
संस्कारस्त्रिविधः । वेगो भावना स्थितिस्थापकश्चेति । वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः । अनुभवजन्या स्मृतिहेतुर्भावना आत्ममात्रवृत्तिः । अन्यथाकृतस्य पुन- स्तदवस्थापादकः स्थितिस्थापकः कटादिपृथिवीवृत्तिः ॥ इति गुणाः ॥
( न्या० ) संस्कारं विभजते- संस्कार इति । भावनां लक्ष- यति - अनुभवेति । अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया लक्षणम् । अत्रानुभवजन्यत्वे सतीति विशेषणानुपादाने आत्ममनः- सयोगेऽतिव्याप्तिरात्ममनः संयोगस्य ज्ञानमात्रं प्रत्यसमवायिकारणत्वेन स्मृति प्रत्यपि कारणत्वादतस्तदुपादानम् । आत्ममनः सयोगस्यानुभ- वजन्यत्वाभावान्नातिव्याप्तिः । तावन्मात्रे कृतेऽनुभवध्वंसेऽतिव्याप्तिः । ध्वंसं प्रति प्रतियोगिनः कारणत्वेनानुभवध्वंसस्याप्यनुभवजन्यत्वात् । अतः स्मृतिहेतुत्वोपादानम् । अनुभवध्वंसे स्मृतिहेतुत्वाभावान्नाति- व्याप्तिः । [ ननुं विशिष्टबुद्धिं प्रति विशेषणज्ञानस्य कारणता सकलतान्त्रिकमतसिद्धा । यथा दण्ड विशिष्टबुद्धिं प्रति दण्डज्ञानस्य । दण्डविशिष्टबुद्धिर्नाम दण्डप्रकारकबुद्धिः । सा च दण्डी पुरुष इत्याकारिका । नहि दण्डमजानानः ‘दण्डी पुरुषः” इति प्रत्येति । एवं च यत्रायं दण्ड इति प्रत्यक्षं जातं तदनन्तरं दण्डी पुरुष इत्याकारकप्रत्यक्षमुत्पन्नं तत्र दण्डी पुरुष इत्याकारकप्रत्यक्षेऽति- व्याप्तिः । तद्धि स्वाव्यवहितपूर्वक्षणोत्पन्नदण्डज्ञानात्मकानुभवजन्यं, जनिष्यमाणे दण्डी पुरुष इत्याकारकस्मरणे कारणं च, स्मृतिं प्रत्यनुभवस्य कारणत्वादिति चेत् । अत्र ब्रूमः – अनुभवजन्यत्वं हि अनुभवत्वावच्छिन्नकारणता निरूपितकार्यताश्रयत्वम् । तथा च दण्डप्रकारक बुद्धित्वावच्छिन्नकार्यतानिरूपितदण्डज्ञाननिष्ठकारणतायां न दण्डानुभवत्वमवच्छेदकं दण्डानुभवादिव दण्डस्मरणादपि दण्ड- प्रकारक बुद्धेरुत्पत्तेः । अतो दण्डप्रकारकबुद्धित्वावच्छिन्न प्रति स्मरणसाधारणदण्डज्ञानत्वेनैव दण्डज्ञानस्य कारणतायाः स्वीकरणी- यत्वेनानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्योक्तप्रत्यक्षेऽ- १ कुण्डलितो ग्रन्थः प्रक्षिप्तः प्राचीन पुस्तकेष्वदर्शनात्, लेखस्यातिशिथिलत्वाच्च ।न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[४५]]
भावान्नातिव्याप्तिः । भावनायां तु लक्षणमिदं वर्तते । तथाहि अनुभवेनैव भावनाख्यसंस्कारोत्पत्त्या भावनात्वावच्छिन्नं प्रत्यनु- भवस्यानुभवत्वेनैव कारणतया भावनात्वावच्छिन्नकार्यतानिरूपि- तानुभवनिष्ठ कारणतायामनुभवत्वमवच्छेदकम् । अतोऽनुभवत्वाव च्छिन्नकारणतानिरूपितकार्यताश्रयत्वस्य भावनायां सत्त्वात् । नन्वेवं स्मृतिहेतुत्वविशेषणवैयर्थ्यम् । तच्यनुभवध्वंसेऽतिव्याप्तिवारणाय प्रागुपात्तम् । नहि यथोक्तानुभवजन्यत्वविवक्षायामनुभवध्वंसेऽ- तिव्याप्तिः प्रसज्यते । तथाहि – ध्वंसत्वावच्छिन्नं प्रति प्रतियो- गिनः कारणत्वं प्रतियोगित्वेन रूपेण तत्तद्धंसत्वावच्छिन्नं प्रति च तत्तत्प्रतियोगिव्यक्तेस्तद्व्यक्तित्वेनेत्येवं ध्वंसप्रतियोगिनोः कार्य- कारणभावः । तथा च ध्वंसनिष्ठ कार्यतानिरूपिता यानुभवनिष्ठा कारणता तस्यां प्रतियोगित्वमवच्छेदकं तत्तद्व्यक्तित्वं च न त्वनु- भवत्वमपीत्यनुभवध्वंसेऽनुभवत्वावच्छिन्नकारणतानिरूपितकार्यताश्र- यत्वरूपानुभवजन्यत्वविरहादिति चेत् । न । स्मृतावतिव्याप्तिवारणा- यैव तदुपादानात् । तथाहि — स्मृतिं प्रत्यनुभव एव कारणं न तु स्मृतिरप्यतो घटस्मृतित्वावच्छिन्नं प्रति घटानुभवस्य घटानुभवत्वेनैव कारणत्वं न तु घटज्ञानत्वेन । इत्थञ्चानुभवत्वावच्छिन्नकारणतानि- रूपितकार्यताश्रयत्वस्य स्मृतौ विद्यमानत्वादतिव्याप्तिः । उक्तविशे- षणदाने तु स्मृतेः स्मृतिहेतुत्वाभावात्तद्युदासः ॥ ]
।
( प ० ) सस्कारं विभजते - संस्कारेति । सामान्यगुणात्मविशेषगुणोभयवृत्ति- गुणत्वव्याप्यजातिमान्सस्कार । घटादिवारणाय गुणत्वव्याप्येति । सयोगादिवार- णाय आत्म विशेषगुणोभयवृत्तीति । ज्ञानादिवारणाय सामान्येति । द्वितीयादिपतना- समवायिकारणं वेग । रूपादिवारणाय द्वितीयादिपतनेति । काला दिवारणाय अस- मवायीति । भावना लक्षयति- अनुभवेति । आत्मादिवारणाय प्रथमदलम् । अनुभवध्वंसवारणाय द्वितीयदलम् । स्थितिस्थापकमाह — अन्यथेति । पृथि- वीमात्रसमवेतसंस्कारत्वव्याप्यजातिमत्त्वं स्थितिस्थापकत्वम् । गन्धवत्त्वमादाय गन्धेऽतिव्याप्तिवारणाय संस्कारत्वव्याप्येति । भावनात्वमादाय भावनावारणाय पृथिवीसमवेतेति। स्थितिस्थापकरूपान्यतरत्वमादाय रूपवारणाय जातीति । इति गुणा इति । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुण । द्रव्यकर्मणोरतिव्याप्ति- वारणाय विशेषणदलम् । सामान्यादावतिव्याप्तिवारणाय विशेष्यदलम् ॥
चलनात्मकं कर्म । ऊर्ध्वदेशसंयोगहेतुरुत्क्षेपणम् । अधो-४६
तर्कसग्रहः ।
देशसंयोग हेतुरपक्षेपणम् । शरीरस्य सन्निकृष्टसंयोगहेतु- राकुञ्चनम् । विप्रकृष्टसंयोगहेतुः प्रसारणम् । अन्य-
। त्सर्वं गमनम् ॥
( प ० ) चलनेति । सयोगमिन्नत्वे सति सयोगासमवायिकारणं कर्म । हस्त- पुस्तकवारणाय सत्यन्तम् । घटादिवारणाय विशेष्यदलम् । ऊर्ध्वेति । अपक्षेपण- वारणाय ऊर्ध्वति । कालादिवारणाय असाधारणेत्यपि बोध्यम् । अधोदेशेति । उत्क्षेपणवारणाय अधोदेशेति । कालादिवारणाय असाधारणेत्यपि देयम् । शरीरेति । प्रसारणादिवारणाय शरीरस निकृष्टेति । कालादिवारणाय असाधारणं देयम् । विप्रकृष्टेति । उत्क्षेपणादिवारणाय विप्रकृष्टेति । कालादिवारणाय असाधारणमध्यावश्यकम् ॥
नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति ।
। परं सत्ता । अपरं द्रव्यत्वादि ॥
( न्या० ) सामान्यं निरूपयति — नित्यमेकमिति । नित्यत्वे सत्यनेकसमवेतत्वं सामान्यलक्षणम् । नित्यत्वविशेषणानुपादानेऽनेक- समवेतत्वस्य सयोगादौ सत्त्वात्तत्रातिव्याप्तिस्तद्वारणाय नित्यत्ववि - शेषणम् । अनेकसमवेतत्वानुपादाने नित्यत्वमात्रोपादाने आकाशा- दावतिव्याप्तिस्तद्वारणायानेकसमवेतत्वम् । अनेकसमवेतत्वानुपादाने नित्यत्वविशिष्टसमवेतत्वमात्रोक्तावाकाशमतैकत्व परिमाणादौ जलपर माणुगतरूपादौ चातिव्याप्तिः । जलपरमाणुगत रूपादेराकाशगतैकत्व- परिमाणादेर्नित्यत्वात् समवेतत्वाच्च । अतः अनेकेति समवेतवि- शेषणम् ॥
( प ० ) नित्यमिति । सयोगादिवारणाय नित्यमिति । कालादिपरिमाण- वारणाय अनेकेति । अनेकानुगतत्वं च समवायेन बोध्यम् । तेन नात्यन्ता- भावेऽतिव्याप्ति ॥
नित्यद्रव्यवृत्तयो व्यावर्तका विशेषाः ॥
( प ० ) नित्यद्रव्यवृत्तयो इति । घटत्वादिवारणाय नित्यद्रव्यवृत्तय इति । आत्मत्वमनस्त्ववारणाय आत्मत्वमनस्त्वभिन्ना इत्यपि बोध्यम् ॥
नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । ययोर्द्वयो- मध्य एकमविनश्यदवस्थमपराश्रितमेवावतिष्ठते तावयुत- सिद्धौ । यथा अवयवावयविनौ गुणगुणिनौ क्रिया- क्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ॥न्यायबोधिनी - पदकृत्यव्याख्योपेतः ।
[[४७]]
( न्या० ) समवायं निरूपयति — नित्येति । सम्बन्धवं विशि- टप्रतीतिनियामकत्वम् । तावन्मात्रोक्तौ संयोगेऽतिव्याप्तिरतो नित्य इति विशेषणम् । (ययोर्द्वयोर्मध्य इति । यन्निष्ठकालनिरूपि- ताधेयतासामान्यं यदवच्छिन्नं तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः ॥ )
प० ) नित्येति । आकाशादिवारणाय सबन्ध इति । संयोगवारणाय नित्येति । स्वरूपसम्बन्धवारणाय तद्भिन्न इत्यपि बोध्यम् ॥
अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य ॥ ( प ० ) प्रागभावं लक्षयति - अनादिरिति । घटादिवारणाय प्रथमदलम् ।
लक्षयति—अनादिरिति परमाणुवारणाय द्वितीयदलम् । पुन प्रागभाव. कस्मिन्कालेऽस्तीत्यत आह- उत्पत्तेरिति । कार्यस्योत्पत्ते प्राकू स्वप्रतियोगिसमवायिकारणे वर्तते इत्यर्थ. ॥
सादिरनन्तः प्रध्वंसः । उत्पत्त्यनन्तरं कार्यस्य ॥
॥
( प ० ) ध्वंस लक्षयति —- सादिरिति । घटादिवारणाय अनन्त इति । आत्मादिवारणाय सादिरिति । उत्पत्तीति । कार्यस्योत्पत्त्यनन्तर स्वप्रतियोगि- समवायिकारणवृत्तिरित्यर्थ ॥ स च ध्वस्त ’ इति प्रत्ययविषय. ॥
त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । यथा भूतले घटो नास्तीति ॥
( न्या० ) अत्यन्ताभावं निरूपयति त्रैकालिकेतिं । ( प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वे सत्यन्योन्याभावभि- न्नत्वे सत्यभावत्वमत्यन्ताभावस्य लक्षणम् । ध्वंसप्रागभावान्योन्याभा- वाकाशादीनां वारणाय यथाक्रमं विशेषगोपादानम् । वस्तुतस्तु संसर्गाभावत्वं तादात्म्यभिन्न सम्बन्धावच्छिन्नप्रतियोगिताकाभावत्वम् । ध्वंसप्रागभावयोश्च न ससर्गावच्छिन्नप्रतियोगिताकत्वमिति तेनैव तद्वारणे त्रैकालिकेति खरूपाख्यानमेवेति बोध्यम् ॥ )
( प ० ) अत्यन्ताभावं लक्षयति — त्रैकालिकेति । त्रैकालिकत्वे सति ससगीवच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः । ध्वंसप्रागभाववारणाय त्रैकालिकेति । भेदवारणाय संसर्गेत्यादि ॥
तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्या- भावः । यथा घटः पटो नेति ॥
( न्या० ) अन्योन्याभावं निरूपयति - तादात्म्येति ॥
( प ० ) अन्योन्याभावं लक्षयति - तादात्म्येति । प्रागभावप्रध्वंसाभाववार- णाय तादात्म्येति । अत्यन्ताभाववारणाय तादात्म्यत्वेन सबन्वो विशेषणीय. ॥