गङ्गा

तर्कसङ्ग्रहः

[ टीकात्रयोपेतः ]

  • न्यायाचार्य श्री शिवदत्त मिश्र गौड़ः

विद्याभवनस्य प्रथमः स्तम्भः

तर्कसङ्ग्रहः

मूलसहितः, टीकात्रयोपेतः

गङ्गा-टीका- रचयिता पं० शिवदत्त मिश्र गौड़, न्यायाचार्यः

न्याय विभागे प्रधानाध्यापकः गवर्नमेन्ट संस्कृत कालेज, काशी

[[0011000]]

प्रथमं संस्करणम् }

मूल्य द्वादशाणकम्

[[१]]

॥ xit: ॥

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥

२ द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्तपदार्थाः । ३ तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि

नवैव ।

४ रूपरसगन्धस्पर्श सङ्ख्यापरिमाणपृथक्त्व संयोगविभागपरत्वा- परत्वगुरुत्वद्रवत्व स्नेहशब्द बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माऽ- धर्म संस्काराश्चतुर्विंशति गुणाः ।

५ उत्क्षेपणाsपक्षेपणाssकुञ्चनप्रसारणगमनानि पञ्च कर्माणि । ६ परमपरं चेति द्विविधं सामान्यम् ।

७ नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ।

१ मया अनम्भट्टेन तर्कसङ्ग्रहः क्रियते । किं कृत्वा हृदि विश्वेशं निधाय नितरां धारयित्वा । पुनः किं कृत्वा गुरोः वन्दनम् विधाय कृत्वेत्यर्थः । कस्मै प्रयोजनाय बालानां सुखबोधाय । सुखेन बोधः सुखबोधः तस्मै

इत्यन्वयः ।

२ अभिधेयत्वं ज्ञेयत्वं प्रमेयत्वं वा पदार्थसामान्यलक्षणम् ।

३ द्रव्यत्वजातिमत्वं गुणवत्वं वा द्रव्यस्य लक्षणम् । ४ गुणत्वजातिमत्वं गुणस्य लक्षणम् ।

५ कर्मत्वातिमत्वं कर्मणो लक्षणम् ।

६ नित्यत्वे सति भनेकसमवेतत्वं जातेर्लक्षणम् ।

७ निःसामान्यत्वे सति सामान्यभिन्नत्वे सति समवेतत्वं विशेषस्य लक्षणम् ।

१ समवायस्त्वेक एव ।

( २ )

२ श्रभावश्चतुर्विधः । प्रागभाव प्रध्वंसाभावोऽत्यन्ताभावोऽ.

न्योन्याभावश्चेति ।

३ तत्र गन्धवती पृथिवी । सा द्विविधा । नित्याऽनित्या च । नित्या परमाणुरूग । अनित्या कार्यरूपा । पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं, घ्राणं नासाग्रवत्तिं । विषयो मृत्पाषाणादिः । ४ शीतस्पर्शवत्य श्रापः । ता द्विविधाः, नित्या श्रनित्याश्च । नित्याः परमाणुरूपाः । श्रनित्याः कार्यरूपाः । पुनस्त्रिविधाः । शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रस- ग्राहकं रसनं जिह्वाग्रवतिं । विषयः सरित्समुद्रादिः । ५ उष्णस्पर्शवतेजः । तद् द्विविधम् । नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधम् । शरीरे- न्द्रियविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराप्रवतिं । विषयश्चतुर्विधः । भौमदिव्योदय. करजभेदात् । भौमं वन्द्यादिकं श्रविन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतु रुदर्य्यम् । श्राकरजं सुवर्णादि । ६ रूपरहितस्पर्शवान् वायुः । स द्विविधः । नित्योऽनित्यश्च । नित्यः परमाणुरूपः । श्रनित्यः कार्यरूपः । पुनस्त्रिविधः ।

1 नित्यत्वे सति सम्बन्धिभिनत्वे सति सम्बन्धत्वं समवायस्य लक्षणम् । २ भावभिनत्वं अशवस्य लक्षणम् ।

३ गन्धवत्वं पृथिव्याः लक्षणम् ।

४ शीतस्पर्शवत्वं अपां लक्षणम् ।

५ उष्णस्पर्शवत्वं तेजसो लक्षणम् ।

६ रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणम् ।

( ३ )

शरीरेन्द्रियविषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवत्तिं । विषयो वृक्षादिकम्पन. हेतुः, शरीरान्तः सञ्चारी वायुः प्राणः । सचैकोऽप्युपा- धिभेदात् प्राणापानादि संशां लभते ।

१ शब्दगुणकमाकाशम् । तचैकं विभु नित्यं च ।

२ श्रतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च । ३ प्राच्यादिव्यवहारहेतुर्दिक । सा चैका नित्या विभ्वी च । ४ शानाधिकरणमात्मा । स द्विविधः । परमात्मा जीवात्मा चेति । तत्रेश्वरः सर्वशः परमात्मा एक एव । जोवस्तु प्रति• शरीरं भिन्नो विभुर्नित्यच ।

I

५ सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वा-

दनन्तं परमाणुरूपं नित्यं च ।

६ चतुर्मात्राप्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक हरितकपिशचित्रभेदात् सप्तविधम् । पृथिवोजलतेजोवृष्टि । तत्र पृथिव्यां सप्तविधम् । श्रभास्वरशुक्लं जले, भाखरशुक्रं तेजसि ।

७ रसनाप्राह्यो गुणो रसः । स च मधुराऽऽम्ललवणकटुकषाय-

१ समवायेन शब्दस्वं भाकाशस्य लक्षणम् । २ अतीतादिव्यवहारहेतुत्वं कालस्य लक्षणम् ।

३ प्राच्यादिव्यवहारहेतुत्वं दिशो लक्षणम् ।

४ समवायसम्बन्धावच्छिन्न ज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावत्वमात्मनो

लक्षणम् ।

५ सुखाद्युपलब्धिसाधनत्वे सति इन्द्रियत्वं मनसो लक्षणम् । ६ चक्षुर्मात्राजन्यज्ञानविषयत्वे सति गुणत्वं रूपस्य लक्षणम् । ७ रसनेन्द्रियजन्यज्ञानविषयत्वे सति गुणत्वं रसस्य लक्षणम् ।( ४ )

तिक्तभेदात् पविधः । पृथिवीजलवृत्तिः । पृथिव्यां षड- विधः । जले मधुर एव ।

१ बाणग्राह्यो गुणा गन्धः । स द्विविधः । सुरभिरसुरभिश्च ।

पृथिवीमात्रवृत्तिः ।

२ त्वगिन्द्रियमात्र मात्रग्राह्यो गुणः स्पर्शः । स त्रिविधः । शीतो- प्यानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । श्रनुष्णाशीतः पृथिवीवाय्वोः । रूपादि- चतुष्टयं पृथिव्यां पाकजमनित्यं च । श्रन्यत्राऽपाकजं नित्य-

मनित्यं च । नित्यगतं नित्यम् । श्रनित्यगतमनित्यम् । ३ एकत्वादिव्यहारहेतुः सङ्ख्या । नवद्रव्यवृत्तिः । एकत्वादि- परार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । श्रनित्यगतमनित्यम् । दित्वादिकन्तु सर्वत्राऽनित्यमेव । ४ मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति ।

तच्चतुर्विधम् । अणु महत् दीर्घ ह्रस्वं चेति ।

५ पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति । ६ संयुक्त व्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः । ७ संयोगनाशको गुणणे विभागः । सर्वद्रव्यवृत्तिः ।

१ घ्राणेन्द्रियजन्यज्ञानविषयत्वे सति गुणत्वं गन्धस्य लक्षणम् । २ त्वगिन्द्रियमात्रजन्यज्ञानविषयत्वे सति गुणत्वं स्पर्शस्य लक्षणम् । . ३ एकत्वादिव्यवहारहेतुत्वं सङ्ख्यायाः लक्षणम् ।

8 मानव्यवहारासाधारणकारणत्वं परिमाणस्य लक्षणम् । ५ पृथग्व्यवहारासाधारणकारणत्वं पृथक्त्वस्य लक्षणम् । ६ संयुक्त व्यवहारासाधारणकारणत्वं संयोगस्य लक्षणम् ।

● संयोगनाशकत्वे सति गुणत्वं विभागस्य लक्षणम् ।

( ५ )

१ परापरव्यवहारासाधारणकारणे परत्वापरत्वें । पृथिव्या- दिचतुष्टयमनोवृत्तिनो । ते द्विविधे। दिक्कते कालकृते च । दूरस्थे दिक्कतं परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् । कनिष्ठे कालकृतमपरत्वम् । २ श्राद्यपतनाऽसमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति । ३ श्राद्यस्यन्दनाऽसमवायिकारणं द्रवत्वम् । पृथिवीजलतेजो- वृत्ति । तद् द्विविधम् । सांसिद्धिकं नैमित्तिकं चेति । सांसि - द्विकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादाव- ग्निसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ।

४ चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः । ५ श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधः । ध्वन्यात्मको वर्णात्मकश्चेति । ध्वन्यात्मको भेर्यादौ । वर्णा- त्मकश्च संस्कृतभाषादिरूपः ।

६ सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा, स्मृतिरनु-

भवश्च ।

७ संस्कारमात्र जन्यं ज्ञानं स्मृतिः ।

१ परव्यवहारासाधारणकारणत्वं परत्वस्य लक्षणम् । एवं अपव्यवहारा

साधारणकारणत्वमपरत्वम् ।

२ आद्यपतनाऽसमवायिकारणत्वं गुरुत्वस्य लक्षणम् ।

३ आद्यस्यन्दनाऽसमवायिकारणत्वं द्रवत्वस्य लक्षणम् । ४ चूर्णादिपिण्डीभावहेतुत्वे सति गुणत्वं स्नेहस्य लक्षणम्- ५ श्रोत्रेन्द्रियजन्यज्ञानविषयत्वे सति गुणत्वं शब्दस्य लक्षणम् । ६ सर्वव्यवहारहेतुत्वे सति गुणत्वं बुद्धेर्लक्षणम् ।

७ संस्कारमात्रजन्यत्वे सति ज्ञानत्वं स्मृतेर्लक्षणम् ।

( ६ )

१ तद्भिनं ज्ञानमनुभवः । स द्विविधः । यथार्थोऽयथार्थश्च । २ तद्वति तत्प्रकारकोऽनुभवो यथार्थः । सैव प्रमेत्युच्यते ।

३ तदभाववति तत्प्रकारको ऽनुभवोऽयथार्थः । सैवाऽप्रमेत्यु

च्यते ।

यथार्थानुभवश्चतुर्विधः । प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तस्करणमपि चतुर्विधम् । प्रत्यक्षानुमानोपमानशब्दभेदात् । ४ श्रसाधारणं कारणं करणम् । ५ कार्यनियतपूर्ववृत्ति कारणम् ।

६ कार्य प्रागभावप्रतियोगि ।

कारणं त्रिविधम् । समवाय्यसमवायिनिमित्तभेदात् । ७ यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः

पदस्य । पटना स्वगतरूपादेः ।

१ तदभिनत्वे सति ज्ञानत्वं अनुभवस्य लक्षणम् ।

२ तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वे सति अनुभवत्वं यथार्थानुभवस्य

लक्षणम् ।

३ तदभाववविशेष्यकत्वे सति तत्प्रकारकत्वे सति अनुभवत्वं अयथार्था-

नुभवस्य लक्षणम् ।

४ व्यापारवत्वे सति कार्यत्वव्याप्यधर्मावच्छिनकार्यतानिरूपितकारणतावत्वं

करणस्य लक्षणम् ।

५ मन्यथासिद्विशून्यत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणस्य लक्षणम् । ६ प्रागभावप्रतियोगित्वं कार्यस्य लक्षणम् ।

• समवायसम्बन्धावति कार्यतानिरूपिततादात्म्यसम्बन्धावन्धावच्छिन्नका- रणत्वम् समवायिकारणस्य लक्षणम् ।

( ७ )

१ कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति कारण- मसमवायिकारणम् । यथा तन्तुसंयोगः पदस्य । तन्तुरूपं

पटगतरूपस्य ।

२ तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य । तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ।

३ तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।

४ ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् ।

५ इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद् द्विविधम् ।

निर्विकल्पकं सविकल्पकं चेति ।

६ निष्प्रकारकं ज्ञानं निर्विकल्पकम् ।

७ सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोऽयम् । ब्राह्म-

योऽयम् । श्यामोऽयमिति ।

प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः संयु- कसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसम- वायो विशेषणविशेष्यभावश्चेति ।

}

१ कार्येण सह एकस्मिन्नर्थे समवेतत्वे सति कारणत्वं, कारणेन वा सह एकस्मिन्नर्थे समवेतत्वे सति कारणत्वं असमवायिकारणस्य लक्षणम् । २ समवायिकारणमित्रत्वे सति असमवायिकारणभिन्नत्वे सति कारणत्वं

निमित्तकारणस्य लक्षणम् ।

३ प्रत्यक्षज्ञानासाधारणकारणत्वं प्रत्यक्षप्रमाणस्य लक्षणम् ।

8 ज्ञानाकरणकत्वे सति ज्ञानत्वं प्रत्यक्षप्रमायाः लक्षणम् । ५ इन्द्रियार्थसन्निकर्ष अन्यत्वे सति ज्ञानत्वं प्रत्यक्षप्रमायाः लक्षणम् । ६ प्रकारताशून्यत्वे सति ज्ञानत्वं निर्विकल्पकत्वम् ।

७ प्रकारतानिरूपकत्वे सति ज्ञानस्वं सविकल्पकत्वम् ।

( = )

चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ।

घटरूप प्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः । चक्षुःसंयुक्ते घटे रूपस्य समवायात् ।

रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः । कर्णविवरव यकस्य श्रोत्रत्वाच्छन्दस्याकाशगुणत्वात् गुणगुणिनो- ा समवायात् । शब्दत्वसाक्षात्कारे समवेतसमवायः सन्नि- कर्पः । श्रोत्रसमवे शब्दे शब्दत्वस्य समवायात् । श्रभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः । घटाभाव- वद् भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशे- पणत्वात् । एवं सन्निकर्षपट्कजन्यं ज्ञानं प्रत्यक्षम् । तत्कर- रामिन्द्रियं तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ।

इति तर्कसङ्ग्रहे प्रत्यक्षपरिच्छेदः ॥

१ अनुमितिकरणमनुमानम् ।

२ परामर्शजन्यं ज्ञानमनुमितिः ।

३ व्याप्तिविशिष्टपचधर्मताज्ञानं परामर्शः । यथा वन्हिव्याप्य धृमवानयं पर्वत इति ज्ञानं परामर्शः, तज्जन्यं पर्वतो वन्हि - मानिति ज्ञानमनुमितिः ।

४ यत्र यत्र धूमस्तत्र तत्र वन्हिरिति साहचर्यनियमो व्याप्तिः ।

१ अनुमितिकरणत्वमनुमानस्य लक्षणम् ।

२ परामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम् ।

३ व्याप्तिविशिष्टपक्षधर्मताज्ञानत्वं परामर्शस्य लक्षणम् ।

● हेतुम्बापकसाध्य सामानाधिकरण्यं व्याप्तेर्लक्षणम् ।

( 8 }

१ व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता । श्रनुमानं द्विविधम् ।

स्वार्थं परार्थं च । २ स्वार्थ स्वानुमितिः हेतुः । तथाहि– स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राऽग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति ‘यत्र यत्र धूमस्तत्रतत्राग्निः’ इति तदनन्तरं वन्हिव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते । श्रयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वन्हिमान् इति ज्ञानमनुमितिरुत्पद्यते तदेव स्वार्थानुमानम् ।

यन्तु स्वयं धूमादग्निमनुमाय परं प्रति बोधयितुं पञ्चावयव- वाक्यं प्रयुज्यते तत्परार्थानुमानम् । यथा पर्वतो वन्हिमान् धूमवत्त्वात् । यो यो धूमवान् स सोऽग्निमान् यथा महान- सम् । तथा चायम् । तस्मात्तथेति । श्रनेन प्रतिपादितालि- ङ्गात्परोऽप्यग्निं प्रतिपद्यते ।

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वन्हिमानिति प्रतिज्ञा । धूमवत्वादिति हेतुः । यो यो धूमवान् स सोऽग्निमानित्युदाहरणम् । तथा चायमित्यु एनयः । तस्मात्तथेति निगमनम् ।

स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एवं करणम् । तस्मालिङ्गपरामर्शो ऽनुमानम् ।

१ हेतुमत्पक्षविषयकज्ञानत्वं पक्षधर्मवालक्षणम् ।

२ स्वार्थानुमितिकरणत्वं स्वार्थानुमानस्य तक्षणम् । एवं परार्थानुमितिहेतुत्वं

परार्थानुमानस्य लक्षणम् ।

( १० )

१ लिङ्ग त्रिविधम् । श्रन्वयव्यतिरेकि केवलान्वयि, केवल-

व्यतिरेकि चेति ।

२ अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि, यथा वन्हौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निर्यथा महानसमि- त्यन्वयव्याप्तिः । यत्र वन्हिर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहद इति व्यतिरेकव्याप्तिः ।

३ अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा घटोऽभिधेयः प्रमेयत्वात् पटवत्। श्रत्र प्रमेयत्वाभिधेयत्व योव्यतिरेकव्या. तिर्नास्ति । सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च ।

४ व्यतिरेकमाकव्याप्तिकं केवलव्यतिरेकि । यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्वात् । यदितरभ्यो न भिद्यते न तद् गन्धवत् । यथा जलम् । न चेयं तथा । तस्मान्न तथेति । अत्र यद् गन्धवत् तदितरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ।

५ सन्दिग्धसाध्यवान् पक्षः । यथा धूमवत्वे हेतौ पर्वतः । ६ निश्चितसाध्यवान् सपक्षः । यथा तत्रैव महानसम् ।

1 व्याप्याsaari लिङ्ग सामान्यलक्षणम् ।

२ अन्यसहचारज्ञानज्ञाप्यव्याप्तिमत्वे सति व्यतिरेकसहचारज्ञानज्ञाप्य-

व्याप्तिमवं अन्वयव्यतिरेकिलिङ्गस्य लक्षणम् ।

३ व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्वं केवलान्वयिकक्षणम् । ४ अन्वयण्यातिशून्यत्वे सति व्यतिरेकव्याप्तिमत्वं केवलव्यतिरेकिलिक्स्य

लक्षणम् ।

५ साव्यप्रकारकसंशयविशेष्यत्वं पक्षस्य लक्षणम् । ६ साम्यप्रकारकनिश्चयविशेष्यत्वं सपक्षस्य लक्षणम् ।

( ११ )

१ निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाहृदः । २ सव्यभिचारविरुद्ध सत्प्रतिपक्षाऽसिद्धवाधिताः पञ्च हेत्वा-

भासाः ।

३ सव्यभिचारोऽनैकान्तिकः । स त्रिविधः । साधारणासाधा-

रणानुपसंहारिभेदात् ।

४ तत्र साध्याभाववृत्तिः साधारणोऽनैकान्तिकः । यथा पर्वतो हिमान् प्रमेयत्वादिति । प्रमेयत्वस्य वन्ह्यभाववति हृदे विद्यमानत्वात् ।

५ सर्व सपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिरसाधारणः । यथा शब्दो नित्यः शब्दत्वादिति शब्दत्वं सर्वेभ्यो नित्येभ्यो- ऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृति ।

६ श्रन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी । यथा सर्वम- नित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति ।

७ साध्याभावव्याप्तो हेतुर्विरुद्धः । यथा शब्दो नित्यः कृतक- स्वादिति । कृतकत्वं हि नित्यत्वाभावेनानित्यत्वेन व्याप्तम् । = साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षः । यथा

१ साध्याभावप्रकारकनिश्चयविशेष्यत्वं विपक्षस्य लक्षणम् । २ अनुमिति प्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभाससामान्यलक्षणम् । ३ साधारणाद्यन्यतमत्वं सम्यभिचारस्य लक्षणम् । ४ साध्याभाववद्वशित्वं साधारणत्वम् ।

५. साध्या सामानाधिकरण्यं असाधारणत्वम् ।

६ अत्यन्ताभावाप्रतियोगिसाध्यकत्वं अनुपसंहारित्वम् ।

७ साध्यव्यापकीभूताभावप्रतियोगित्वं विरोधस्य लक्षणम् ।

८ स्वसाध्यविरुद्धसाध्याभावव्याप्यहेतुप्रकारतानिरूपितपक्षतावच्छेदकाव-

( १२ )

शब्दो नित्यः श्रावणण्याच्छन्दत्ववत् । शब्दोऽनित्यः कार्य- त्वाद् घटवत्।

१ श्रसिद्धस्त्रिविध । श्राश्रयासिद्धः स्वरूपासिद्धो व्याप्यत्वा-

सिद्धश्चेति ।

२ श्रध्यासिद्धो यथा गगनारविन्दं सुरभि श्ररविन्दत्वात्, सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः स च नास्त्येव । ३ स्वरूपासिद्धी यथा । शब्दों गुणश्चानुपत्वात् रूपवत् । नत्र

चाक्षुषत्वं शब्दे नास्ति । शब्दस्य श्रावणत्वात् । सोपाधिको हेतुर्व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाधिः । साध्यसमानाधिकरणात्यन्ताभा- याप्रतियोगित्वं साध्यव्यापकत्वम् । साधनवन्निष्ठाऽत्यन्ता- भावप्रतियोगित्वं साधनाव्यापकत्वम् । पर्वतो धूमवान् वन्हि मत्वादित्यत्राऽऽद्वैन्धनसंयोग उपाधिः । तथाहि - यत्र धूम- स्तत्रादन्धनसंयोग इति साध्यव्यापकता । यत्र वन्हिस्त त्राऽऽर्द्वन्धनसंयोगो नास्ति श्रयोगोलके श्राद्वैन्धनाभावा- दिति साधनाव्यापकता । एवं साध्यव्यापकत्वे सति साध- नाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद् व- हिमवं व्याप्यत्वासिद्धम् ।

ष्टिश्वविशेष्यताशालिनिश्चयकालीनप्रकृतसाध्यव्याप्य हेतु प्रकार तानिरू. पितपक्षतावच्छेदकावच्छिन्नविशेष्यताशालिनिश्चयविषयत्वं

पक्षस्य लक्षणम् ।

१ आश्रयासिद्धयायन्यतमत्वमसिद्धिसामान्यलक्षणम् ।

२ पक्षे पक्षतावच्छेदकाभावः आश्रयासिद्धिः ।

३ पक्षे हेत्वभावः स्वरूपासिद्धिः ।

सम्प्रति•

( १३ )

१ यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः । यथा वन्हिरनुष्णो द्रव्यत्वादिति । श्रत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यते इति वाधितत्वम् ।

इति अनुमानपरिच्छेदः ।

२ उपमितिकरणमुपमानम् ।

३ सञ्ज्ञासञ्ज्ञिसम्बन्धज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । तथाहि कश्चिद् गवयपदार्थमजानन् कुतश्चिदारण्यक पुरुषा- द् गोसदृशो गवय इति श्रुत्वा वनं गतो वाक्यार्थं स्मरन्गो- सदृशं पिण्डं पश्यति तदन्तरमसौ गवयशब्दवाच्य इत्युप- मितिरुत्पद्यते ।

इत्युपमानपरिच्छेदः ।

४ श्राप्तवाक्यं शब्दः । श्राप्तस्तु यथार्थवता । वाक्यं पदसमूहः । यथा गामानयेति शक्तं पदम् । श्रस्मात्पदादयमर्थो बोद्धव्य इतीश्वरसङ्केतः शक्तिः ।

श्राकाङ्क्षा- योग्यता- सन्निधिश्च वाक्यार्थज्ञाने हेतुः । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा । अर्था वाघो योग्यता । पदानामविलम्बेनोच्चारणं सन्निधिः । तथा च श्राकाङ्क्षादि रहितं वाक्यम प्रमाणम् । यथा गौरश्वः पुरुषो हस्तीति न प्रमाणम् । श्राकाङ्क्षाविरहात् । वह्निना सिञ्चतीति न प्रमाणम् । योग्यताविरहात् । प्रहरे प्रहरेऽसहोश्चारितानि गामानयेत्यादिपदानि न प्रमाणं सान्निध्याभावात् ।

१ पक्षे साध्याभावो बाधः ।

२ उपमितिकरणत्वमुपमानस्य लक्षणम् । ३ शक्तिप्रकारकज्ञानत्वमुपमितेलक्षणम् ।

४ आप्तोच्चरितत्वे सति वाक्यत्वं शब्दस्य लक्षणम् ।( १४ )

ari द्विविधम्-वैदिकं लौकिकं च ।

१. वैदिकमश्वमीश्वरोकत्वात्सर्वमेव प्रमाणम् । लौकिकं त्वा-

प्रोक्तं प्रमाणम् । श्रन्यदप्रमाणम् । वाक्यार्थज्ञानं शाब्दज्ञानम् । तत् करणं तु शब्दः ।

इति शब्दपरिच्छेदः ।

अयथार्थानुभवस्त्रिविधः संशय- विपर्यय - तर्कभेदात् । २ एकस्मिन्धर्मिणि विरुद्ध - नानाधर्मवैशिष्ट्यावगाहिज्ञानं सं.

शयः । यथा स्थाणुत्र पुरुषो वेति ।

[[1]]

३ मिध्याशानं विपर्ययः । यथा शुकौ “इदं रजतम्” इति । ४ व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा यदि वन्हिने स्या-

चर्हि धूमोऽपि न स्यादिति ।

स्मृतिरपि द्विविधा - यथार्था श्रयथार्था च ।

५. प्रमाजन्या यथार्था

६ श्रप्रमाजन्या श्रयथार्था ।

७ सर्वेषामनुकूलतया वेदनीयं सुखम् ।

= प्रतिकूलतया वेदनीयं दुःखम् ।

& इच्छा कामः

१ ईश्वरोक्तवं वैदिकवाक्यस्य लक्षणम् ।

२ एकधर्मिकविरुद्ध भावाभावोभयप्रकारकज्ञानत्वं संशयस्य लक्षणम् ।

३ तदभाववति तत्प्रकारकज्ञानत्वं विपर्ययस्य लक्षणम् ।

४ व्याप्यविषयकाहार्यज्ञान अन्यभ्यापकविषयकाहार्यज्ञानत्वं तर्कस्य लक्षणम् ।

५ तद्वति तम्प्रकारकस्मृतिस्त्वं यथार्थस्मृतेर्लक्षणम् ।

६ तदभाववति तम्प्रकारकस्मृतित्वं अयथार्थस्मृतेर्लक्षणम् ।

सुखत्वजातिमत्वं सुखस्य लक्षणम् ।

८ दुःखत्वजातिमत्रं दुःखस्य लक्षणम् । ९ इच्छास्वजातिमत्वं इच्छायाः लक्षणम् ।

१ क्रोधो द्वेषः ।

२ कृतिः प्रयक्षः ।

३ विहितकर्मजन्यो धर्मः

( १५ )

४ निषिद्धकर्मजन्यस्त्वधर्मः ।

बुद्धयादयोष्टावात्ममात्रविशेषगुणाः । बुद्धीच्छाप्रयता नित्या अनित्याश्च । नित्या ईश्वरस्य । श्रनित्या जीवस्य ।

५ संस्कारस्त्रिविधः - वेगो भावना वितिस्थापकेति । ६ वेगः पृथिव्यादिचतुष्टयमनोवृत्तिः ।

७ अनुभवजन्या स्मृतिहेतुर्भावना, श्रात्ममात्रवृत्तिः । म अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितस्थापकः, कटादि-

पृथिवीवृत्तिः । इति गुणाः ।

& चलनात्मकं कर्म ।

१० ऊर्ध्वदेशसंयोग हेतुरुत्क्षेपणम् ।

१ द्वेषत्वजातिमत्वं द्वेषस्य लक्षणम् । २ प्रयनत्वजातिमत्वं प्रयत्नस्य लक्षणम् । ३ विहितकर्मजन्यत्वं धर्मस्य लक्षणम् । ४ निषिद्धकर्मजन्यत्वं अधर्मस्य लक्षणम् ।

[[1]]

५ संस्कारस्वजातिमत्वं संस्कारस्य लक्षणम् ।

६ वेगत्वजातिमत्वं वेगस्य लक्षणम् ।

• अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनायाः लक्षणम् ।

८ वेगभिन्नत्वे सति भावनाभिनत्वे सति संस्कारत्वं स्थितिस्थापकस्य

लक्षणम् ।

९ कर्मस्वजातिमत्वं कर्मणो लक्षणम् ।

१० ऊर्ध्वदेशसंयोगाऽसमवायिकारणत्वं उत्क्षेपणस्य लक्षणम् ।

( १६ )

१ श्रधोदेशसंयोग हेतुरपक्षेपणम् ।

२ शरीरस्य सन्निकृष्टसंयोगहेतुराकुञ्चनम् । ३ विप्रकृष्टसंयोगहेतुः प्रसारणम् ।

४ श्रन्यत्सवं गमनम् ॥

५ नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुणकर्मवृत्ति । परं

सत्ता । अपरं द्रव्यत्वादीति ।

६ नित्यद्रव्यवृत्तयो व्यावर्त्तका विशेषाः ।

७ नित्यसम्बन्धः समवायः ।

= श्रयुतसिद्धवृत्तिः । यथार्द्वयोर्मध्ये एकमपराश्रितमेवावतिष्ठते नावयुनलिद्धौ । यथा श्रवयवावयविनौ गुणगुणिनौ किया. क्रियावन्ती जातिव्यक्ती विशेषनित्यद्रव्ये चेति ।

& श्रनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्वं कार्यस्य । १० सादिरनन्तः प्रध्वंसः । उत्पत्यनन्तरं कार्यस्य ।

[[१]]

देशसंयोगाऽसमवायिकारणत्वं अपक्षेपणस्य लक्षणम् ।

२ अवयवानामनारमं कसंयोगाऽसमवायिकारणत्वं आकुञ्चनस्य लक्षणम् । ३] विप्रकृष्टसंयोगासमवायिकारणत्वं प्रसारणस्य लक्षणम् ।

१९ उत्क्षेपणादिचतुष्टयमित्रत्वे सति कमवजातिमत्वं गमनस्य लक्षणम् ।

५ निम्यचे सम्मनेकसमवेतत्वं जातेर्लक्षणम् ।

६ स्वतोन्यावर्धकत्वं विशेषष्य लक्षणम् ।

● निष्पत्वे सति सम्बन्धिभिवे सति सम्बन्धत्वं समवायस्य लक्षणम् । ८ पृथगाश्रयाश्रितत्वाभावोऽयुतसिद्धत्वम् ।

९ प्रागभावाप्रतियोगित्वे सति ध्वंसप्रतियोगित्वं प्रागभावस्य लक्षणम् । १० प्रागभावप्रतियोगित्वे सति धंसा प्रतियोगित्वं प्रध्वंसस्य लक्षणम् ।

१ त्रैकालिकः

( १७ )

संसर्गावच्छिन्नप्रतियोगिताकोऽत्यन्ताभावः ।

यथा भूतले घटो नास्तीति ।

२ तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताको ऽन्योन्याभावः । यथा

घटः पटो नेति ।

सर्वषां पार्थानां यथायथमुकेष्वन्तर्भावात् सप्तैव पदार्थां इति सिद्धम् ।

करणादन्यायम तयोर्वा व्युत्पत्तिसिद्धये । अन्नम्भट्टेन विदुषा रचितस्तर्कसङ्ग्रहः ॥

१ नित्यत्वे सति तादाम्य सम्बन्धानवच्छिन्न प्रतियोगिताकत्वं अत्यन्ताभावस्य

लक्षणम् 1

• तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वं अन्योन्याभावस्य लक्षणम् ।

॥ श्रीगणेशाय नमः ॥

न्याय-बोधिनी, दीपिका, गङ्गा टीकाभिः समलङ्कृतः

तर्क - सङ्ग्रहः

निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥ १ ॥

अखिलाऽऽगमसञ्चारि श्रीकृष्णाख्यं परं महः ।

ध्यात्वा

गोवर्धन सुधीस्तनुते न्यायवोधिनीम् ॥ १ ॥

न्या०– चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थमिष्ट- देवतानमस्कारात्मकं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निवध्नाति । निधायेति ।

विश्वेश्वरं साम्बमूत्तिं प्रणिपत्य गिरां गुरुम् । टीकां शिशुहितां कुर्वे तर्कसङ्ग्रहदीपिकाम् ।

दी० - चिकीर्षितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचा- रानुमितश्रुतिवोधितकर्त्तव्यताकमिष्टदेवतानमस्कारलक्षणं मङ्गलं शिष्यशिक्षार्थं निवश्चिकीर्षितं ग्रन्थादौ प्रतिजानीते । निधायेति ।

यत्कारुण्यकरणस्पर्शान्मूको वाचस्पतीयति । ब्रह्मोपेन्द्रशिवैर्वन्द्यां नौमि तां वागधीश्वरीम् ।

तर्कसङ्ग्रहः

गं० - विश्वस्य-पय-ईश्वरं सृज्यादिकतीरमित्यर्थः । अन्नया सहिता मिसिनिनम् । गिरां निखिलविद्यानां गुरु-उपदेशरम् । गिरं मिनि पार्थः प्रणिपत्य गन्ये यथेः । प्रतिपूर्वक पत्नीः प्रशासोऽर्थ । साविककारकज्ञानानुकूल व्यापारः

या व्यर्थ नानत्वम् । शिशुभ्यां हितां

हास्यस्य दीपिकां तर्क- कामित्यर्थः । द्वितीयार्थी । कुर्वे इ

इत्पन्न

कृन्धी इनिः सत्यार्थ तथा च अन्य विशिष्टमूर्ति-

आश्रयकम् ।

यक सरस्वतीविशेष्यक स्वावधि- कानसहितत्वादिविशेषणविशिष्टटीका विषयिणी

या कृनिम्नाsमिति बोधः ।

चिकपितस्य । कपिभूतम्य । कृतिसाध्यत्वप्रकार केच्छादि- यावत् ग्रन्थस्येत्यस्य समाप्तानन्यः । मङ्गलस्य निष्फलवर्श-

काम भारतीय निरासा

सर्वसमाप्तिः,

निर्विघ्नपरिसमाप्त्यर्थ- मिति । निर्दिपरिसमाप्तिः विज्ञपूर्व समाप्तिः, अर्थ - फलं यस्य तत्-तथा- भूमं मं नार्थः तथा च उमाप्ति प्रति विध्वंसद्वारा मङ्गलस्य हेतुत्यलाभा- fairs arecards विक्षणावस्थायिनो मङ्गलस्य

कथं कान्ताविसमाप्तिसाधनत्वमितिशङ्का निरस्ता । ननु मजले समाप्ति- साम्य दुर्महतया इष्टसाधनताज्ञानं विना प्रवृत्यनुपपत्या च मङ्गला- वरण ग्रन्थकर्तुः प्रवृत्यनुपपत्तिरिस्थाशङ्कां निराकर्त्तुमाह । शिष्टेति । शिष्टा- चारेणाऽनुमिता या श्रुतिः तथा बोधिता कर्त्तव्यता यस्येति व्युत्पत्या तादृश कर्त्तव्यतावदित्यर्थलाभः । कर्त्तव्यत्वं च बलवदनिष्टाननुवन्धित्वे सति इष्ट- साधनवे सति कृतिसाध्यत्वम् । इष्टच प्रकृते समाप्तिः । इदीनीच मङ्गलस्य स्वरूपमाह । इष्टेति । इष्टदेवतोद्देश्य नमस्काररूपमित्यर्थः । " आशीनम्म- स्त्रिया वस्तुनिर्देशोवापि तन्मुखम्" इत्यभियुक्तो केः । स च नमस्कारस्त्रिविधः arrest वाचिक मानसिकश्रेति । भाचस्तु उरसा शिरसा इत्यष्टाङ्ग

[[३]]

AW

टीकात्रयोपेत

सहितः प्रगामः । द्वितीयः, विश्वनाथाय नमः इतिशब्दात्मकः । अन्यस्तु त्वद- विकार वोह, मदवधि को कमित्या कारकज्ञानविशेषरूप इति ध्येयम् । निवन्धनस्य प्रयोजना । शिष्यशिक्षायै इति । शिष्याणां शिक्षा

कर्तव्यवेन ज्ञानम् तदर्थमित्यर्थः । निविघ्नन्निति । निवन्धनं कुर्वन्नित्यर्थः । सागरप्रतिपादकवाक्यनुञ्चरन्निति यावत् 1 चिकीर्षितमिति । कर्तुमिच्छविषयभूतमिर्थः । प्रतिजानीते । शिव्यावधानायेत्यादिः । प्रतिज्ञानुकृतिनान् ग्रन्थकार इत्यर्थः ।

दी० - ननु मङ्गलस्य समातिसावनत्वं नाहित, मङ्गलेकृतेऽपि

निर्विमाप्त्यदर्शनात्, मङ्गला भावेऽपि करणा- याद समाप्तदर्शनात् श्रन्वयव्यतिरेक व्यभिचारादिति चेन्न । कादम्बर्यादौ विनवाहुल्यात्समाप्त्यभावः । किरणावल्यादौ तु ग्रन्याद्वहिरेव मङ्गलं कृतमतो न व्यभिचारः ।

गं० - नतु निर्विघ्नपरिसमाप्त्यर्थमिति ग्रन्थेन मङ्गलस्य समाप्ति साधनत्वं प्रतिपादितम्, तत्र सम्भवतीत्याशङ्कते । नन्वित्यादिना । तथा च मङ्गलं समाप्तिसाधनत्वाभाववत् अन्वयव्यभिचाराद्व्यतिरेकव्यभिचाराच्चेत्यनुमानं फलितम् । अन्वयसहचारश्च यत्सत्वे यत्सत्वम्, कारण सध्वे कार्य - सत्वमिति यावत् । यदभावे यदभावो व्यतिरेकसहचारः, कारणाभावे कार्या- भात्र इति यावत् । यत्सत्वे यदभावोऽन्वयव्यभिचारः, कारण सत्वे कार्या- भाव इति यावद्’ । यदभावे यत्सत्वं व्यतिरेकव्यभिचारः कारणाभावे

टि० १ कारणसमानाधिकरणाभाव प्रतियोगि कार्यकत्वादित्यर्थः । समाप्ति प्रति अन्यथासिद्धत्वादिति यावत् । एवं व्यतिरेकव्यभिचारादित्यस्य कार्याधिकरणवृत्यस्य- न्ताभावप्रतियोगितावच्छेदकत्र मंवत्वादित्यर्थः । एवं च न साध्यहेत्ववयधिकरण्यम् । व्यति- रेकव्यभिचार निश्चयश्च साक्षात्कारणत्वग्रह विरोधी । कार्याव्यवहितप्राक्चयावच्छेदेन कार्यसमानाधिकरणाऽत्यन्ताभावप्रतियोगितानवच्छेदकत्वमेवत्वस्यैव कारयतारूपत्वादिति ॥

[[३]]

AW

टीकात्रयोपेत

सहितः प्रगामः । द्वितीयः, विश्वनाथाय नमः इतिशब्दात्मकः । अन्यस्तु त्वद- विकार वोह, मदवधि को कमित्या कारकज्ञानविशेषरूप इति ध्येयम् । निवन्धनस्य प्रयोजना । शिष्यशिक्षायै इति । शिष्याणां शिक्षा

कर्तव्यवेन ज्ञानम् तदर्थमित्यर्थः । निविघ्नन्निति । निवन्धनं कुर्वन्नित्यर्थः । सागरप्रतिपादकवाक्यनुञ्चरन्निति यावत् 1 चिकीर्षितमिति । कर्तुमिच्छविषयभूतमिर्थः । प्रतिजानीते । शिव्यावधानायेत्यादिः । प्रतिज्ञानुकृतिनान् ग्रन्थकार इत्यर्थः ।

दी० - ननु मङ्गलस्य समातिसावनत्वं नाहित, मङ्गलेकृतेऽपि

निर्विमाप्त्यदर्शनात्, मङ्गला भावेऽपि करणा- याद समाप्तदर्शनात् श्रन्वयव्यतिरेक व्यभिचारादिति चेन्न । कादम्बर्यादौ विनवाहुल्यात्समाप्त्यभावः । किरणावल्यादौ तु ग्रन्याद्वहिरेव मङ्गलं कृतमतो न व्यभिचारः ।

गं० - नतु निर्विघ्नपरिसमाप्त्यर्थमिति ग्रन्थेन मङ्गलस्य समाप्ति साधनत्वं प्रतिपादितम्, तत्र सम्भवतीत्याशङ्कते । नन्वित्यादिना । तथा च मङ्गलं समाप्तिसाधनत्वाभाववत् अन्वयव्यभिचाराद्व्यतिरेकव्यभिचाराच्चेत्यनुमानं फलितम् । अन्वयसहचारश्च यत्सत्वे यत्सत्वम्, कारण सध्वे कार्य - सत्वमिति यावत् । यदभावे यदभावो व्यतिरेकसहचारः, कारणाभावे कार्या- भात्र इति यावत् । यत्सत्वे यदभावोऽन्वयव्यभिचारः, कारण सत्वे कार्या- भाव इति यावद्’ । यदभावे यत्सत्वं व्यतिरेकव्यभिचारः कारणाभावे

टि० १ कारणसमानाधिकरणाभाव प्रतियोगि कार्यकत्वादित्यर्थः । समाप्ति प्रति अन्यथासिद्धत्वादिति यावत् । एवं व्यतिरेकव्यभिचारादित्यस्य कार्याधिकरणवृत्यस्य- न्ताभावप्रतियोगितावच्छेदकत्र मंवत्वादित्यर्थः । एवं च न साध्यहेत्ववयधिकरण्यम् । व्यति- रेकव्यभिचार निश्चयश्च साक्षात्कारणत्वग्रह विरोधी । कार्याव्यवहितप्राक्चयावच्छेदेन कार्यसमानाधिकरणाऽत्यन्ताभावप्रतियोगितानवच्छेदकत्वमेवत्वस्यैव कारयतारूपत्वादिति ॥

पू

विपयत्वात् दर्शादिवत् । भोजनादौ व्यभिचारवारणाय श्रलौकि- केति । रात्रिश्राद्धादौ व्यभिचारवारणायाऽविगीतेति । शिष्टपदं स्पष्टा- र्थम् । " न कुर्यान्निष्फलं कर्म" इति जलताड़नादेरपि निषिद्धत्वादिति ।

[[1]]

गंο- • नतु मङ्गलं समाप्तिफलकं समाप्त्यन्याफलकत्वे सति सफलत्वा- दित्यनुमानेन समाप्तिकारणत्वं साधनीयम्, तत्रसमाप्त्यन्याफ उकलत्रे वादिनामविवाद एव । मङ्गलं सफलं अविगीत शिष्टाचारविषयत्वादित्य- नुमानेन विशेष्यासिद्धिनिरासः । सफलत्वं च बलवदनिष्टाननुबन्धित्वे सति इष्टसाधनत्वम् । एवं च मङ्गले समाप्तिसाधनत्वसिद्धावपि निर्विश परिसमाप्त्यर्थं प्रन्थादौ मङ्गलमेव कर्त्तव्यमिति नियमे मानाभावः, प्रायश्चि- तादिनापि विघ्ननाशसम्भवात् ततः समाप्युत्पत्तेःश्वेत्याशयेन शङ्कते । नन्वि- त्यादिना । मङ्गलस्येति । प्रन्थारम्भे इत्यादिः । कर्त्तव्यत्वे । नियमेन कर्त्त- व्यत्वे इत्यर्थः । प्रायश्चित्तादेः अकर्त्तव्यत्वे इति यावत् । किं प्रमाणमिति । प्रमाणाभाव इत्यर्थः । समाधत्ते नेति । शिष्टाचारानुमितश्रुतेरेवेति । एव- कारोऽप्यर्थकः । तेन मङ्गलं कर्तव्यं समाप्तिफलकत्वादित्यनुमानरूपप्रमा- शान्तरसत्वेऽपि न क्षतिः । अन्ये तु स्ववोधितकर्तव्यता कत्वसम्बन्धेन श्रुतेरेव साध्यता । अग्रिमग्रन्थस्यत्रैव तात्पर्यम् । एवं च श्रतेरनुमितत्वोपपत्ते- रित्याहुः । शिष्टाचारलिङ्गकश्रुत्यनुमितिप्रकारमाह । तथाहीत्यादिना । वेद बोधितकर्तव्यताकमिति । वेदेन बोधिता कर्तव्यता यस्येतिविग्रहः । अत्र च श्रुतेः साध्यतावच्छेदककोटिप्रविष्टत्वेन अनुमानतः सिद्धये श्रुतिवधि – तत्वं कर्तव्यताविशेषणम् । कर्तव्यत्वं च बलवदनिष्टाननुवन्धित्वे सति कृति- साध्यत्वे सति इष्टसाधनत्वम् । परदारगमन चन्द्रानयन जलताड़नादौ कर्त- व्यत्यव्यवहाराभावात् । इष्टं च प्रकृते समाप्तिरेव । सम्भवति दृष्टफलकत्वे- ऽदृष्टफलकल्पनाया अन्याय्यत्वादुपस्थितत्वाच्च । अलौकिकत्वे सति अविगी- तत्वे सति शिष्टाचारविषयत्वादित्यर्थः । भोजनादाविति । आदिना मालिन्य- निवर्तकस्नानादेः परिग्रहः । तत्रेष्टसाधनता सत्वेऽपि तस्य वेदवोधितत्वा-तक-सङ्ग्रहः

[[६]]

मावाद व्यभिचार इति भावः । अलौकिकत्वं च लोकानवगतेष्टसाधनताक त्वम् । लोकश्च वेदोपजीविप्रमाणातिरिक्त प्रमाणम् । वेदोपजीविप्रमाणानि च ज्योतिष्टोमादीनि स्वर्गसाधनानि तत्वेन श्रुतिबोधितत्वादित्यनुमानन् स्मृत्यादयश्च । केचिन अलौकिकवं फलनिष्टकार्यतानिरूपितव्यापार सम्बन्धानव- च्छिकारणताश्रयीभूतं यद्यत्तत्तदन्ययम् । एवं च भोजनादेः साक्षादेव तृ- सिजनकावेन तदन्यत्वरूपाऽलौकिकत्वाभावान्न व्यभिचार इत्याहुः । रात्रि- श्राद्धादाविति । शत्रुनाशमुदिश्य कृतरात्रिश्रद्धादावित्यर्थः । आदिना शत्रु- नाशकमन्त्रजपादेः परिग्रहः । अविगतत्वं च बलवदनिष्टाननुवन्धित्वम् । एवं च fears: frरुकाऽलौकिकत्वेऽपि नरकसाधनत्वेन वलवदनिष्टा- ननुवन्धिन्वरूपाऽविगतत्वाभावाच व्यभिचार इति भावः । अलौकिका- विगीताssचारविषयत्वस्यैव हेतुताsस्तु, अशिष्टाचारविषये तादृश हेतोर. सत्वेन व्यभिचाराsसम्भवादित्याशङ्कामिष्टापत्या परिहरति । शिष्टपदमिति । शिष्टत्वं च फलसाधनतांशे भ्रान्तिरहितत्वम् । ननु शिष्टपदानुपादाने निरर्थका- ताड़नादेरपि निहत. हेतुमत्वात्तत्र साध्याभावेन व्यभिचार इत्याशकां तत्र हेतुघटकाऽविगीतत्वविशेषणाऽसत्वप्रतिपादनेन परिहरति । न कुर्यादिति । तथा च तादृशजलताड़नादेः निषिद्धत्वात् विगीतत्वेन तत्राऽविगीतत्ववटित- हेत्वभावादेव व्यभिचारवारणे शिष्टपदं व्यर्थमेवेति भावः । विषयपदसमभि- व्याहारादाचारः कृतिरूपोबोध्यः । कृतिविषयत्ता च विधेयतारूपाबोध्या । वेन स्वर्गादिफले न व्यभिचार इति दिकू ।

टि०१ यद्यपि “मुनिमिचिन्तनं प्रोक्तं लोकानां मय वासिनाम् । आहाराश्च तमस्विन्यां सार्धप्रहरयामतः” इत्यादिना सहसाधनताया वेदवोधितत्वसम्भवाद् व्यभिचारो दुर्घटः, ममापि मोजनस्य रागप्राप्तत्वेन तत्रोत्पत्तिविध्यसम्भवेपि पच पश्चनखामच्या इत्यत्रेव परिसङ्ख्याविधिरेवाभ्युपेयः परिसङ्ख्याविवेश्व इतर निषेधप्रयोजकत्वेन एकस्मिन् दिवसे एम भारद्वयातिरिक्कं भोजनं न कुर्यादिति निषेध एव पर्यवसानात् तत्रेष्ट साध- कामस्य वेदनोचितायं न सम्भवतीति व्यभिचार इति ध्येयम् ।

टोकाrयोपेतः

दी० - तर्यन्ते प्रतिपाद्यन्ते इति तर्काः, द्रव्यादिपदार्थाः तेषां सङ्ग्रहः सङ्क्षेपेण स्वरूपकथनं क्रियत इत्यर्थः । कस्मै प्रयोजनायेत्यत श्राह । सुखबोधायेति । सुखेनाऽनायासेन यो बोधः प्रदार्थज्ञानं तस्मै इत्यर्थः । ननु बहुषु तर्कन्थेषु सत्सु किमर्थमपूर्वोयं ग्रन्थः क्रियत इत्यत आह । बालानामिति । तेषामतिविस्तृतत्वाद्वालानां बोधो न जायते इत्यर्थः । ग्रहणधारणपटुलः, नतु स्तनन्धयः । किं कृत्वा क्रियत इत्यत श्राह । निधायेति । विश्वेशं जगन्नियन्तारं । हृदि निधाय - नितरां स्थापयित्वा । सदा तद्द्ध्यानपराभूत्येत्यर्थः । गुरूणां विद्यागुरूणां । वन्दनं- नमस्कारं । विधाय कृत्वेत्यर्थः ।

गं० - तर्कपदस्याऽऽरोपार्थकत्वभ्रमं वारयितुं द्रव्यादिसाधारणतर्कवं निर्वाक्ति । तयन्त इति । उपादानरूपसङ्ग्रहस्यासम्भवादाह । सङ्क्षेपेणेति । अथवा सुखं दुःखध्वंसः मोक्ष इति यावत् । सुखायबोधः सुखबोधः । प्रयोजकत्वं चतुर्थ्यर्थः । तथा च मोक्षप्रयाञ्जकीभूत’ पदार्थविषयक तत्वज्ञानसम्पादनाय अयं ग्रन्थः क्रियते इति भावः । एतावता द्रव्यादिपदार्था विषयाः । पदार्थ- तत्वावधारणं प्रयोजनम् । सम्बन्धश्च प्रतिपाद्यप्रतिपादकभावः । पदार्थतत्वा- वधारणकामोऽधिकारीत्यनुबन्धचतुष्टयं प्रेक्षावत्प्रवृत्यङ्गं सूचितम् । द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः

न्या० - पदार्थान्विभजते- द्रव्येति । श्रत्र सप्तप्रहरणं पदार्थत्वं द्रव्यादि सप्तान्यतमत्वव्याप्यमिति व्याप्तिलाभाय ।

दी० - पदार्थान्विभजते । द्रव्येति । पदस्याऽर्थः पदार्थ इति व्यु- त्पत्याऽभिधेयत्वं पदार्थसामान्यलक्षणम् । नन्वत्र विभागादेव सप्तत्वे लब्धे सप्तग्रहणं किमर्थमिति चेन्न । अधिक सङ्ख्याव्यवच्छेदार्थ- त्वात् । नन्वतिरिक्तः पदार्थः प्रमितो नवा । नाद्यः । प्रमितस्य

तर्क- सङ्ग्रहः

निषेधाऽयोगात् । नान्त्यः, प्रतियोगिप्रमितिं विना निषेधानुपपत्ते- रिति चेन्न । पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदा- र्थत्वात् । ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वम् एवं च सप्तभिन्न- स्याप्रसिद्धत्वात्कथं सप्तान्यतमत्वव्याप्तिनिश्चय इति चेन्न । द्रव्यादि सप्तान्यतमत्वं नाम द्रव्यादिभेदसप्तकाभाववत्वम्, अतो दोषविर - हात् । एवमग्रेऽपि द्रष्टव्यम् ।

गं० - पदार्थान्विभजते इति । वि पूर्वक भजधातोः अवान्तरधर्मप्रकार- कज्ञानानुकूलव्यापारोऽर्थः । आख्यातार्थः कृतिः । द्वितीयार्थी विशेष्यकत्वम् । तथा च पदार्थविशेष्य पदार्थस्वावान्तरधर्मप्रकार कज्ञानानुकूलव्यापारानुकूल- कृतिमान् मूलकारः ।

ननु सामान्यधर्मप्रकारकज्ञानस्य विशेषधर्मप्रकारकजिज्ञासां प्रति हेतुतया लक्षणात्मकसाधारणधर्मप्रकारकज्ञानाभावात्कियन्तः पदार्था इति जिज्ञासानुत्पत्या विभागकरणमनुचितम् इत्या शङ्कां लक्षणप्रदर्शनेन परि- हरति । पदस्येति । व्युत्पत्येति । ईदृशव्युत्पत्या पदसम्बन्ध्यभिधाविष- यत्वस्य लाभेऽपि पदसंवन्धित्यांशस्याऽव्यावर्त्तकत्वादाह । अभिधेयत्वमिति । लक्षणं लभ्यते इति शेषः । " अर्थोभिवेय" इति कोशेनार्थपदस्याभिधेय- स्वच्छ शक्तिप्रतिपादनादित्यर्थः । इदमुपलक्षणम् । ऋगतौ इत्यनुशा- सनाद्गत्यर्थको धातुः । तस्य गुणे कृते भरिति धातुनिष्पत्तिः । ततो विष- यार्थक थप्रत्यये अर्थ इति शब्दो निधनः । तथा च गत्यर्थकधातूनां ज्ञाना- र्थकत्वनियमेन शेयत्व - ज्ञानविषयत्वमपिपदार्थसामान्यलक्षणम् ।

सप्तपदस्य प्रयोजनं वक्तुमाक्षिपति । नन्वित्यादिना । विभागादेवेति । परस्परमसङ्कीर्ण व्याप्यधर्माणामेवविभाजकतया इव्यगुणादीनां परस्परभेदे सिद्धे तेषां सप्तत्वस्याऽर्थतो लाभादितिभावः । सप्तग्रहणं किमर्थमिति । मूलस्य सप्तपदं निष्प्रयोजनकमिति यावत् । सप्तस्वोपस्थितेः बहुवचनेन सम्भ वादिति भावः । अधिकसङ्ख्येति । व्यथ सत्किञ्चिदज्ञापयतीति न्यायेन अष्टौ -

M

टीकात्रयोपेतः

पदार्था न सन्तीति ज्ञानायेति यावत् । तथा च यथा ब्राह्मण मानयेत्यादि- वाक्यघटकैकवचनान्तब्राह्मणपदेन एकत्वविशिष्टब्राह्मणस्याऽऽनयननिरूपि- कर्मवेोपस्थितावपि द्वितीयं नाऽऽनयेत्यर्थाऽलाभः । एकं ब्राह्मणमान- येत्यादौ सङ्ख्यावाचकैकादिपदानामितरनिषेधार्थकत्वाद् द्वितीयं नाऽऽनयेत्यर्थ- लाभः । तथा च द्रव्येत्यादिद्वन्द्वसमभिव्याहृतबहुवचनेन सप्तत्वरूपबहु- त्वसङ्ख्योपस्थितावपि अष्टत्वसङ्ख्यापर्याप्त्यधिकरणसमुदायस्य निषेधाऽला- भात्तदर्थपदमावश्यकमिति भावः ।

ननु सप्तपदेनाऽपि निरुक्तार्थलाभोन सम्भवति, अप्रसिद्धत्वादित्याशङ्कते । नम्विनि । अतिरिक्तः पदार्थ इति । अष्टमपदार्थ इत्यर्थः । प्रमितो नवेति । प्रमाविषयत्ववान् तदभाववान्वेत्यर्थः । तथा च पदार्थविभाजकधर्मः द्रव्यत्वाद्यभावत्वान्तान्यतमाधिकरणावृत्तिर्नवेति विप्रतित्पत्तिः गगनादावेव कोटिप्रसिद्धिः । प्रमितस्येति । विद्यमानस्येत्यर्थः । प्रतियोगिप्रमिति विनेति । प्रतियोगिनो ज्ञानं विनेत्यर्थः । अली प्रतियोगिकाभावानङ्गीकारादिति । परिहरति । नेति । व्यवच्छेदार्थकत्वादिति । व्यवच्छेदो निश्चयः स एवार्थों यस्य तस्य भावस्तस्मादित्यर्थः । तथा च द्रव्यगुणकर्मसामान्यविशेषसम- वायाऽभावाः द्रव्याद्यभावान्ताऽन्यतमत्ववन्तः पदार्थत्वादित्यत्र पदार्थत्वविशे- tयकद्रव्याद्यन्यतमत्वनिरूपितव्याप्तिप्रकारकनिश्चयार्थकं सप्तग्रहणमिति भावः । ननु असति वाधके अवच्छेदावच्छेदेन विशिष्टबुद्धौ उद्देश्य- तावच्छेदकन्यापकत्वं विधेये विधेयसंसर्गे वा भासत इति व्युत्पत्या प्रकृत उद्देश्यतावच्छेदकी भूतपदार्थत्वव्यापकत्वं द्रव्याद्यन्यतमत्वे भासते चेत्तदा तादृशान्यतमत्वव्याप्यत्वमुद्देश्यतावच्छेदकी भूतपदार्थत्वे भासत एव, एवं विभागवाक्यादेव निरुक्तनिश्चयसम्भवात् सप्तपदं व्यर्थमिति चेन्न । समानविभक्तिकस्थले उद्देश्यविधेयभावस्यविवक्षाधीनतया अन्यतम- trय पदार्थत्वमपि विधातुं शक्यते तथा च द्रव्याद्यन्यतमत्वं पदार्थत्व- व्याप्यमित्यपि व्याप्तिनिश्चयः स्यात्तदध्यावृत्त्यर्थमेव सप्तग्रहणमित्याशयात् । नच तद्व्यावृत्तिर्व्यर्थेति वाच्यम् । तथा सति अतिरिकशक्त्यादिपदार्थसावेऽपि

तर्क - सङ्ग्रहः

[[१०]]

तादृशनिश्रयोपपत्त्या द्रव्यादय एव पदार्था इति लाभो न स्यात् । तल्लाभा- ta sexहणमियन्यत्र विस्तरः ।

नन्दिति । सप्तभिन्नभिन्नत्वमिति । " द्रव्यादि प्रत्येकवृत्तिधर्मावच्छिन्न- भेदकूटावच्छिन्नप्रतियोगिताकभेदवत्वमिति यावत् । द्रव्यादिभेदसप्तका भाववत्वमिति । तथा च द्रव्यादिभेदानां प्रत्येकं प्रसिद्धानां सप्तानां कुत्रा - प्यसवेन तादृशभेदसप्तकवावच्छिन्नाभावस्य सर्वत्र सत्वान्न दोष इति

भावः ।

सप्तत्वं चात्रापेक्षा बुद्धिविशेपविपयत्वरूपम् । सङ्ख्यारूप वे गुणादिपु तद्वत्वाऽसम्भवादिनिध्येयम् ।

न्या० - ननु शक्तिपदार्थस्याऽष्टमस्य सत्वात्कथं सप्तैवेति ।

;

टि० १ शक्तौ विप्रतिपत्तिः वन्दिः दाहानुकूलाद्विष्ठाऽतीन्द्रियधर्मसमवाय नवे- त्याकारिका । एवं च वहिदानुकलाऽष्ठतीन्द्रियधर्म समवायी दाहजनकत्वाददृह- वदात्मवदिति प्राचामनुमानमपि तत्सिद्धौ मानम् । अत्र परेषामयमाशयः दाहं प्रति मण्यभावस्य प्रतिबन्धकाऽभावविथयैव कारयत्वं वाच्यम् प्रतिबन्धकत्वं च कार्यानुकूल धर्मविषयकत्वम् एवं च मणेः प्रतिबन्धकत्वाऽनुपपत्तिः, दाहात्मककार्याऽनुकूलस्य- दृष्टवन्यादेर्विघटकत्वाभावात् अतो वन्हौ कश्चिदतीन्द्रियधर्मः शक्त्याख्यः स्वीकार्यः, सोऽपि दाहानुकूलीभूतः, अनुकूलत्वं च जनकजनकतावच्छेदकसाधारणम्, तेनाऽ- दृष्टस्य कार्यमात्रं प्रति साचाजनकत्वेऽपि न दृष्टान्ताऽसिद्धिः । एवं च दाहं प्रति शक्तिमद्वन्दिस्वेन कारणतया मणेश्च दाहात्मककार्यानुकूलशक्त्याख्यधर्मविघटकतया प्रतिबन्धकत्वोपपत्तिः तथाचाऽवश्यं शक्तिः स्वीकार्येति ।

सिद्धान्तिनामयमाशयः । प्रतिबन्धकत्वं न कार्यानुकूलधर्मं विघटकत्वम् वाधनिश्चयेऽ- व्याप्तेः तस्य साक्षादेवाऽनुमितिप्रतिबन्धकत्वात् । किन्तु कार्य कार्यानुकूलधर्माऽन्यतरविघ- रकत्वमेव तत् । “बक्ष्यतिचाऽनुमितिपदमजहल्लक्षणयानुमिति तत्करणान्यतर पर मिति” । एवं च मणेः साक्षाद्दाह विघटकतया प्रतिबन्धकत्वोपपत्तौ शक्तिस्वीकारोव्यर्थं इति ।

कम वक्ष्यते ।

तथाहि । मण्यादिसंयुक्तेन्धनादौ सत्यपि वह्निसंयोगे दाहो न जायते, तच्छून्ये तु जायते, अतो मणिसमवधाने शक्तिर्नश्यति, मण्यभावद - शायां दाहानुकूलाशक्तिरुत्पद्यत इति कल्प्यते । तस्माच्छक्तिर तिरिक्तः पदार्थ इतिचेद् । मणेः प्रतिबन्धकत्वेन मण्यभावस्य कारणत्वे- नैवनिर्वाहे मणिसमवधानाऽसमवधानाभ्यामनन्तशक्ति - तद्ध्वंस- तत्प्रागभावकल्पनाया अन्याय्यत्वात् तस्मात्सप्तैव पदार्था इति सिद्धम् ।

गं० - प्रभाकरः शङ्कते । नन्विति । श्रष्टमस्य । सप्तपदार्थातिरिक्तस्ये- त्यर्थः । अतिरिक्तपदार्थतामेव व्यवस्थापयति । तथाहीत्यादिना । दाहः । पूर्वरूपपरावृत्ति, रूपान्तरोत्पत्तिर्वा । तच्छून्ये । मणिशून्ये । कल्प्यत इति । एवं च दाहत्वावच्छिन्नकार्यतानिरूपितकारणता अतीन्द्रियधर्माविच्छेद्या अयोग्यवृत्तिकारणतात्वादित्यनुमानेन तत्सिद्धिरितिभावः । ननु अनया युक्त्या न शक्तिसिद्धिः, वन्ध्यास्त्रीप्रयोगादौ दृष्टसाद्गुण्येऽपि अष्टष्ट बिलम्बा- त्फलबिल बइति वदत्रापि तद्विवाद्विलम्ब इति चेद् । नहिदृष्टसामग्री सम्पत्तौ अदृष्टविलम्बात्कार्य विलम्बोदृष्टः । वन्ध्या स्त्रीसम्प्रयोगादिस्थले विजातीयसंयोग- रूपदृष्ट हेत्वभावेन फलानुत्पादः, इतरथाऽदृष्टबिलम्बादेव कार्यबलबे दृष्ट- कार्यकारणकथाविलीयेत, तस्मात्सम्भवति दृष्टसाद्गुण्ये तथा कल्पनाया न्याय्यत्वासिद्धिरिति । श्रतिरिक्तः पदार्थ इति । नन्वेवं शक्तिसिन्द्धावपि तस्या अतिरिक्कत्वाऽसिद्धिरितिचेन्न । लृप्तपदार्थानन्तभूतत्वात् अतिरिक्तसि द्धिः । तथाहि । शक्तिर्नद्रध्यात्मिका गुणादिवृत्तित्वात् । अतएव न गुणात्मिका कर्मात्मिका वा । नच सामान्याद्यन्यतमरूपा उत्पत्तिमत्वे सति बिना शित्वादिति । यद्यपि मणिसमवधानकाले दाहजनकवन्हेरेव नाशाभ्युपगमात् न दाहोत्पादः, अतिरिक्तशस्तत् कल्पनातः से, तत्कल्पनाया एव न्याय्यत्वा दितिन्यायेन सुकर मेष समाधानम्, तथापि वस्तुतोनाशकल्पना गौरवेणैतदप- हाय निष्कृष्टं समाधानमाह । मणेः प्रतिबन्धकत्वेनेति । निर्वाहे ।

तर्क-सङ्ग्रहः

[[१२]]

सामञ्जस्ये । नचोचेजकसत्वे कथं दाहः, तत्र मण्यभावरूपकारणविरहा- दिनिवाच्यम् । उसेजका भाव विशिष्टमण्यभावस्य हेतुत्वात् ।

[[१]]

तत्र द्रव्याणि पृथिव्यतेजोवाय्वाकाशका लदिगा- त्ममनांसि ada ।

न्या० - द्रव्याणि विभजते । पृथिवीति । ननु अन्धकारस्य दशमद्रव्यस्य सत्वाकथं नवैवेति । तथाहि नीलं तसचलतीति प्रतीतेर्नीलरूपाश्रयत्वेन क्रियाश्रयत्वेन च तमसो द्रव्यत्वं सिद्धम् । न च कृप्तद्रव्येष्वन्तर्भावात्कुतो दशमद्रव्यत्वमिति वाच्यम् । तमसो रूपवत्वात् आकाशादिपञ्चकस्य वायोश्व नीरूपत्वान्न तेष्वन्तर्भावः । तमसो निर्गन्धत्वात् पृथिव्या गन्धवत्वान्न पृथिव्यामन्तर्भावः, तमसो निःस्पर्शाज्जउतेजसोः शीतोष्णस्पर्शवत्वात- योरन्तर्भावः । तस्मात्तमसो दशमद्रव्यत्वं सिद्धमिति चेन्न । तमसस्ते जो- shreeपत्वेनैवोपपत्तौ अतिरिक्तकल्पनायां मानाभावात् । नच विनिगम- नाविरहातेजवाऽन्धकाराऽभावस्वरूपमिति वाच्यम् । तेजसोऽभावस्वरूपत्वे सर्वानुभूतोष्णस्पर्शाश्रयत्वस्य तत्र वाधात् द्रव्यान्तरकल्पने गौरवात् । तस्मादुष्णस्पर्शगुणाश्रयतया तेजसो द्रव्यत्वं सिद्धम् । तमसि नीलप्रतीति- स्तुभ्रान्तिरेव एवं कर्मवत्ताप्रतीतिरपि दीपापसरण क्रियाया एव तत्रभानात् ।

,

१ उत्तेजक भावविशिष्टो यो मणिस्तदभावः कारणमित्यर्थः । उत्तेजकत्व ं च प्रति- बन्धकसत्वे कार्य जनकत्वम् । तथा च विशिष्टाभावः विशेषणाभावप्रयुक्तः, विशेष्याभाव- प्रयुक्तः, उभयाभावप्रयुक्तश्च । एवं च यत्र उत्तेजक प्रतिबन्धकयोर्द्वयोः समवव धानम्, तत्र विशेपणाभावप्रयुक्तो विशिष्टाभावः यत्र द्वयोरसमवधानं तत्र विशेष्याभावप्रयुक्तो विशिष्टाभावः यत्र कंवलमुत्तेजकं तत्रोभयाभावप्रयुक्तो विशिष्टाभावः । यत्र केवलं प्रति- बन्धकं तत्र न विशिष्टाभावः, विशेषणविशेष्योमयस्यैव सत्वादिति ध्येयम् ।

श्रथ मयुत्तेजकाभावयोविंशेष्यविशेषणभावे कामचार इति चेद् । तवापि शक्ति हेतुत्वेऽस्य दुर्वारत्वात् । वस्तुतो मण्युत्तरदाहे उत्तेजकस्य मण्यनुत्तरदाहे मय्यभावस्य हेतुवम् । हेतुहेतुमद्भावद्वयेऽपि अवच्छेदक लाघवादिति ।

[[१३]]

दी० - द्रव्याणि विभजते । तत्रेति । तन्त्र- द्रव्यादिमध्ये । द्रव्याणि नवैवेत्यन्वयः । कानितानीत्यत श्राह । पृथिवीत्यादि । ननु तमसो दश- मद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणि । तथाहि । " तमः खलु चलं नीलं परापरविभागवत् । प्रसिद्धद्रव्यवैधम्र्म्यान्नवभ्यो भेत्तु - मर्हति " । नीलं तमश्चलतीत्यवाधित प्रतीतिबलान्नीलरूपाधार तया क्रियाधारतया च द्रव्यत्वं तावत्सिद्धम् । तत्र तमसो नाकाशादिप- चकेऽन्तर्भावो रूपवत्वात् । अतएव न वायौ, स्पर्शाभावात्, सदा- गतिमत्वाभावाश्ञ्च । नापि तेजसि भाखर रूपाभावादुष्णस्पर्शाभावाच्च । नापि जले शीतस्पर्शाभावान्नीलरूपाश्रयत्वाच्च । नापि पृथिव्यां गन्ध- वत्वाऽभावात्स्पर्शरहितत्वाच्च । तस्मात्तमसो दशमद्रव्यत्वमिति चेन्न । तमसस्तेजोऽभावरूपत्वात् । तथाहि । तमो हि न रूपिद्रव्यं श्रालो- काऽसहकृतचक्षुर्ग्राह्यत्वात् श्रालोकाभाववत् । रूपिद्रव्यचानुप- प्रमायामालोकस्य कारणत्वात् । तस्मात्प्रौढप्रकाशकतेजः सामान्या- भाव एव तमः । तत्र नीलं तमश्चलतीति प्रत्ययो भ्रमः । अतो नव द्रव्याणीति सिद्धम् ।

टि० १ तद्धर्भावान्तरधर्मप्रकारेण धर्मिप्रतिपादनं विपूर्वक भजधातोरर्थः । तद्धर्म- पदेव विभाज्यतावच्छेदकद्रव्यत्वादिरेव ग्राह्यः । तद्धर्मावान्तरत्वं च तद्धर्मव्याप्य - त्वम् तच न्यूनवृतित्वरूपं ग्राह्यम् । तेन द्रव्यत्वव्याप्यत्वेऽपि द्रव्यत्वस्य न चतिः । . व्याप्यत्वमपि साक्षात् तच तद्धर्मव्याप्यत्वे सति तद्धर्मव्याप्याऽव्याप्यत्वम् । तेन घटत्वादिकमादाय न विभागानुपपतिः । विशेष्यदलघटकीभूते तद्धर्मव्याप्ये पृथिवी - त्वादिविशिष्टान्यत्वमपि विशेषणीयम् । वै० स्वाश्रयवृत्तित्व स्वानाश्रयवृतित्वो- भयसम्बन्धेन । तेन पृथिवीजलान्यतरत्वमादाय न पृथिवीत्वेऽपिसाचादुव्याप्यत्वानुप- पत्तिरित्यन्यत्र विस्तरः ।

तर्क-सङ्ग्रहः

રે

गं० द्रव्याणि विभजन इति । हव्यत्वावच्छिन्न विशेष्यकाऽवान्तर- धर्म कारकज्ञानानुकूलव्यापारानुक्रू कृतिमान्नूलकार इति बोधः । तत्रेति सत्य पदार्थसमुदायपरम् । तथा च सप्तपदार्थसमुदय- arranteeण नवैवेत्यर्थः । पृथिव्यादिन वेवेत्यधिक सङ्ख्यायव- sanre: a नमिति । अन्धकारे विप्रतिपत्तिस्तु अन्धका रथं भवति नवेन्याकारिका बोध्या । तमसो द्रव्यान्तरत्वमुपपादयसि । तथा- etcareer । aafa मायाकोः स्वरूपासिद्धत्वशङ्का- forestsोः प्रणमिदमाह । नीलं तम इत्यादिना । are तावसिद्धमिति । नावदिति वाक्यालङ्कारे । तथा च तमोद्रव्य क्रियावचनां पदित्यनुमानात्तमसि द्रव्यसिद्धिरिति-

[[1]]

भावः । अत्र नीलरूपवत्यस्यहेतुत्वे नीलद्रव्याणामेव दृष्टान्तना । क्रियाया हेतु मूर्तमात्रस्य दृष्टान्तनि प्रान्त सोलभ्याय द्वितीयनुसरणमिति - ध्येयम् । तत्र । पृथिव्यादिषु मध्ये । नाऽऽकाशादि पञ्चकेऽन्तर्भाव इति । तमः आकाशादिमनस्त्वान्तान्यनमशून्यमिति यावत् । रूपवत्वादिति । घटःदितिशेषः । अत्र रूपवत्रं समवायेन बोधम् तेन काकादौन व्यभिचारः । इदानीमन्यव्यवहितपूर्वोपस्थितिक्रमेश वाय्वनन्तभूतः साधयति । श्रत एवेति । रूपवादेवे यर्थः । नवायाविति । वायौ नान्तर्भवतीत्यर्थः । स्पर्शा- भावादिति । नमो वायुभिन्नं स्पर्शाभावादित्यनुमानं फलितम् । नच चायौ आयक्षणाऽवच्छेदेन निरुकहेनोः सत्वाद्वयभिचार इति वाच्यम् । स्पर्शाभाव- इत्यस्य स्पर्शः अभावो यस्येति व्युत्पन्या स्पर्शद्भेदार्थकत्वेन तस्य वायाव

टि० १ त्र तमसि एकेनैव हेतुना श्राकाशादिपं चकभेदसाधनं सुलभम्, अतः प्रथमं तत्साधने एक बालानामिच्यासमवनोति तदिच्छानुरोधेन पश्चानिर्दिष्टा- नामप्याकाशादीनां पचानां भेद भादो साधितः । एतेनोद्देशक्रमानुसारं पृथिव्याद्यनन्तर्भूत- त्वसाधनानन्तरमेव भाकाशानन्तर्मूतत्वस्य साधनीयतया प्रथमं तत्साधने वोजामाक इति दूषण मपास्तम् ।

टीकात्रयोपेतः

भावेन व्यभिचारविरहात् । सदा ’ गतिमत्वाभावाच्चेति । सदागतिमत्वस- मानाधिकरण पृथिव्यवृत्तिजातिशून्यत्वादिति यावत् ।

गं० - नापि तेजतीति । तेजःयपि नान्तर्भूतमित्यर्थः । एवं च तमः तेजोभिनं भाग्वररूपाभावात् वटवदित्यनुमानं बोध्यम् । भास्वरत्वं तेजोरूप- मात्रवृत्तिशुक्त्वाप्यजातिविशेषः । एवं च प्रतियोगितावच्छेदककोटौ रूपत्यस्य न प्रवेशः; प्रयोजनाभावात् । तथा च समवायसम्बन्धावच्छिन्नाभा- स्वरत्वावच्छिन्नप्रतियोगिताकाभावादिति हेतुः फलितः । ननु आद्यक्षणावच्छिन्ने तेजति व्यभिचार इति चेन्न । freकाभावे प्रतियोगिवैयधिकरण्यनिवेशा- सानास्वररूपाभावस्य स्वप्रतियोग्यधिकरणाऽऽचक्षणावच्छिन्नतेजोवृत्ति- श्वान व्यभिचारः । समन्यातहेतुमाह । उष्णस्पर्शाभावाच्चेति । अत्रापि पूर्ववदुष्णाभावादित्येव हेतुर्बोध्यः । उष्णः अभावोयस्येति व्युपत्या उष्णवद्भिन्नःवादित्यथोयोध्यः तेन आद्यक्षणावच्छेदेन तेजसि न व्यभिचारः । न चैत्र मुत्पन्नविनष्टतेजसि व्यभिचार इति वाच्यम । उष्णसमानाधि- करणपथिव्यवृतिजातिशून्यत्वस्य विवक्षितत्वादिति नापि जल इति । तमोन जलमित्यर्थः । शीतस्पर्शाभावादिति । अयं हेतुः पूर्ववत्परिष्करणीयः । शीतवद्वृत्तिपृथिव्यवृत्तिजातिस्वावच्छिन्नाभावस्वरूप- गुरुधर्मावच्छिन्नस्य हेतुत्वाऽपेक्षया लघुधर्मावच्छिन्नस्य भावस्यैव हेतुता- माह । नीलरूपत्वाच्चेति । न पृथिव्यामिति । तम इति पदमनुवर्त्तते तथा च पृथिवीभिन्नम् । तत्र हेतुमाह गन्धाभावादिति । गन्धवद्भिन्नत्वा- दिव्यर्थो बोध्यः । तेनाऽऽद्यक्षणावच्छिन्ने घटे न व्यभिचारः । न चैवमुत्पन्न- विनष्टघटे व्यभिचारइति वाच्यम् । गन्धसमानाधिकरणजलावृत्तिजातिशून्य-

१ रूपवत्वादित्यस्य हेतुत्वेऽपि पृथिन्यादित्रयाणामेव दृष्टान्तता स्पर्शाभावादित्यस्य हेतुत्व श्राकाशादिपश्चानामेत्र दृष्टान्ततेति दृष्टान्तसौलभ्याय रूपवत्वहेतोः परित्यागः एवं साग तिमलाभावस्य हेतुत्वे वायुभिन्नाष्टद्रव्याणामेवदृष्टान्तता सम्भवतीति अनेकदृष्टा- न्तलाभाय एतादृशत्वनुसरणम् ।तर्क- सङ्ग्रहः

[[१६]]

त्वस्य विवक्षितत्वादिति । एतावता प्रत्येकहेतुना पृथिव्यादिचतुर्णा प्रत्येका- नन्तभूतन्यं तमसि प्रसाध्य साधनसौलभ्याय एकहेतुनाऽऽकाशादिपञ्चका- नन्तभूतत्व साधनव देकहेतुनाऽपि पृथिव्यादिचतुष्टयानन्तर्भूतत्वं साधयति । स्पर्शरहितत्वाश्चेति । एतस्य पूर्वोक्त एवार्थः । मीमांसकमतमुपसंहरति । तस्मादिति । उक्तरीत्या तमसः पृथिव्यादिमनोन्ताऽन्यतमभिन्नत्वसिद्धे- रित्यर्थः । दशमद्रव्यमिति । तथा च तमोऽतिरिक्तं द्रव्यं कुप्यभिन्नवे सति द्रव्यत्वादितिभावः । अन्धकारस्य क्रियावत्वे रूपवत्वे सत्येव तेन हेतुना तस्य द्रव्यत्वं साधनीयम्, तदेव च तत्राऽसिद्धमित्यभिप्रायेण समा- धते । नेति । तहिं क्वान्तर्भाव इत्यत आह । तेजोऽभावरूपत्वादिति । उद्धताऽनभिभूतरूपवत्प्रकृष्टमहत्व व शेजः सामान्याभावरूपत्वादित्यः । चक्षु रादितेजः सत्वेपि तमः प्रतीतेः उद्भूतेति रूपविशेषणम् । सुवर्णादि तेजः सत्वेपि रामः प्रतीतेः श्रनभिभूतेति सुवर्णादिभिन्नार्थकम् तेनाऽनुङ्गनत्व- स्यानुगतस्य दुर्दचत्वेऽपि न क्षतिः । परमाणुयणुकवारणाय महत्यवदिति । श्रसरेणुवारणाय प्रकृष्टेति । न चैतादृशतेजः सामान्याभावस्य जनस्त्वे आलोक समवधानेऽपि घटवृत्तिरूपादौ अन्धकारप्रतीत्यापत्तिः, संयोगसम्बन्धेन तादृशतेजः सामान्याभावस्य रूपे सत्वादिति वाच्यम् । संयोग - संयुक्तसम- वाय संयुक्तसमवेतसमवायान्यतमसम्बन्धेन तादृशतेजः सामान्याभावस्य विवक्षितत्वात् । ननु रूपवत्वादिना तमसो द्रव्यत्वस्य साधितत्वेन कथं तेजोऽभावरूपतेत्याशङ्कां तमसि रूपाभावसाधनेन परिहरति । तथाहीत्या- दिना । तमो न रूपिद्रव्यमिति । तमो न रूपवदित्यर्थः । इदमुपलक्षणम् । क्रियावदित्यपि बोध्यम् । श्रालोकासहहृतेति । भालोका सहकृतं यच- हुस्तद्ग्राह्यत्वादित्यर्थः । अन्धकारस्थघटादिप्रत्यक्षवारणाय द्रव्यवृत्ति- लौकिकविषयता सम्बन्धेन महदुद्भूतरूपवद्रव्यचाक्षुषं प्रति संयोगसम्ब- वेनोद्भूतानभिभूतरूपवन्महातेजस्त्वेन कारणत्वात् । अन्धकारेतरद्रव्यवृत्ति कौकिकविषयत्वस्य कार्यतावच्छेदकसम्बन्धत्वे गौरवात् । तथा च तमः पद वाच्यं न रूपवद् क्रियावद्वा भलोकाऽजन्यमानुष्यलौकिक चाक्षुष

[[१७]]

टीकात्रयोपेतः

विपयत्वात् तेजोभाववदित्यनुमानं फलिनम् । बटावी व्यभिचारवारणायाss- arersafe

क्षुपशेषत् । आलोकजन्य

केवल Forcererrar aarat व्यभिचारः स्यादतनि । frशलादि चाप

घटrst व्यभिचारवारणाय मानुषः चानुपदिशेषणम् । अन्न तम इति चाक्षुषे चाक्षुषोपनीतभानात्मकप्रत्यक्षविषयीभूताऽधिकरणादौ व्यभिचारवारणाय लौकिकेति । नच तथापि आलोके व्यभिचारः, तेजोविपयक- प्रत्यक्ष जीरानपेक्षेनि सिदिति वाच्यम् । तेजोवृत्तित्वस्य लौकिक- faraiशेषणत्वात् । तथा चाssलोकमावति कारणतानिरूपि - तकार्यताशुन्यचक्षुष्ट्वावच्छिन्नकारणतानिरूपितकार्यताशालिप्रत्यक्ष निरूपितते जोsवृनिलौकिकवि पयताशालित्वं हेतुरिति दिक् । निरुक्तहेतौ अप्रयो- कन्दशं किमनुकूलतर्कमाह । रूपीति । प्रमापदं स्पष्टार्थम् । उपसंहरति । तस्मादिति । रूपशून्यत्वात् क्रियाशून्यस्याच्चेत्यर्थः । नसरे- णुवारणाय प्रादेति । नन्वेवं नीलं तमश्चलतीति प्रतीतेः का गतिरित्यत आह । तत्रेति । तमसीत्यर्थः । सप्तम्यर्थो विशेष्यत्वम् तस्य प्रत्ययेऽन्वयः । एवं च तमोविशेष्यको नीलं तम इति प्रत्ययः, चलति तम इति प्रत्ययश्चेति फलितार्थः । भ्रम इति । भ्रम एवेत्यर्थः । नीलं नभ इति प्रतीतिवदिति ।

दी० - द्रव्यत्वजातिमत्वं, गुणवत्वं वा द्रव्यसामान्यलक्षणम् । गं०– द्रव्यसामान्यलक्षणमनुका विभागकरणमनुचितम् इत्याशङ्कां परिजिहीर्षुः स्वयं तलक्षणमाह । द्रव्यत्वजातिमत्वमिति । समवायेन जातिमत्वं बोध्यम् । तेन गुणादेः कालिकसम्बन्धेन द्रव्यत्वजातिमत्वेऽपि न क्षतिः । अत्र द्रव्यत्वं जातिरूपमिति द्योतनाय जातिपदम्, न तु तेन रूपेण लक्षणे प्रवेशः, प्रयोजनाभावात् । प्रमेयधूमत्यादिवत् द्रव्यमितर- भिन्न द्रव्यत्वजातेरित्यत्र द्रव्यत्वजातित्वस्य स्वसमानाधिकरणप्रकृतसा ध्यव्याप्यतावच्छेदकद्रव्यत्वत्वघटितःखेन तस्य व्याप्यतानवच्छेदकतया इत- रभेदानुमापकतानुपपत्तेश्च । न चेष्टापत्तिः । द्रव्यत्वस्य तेन रूपेण लक्षण- खानुपपत्तेः। व्यावर्त्तकस्यैव लक्षणत्वादिति हृदयम् ।

[[२]]

तर्क - सङ्ग्रहः

सनत्रयसम्बन्धेन द्रव्यगुणकर्माणि द्रव्य एवं वर्तन्ते, द्रव्यमपि तादा- स्येन व्य एव वर्तते । एवं च समवायेन कार्यमात्रं प्रति तादात्म्येन द्रव्यं कारणम् । अत्र च कार्यम्य समवायः प्रत्यासत्तिः कारणस्य तु तादात्म्यं प्रत्यासतिः तथा च सनासम्बन्धवच्छिन्न कार्यत्वावच्छिन्न कार्यतानिरू- पितादात्म्यसम्बन्धावच्छिना कारणता किञ्चिद्धर्मावच्छिन्न कारणतात्वाद् aaftष्ट कार्यनिरूपिनकरानिष्टकारणतावन । चाया कारणता सासा किञ्चि- उमति व्याद् द्रव्यस्वजातिसिद्धिः । ननु कार्य प्रागभाव- प्रतियोगिवम्, तत्य च समवायसन्न्धानका ‘स्वाभाववति सेऽप

interest न कार्यतावच्छेदकत्वम् कारिकसम्बन्धेन घटत्वादि- कमादाय विनिगमनानिवेति चेत्र । समवायसम्बन्धावच्छिन्न संयोगात्र- च्छित्र कार्यनानिरूपिततादास्वसंवन्धावच्छिन्नद्रव्यनिष्ठा या कारणा सा किवि कारणानेन नि तथापि नित्य- सङ्गोगकर्तृनये संयोग नित्यसंयोगसाधारणतया संयोजन कार्यतावच्छेदकम् । अनपुत्र रूपादिकमपि न तथेति वाच्यम् । समय- सङ्घाच्छविभागवावच्छिनकार्य नानिरूपितनादा न्यसम्बन्धावच्छिन्नद्रव्य निष्ठा या कारणता सा किञ्चिद्धर्मावच्छिन्ना कारणतावादित्यनुमानेन तत्सिद्धेरिति ध्येयम् ।

अथ व्यावकस्यैव लक्षणत्वे द्रव्यत्वमपि द्रव्यलक्षणं न सम्भवति, सिद्धसाधनात् । तथाहि द्रव्यलिङ्गकद्रव्यमितरभिन्नमित्यनुमितौ “अन्दय- व्याप्तिज्ञानस्यैव हेतुस्वपक्षे” द्रव्यत्वमितरभेदसमानाधिकरणमितिव्याप्तिज्ञानं कारणं वाच्यम्, हेतुः साध्यसमानाधिकरण इति ज्ञानस्यैव व्याप्तिज्ञान. स्वात् एवं च तादृशव्याप्तिज्ञानस्य तुल्यविचिवेद्यतया द्रव्यत्वसमानाधि- करणः इतरभेद इति ज्ञानात्मक वेन तादृशज्ञानस्य साध्यसिद्धिरूपत्वेनान- न्तरमनुमित्यसम्भवात् । न च हेतुः साध्यसमानाधिकरण इति व्याप्तिग्रहस्य हेतुमान् साध्यवानित्यनुमितितो भिन्नाकारत्वात् समानाकारक सिद्धेरेवा- नुमितिप्रतिबन्धकत्वात्, अवच्छेदावच्छेदेनानुमितौ सामानाधिकरण्यावगाहि-

[[१६]]

टोक्योपेतः

सिद्धेरप्रतिबन्धकत्वाच्च व्यावर्त्तकत्वमव्याहतमेवेति वाच्यम् । पक्षतावच्छेद- कम्बो

उद्देश्यतावच्छेदकविधेययोरैक्येनोपनयवाक्याच्छाब्दबोधानुप- पत्तेरेव दोषत्वात् । न च नवीनमते विधेयांशेऽधिकावगाहिनः शाब्दबोधस्यो- पगमेन पक्षनावच्छेदकत्वारस्येपि साध्यव्याप्यहेतुमान्पक्ष इन्याकारकस्यो- पनयवाक्य जन्यशब्दबोधस्य नानुपपत्तिरिति वाच्यम् । प्राचीनेरुदाहरण- वाक्यादेव व्यातिलानादुपनयेनाऽपि तत्प्रतिपादने पौनरुक्तयमिति । पक्षे हेतु- मत्तमात्रमेवोपयेन बोधनीयम्, तथा वाऽयमित्युपनयवाक्यस्य हेतुमान्पक्ष इत्येवार्थ इत्यङ्गीकारात्तन्मतानुसारेणैव दोपादिति चेत्तदा लक्षणान्तरमाह । गुणवत्वं वेति । एवं च सामान्यधर्मकथनेन न न्यूनतेति भावः ।

दो० - लक्ष्यैकदेशाऽवृत्तित्वम्, अव्याप्तिः । यथा गोः कपिलत्वम् । अलक्ष्यवृत्तित्वमतिव्याप्तिः । यथा गोः शृङ्गित्वम् । लक्ष्यमात्राऽवर्त्त- नम् असम्भवः । यथा गोरेकशफत्रत्वम् । एतदूदूषणत्रयरहितो धर्मो लक्षणम् । यथा गोः सास्नादिमत्वम् । स एवाऽसाधारणधर्म इत्यु- च्यते । लक्ष्यतावच्छेदकसम नियतत्वमसाधारणत्वम् ।

[[1]]

[[1]]

गं० - दूषणत्रयरहितधर्मस्यैव लक्षणत्वस्य वक्ष्यमाणतया तद्ज्ञानं विशेषणीभूतदूपणत्रयरहितत्वज्ञानं विना न सम्भवति, दूषणन्त्रयरहितत्वज्ञानं तु विशिष्य दूपणत्रयज्ञानाधीनम्, अभावबुद्धिं प्रति प्रतियोगितावच्छेदकविशि- ष्टज्ञानस्य तन्त्रत्वादित्याशयेन दूपणत्रयं दर्शयति । लक्ष्यैकदेशाऽवृत्तित्व- मिति । लक्ष्यस्य एकदेशः लक्ष्यैकदेशः तत्राऽवृत्तित्वम् । लक्ष्यतावच्छेदक- त्वेनाऽभिमतधर्मसमानाधिकरणाऽभावप्रतियोगित्वमिति यावत् । तथा च लक्ष्यतावच्छेदकसमानाधिकरणाऽत्यन्ताभावप्रतियोगित्वे सति लक्ष्यतावच्छे- दकसामानाधिकरण्यमन्यातेर्लक्षणम् । सल्लक्षणे गन्धादावतिव्याप्तिवारणाय सत्यन्तम् । असम्भवरूप दोषलक्ष्यैकशफवत्यादावतिव्याप्तिवारणाय विशेष्य- दलम् । अस्याश्वभागाऽसिद्धावन्तर्भावः इति ध्येयम् ।

अलक्ष्यवृत्तित्वमिति । लक्ष्यवृत्तित्वे सति अलक्ष्यवृत्तित्वमित्यर्थः ।

रा-सङ्ग्रहः

[[२०]]

लक्ष्यतावच्छेदकसामानाधिकरणत्रे सति लक्ष्यतावच्छेदकावच्छिन्न प्रतियोगि- ताकमेदसामानाधिकरण्यमिति यावत् । असम्भवदोपलक्ष्यैकशफवत्वादी अतिव्याप्तिवारणाय सत्यन्तम् । अव्याप्तिरूपदोपलक्ष्यकपिलात्वे अतिव्याप्तिवार- गाय विशेष्यदलम् । गोः शृङ्गित्वमिति । गां लक्ष्यीकृत्य इतरभेदानुमाप- कत्वेन तात्पर्यविपयष्टङ्गवत्वमित्यर्थः । अस्याश्च व्यभिचारेऽन्तर्भाव इति ॥

भक्षणमाह । लक्ष्यमात्राऽवर्त्तनमिति । लक्ष्यतावच्छेदक व्यापकीभूताभावप्रतियोगित्वमिति । लक्ष्यं दर्शयति । गोरेकशफवत्व- मिति । अन्य च स्वरूपाऽसिद्धान्तनवः । न च शते पञ्चाशदितिन्यायेन । एकमपि गवि सम्भवतीति वाच्यम् । द्विशफशून्यत्वस्य तदर्थकात् । गोरत्वात् । नचैवमश्वप्यसम्भवः, अश्वस्य चतुश्शफवत्वादिति वाच्यम् । शफद्रयशून्याधिकत्वस्य तदर्थत्वात् । गोरत्वात् । न च कफाधिकायां गव्यतिव्याप्तिरिति वाच्यम् । शफयवद- अधिकाऽवृत्तिस्व वृद्धि जात्तिमनग्य विक्षितत्वात् ।

लक्षणम्वरूपं निरूपयति । एतद्दूषणेत्यादिना । उक्तदूषणत्रयरहितो धर्म इत्यर्थः । ननु दूषणत्रयरहितधर्म इत्यनेन त्रित्वावच्छिन्नाभावो लभ्यते, तचाऽयुकम् । एकद्रूपणदूषित यापि बिल्वावच्छिन्नाभाव विशिष्टतया सहक्ष. णत्वापत्तेरिति चेन्न । तत्तद्रूपणाभावकूटवत्वस्यैव विवक्षितत्वादिति ।

ननु श्रसाधारणधर्मो हि लक्षणं सत्प्रकीर्तितम् इति वचनेन असाधारणधर्मवस्यैव लक्षणत्वप्रतिपादनात्तदुपेक्ष्यदोपरहितत्वस्य सल्लक्षण- लक्षणra atarra इत्यत आह । स एवेति । तादृश दूषणत्रय- लक्षणत्वे वीजाभाव रहितधर्म एवेत्यर्थः । एवकारेण दूषणविशिष्टस्य असाधारणत्वव्यवच्छेदः । उच्यते । पण्डितैरिति शेषः ।

अत्र लक्ष लक्षगे धर्मत्वनिवेशे प्रयोजनाभावात्, असाधारणत्वमात्र- मेव लक्षणं वाच्यम् । तदपि न सभवति । न साधारणं असाधारणं तत्य मात्र इति व्युत्पत्या तस्य केव अन्ययिभिन्नत्वरूपत्वेन कपिलत्वादिरूपाऽसल्ल. क्षण साधारणत्वादत माह। लक्ष्यतावच्छेदकसम नियतत्वमिति । श्रस-

[[२१]]

arerraries

धारणत्वमिति । असाधारणवशदार्थ इत्यर्थः । तथा चाsसाधारणत्वपदं नयोगिकम्, किन्तु पारिभाषिकमिति भावः । लक्ष्यतावच्छेदकसमनियतत्वं च लक्षगे, लक्ष्यतावच्छेदक व्याप्यत्वे सति लक्ष्यतावच्छेदकव्यापकत्वम् । लक्ष्यता- मच्छेदकव्याप्यच च यक्ष्यतावच्छेदकाभाववदवृत्तित्वम् । लक्ष्यतावच्छेदक- व्यापकत्वं च लक्ष्यनृत्यभावाऽप्रतियोगित्वम् । स्वसमानाधिकरणभेदप्रति- योगितानवच्छेदक लक्ष्यतावच्छेदकसमानाधिकरणभेद प्रतियोगितानवच्छेदकाच मिति परमार्थः । तेन पदार्थत्वादेर्लक्ष्यतावच्छेदककस्थले लक्ष्यतावच्छेदका- sभावाऽप्रसिद्धावपि न क्षतिः । न वा लक्ष्यतावच्छेदकाय द्विधाभानमिति ध्येयम् ।

दी० - व्यावर्त्तकस्यैव लक्षणत्वे व्यावृत्तौ अभिधेयत्वादौ चातिव्याप्रिवारणाय तद्भिन्नत्वं धर्मविशेषणं देयम् । व्यवहारस्या ऽनि लक्षण प्रयोजनत्वे तु न देयम् । व्यावृत्तेरपि व्यवहारसाधनत्वात् । ननु गुणवत्वं न द्रव्यलक्षणम्, आद्यक्षणाऽवच्छिन्नघटे, उत्पन्न विनष्टघटेचाऽव्याप्तेरिति चेन्न । गुणसमानाधिकरणसत्ताभिन्नजाति- मत्वस्य विवक्षितत्वात् । नन्वेयमपि एकं रूपं रसात्पृथक् इति व्यव- हारानुपादावतिव्याप्तिरिति चेन्न । एकार्थसमवायादेव तादृश- व्यवहारोपपत्तौ गुणे गुणानङ्गीकारात् ।

ननु “व्यावृत्तिव्यंवहारो वा लक्षणस्य प्रयोजनम्” इति वच- नेन सावधारणप्रथमान्तध्यावृत्तिशब्देन व्यावृत्तिरेच लक्षणस्य प्रयोजनम् । व्यवहारोवेत्यत्र व्यवहारपदस्य व्याशिसहितव्यवहारे लाक्षणिकतया व्या- वृत्तिसहितव्यवहारः लक्षणस्य प्रयोजनमिति विकल्पार्थकवा शब्दसमभिव्याहा- referera लभ्यते । अत्र व्यावृत्तिमात्रस्य लक्षणप्रयोजनत्वपक्षे गौरव दर्शयितुमादौ व्या चिप्रयोजनकधर्ममात्रं लक्ष्यीकृत्य लक्षणमुपपादयति व्या- वत्तकस्यैवेति । तथा च व्यावृतेरेव लक्षणप्रयोजनवपक्षे व्यावर्त्तकमेव लक्षण, व्यावृत्तिश्च इतरभेदानुमितिः तथा च तादृशानुमितिविषयीभूत-

तर्क सङ्ग्रहः

[[२२]]

पृथिवीतरभेदस्यापि पृथिवीत्वसमनियततया तत्र लक्षणलक्षणस्याऽति- व्याप्तिः पृथिवीतरभेदस्य च सिद्धसाधनापया पृथिवीतरभेदाऽसाधकत्वेन तल्लक्षणाऽलक्ष्यत्वादिति भावः ।

ननु सिद्धिसत्वेऽपि सिषाधयिषयाऽनुमितिदर्शनात् स्वसाधकत्वम- व्याहतमेवेति व्यावृत्तेः लक्ष्यत्वान्नातिव्याप्तिरित्यत आह । श्रभिधेयत्वादौ- चेति । न देयमिति । तद्वित्वविशेषणं न देयमित्यर्थः । अत्र हेतुमाह । व्यावृत्तेरपीति । अपिना व्यावर्त्तकगन्धादेः परिग्रहः । व्यवहारसाधन- त्वादिति । व्यवहारानुमापकत्वादित्यर्थः । तथा च व्यावृत्तेरिव व्यवहारस्यापि crustacea ar: पृथिवीति व्यवहर्त्तव्यः इतरभेदवत्वात् एवं घटः पदार्थ इति व्यवहर्त्तव्यः अभिधेयत्वात्पटवदित्यनुमानात् “सिद्धसाधनाभा- वेन” व्यवहारविधेयकानुमित्युत्पत्या व्यावृत्तेः केवलान्वयिधर्मस्य च व्यवहार- साधकम् बोध्यम् । एवं च तद्भिन्नन्वनिवेशे प्रयोजनाभावात् अस्मिन्कल्पे लाघवव्याहतमिति भावः ।

नन्विति । गुणवत्वमिति । समवायेनेत्यादिः तेन कर्मादौ नाति- व्यातिः, न द्रव्यलक्षणम् । न द्रव्यनिष्ठेतरभेदानुमापकमित्यर्थः । आद्यक्ष- णावच्छिन्नघटे इति । अव्याप्तेरिति योजना । श्रव्याप्तेरिति । गुणस्याऽस– त्वादित्यर्थः ननु आद्यक्षणावच्छिन्नघटस्य द्वितीयक्षणाद्यवच्छिन्नघटाऽभिन्न तया द्वितीयक्षणावच्छेदेन घटस्यगुणवत्वान्नाव्याप्तिः, नहीदङ्कालघटितं येनोत्पत्ति- क्षणावच्छेदेन घटे गुणवत्वलक्षणाव्याप्तिः स्यात् । न च गुणस्यलक्ष्य- तावच्छेदकद्रव्यत्वसमानाधिकरणाभावप्रतियोगित्वेन अप्रतियोगित्ववदित- लक्ष्यतावच्छेदकसमनियत चाभावान तस्य लक्षणत्वं सम्भवतीति वाच्यम् । उत्पत्तिक्षणावच्छेदेन वच्ये गुणाभावसत्वेऽपि प्रतियोगि वैयधिकरण्यघटित- लक्ष्यतावच्छेदकव्यापकत्वस्याक्षततयाऽव्यासेरभावादत आह । उत्पन्नविन- ष्टेति । विनाशसामग्रीसमवहितावयव जन्ये इत्यर्थः । तथा च तादृशबटे गुणाधिकरणत्वस्याप्यभावेनाऽव्याप्तिरिति भावः गुणसमानाधिकरणेति । इदं च गुणत्वजातिमादाय गुणादावतिव्याप्तिवारणाय । अत्राधिकरणत्वं वृत्तित्वं

[[२३]]

[[1]]

समवायेन बोध्यम् । तेन कालिकसंवदेनाऽधिकरणत्वं वृत्तित्वं चादाय नातिव्याप्तितादवग्ध्यम् । सत्ताजातिमादाय तद्दोषवारणाय जाती सत्ताभिन्न- निवेशः । जातिपदं समवायेन धर्मशालाभार्थम् तेन कालियेन तादृश- धर्मादाय नातिप्रसङ्गः। एवमपीति । उक्तविवक्षया अव्या हिवारणेऽपि । इति व्यवहारादिति । इत्याकारकप्रामाणिक व्यवहारादित्यर्थः । रूपादा- विति । एवादिगुणाविति शेषः । श्रतिव्याप्तिः । जातिघटितलक्षणस्याs. यतिव्याप्तिरित्यर्थः । एकार्थसमवायादेवेति । समवायघटित सामानाधि करण्यसम्बन्धेन आश्रयगतैकत्व स्वीकारादेवेत्यर्थः । तादृशव्यवहारोपपत्ता- विति । एकमित्यादिव्यवहारस्य प्रामाण्यनिर्वाहे इत्यर्थः । गुणे गुणाऽन- ङ्गीकारादिति । गुणस्य समवायेन गुणवृत्तित्वानभ्युपगमादित्यर्थः । तथा च तादृशव्यवहारस्य तदुल्लिखितप्रत्ययस्य च तादृशसामानाधिकरण्येनैव गुणे गुणव्यवस्थापकत्वात् । तत्र साक्षात्सम्बन्धेन गुणसाधकप्रमाणान्तराभा च गुणे समवायेनगुणसत्वाऽसिद्धा नोकलक्षणस्याऽतिव्याप्तिरिति भावः ।

वस्तुतस्तु एकार्थसमवायादेवेति वाक्यघटकैवकारस्याऽप्यर्थकतयाs नुक्तसमुच्चायकेन तद्व्यक्तित्वरूप पारिभाषिकैकत्वमेव गृह्यते, एवं चाऽपेक्षा- बुद्धिविशेषविपयत्वादिकमादाय द्वे रूपे इत्यादिव्यवहाराद्युपपत्तिः, अतएव चतु विंशतिगुणा इत्यादिकमपि समाहितम् । तथा च तद्व्यक्तित्वरूपतादृशैक स्वादिकमादाय एकं रूपमित्यादि व्यवहारानुपपत्तिरिति न कश्विद्दोष इति । रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोग विभागपरत्वाऽपरत्वगुरुत्वद्रवत्व स्नेह शब्दबुद्धिसुख- दुःखेच्छाद्वेषप्रयत्नधर्माऽधर्मसंस्काराश्चतुर्विंशतिगुणाः ।

[[1]]

दी० - गुणान्विभजते । रूपेति । द्रव्यकर्मभिन्नत्वे सति सा - मान्यवान् गुणः गुणस्त्रजातिमान्त्रा । ननु लघुत्व कठिनत्वमृदुत्वा- दीनां विद्यमानत्वात् कथं चतुर्विंशतिगुणा इति चेन्न । लघुत्वस्य गुरुत्वाभावरूपत्वाद् मृदुत्वकठिनत्वयोः श्रवयवसंयोगविशेषत्वात् ।

तर्क-सङ्ग्रहः

[[२४]]

गं० गुणान्विभजते इति । गत्वावच्छिन्नविशेष्यकाऽवान्तरधर्म- प्रकारकज्ञानानुकुव्यापारानुकूलकृ याश्रयो मूलकार इति योधः । अत्र गुण- सामान्यलक्षणमनुक वा विभागासम्भवात् न्यूनताभङ्गाय इदं लक्षणमाह । द्रव्यकर्मभिन्नत्वे सतीति । इव्यभिन्नवसति कर्मभिनवे सतीत्यर्थः । यथाश्रुते व्यकभयावननन्दस्य द्रव्येऽपि सत्वादतिव्यायापत्तेः सामान्यवानिति । सामान्याधिकरणमित्यर्थः । केचित्तु द्रव्यकर्मभिन्न- त्वे सतीति सनविशिष्ट इत्यर्थः । एवं च द्रव्यासमवेतत्व- कर्माशिष्ट सामान्यवत्वं लक्षणं फरितमिति व्याचक्रुः । गुण इनि निर्देशः । लाववादाह । गुणत्वजातिमान्वेति । जातिपदं सम- aria लाभार्थम् ।

न गुणजाती कि मानम्, रूपादिषु संस्कारान्नरेषु पामराणां गुणत्वा- ग्रहादिति । निर्गुणे किया सामान्यानुपपत्या द्रव्यारम्भानुगुणक्रियानुत्पत्या वा क्रियां प्रति व्यारम्भानुगुणक्रियां प्रति वा गुणत्वेन हेतुत्वावश्यकतया कारणतावच्छेदकतया गुणवजातिसिद्धिः । अनुमित्याकारस्तु समवाय- सम्बन्धात्र च्छिक क्रियान्वावच्छिन्नद्रव्यारम्भानुगुणक्रियात्वावच्छिन्न कार्यतानिरू - पितसमवायसम्बन्धावच्छिन्नकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात्, या या कारणता सा सा किञ्चिद्धर्मावच्छिना पटनिष्टकार्यतानिरूपिततन्तु- संयोगनिष्टकारणतावदिति । एवं च द्रव्यकर्मभिने सामान्यवति या कार- णता सा किञ्चिद्धर्मावच्छिना निरवच्छिन्नकारणताया असम्भवादिति विश्वना- थोक्तिरपि सङ्गच्छते ।

अत्र बहूनां गुणविभाजकधर्माणां सत्वात्कथं चतुर्विंशतिगुणा इत्याक्षि- पति । नन्विति । लघुत्वस्येति । न च गुरुत्वमेव लघुत्वाभावरूपं किने- प्यते इति वाच्यम् । पतनाऽसमवायिकारणतया गुरुत्वस्यावश्यकत्वात् । श्रवयवसंयोगविशेषत्वादिति । दृढतराऽवयवसंयोगः काठिन्यम् । शि- चिलावयवसंयोगो मृदुत्वम् । इदमुपलक्षणम् । वक्रत्वस्यावयवसंयोगविशेष- रूपत्वाद, आलस्यस्य कृत्यभावरूपत्वादित्यपि बोध्यम् ।

उत्क्षेपणाऽपक्षेपणाऽऽकुञ्चनप्रसारणगमनानि

पञ्च कर्माणि ।

दी० – कर्म विभजते । उत्क्षेपणेति । संयोगभिन्नत्वे सवि संयोगाऽसमवायिकारणं कर्म, कर्मत्वजातिमद्वा । भ्रमणादीनामपि गमनेऽन्तर्भावान्न पञ्चत्वविरोधः ।

गं० - कर्म विभजते इति । कर्मविशेष्यकाऽवान्तरधर्मप्रकारकज्ञानानु- कूलव्यापारानुकूलकृत्याश्रयो मूलकार इति बोधः । न्यूनतापरिहाराय स्वयं कर्मलक्षणमाह । संयोगभिन्नत्वे सतीति । काय पुस्तकसंयोगाऽसमवायि- कारणं हस्तपुस्तकसंयोगेऽतिव्याप्तिवारणाय संयोगभिन्नत्वे सतीति । संयोग- समवायिकारणद्रव्येऽतिव्याप्तिवारणाय श्रसमवायोति । लघुलक्षणमाह । कर्मत्वजातिमदिति । जातिग्रहणस्य प्रयोजनं पूर्ववद् । कर्मत्वजातिस्तु प्रत्यक्ष- सिद्धा । ननु कर्मविभाजकधर्माणां बहूनां सत्वात्कथं पन्चैव कर्माणीत्याशङ्का परिहरति । भ्रमणादीनामपीति । एवकारार्थकोऽपिशब्दः, अन्तर्भावादि- त्युत्तरं योजनीयः । आदिना रेचनस्यन्दनोर्ध्वज्वलन तिर्यग्गमनादीनां परिग्रहः गमनेऽन्तर्भावादिति । गमनत्याश्रयादेवेत्यर्थः । तथा च परस्परवैय- धिकरण्यानामेव विभाजकता वाच्या, अन्यथा घटत्वादीनामपि द्रव्य- विभाजकतापतेः । ननृत्क्षेपणत्वादीनामपि गमनत्वाश्रयत्वादुत्क्षेपणत्रादीना- मपि गमन वैयधिकरण्याभावात्तेषामपि कर्मविभाजकत्वानुपपत्तिरिति चेन्न । स्वतन्त्राणां सूत्रकाराणां तादृशनियमाङ्गीकारस्याऽनावश्यकत्वात् । एवं च तेषां नियोगपर्यनुयोगानर्हतया गमनत्वसामानाधिकरण्यापनोत्क्षेपणत्वादिना कृतस्य कर्मविभागस्याsदोपत्वात् ।

परमपरं चेति द्विविधं सामान्यम् ।

दी० - सामान्यं विभजते परमिति । परमधिकदेशवृत्ति । अपरं न्यूनदेशवृत्ति । सामान्यादिचतुष्टये जातिर्नास्ति ।तर्क - सङ्ग्रहः

[[1]]

[[२६]]

गं० - सामान्यं विभजते इनि । सामान्यविशेष्यकावान्तरधर्मप्र- कारकज्ञ नाकूर व्यापारानुकूलकृतिमान्मूलकार इत्यन्यबोधः । नित्यत्वे सति अनेकसमवेतत्वं जातेर्लक्षगम् । ननु सामान्यस्यागमूर्ततया देशिककालिक- परस्त्राऽपरस्यानाश्रयग्नात्परमपरञ्चेतिविभागकरणमनुपपन्नमित्याशङ्कां पारि० भाषिकपरत्वादिनिर्वचनेन परिहरनि । परमविकदेशवृत्तीति । व्यापक- मित्यर्थः । तवं च स्वाधिकरणवृत्यन्यन्ताभावप्रतियोगितानवच्छेदकधर्मत्वम्, स्वाधिकरणवृत्यन्यान्याभावप्रतियोगितानवच्छेदकत्वं वा । स्वं व्याप्यम् । अपरं न्यूनदेशवृत्तीति व्याप्यमित्यर्थः । तत्यं च स्वाभावादवृत्तित्वम् । न्यूनवृत्तित्वं च स्वभिन सति स्वानाववदवृत्तित्वम्, स्वसमानाधिकर- त्वे सति स्वसमानाधिकरण नेदप्रतियोगितावच्छेदकत्वम् । स्वं व्याप- कल्येनाऽभिमतम् ।

ननु गगनवादी सामान्यलक्षणाव्याप्तिः अनेकसमवेतत्वाभावादिति । गगनत्वादिकं न जातिः, बाधकत्वात्, जातिवाचकाञ्च ’ व्यक्तेरभे- दस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूहानिरसन्धो जातिवाधक- सङ्ग्रहः " कारिकोका वेदितव्याः । व्यक्तरभेदः – स्वाश्रयव्यक्तक्यम्, स्वनिष्ठजातित्वे बाधकम् । यथा गगनस्वस्य जातित्वे तुल्यत्वम् स्वभिन्न- जातिसमनियतत्त्रम्, स्वनिष्ठजातिस्वं बाधकम् । यथा घटकलशत्वयोः । सङ्करः, परस्परात्यन्ताभावसमानाधिकरणधर्मयोरेकत्र समावेशः । भूत- त्वमूर्त्तत्वयोर्जातित्वे वाधकः । स्वसामानाधिकरण्यस्वाभाव सामानाधिकरण्यो- भयसम्बन्धेन जातिविशिष्टजातिचावच्छेदेन स्वसमानाधिकरणाभावप्रतियोगि- त्वाभाव इति नियम एव साङ्कर्यस्य जातिवाधक वे मानम् । अनवस्था । यथा जातीनां जातिमः ।

रूपहानिः स्वतोन्यावर्त्तकत्वरूपलक्षणस्य हानिः । विशेषस्य जाति- सत्वे वाधिका । श्रसम्बन्धः । प्रतियोगिता अनुयोगिताम्यतरसम्बन्धेन समवायाऽभावः समवायाऽभावयोर्जातिमत्वे वाधक इति ।

सामान्यत्वादिकं न जातिः किन्तूपाधिरेवेत्याह । सामान्यादि चतुष्टये इति ।

तर्क - सङ्ग्रहः

[[1]]

[[२६]]

गं० - सामान्यं विभजते इनि । सामान्यविशेष्यकावान्तरधर्मप्र- कारकज्ञ नाकूर व्यापारानुकूलकृतिमान्मूलकार इत्यन्यबोधः । नित्यत्वे सति अनेकसमवेतत्वं जातेर्लक्षगम् । ननु सामान्यस्यागमूर्ततया देशिककालिक- परस्त्राऽपरस्यानाश्रयग्नात्परमपरञ्चेतिविभागकरणमनुपपन्नमित्याशङ्कां पारि० भाषिकपरत्वादिनिर्वचनेन परिहरनि । परमविकदेशवृत्तीति । व्यापक- मित्यर्थः । तवं च स्वाधिकरणवृत्यन्यन्ताभावप्रतियोगितानवच्छेदकधर्मत्वम्, स्वाधिकरणवृत्यन्यान्याभावप्रतियोगितानवच्छेदकत्वं वा । स्वं व्याप्यम् । अपरं न्यूनदेशवृत्तीति व्याप्यमित्यर्थः । तत्यं च स्वाभावादवृत्तित्वम् । न्यूनवृत्तित्वं च स्वभिन सति स्वानाववदवृत्तित्वम्, स्वसमानाधिकर- त्वे सति स्वसमानाधिकरण नेदप्रतियोगितावच्छेदकत्वम् । स्वं व्याप- कल्येनाऽभिमतम् ।

ननु गगनवादी सामान्यलक्षणाव्याप्तिः अनेकसमवेतत्वाभावादिति । गगनत्वादिकं न जातिः, बाधकत्वात्, जातिवाचकाञ्च ’ व्यक्तेरभे- दस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूहानिरसन्धो जातिवाधक- सङ्ग्रहः " कारिकोका वेदितव्याः । व्यक्तरभेदः – स्वाश्रयव्यक्तक्यम्, स्वनिष्ठजातित्वे बाधकम् । यथा गगनस्वस्य जातित्वे तुल्यत्वम् स्वभिन्न- जातिसमनियतत्त्रम्, स्वनिष्ठजातिस्वं बाधकम् । यथा घटकलशत्वयोः । सङ्करः, परस्परात्यन्ताभावसमानाधिकरणधर्मयोरेकत्र समावेशः । भूत- त्वमूर्त्तत्वयोर्जातित्वे वाधकः । स्वसामानाधिकरण्यस्वाभाव सामानाधिकरण्यो- भयसम्बन्धेन जातिविशिष्टजातिचावच्छेदेन स्वसमानाधिकरणाभावप्रतियोगि- त्वाभाव इति नियम एव साङ्कर्यस्य जातिवाधक वे मानम् । अनवस्था । यथा जातीनां जातिमः ।

रूपहानिः स्वतोन्यावर्त्तकत्वरूपलक्षणस्य हानिः । विशेषस्य जाति- सत्वे वाधिका । श्रसम्बन्धः । प्रतियोगिता अनुयोगिताम्यतरसम्बन्धेन समवायाऽभावः समवायाऽभावयोर्जातिमत्वे वाधक इति ।

सामान्यत्वादिकं न जातिः किन्तूपाधिरेवेत्याह । सामान्यादि चतुष्टये इति ।

तक-सङ्ग्रहः

[[25]]

[[1]]

रूपतिः प्रमा स्यात्, सवन्धसत्तायाः सबन्धिसत्ताप्रयोजकत्वादिति वाच्यम् । अप्रयोजकत्वात । परन्तु सम्बन्धिसम्बन्धोभयसत्वे प्रतीतिसत्व- मिनि व्युत्पत्तिः एवं च वायौ रूपसमवायसावेऽपि रूपाभावेन तथा प्रीतेरभावादिति । गुणक्रियादिविशिष्टबुद्धिः ’ विशेष्य विशेषणसम्बन्धविषया विशिष्टत्वान् दण्डी पुरुष इति विशिष्टबुद्धिवदित्यनुमानेन समवाय- सिद्धियोध्या ।

भाश्चतुर्विधः । प्रागभाव-प्रध्वंसाभावोऽत्य- न्ताभावोऽन्योन्याभावश्चेति ।

दी० - श्रभावं विभजते । श्रभाव इति ।

गं० - श्रभावं विभजते इति । अभावविशेष्य काऽभावत्वावान्तर- धर्मप्रकारकज्ञानानुकूलव्यापारानुकूलकृतिमान् मूलकार इत्यन्वयबोधः । मूले श्रभावश्चतुर्विध इति । चतस्त्रोविधा यस्येति व्युत्पत्या चतुःप्रकारवा- नित्यर्थः । भावभिन्नत्वमभावस्य लक्षणम् । भावत्वं च समवाय– एकार्थ- समवायान्यतरसम्बन्धेन सत्तावत्वम्, एकार्थसमवायश्च स्वप्रतियोगिकसम-

,

?

१ सा च गुणवान् घटः क्रियावान् घटः जातिमान् घटः इत्याकारिका । अत्र गुणक्रियाजात्यन्यतमप्रकारकज्ञानत्वं पचतावच्छेदकम् एकैकप्रकारकबुद्धित्वस्य पावच्छेदकत्वे भारस्य पचतावच्छेदककोटिप्रवेशानुपपत्तिः । विशेषणविशेष्ययोः सम्बन्धः विषयो यस्यां सा इत्यर्थः । संसर्गतानिरूपिका इति यावत् । यत्तु विशेषण- विशेष्यसम्बन्धानां द्वन्दः – ते एव विषयाः यस्यामिति बहुब्रीहिबलेन प्रकारता निरूपकत्व विशेष्यनानिरुपकत्व संसर्गतानिरूपकत्वानां त्रयाणां प्रत्येकं साध्यत्वलाभः । श्रन्यथा विशेषण विशेष्ययोरित्यस्याऽनर्थक्यापत्तेरति । तत्तच्छम् । प्रकृते वैयर्थ्यस्येष्टत्वात् । संसर्गतानि दकन्त्रमात्रं साध्यम्, तावतैव समवायसिद्धिसम्भवात् । निर्विकल्पके व्यभिचारवारणाय हेनौ विशिष्टेति विशेषणम् । किञ्चिन्निष्ठ प्रकारतानिरूश्क बुद्धि- त्वादित्यर्थकम् । बुद्धिपदं तु पक्षे हेतुसत्वबोधनायैचेति ध्येयम् ।

[[२६]]

टीकात्रयोपेतः

वायप्रतियोगित्व स्वप्रतियोगिकसमवायतादात्म्यान्यतररूपः स्वं सत्ता । अत्र ग्रन्थान्तरे संसर्गाभावत्वाऽन्योन्याभावत्वाभ्यामादौ विभागः, अनन्तरं सर्गाभावस्य प्रागभावत्वादिधर्मैः त्रेधा विभागः कृतः तथापि प्राग- भावत्वादिना विभागस्यावश्यकत्वे किमन्तर्गडुना संसर्गाभावत्वेन विभजने - नेत्याशयेन मूलकृता तथा विभागो न कृत इति ध्येयम् ।

तत्र गन्धवती पृथिवी । सा द्विविधा नित्या- ऽनित्या च नित्या परमाणुरूपा । अनित्या कार्यरूपा ।

न्या० - गन्धवतीति, गन्धवत्वं पृथिव्या लक्षणम् । लक्ष्या

पृथिवी, पृथिवीत्वं लक्ष्यतावच्छेदकम् । पृथिवीत्वावच्छिन्ना लक्ष्यता, यद्धर्मानं लक्ष्यं सधर्मो लक्ष्यतावच्छेदकः । यो धर्मो यस्या व्यवच्छेदक ः सा तद्धर्मावच्छिन्ना तथा च लक्ष्यतावच्छेदकं पृथिवीत्वं, लक्ष्यता पृथिवीत्वावहिन्ना । एवं शीतस्पर्शवत्वादिलक्षणेपु जलादीनां लक्ष्यता, जलत्वादीनां लक्ष्यतावच्छेदकत्वं च वोध्यम् ।

दी० - तत्रोद्देशक्रमानुसारेण प्रथमं पृथिव्या लक्षणमाह गन्धवतीति । नाम्ना पदार्थ सङ्कीर्तनमुद्देशः । उद्देशक्रमे च सर्वत्रेच्छे- व नियामिका । ननु सुरभ्यसुरभ्यवयवारब्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः । न च तत्र गन्वप्रतीत्यनुपपत्तिरिति वाच्यम् । saranन्धस्यैव तत्र भानसम्भवेन चित्रगन्धानङ्गीकारात्, कि चो- त्पन्नविनष्टघटादावव्याप्तिरिति चेन्न । गन्धसमानाधिकरणद्रव्यत्वा- परजातिमत्वस्य विवक्षितत्वात् । ननु जलादावपि गन्धप्रतीतेरतिव्या- तिरिति चेन्न । अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्रभानाङ्गीका- रात्, ननु तथापि कालस्य सर्वाधारतया सर्वेषां लक्षणानां चत्राति- व्याप्तिरिति चेन्न ।

तर्क- सङ्ग्रहः

.३०

गं० - मूळे । तत्रेति । द्रव्यादिषुमध्ये । सप्तम्यावल । घटकत्वं सप्तम्यर्थः । तथा च द्रव्यादिपदार्थसमुदायबटकीभूतव्यवटकीभूता पृथिवी गन्धवतीत्यर्थः । पृथिवीत्वं लक्ष्यतावच्छेदकमिति । अवच्छेदकत्वं चाsन्यूनानतिरिक्तवृत्तित्वम् । एवं व पृथिवीत्वं लक्ष्यताऽन्यूनानतिरिक्त- वृत्तीति यावत् । यद्धर्मावच्छिन्नं लक्ष्यमिति । यद्धर्मविशिष्टमित्यर्थः । एवमिति । लक्ष्यं जलम् । जस्तवं लक्ष्य नावच्छेदकम् । “यो धर्मो लक्ष्ये तिष्ठति स धनो लक्ष्यतावच्छेदकः । अतो लक्ष्पता जलवावच्छिन्ना लक्ष्यतायां हि जच्छेदकम् । अवच्छिनावं द्विविधम् । अवच्छेदकतानि- रूपम्, वैशिष्ट्यरूपं च । पृथिवीत्वावच्छिन्ना लक्ष्यतेत्यत्राऽऽद्यम् । पृथिवा लक्ष्यमित्र द्वितीयम् ।

तत्र । नवद्रव्ये मध्ये । उद्देशक्रमानुसारादिति । विभागवाक्ये प्रथमोपस्थित रूपलाघवादिति यावत । प्रथममिति । जलादिलक्षणात्प्रा- गिस्यर्थः नाम्नेति । तृतीयार्थोऽभेदः । सङ्कीर्त्तने प्रतिपादकशब्देऽन्वेति । तथा च वस्तुप्रतिपादको नाममात्रमुद्देशः । ननु विभागवाक्ये जलादेरेव प्रानि- हेशः कुतो न कृत इत्यत आह । उद्देशक्रमे चेति । सर्वत्रोद्देशक्रमे चेति योजना । गन्धवतीति मूलाद् गन्धवत्वं पृथिव्यालक्षणं लभ्यते तदनुपपन्न- मित्याक्षिपति । नन्विति । श्रारब्धे । जन्ये द्रव्ये । घटादौ । परस्पर विरोधेनेति । सुरभिगन्धं प्रति असुरभिगन्धस्य, असुरभिगन्धं प्रति सुरभि- गन्धस्य प्रतिबन्धकत्वेनेत्यर्थः । तयोदेशिकाऽव्याप्यवृत्तित्वाभावादित्याशयः । तथा च सुन्दोपसुन्दन्यायेन तत्राऽवयविनि गन्asस्वीकारात् । गन्धप्रती- त्यनुपपत्तिरिति । बटो गन्धवानिति प्रतीतेः प्रमात्वानुपपत्तिप्रसङ्ग इत्यर्थः । तथा च तादृशप्रमाऽन्यथानुपपत्या चित्र गन्धाङ्गीकारस्याऽवश्यकतया मोक्तान्याप्यवकाश इति भावः । श्रवयवगन्धस्यैवेति । स्वाश्रयसमवे- तत्वसम्बन्धेनेत्यर्थः । समवायघटितसामानाधिकरण्यसम्बन्धेनेति यावत् । एवकारेणाऽवयविनि गन्धो व्यवच्छिद्यते । तत्र तादृशवटादावित्यर्थः । चि- गन्धानङ्गीकारादिति । चित्रगन्धस्याऽशीकत्वादित्यर्थः । तथा च तादृश-

[[३१]]

टोकात्रयोपेतः

वादिविशेष्यकप्रमायां समवायवटिन सामानाधिकरण्यसम्बन्धेन कुप्ताऽवयव- समवेतसुरभिगन्धादेरेव प्रकारत्वसम्भवात् चित्रगन्धस्याsप्रामाणिकतया नादब्रह्मदायुक्तलक्षणस्याञ्ज्यातिर्दुवरैिवेति भावः । ननु नानागन्धवद्द्यणु- कवचार त्र्यशुके गन्धप्रतीत्यनुपपत्तिः, द्यणुकगन्धस्याऽतीन्द्रियत्वेन तद्वि- यकत्वेन तादृशमत्ययोपादनासम्भवात् । त्रसरेणौ रूपं विहाय सर्वेषां गुणा-

नाम

नामागन्धयन्त्रसरेण्वारश्वचतुरणुकादिविशेष्य कगन्धप्र- तीसनिः, तत्माच्चित्ररूपवचित्र गन्धाङ्गीकारस्याऽवश्यकतया न तत्रा- व्यातिरित्याशयेन स्थलान्तरेऽव्याप्तिमाह । किचेति । गन्धसमानाधिक- रणेत्यादि । धिकरणवृत्तिः या द्रव्यत्वाऽपराजातिः तद्वत्वस्येत्यर्थः । अत्र जमादिकमादाय जलादावतिव्याप्तिवारणाय गन्धसमानाधिकर- ऐति । सन्धाधिकरणत्वं तद्द्वृत्तित्वं च समवायेन विवक्षणीयम् । तेन पालिकेत स्थाधिकरणजदादौ वर्त्तमानम्, समवायेन गन्धाधिकरण पृथि- व्यां कारिकेन वर्त्तमानं च जलत्वादिकमादाय नातिव्याप्तिः । सत्तामादाय तत्रैवातिव्याप्तिवारणाय द्रव्यत्वापरेति द्रव्यत्वम्यूनवृत्त्यर्थक्रम्, तच द्रव्य- त्यसमानाधिकरणत्वे सति द्रव्यत्वसमानाधिकरणभेदप्रतियोगितावच्छेदक- त्वम् तेन द्रव्यत्वव्युदासः । जातिमत्ता च समवायेन । तेन कालिकेन । तादृशजानिमन्वस्य जलादौ सत्वेऽपि न क्षतिः । वस्ततस्तु गन्धसमानाधि- करणजलाऽसमवेत जातिमत्वमेव पृथिव्या लक्षणम्, तेन मूर्तव्यजात्यभ्युपग- मपक्षे नोक्ताऽतिप्रसङ्ग इति ध्येयम् । ननु सुरभिजलं, सुरभिःसमीरण इत्या- द्यनुभवात् जलादावपि गन्धसिद्ध्या निरुक्तलक्षणं जलादावतिव्याप्तमित्या- शयेन शङ्कते । नन्विति । पृथिवीगन्धस्यैवेति । स्वाश्रयसंयुक्त वसम्ब न्येनेत्यर्थः । तत्र । जलादौ । अन्यथा उपाधिसम्बन्धशून्यकालेऽपि तत्र ताह- शानुभवापत्तेः । कालस्य । महाकालस्य । सर्वाधारतया । कालिकसम्बन्धे- नेत्यादिः । सर्वाधारताप्रयोजकभिन्न सम्बन्धेन । समवायसम्बन्धेनेति

यावत् ।

इदमुपलक्षणम् । पृथिवीत्वजातिमत्वमपि पृथिव्यालक्षणम् । न च

तर्क-सङ्ग्रहः

[[३२]]

पृथिवीत्वा प्रमाणाभाव इति वाच्यम् । गन्धसमवायिकारणतावच्छेदक- तया पृथिवीत्वजातिसिद्धेः । तथाहि । समवायसम्बन्धावच्छिन्नन्वत्वाव- च्छिन्नकार्यतानिरूपततादात्म्यसम्बन्धावच्छिन्नकारणता किञ्चिद्धर्मावच्छिन्ना कारणतात्वात् घटनिष्ठकार्यतानिरूपित कपालनिष्टकारणतावदित्यनुनानेन पृथि- atafat तस्य जातिलक्षणाक्रान्तत्वेन वाधकाभावेन च जातित्वमिति ।

पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात् शरीरम- स्मदादीनाम् । इन्द्रियं गन्धग्राहकं घाणं नासाग्रवर्त्ति विषयो मृत्पाषाणादिः ॥

दी० – सर्वाधारताप्रयोजकसम्बन्धभिन्न सम्बन्धेन लक्षणस्या- भिमतत्वात् । पृथिवीं विभजते सा द्विविधेति । नित्यत्वं ध्वंसाप्रतियो- गित्वम् । ध्वंसप्रतियोगित्वमनित्यत्वम् प्रकारान्तरेण विभजते । पुन- रिति । आत्मनोभोगायतनं शरीरम् । यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् । सुखदुःखान्यतर साक्षात्कारो भोगः । शब्दतरोभू- तविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वम् इन्द्रिय- त्वम् । शरीरेन्द्रियभिन्नोविषयः । एवं च गन्धवच्छरीरं पार्थिव - शरीरम् । गन्धवदिन्द्रियं पार्थिवेन्द्रियम् । गन्धवान् विषयः पार्थिव- विषयः इति तल्लक्षणं बोध्यम् । पार्थिवं शरीरं दर्शयति-शरीर- मिति । इन्द्रियं दर्शयति । इन्द्रियमिति । गन्धग्राहकमिति प्रयोजन- कथनम् । घ्राणमिति सञ्ज्ञा । नासाप्रेत्याश्रयोक्तिः । एवमुत्तरत्र ज्ञेयम् । पार्थिवविपयं दर्शयति-मृत्पापाणेति ।

गं० - प्रकारान्तरेणेति । पृथिवीमित्यनुषज्यते । अन्न नित्यपृथिव्याः शरीरेन्द्रिय भिन्नत्वरूपविपयलक्षणाऽऽक्रान्तत्वेन विपयान्तर्गतत्वात्लुथिव्याखि- विधत्वम् । तथा च पृथिवीसामान्यस्यैवद्वैविध्येन त्रैविध्येनच विभाग इति

[[३३]]

टोकाश्रयोपेतः

भावः । अतएव पुनस्त्रिविधेत्युक्तिः सङ्गच्छते इति ध्येयम् । केचित्त अनित्य- पृथिव्या एव त्रैविध्यं दर्शयन्ति । शरीरलक्षणमाह । श्रात्मनइति । श्राय- तनम् । अवच्छेदकम् । उक्तमेव प्रकाशयति । यदवच्छिन्ने इति । यद्वि- शिष्टे इत्यर्थः । आत्मनीत्यत्र सप्तम्यर्थो निरूपितत्वम्, तस्य जायते इत्यन धावर्थोत्पत्तौ अन्वयः । भोगो जायत इति । समवायसम्बन्धावच्छिन्नोत्प- शिमान् भोग इत्यर्थः । तथा च यद्विशिष्टाऽऽत्मनिरूपित समवायसम्बन्धाव- च्छिन्नोत्पत्तिमान् भोग इति फलितार्थः । अत्रान्त्यावयवित्वे सतीति विशेष- णीयम् । तेन हस्तपादादीनामवच्छेदकत्वेऽपि न क्षतिः । भोगपदार्थमाह । सुखेति । सुखदुःखान्यतरनिष्टलौकिक विषयताशालिसाक्षात्कार इत्यर्थः । इदमुपलक्षणम् । चाक्षुषाद्यवच्छेदकत्वम्, सुखाद्यवच्छेदकत्वम् चेष्टाश्रयत्वं च शरीरलक्षणं बोध्यम् । चेष्टा च हिताऽहितप्राप्तिपरिहारार्था क्रिया । न च शरीरत्वजातिमत्वमित्येव लक्षणं कुतो न कृतमिति वाच्यम् । शरीरत्वं हि न जातिः पृथिवीत्वादिना साङ्कर्यादिति ध्येयम् । पृथिवीत्यादिना साङ्कर्यादिन्द्रिय-

,

१ न च चेष्टाश्रयत्वं हस्तादावतिव्याप्तम् श्रव्याप्तं च मृतशरीरादो, तत्र चेष्टादि • रहादिति वाच्यम् । अन्त्यावय विमात्रवृत्तिचेष्टावद् वृप्तिद्रव्यत्वव्याप्यजातिमत्वस्य तदर्थत्वात् । हस्तादावतिव्याप्तिवारणाय अन्त्यावयविमात्रवृत्तीति जातिविशेषणम् । तत्वं च कार्यद्रव्या- नारम्भकत्वम् । अत्र द्रव्यत्वे सतीति न निवेशनीयम्, गौरवात् । घटत्वादिजातिभ्युदासाय चेष्टावद्वृत्तीति । सत्तादिवारणाय द्रव्यत्वव्याप्येति । चैत्रस्वादिजातिश्चेदृशीति तामादाय लक्षणसमन्वयः । न च चैत्रत्वादिजातीनां शरीरनिष्टत्वे मानाभावः,

चैत्रो जानातीति प्रतोत्सा प्रत्युत श्रात्मनिष्ठत्वकल्पनाया एवोचितत्वात् य एव चैत्रः कौमारे काश्यां दृष्टः, स एव वार्द्धक्ये मथुरायामधिवसतीति प्रत्ययानुपपत्तेश्च । एतेन चैत्रादिशब्दानां शरीरखा चित्वे - प्वच्छेदकतया ज्ञानवत्वस्य तत्रापि सम्भवान्न पूर्वप्रतीतेरनुपपत्तिरिति परास्तमिति वाच्यम श्रात्मवाचित्वे चैत्रत्वस्य जातित्वाऽसम्भवात् । चैत्रो रूपवानितिप्रत्ययानुपपत्तिप्रसङ्गाच्च शरोरवाचित्वमेव । जानातीतिप्रतीतेस्तुकैव गतिः । य एव चैत्र इत्यादौ तु तच्छरीरोप- हितात्मनि निस्दलक्षणा । इत्थं च शिवत्व- विष्णुत्वा दिजातयो पि शरीरनिष्ठा एवेति ध्येयम ।

[[३]]

तर्क - सङ्ग्रहः

[[૪]]

‘थमपि न जातिरित्याशयवानिन्द्रियसामान्यरक्षणमाह । शब्देतरोद्भूतेति । शरे ये उद्धृतविशेषगुणाः तदनाश्रयत्वे सति ज्ञानकारणीभूतो यो मनः संयोगस्तदाश्रयत्वमित्यर्थः । भवेत्थं प्रक्रिया । आत्मा मनसा युज्यते, मन इ- न्द्रियेण ततःप्रत्यक्षम्, आत्ममनःसंयोगः इन्द्रियमनः संयोगश्च प्रत्यक्ष कारण- मित्यर्थः । चक्षुपि ये विशेषगुणास्तेऽनुद्धृताः, तथा च शब्देत रोद्भूतविशेषगुणा- नाश्रयत्वस्य ज्ञानकारणीभूतचक्षुर्मनः संयोगाश्रयत्वस्य च चक्षुपि सत्वालक्ष- णसमन्वयः । सभ्यन्तदलानुपादाने आत्मनि अतिव्याप्तिः, ज्ञानकारणीभूताss-

,

मनः संयोगाश्रयमस्य तत्र सत्वात् । सत्यन्तदलोपादाने तु शब्देतरे ये उद्धनविशेषगुणा ज्ञानसुखादयस्तद्नाश्रयत्वविरहान्नातिव्याप्तिः । श्रोत्रेऽध्या• शिवारणाय शब्देतरेति, श्रोत्रस्य आकाशरूपतया उद्भूतविशेषणगुणस्य शब्दस्य तत्र सत्वेन तदाश्रयत्वविरहात् । चक्षुरादावव्याप्तिवारणायो द्भूतेति तत्र शब्देनर विशेषगुणस्य अनुद्भूतरूपादैः सत्वात् । उद्भूतत्वं न जातिः शुक्लत्वादिना साङ्कर्यात्, शुकत्वं विहाय अद्भूतत्वं नीलादौ, उद्भूतावं विहाय शुक्लत्वं अनुद्भूतशुक्के, उभयोः समावेशः उद्भूतशुक्ले इति । न च शुक्लत्वव्याप्यं नानैवोद्भूतत्वम् एवं च शुक्लनीलादिनिष्टं भिन्नभिन्नमेवोद्भूत- स्वमतो नोक्तदोष इति वाच्यम् । तथा सति व्यतिरेकव्यभिचारेण चाक्षुषत्वा- - बच्छिवं प्रति उद्भूतत्वविशिष्टरूपत्वेन हेतुताभङ्गप्रसङ्गात्, किन्तु शुकुत्वादि- व्याप्यमनुद्भूतत्वं नाना, तदभावकूचोद्भूतत्वमिति स्वीकार्यम् एव च तादृशोद्भूतगुणः संयोगादिरपीति तदनाश्रयत्वाभावादसम्भववारणाय विशेषेति । कालादावतिव्याप्तिवारणाय विशेष्यदलम् । तद्घटकज्ञानकारणे- त्यपि तद्वारणाय । कालादौ रूपाभावाच्चाक्षुषं प्रति चक्षुः संयुक्तकाल विशेषणतायाः सन्निकर्षतया तद्घटकचक्षुः संयोगस्यापि हेतुत्वेन तदा- श्रयकालादावतिव्याप्तिवारणाय मनः पदम् । विषयेन्द्रियावयवसंयोगस्य प्रत्यक्षकारणतया तदाश्रयस्य इन्द्रियावयवस्य वारणाय तदिति प्राचीनाः । शरीरेन्द्रियभिन्न इति । शरीरभिन्नत्वे सति इन्द्रियभिन्नत्वे सति उपभोगसाधनं विषय इत्यर्थः ।

[[૫]]

एवं चेति । शरीरादिसामान्यलक्षणेषु जातेषु चेत्यर्थः । गन्ध- वच्छरीरमिति । गन्धवनिष्ठनिरुतशरीरत्वं पार्थिवशरीरस्य लक्षण- मित्यर्थः । तत्तल्लक्षणं बोव्यमिति । पृथिवीशरीरलक्षणवत् जलादिशरी- रादिलक्षणं ज्ञेयमित्यर्थः । पृथिवीशरीरं दर्शयतीति । इथिवीशरीरस्वरूपं दर्शediosर्थः । मूले अस्मदादीनामिति । अवच्छेदकत्वं पष्ट्यर्थः । तथा चाऽस्तदादिरूपाऽऽत्मनोऽवच्छेदकीभूतं यच्छरीरं तत्पार्थिव शरीरमित्यर्थः । आत्मा हि शरीरावच्छिन्नः, तदवच्छेदकंशरीरमिति । अस्तच्छदेन योनिजपरि- ग्रहः । आदिना अयोनिजस्वेदजोद्भिज्जयोः परिग्रहः । मूले । गन्धग्राहक- मिति । गन्धस्य ग्राहकं गन्धग्राहकम् । त्रिषयत्वं पष्ट्यर्थः । ग्रहधातो- ज्ञानमर्थः । वुलप्रत्ययस्य जनकत्वमर्थः । तथा च गन्धविषयक ज्ञानजनक- मित्यर्थः । नासाग्रवर्तीति । अग्रावच्छेदेन नासावतीत्यर्थः ।

नासाग्रमेव घ्राणम् ।

[[1]]

न तु

न व प्राणेन्द्रिये मानाभाव इति वाच्यम् । गन्धसाक्षात्कारो मनोभिनेन्द्रियकरणकः मानसेतरसाक्षात्कारत्वात् चाक्षुषवदित्यनुमानस्यैव प्रमाणत्वात् । एवं गन्धपदस्थाने रसादिपदं निक्षिप्य रसनादीन्यप्रे साधनीयानि ।

न च घ्राणेन्द्रियस्य पार्थिवत्वे किं मानमिति वाच्यम् । घ्राणेन्द्रियं पार्थिवं द्रव्यत्वे सति गन्धभिन्नरूपाद्यन्यतमाऽव्यञ्जकत्वे सति गन्धविषयक- लौकिक साक्षात्कारजनकतावच्छेदकधर्मवत्वात्, कुङ्कुमगन्धाभिव्यञ्जकगो-

घृतवदित्यनुमानस्यैव प्रमाणत्वात् ।

पृथिवीविषयस्य स्वरूपमाह । विषयो मृत्पाषाणादिरिति मृद्ध पाषा- णश्च मृत्पापाणौ तौ आदी यस्येति विग्रहः । आदिपदेन पृथिवीमात्रपरिग्रहः ।

१ पृथिवीजन्यम् । समवायेन पृथिवीत्वं साध्यमिति तु फलितार्थः । तेन पृथिवी- जन्यत्वेऽपि न पृथिवीत्वाऽसिद्धिदोषतादवस्थ्यम् । न च पृथिवीजन्यत्वेन पृथिवीत्वा - ऽनुमानम् । रूपादौव्यभिचारादिति ध्येयम् ।तर्क -सङ्ग्रहः

[[३६]]

अथ पापा गन्धाभावाद् गन्धवत्वलक्षणमव्याप्तम् तत्र गन्धसत्वे गन्धोपलब्धिप्रसङ्गादिति चेन्न । तत्राऽनुद्धनगन्ध स्वीकारात् । तथा च पापाणं गन्धवन पृथिवीत्वाद घटवदित्यनुमानमेव प्रमाणतया बोध्यम् । ननु पाषा- णस्य पृथिवी एव किं मानमिति चेद् । इत्थम् । पाषाणभस्मनि गन्धः प्रत्यक्षसिद्धः, अतस्तत्र पृथिवीत्वं निर्विवादम् । ततश्च भस्मारम्भपरमाणवः गन्धवन्तः गन्धवद्द्भस्मोपादानत्वात् । कारणगुणाः कार्यगुणानारभन्ते इति न्यायात । एवं च तत्रापि गन्धवत्येन पृथिवीत्वमङ्गीकरणीयम् । भस्मारम्भका- वयवपाषाणारं भकावयवयोरैक्येन “पापाणपरमाणवः गन्धवन्तः गन्धवहस्मो- पादानत्वादित्यनुमानबलेन” पापाणपरमाणुपु गन्धसिद्धौ पृथिवीत्वसिद्धिः । ततः पाषाणभस्म पाषाणोपादानोपादेयं पापाणध्वंसजन्यत्वात् महापटध्वंस- बन्यखण्डपटवदित्यनुमानेन भस्मनि पाषाणोपादानोपादेयत्वसिद्धौ तुल्यवित्ति- वेद्यनया “पापाणं पृथिवी गन्धवद्भस्मोपादानोपादेयत्वादित्यनुमानेन पृथिवी- त्वसिद्धिः ।

शीतस्पर्शवत्य आपः, ता द्विविधा, नित्या अनि- त्याश्च । नित्याः परमाणुरूपाः । अनित्याः कार्यरूपाः । पुनस्त्रिविधा । शरीरेन्द्रियविषयभेदात् । शरीरं वरुण- लोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवत्ति । विषयः सरित्समुद्रादिः ।

दी० - श्रपलिन रामाह - शीतेति । उत्पन्नविनष्टे जलेऽव्याप्तिवा- रणाय शीतस्पर्शसमानाधिकर णद्रव्यत्वाप र जातिमत्वे तात्पर्य्यम् । शीतं शिलातलमित्यादो जलसम्बन्धादेव शीतस्पर्शभानमिति नाति- व्याप्तिः, अन्यत्सर्व पूर्वरीत्या व्याख्येयम् ।

गं०-अपां लक्षणमाह । क्रमप्राचानामित्यादिः । शीतस्पर्शव व अपा

[[૨૦]]

टीकात्रयोपेतः

लक्षणम् । शीनत्वं स्पर्शलव्याप्यजातिविशेषः । तदवच्छिन्नवत्वमेव लक्षणम् । न तु स्पर्शत्वस्यापि प्रवेशः, व्यर्थत्वात्, परन्तु शीतत्वं स्पर्शचन्याप्यमिति स्फुटीकरणाय स्पर्शपदमुपात्तमिति ध्येयम् । अत्र जलत्वं लक्ष्यनावच्छेदकम्, सा जातिः, जन्यशीतस्पर्शजनकतावच्छेदकतया जन्यजलमात्रवृत्तिजानिसिद्धौ तदवच्छिन्न जनकतावच्छेदकतया परमाणुसाधारणतया सिद्ध्यति । तथा च समवायसम्बन्धावच्छिन्नजन्यशीतस्पर्शत्वावच्छिन्न कार्यतानिरूपिततादात्म्यसं- बन्धावच्छिन्नकारणता किञ्चिद्धर्मावच्छिना कारणतावात् इत्यनुमानेन जन्यजलत्वजातिसिद्धिः, ततः समवायसम्बन्धावच्छिन्नजन्यजलवा - कार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्नकारणता किञ्चिद्धर्मावच्छिन्ना कारण- तात्वादित्यनुमानेन परमाणु साधारण जलत्वा जातिसिद्धिः ।

adraft जन्यशीतस्पर्शजनकतावच्छेदकतया सिद्धाया जन्यजलत्व- जातेयथा न परमाणुवृत्तित्वं, तथा जन्यजलत्वावच्छिन्न जनकतावच्छेदकतया सिद्धाया अपि जलत्वजातेर्नान्त्या वय विजलवृत्तित्वम् साधकाभावादित्थं च नित्यानित्य साधारणजलत्वजातौ मानाभाव इति चेन्न । जन्यजलत्वछिन्न- जनकतावच्छेदकतया सिद्ध जलत्वस्याऽन्त्यावय विजलवृत्तित्वानभ्युपगमे जन्य- शीतस्पर्शजनकतावच्छेदकतया सिद्धजात्या साङ्कर्यवारणाय तत्रापि तद्वृत्ति- स्त्रमुपगन्तव्यमिति सिद्धं सर्वजलसाधारणजलनमिति दिकू ।

उत्पन्नविनष्टे जले इति । द्वितीयक्षणवृत्तिध्वंसप्रतियोगिजले इत्यर्थः । द्रव्यत्वा परजातीति । द्रव्यत्वव्याप्यजातीत्यर्थः । न च मूर्त्तत्वजात्यभ्यु - पगमपक्षे मूर्तव्यजातिमादाय घटादावतिव्याप्तितादवस्थ्यमिति वाच्यम् । द्रव्यत्वव्याप्येत्यस्य पृथिव्यसमवेतार्थकत्वात् । तथा च पृथिव्यवृत्तिशीतस्पर्श- समानाधिकरणजातिमत्वं लक्षणं फलितम् । यथाश्रुतपरिष्कृतलक्षणस्याऽ- तिव्याप्तिसम्पादकभ्रमं निराकरोति । शीतं शिलातलमित्यादाविति । आदिना शीतं सुवर्ण, शीतो वायुरिति प्रतीतिपरिग्रहः । जलरूपोपाधि- सम्बन्धवशादेवेत्यर्थः । तथा च शीतं शिलातलमिति प्रतीतेः जलरूपोपा-ि- संयोगसत्तानियतस ताकत्वात् जरुनिष्ठशीतस्य स्वसमवायिसंयोगसम्बन्धेन

J

तर्क-सङ्ग्रहः

[[३८]]

तादृशप्रतीतिविष यत्वाभ्युपगमेनैवोपपत्तेः तत्र समवायेन शीतस्पर्शसाधक- प्रमाणाऽभावान सत्राय्याप्तिः । श्रन्यत्सर्वामिति । नित्यत्वादिस्वरूपं, खलीयशरीरादीनां लक्षणं चेत्यर्थः । पूर्वरीत्या व्याख्येयमिति । पृथिव्या इवामित्यर्थः ।

ननु जलशरीरसत्वे चक्षुषा कुतो न गृह्यते इत्यत आह । मूले । वरु- लोके इति । तथा च दूरस्थत्वान्नप्रत्यक्षविषय इति भावः । न च तच्छ- रीरस्य जलत्वे मानाभाव इति वाच्यम् । जलावं शरीरसमवेतं जातित्वे सति परमाणुविशिष्टत्वात् पृथिर्वात्ववद् । वै० स्वसमवेतत्व-स्वसमवेतसमवेतत्वो- मयसम्बन्धेन, इत्यनुमानस्यैव प्रमाणत्वात् ।

ननु रसनेन्द्रियस्य जलीयत्वे किं मानमिति चेन्न । रसनं जलीयं द्रव्य- त्वे सति रसभिन्नरूपायन्यतमान्यञ्जकत्वे सति रसव्यञ्जकत्वात् सकुरसा - भिव्यञ्जकोदकवदित्यनुमानस्यैव प्रमाणत्वात् ।

उष्णस्पर्शवत्तेजः । तद् द्विविधम् । नित्यम- नित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधम् । शरीरेन्द्रियविषयभेदात् । शरीरमा- दित्यलोके । इन्द्रियं रूपग्राहकं चक्षुः कृष्ण ताराग्र- वर्त्ति । विषयश्चतुर्विधः, भौमदिव्यौदर्य्याकरजभे- दात् । भौमं बन्ह्यादिकं अविन्धनं दिव्यं विद्यदादि । भुक्तस्य परिणामहेतु सैदर्भ्यम् । आकरजं सुवर्णादि ।

दी० – तेजसो लक्षणमाह - उष्णस्पर्शवदिति । ‘उष्णजलम्’ इति प्रतीतेरतेजः सम्बन्धानुविधायित्वात् नातिव्याप्तिः । विषयं विभ- जते भोमेति ।

गं०- तेजसो लक्षणमाहेति । क्रमप्राप्तस्येत्यादिः, उष्णस्पर्श-

[[३६]]

[[૧]]

वत्वं ’ तेजसो लक्षणम् । उष्णस्पर्शसमानाधिकरणजलासमवेतजातिमत्वमिति यावत् । तेनोत्पन्नविनष्टतेजसि नाव्याप्तिः । उष्णं जलमित्यादिप्रतीतेरिति । आदिना उष्णो वायुः, उष्णमयोगोलकमित्यादिप्रतीतेः परिग्रहः । तेजः सम्बन्धानुविधायित्वादिति । तेजोरूपोपाधिसंयोग सत्तानियतस ताकत्वा- दित्यर्थः नातिव्याप्तिरिति । तथा च तादृशप्रतीतेः स्वसमवायिसंयोग- सम्बन्धेन उपाधिगतोष्णस्पर्शविषयत्वेनैवोपपत्तेः जलादौ समवायेनोष्णस्पर्श- साधकप्रमाणाभावेन न तत्राऽतिव्याप्तिरितिभावः । तेजस्त्वजातिसिद्धिस्तु जन्योष्णस्पर्शसमवायिकारणतावच्छेदकतया जन्यतेजस्त्वजातिसिद्धौ तदव- च्छिन्न जनकतावच्छेदकतया सिद्ध्यति । प्रकारः पूर्ववत् । चक्षुस्तेजसं द्रव्यत्वे सति स्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात्प्रभावदित्यनुमानमेव चक्षुस्तै सत्वे मानं बोध्यम् ।

मूले। भौमेत्यादि । भूमौ भवं भौमं दिवि भयं दिव्यं, उदरे भव- मौदर्य, आकरे जायते इत्याकरजमिति व्युत्पत्तिर्बोध्या । भौमं दर्शयति । वन्ह्यादीति । आदिना प्रदीपादेः परिग्रहः । इदं तु काष्ठतैलादिरूपपार्थि- वेन्धनकमिति बोध्यम् । दिव्यं दर्शयति । श्रबिन्धनमिति । दिव्यं विद्युदादि अबिन्धनमिति योजना । आपः इन्धनं उद्दीपकं यस्य, अद्भिः इन्धनं उद्दीपनं यस्येति वा व्युत्पत्तिः । आये करणे ल्युट् द्वितीये भावे ल्युदिति विशेषः, आदिना उल्कावडवानलपरिग्रहः । औदर्य दर्शयति । भुक्तस्येति । अन्नादेरित्यर्थः । परिणामः परिपाकः, रक्तवसामांसमल- धातुरूपेण निष्पत्तिः, तत्र हेतुः - निमित्तकारणमित्यर्थः । जाठररूपमिति यावत् । श्राकरः खनिः तत्र जातमित्यर्थः । आदिना रजतादिपरिग्रहः ।

"

दी० - ननु सुवर्ण पार्थिवम् पीतत्वाद् गुरुत्वात् हरिद्रावत् इति चेत् न । श्रत्यन्तानलसंयोगे सति घृतादौ द्रवत्वनाशदर्शनेन

१ स्वर्णचन्द्र केरणादौ तु उष्णस्पर्शः पार्थिवादिस्पर्शेनाऽभिभूतः मय्यादिना वन्ह्यादाविव तेन न तत्राऽव्याप्तिः ।

[[2]]

तर्क- सङ्ग्रहः

जलमध्यस्थवृतादौ द्रवत्वनाशादर्शनेन च सति प्रतिवन्धके पार्थिव- द्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात् । सुवर्णस्य श्रत्यन्तानलसंयोगे सत्यनुच्छिद्यमान द्रवत्वाधिकरणत्वेन पार्थिव- त्वानुपपत्तेः तस्मान् पीतद्रव्यद्रवत्वनाश प्रतिबन्धकतया द्रवद्रव्या- न्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः, रूपव- तया वाय्वादिष्वनन्तर्भावान्, तैजसत्वसिद्धिः । तस्योष्णस्पर्शभा- स्वररूपरूपम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिवन्धादनुपलब्धिः,

तस्मान् सुवर्ण तेजसमिति सिद्धम् ।

गं०-सुवर्णभ्य तैजस व्यवस्थापयितुं भादावाक्षिपति । नन्वित्या- दिना । पीतत्वादिति । न च हेत्वन्तरानुसरण व्यर्थमिति वाच्यम् । पीतत्वस्य पार्थिवत्वसाधकत्वात्, गुरुत्वस्य तु तेजोभिन्नत्वसाधकत्वात् । न च द्वितीयानुमानं व्यर्थमति वाच्यम् । परमतनिराकरणपूर्वकस्व सिद्धान्तकथन- स्यावश्चकतया पराभिमततेजस्वाभावसाधनाय तस्यावश्यकत्वादिति । सुवर्ण । अपार्थिवं असति प्रतिबन्धके अत्यन्ताऽनलसंयोगे सति अनुच्छिद्य. माद्रवत्वाधिकरणत्वात् यन्नैवं तन्नैवं यथा पृथिवी इत्यनुमानेन सुवर्णस्य

वि० [अत्यन्ताऽनलसंयोगे सति अनुच्छिद्यमान द्रवत्वाधिकरणमित्यर्थः । तेन न वाचाऽप्रसिद्धी । अपार्थिवमिति । तैजसमित्यर्थः । जलमध्यस्थ घृतादौ व्यभिचारवार- न्यायाऽसति प्रतिबन्धके प्रति । भग्निसंयोगाऽसमानाधिकरयद्रवत्ववति घृतादौ व्यभिचार- वारस्याय अत्यन्ताऽनलसंयोगे सतीति । उच्छिद्यमानोद्रयो द्रवत्वं यस्य स उच्छिद्य- मानद्रवः, न उच्छिद्यमानद्रवः इत्यनुच्छिद्यमानद्रवः तस्य भावस्तत्वमिति । अनुच्छि - द्यमानेति । नाशाऽप्रतियोगीत्यर्थः । अत्राऽनुच्छिद्यमानद्रवत्वाधिकरणत्वादित्येवार्थों, नमूच्छिद्यमान द्रवत्वानधिकरणत्वादित्यर्थः गगनादो व्यभिचारात् । न च पीतिम- गुरुत्वाश्रयस्य पार्थिवभागस्यापि तदानी अनुच्छिद्यमानद्रवत्वाधिकरणत्वादव्यभिचार इति वाच्यम् । पार्थिवभागस्य जलमध्यस्थमसीचूर्यवदद्रुतत्वादिति ध्येयम् ।

[[४१]]

टीकात्रयोपेतः

पीतिमगुरुत्वाश्रयतोऽतिरिक्तत्वं व्यवस्थापयन्ननुमानेऽ प्रयोजकत्वशङ्कावा- रणायाऽनुकूलतर्क दर्शयति । श्रत्यन्ता नलेति । घृतादाविति । आदिना जलत्वादिपरिग्रहः । द्रवत्वनाशदर्शनेन । द्रवत्वनाशस्याऽनुभवसि - हृत्वेनेत्यर्थः । एतेन पार्थिवद्रवत्वनाशं प्रति विजातीयाग्निसंयोगस्य कारण- त्वं सूचितम् । जलमध्यस्थेति । विजातीयाग्निसंयोगे सत्यपीति शेषः । नाशाऽदर्शनेनेति । एतेन पृथिवीद्रवत्वनाशं प्रति द्रवद्रव्यान्तरस्य सयो- न प्रतिवन्धकत्वमाविष्कृतम् । पार्थिवत्वानुपपशेरिति । पीतिमाश्रय- निष्ठवत्वनाशप्रतिबन्धकस्येत्यादिः । पृथिवीस्वरूपत्वासम्भवादित्यर्थः । तस्या- पि पृथिवीस्वरूपत्वे विजातीयाग्निसंयोगेन तन्निष्ठद्रवत्वस्यापि नाशा स्पीतिमाश्रयनिष्ठद्रवत्वनाशप्रतिबन्धकत्वानुपपत्तिरित्याशयः । एवं च अत्य- न्ताग्निसंयोगी पीतिमगुरुत्वाश्रयः, द्रवत्वनाशप्रतिबन्धकविजातीयद्रवद्रव्य- संयुक्तः अत्यन्तानलसंयोगेऽपि अनुच्छिद्यमान द्रवत्वाधिकरणत्वात् जलमध्य- स्थघृतवदित्यनुमानं फलितम् । इदमुपलक्षणम् । अत्यन्ताग्निसंयोगी पीति- मगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः अत्यन्ताग्निसंयोगे सत्यपि पूर्वरूपविजातीयरूपानधिकरणत्वात् जलमध्यस्थपीतपट ३ दित्यनुमाने- नाऽपि तत्सिद्धिबोध्या । जलत्वानुपपत्तेरिति तथा च पीतरूपाश्रयनिष्ठ- द्रवत्वनाशप्रतिवन्धकद्रवद्रव्यं जलभिन्नं नैमित्तिकद्रवस्यवत्वाद् घृतवदित्य- नुमानाजलभिन्नत्वसिद्धिरिति भावः । रूपवायेति । तथा च तादृशद्रव्यं चाय्वादिभिन्नं रूपवत्वादित्यनुमानेन वाय्वादिभिन्नत्वसिद्धिः । न च स्वरू- पासिद्धिरिति वाच्यम् । वाय्वादिवत् रूपवद्भिन्नद्रव्यस्याऽप्रतिवन्धकत्वेन तदेतस्यापि प्रतिबन्धकत्वानुपपत्या रूपवत्व स्वीकारादिति । तैजसत्वसि- द्धिरिति । प्रतिवन्धकद्रवद्रव्यस्येत्यादिः । ननु तस्य तैजसत्वे, तत्र उष्ण- स्पर्शrearरूपयोः कुतो नोपलब्धिरत आह । तस्येति । प्रतिबन्धकद्रव्य- स्येत्यर्थः । उपष्टम्भकेति । अभिभावकेत्यर्थः । प्रतिवन्धादिति । अभि- भूतत्वादित्यर्थः । श्रनुपलब्धिरिति । प्रत्यक्षाऽविषयत्वमित्यर्थः । तस्मा- दिति । प्रतिवन्धकद्रव्यस्य उष्णस्पर्शभास्वररूपवत्वे वाधकाभावादित्यर्थः ।

तर्क -सङ्ग्रहः

[[४२]]

रूपरहितस्पर्शवान् वायुः । स द्विविधः । नित्यो- ऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः पुनस्त्रिविधः । शरीरेन्द्रियविषयभेदात् । शरीरं वायु लोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्त्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तः सञ्चारी वायुः प्राणः, स चैकोऽप्युपाधिभेदात् प्राणापानादि- सञ्ज्ञां लभते ।

न्या०– एवं पृथिव्यादित्रिकं निरूप्य वायुं निरूपयति । रूपरहि- तेति । रूपरहितत्वे सति स्पर्शवत्वं वायोर्लक्षणम् । सति सप्तम्या विशिष्टार्थकवया सामानाधिकरण्यसम्बन्धेन रूपत्वावच्छिन्नप्रतियो गिताका भावविशिष्टस्पर्शवत्वं वायोर्लक्षणम् । विशेषणांशाऽनुपादाने स्पर्शवत्वमात्रस्यलक्षणत्वे पृथिव्यादित्रिकेऽतिव्याप्तिः, तत्रापि स्पर्श- वत्वसत्वादतस्तद्वारणाय विशेषणोपादानम् । तावन्मात्रोपादाने या काशादावतिव्याप्तिः, तत्रापि रूपरहितत्वसत्वादतस्तद्वारणाय विशे- व्योपादानम् ।

[[1]]

गं० - मूले रूपरहितेति । रूपेण रहितो रूपरहितः । अत्र तृतीयार्थः प्रतियोगित्वम् रहधातोरभावः, कप्रत्ययस्य चाऽऽश्रयत्वमर्थः । तथा च रूप- प्रतियोगि काभावाश्रयत्वे सति स्पर्शवत्वं वायोर्लक्षणमित्यर्थः । तथा च सम वायसम्बन्धावच्छिन्नरूपत्वावच्छिन्न प्रतियोगिताकाभाववत्वं फलितम् तेन संयोगेन रूपाभावं रूपघटोभयाभावं चादाय पृथिव्यादौ नातिव्याप्तिः । स्पर्शवत्वं च स्पर्शसमानाधिकरणद्रव्यविभाजकजातिमत्वम् तेनोत्पत्तिक्ष णावच्छेदेन वायौ, उत्पन्नविनष्टवायौ च नाव्याप्तिः । रूपासमानाधिकरण-

[[४३]]

स्पर्शसमानाधिकरणजातिमत्वमिति निष्कर्षः । तेन उत्पत्तिक्षणावच्छेदेन घटादौ उत्पन्नविनष्टघटादौ च रूपरहितत्वेऽपि नातिव्याप्तिरिति ध्येयम् ।

त्वमिन्द्रियं वायवीयं स्पर्शभिन्नरूपाद्यन्यतमाऽव्यञ्जकत्वे सति स्पर्श- व्यञ्जकत्वात् अङ्गसङ्गिसलिलशैत्याभिव्यं जकन्यजन पवनवदित्यनुमानेन त्वगि- न्द्रियस्य वायुत्वसिद्धिबोध्या । मूले । सर्गशरीरवृत्तीति । शरीरनिरूपित- देशवि शेषानवच्छिन्नवृत्चिताश्रयमित्यर्थः । शरीरत्वव्यापकमिति यावत् । शरी- रान्तः सञ्चारीति । य एव वृक्षादिकम्पन हेतुः स एव शरीरान्तः सञ्चारी- चेप्राणशब्देन व्यवह्रियते इत्यर्थः । स चैकोपि । शरीरान्तः सञ्चारी प्राणश- ब्दवाच्यः लाघवा देकोपि सन्नित्यर्थः । उपाधिभेदादिति । हृदादिरूपस्थान- भेदात् क्रियाभेदाचेत्यर्थः ।

न्या० - प्रतिव्याप्तिर्नाम लक्ष्ये लक्षणसत्वम् । यथा गोः- शृङ्गित्वं लक्षणं कृतं चेल्लक्ष्य भूतगो भिन्नमहिष्यादावतिव्याप्तिस्तत्रापि शृङ्गित्वस्य विद्यमानत्वात् । अव्याप्तिर्नाम लक्ष्यैकदेशाऽवृत्तित्वम् । लक्ष्यैकदेशे, लक्ष्यतावच्छेदकाश्रयीभूते कचिहृक्ष्ये लक्षणाऽसत्वम- व्याप्तिरित्यर्थः । यथा गोर्नीलरूपवत्वं लक्षणं कृतं चेलक्ष्यतावच्छेद- काश्रयीभूतश्वेतगवि अव्याप्तिस्तत्रनीलरूपाभावात् । असम्भवो नाम लक्ष्यमात्रे कुत्रापि लक्षणाऽसत्वम् । यथा गोरेकशफवत्वं लक्षणं कृतं चेत्, गोसामान्यस्य द्विशफवत्वेन एकशफवत्वस्य कुत्राप्यसत्वात् । अतिव्याप्त्यव्याप्त्यसम्भवानां निष्कृष्टलक्षणं तु लक्ष्यतावच्छेदकसमानाधिकर णत्वे सति लक्ष्यतावच्छेदकावच्छिन्न- प्रतियोगिता कभेदसामानाधिकरण्यमतिव्याप्तिः । श्रव्याप्तिस्तु लक्ष्य- तावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वम् । असम्भवस्तु लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम् ।

दी० – वायुं निरूपति । रूपरहितेति । आकाशादावतिव्याप्ति-

तर्क-सङ्ग्रहः

/

वारणाय स्पर्शवानिति । पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति । ननु प्राणस्य कुत्रान्तर्भावः इत्यत श्राह । शरीरेति । सचेति । एक एव प्राणः स्थानभेदात् प्राणापानादिशब्देर्व्यवहियत इत्यर्थः । स्पर्शा- नुमेयो वायुः । तथाहि योऽयं वायौ वाति सति अनुष्णाशीतस्पर्शो भासते स स्पर्शः क्वचिदाश्रितः गुणत्वात् रूपवत् । नचाऽस्य पृथिवी आश्रयः उद्भुत स्पर्शवत्पार्थिवस्योद्भूतरूपवत्वनियमात् । न जलतेजसी, अनुष्णाशीतत्वात् । न विभुचतुष्टयम्, सर्वत्रोप लब्धिप्रसङ्गात् । न मनः, परमाणुस्पर्शस्याऽतीन्द्रियत्वाद्, तस्माद् यः प्रतीयमानस्पर्शाश्रयः स वायुः । ननु वायुः प्रत्यक्षः प्रत्यक्षस्पर्शा- श्रयत्वात् घटवत् इति चेत् न उद्भूतरूपवत्वस्योपाधित्वात्, यत्र द्रव्यत्वे सति वहिरिन्द्रियप्रत्यक्षत्वं तत्र उद्भूतरूपवत्वम् इति घटादौ साध्यव्यापकत्वम् । पक्षे साधनाव्यापकत्वम् । नचैवं तप्तवारिस्थ- तेजसोऽप्यप्रत्यक्षत्वापत्तिः । इष्टत्वात् । तस्मात् रूपरहितत्वाद्वायुर- प्रत्यक्षः ।

गं०– ननु वायौ प्रमाणाभावात् तस्य लक्षणादिकरणमयुक्तमित्याशङ्कां प्रमाणप्रदर्शनेन परिहरति । स्पर्शानुमेयो वायुरिति । तथा च महत्वोद्भूत- रूपवद्द्रव्यसंयोगाऽसमानकालीन प्रत्यक्षविषयः स्पर्शः पृथिव्याद्यष्टद्रव्याs - तिरिकद्रव्यसमवेतः पृथिव्याद्यष्टद्रव्यासमवेतत्वे सति द्रव्यसमवेतत्वादिति परिशेषानुमानेन पृथिव्याद्यष्टद्रव्यातिरिक्तवायुनामकनवमद्रव्यसिद्धया नो- शङ्केति भावः । विशेष्यासिद्धिं परिहरति । तथाहोति । वायौ वाति सति । वायुसंयोगे सतीत्यर्थः । महत्वोद्भूतरूपवद्द्रव्यसंयोगे ऽसतीति- यावत् । भासते इति प्रत्यक्षविषय इत्यर्थः । तथा च महत्वोद्भूतरूपव- द्रव्यसंयोगासमानकालीन प्रत्यक्षविषयः स्पर्श इत्यर्थः । क्वचिदाश्रितः । द्रव्यसमवेत इत्यर्थः । रूपवदिति । अनेन विशेध्याऽसिद्धिः परिहृता ।

सत्पन्तासिद्धिं क्रमेण परिहरति । नचेति । श्रस्य । तादृश-

टीकात्रयोपेतः

स्पर्शस्य । पृथिवी श्राश्रयः । पृथिव्यधिकरणमित्यर्थः । एवं च तादृश- स्पर्शाधिकरणं उद्भूतस्पर्शविशिष्टपृथिवीत्वाभाववत् उद्भूतरूपाभावात् रूप- वदित्यनुमानं फलितम् । उद्भूतरूपस्य उद्धृतस्पर्शविशिष्टपृथिवीत्वव्यापकतया व्यापकाभावेन व्याप्याभावसिद्धेरिति । न जलतेजसीति । तादृशस्पर्शा- श्रयः न जलं, न वा तेज इत्यर्थः । न विभुचतुष्टयमिति । तादृशस्पर्शाधि- करणं विभुचतुष्टयं नेत्यर्थः । एवं च तादृशस्पर्शः आकाशादि - आत्मान्तान्यतम- समवेतत्वाभाववान् गुहादिप्रविष्टशरीरावच्छेद्यप्रत्यक्षनिरूपितलौकिकविषय- ताशून्यत्वे सति विशेषगुणत्वाद् घटरूपवदिति फलितम् । शब्दादौ व्यभि- चारवारणाय सत्यन्तम् । कालपरिमाणादौ व्यभिचारवारणाय विशेष्यदलम् । तर्कमाह । सर्वत्रेति । स स्पर्शो यदि आकाशादि - आत्मान्तान्यतमसम्भवेत- विशेषगुणः स्यात्तदेत्यादिः । गुहादिप्रविष्टशरीराद्यवच्छेद्य प्रत्यक्षनिरूपितलौकि- कविषयतावान्स्यादित्यर्थः । न मन इति । तादृशस्पर्शाधिकरणं मनोभिन्नमि- त्यर्थः । मनःसमवेतत्वाभाववत् लौकिकविषयतावत्वात् घटादिरूपवदित्यनु- ari fear । सत्रापि तर्क दर्शयति । परमाणुस्पशस्येति । अत्र स्पर्श- पद गुणकर्मोपलक्षकम् । परमाणुसमवेतगुणादेरित्यर्थः । अतीन्द्रियत्वादिति लौकिकविषयताशून्यत्वादित्यर्थः । स च स्पर्शो यदि मनःसमवेतः स्यात्तदा लौकिकविषयताशून्यः स्यादिति तर्कः पर्यवसन्नः । तस्मादिति । परिशेषा- नुमानादित्यर्थः । इदमुपलक्षणम् । असति रूपवद्रव्याभिघाते यो यं पर्णादिषु शब्दसन्तानः सः स्पर्शवद्वेगवद्द्रव्यसंयोगजन्यः अविभज्यमानाव- यवद्रव्यसंवन्धिशब्द सन्तानत्वात् दण्डाभिहतभेरीशब्दसन्तानवत् । एवं नभसि तृणतूलस्तनयित्नुविमानादीनां धृतिः स्पर्शवद्वेगवद्द्रव्यसंयोग हेतु का अस्मदाद्यनधिष्ठितद्रव्यष्टत्तित्वात् नौकाधृतिवद् । एवं रूपवद्रव्याभिघात- मन्तरेण तृणे कर्मस्पर्शवद्वेगवद्रव्याभिघातजन्यं विजातीय कर्मत्वात् नदी- पूराहतकाशादिकर्मवदित्यादीन्यपि बोध्यानि ।

वहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे न रूपं कारणम्, किन्तु चाक्षुषप्रत्यक्षे- स्पर्शoप्रत्यक्षे स्पर्शःकारणमिति वायोः प्रत्यक्षत्ववादिनवीनमतं

रूपम्,तर्क- सङ्ग्रहः

दूपयितुं तन्मतमुपन्यस्यति । नन्वित्यादिना । अनुद्भूतस्पर्शाये त्वगि- न्द्रिये व्यभिचारवारणाय हेतौ प्रत्यक्षेति । ननु साध्यव्यापकत्वे सति साधनाव्यापकत्वं उपाधिः, एवं च तादृशप्रत्यक्षत्वस्य गुणादावपि सत्वेन तत्रोद्भूतरूपाभावेन साध्याव्यापकत्वात्कथं तस्योपाधिस्वमित्यत आह । यत्रेति । तथाचोद्भूतरूपस्य पक्षधर्म वहिर्द्रव्यत्वावच्छिन्न साध्यव्यापकत्वानो - पाधित्वभङ्ग इति भावः । एवं । प्रत्यक्षस्पर्शाश्रियस्याप्युद्भुत रूपाभावेन प्रत्य- श्रवानङ्गीकारे । श्रप्रत्यक्षत्वापचिरिति । उद्भूतरूपाभावादित्यर्थः ।

दी० - इदानीं कार्यरूप पृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते । ईश्वरस्य चिकीर्षावशात् परमाणुषु क्रिया जायते, ततः परमाणु द्वयसंयोगे सति द्वचणुकमुत्पद्यते । त्रिभिद्वगुकैकयणु कम्, एवं चतुरणुकादिक्रमेण महापृथिवी, महत्य आपः महत्तेजः, महान् वायुरुत्पद्यते । एवमुत्पन्नस्य कार्यद्रव्यस्य सञ्जिहीर्षावशात् क्रियया परमाणुद्वयविभागे सति द्वन्यणुकस्य नाशः । ततत्र्यणु- कस्य इत्येवं पृथिव्यादिनाशः । श्रसमवायिकारणनाशात् द्वचणुक- नाशः । समवायिकार णनाशात् व्यणुकनाश इति सम्प्रदायः । सर्वत्रासमवायिकारण नाशाद् द्रव्यनाश इति नवीनाः । किम्पुनः परमाणुसद्भावे प्रमाणम् । उच्यते । जालसूर्यमरीचिस्थं सूक्ष्मतम यद्रजो दृश्यते तत्सावयवं चाक्षुषद्रव्यत्वात् पटवत् । त्र्यणुकावयवो sपि सावयवः महदारम्भकत्वात् तन्तुवत् । यो दूधणुकावयवः स एव परमाणुः, स च नित्यः । कार्यत्वेऽनवस्थाप्रसङ्गात् । तथा च मेरुसर्षपयोरपि तुल्यपरिमाणापत्तेः । सृष्टिप्रलय सद्भावे “घाता यथापूर्वमकल्पयत्” इति श्रुतिः प्रमाणम् । सर्वकार्यद्रव्यध्वंसोऽवा- न्तरप्रलयः । सर्वभावकार्यध्वंसोमहाप्रलय इति विवेकः ।

गं० - इदानीमिति । पृथिव्यादिचतुष्टयस्य लक्षणस्वरूपप्रामाण्यक-

टीकात्रयोपेतः

घनानन्तरमित्यर्थः । उत्पत्तिविनाशक्रम इति । उत्पत्तिक्रमः विनाशक्रम- श्वेत्यर्थः । कथ्यते । शिष्य बुद्धिवैशद्यायेत्यादिः । सप्रमाणमुच्यते इत्यर्थः । ईश्वरस्येत्यादि । तथाहीत्यादिः । चिकीर्षावशादिति । कर्तुमिच्छा चिकीर्षा - कुर्यामित्याकारिका - तादृशे च्छारूपनिमित्तकारणात्, अदृष्टवदा- हमसंयोगरूपाऽसमवायिकारण सहकृतादित्यर्थः । क्रियेति । द्रव्यारम्भानु- गुणक्रिये यर्थः । ततः । तादशक्रियाजन्य विभागजन्यपूर्व देश संयोगनाशादि- त्यर्थः । उत्पत्तिक्रममुपाद्य नाशक्रममुपपादयति । एवमिति । उत्पत्तिक्रम- कथनानन्तरमित्यर्थः । उत्पन्नस्य कायद्रव्यस्येति । अत्रोत्पन्नस्येति स्व रूपकथनम्, अनुत्पन्न कार्यद्रव्याऽप्रसिद्धेरिति ध्येयम् । सञ्जिहीर्षावशा- दिति । संहर्त्तुमिच्छारूपनिमित्तकारणादित्यर्थः । अत्रापि अदृष्टवदात्मसंयोग- Farsanararaणता बोध्या । क्रिययेति । तृतीयार्थीजन्यत्रम्, तस्य विभागेऽन्वयः । शुकनाश इति । आरम्भसंयोगनाशपूर्वक द्वयणुकनाश इत्यर्थः । इत्येवमिति । एतादृशक्रमेणेत्यर्थः । पृथिव्यादिनाश इति । कार्यरूपपृथिव्यादिचतुष्टयनाश इत्यर्थः । श्रसमवायिकार णनाशादिति । परमाणु संयोगनाशादित्यर्थः । न तु समवायिकारणनाशात्, समवायिका- urस्य परमाणोर्नाशाsसम्भवादिति भावः । समवायिकारणनाशादिति । द्वयणुकादिनाशादित्यर्थः । त्र्यरणुकनाश इति । ध्यणुकादिनाश इत्यर्थः । सम्प्रदाय इत्यस्वरसः, तद्वीजन्तु क्वचित्समवायिकारणनाशस्य कचिदसम- वायिकारणनाशस्य दुष्यनाशकत्वे कार्यकारणभावद्वय कल्पनाप्रयुक्त गौरव- मिति । द्रव्यनाश इति । स्वीक्रियते शेषः । एतन्मते कार्यद्रव्यनाशमात्रे अवयवसंयोगनाशस्यैव हेतुतया नोकगौरवम् । नवीना इति । वदन्तीति शेषः । अत्र व्यणुकादिनाशं प्रति असमवायिकारणनाशस्य हेतुत्वस्वीकारे द्व्यणुकनाशानन्तरं द्वणुकसंयोगनाशः तदुत्तरक्षणे त्र्यणुकनाशस्य वाच्यतया एतन्मते क्षणविलम्बः समवायिकारणं बिना क्षणद्वयं द्रव्यस्य स्थित्यापत्तिः । प्राचीनमते तु द्व्यणुकनाशद्वितीयक्षणे एव द्वयणुकसंयोग-व्यणुकयोः नाथ- स्वीकारानो दोषापत्तिरित्यस्वरसो नवीना इत्यनेन सूचित इति ध्येयम ।

तर्क - सङ्ग्रहः

ननु पृथिष्यादिचतुष्टयस्य पूर्वोक्तोत्पत्तिविनाशक्रमोऽयुक्तः परमाणुध- शुकयोर्मानाभावात् । नचैवं सति समवायिकारणस्याऽसमवायिकारणस्य व विरहेण श्यणुकानुत्पत्तिप्रसङ्ग इति वाच्यम् । इष्टत्वात् । असमवेतद्रव्यत्वादेव तस्य नित्यत्वाभ्युपगमात् । महत्वोद्भूतरूपवत्वाश्च घटादेरिव प्रत्यक्षत्वम् । नचैवं सति अणुः परमाणुरिति प्रमाणिकव्यवहारानुपपत्तिः, सर्वस्यापि महत्व- arde अणुत्वाश्रयाभावादिति वाच्यम् । अपकर्षानाश्रयमहत्वस्य परममहत्व - शब्दवाच्यत्ववत्, अपकर्षाश्रयमहत्वस्य अणुत्वशब्दवाच्यत्वम् । अत एव महानपि महत्तमादणुरिति व्यवहारः, एवमुत्कर्षानाश्रयमहत्वस्यैव परमाणु- स्वशब्दवाच्यत्वम् । एवं च कपालादिपरिमाणस्य घटादिपरिमाणावधिकाप- कर्पाश्रयत्वात् अणुत्वशब्दवाच्यत्वेऽपि कपालिकादिपरिमाणावधिकोत्कर्षाश्रयव- त्वान्न परमाणुशब्दवाध्यत्वम्, त्र्यणुकपरिमाणस्य तु सकलपरिमाणावधिका- पकर्षाश्रयत्वात् किञ्चित्परिमाणावधिकोत्कर्षानाश्रयत्वाच्च परमाणुत्वशब्दवाच्य त्वम् । तस्मात्परमाण्वादिव्यसहावे प्रमाणाभावात्पूर्वोक्तोत्पत्तिविनाशक्रम- निरूपणमसङ्गतमिति केषाञ्चिन्मतं निरसितुमादौ सङ्क्षेपेण तम्मतमनुवदति । किं पुनरिति । पुनरिति वाक्यालङ्कारे । कि शब्दः प्रमाणशब्दपूर्व योज्यः । परमाणुसद्भावे । परमाण्वादिसद्भावे । आदिना द्व्यणुकपरिग्रहः । प्रमाण- मिति । इति चेदिति शेषः । उच्यते इति । यत्-द्रव्यं । व्यणुकमित्यर्थः । तत् ध्यणुकम् । सावयवम् । अवयवसमवेतमित्यर्थः । चाक्षुषद्रव्यत्वा- दिति । आत्मनि व्यभिचारवारणाय चाक्षुषेति । रूपादौ व्यभिचारवारणाय विशेष्यदलम् । द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषवत्वादिति यावत् । पटवादिति । इत्यनुमानाद्द्द्व्यणुकसिद्धावितिशेषः । सावयव इति । भवयवसमवेत इत्यर्थः । महदारम्भकत्वादिति । महन्निरूपितसम- वायिकारणतावत्वादित्यर्थः । कपालवदिति । कपालवदित्यनुमानेन द्वयणु- कावयवसिद्धाविति शेषः । यो दूधणुकावयव इति । द्व्यणुकावयवत्वेन सिद्धो य इत्यर्थः । स एव परमाणुरिति । स एव परमाणुशब्दवाच्य

[[1]]

१ अत्र परमार स्वीकर्तृणामयमाशयः । अपकृष्टमहत्ववतः पदार्थस्यैव वाह्यप्रत्यक्ष-

टीकात्रयोपेतः

इत्यर्थः । स च नित्य इति । परमाणुर्नित्य एवेत्यर्थः । चोऽवधारणे । तस्याsara araaHाह । तस्यापीति । परमाणोरपीत्यर्थः । कार्यत्वे इति । यणुकावयवाः सावयवाः महदारम्भारम्भकन्वात् कपालिकादित्य- मानेन सावयवेऽनुमिते सतीत्यर्थः । श्रनवस्थाप्रसङ्गादिति । अप्रामाणिका- नन्तावयवधाराकल्पनापत्तेरित्यर्थः । तथा च । अवयवधाराया अनन्तत्वे च । तुल्यपरिमाणापत्तेरिति । परिमाणोत्कर्षापकर्ष प्रयोजिकाया अवयव- सङ्ख्याया उभयत्र समानत्वादितिभावः । प्रलयस्य वैविध्य तयोर्लक्षणं चाह । सर्वकार्यद्रव्यध्वंस इति । कार्यद्रव्यप्रतियोगिका यावन्तो ध्वंसा- स्तावत्समुदाय इत्यर्थः । यद्यपि द्रव्ये कार्यत्वविशेषणमनर्थकं नित्यप्रतियोगिक ध्वंसाप्रसिद्धेः तथापि स्पष्टार्थमेव तदुक्तम् । सर्वभावकार्यध्वंस इति । भावकार्यस्य यावन्तो ध्वंसाः तावत्समुदाय इत्यर्थः ।

[[2]]

दर्शनात् श्रन्वयव्यतिरेकाभ्यां वहिरिन्द्रियजन्यद्रव्यप्रत्यक्षत्वावच्चिन्नं प्रति अपकृष्टमहत्वेन कारणता वाच्या अपकृष्टमद्दत्वं चाऽनेकद्रव्यत्वाधीनम्, अन्यथाऽऽकाशादीनामपि अपकृष्टमहत्ववत्वापत्तेः । अनेकद्रव्यत्वं च समवेतसमवेतत्वसम्बन्धेन अनेकद्रव्यविशिष्टत्वम्, यथा घटे समवेतसमवेतत्व सम्बन्धेन कपालिका त्मकद्रव्यविशिष्टत्वरूपं अनेकद्रव्यत्वम् । पदे चाऽशुङ्कात्मकद्रव्यविशिष्टत्वरूपम् । एवं च त्रसरेणुर्यदि समवेतसमवेतत्व संवन्धेन अनेकद्रव्यवान्न स्यात् तदा अपकृष्टमहान स्यात्, यदि अपकृष्ट महान स्यात्तदा प्रत्यक्ष- विषयो न स्यादित्यनुकूलतर्काभ्यां त्रसरेणोः समवेतसमवेतत्व सम्बन्धेन किञ्चिद्रव्यविशिष्ट- त्वमवश्यमभ्युपेयम् तच तदवयवावयवोभूत किञ्चिद्रव्याऽस्वीकारे, न सम्भवितुमर्हती- ति यसादृशद्रव्यं तदेवाऽस्माभिः परमाणुनाम्ना व्यवहर्त्तव्यमिति ।

,

अथैवमपि श्रवयविनि मानाभावः न चाऽवयविनः परमाणुरूपत्वे घटस्याऽपि नित्यत्वापत्तिः, दएडा दिसामग्र्यपेक्षा च न स्यादिति वाच्यम् । विलक्षणसंयोगविशिष्टानामेव परमाणन घटात्मकतया तादृशसंयोगोत्पत्तौ दण्डादेरुपयोगात् । घट उत्पन्नः, विनष्टः, इत्यादि बुद्धेरपि तादृशसंयोगोत्पाद विनाशाचलंवनत्वादिति चेन्न । परमायोरतीन्द्रियत्वेन तत्समुदायात्मकस्य घटस्य प्रत्यचानुपपत्तेरित्यत्र विस्तरः ।

तर्क - सङ्ग्रहः

[[૧૦]]

शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च । न्या०– आकाशं लक्षयति । शब्दगुणकमिति । अत्र गुणप- दमाकाशे शब्द एव विशेषगुण इति द्योतनाय, न त्वतिव्याप्तिवार- णाय, समवायेन शब्दवत्वमात्रस्यैव सम्यक्त्वात् ।

रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः । बुद्धयादिभावनान्ताश्च शब्दो वैशेषिका गुणाः ।

तच्चैकमिति । श्रनेकत्वे मानाभावादिति भावः । विस्विति सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वम् । मूर्तवं च क्रियावत्वम् । पृथिव्यप्ते- जोवायुमनांसि मूर्तनि । पृथिव्यप्तेजोवाप्याकाशेति पञ्चकं भूतपद- वाच्यम् । भूतत्वं वहिरिन्द्रियग्राह्यविशेषगुणवत्वम् ।

दी० - आकाशं लक्षयति । शब्दगुणकमिति । ननु किं श्रा- काशं पृथिव्यादिवन्नाना, नेत्याह । तच्चैकमिति । भेदे प्रमाणाभा- वादित्यर्थः । एकत्वादेव सर्वत्रोपलब्धेर्विभुत्वमङ्गीकर्त्तव्यमित्याह विविति । सर्वमूर्तसंयोगित्वं विभुत्वम् । मूर्तत्वं परिच्छिन्न परिमा- रणवत्वं क्रियावत्वं वा । विभुत्वादेव आत्मवत् नित्यत्वमित्याह नित्यं चेति ।

गं० - श्राकाशं लक्षयतीति । क्रमप्राप्तमित्यादिः । शब्दगुणक- मिति । शब्दः गुणोयस्य तत्तथा । शब्दस्य द्रव्यत्ववादिनो मीमांसकस्य निरासाय गुणपदम् । द्योतनायेति । तेन आकाशे शब्दोऽष्टद्रव्यातिरिकद्र- व्याश्रितः अष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वादिति परिशेषानुमानरूपं प्रमाणमपि सूचितम् न च विशेव्याऽसिद्धिरिति वाच्यम् । शब्दो द्रव्या- श्रितः गुणत्वाद्रूपवदित्यनुमानेन तन्निरासात् । नह्यत्रापि स्वरूपासिद्धिः शङ्कनीया । शब्दो गुणः चक्षुर्ब्रहणाsयोग्यत्वे सति वहिरिन्द्रियग्राह्य नातिम- त्वात् स्पर्शवदित्यनुमानस्यैव सत्वात् । वहिरिन्द्रियग्राह्यजातिमत्वस्य घटादौ

$

Pr

[[1]]

टोकाश्रयोपेतः

सत्वेन व्यभिचारः स्यादतः सन्यन्तम् । अन एव रसनादिग्रहणाsयोग्यत्वे सतीति नाभिहितम् । उक्तस्थले एवं व्यभिचारात् । आत्मनि व्यभि चारवारणाय विशेष्यदलम् । अत एव बहिः पदमपि । तथा च वहिरिन्द्रिय- जन्य लौकिकप्रत्यक्षविपयतावच्छेदकजातिमत्वादित्यर्थो बोध्यः । तेन नात्मा- st व्यभिचारावयम् । ‘रसचादौ व्यभिचारवारणाय जातिपदोपादानम् । यस्य घटस्य न चापं नृत्तम् अपि तु त्याचमेव तत्र घटे व्यभिचारवारणाय सत्यन्त जन विशेषणम्, धर्मिविशेषणत्वे अतीन्द्रिये द्रव्ये कर्मणि च व्यभिचारापतेः । न च

च वहिरिन्द्रियग्राह्यत्वस्यापि धर्मिविशेषणत्वे नाsयं व्यभिचार इति वाच्यम् । उनघटे व्यभिचारापत्तेः । न च वायोः नाङ्गीन वायुत्वजातेरपि ताडशतया वायौ व्यभिचार इति वाच्यम् । जातौ द्रव्यावृत्तित्वस्य विशेषणीयत्वात् । एतल्लाभायैव वहिरि न्द्रियप्रात्यविशेषणम् । एवं च चाक्षुपनिरूपित लौकिकविपयताशून्यद्रव्या- वृत्तिजातिमन्वादिति हेतुः पर्यवसित इति ध्येयम् ।

नचैवमपि विशेषणाऽसिद्धिरिति वाच्यम् । शब्दोन स्पर्शत्रद्विशेषगुणः अग्निसंयोगाऽसमवायिकारणकत्वाऽभावेऽसति अकारणगुणपूर्वकप्रत्यक्षत्वात् सुखवत् । न दिक्कालमनसां गुणः विशेषगुणत्वाद् * रूपवत् । नात्मविशेष-

१ पृथिव्यप्तेजोवायुसमवेतविशेषगुणत्वाभाववानित्यर्थः । पाकजरूपादौ व्यभि चारवारणाय सत्यन्तम् । श्रपाकजत्वे सतीति तदर्थः । श्रकारणगुणपूर्वकत्वं न प्रत्यक्ष- विशेषणम् प्रत्यचमात्रस्याऽकारणगुणपूर्वकत्वे नाऽव्या वर्त्त कत्वात्, कारणगुणपूर्वक पट- स्वादौ व्यभिचारतादवस्थ्याच्च श्रतो धर्मिविशेषणम्, तथा च श्रकारणगुणपूर्वकत्वे सति प्रत्यचविषयत्वादित्यर्थः । एवं पटरूपादौ श्रकारणगुणपूर्वकत्वाभावान्न व्यभिचारः । स्वसनवायिकारणकारणगुणजन्यत्वं कारणपूर्वकत्वं तदभावोऽकारणगुणपूर्वकत्वमिति । जलपरमाणुरूपादौ व्यभिचारवारणाय प्रत्यक्षेति ।

}

२ रूपादिचतुष्टयशब्दान्यतमत्वादिति यावत् । यथाश्रुते दृष्टान्तपचसाधारण विशेष- गुणत्वस्याभावेऽपि न चतिः !

तर्क-सङ्ग्रहः

પૂર

गुणः वहिरिन्द्रियग्राह्यत्वात् ’ रूपवदित्यनुमानसद्भावात् । एवं च शब्दा- श्रयतया अष्टद्रव्यातिरिक्तं गगनात्मकं द्रव्यं सिद्ध्यतीत्यवधेयम् ।

[[1]]

गं० - किं पृथिव्यादिवन्नानेति । प्रश्नार्थकः किं शब्दः नानेत्युत्तरं यो- व्यः, इति जिज्ञासायामिति शेषः । तथा च पृथिव्यादिचतुष्टयस्य नानात्वसा- धकं प्रमाणं यथा, तथाऽऽकाशस्यापि नानात्वसाधकं प्रमाणमस्ति किमिति जिज्ञासायामिति फलितार्थः । नेत्याहेति । तादृशप्रमाणं नास्तीत्याहेत्यर्थः । मूले । तच्चैकमिति । तदेकमेवेत्यर्थः । यथाश्रुते भनेकत्वाश्रय घटादेरपि प्रत्येक- मेकत्ववत्वादच्यावर्त्तकतापतेः । तथा च शब्दसमानाधिकरणाऽन्योन्याभाव- प्रतियोगितानवच्छेदकैकत्ववदित्यर्थः । फलितार्थमाह । भेदे इति । पर्याप्ति- सम्बन्धेन द्वित्वादिमत्वे इत्यर्थः । एकत्वादेवेति । अध्यर्थकः एवकारः, विभुत्वमित्युत्तरं योज्यः । विभुत्वं निर्वक्ति । सर्वमूर्तेति । ननु सर्वमूर्त- संयोगित्वमित्यस्य सर्वाणि यानि मूर्त्तद्रव्याणि तावत्प्रतियोगिकसंयोगचत्वार्य- कल्वे तावत्प्रतियोगिक संयोगाऽप्रसिद्ध्या असम्भवः, तावतां प्रत्येकप्रतियोगिक- संयोगसमुदायस्वार्थकत्वे घटभूतलसंयोगादेरपि तादृशसंयोगरूपतया तादृशसमुदायवत्वत्याकाशादावभावात्त दोषदादवस्थ्यम् एवमुत्पन्नविनष्ट- वृथिव्यादेरपि मूर्त्तत्वजात्याश्रयत्वेन मूर्त्तान्तर्गततया तव्प्रतियोगिकसंयोग- स्याऽप्रसिद्धत्वेन तद्द्घटितसमुदायवत्वाभावाच्चेति चेन्न । सर्वमूर्त्तसंयोगी- त्यनेन गगनाद्यसंयुक्तमूर्त नास्तीत्यर्थी लभ्यते, एवं च स्वाऽसंयुक्तमूर्त्तकं यद्यत्स्वं तत्तद्व्यतित्वावच्छिन्नप्रतियोगिताक भेदकूटवत्वं लक्षणं फलितम्,

शब्दो विशेषगुणः लौकिकप्रत्यासत्त्या इन्द्रियग्राह्यत्वे सति लौकिकप्रत्यासत्या विजातीय- द्वी न्द्रियग्रहण योग्यताराहित्ये च सति गुणत्वव्याप्यजातिमत्वादित्यनुमानस्यैव शब्दस्य विशेषगुणत्वे प्रमाणत्वादिति ध्येयम् ।

१ मनोभिनेन्द्रियं वहिरिन्द्रियम् तथा च मनो भिन्नेन्द्रियर्जन्यज्ञाननिरूपितलौ- किक विपयताश्रयगुणविमाजकधर्मवत्वादिति वहिरिन्द्रियग्राह्यत्वादित्यस्यार्थो बोध्यः । तेनाद्यशब्दस्य लौकिकविषयताशून्यत्वेऽपि न भागासिद्धिः । .

५.३

ataraयोपेतः

अत्र गगनाद्यसंयुक्तमूर्त्ताऽप्रसिद्ध्या स्वपदेन गगनाद्युपादानाऽसम्भवालक्षण- समन्वयः । एवं च तादृशभेदकविशिष्टद्रव्यत्वमेव वित्वं फलितम् तेन रूपादेः संयोगाऽप्रसिदवा स्वपदेन रूपादेरुपादानाऽसम्भवेपि न तत्राति- व्याप्तिः ।

प्रसङ्गसङ्गत्या मूर्त्तस्यापि लक्षणमाह । परिच्छिन्नपरिमाणवत्वमिति । परिच्छिन्न च परममहत्परिमाणभिन्नत्वम्, नत्वपकर्षाश्रयत्वम्, परमाणु- परिमाणस्य कुतोप्यपकर्षानाश्रयत्वेन परमाणावव्याप्तेः । लाघवालक्षणान्तर- माह । क्रियावत्वं वेति । कियावद्वृत्तिगगनाऽसमवेतजातिमत्वमिति तदर्थः । तेनोत्पन्नविनष्टघटादौ नान्याप्तिरिति ध्येयम् । बहिरिन्द्रियग्राह्य विशेष गुणवत्व- मिति । मनसोऽन्यदिन्द्रियं वहिरिन्द्रियम्, तद्ग्राह्या ये विशेषगुणास्तद्वत्व- मित्यर्थः बहिरिन्द्रियजन्य प्रत्यक्षीयलौकिकसन्निकर्षप्रयोज्यविपयतावच्छेदक- विशेषगुणत्वाश्रयवत्वमिति यावत् । तेन परमाणौ, ज्ञातोघटइति प्रत्यक्षीयाs- लौकिकसन्निकर्षविषयताश्रयज्ञानवत्वमादायाऽऽत्मनि च नाव्याप्यतिव्याप्ती । विभु नित्यं चेति मूलेन यतो विभु तत एव नित्यमिति अभिप्राय प्रकाश- यति । विभुत्वादेवेति । विभुस्वलिङ्गादेवेत्यर्थः । श्रात्मवन्नित्यमित्या- हेति । तथाerssari नित्यं विभुत्वाद् भात्मवदित्यनुमानादाकाशस्य नित्यत्वसिद्धिरिति भावः । इदमुपलक्षणम् । आकाशस्य नित्यत्वे लाघवमिति लाघवज्ञान सहकारादपि नित्यत्वं सिद्धयतीति ।

अतीतादिव्यवहार हेतुः कालः । स चैको विभु-

नित्यश्च ।

न्या०

-कालं लक्षयति । अतीतेति । व्यवहारहेतुत्वस्य लक्षणत्वे घट इति व्यवहारहेतुभूतघटादावतिव्याप्तिः । तद्वारणायाऽतीवादीति विशेषणोपादानम् ।

तर्क - सङ्ग्रहः

પૂ

दो० — कालं लक्षयति । प्रतीतेति । सर्वाधारः कालः, सर्व- कार्ये निमित्तकारणं च ।

[[5]]

गं०- कालं लक्षयतीति । कालविशेष्यकलक्षणस्वरूपप्रामाण्यप्रकार- कज्ञानाकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । मूले श्रतीता- दीति । आदिना वर्तमानत्वभविष्यत्वयोः परिग्रहः । अतीतः आदियेषां ते अतीतादयः तेषां व्यवहारः शब्दप्रयोगः तस्य हेतुः कारणमित्यर्थः । अतीतः वर्त्तमानः भविष्यन्निति शब्दप्रयोगे कालः कारणम् । व्यवहारे व्यवहर्त्तव्य साव- च्छेदकस्य कारणत्वम् । यथा घट इति शब्दप्रयोगे घटो व्यवहर्त्तव्यः, घटत्वं व्यवहर्त्तव्यतावच्छेदकम् । तस्य घटशब्दप्रयोगे कारणत्वम् । प्रकृते चाऽतीतः अतीतकालवान्, वर्तमानः वर्तमानकालवान्, भविष्यन् भविष्यत्कालवानि- त्यर्थः । एवं चातीतशब्दप्रयोगे अतीतकालवान् व्यवहर्त्तव्यः, व्यवहर्त्तव्यता- वच्छेदकं चातीतकालवत्वम्, तथाsतीतकाल एव एवं वर्त्तमानादिस्थ- लेsपि बोध्यम् । तथा चाऽतीतादिव्यवहारकारणत्वस्य काले सत्वालक्षणसम- न्ययः । वर्धमानत्वं च शब्दप्रयोगाधिकरणकालवृत्तित्वम् । प्रारब्धापरिसमा- प्युपलक्षितकालव्यमिति यावत् । अतीतत्वं च वर्तमानध्वंसप्रतियोगित्वम् । भविष्यत्वं च वर्तमान का छवृत्तिप्रागभाव प्रतियोगित्वम् । सर्वाधार इति । कालिक- सम्बन्धेनेत्यादिः । सर्वपदार्थनिष्टकालिक सम्बन्धावच्छिन्ना ध्येयतानिरूपिताऽधि- करणतावत्वमित्यर्थः । एतादृशाधिकरणतावत्ता च महाकालस्यैव नतु क्रिया- त्मकखण्डकालरय, विभिन्नकालीनयोः विषयतावि षयितान्यसम्बन्धेन आधारा- धेयभाव विरहादितिध्येयम् । सर्वकार्ये इति । कालिक सम्बन्धावच्छिन्न कार्य- तानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वमित्वर्थः । मूले । सचैक इति ।

[[2]]

१ कार्यमात्रं प्रति कालस्य समवायिकारणत्वाभावेन द्रव्यतयाऽसमवायिकारणत्वा- भावेन च परिशेषानिमित्तकारणत्वमित्यर्थः । नच स्वरुमवेतद्वित्वथवत्वादिकं प्रति कालस्य समवायिकारणत्वात्सर्व कार्य प्रतीत्यसङ्गतिरिति वाच्यम् । कालिक सम्बन्धेन निमित्तकारणत्वादिति ध्येयम् ।

[[૫]]

टीकrत्रयोपेतः

अनेकवे मानाभावात् । ननु यदि एक एव कालः तदा क्षणघटिकामुहूर्त- महरदिन पक्षमासादिव्यहारः कथमुपपद्यते । एकस्मिन् विरुद्ध नानाव्यवहार- forearभावादिति । एकस्यैव कालस्य उपाधिविशिष्टस्य क्षणत्वम्, एवं क्षणसमुदायस्य मूहूर्त्तत्वम् । मुहूर्तसमुदायस्य दिनत्वमिति रीत्या बोध्यम् । क्षणत्रव्यवहार नियामकोपाधयस्तु स्वजन्यविभागप्रागभावावच्छिन्नं कर्म पूर्व- संयोगावच्छितविभागः । पूर्वसंयोगनाशावच्छितो तर सयोगप्रागभावः ।

उत्तरसंयोगा

कर्म इति ।

[ यथाहि । आदौ क्रिया- ततो विभागः ततः पूर्वसंयोगनाशः तत उत्तर देश- संयोगः इति चत्वारः क्षणाः सन्ति । तत्र क्रियोत्पत्तिक्षणे क्षणत्वनियाम- कोपाधिरन्ति, स च स्वजन्यविभागप्रागभाववच्छिन्नं कर्मेति । स्वं क्रिया तज्जन्यो यो विभागः तस्य प्रागभावः क्रियोत्पत्तिक्षणे इति । विभागक्षणे क्षणत्व- व्यवहारनियामकोपाधिन्तु पूर्वसंयोगावच्छिन्नविभागः । स्वजन्यविभागनाश्य- पूर्वयोगविशिष्टविभाग इति यावत् तादृशविभागावच्छिन्नं स्वमित्यर्थः । पूर्वसंयोगस्य तृतीयक्षणे नाशाद् द्वितीयक्षणे पूर्वसंयोगविशिष्टविभागोऽस्ये- वेति । द्वितीयक्षणे क्षणवनियामकीयमुपाधिः । नच प्रथमक्षणे क्षणत्वनिया मकोपाधिरत्राऽप्यस्तु किमुपाध्यन्तरेणेति वाच्यम् । प्रतिक्षणं क्रियोत्पत्तौ मानानावादिति । एवं तृतीयक्षणे चतुर्थक्षणे व बोध्यम् । एवं पञ्चमादिक्षणेष्वपि क्रियाविभागन्यायेन क्षणत्वं वेदितव्यम् । महाप्रलये क्रियाया अभावेऽपि स्व- वृत्तिध्वंसप्रतियोगिप्रतियोगिकयावध्वंस विशिष्टसमयस्यैव क्षणव्यवहारवि- विषयत्वमिति ध्येयम् 1 ]

इदमत्रावधेयम् इदानीं घटः तदानीं घट, इत्यादिप्रतीतौ न महाकालो विषयः, इदानीं घटो न तदानीमिति प्रत्ययानुपपत्तेः । एवं च इदानीं घट इत्यादिप्रतीतेः तत्तत्क्रियाविशिष्टो वट इत्याकारकत्वमेव स्वीकार्यम् । तकि- यापदेन सूर्यपरिस्पन्द एव ग्राह्यः । न च सूर्यपरिस्पन्देन सह घटादेः साक्षात्संवन्धः, तस्य सूर्ये एव समवेतत्वात् । अतस्तस्य घटादिना परम्परा- सम्बन्धो वाच्यः, स च सम्बन्धः स्वाश्रयतपन संयोगि संयुक्तत्वरूपः । स्वन्तर्क - सङ्ग्रहः

પૂ

परिस्पन्दः । एवं स तत्सम्बन्धकतया कालः कल्पनीयः । तथा च इदानीं घट इत्याकारक सूर्य परिस्पन्दयकारकवटविशेप्यकप्रतीतिः परम्परासं- बन्धविषया साक्षात्सन्न्याभावे सति विशिष्टबुद्धित्वादित्यनुमानं फलितम् । एवं कालिकपरत्वापरत्वे साऽसमवायिकारण के भावकार्यत्वाद् घटरूपवदित्यनु- मानमपिबोध्यम् ज्येष्ठकनिष्ट च कालिकपरत्वापरत्वरूपे एव । तयोरस- वायिकारणं च कापिण्डसंयोग एव । समवायिकारणन्तु पिण्ड एवेति ध्येयम् ।

प्राच्यादिव्यवहारहेतुर्दिक । सा चैका नित्या विभ्वी च ।

न्या०-दिशो लक्षणमाह । प्राच्येति । उदयाचलसन्निहिता या दिक् सा प्राची । अस्ताचलसन्निहिता या दिक् सा प्रतीची । मेरोः सन्निहिता या दिक सोदीची । मेरोर्व्यवहिता या दिकू साऽवाची । दी० - दिशो लक्षणमाह । प्राचीति । दिगपि कार्यमात्रे निमि-

तकारणम् ।

गं० – दिशो लक्षणमाहेति । क्रमप्राप्ताया इत्यादिः । दिग्विशेष्यकलक्ष- प्रकारकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । मूले । प्राच्यादीति प्राची आदिर्येषां ते प्राध्यादयः तेषां व्यवहारः प्राच्यादि- विषयक ज्ञानजनकशब्दप्रयोगः तस्य हेतुः निमित्तकारणमित्यर्थः । आदिना प्रतीच्यादिपरिग्रहः । प्रयागः प्राच्य इत्यत्र प्राध्यः - प्राग्दिग्वानित्यर्थः । तथा च प्रायशब्दप्रयोगे प्राग्दिग्वान् व्यवहर्त्तव्यः, व्यवहर्तव्यतावच्छेदकं प्राग्दि- ग्वत्वम्, प्रादिगेव । एवं च प्राच्यशब्दप्रयोगे प्राची दिक्कारणम्, व्यवहारे

१ प्राच्यादिरितिव्यवहार इति विग्रहे प्राची प्रतीचीत्याद्याकारकशब्दप्रयोग इत्यथ- पि बोध्यः ।

[[५७]]

टीकाप्रयोपेतः

व्यवहर्तव्यतावच्छेदकस्य कारणत्वालक्षणसमन्वयः । प्रकृतग्रन्थस्वर संवलितस्यैव पाठस्य धर्तुमुचितत्वादाह । प्राब्येतीति । तस्याप्रयोजकत्वे तु उक्तम्, दीपिकायां प्राचीतीति । मूले । सा चैकेति । सादिक एका । अनेकत्वे मानाभावादित्यर्थः । दिश एकत्वे ऽपि प्राच्यादिसञ्ज्ञाभेदस्तु उपाधिभेदनिबन्धन इत्याशयः । प्राच्यादिसञ्ज्ञासु निमित्तभूतानुपाधीनाह । उदयाचलसन्नि- हितेति । यदपेक्षया उदयगिरिसन्निहितं यन्मूर्त तदवच्छिन्ना दिक् सा ततः प्राचीत्यर्थः । यदपेक्षया उदयगिरिसन्निहितत्वं व तन्निष्ठोदय गिरिसंयुक्तसंयो- गापेक्षयाऽल्पतरो दर्यागिरिसंयुक्तसंयोगवत्वम् । तथा च प्रयागात् प्राच्यां काशी इत्यत्र प्रयागनिष्ठोदय गिरिसंयुक्तसंयोगपर्याप्तसङ्ख्याव्याप्यसङ्ख्यापर्या- त्यधिकरणोदयगिरिसंयुक्तसंयोगवन्मूर्त्तवृत्तिः काशीति बोधः । एवं काशी- तः प्रतीच्यां प्रयाग इत्यत्र काशीनिष्ठोदयगिरिसंयुक्तसंयोग पर्याप्त सङ्ख्या- व्यापकसङ्ख्या पर्याप्त्यधिकरणोदयगिरसंयुक्तसंयोगवन्मूर्चवृत्तिः प्रयाग इति बोधः । अनयैवरीत्या मेरुसन्निहितत्व- मेरुव्यवहितत्वोपपादनीये । अस्ताचल- सन्निहितेति । यदपेक्षया अस्ताचलसन्निहितं यन्मूर्त्त तदवच्छिन्ना दिकू सा ततः प्रतीत्यर्थः । यदपेक्षया मेरुसन्निहितं यन्मूत्तं तदवच्छिन्ना दिक सा ततः उदीची । मेरोर्व्यवहितेति । यदपेक्षया सुमेरुव्यवहितं यन्मूर्त तदवच्छिन्ना दिक् सा ततो दक्षिणेत्यर्थः । लक्षणान्तरमाह । दीपिकायाम् । कार्यमात्रे इति । दैशिकविशेषणतासम्बन्धावच्छिन्न कार्यतानिरूपिततादात्म्य- सम्बन्धावच्छिन्नकारणत्वं दिशोलक्षणमित्यर्थः ।

गं०– एवं दिक् सर्णवतो त्यादिप्रतीत्या दैशिकसम्बन्धावच्छिन्नाधेयता- निरूपिताऽधिकरणतावत्वमपि लक्षणं बोध्यम् । दैशिकपरत्वापरत्वे सा- समवायिकारणके भावकार्यत्वादित्यनुमानेन दैशिकपरत्वापरत्वयोरसम- वायिकारणं दिपिण्डसंयोगः, तदाश्रयतया दिक् सिद्धिर्बोध्या । परत्वम्, दूरत्वम् । अपरत्वमन्तिकत्वम् । अपरत्वबुद्धिस्तु काशीतः कुरुक्षेत्रमपेक्ष्य प्रयागोऽपरः इति । परत्वबुद्धिस्तु पाटलिपुत्रात् काशीमपेक्ष्य प्रयागः पर इति ।

तर्क-सङ्ग्रहः

ज्ञानाधिकरणमात्मा

न्या० - आत्मानं निरूपयति । ज्ञानाधिकरणमिति । अधिक रणपदं समवायेन ज्ञानाश्रयत्वलाभार्थम् ।

दी० - श्रात्मनो लक्षणमाह । ज्ञानेति ।

गं०— आत्मानं निरूपयतीति । हितीयाथों विषयत्वम्, तस्य निपूर्व- करूपधात्वथैकदेशे ज्ञानेऽन्वयः । निपूर्वकरूपधात्वर्यश्च निरूपणम्, तच्च ज्ञानानुकूलो व्यापारः स च शब्दात्मकः । आख्यातार्थः कृतिः । तथाचाss- त्मविषयक ज्ञानानुकूलव्यापारानुकूलकृतिमान् मूलकार इति बोधः । दीपिका । आमनो लक्षणमाहेति । आत्मविशेष्यकलक्षणप्रकारकज्ञानानुकूलव्यापारानु- कूळ कृतिमान मूलकार इति बोधः । ज्ञानवत्वमात्रस्य लक्षणत्वं घटादिविषय- मात्रेऽतिव्याप्तिः, ज्ञानस्य विषयतासम्बन्धेन विषयमात्रे सत्वात् अत उक्तम् । अधिकरणपदमिति । यद्यपि विषयताया वृपनियामकत्वेन ज्ञानाधिक- रणत्वविरहादतिव्याप्तिवारकमेवाधिकरणपदम् तथापि कालिकसम्बन्धेन ज्ञान- वस्त्रमादाय कालेsतिव्याप्तिवारणाय समवायसम्बन्धनिवेशस्यावश्यकतया तल्लाभार्थमेवाधिकरणपदमित्याशयः । ज्ञानस्याऽधिकरणं ज्ञानाधिकरणम् । तथाच ज्ञाननिष्ठाधेयतानिरूपिताधिकरणतावत्वमात्मनोलक्षणमित्यर्थः । इद- मुपलक्षणम् आत्मत्वजातिमत्वमप्यात्मनो लक्षणम् । आत्मत्यजातिसिद्धिस्तु सुखादिसमवायिकारणतावच्छेदकतया बोध्या । सा जातिरीश्वरेऽप्यस्ति, शरीरादिरूपकारणान्तरविरहेणैव सुखाद्युत्पादनासम्भवात् । वस्तुतस्तु आ- त्मपदशक्यतावच्छेदक नया आत्मत्वजातिसिद्धिः । असति वाधके शक्यता - वच्छेदकतया जातिसिद्धेः सर्वानुमतत्वात् । ननु आत्मनि प्रमाणाभावात् लक्षणाभिधानमयुक्तमिति चेत्र । अहं सुखी अहं जानामीत्यादिप्रतीच्या प्रत्यक्षसिद्धत्वात् । इन्द्रियाणि सकस काणि “फलोपधानात्मक कारणत्वघ- दिल” करणत्वात् “छेदनफलोपधायक” वास्यादिवदित्यनुमानाच्चात्मसिद्धः । यद्यपि परात्मनः तद्गतसुखादेश्व प्रत्यक्षवारणाय परात्मव्यावृत्तविजातीयाऽऽ•

પૂ

टीकात्रयोपेतः

त्ममनः संयोगस्य कारणतया न परात्मनः प्रत्यक्षविषयता, तथापि समवायेन चेष्टां प्रति अवच्छेदकतासम्बन्धेन कृतेः कारणतया, परशरीरे च प्रत्यक्ष सि. दया चेष्टया कृतिरनुमेया, तया च परात्मनोनुमेयत्वमस्त्येव अनुमान- प्रकारश्च चेष्टा प्रत्यनजन्या चेष्टात्वात् मदीयचेष्टावत् तत्प्रयतं क्वचिद्द्रव्य- समवेतं गुणत्वाद्रूपवदिति । एवं सर्वे एव श्रात्मानः समर्पिता इत्यादिश्रुतिसिद्धत्वं च । ईश्वरसाधकानुमानन्तु स्वयमेव वक्ष्यति । एव- मात्मा वा श्ररे द्रष्टव्यः श्रोतन्य इत्यादि श्रुतयोपीश्वरसाधिकाः, तस्मादात्मसामान्यं प्रमाणसिद्धमिति ध्येयम् ।

स द्विविधः । परमात्मा जीवात्मा चेति । दी० - श्रात्मानं विभजते । स द्विविध इति ।

गं०– श्रात्मानं विभजते इति । आत्मत्वावच्छिन्न विशेष्यकाऽऽत्म- त्वावान्तरधर्मप्रकारकज्ञानानुकूल व्यापारानुकूलकृतिमान् मूलकार इति बोधः । सः । आत्मा । द्विविध इति । धर्मद्वयाऽन्यतरवानित्यर्थः । धर्मद्वयमाह । परमात्मेति । भावप्रधानो निर्देशः तेन परमात्मत्वं जीवात्मत्वं चेत्यर्थः । ननु परमात्मजीवात्मनोरभेदाद्विभागोऽनुपपन्न इति चेन्न । वक्ष्यमाणयुक्त्या जीवानां परस्परं भिन्नत्वेन सुतरां ईश्वरभेदोऽगीकर्त्तव्यः, एकत्वाऽनेकत्वयो- विरोधात् । एकमेवाद्वितीयं ब्रह्मेत्यादिश्रुतिविरोधाच्च । एवमीश्वरस्य जीवात्मकत्वे बन्धमोक्षव्यवस्थानुपपत्तिश्च स्यात् । ईश्वरे बन्धमोक्षयोरभावात्, चैत्रमैत्रात्मनोरीश्वर रूपयोरैक्यात् । जीवात्मनामेकत्वेऽपि एतदोषोदुर्वार एवे- ति तेषां परस्परं भेदः स्वीकार्य एव । न च तत्तदन्तःकरणरूपोपाधिभेदात्, तदुपाधिनाशे मुकश्वव्यवहारः, यदन्तःकरणस्य न नाशः, तदवच्छिन्नात्मनो वद्धत्वव्यवहार इति “आत्मन एकत्वेऽपि " नानुपपत्तिर्व्यवस्थाया इति वाच्यम् । एवमपि मुक्त्यर्थं प्रयज्ञानुष्ठाननिष्फलत्वापत्तेः । एतदन्तःकरणनाशेऽपि अन्तः करण्णान्तरावच्छिनत्वस्य स्वात्मनि अव्याहतत्वेन दुःखोत्पत्तेरावश्यकतया नि- दुःखत्वासम्भवादिति सङ्क्षेपः ।

तर्क - सङ्ग्रहः

नत्रेश्वरः सर्वज्ञः परमात्मा एक एव ।

[[६०]]

दी० परमात्मनो लक्षणमाह । तत्रेति । नित्य ज्ञानाधिकरणत्वं ईश्वरत्वम् ।

गं०- परमात्मनो लक्षणमाहेति । परमात्मविशेष्यकलक्षण प्रकारकज्ञाका- नुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । मूले । तत्र । परमा- स्मजीवात्मनोर्मध्ये । सर्वज्ञः सर्व जानातीति सर्वज्ञः सर्वविषयकज्ञान- वानित्यर्थः । ईश्वरः- सृष्टिस्थितिसंहारकर्त्ता इत्यर्थः । स एव परमात्मा । स एक एवेत्यन्वयः । ननु सर्वविपयकज्ञानवत्वस्य लक्षणत्वे योगिवतिव्याप्ति- रित्यत आह । नित्यज्ञानाधिकरणत्वमिति । समवायेन नित्यज्ञानवत्वमि- त्यर्थः । नन्वेवं ’ नित्यं विज्ञानमानन्दं ब्रह्म” इति श्रुतिविरोधः, तया ईश्वरस्य विज्ञानाद्यभिनत्वप्रतिपादनादिति चेन्न । अधिकरणार्थ कल्युड़न्तविज्ञा- नपदेन विज्ञानाश्रयत्ववोधनेन श्रुतिविरोधाभावात् । तादृशश्रुतिवटकविज्ञान- पदस्य भावार्थकल्युड़न्तत्वे “यः सर्वज्ञ सर्वविदित्यादि” श्रुतिविरोधा- पत्तेः । एवमानन्दमित्यस्याऽपि आनन्दवदित्यर्थः अर्शादित्वेन मत्वर्थीयाऽप्र त्ययात् । सुखार्थकाऽऽनन्दशब्दस्य पुंल्लिङ्गत्वनियमेन नपुंसकत्वानुपपतेः । आनन्दशब्दस्याऽपि दुःखाभावे लक्षणा, तेन दुःखाभाववदित्यर्थः । नवीनास्तु नित्यसुखवस्वमपि लक्षणं स्वीकुर्वन्ति । नन्वेवमीश्वरीयचिकीर्षाया अपि नित्य- स्वाप्रलयानुपपत्तिरिति चेन्न । तस्याः प्राप्यदृष्टोपाधिकत्वेन प्रलयोपपचेरित्य- न्यत्र विस्तरः ।

दी० - ननु ईश्वरसद्भावे किं प्रमाणम् । न तावत्प्रत्यक्षम् । वद्धि वाह्यम्, आभ्यन्तरं वा । नाद्यः, अरूपिद्रव्यत्वात् । नान्त्यः,

१ सर्वशत्वं च धर्मावच्छिन्ननिरूपकताक विषयितात्वव्यापकज्ञानवत्थम् । व्यापकत्वं व स्वीयविषयित्रानिरूपकतावच्छेदकधर्मावच्छिन्न निरूप कताकत्व सम्बन्धेनेति । एतेन सर्व मित्याकारक पूर्व विषयक ज्ञानवतोऽपि सर्वज्ञत्वापत्तिरितिसमाहितम् ।

[[६१]]

टीकात्रयोपेतः

श्रात्मसुखादिव्यतिरिक्तत्वात् । नाप्यनुमानम्, लिङ्गाभावात् । नाड- प्यागमः, तथाविधाऽऽगमाभावादिति चेन्न ।

गं० – इदानीं प्रसङ्गसङ्गत्या निरीश्वरवादिनं निराकर्तुमादौ तन्मतमुप- न्यस्यति । नन्विति । विप्रतिपत्तिस्तु क्षितिः सकन्त का नवेत्याकारिका बोध्या । ईश्वरसद्भावे इति । किं प्रमाणमिति । न किमपि प्रमाणमि- त्यर्थः । तथा च भवन्मतसिद्ध ईश्वरः प्रमाणसामान्याभावगम्यः प्रत्यक्षादि- प्रमाणविशेषगस्यत्वाभावकूटवत्वात् यन्नैवं तन्नैवं यथा घटः इति फलितम् । अन्न कूटघटक प्रत्येकाभावं साधयति । न तावत् प्रत्यक्षमिति । तत् प्रत्यक्षं वाह्यं । मानसान्यप्रत्यक्षनिरूपितलौकिक विषयतारूपम् । श्राभ्यन्तरम् । मानसनिरूपितलौकिक विषयत्वरूपम् ॥ नाद्य इति । मानसान्यप्रत्यक्षनि- रूपितलौकिक विषयतावान् इत्यर्थः । श्ररूपिद्रव्यत्वादिति । बाह्यप्रत्यक्षं प्रति उद्भूतरूपस्य हेतुत्वादिति भावः । न द्वितीय इति । न मानसनिरूपि- तलौकिकविषयतावानित्यर्थः । श्रात्मसुखादीति । स्वात्मभिन्नद्रव्यत्वादि- त्यर्थः । परात्मनः परेण मनसा प्रत्यक्षवारणायाऽऽत्मप्रत्यक्षं प्रति विजातीया- त्ममनः संयोगत्वेन हेतुत्वस्यावश्यकतया ईश्वरे तस्याभावादिति यावत् नाप्यनुमानमिति । अपि शब्दः प्रत्यक्षसमुञ्चायकः । यथा ईश्वरे प्रत्यक्षं न प्रमाणं तथाऽनुमानमपीत्यर्थः । ईश्वरः अनुमानप्रमाणगम्यत्वाभाववान् इति फलितार्थः । लिङ्गाभावादिति । तद्व्याप्यलिङ्गाभावादित्यर्थः । तथा च यत्र यद्व्याप्यलिङ्ग प्रसिद्धं तत्र तदनुमेयम्, यथा वन्हिव्याप्य धूमात्मकलिङ्ग प्रसिद्धं तत्र वह्निरनुमेयः, प्रकृते ईश्वरव्याप्यलिङ्गस्य क्वाप्यनिर्णयेन ईश्वरो न कुत्राप्यनुमातुं योग्य इत्याशयः । उपमानस्य शक्तिमात्रसाधकत्वेन तन्निराकरणं न कृतमिति ध्येयम् । नाप्यागम इति । आगमः ईश्वरसाधको- नेत्यर्थः । तत्र हेतुमाह तथाविधेति । श्रतेनिर्णीतप्रामाण्यकत्वाभावादिति यावत् । यथाश्रुते ईश्वरप्रतिपादकाऽनेकश्रुतिसत्वादसङ्गत्यापचेः । तथा च ईश्वराचरितत्वेनैव श्रुतिप्रामाण्यस्य वक्तव्यतया ईश्वरसन्देहे श्रुतेरपि सन्दि-

तर्क -

सङ्ग्रहः

[[६२]]

स्वप्रामाण्यकत्वेन निर्णीतप्रामाण्य कत्वरूप लिङ्ग निर्णयाभावेन श्रुतेरीश्वरसा- वकत्वाभावादिति भावः ।

दी० – क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वाद् घटवदित्यनुमानस्य प्रमाणत्वात् ।

गं०– ईश्वरव्याप्यलिङ्गाभावेऽपि परम्परया ईश्वरसाधनं सम्भवती- त्याशयेन समाधत्ते । क्षित्यङ्कुरादिकमिति ।

अत्र क्षितिस्वसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वेन दृष्टान्ते घटादौ अंशतः सिद्धसाधनम् । अवच्छेदावच्छेदेन तथात्वे सामानाधिकरण्येन सिद्धेरप्रतिबन्धकतया सिद्धसाधनाभावेऽपि परमाणौ वाधः, जन्यक्षिति- स्वस्य पक्षतावच्छेदकत्वे परमते जन्यपदव्यावृत्यसिद्धिः, तन्मतेऽजन्य क्षिते - रभावात् जन्यत्वस्यैव तथात्वसम्भवेन पचतावच्छेदककोटौ क्षितित्वस्य व्यर्थ- त्वाच्चेत्यत उकम् । अङ्कुरेति । तथा च काप्यङ्कुरेजीवीयकृतिसाध्यत्वाभावेन नांशतः सिद्धसाधनम्, न वा वाधो, नित्याकुरस्याऽभावादिति भावः ।

ननु कार्यत्वमस्तु कत्त जन्यत्वं मास्तु इति व्यभिचारशङ्कायां कसन कार्यत्वेन कार्यकारणभाव एवाऽनुकूलस्तक वाच्यः " स च कार्यत्वं यदि कत्तु जन्यत्वव्यभिचारिस्यात्तदा कर्त्ती जन्यतावच्छेदकं न स्यादित्याकारकः " स च न प्रमाणसिद्धः । तन्तुवायकृतिकाले घटापत्तिवारणाय कुला उकृतित्वेन टम्वेन कार्यकारणभावस्यावश्यकत्वेन सामान्यतः कत्तत्वेन कार्यत्वेन कार्यकारणभावे मानाभावात् । न च यद्विशेषयोः कार्यकारणभावः असति- वाधके त सामान्ययोरपीति नियम एव मानमिति वाच्यम् । तस्याप्यप्रयोज- कत्वात् । न च कार्यसामान्याऽभावे “कुलालादि” कभावकूटस्य प्रयोज करवे गौरवान्

कर्तृवावच्छिन्नाभावस्यैकस्यैव तथात्वे लाघवम्, तच्च कत्त त्वस्य कारणतावच्छेदकस्वमन्तरा न सम्भवति कारणतावच्छेदकधर्मा- वच्छिना भावस्यैव कार्याभाव प्रयोजकस्यात् । एवं च लाघवमूलक एव यद्विशेशयोरिति न्यायइति वाच्यम् । कारणतावच्छेदकावच्छिन्ना भावस्यापि

[[६३]]

[[1]]

etaraयोपेतः

orate startयोजकत्वं च स्वरूपसम्बन्धरूपम्, एवं च लाघवादेव कारणनानवच्छेदकत्त स्वावच्छिन्नप्रतियोगिता का भावस्य कार्याभावप्रयो- जकन्वम्, कर्नत्वेन कार्यत्वेन कार्यकारण भावमन्तराऽपि सुवचमित्यत उक्तम् । श्रादीति । आदिना समकालीनवडे खण्डवटे वा कर्त्ती जन्यत्वस्य साध- नीयत्वात् । एवं शानुमानेन घट-वेन कुलालत्वेन कार्यकारणभावानुकूल- वहः । नचैवमीश्वरस्य कुलालत्वापत्तिः । इष्टत्वादिति । वस्तुतस्तु चत्य कार्यानुत्पत्तौ प्रयोजकन्यं कल्प्यते तदभावस्य कारमेव । कारणत्वं च कार्यानात्रप्रयोजकीभूताभावप्रति- योगित्वम् । सामान्यतः कभावस्य " कृत्यभावस्य वा " कार्यानुत्पत्तौ प्रयो- जकत्वेन सम्मतियोगिनः कर्त्त सामान्यस्य कार्यमात्रं प्रति कारणत्वमावश्य- कमेव । अन्यथा त्वावच्छिन्नं प्रति कुलालवेनापि कारणता न स्यात् । नवच्छिन्नं प्रति तत्तत्कुलालत्वेन कारणत्वस्यावश्यकतया सामान्य- कार्यकारणभावमात्रोच्छेदप्रसङ्गात् । अतो यद्विशेषयोरिति न्याय आवश्यकः । एवं च कार्य पक्षः, अत्रच्छेदावच्छेदेन साध्यसिद्धेरुद्देश्यता तो न सिद्ध- साधनमितिध्येयम् ।

दी० - उपादानगोचर ऽपरोक्षज्ञानचिकीर्षाकृतिमत्वं कत्तृत्वम उपादानं समवायिकारणम् । सकलपरमाण्वादिसूक्ष्मदर्शित्वात् सर्व- ज्ञत्वम् । यः सर्वज्ञः स सर्वविदित्यागमोऽपि तत्र प्रमाणम् ।

गं० – उपादानगोचरेति । उपादानविषयकेत्यर्थः । एतस्याऽपरोक्ष- ज्ञानचिकीर्षाकृति प्रत्येकमन्त्रयः । उपादानपदार्थमाह । उपादानमिति । एवं च कार्यमात्रे उपादानगोचराऽपरोक्षज्ञानजन्यत्वम् तादृशचिकीर्षा- जन्यत्वम् – तादृशकृतिमज्जन्यत्वमव्याहतमेवेति । तादृशज्ञानेच्छाकृतीनामेक- त्वे नित्यत्वे च लाघवमितिरीत्या तासामेकत्वनित्यत्वे बोध्ये । एवं च तादृश- कृतिर्ब्रव्याश्रिता गुणत्वाद्रूपवदित्यनुमानेनेश्वर सिद्धिर्बोध्या । निरुक्तानुमानेने- श्वरसिद्ध अर्थात्सर्वज्ञत्वमतिसिदयतीत्याह । सकलेति । द्वयणुकोपादान-

तर्क-सङ्ग्रहः

६४.

सकलपरमाणुविषयकप्रत्यक्षवस्वान, ध्यणुकोपादानस कलहयणुकोपादानविष- प्रत्यक्षत्वाचेत्यर्थः । अतीन्द्रियमृक्ष्मपदार्थविषयकप्रत्यक्षवतः स्थूलपदा- foresप्रत्यक्षाश्रयन्यं कैमुतिकन्यायसिद्धमिति तस्य सर्वज्ञवमर्थात्सिन्द- मित्यर्थः सर्वविदिति । विशेषरूपेणज्ञानवानित्यर्थः । तत्र । ईश्वरे –तस्य- सर्वज्ञत्वे चेत्यर्थः ।

णातू

" इदमप्रबोध्यम् । उपादानगोचरेत्यादिसाध्यम् । अत्र कार्यमात्रे उपा- दाritersपरोक्षज्ञानादीनां त्रयाणामेवाऽन्वयव्यतिरेकाभ्यां हेतुत्वावधार- विनिगमनाविरहाच त्रिनयोतिः । इष्टसाधनताज्ञानन्तु नोपात्तम्, भातकामेनेश्वरे तदभावात् । सकत्त कत्वं च न कृतिमज्जन्यत्वम्, तथासति ईश्वरे नियज्ञानेच्छयोरसिद्धिप्रसङ्गात्, अतः सकर्तृकत्वं उपादानगोचरा- परोक्षज्ञानचिकीर्षाकृतिमज्जन्यत्वरूपमेव । तथा चैतदनुमानेन नित्यज्ञाने- च्छाकृतीनां सिद्धौ, निव्यज्ञानेच्छाकृतीनां गुणत्वहेतुकानुमानेन लाघवादेक- द्रयाश्रितत्वसिद्धौ तदेव द्रव्यमीश्वर इति नित्यज्ञानेच्छाकृतिमानेकः ईश्वरः सिद्ध्यतीति प्राञ्चः ।

नव्यास्तु प्रवृत्ति प्रति उपादानज्ञानस्य चिकीर्षायाश्च कारणत्वेन कार्य- सामान्यं प्रति तयोरन्यथासिद्धतया त्रितयजन्यत्वस्य साध्यत्वे बाधः । नन्वेवं नित्यकृतिमदीश्वरसिद्धावपि तस्मिन्नित्यज्ञानं नित्येच्छाच न सिद्धेत् । न च कृतिं प्रति ज्ञानचिकीर्षयोर्हेतुत्वेन तयोरीश्वरे सिद्धिरिति वाच्यम् । नित्यकृतेः कार्यत्वाभावान्न तथा ज्ञानचिकीर्षयोः सिद्धिः । परन्तु यः सर्वश इत्यादिश्रुत्यैव ज्ञानेच्छयोः सिद्धिर्वाच्येति, सकर्तृकत्वं कृतिमज्जन्यत्वमेव । न च तदपि सम्भवति । कर्त्तजनकत्वेऽनन्तकृतीनां कारणतावच्छेदकत्वापेक्षया स्वरूपतः कृतिस्वजातेरेव कारणतावच्छेदकत्वे लाघवमिति कृतिजन्यत्वमेव साध्यम्, एवं च कार्य कृतिजन्यमिति फलितम् । कृतिजन्यत्वं च " उपा दानत्वाख्य” विशेप्यतासम्बन्धावच्छिन्न कृतित्वावच्छिन्नकारणतानिरूपितकार्यत्व- रूपम् । अदृष्टद्वाराजीवकृतिजन्यत्वस्य कार्यमात्रे सत्वात्सिद्धसाधनवारणाय कारणतायां विशेष्यतासम्बन्धावच्छिन्नत्वनिवेशः । एवं च समवायेन

દૃષ્ટ

टीकात्रयोपेतः

कार्य प्रति स्वजन्याष्टवत्वसम्बन्धेन जीवकृतेः कारणतया तस्या विशेष्यता- safarna सिसाधनम् । समवायसम्बन्धावच्छिनत्व निवे-

प्राहुः ।

पादानका निम्न समवायेन कार्यमिति नियमस्य निर्वाहायेति

नन्वेवं कार्य उपादानत्वाख्य विशेष्यतासम्बन्धावच्छिन्नकारणतानिरू fumerarer कार्यदिश्यनुमानं फलितम् तथा च पक्षतावच्छेदकत्व- Frisोधानुपपनिरिति चेत्र । त्वरूपसम्बन्धविशेषरूप- कार्य व पक्षनावच्छेदकत्वात, प्रागभावप्रतियोगित्वरूपकार्यत्वस्य हेतुत्वेन नयाभावात् । प्रतियोगित्वं च पदार्थान्तरम्, सप्तपदार्थविभागस्तु Paralyयोनियेति ध्येयम् ।

नसे पक्षावच्छेदकाकान्ते विशेष्यता सम्बन्धावच्छिन्न कृति- स्वावच्छिन्न जनकतानिरूग्निसमवायस बन्धावच्छिन्न जन्य’वरूप साध्याभावेन बाध इति वाच्यम् । सवविशिष्टजन्यत्वस्य “ध्वं सव्यावृत्तस्य” पक्षतावच्छे- कोपगमात् । न च हेत्वधिकरणे ध्वंसे उनसाध्याभावेन व्यभिचार इति वाच्यम् । तावपि सत्ववैशिष्ट्यस्य निवेशनीयत्वात् " ।

जीवस्तु प्रतिशरीरं भिन्नो विभुर्नित्यश्व । दी० - जीवस्य लक्षणमाह । जीवेति ।

[[1]]

ग० - जीवस्य लक्षणमाहेति । स्वरूपमाहेत्यर्थः । जीव इत्यनेन जीवत्रं जीवलक्षणम् । जीवस्त्रं च सुखादिमत्वम् । तदेवाह सुखाद्याश्रयत्व- मिति । आदिना दुःखादेः परिग्रहः । प्रतिशरोरं भिन्न इति । प्रतिवृक्षं सिञ्चतीत्यत्रेव प्रत्यर्थी व्यापकत्वम्, तथा च वृक्षत्वव्यापक कर्मतानिरूपित- सेचनानुकूरकृतिमानितिवत् शरीरत्वव्यापकभेदप्रतियोगी जीव इति तादृशवाक्याद्बोधः । अथ नैतद्युज्यते जीशत्मन एकवेऽपि ईदृशार्थनिर्वाहात्, आत्मभेदस्य शरीरस्वव्यापकताया अक्षतेरिति चेन्न । शरीरं स्वावच्छेदकशरीरं तथा च प्रतिपदसमभिव्याहृतशरीरपदस्य स्वावच्छेदकयत्किचिच्छरीरभेदव्या-

[[૫]]

$तर्क-सङ्ग्रहः

[[६६]]

पकत्वमर्थः । तस्य भेदेऽन्वयः । तथा च स्वावच्छेदकयत्किचिच्छरीरभेदव्या- पकभेदप्रतियोगीत्यर्थः ’ । व्याप्यतावच्छेदकसम्बन्धश्चात्र स्वाश्रयशरीरत्वम् । स्वाश्रयावच्छेदकत्वं व्यापकतावच्छेदकसम्बन्धः ।

दी० - ननु मनुष्योऽहं ब्राह्मणोऽहमित्यादौ सर्वत्राऽहं प्रत्यये शरीरस्यैव विपयत्वाच्छरीरमेवाऽऽत्मेति चेन्न । शरीरस्य करपादादि- नाशे शरीरनाशादात्मनोऽपि नाशाऽपत्तेः । नापीन्द्रियाणामात्मत्वम्, तथात्वे योऽहं घटमद्राक्षं सोऽहं इदानीं स्पृशामीत्यनुसन्धानाभाव- प्रसङ्गात्, अन्यानुभूते श्रन्यस्याऽनुसन्धानाऽयोगान् । तस्माद्देहे- न्द्रियादिव्यतिरिक्तो जीवः, सुखादिवैचित्र्यात्प्रतिशरीरं भिन्नः । स च न परमाणुपरिमाणः, शरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात् । न मध्यमपरिमाणः, तथा सति अनित्यत्वप्रसङ्गेन कृतद्दानाऽकृताऽ- भ्यागमप्रसङ्गात् । तस्मान्नित्यो विभुर्जीवः ।

गं० - चार्वाकमतं दूषयितुं तन्मतमुपन्यस्यति । नन्विति । इत्यादा- विति । आदिना । क्षत्रियोऽहमित्यादेः परिग्रहः । इन्याद्यभिन्न सकाह- मिस्याकारकप्रत्यये इत्यर्थः । शरीरस्यैव विपयत्वादिति । एत्रकारेण शरीराति- रिक्तस्याहं प्रत्ययविषयत्वं व्यवच्छियते । करपादादिनाशे इनि । आदिना नासिकादेः परिग्रहः शरीरनाशात् । पूर्वशरीरनाशात् । श्रात्मनोपीति

१ तथा च एतच्छरीरावच्छिन्नो जीवः एतच्छरीर भिन्नशरारावच्छिन्न भिन्नः एतच्छ रीरभिन्नशरारावच्छेद्यभोगानधिकरणत्वाद घटवदिति फलितम् । न च एतच्छरीरावच्छि न जीवात्मकपक्षे एतच्छरीर भिन्नजन्मान्तरशरीरावच्छिन्न जीव भिन्नत्वरूपसाध्यं वाधितमिति वाच्यम् । साध्यघटयैतच्छरीर भिन्नशरीरे एतच्छरीरसमानकालीनत्वस्यापि निवेशनीय- त्वात । प्रकृते जन्मान्तरशरारस्य एतच्छरीरसमानकालीनत्वाभावेनाऽदोपात / एवं तादृशरारे योगाद्यजन्यत्वमपि विशेषणीयम् । तेन जैगीषव्यादीनां एकदा बहु- शरीरसत्वेऽपि न बाधः । एवं हेतुघटकरारारेऽपि एतच्छरीर भिन्नत्व – एनच्छरीरसमान- कालीनत्व - योगाद्यजन्यत्व विशेषयान्यावश्यकानि । अन्यथा स्वरूपासिद्ध थापते रितिध्येयम् ।

[[૬૭]]

स्वन्मते इत्यादिः । अपि शब्दः एवकारार्थं । स्वन्मते आत्मन एव नाशापतेरि- म्यर्थः । नचेष्टापतिः पूर्वानुभूतस्य कालान्तरे स्मरणानुपपत्तेः । अनुभवाश्रयस्य पूर्वशरीरस्य विनष्टत्वात् । " चक्षुरादीनामेव मत्वमस्तु” इति बौद्धमतं दूपयति । नापोन्द्रियाणामिनि । अपिना शरीरपरिग्रहः । यथा शरीरस्याss Para area aer feaयाणामात्मत्वं नास्तीत्यर्थः । तत्र हेतुमाह । योऽहं घदमद्राक्षमिति । यो घटादिविषयक वर्तमानस प्रतियोगिचाक्षुपवा- नित्यर्थः । सोऽहमिदानीं स्पृशामीति । घटादिविषयकवर्तमान स्पार्श- नवान सोहमिन्यर्थः । इत्यनुसन्धानाभावप्रसङ्गादिति । इत्याकारकचाक्षु- areersinterest: अभेदावगाहिप्रत्ययाभावप्रसङ्गादित्यर्थः

तथा च

गादिरूपेन्द्रियाणां परस्परभिन्नतयाऽभेदावगाहिप्रत्ययानुपपत्त ेः नेन्द्रियाणामात्मत्वसम्भव इत्यर्थः । अनुसन्धानायोगादिति । स्मरणा सम्भवादित्यर्थः अन्यथा चैत्रेणानुभूतस्य मैत्रेण स्मरणप्रसङ्गादिति भावः । इदमुपलक्षणम् । पूर्व चक्षुपा साक्षात्कृतानां चक्षु पोऽभावे स्मरणं न स्यात् । समवायेन स्मृति प्रति समवायेनानुभवस्य कारणतया अनुभवितुरभावात् । नच विषयतासम्बन्धेन स्मृति प्रति विपयतासं बन्धेनानुभवः कारणमिति विषयनिष्ठप्रत्यासत्या कार्यकारणभाव आवश्यकः, आत्मनिष्ठप्रत्यासत्या कार्यकारणभावे घटाद्यनुभवोत्तरं पटादिस्मृत्यापत्तेः, विषयनिवेशे तु महा- गौरवापत्तिरिति वाच्यम् । तवापि तत्पुरुषीयत्वनिवेश आवश्यकः, अन्यथा चैत्रेणानुभूतस्य मैत्रेण स्मरणप्रसङ्गादित्यन्यत्रविस्तरः तस्मादिति जीवस्य देहेन्द्रियरूपत्यसम्भवादित्यर्थः देहेन्द्रियादिव्यतिरिक्त इति । देहेन्द्रियादि frन एवेत्यर्थः । आदि पदेन मनः क्षणिकविज्ञानयोः परिग्रहः । सच न परमाणुरिति । जीवः परममहत्ववानेवेत्यर्थः । शरीरव्यापीति । अन्य- धेयादिः । शिरसि मे वेदना पादे मे सुखमित्यादिसमूहालम्बनात्मक साक्षा स्कारानुपपत्तिप्रसङ्गादित्यर्थः । जीवस्याऽणुत्वेन एकदा शिरःपादादिना सम्ब- न्धाsस भवादितिभावः । नतु शरीरावच्छेदेनागमन सुखादिसाक्षात्कारोप- पत्तये सर्वशरीरव्यापित्वमात्मनोऽस्तु तथापि विभुत्वाङ्गीकारे प्रयोजनाभाव

तर्क-सङ्ग्रहः

इत्यत आह । न मध्यमपरिमाणवानिति । नापकर्षाश्रयमहत्ववानित्यर्थः । तथा सतीति जीवस्य तादृशपरिमाणत्वस्वीकारे इत्यर्थः । श्रनित्यत्वैनेति । अनित्यप्राप्त्येत्यर्थः । यन्मध्यमपरिमाणं तदनित्यं यथा घट इति व्याप्तेरिति- भावः । कृतहानेति । कृतस्य एतज्जन्मार्जितस्य पापपुण्यादेः हानो निष्फल- वम्, अकृतस्य स्वानाजितस्य पुण्यपापफलस्याऽभ्यागमः प्राप्तिः तयोरा- पत्तेरित्यर्थः । कत्तुरात्मन उत्तरजन्मनि असत्वात्, अकन्तुश्च सत्वादिति- भावः । उपसंहरति । जीवस्याज्णुत्वमध्यमपरिमाणवत्वाऽसम्भवादित्यर्थः ।

सुखाद्युपलब्धिसाधनमिन्द्रियं मनः ।

न्या० – मनो निरूपयति । सुखादीति । उपलब्धिर्नाम साक्षा- त्कारः । तथा च सुखदुःखादिसाक्षात्कार कारणत्वे सति इन्द्रियत्वं मनसो लक्षणम् । इन्द्रियत्वमात्रोक्तौ चक्षुरादावतिव्याप्तिः, ऋतः सुखदुःखादिसाक्षात्कार कारणत्वविशेषणम् । विशेष्यानुपादाने श्र त्मनि श्रतिव्याप्तिः, आत्मनः सुखादिकं प्रति समवायिकारणत्वात्, अत इन्द्रियत्वरूपविशेष्योपादानम् ।

दी० - मनसो लक्षणमाह । सुखेति । स्पर्शरहितत्वे सति क्रियावत्वं मनसो लक्षणम् ।

गं० - मनो निरूपयतीति । क्रमप्राप्तमित्यादिः । मनोविषयक ज्ञानानु- कूलव्यापारानुकूलकृतिमान् मूलकार इति बोधः । दीपिकायां मनसो- लक्षणमाहेति । मनोविषय कलक्षण प्रकारक ज्ञानानुकूलव्यापारानुकूलकृति- मान् मूलकार इति बोधः । सुखादे रुपलब्धिः सुखाद्युलब्धिः । विषयत्वं पट्यर्थः । उपलब्धिः - साक्षात्कारः । सुखादिविधयकज्ञानमित्यर्थः । सुखायुपलब्धेः साधनं सुखाद्यपलब्धिसाधनम्, सुखाद्युपलब्धिनिरूपितकार- तात् । तथा च सुखादिविषय कसाक्षात्कारनिष्ठकार्यतानिरूपित कारणतावस्वे सति इन्द्रियत्वं मनसो लक्षणमित्यर्थः । सुखादिविषयक साक्षात्कारश्च

[[६६]]

टीकात्रयोपेतः

मृदुःखीन्याकारकः, निरूपितका मनसि सत्याक्षण-

समन्ययः ।

मनम प्रमाणन्तु सुखादिसाक्षात्कार सकरणका तन्यसाक्षात्कारत्वात् चाक्षुपाक्षात्कारवदित्यनुमानम् । ईश्वरीयसाक्षात्कारे व्यभिचारवारणाय जन्येति । तथा च सुvateeratarrer करणकये सिद्धे चक्षुरादीनां वाद नमः सिद्धिः । ज्ञानसामान्यं प्रति आम्ममनयोगस्याऽसमवा- विकाराचेनाऽपि मनसः सिद्धिर्बोध्या । ज्ञानं साऽसमवा- free न घटवदित्यनुमानादिति ध्येयम् ।

arrari स्पर्शरहितत्ये सतीति । इदं च घटादावतिव्याप्तिवार- गाय । सनत्रायसम्बन्धावच्छिन्नस्पर्शन्गच्छिन्नप्रतियोगिताकाभाववत्वे सती- त्यर्थः । न व्यधिकरणसम्बन्धावच्छिन्न प्रतियोगिताकं व्यासज्यवृत्तिधर्मा- तियोगिता वाsभावमादाय न तदोषावस्थ्यम् । आकाशा- दावतिव्याप्तिवारणाय विशेष्यदलम् ।

तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च

दी० - मनोविभजते । तञ्चेति । एकैकस्याऽऽत्मनः एकैकं मनः श्रावश्यकमित्यात्मनामनेकत्वात् मनसामप्यनेकत्वमित्यर्थः । पर- माणुरूपमिति । मध्यमपरिमाणत्वेऽनित्यत्वप्रसङ्गादित्यर्थः । नतु मनो विभु स्पर्शरहितद्रव्यत्वात् श्राकाशवदिति चेन्न । मनसो विभुत्वे श्रात्ममनः संयोगस्याऽसमवायिकारणस्याऽभावान् ज्ञानानुत्पत्तिप्रसं- गात् । न च विभुद्वयसंयोगोस्विति वाच्यम् । तत्संयोगस्य नित्य- स्वेन सुषुप्त्यभावप्रसङ्गात् । पुरीतद्व्यतिरिक्त देशात्ममनः संयोगस्य सर्वदा विद्यमानत्वात् । अणुत्वे तु पुरीतति नाड्यां प्रविशति तदा सुषुप्तिः, यदा निःसरति तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः ।

गं० - मूळे । तश्चेति । मनश्वेत्यर्थः । अवधारणार्थकच शरदः । अन-

तर्क- सङ्ग्रहः

[[1]]

Go-

न्तमित्युत्तरं योज्यः । अनन्तमेवेत्यर्थः । तत्र हेतुमाह । प्रत्यात्मनियतत्वा- दिति । आत्मानं आत्मानं प्रति प्रत्यात्मम् । तत्र नियतत्वात् । ज्ञानोत्पत्यर्थ नियमेनाऽऽत्मसम्बन्धित्वादित्यर्थः । अत्र प्रतिपदसमभिव्याहृताऽऽत्मशब्द- स्याSSत्मत्वव्यापकसङ्ख्यासजातीयमर्थः । नियतत्वं सङ्ख्यात्वम् । तथा चाऽऽस्मत्वव्यापकसङ्ख्यासजातीयसङ्ख्यापर्याप्त्यधिकरणत्वादित्यर्थः । साजात्यं च बहुत्वत्वव्याप्यजात्या । तदेवाह । एकैकस्याऽऽत्मन इति । एकैकं मन इति । सर्वात्मनामेकस्य मनसः स्वीकारे एकस्य ज्ञानदशाया- मपरस्य तदनुपत्तिः, तस्याऽणुत्वेन सकलात्मसम्बन्धीन्द्रियैरेकदा संयोगा- भावात् । मनसः परमाणुरूपत्वं व्यवस्थापयितुमादौ मध्यमपरिमाण- ari खण्डयति । मध्यमपरिमाणवत्वे । मनस इत्यादिः । अपकर्षाश्र- महत्व इत्यर्थः । श्रनित्यत्वप्रसङ्गादिति । यद्यन्मध्यमपरिमाणं तत्तदनित्यमिति व्याप्त्या नानावयवमन्नाशकल्पने गौरवादिति यावत् । पर- महत्परिणामवत्वं खण्डयितुमाक्षिपति । नन्विति । विभ्विति । परम- महत्परिमाणवदित्यर्थः । घटादौ व्यभिचारवारणाय स्पर्शरहितेति ।

। गुणादौ व्यभिचारवारणाय द्रव्यत्वादिति । स्पर्शवदवृत्तिद्रव्यविभाजकध वादिति फलितम् । तेनोत्पन्नविनष्टघटादौन व्यभिचारः । विभुत्वे इति, परमहत्परिमाणवत्वे इत्यर्थः । आत्ममनःसंयोगस्येति । आत्मनि मनःसंयोगस्येत्यर्थः । श्रभावादिति । विभुद्वयसंयोगाभावेनाऽऽत्मनि मनःसंयोगश्यावृत्तेरित्यर्थः । ज्ञानानुत्पत्चिप्रसङ्गादिति । भावकार्यमात्रस्य कारणत्रितयजन्यत्वनियमेन प्रकृतेऽसमवायिकारणाभावादित्यर्थः । न च तादृशनिय मे मानाभावः, द्रव्यमात्रस्यैव कारणत्रितयजन्यत्वनियमात् एवं चाऽसमवायिकारणं विनापि क्वचिदुत्पत्तिसम्भवेन प्रकृते ज्ञानाद्युत्पतौ बाधकाभाव इति वाच्यम् । तथा सति सुषुप्तावपि ज्ञानायुत्पत्तेः, मनमः करणत्वानुपपत्तेश्च । इदमुपलक्षणम् । ज्ञानयोगपद्यप्रसङ्गश्चेत्यपि बोध्यम् । सुषुप्यभावादिति । अत्र सर्वदा विद्यमानत्वादिति हेतुः । प्रविशतीति । परमाणोः क्रियावस्त्वादिति भावः ।

,

चक्षुर्माग्राह्यगुणो रूपम् ।

टीकात्रयोपेतः

न्या० - रूपं लक्षयति - चतुरिति । चक्षुर्मात्राह्यत्वविशिष्ट- गुणत्वम् रूपस्य लक्षणम् । विशेष्यमात्रोपादाने रसादावतिव्याप्तिः । तश्चक्षुर्मात्रग्राह्यत्व विशेषणम् तावन्मात्रोपादाने रूपत्वेऽतिव्यामि ः, यो गुणो यदिन्द्रियप्राह्य स्तन्निष्टाजातिस्तदिन्द्रियग्राह्येति नियमात्राद्वा- रणाय विशेष्योपादानम् । चक्षुर्मात्राह्यत्वं नाम चक्षुर्भिन्नेन्द्रियाऽ- प्राह्यत्वे सति चक्षुर्ब्राह्यत्वम्, मात्र पदानुपादाने सङ्ख्यादिसामान्यगुणे- ऽतिव्याप्तिः । तत्रापि चक्षुर्ब्राह्यत्वविशिष्टगुणत्वस्य सत्त्वात् श्रतस्त- द्वारणाय मात्रपदम् । सङ्ख्यादेश्चक्षुभिन्नत्वगिन्द्रियग्राह्यत्वाश्चक्षुर्मात्र प्राह्यत्वं नास्ति । अतीन्द्रियगुरुत्वादावतिव्याप्तिवारणाय चक्षुर्ब्राह्येति ।

[[1]]

गं० - मूले । चक्षुर्मात्राह्येति । चक्षुर्मात्रेण ग्राह्यः चक्षुर्मात्र ग्राह्यः । जन्यत्वं तृतीयार्थः । महधातोर्ज्ञानमर्थः । ण्यत्प्रत्ययस्य विषयोर्थः । तथा च चक्षुर्मात्रजन्यज्ञानविषयत्वे सति गुणः रूपस्य लक्षणम् । चक्षुर्मात्र जन्यं यदज्ञानं “इदंरूपमित्याकारकं " तपियत्वस्य रूपे सवालक्षणसम- न्वयः । चतुर्मात्रग्राह्यत्वविशिष्टेति । वैशिष्ट्यं च सामानाधिकरण्य- सम्बन्धेन । तन्निष्ठाजातिरिति सद्भावश्चेत्यपि बोध्यम् । मात्रपद- मिति । सत्यन्तार्थकमिति शेषः । विशेष्यदलप्रयोजनमाह । श्रतीन्द्रिय- गुरुत्वादाविति । आदिना अदृष्टभावनयोः परिग्रहः ।

न्या०—अत्र लक्षणे प्राह्यत्वं नाम प्रत्यक्षविषयत्वम् । अगा- ह्यत्वं नाम तदविषयत्वम् । तथा च चक्षुभिन्नेन्द्रियजन्य प्रत्यक्षाऽविषय- त्वे सति चक्षुर्जन्यप्रत्यक्षविषयत्वम् इति फलितोऽर्थः । ननु प्रभा- घटसंयाङ्गे रूपलक्षणस्याविव्याप्तिस्तस्य चक्षुर्मात्रग्राह्यविशेषगुणत्वा- दिति चेन्न । गुणपदस्य विशेषगुणपरत्वात् । नचैवं विशेषगुणत्वघ-

तर्क - सङ्ग्रहः

टितलक्षणे सङ्ख्यादावतिव्याप्त्यभावान्मात्र पदवैयर्थ्यमिति

હર

वा-

च्यम् । जलमात्रवृत्तिसांसिद्धिकद्रवत्वादावतिव्याप्तिवारणाय तदुपा- दानात् । अथवा चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य लक्षणत्वान्न प्र- भाघटसंयोगादावतिव्याप्तिः । संयोगत्वज तेश्चक्षुर्मात्रग्राह्यत्वाभावान्, घटपटसंयोगस्य त्वगिन्द्रियग्राह्यत्वान् तद्गवजातेरपि त्वगिन्द्रियग्राह्य- वात्, यो गुणो यदिन्द्रियग्राह्यस्तन्निष्टजातेरपि तदिन्द्रियग्राह्य- वान् । यत्र जातिघटितलक्षणे गुणत्वानुपादाने चक्षुर्मात्रमाह्यजाति- मति सुवर्णादावतिव्याविरतस्तद्वारणाय तदुपादानम् । एवं रसा- दिलक्षणे विशेषणानुपादाने लक्ष्यभिन्नगुरणादावतिव्याप्तिः, विशेष्या- नुपादाने लक्ष्यमात्रवृत्तिरसत्वगन्धत्वादावतिव्यानिः अतो विशेषण- विशेष्ययोरुपादानम् ।

दी० – रूपं लक्षयति-चक्षुरिति । सङ्ख्यादावतिव्याप्तिवारणाय मात्रपदम् । रूपत्वेऽतिव्याप्रिवारणाय गुणपदम् ।

गं० - प्रत्यक्षविषयत्वमिति । लौकिकप्रत्यक्ष विपयताश्रयत्वमित्यर्थः । तेन गुरुत्वादीनां चाक्षुषाऽलौकिकग्रहेऽपि नातिव्याप्तिः । तदविषयत्वमिति लौकिक त्याविषयत्वमित्यर्थः । तेन रूपस्येनरेन्द्रियेणालौकिकग्रह सं भवेऽ- पि नाsसम्भवः । तथा च चक्षुभिन्नन्द्रियजन्यप्रत्यक्षीय लौकिविषयतायुः यन्वे सनि चक्षुरिन्द्रियजन्य प्रत्यक्षीय लौकिकाने पयतावत्वे सति गुणत्व लक्षणार्थः । तदुपानादिति । मात्रपदोपादानादित्यर्थः । परमाणुरूपादावव्याप्तेः, farveersप्रवेशेन लाघवाच्चाह । श्रथवेति । वस्तुतस्तु त्वगाह्यचक्षुर्गा- गुणविभाजकधर्मवत्त्वम् लक्षणम् । लक्ष्यभिवगुणादाविति । रूपस्पर्शादा- वित्यर्थः ।

तच शुक्ल-नोल - पीत-रक्त- हरित-कपिश-चित्रभे दात् सप्तविधम् । पृथिवी-जल-तेजोवृत्ति ।

[[७३]]

टीकात्रयोपेतः

दी० - रूपं विभजते- तचेति । नन्वव्याप्यवृत्ति नीलादिसमु- दाय एव चित्ररूपम् इति चेत् न । रूपस्य व्याप्यवृत्तित्वनियमात् । ननु चित्रपटे अवयवरूपस्य प्रतीतिरस्त्विति चेन्न । रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसङ्गात् । न च रूपवत्समवेतत्वम्प्रत्यक्षत्व प्रयोजकम्, गौरवान् । तम्मात् पटस्य प्रत्यक्षत्वानुपपत्त्या चित्ररूपसिद्धिः । रूपा- श्रयमाह । पृथिवीति ।

गं० - मूले । तच्चेति । निरुक्तलक्षणलक्षितं रूपं चेत्यथः । अवधा रणात्मकश्च शब्दः । सप्तविधमित्युत्तरं योजनायः सप्तविधमेवेत्यर्थः । चित्ररू- पानङ्गीकस नवीनमतं दूषयितुं तन्मतमुपन्यस्यति । नन्विति । श्रव्याप्य- वृत्ति नीलादिसमुदाय एवेति । नीलादीनामव्याप्यवृत्तित्वं विना तत्स- मुदायस्य एकत्र वृत्तिवासम्भवादिति भावः । चित्ररूपमिति । प्रतीतिविषय इत्यर्थः । तथा च तादृशनीलादिसमुदायविषयकत्वाङ्गीकारेणैव तादृशप्रतीत्यु- पपतेरतिरिक्त चित्ररूपाङ्गीकारो निष्प्रामाणिक इति भावः । व्याप्यवृत्तित्वे- ति । दैशिकव्याप्यवृत्तित्वेत्यर्थः । कालिकाऽव्याप्यवृत्तित्वं स्वस्त्येवेति भावः । तथा च रूपस्य व्याप्यवृत्तित्वव्याप्यत्वादिति भावः । प्राचामयमाशयः । द्रव्यनिलाङ्कि कविपयतासम्बन्धेन प्रत्यक्षं प्रति समवायसम्बन्धेनोद्भूतरूपं कारणम् । एवं च रूपस्याऽव्याप्यवृत्तित्वे नानारूपवदवयवारब्धद्रव्यप्रत्यक्षं समवायेन नानारूपाणां हेतुत्वकल्पने गौरवम्, एवं नोलपीत कपालारब्ध- घण्टे पीतकपालावच्छेदेन नीलरूपोत्पत्तिवारणाय तत्तदवयवावच्छेदेन नीलादि- रूपं प्रति तत्तदवयवगतनीलान्यरूपत्वेन प्रतिबन्धकता, अवयविनि तत्तदव- यवावच्छेदेन तत्तद्रूपं प्रति तत्तदवयव गततद्रूपाणां हेतुता वा वाच्या । तथा च गौरवम् । एवं परमाणौ नीलादेर्व्याप्यवृत्तितया पटादिसमवेतनीलादेः तत्स• जातीयत्वेन न तेषामध्याप्यवृत्तित्वं कल्पयितुं शक्यम्, विरोधात् । अतोऽत्र- यविनि व्याप्यवृत्तिरेव नीलादिसमुदायो वाच्यः । न च तावताऽपि निष्कृतिः, नीलादेर्व्याप्यवृत्तितया नानारूपवदवयवारब्धपटे एकरूपन्यक्करेवोत्पत्तिसम्भ-

तर्क- सङ्ग्रहः

[[७६]]

दीः - रसं लक्षयति । रसनेति । रसत्वेऽतिव्याप्तिवारणाय गुणपदम् । रसस्याश्रयमाह । पृथिवीति । श्राश्रयं विभज्य दर्शयति । पृथिव्यामिति ।

गं०-रसं लक्षयतीति । रसविशेष्यकलक्षणस्वरूपप्रामाण्य नकार- कज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । रूपादावति- व्याप्तिवारणाय -मूले रसनाग्राह्य इति । रसत्वे इति । इदमुपलक्षणम् । रसाभावेऽनि अतिव्याप्तिर्बोध्या । यो गुणो यदिन्द्रियेण गृह्यते तन्निष्ठा जाति- स्तदभावश्च तेनैव गृह्यते । नियमात् । रसनेन्द्रियजन्य प्रत्यक्षीयलौकिक- विषयतात्रय गुणविभाजकधर्मत्रत्वमित्यर्थः । तेन परमाणुरसादौ नाव्याप्तिः । जले मधुर एवेति मूलम् । जम्बीरजलमम्लमिति प्रतीतिः स्वसमवायि- संयोगसम्बन्धेन जम्बीरसमेवतरसविषयिगी । स्वं जम्बीरसमवेतो रसः । शुष्कजम्बीरेsपि अम्लरसोपलब्ध्या तयाऽम्लरसाङ्गीकारण्यावश्यकत्वेन जले नाम्लादिकमिति ध्येयम् । न च जले माधुर्यमपि नोपलभ्यते इति वाच्यम् । हरीतक्यादिभक्षण सहकृतरसनेन्द्रियस्यैव जलरसग्राहकत्वात् सर्वदाऽनुप- लभेऽपि क्षतेरभावात् । वस्तुतस्तु निदाघपीतनिर्मलगङ्गाजल माधुर्यस्यानुभ- वसिद्धस्याऽपलापाऽसम्भवान्मधुरएवेति युकम् । रसोऽपि न देशिकाऽ व्याप्यवृत्तिः । न च तर्हि मधुरादिनानारसवदवयवारख्धावयत्रिन नीरसत्वा- पत्तिरिति वाच्यम् । इष्टत्वात् । तत्र रसनेन्द्रियेणाऽवयवरस एव गृह्यते, अवयवानामपिरसनेन्द्रियसंयुन्नत्वेन तत्समवायस्याऽवयवरसे सत्वात् । न हि areeraafari नीरसत्वे तत्प्रत्यक्षानुपपत्तिः शङ्क्या । उद्धृतरूप इव रसस्य द्रव्यप्रत्यक्ष कारणत्वाभावात् रसनेन्द्रियस्य रसमात्र ग्राहकत्वेन भवयवि- प्रत्यक्ष कारणaratam । तथा च चित्ररसो नाङ्गीकार्य एवेति । रसतु द्विविधः । नित्योऽनित्यश्च । जलपरमाणौ रसो नित्यः । अन्यः सर्वोऽप्य- नित्यः । अनित्योऽपि द्विविधः पाकजाsपाकजभेदात् पृथिव्यां पाकजः, श्रभिसंयोगाऽसमवायिकारणकः । अपाकजस्थलेऽवयविरसं प्रति अवयवरसः असमवायिकारणम् । समवायिकारणन्तु आश्रय एव सर्वत्र ।

,

,

G

टोकात्रयोपेतः

घाणग्राह्यो गुणो गन्धः । स द्विविधः । सुरभि- रसुरभिश्व ! पृथिवीमात्रवृत्तिः ।

दो० गन्धं लक्षयति । घ्राणेति । गन्धत्वेऽतिव्याप्तिवार-

गाय गुणपदम् ।

गन्धस्य

गं०- गन्धं लक्षयतीति । गन्धविशेष्यकलक्षणस्वरूप प्रामाण्यप्रका• रकज्ञानानुकूलकृतिमान् मूलकार इति बोधः । रूपादावतिव्याप्तिवारणाय प्राणग्राह्येति । गन्धत्वे इति । गन्धाभावेऽप्यतिव्याप्तियोध्या । तथा च प्राणेन्द्रियजन्य त्यक्षीय लौकिकविषयताश्रयगुणविभाजकधर्मवत्वं लक्षणं पर्यवसनम् । तेन परमाणुगन्धे नाव्याप्तिः । प्राचीनास्तु चित्रगन्धं नाङ्गीकुन्ति । सुरभ्यसुरभिकपालद्रयारब्धे घटे गन्धविरहेऽपि अवयवन्ध- स्यैव भानात् । नव्यास्तु चित्रगन्धं स्वीकुर्वन्ति । अन्यथा सुरभ्यसुरभिय- कत्रयारब्धे त्र्यणुके गन्धभानं न स्यात् । द्वयणुकगन्धस्याऽयोग्यत्वादिति । एवं faaravaatर्य इति । गन्धस्तु सर्वोप्यनित्य एवेति ध्येयम् ।

त्वमिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स त्रिविधः । शीतोष्णानुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोः ।

न्याः – स्पर्श लक्षयति । त्वगिन्द्रियमात्रेति । अत्रापि मात्रपदं सङ्ख्यादावतिव्याप्तिवारणाय । श्रन्यत्सर्व पूर्ववद् बोध्यम् ।

दी० - स्पर्शलक्षयति । त्वगिति । स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम् । संयोगादावतिव्याप्तिवारणाय मात्रपदम् ।

गं० - मात्रपदमिति । त्वगिन्द्रियभिन्नेन्द्रियजन्य प्रत्यक्षीय लौकिक- विषयताशून्यत्वे सति त्वगिन्द्रियजन्यप्रत्यक्षीय लौकिकविषयतायत्वे सतितर्क - सङ्ग्रहः

गुणत्वं समुदितलक्षणार्थः । परमाणुस्पर्शेऽव्याशिवारणाय त्वगिन्द्रियमाश्र- ग्राह्यजातिमत्रं विवक्षणीयम् । वस्तुतस्तु चक्षुरग्राह्यत्वग्ग्राह्यगुणविभाजकधर्म- चत्वं पर्यवसितं बोध्यम् । ननु जातिघटितलक्षणे स्पर्श वेऽतिव्याप्तिविरहेण गुणपदं व्यर्थमिति चेत्र । वायोः स्पार्शनप्रत्यक्षविषयत्वे वायुत्वजातिमादायाs- तिव्याप्तिवारणाय तत्सार्थक्यात् । तत्र । पृथिव्यप्तेजोवायुसमुदाये। घटकत्वं सप्तम्यर्थः । जले इत्यत्र सप्तम्यर्थो वृत्तित्वम् । शीतस्पर्शः पृथिव्यप्तेजोवायु- घटकीभूतजलवृत्तिरिति बोधः । तप्तजलादावुष्णत्वस्य, सुवर्णादावनुष्णाशीत- स्वस्य वन्हि जलसम्बन्धेन वायौ उष्णशीतत्वस्य चौपाधिकत्वादितिभावः । कठिनत्वसुकुमारत्वादिकं स्पर्शनिष्ठो जातिविशेषः । न तु संयोगनिष्ठा जातिः,

ग्राह्यत्वापत्तेः । एवं च नानास्पर्शवदवयवारब्धे घटे चित्रस्पर्शोप्यङ्गी- कार्यः । अन्यथा घटत्वाच प्रत्यक्षानुपपत्तेः । स्वrचप्रत्यक्ष स्पर्शस्य समवायेन

कारणत्वात् ।

रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्राsपाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् ।

न्या० – रूपादिचतुष्टयमिति । एतत्तत्वनिर्णयश्चेत्थम् । पाको नाम विजातीयतेजः संयोगः । स च नानाजातीयरूपजनको विजा- तीयन्तेजः संयोगः, तदपेक्षया रसजनको विजातीयस्तेजः संयोगः, एव गन्धजनकोऽपि विजातीय एव, एवं स्पर्शजनकोऽपि विजातीय एव । एवम्प्रकारेण भिन्नभिन्नजातीयाः पाकाः कार्यवैलक्षण्येन कल्पनीयाः । यथा तृणपुवनिक्षिप्ते आम्रादौ ऊष्मलक्षरण विजाती- यतेजः संयोगात्पूर्वहरितरूपनाशेन रूपान्तरस्य पीतादेरुत्पत्तिः, न तु रसादेरुत्पत्तिः, पूर्वरसस्यैवाऽम्लस्याऽनुभवात् तस्माद्रूपजनकापेक्षया रसजनको विलक्षण एवाङ्गीकार्यः । एवं गन्धजनको विलक्षण

[[७६]]

aterत्रयोपेतः

एव, रूपरसयोरपरावृत्तावपि पूर्वगन्धनाशे विजातीयपाकवशात्सुरभि- गन्धोपलब्धेः । एवं स्पर्शजनकोऽपि, पाकवशात्कठिनस्पर्शनाशेन मृदुस्पर्शानुभवात् तस्माद्र्पादिजनका विजातीया एव पाकाः यथा- कार्यमुनेयाः । श्रतएव पार्थिवपरमाणूनामेकजातीयत्वेऽपि पाक- महिम्ना विजातीयद्रव्यान्तरानुभवः । यथा गोभुक्ततृणादीनामापर- मावन्तभङ्गे तृणारम्भकपरमाणुषु विजातीयतेजः संयोगात्पूर्वरूपा- दिचतुष्टयनाशे तदनन्तरं दुग्धे यादृशं रूपादिकं वर्त्तते तादृश रूप- रसगन्धस्पर्शजनकास्तेजः संयोगा जायन्ते । तदुत्तरं तैरेव तादृश रूपरसादय उत्पद्यन्ते, तादृशरूपरसादिविशिष्टपरमाणुभिर्दुग्धद्वचणु- कमारभ्यते ततस्त्र्यणुकादिक्रमेण महादुग्धारम्भः । एवं दुग्धारम्भ- कैः परमाणुभिरेव दध्यारभ्यते । एवं पाकमहिम्ना दध्यारम्भकैरेव परमाणुभिर्नवनीतादिकमिति दिकू ।

गं० - पृथिव्यादिनवानां इव्याणां नित्यत्वानित्यत्वे दर्शिते, तथा हि पृथिव्यादिचतुष्टयपरमाणूनां आकाशकाला दिगात्ममनसां च नित्यत्वम्, द्वयणुकादिरूपजन्य पृथिव्यतेजोवायूनामनित्यत्वम् । रूपरसगन्धस्पर्शानां तु निम्यानित्यविवेकं दर्शयति मूले। रूपादि चतुष्टयमिति । पृथिव्यामि - न्यत्र सप्तम्यर्थो वृत्तित्वम्, तथा च पृथिवीवृत्तिरूपादिचतुष्टयमनित्यमित्यर्थः । पाकजमिति हेतुगर्भविशेषणम्, तथा च पृथिव्यां रूपादिचतुष्टयं यतः पाक- जमतो नित्य थिव्यामनित्यपृथिव्यां च वर्त्तमानं सर्वमप्यनित्यमित्यर्थः । अपाकजमिति । इदमपि हेतुगर्भविशेषणम् । तथा च जलादौ रूपादि- चतुष्टयं यनोऽपाकजमतो नित्यमनित्यं च भवतीत्यर्थः । रूपादिचतुष्टय- मित्यस्य रूपादिचतुष्टयघटकमित्यर्थः । तेन गन्धस्य जलाद्यवृत्तित्वेऽपि न वाक्यानुपपतिः ।

दी० - पाकजमिति । पाकः तेजः संयोगः । तेन पूर्वरूपं

तक-सङ्ग्रहः

[[८०]]

नश्यति रूपान्तरमुत्पद्यते इत्यर्थः । अत्र परमाणुष्वेव पाको न द्वयणु- कादौ, आमपाकनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनद्वणुकादिक्रमेण रक्तघटोत्पत्तिः । तत्र परमाणवः समवायि- कारणम् । तेजः संयोगोऽसमवायिकारणम् । अष्टादिकं निमित्त- कारणम् । द्वन्यणुकादिरूपे कारणरूपमसमवायिकारणमिति पीलुपा- कवादिनो वैशेषिकाः । पूर्वघटनाशं विनैव अवयविनि अत्रयत्रेषु परमाणुपर्यन्तेषु च युगपड़पान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः, तव पार्थिवपरमाणुरूपादिकमनित्यमित्यर्थः । श्रन्य- श्रेति । जलादावित्यर्थः । नित्यगतमिति । परमाणुगतमित्यर्थः । अनित्यगतमिति । द्वयणुकादिनिष्ठमित्यर्थः । रूपादिचतुष्टयं उद्भूतं प्रत्यक्षम् । अनुद्भूतमप्रत्यक्षम् । उद्भूतत्वं प्रत्यक्षत्व प्रयोजको धर्मः । तदभावोऽनुद्भुतत्वम् ।

,

गं० – तेनेति । विजातीयतेजः संयोगेनेत्यर्थः । पूर्वरूपं नश्य- तीति । पूर्वरूपनाशो भवतीत्यर्थः । अयमेव पाकजशब्दार्थः । अत्रेति कुन पाक हत्याकाङ्क्षायामित्यर्थः । पाक इति । पूर्वरूपनाशपूर्वकरूपान्तरो- त्पादकतेजःसंयोग इत्यर्थः । परमाणुष्वेवेत्यत्र एवकारव्यवच्छेद्यं स्वयमेव विवृणोति न द्वयणुकादाविति । आदिनाऽवयविमात्र परिग्रहः । अस्य " इति पीलुपाकवादिन” इत्युत्तरेणाऽन्वयः । श्रामपाकनिक्षिप्ते इति । पच्यते अनेनेति पाकः, अनाऽग्निरेव । तथा चाऽनियन्त्रविशेषस्थापिते इत्यर्थः । घटे इति सति सप्तमी । परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशें इति । श्यामघटनाशे परमाणुषु रूपान्तरोत्पत्तौ इति योजना । श्यामघट- नाशे इति द्वयणुकादिनाशक्रमेण श्यामघटादिनाशे सतीत्यर्थः । तदनन्तरमि- ति शेषः । रूपान्तरोत्पत्ताविति । पूर्वरूपादिचतुष्टयनाशपूर्वकरूपादि- चतुष्टयोत्पत्तौ सत्यामित्यर्थः, तदनन्तरमिति शेषः । पुनरिति । अग्निसंयोगा

दिस्पर्थ

टीकात्रयोपेता

रक्तरूपविशिष्टणुका युत्पत्तिपूर्वकरघटाद्युत्पत्तिरित्यर्थः । वैशेषिकाणामयमाशयः । पाकनिक्षिसे घटादाविव घटादिमध्येsपि विजा- तीयं रूपरसादिकमनुभवसिद्धम्, तच्चाग्निसंयोगजत्वं ज्ञापयति, अग्निसंयोग- स्यै पाकस्थान । नहि घण्टे रक्तोत्पत्यनन्तरं तदवयवाः नीमः सन्तो यन्ते यावद्रयदेषु च रूपान्तरोत्पत्तिर्न सम्भवति घटस्याऽद्वित्वेन वन्हेः सूक्ष्मा- वयवानां अन्न प्रवेशासम्भवेन घटारम्भकयावदवयवेषु वन्ह्यवयवसंयोगस्य बाधितवान । अतः विजातीय हिसंयोगेनायविषु विनट्टेषु स्वतन्त्रेषु परमाणुपु प कः । तथाहि प्राणिकर्मसहकृतादृष्टवशात् अग्निसंयोगात्परमाणौ क्रिया - तमः परमाणुयविभागः- ततो द्व्यणुकारं भकसंयोगनाशः तत उत्तरयणुकनाशश्च ततः परमाणौ श्यामादिनाशः ततो रक्तो- पतिः तनी रकपरमाणी शुभारम्भानुगुणक्रिया । ततो विभागः ततः पूर्वसंयोः ततः आरम्भकसंयोगः । ततोष्क्ष्यणुकोत्पत्तिः ततो रक्तोत्पत्तिः । तथा च परमाणुक्रियया द्व्यणुकादिनाशक्रमेग महावयविनो नाशे सति उक्त- क्रमेण यणुकादि महावयविपर्यन्तव्यूहोत्यत्तिः । तथा च कारणगुणाः कार्यगुणानःरभन्ते इति नियमपि सङ्गच्छते । गौतममते तु अपरिपक घटादौ तु स नियमः परिपक्वतादौ तु युगपत्पाकस्वीकारे न सा व्यवस्था, सर्वत्र तेजःसंयोगस्यैव कारणत्वादिति । परमाणुरूपे कारणत्रयं दर्शयति । तथेति । परमाणुरू इत्यर्थः । इयणुकादिरूपे तद्दर्शयति । द्वयरणुकादि- रूपे इति । आदिना अवयविमात्रपरिग्रहः । पीलुपाकवादिन इति वैशेषिका इयर्थः । वदन्तीति शेषः ।

गोतममतं दर्शयति । पूर्वघटनाशं विनैवेति । श्रवयविनीति । पूर्णवर्या .नीत्यर्थः । श्रवयवेष्विति । तदवयवेष्वित्यर्थः । युगपद्रूपान्तरो पतिरिति । युगपूरूपनाशः तदनन्तरं युगपद्रूपान्तरोदत्तिरित्यर्थः ।

। श्रयमाशयः । अवयविनां सच्छिद्रत् यावत्सु अवयवेषु वन्हेः सूक्ष्मा- वयवैरन्तः प्रांष्टैः सयोगो न रुिध्यते । एषामयमाशयः । तेजसा परमा- शूनामभिघातसंयोगेऽपि तस्य नियमत आरम्भकसंयोगप्रति मिविभागज-

[[६]]

तर्क- सङ्ग्रहः

[[८२]]

नकक्रिया जनकत्वे मानाभावेन भवयविन्यपि पाकस्वीकार उचितः । एवं Versary अवयवनि च युगपद्विजातीयतेजः संयोगाद् युगपदेव पूर्वरूपादि नाशः । तदुत्तरक्षणे युगपदेव रूपान्तरोत्पत्तिः । तथा च सोयं घट इति प्रत्यभिशापि सङ्गच्छते । अनन्तावयविनाशाय कल्पनेन लाघवमपि । न चा- sarfaरूपं प्रति भवयवरूपस्य तचाशं प्रति आश्रयनाशस्य च हेतुतायां व्यभिचार इति वाच्यम् । कार्यतावच्छेदककोटौ वैजात्यनिवेशेन व्यभिचार- वारणादिति श्रतएवेति । पार्थिवपरमाणुवु पूर्वरूपनाशस्य रूपान्तरोत्पत्ते- क्षोभयमतसिद्धत्वादेवे यर्थः । रूपादिकमिति । रूपादिचतुष्टयमित्यर्थः । रूपं द्विविधम् । उद्भुतं अनुद्भूतं च । अत्र यद्वक्तव्यं तदुक्तं प्रागिति ध्येयम् ।

एकत्वादिव्यवहारहेतुः सङ्ख्या । नवद्रव्यवृत्तिः । एकत्वादिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्वित्वादि- कन्तु सर्वत्राऽनित्यमेव ।

दी० - सङ्ख्यां लक्षयति । एकेति ।

गं० - मूले एकत्वादीति । एकत्वम्मादिर्येषान्ते एकत्वादयः । एकत्वा- दीनां व्यवहारः एकत्वादिव्यः हारः, तादृशव्यवहारहेतुत्वं सङ्ख्याया लक्षणम् ।

हारं प्रति व्यवहर्त्तव्यतावच्छेदकस्य कारणतया एकः द्वौ इत्यादिशब्द- प्रयोगे एकद्वित्वादिसङ्ख्यायाः कारणत्वालक्षणसमन्वयः । घटादिवारणाय एकत्वादीति । व्यवहारहेतुत्वं च व्यवहाराऽसाधारणकारणत्र बोध्यम् । तेन कालादीनां कार्यमात्रे कारण वेपि न क्षतिः । इदमुपलक्षणम् । सङ्ख्यावजाति- raat सङ्ख्या सामान्यलक्षणं बोध्यम् । एकस्वमादिर्यस्याः परार्ध पर्यन्तो

टि० १ - एका दिव्यवहारहेतुरिति पाठेतु एकादिरूपो व्यवहारः, भयमेक इत्यादिः रातुरित्यर्थः । एकः द्वौ इत्याकारकः ।

२ एतेन सङ्ख्याया भव विदर्शिता । एकं दश शतं चैव सहस्रमयुतं तथा । लक्ष

[[८३]]

यस्याः सा तथा । एकत्वमिति । द्विविधमिति शेषः । नित्यैकत्वस्याश्रयमाह । नित्यगतमिति । एकत्वनाशं प्रति आश्रयनाशः कारणम्, अतः परमाण्वा- काशादीनां नाशाभावेन तद्गतमेकत्वमपि न नश्यतीत्यर्थः । श्रनित्य- गतमिति । अनित्यं ह्रयणुकादिकं यदा नश्यति तदा तद्गतमेकत्वमपि नश्य तीत्यर्थः । द्विवाstri हैविध्यं नास्तीत्याह । द्वित्वादिकन्त्विति तु अध्यर्थे सर्वत्रेत्युचरं योज्यः । सर्वत्रेति त्रर्थो वर्तमानत्वम् । नित्यद्रव्यवर्चमानं, अनित्यद्रव्यर्तमानं च द्वित्वादिकमनित्यमेव । द्वित्वादिकं अपेक्षा बुद्धया उत्प- द्यते, अपेक्षाबुद्धिनाशात्तनाश इति यावत् । तथा च द्विश्वादिकं प्रति आश्रयः समवायिकारणम् प्रत्याश्रयगतमेकत्वद्वयम समवायिकारणम् । अयमेकः अयमेक इत्याकारिका अपेक्षा बुद्धिः निमित्तकारणम् । अपेक्षावुद्धिश्च भने- by reasoारिका बुद्धिः । द्वित्वादयो व्यासज्यवृतिसङ्ख्याः अपेक्षा बुद्धि- जन्याः, अपेक्षाबुद्धिनाशात्तनाश इति यावत् । तथाहि प्रथमं अयनेकः अय- मेक इत्याकारिका अपेक्षाबुद्विरुत्पद्यते । ततो द्विव्वोत्पतिः तनोद्विनि- कल्पक ज्ञानम् । ततो द्वित्वप्रत्यक्षं इमौ द्वावित्याकारकम्, अपेक्षाबुद्विनाशश्च । ततोऽनेाबुद्धिनाशाद द्विवनाश इति । श्रत्रेदं बोध्यम् । ज्ञानं द्विविवम् । नित्यमनित्यं च । तत्र परमेशि ज्ञानं नित्यम् । तदन्यदनित्यम्, क्षणिकं च । क्षणिकत्वं व तृतीयक्षणवृत्तिध्वंसप्रतियागित्वम् । ज्ञानमात्रं यस्मिन् क्षणे उत्प घते तदुत्तरक्षगे ज्ञानान्तरमुत्पादयति । द्वितीयक्ष गोत्पत्रं व ज्ञानं स्वजनको भूर्त प्रथमगोत्पन्नं ज्ञानं नाशयति । अतः प्रथमक्षगोत्पत्रं ज्ञानं तृतीयक्षणे नश्यति । एवं द्वितीयक्षणोत्पत्वज्ञानस्य चतुर्थक्षणे नाशः । एवं रीत्या ज्ञान- मात्रस्य स्वतृतीयक्षणवृत्ति सप्रतियोगित्वात्क्षणिकत्वं सिद्धम् । नतु प्रहर-

च नियुतं चैव कोटिरर्बुदमेव च ॥ वृन्दं खर्वा निखर्वश्च शङ्खः पपश्च सागरः । अन्त्यं मध्यं परार्धं च दशवृद्धथा यथाक्रमम् ॥ इत्युकेः परार्धपर्यन्तैव सङ्ख्येति यावत् । ३ अनित्यैकत्वस्याश्रयः समवायिकारणम् स्वाश्रयसमवायिकारणगत मेकत्वम- समवायिकारणम् श्राश्रयनाशजन्यनाशखेति ।

"

तर्क -सङ्ग्रहः

"

मात्रममुमर्थं जानवाऽसमित्याद्यनुभवात् ज्ञानस्य बहुक्षणावस्थायित्वमा- वश्यकम् । न चोsस्थळे धारावाहिकज्ञान स्वीकारान्नानुभवविरोध इति चाध्यम् । ज्ञानानन्त्यकरूपने गौरवात्, यत्र तु नोक्तानुभवः तत्रास्तां तृती- क्षणवृत्तिध्वंसप्रतियोगित्वमिति चेत्र । योग्यविभुविशेषगुणानां स्वोचरवर्त्ति - गुणनाश्यत्वात् । तथा च नाशकसत्वान्नाशः स्यादेव । इत्थञ्चोक्तस्थलेऽ ‘नागत्या ज्ञानधारैव कल्पनीया । परन्तु भपेक्षाबुद्धिः क्षणत्रयं तिष्ठति, द्विक्ष- मात्रस्थायित्वे निर्विकल्पकक्षणे एवाऽपेक्षा बुद्धिनाशः स्यात्, ततश्च द्वित्व- स्यैव नाशः स्यान्तु द्वित्वप्रत्यक्षमिति प्रत्यक्षानुत्पत्या अपेक्षाबुद्धेखि- क्षणावस्थायित्वं स्वीकर्तव्यम् । न चाऽपेक्षाबुद्धे द्वित्वप्रत्यक्षे एव कारणत्वम• स्विति वाच्यम् । कार्यतावच्छेदके गौरवात् । न चापेक्षा विनाशकत्वे मानाभाव इति वाच्यम् । अपेक्षाबुद्धिनाशानन्तरं विप्रत्यक्षाभावात् । ननु अपेक्षाबुद्धेः कथं त्रिक्षणावस्थायित्वम्, नाशकत्वादिति area । क्षणिकत्वं हि न तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वम्, ज्ञानतृतीयक्षणवृ- विध्वंसप्रतियोगित्वस्य घटादावपि सत्वेन घटादेरपि क्षणिकत्वापतिः स्वात्, अतः स्वतृतीयक्षणवृतिध्वंसप्रतियोगित्वत्वमेव तद्वाच्यम् । तथा व स्वत्वघटितत्वेन स्वस्वस्य तत्तद्वयतिविश्रान्ततया अपक्षावुद्धेर्न तृतीय- क्षणे नाशः स्वीक्रियते द्वित्वप्रत्यक्षानुरोधात् । न च योग्य विभुविशेषगुणनाशं - प्रति स्वरोत्पचगुणत्वेन कारणत्वे अपेक्षाबुद्धेः स्वोत्तरोत्पन्नसंस्कारादिना कथं न नाश इति वाच्यम् । स्वस्वस्य तचद्वयति विश्रान्ततया अपेक्षाबुद्धिनाशं. प्रति द्विस्वस्वनिर्विकल्पकस्यैव कारणत्वात् । अथ स्वत्वाननुगमेन तद्वयति- विश्रान्तहेतुहेतुमद्भावस्य यत्र प्रहरमात्रं पश्यचेवासमित्यनुभवः तत्रापि नाक- काsकल्पनापातादिति चेव । प्रतियोगिता सम्बन्धेन योग्यविभुविशेषगुणनासं. प्रति स्वाध्यवहितपूर्ववृत्तित्व स्वसामानाधिकरण्योभयसम्बन्धेनोत्तरगुणत्वेन कारणतया स्वत्वस्य सम्बन्धमर्यादया मानेन तत्तद्व्यक्तिविश्रान्तत्वाभावात् । बचाsपेक्षा बुद्धद्वित्वनिर्विकल्पकक्षणे नाशापत्तिरिति वाच्यम् । तत्र द्वित्वनि- विकल्पकस्यापि नाशकतया द्वित्वस विकल्पकोत्पादक्षणे एव नाशाभ्युपगमात्

*५

टीकात्रयोपेतर

इदमुपलक्षणम् । परमाणुद्दित्वं प्रति ईश्वरीयापेक्षापुढेः कारणतया तस्याः नित्यत्वेन द्विस्वस्य नित्यत्वापत्तिभिया नादृशापेक्षावधिकरणक्षणनाशादवि अपेक्षाबुद्धिनाशः स्वीक्रियत इति । महाप्रलयानभ्युपगमे ब्रह्माण्डान्तरवर्तियो- गिनामेवाsपेक्षावुद्धिः कारणमित्यन्यत्र विस्तरः ।

अत्रे बोध्यम् । यस्य समवाय सम्बन्धेन प्रत्येकस्मिन्नपि सत्वेन अयं द्वौ इति प्रतीतिः प्रमा स्यादतो द्विवादेः पर्याप्तिनामकः कश्चित्सम्बन्धः स्वीकार्यः । तथा च द्वित्वादेः पर्याप्तिसम्बन्धेनोभयत्रैव सत्वादिमौ द्वौ इति प्रतीतिरेव भवति न तु अयं ही इति प्रतीतिरिति ध्येयम् ।

मानव्यवहाराऽसाधारणकारणं परिमाणम् । नव द्रव्यवृत्ति । तच्चतुर्विधम् । ऋणु महत् दीर्घ हस्वं चेति ।

दी० - परिमाणं लक्षयति । मानेति । परिमाणं विभजते । सच्चेति । भावप्रधानो निर्देशः । अणुत्वं महत्वं दीर्घत्वं ह्रस्वत्वं चेत्यर्थः ।

गं० - परिमाणं लक्षयतीति । परिमाणविशेष्य कलक्षणप्रामाण्यस्व- रूपप्रकारकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इत्यर्थः ।

मूले । मानव्यवहारेति । मानव्यवहारः “अयमेतावत्परिमाणवान्” इम्यादिशब्दप्रयोगः, ताहराव्यवहारासाधारणकारणत्वं लक्षणम् । अत्र व्यवहर्त्तव्यतावच्छेदकमेतत्परिमाणवत्वम्, तचैतत्परिमाणमेव तथा च तादृश- व्यवहारासाधारणकारणत्वस्य परिमाणे सत्वालक्षणसमन्वयः । दण्डादिवा- रणाय मानेति । कालादिवारणायाऽसाधारणेति । शब्दत्ववारणाय कार- रोति । परिमाणस्य गुणिबोधकशब्दे वि भजनमसं गतमित्यत आह । भाव- प्रधाननिर्देश इति । अणु महद्दीर्घ ह्रस्वं चेति शेषः । इदमुपलक्षणम् । परिमाणत्वजातिमत्वमपि लक्षणम् । न च स्वत्वदीर्घत्वयोः भणुस्व महत्व - भित्र प्रमाणाभावात्परिमाणस्य द्वैविध्यमेवेति वाच्यम् । घटापेक्षया अगु-

। -

वर्क-सङ्ग्रहः

वेन प्रतीयमानेऽपि दण्डादौ घटावधिक स्वत्वव्यवहाराऽभावात् एवं दण्डापेक्षया महत्ववरूपाऽनुभूयमानेऽपि घटादौ तदवधिक दीर्घत्वव्यवहारा- मावाच परिमाणस्य चातुविध्यावश्यकत्वात् । तच परिमाणं नित्यगतं नित्यम् । अनित्यगतमनित्यम् । आश्रयनाशावश्यतीति । अनित्यपरिमाण- मपि त्रिविधम् । परिमाणजन्यं सङ्ख्याजन्यं प्रचयजन्यं च । यथा घटादिपरि- मार्ण कपालादिपरिमाणजन्यम् । श्रसरेणुपरिमाणं हृद्यणुकनिष्ठत्रित्वसङ्ख्या बन्यम् । एवं द्वणुकपरिमाणं परमाणुनिष्ठद्वित्व सङ्ख्याजन्यम् । तूलकादि- परिमाणं प्रचयजन्यम् ।

प्रचयश्च शिथिलसंयोगः । तथा च प्रयत्वं संयोगगतो जातिविशेष इति ध्येयम् ।

पृथग्व्यवहाराऽसाधारणकारणं

सर्वद्रव्यवृत्ति ।

पृथक्त्वम् ।

दी० - पृथकत्वं लक्षयति । पृथगिति । इदमस्मात्पृथगिति व्यव- हाराऽसाधारणकारणं पृथकत्वमित्यर्थः ।

१ न च सर्वत्राऽवयविपरिमाणं प्रति अवयवपरिमाणस्य कारणतया त्रसरेणुपरि- माणं प्रति इयुकपरिमाणं कुतो न कारणमिति वाच्यम् । तथा सति त्रसरेणु परिमाणस्याऽसुतरत्वापत्तेः । परिमाणस्याऽयं स्वभावः, यत्स्वसमानजातीयं स्वोत्कृष्टं च परिमाणं जनयति । साजात्यं च परिमाणविभाजकाऽस्त्वादिरूपेण । उत्कृष्टं च तरतम- त्वादिना । यथा घटपरिमाणं कपालपरिमाणरुचातीयं कपालपरिमाणापेक्षयोत्कृष्टं च. कपालपरिमाणापेचया महत्तरत्वात् । तथैव त्रसरेणुपरिमाणमपि ऋणुतरं स्यादिष्टापत्ती

टेर वा जुषत्वप्रसङ्गाद् द्वयक समवेत विश्व सङ्ख्यैव कारणमिति ध्येयम् ।

२ ननु घटःपटादृथक् घटः पटोनेति प्रतीत्योः समानदेशतया घटः पटोनेति प्रती- सिवत् घटः पटगित्यवाऽपि अन्योन्याऽभाव एव विषयोस्तु किं पृथक्त्वस्य गुणा- न्तरत्वस्वीकारेण । न च विनिगमकाभावात्पृथक्त्वमेवास्तु न तु भन्योन्याभाव इति बाध्यम् । रूपं न घट इति प्रतीत्यनुपपत्तेः । गुणे गुणाऽनङ्गीकारेय घटावधिक पृथक-

टीकात्रयोपेत

गं० - पृथकस्य विशेष्यकलक्षणप्रामाण्यस्वरूपप्रकारकज्ञानानुकूलशब्द- प्रयोगानुकूलकृतिमान्मूलकार इति बोधः । व्यवहारासाधारणकारण- मिति । तादृशव्यवहारजनकतावच्छेदकमुख्य प्रकारताच चमित्यर्थः । तेन पृथकत्ववति अवधिस्थे च नातिव्याप्तिः । घटः पटात्पृथक्, घटौ पटारपृथक्, घटाः पदात्पृथगित्यादिप्रतीत्या पृथकत्वमपि सङ्ख्यावदनेकविधम् एकपृथकत्व द्विपृथकत्व त्रिपृथकत्वादिभेदात् । एक पृथकत्वं द्विविधम्, नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । द्विपृथक्त्वादिकत्व नित्यमेव ।

संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः । दो० - संयोगं लक्षयति । संयुक्तेति । इमौ संयुक्तौ इति व्य- वहारहेतुरित्यर्थः । सङ्ख्यादिलक्षणे सर्वत्र दिक्कालादावतिव्याप्ति- वारणाय असाधारणेति विशेषणीयम् । संयोगो द्विविधः । कर्मजः संयोगजश्चेति । श्राद्यो हस्तक्रियया हस्तपुस्तकसंयोगः । द्वितीयो हस्त पुस्तकसंयोगात्काय पुस्तकसंयोगः । श्रव्याप्यवृत्तिः संयोगः । स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम् ।

गं० - मूले संयुक्तव्यवहारेति । तथा च संयुक्तन्यवहारासाधा- रणकारणत्वं संयोगस्य लक्षणम् । संयोगत्वजातिमत्वमिति यावत् । तेन arrajatiाश्रये तादृशव्यवहारो न जातः तादृशसंयोगे निरुक्त कारणत्व- विरहेऽपि नाव्याप्तिः । श्रद्यः । कर्मज इत्यर्थः । इदमुपलक्षणम् । कर्मजोऽपि द्विविधः । एकक्रियाजन्यः, उभयक्रियाजन्यश्च । एकक्रियाजन्यं

[[1]]

,

त्वस्य रूपेऽभावात् घटाऽन्योन्याभावस्य रूपे सत्वेऽपि तस्य त्वयाऽनभ्युपगमात् । श्रपेचाबुद्धिविशेप विषयत्वरूपत्वेऽपि उक्तानुपपत्तिस्तदवस्थैव रूपं घटात्पृथगिति प्रती- तिविरहात् । सामानाधिकरण्यसम्म्बधेन पृथक्त्वस्य रूपविशेषणत्वे घटो घटात्पृथगिति प्रती- त्यापत्तिः श्रतो नास्ति विनिगमनाविरह इति चेन्न । घटारपृथगितिवत् घटो नेत्य- त्रापि पञ्चमी प्रसङ्गात्, अतिरिक्त पृथक्त्वाङ्गीकार आवश्यक इति ध्येयम् ।तर्क-सङ्ग्रहः

संयोगमुदाहरति । हस्तक्रिययेति । उभयक्रियाजन्यस्योदाहरणन्तु मेष- द्वयक्रियाजन्यसंयोगः इत्यवधेयम् । द्वितीयः । संयोगजसंयोग इत्यर्थः । अथ संयोगजसंयोगे मानाभावः यत्र सक्रियया हस्तपुस्तकसयोगोत्सरं काय पुस्तकसंयोगः तत्र हस्तक्रियाया एव हस्तपुस्तकसंयोगं प्रति कारणत्वं न तु हस्तपुस्तकसंयोगस्येति चेन्न । समवायेन संयोगं प्रति समवायेन क्रियायाः कारणतया कार्य समवायेन क्रियाया अभावेन काये पुस्तकसंयोगा- नुपपत्तिः । अतः संयोगजसंयोगः आवश्यक एवेति ध्येयम् । इदं पुनरिहा- वधेयम् । कर्मजसंयोगो द्विशिषः । अभिघातोनोदनाख्यश्चेति । शब्दहेतुः संयोगोऽभिघातः । शब्दाहेतु द्वितीयः । भवच्छेदकतासम्बन्धेन शब्दं प्रति समवायसम्बन्धेनाऽभिवातः कारणम् । मशिथिलनिविडभेदादपि भेदो बोध्य इति ।

श्रव्याप्यवृत्तिः । दैशिकाव्याप्यवृत्तिः कालिकाऽव्याप्यवृत्तिरचे- त्यर्थः । संयोगः । सर्वोपि संयोग इत्यर्थः । अव्याप्यवृतित्वं निर्वति । स्वात्यन्ताभावेति । स्वं संयोगः तदत्यन्ताभावसमानाधिकरणत्वस्य सं- योगे सत्वात्समन्वयः । इदमुपलक्षणम् । भवच्छिन्न वृशिकत्त्रमव्याप्यवृति- स्वम् । तत्र देशाच्छेद्यवृत्तिकत्वं दैशिकाऽव्याप्यवृत्तित्वम्, कालावच्छेद्यवृत्ति- कत्त्वं कालिकाऽव्याप्यवृत्तित्वमित्यपि बोध्यम् । प्राचीनमते नित्यः संयोगो नास्ति । विभुयसंयोगाङ्गीकन्तु नवीनमते विभुद्वयसंयोगो नित्य इति विशेषः ।

संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः ।

न्या०— विभागं लक्षयति । संयोगनाशक इति । संयोगनाश- कत्वविशिष्टगुणत्वं विभागस्य लक्षणम् । विशेषणमात्रोपादाने क्रिया- यामविव्याप्तिः । तस्या अपि संयोगनाशकत्वात् श्रतस्तवारणाय विशेष्यम् ।

दी० - विभागं लक्षयति । संयोगेति कालादावतिव्याप्तिवारणाय ग्रुप इति । रूपादावतिव्याप्तिवारणाय संयोगनाशक इति । विभागोऽपि

ΣΕ

टीकात्रयोपेतः

द्विविधः । कर्मजो विभागजश्चेति । श्राद्यो हस्तपुस्तविभागः, द्वितीयो हस्तपुस्तक विभागात् कायपुस्तकविभागः ।

गं० - विभागं लक्षयतीति । विभागविशेष्यकलक्षणस्वरूप प्रामाण्यप्र- कारकज्ञा नानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इत्यर्थः । प्रतियोगिता- सम्बन्धेन तं प्रति तादात्म्येन प्रतियोगिनः कारणतया संयोगेऽतिव्याप्तिः तस्यापि प्रतियोगिता संयोगनाशजनकत्वात् गुणत्वाच्च, अतः संयोगना- शनिष्टजन्यतायां प्रतियोगित्व सम्बन्धानवच्छिन्नत्वं निवेशनीयम् । वस्तु. तस्तु स्वरूपसम्बन्धावच्छिन्न संयोगध्वंसत्वावच्छिन्नकार्यतानिरूपितसमवा- यसम्बन्धावच्छिन्नकारणतावत्त्वे सति गुणत्वं विभागस्य लक्षणम् । कार्यताय स्वरूपसम्बन्धावच्छिन्नत्वनिवेशात् संयोगे नातिव्याप्तिः । कारणतार्या समवायसम्बन्धावच्छिनत्वनिवेशात् काले नातिव्याप्तिः । तस्य कालिकेन कार्यमात्रं प्रति तादात्म्येन कारणत्वात् । वस्तुतो विभक्तप्रत्ययासाधारण- कारणत्वम् विभागस्य लक्षणम् इति ।

[[1]]

विभागं विभजते । विभागोऽपीति । संयोगसमुच्चायकोऽपि शब्दो दृष्टान्तार्थः

तार्थः । यथा संयोगो द्विविधः, तथा विभाग इति भावः । विभागद्वय- मुदाहरति । श्रद्य इति । कर्मज इत्यर्थः । अयमपि द्विविधः, एकक्रिया- जन्यः, उभयक्रियाजन्यश्च । तत्राऽद्यस्योदाहरणम्, हस्तपुस्तकविभाग इति । हस्तक्रियया इत्यादिः । उभयक्रियाजन्यश्व, मेपइयविभागादिक बोध्यम् । विभागजविभागमुदाहरति । द्वितीय इति । विभागजविभागो ऽपि द्विविधः । कारणमात्रविभागजन्यः, कारणाकारणविभागजन्यश्च । तत्र कारणमात्रविभागात् कारणाकारणविभागः । यथा कपाउद्वयविभागात् कपालाकाशविभागः ।

तत्प्रकार यत्र भदौ कपाले कर्म । ततः कपालद्वयविभागः । ततो घटारम्भकसंयोगनाशः । ततोऽसमवायिकारणनाशाद् घटनाशः । ततः कपालविभागेन सक्रियस्य कपालस्य आकाशविभागो जन्यते । तत आकाश-

तक- सङ्ग्रहः

[[६०]]

संयोगनाशः । तत उत्तरदेशसंयोगः । ततः कर्मनाश इति । न च येन कपालकर्मणा कपालद्वयविभागो जन्यते तेनैव कपालाssकाशविभागः कथं न जन्यत इति वाच्यम् । एकं कर्म भारम्भकसंयोग प्रतिद्वन्द्विविभागं, अना रम्भकसंयोगप्रतिद्वन्द्विविभागं च न जनयतीति नियमात् । आरम्भकसंयोगः कपालद्वयसंयोगः । तद्विरोधी कपालद्वयविभागः । अनारम्भकसंयोगः कपाला- काशसंयोगः । तत्प्रतिद्वन्द्वी कपालाकाशविभागः उभयजनकत्वमेकस्य कर्म- गोsस्वीकारात् । एकस्यैव कर्मण उभयजनकत्वे विकसत्कमल कुड्मलभङ्ग- प्रसङ्गात् । तथाहि विकासश्च भयावच्छेदेनाऽनारम्भकसंयोगप्रतिद्वन्द्विवि- भागः तज्जन ककर्मणः सत्वात् तेन कर्मणा मूलाऽवच्छेदेनाऽऽरम्भकसंयोग- प्रतिद्वन्द्विविभागोत्पत्या आरम्भकसंयोगनाशात् कमलनाशापत्तिः । न च कपालद्वयविभागेन आरम्भकसंयोगनाशक्षण एवं कपालाssकाशविभागः कथं न जन्यत इति वाच्यम् । घटनाशात् पूर्वं घटस्यैव प्रतिबन्धकत्वेन तदसम्भवादिति ।

कारणाकारणविभागात् कार्याकार्यविभागः । तदुदाहरणमाह– हस्त- पुस्तक विभागादिति । यत्र हस्तक्रियया हस्तपुस्तकविभागस्तत्र शरीरे sपि विभकप्रत्ययो भवति । तत्र शरीरपुस्तकविभागे हस्तक्रिया न कारणम् । भिननिष्ठत्वात् । शरीरनिष्ठोविभागः हस्तनिष्ठं च कर्मेति, शरीरे क्रिया तु नास्त्येव, क्रियाया व्याप्यवृत्तित्वनियमात् । अतो हस्तपुस्तकविभागः शरीर. पुस्तकविभागं जनयतीति सिद्धम् । नचोक प्रतीतौ शरीरपुस्तकध्वंस एव विषयो न तु विभाग इति वाच्यम् । शरीरपुस्तकसजनकतया विभागसिद्धेः । तथाहि शरीरपुस्तकध्वसे हस्तक्रिया न कारणम् व्यधिकरणत्वात् । एतेन विभागो न गुणान्तरम् । संयोगाभावेनैव विभक्तप्रत्ययोपपत्तेरित्यपि परास्तम् । वकप्रत्ययस्य संयोगप्रागभावविषयका वम्, संयोगात्यन्ताभावविषयकत्वम्, संयोगध्वंस विषयकत्वम् संयोगान्योन्याभावविषयकत्वं वा । नाद्यः । घटपटसंयोगोत्पत्तेः पूर्वमेव घटादौ विभक्तप्रत्ययापत्तेः । न द्वितीयः । रूप- जखयोः अवयवावयविनोश्च विभक्तप्रत्ययापत्तेः । न तृतीयः । विभज्य संयु-

St

टीकात्रयोपेतः

केऽपि तत्प्रतीत्यापत्तेः । संयोगध्वंस सत्वात् । न चतुर्थः । तद्भिन्नमात्रे तत्प्र- तीत्यापन्तेरिति ।

परापरव्यवहाराऽसाधारणकारणे परत्वापरत्वे । पृथिव्यादिचतुष्टयमन्तोवृत्तिनी । ते द्विविधे। दिक्कते कालकृते च दूरस्थे दिक्कृतम्परत्वम् । समीपस्थे दिक्कृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वम् कनिष्ठे कालकृतमपरत्वम् ।

[[1]]

दी० - परत्वापरत्वयोर्लचणमाह । परापरेति । परव्यवहार कारणं परत्वम् । अपरव्यवहारकारणपरत्वम् इत्यर्थः । ते विभजते । द्विविधे इति । दिक्कृतयोरुदाहरणमाह दूरस्थे इति । कालकृते उदाहरति । येष्ठे इति ।

गं०- परापरव्यवहाराऽसाधारणकारणे परत्वापरत्वे इति यथा श्रुतमूलात्प्रतीयमानपराव्यवहारोभय निरूपिताऽसाधारणकारणत्व रूपल क्षणस्यपरत्वादावसम्भवग्रस्तत्वादेकैकव्यवहारघटितलक्षणद्वयपरतया मूलं व्या- ष्ट । परव्यवहारेति । परव्यवहारकारणत्वं परत्वस्य लक्षणमित्यर्थः । पर- व्यवहारे व्यवहर्त्तव्यतावच्छेदकं परत्वमिति लक्षणसमन्वयः । परव्यवहारजन- कतावच्छेदकप्रकारताश्रयत्वमिति यावत् । एवमपरत्वलक्षणमपि परिष्करणी- यम् । ते परत्वापरत्वे । मूले। दिक्कते । दैशिकपरत्वापरत्वे । कालकृते । कालिकपरत्वापरत्वे । अत्र परत्वनिष्ठ दैशिकत्वं च बहुतरमूर्त्तसंयोगान्तरित - त्वज्ञानजन्यत्वम् । एवं परत्वनिष्टं कालिकत्वं च बहुतरतपन परिस्पन्दान्तरितत्व- ज्ञानजन्यत्वम् । एवमपरत्वनिष्ठं दैशिकत्वं च भल्पतरमूर्त्त संयोगान्तरितत्वज्ञान- चन्यत्वम् । एवमपरत्वनिष्ठं कालिकत्वं च अल्पतरतपनपरिस्पन्दान्तरितत्व- ज्ञानजन्यत्वम् । दैशिकपरत्वापरत्वे उदाहरति । दूरस्थे इति । दूरस्थनिष्ठं दैशिकपरत्वमित्यर्थः । मन्नावधित्वार्थ पञ्चम्यन्तापेक्षा । यथा पाटलिपुत्रारकाशी-

तर्क-सङ्ग्रहः

[[६२]]

aver प्रयागः परः इत्यत्र पञ्चम्यर्थोऽवधितानिरूपकत्वम्, तस्य परत्वेs- स्वयः । काशीमपेक्ष्येति काशीनिरूपितेत्यर्थः । एवं च पाटलिपुत्रनिष्टावधि तानिरूपककाशीनिरूपितपरत्वाश्रयः प्रयागः इति बोधः । एवं पाटलिपुत्रा- प्रयागमपेक्ष्य काशी अपरा इत्यत्रापि । कालिकपरत्वापरत्वे उदाहरति ज्येष्ठे इति । ज्येष्ठनिष्ठं कालकृतं परत्वमित्यर्थः । चैत्रान्मैत्रः पर इत्यत्र मैत्रे- चैत्रावधिकपरत्वं स्वीकार्यम्, तच चैत्रोत्पत्तिक्षणप्रभृति एतत्क्षणपर्यन्तं जायमानतपन परिस्पन्दसमुदायाऽपेक्षया अधिकतपन परिस्पन्द समुदायवत्वम् । कनिष्ठे इति कनिष्ठनिष्ठं कालिकमपरत्वमित्यर्थः । तच्च मैत्राचैत्रोऽपर इत्यत्र- मैararastrained कनिष्ठत्वं च मैत्रोत्पत्तिक्षयप्रभृति एतत्क्षपर्यन्तं जाय- मानतपन परिस्पन्दसमुदायापेक्षया न्यूनतपन परिस्पन्दसमुदायत्वम् । अत्र दैशिकपरत्वापरत्वयोः तदाश्रयः समवायिकारणम्, दिकपिण्डसंयोगोऽ- समवायिकारणम् । भपेक्षाबुद्धिर्निमित्तकारणम् । कालिकपरत्वापरत्वयोः तदाश्रयः समवायिकारणम् । कालपिण्डसंयोगोऽसमवायिकारणम् । अपेक्षा- बुद्धिनिमित्तकारणम् । अपेक्षाबुद्धिजन्यत्वेन सर्वेषामनित्यत्वम् ।

श्राद्यपतनाऽसमवायिकारणं गुरुत्वम् । पृथिवी-

जलवृत्ति ।

न्या०– गुरुत्वं लक्षयति श्रद्येति । द्वितीयपतनक्रियायां वेगस्यासमवायिकारणत्वात्तत्रातिव्यातिवारणायाद्य वि, उत्तरत्र स्थ-

दने श्रद्यत्वविशेषणमपि पूर्ववदेव योजनीयम् ।

दी० - गुरुत्वं लक्षयति—प्रद्येति । द्वितीयादिपतनस्य वेगा- समवायिकारणत्वाद वेगेऽतिव्यातिवारणाय श्राद्येति ।

गं०- गुरुत्वं लक्षयतीति । गुरुत्वविशेष्यकलक्षणस्वरूपप्रामाण्य- अकारकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान्मूलकार इति बोधः । आद्यं यत्पवनं तस्याऽसमवायिकारणं गुरुवमिति मूलार्थः । तत्र । वेगे। पतनं

[[१३]]

टीकात्रयोपेतः

नाम वृक्षविभागजनकत्र्यापारमारम्य भूमिसंयोगजनकव्यापारपर्यन्तं सर्वाः क्रियाः । तत्र प्राथमिकव्यापारे गुरुवमसमवायिकारणम्, द्वितीयादिपतने गोऽसमवायिकारणम्, तथाच द्वितीयपतनाऽसमवायिकारणत्वाद् वेगेऽति- ब्याप्तिवारणायाऽऽयेति’ विशेषणमिति भावः । पृथिवीजलवृत्तीति । गुरु स्वमित्यनुवर्त्तते । गुरुत्वमतीन्द्रियम्, पतनकायानुमेयम्, अनुमिन्याकारस्तु narai साऽसमवायिकारणं क्रियात्वात् संयोगाऽसमवायिकारणक्रियाव- दिति । नित्यवृत्ति नित्यम् । अनित्यवृत्यनित्यम् । आश्रयः फलादिः सम वायिकारणम् । अवयवसमवेतगुरुत्वं अवयत्रिसमवेत्तगुरुत्वस्याऽसमवायि• कारणम् । श्राश्रयनाशा नश्यतीति । उत्तरत्र । त्वं त्रर्थः । द्रवत्व- क्षणघटकस्यन्दने इत्यर्थः । एवमेव । वेगेऽतिव्याप्तिवारणायैवेति यावत् । (वेगाऽसमवायिकारणत्वात् ) वेगाऽसमवायिकारणकत्वादित्यर्थः ।

श्राद्यस्यन्दनासमवायिकारणं द्रवत्वम् । पृथिवी- जलतेजोवृत्ति । तद् द्विविधम् सांसिद्धिकं, नैमित्तिकं चेति । सांसिद्धिकं जले। नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावभिसंयोगजं द्रवत्वम् । तेजसि सुवर्णादौ ॥

दी० - द्रवत्वं लक्षयति श्राद्येति । स्यन्दनं प्रस्रवणम् । तेजः संयोगजं नैमरिकम् । तद्भिन्नं सांसिद्धिकम् । पृथिव्यां नैमित्तिक- मुदाहरति । घृवादाविति । तेजसि तदाह - सुवर्णादाविति ।

गं० द्रवत्वविशेष्यलक्षणस्वरूप प्रामाण्य प्रकारक ज्ञानानुकूलशब्द- योगानुकूलकृतिमान्मूलकार इति बोधः । आयं यत्स्यन्दनं तस्याऽसमवायि- कारणमित्यर्थः । स्यन्दनं प्रस्रवणमिति । तच्च सन्निकृष्टे द्रव्यसंयोगानु-

१ त्वं स्वसमानाधिकर खपतन प्रतियोगिकध्वं साऽसमानकालीनत्वम् ॥

तर्क-सङ्ग्रहः

S

कूलो व्यापारः पृथिवीजलते जोवृत्तीति । द्रवत्वमित्यनुषज्यते । अग्न्यादितेजः- संयोगो निमित्तं तज्जन्यं नैमित्तिकम् । तद्भिन्नं - अग्न्यादितेजः संयोगाज्जन्य- मित्यर्थः, जले इति । जले एवेत्यर्थः । सांसिद्धिकद्रवत्वस्य नित्यतादिक गुरुत्ववत् । नैमित्तिकं पृथिवीतेजसोरिति । पृथिवीतेजोवृत्तीत्यर्थः । यथा सांसिद्धिकद्रवत्वं याचज्जलवृत्ति न तथा नैमित्तिकद्रवत्वं पृथिवीतेजोवृत्ति पटादौ वन्ह्यादौचाऽभावात्, अतः पृथिवोतेजोविशेषवृत्तिश्वमाह पृथिव्यां घृता- दाविति । घृतादिरूपपृथिव्यामित्यर्थः । आदेना जत्वादिपरिग्रहः । वृत्तित्वं सप्तम्यर्थः अन्यश्चाऽस्य द्रवत्वे । अग्निसंयोगजं द्रवत्वमिति नैमित्तिकद्रवत्व- मित्यर्थः । तेजसि सुवर्णादाविति । सुवर्णादिरूपतेजसीत्यर्थः । आदिना रजतपरिग्रहः । सप्तम्यर्थोवृत्तित्वम्, तस्याऽग्निसंयोगजं द्रवत्वमित्यनुषङ्ग- णान्वयः । स नैमित्तिकं द्रवत्वमनित्यम् । तेजः संयोगोऽसमवायिकारणम् । तेजःसंयोगनाशाच्च नश्यति । अन्यत्पूर्ववद् ।

चूर्णादिपिएडी भाव हेतुर्गुणः स्नेहः । जलमात्रवृत्तिः म्या० - स्नेहं लक्षयति - चूर्णाशति । चूर्णादिपिण्डो भावहेतु- त्वे सति गुणत्वं स्नेहस्य लक्षणम् । पिण्डीभावां नाम चूर्णादेर्धार- णाकर्षणहेतुभूतो विलक्षणः संयोगः । तादृशसंयोगे स्नेहस्यैवासा- धारणकारणत्वं नतु जज्ञादिगतद्रवत्वस्य, तथा सति द्रुतसुवर्णादि- संयोगेन चूर्णादेः पिण्डीभावापत्तेः, अतः स्नेह एवासाधारणं कार- राम् । विशेषणमात्रोपादाने कालादावतिव्यातिरतस्तद्वारणाय वि- शेयोपादानम् । वस्तुतस्तु द्रुतजलसंयोगस्यैव चूर्णादिपिण्डी मात्र- हेतुत्वं स्नेहस्य पिण्डीभावहेतुत्वे मानाभावात् । जले द्रुतत्वविशेष- स्यात् करकादिव्यावृत्तिः ।

दी० - स्नेहं लक्षयति - चूर्णेति - कालादावतिव्याप्तिवारणाथ गुण इति । रूपादावतिव्याप्तिवारणाय पिण्डीभावेति ।

ह५

टीकाप्रयोपेता

गं० - स्नेह विशेष्यकलक्षणस्वरूप प्रामाण्य प्रकारकज्ञानानुकूलशब्दप्रयो- गानुकूलकृतिमान मूलकार इति बोधः, स्नेहं प्रयतीत्यस्य । मूले। चूर्णा- दीति । आदिना सकन्वादिपरिग्रहः । चूर्गादीनां यः पिण्डीभावः अवयवानां विलक्षण संयोगः देशान्तरनिर्गमनप्रतिबन्धकः तस्य हेतुरित्यर्थः । जल- संयोगे चूर्णादीनां पिण्डीभावो जायते तं प्रति जलनिष्टस्नेहः कारणमिति लक्षणसमन्भ्यः । तथा च समवायसम्बन्धावच्छिन्नपिण्डीभावनिष्ठ कार्यतानि- afurered संयोगसम्बन्धावच्छिन कारणत्वं स्नेहस्य लक्षणम् । तादृश- कारणतावच्छेदकतया सिद्धस्नेहस्वजातिमात्रं वा लक्षणम् । मूळे जलमात्र वृत्तिरिति । जलभिने स्नेहव्यवस्थापकप्रमाणाऽभावादिति भावः । भथ घृत- तैलादावपि स्नेहाङ्गीकार आवश्यकः अन्यथा तैलसंयुक्तचूर्गादौ पिण्डीभावा- नुपपत्तेः । तथा च कथं स्नेहस्य जलमात्र वृत्तित्वमिति चेन्न । तैलान्तर्वसिजल स्नेहादेव तत्रपिण्डीमात्रोपपत्तेः । कालिन्दीजलश् गमादिवत् तैले औपाधिकः स्नेहप्रत्ययोपपत्तिः । नच तैलादौ जलसत्वे ततो दहनानुपपत्तिः, जलस्य दह- नप्रतिकूलत्वादिति वाच्यम् । तैलान्तर्वत्तिजलस्यैत्र दहन प्रतिकूलत्वात् । अप- कृष्टस्नेह जलस्यैव दहन प्रतिकूलत्वाद्वा । तैलादौ तु प्रकृष्टःस्नेह इति ध्येयम् । न्यायबोधिन्यां द्रुतजलसंयोगस्यैवेति । एवकारेण स्नेहव्युदासः ! अत्रे बोध्यम् । द्रुतजलसंयोगस्य सांसिद्धिकद्रवत्वस्य स्नेहस्य वा कारणत्व- मियत्र विनिगमनाविरहात्, अतिरिक्त स्नेहसिद्धिः । स्नेहो नित्यवृत्ति- नित्यः । अनित्यवृत्तिरनित्यः । अनित्यः कारणगुणपूर्वकः, आश्रयनाशनाश्य- चेति बोध्यम् ।

[[1]]

श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । सद्विविधः- ध्वन्यात्मको वर्णात्मकश्चेति । ध्वन्या- त्मको भेर्यादौ । वर्णात्मकश्च संस्कृतभाषादिरूपः ।

न्या० - शब्दं लक्षयति-श्रोत्रेति । शब्दत्वेऽतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय श्रोत्रेति ।

तर्क-सङ्ग्रहः

S

दी० - शब्दं लक्षयति-श्रोत्रेति । शब्दत्वेऽतिव्यातिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय श्रान्त्रेति ।

गं०- शब्दं लक्षयतीति । शब्दविशेष्यकलक्षणस्वरूपप्रामाण्यप्रका- एकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलक र इति बोधः । मूले । भोश्रग्राह्य इति । श्रोत्रेण ग्राह्यः श्रीश्रग्राह्यः तृतीयार्थो जन्यत्वम् । ग्रह- धातोर्ज्ञानमर्थः । यत्प्रत्ययस्य लौकिकविपयस्वमर्थः । तथा च श्रोत्रेन्द्रियजन्य- ज्ञानविषयत्वे सति गुणत्त्वं शादस्य लक्षणम् । श्री वेन्द्रियजन्यं यज्ञानं “अयं शब्द इत्याकारकं ज्ञानं” तद्विषयत्वाय शब्दे विद्यमानः लक्षणसमन्वयः । शब्द जातिमत्वं वा शब्दस्य लक्षणम् । तस्याऽऽश्रयमाह । आकाशमात्र- वृतिरिति । शब्दं विभजते । स द्विविध इति । ६ निपदशक्यतावच्छेदकतया सिद्धोजातिविशेषो ध्वनित्वम् । वर्णत्वं च तापोष्टसंयोगजन्य ता च्छेदक- तया सिद्धो जातिविशेषः । ध्वनिमुदाहरति । ध्वन्यात्मको भेर्यादाविति । भादिना मृदङ्गादिपरिग्रहः । अवच्छेद्यत्वं सप्तम्यर्थः । तथा च भेर्याद्यवच्छेद्यः शब्दो कन्यात्मक इत्यर्थः । भेर्यादिः शब्देऽवच्छेदः । शब्दस्तु भेर्याद्य- बच्छेद्यः । एतेन वीथ्यां कोलाहलः । वने कोलाहलः इत्यादिप्रतीतेः अवच्छेद्य- सासम्बन्धेन वीथीवनादिविषयकत्वेनोपपत्तिः । वर्णमुदाहरति । वर्णात्मक . इति । संस्कृतभाषादिरूप इति । आदिना अपभ्रंशभाषापरिग्रहः । ताल्वोष्ठ- घुटसंयोगजन्यशब्दः वर्णस्वरूप इति यावत् । नच तालवाद्यरच्छेद्यशब्दो sire इति कुतो नोक इति वाच्यम् । ध्वनिविशेषस्याऽपि तालवाद्यव• च्छेद्यत्वात् ।

[[1]]

न्या०– स त्रिविधः– संयोगजो विभागजः शब्दजश्चेति । यथा भेरीदण्डसंयोगजो झाङ्कारादिशब्दः, हस्तादिसंयोगजन्यो मृदङ्गादिशब्दः । वंशे पाठ्यमाने दलद्वयविभागजश्चटचटा. शब्दः । शब्दोत्पत्तिदेशमारभ्य श्रोत्रदेशपर्यन्तं वीचितरङ्गन्यायेन

टोकाश्रयोपेतः

वा निमित्तपवनेन शब्दधारा जायन्ते, तत्रान्त्तरोत्तरशब्दे पूर्व पूर्व शब्दः

कारणम् ॥

दी० - शब्दस्त्रिविधः- संयोगजो विभागजः शब्दजश्चेति । नत्राऽऽद्यो भेरीदण्डसंयोगजन्यः । द्वितीयो वंशे पाट्यमाने दलद्वय- विभागजन्यश्चटचटाशब्दः । भेर्यादिदेशमारभ्य श्रोत्रपर्यन्तं द्वितीया- दिशब्दाः शब्दजाः ।

गं० सः धन्यात्मकशब्दः । शब्दसामान्यपरत्वे “र्णस्य विभागजन्यत्वा- भावादसं ज्यापनः । संयोगजः संयोगनिष्टाऽसमवायिकारणतानिरूपित’ निनिष्टका नावच्छेदकतया सिद्धजातिविशेषवान् इत्यर्थः । विभागजः विभागनिष्ठाऽसमवायिकारणता निरूपितकार्यतावच्छेदकतया सिद्धजातिविशे- पवानित्यथः । शब्दजः शब्दनिष्ठाऽसमवायिकारणता निरूपितकार्यतावच्छेदक- तया सिद्धानविशेषवानित्यर्थः । संयोगजध्वन्यात्मकं शब्दमुदाहरति । यथेति । भेरीदण्डसंयोगज इति । भेरीदण्डसंयोग निमिनकारणक इत्यर्थः । तस्य भेोकासयोगोऽसमवायिकारणम् । उदाहरणान्नामध्याह हस्तादि- संयोगजन्य इति । हस्तमृदङ्गसंयोगो निमित्तकारणम् हस्ताऽऽकाश- संयोगोऽसमवायिकारणम् । विभागजध्वनिमुदाहरति । दलद्वयविभागज इति । वंशे पाट्यमाने इति । उत्पाव्यमाने सतीत्यथः । इदं च विशेषणं विभागजन प्रक्रियासम्पत्यर्थम् । वंशक्रियाजन्यः शदलद्वयविभागनिमिनकार- to इत्यर्थः तस्य दलद्वयाकाशविभागोऽसमवायिकारणम् । भाङ्कारादि- शब्द इति चटचटाशब्द इति च ध्वनिविशेषस्थानकरणम् । शब्दोत्पत्ति- देशमारभ्येति एतत्तत्वमग्रे वक्ष्यते । दीपिकायां भेरीदण्डसंयोगज इति । यः स इति शेषः । तस्य भाद्य इति पूर्वेणाऽन्वयः । दलद्वयविभागजन्य इति यः स इति शेषः । तस्य द्वितीय इति पूर्वेणान्वयः । भेर्यादिदेश- मारभ्येति । भेर्यादिदेशाच्छेदेन जायमानध्वनिमारभ्येत्यर्थः । आदिना मृदादिपरिग्रहः । श्रोत्रदेशपर्यन्तमिति । श्रोत्रदेशावच्छेदेन जायमान-तर्क-सङ्ग्रहः

[[8]]

ध्वनिपर्यन्तमित्यर्थः । अन्त्यध्वनिपर्यन्तमिति यावत् । द्वितीयादिशब्दा इति आद्यध्वनिं विहाय द्वितीयः निप्रभृति चरमध्वनिपर्यं ताः ध्वन्यात्मकशब्दा इत्यर्थः । ये ते इति शेषः । शब्दजा इति । ध्वन्यात्मक शब्दाऽसमवायि- कारणका इत्यर्थः । इदमुपलक्षणम् वर्णात्मकोऽपि द्विविधः, संयोगजो वर्णजश्च, आद्यः ताल्वोष्ठपुटसंयोगनिमित्तकारणकः । तस्य ताल्वाकाश- संयोगोऽसमवायिकारणम् । द्वितीयवर्णप्रभृतिअन्त्यवर्णपर्यन्तं सर्वे वर्णाः वर्णाऽसमवायिकारणका इत्यपि बोध्यम् । सर्वोऽपि शब्दोऽनित्यः, अव्याप्य. वृत्तिश्च । अन्यभिनः शब्दः स्वेतर कार्यशब्दनाश्यः, अन्त्यशब्दस्तु उपा- न्यशब्दनाश्य इति ध्येयम् ।

सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा, स्मृतिरनुभवश्च । संस्कारमात्रजन्यं ज्ञानं स्मृतिः । तद्भिन्नं ज्ञानमनुभवः । स द्विविधः, यथार्थोऽय- थार्थश्च ।

न्या० – बुद्धेर्लक्षणमाह । सर्वव्यवहारेति । व्यवहारः शब्द- प्रयोगः । ज्ञानं बिना शब्दप्रयोगाऽसम्भवाच्छब्द प्रयोगरूपव्यवहार- हेतुत्वं ज्ञानस्य लक्षणम् । बुद्धिं विभजते । स्मृतिरनुभवश्चेति । स्मृतिं लक्षयति । संस्कारेति । बहिरिन्द्रियाजन्यत्वविशिष्ट संस्कारजन्य- त्वविशिष्टज्ञानत्वं स्मृतेर्लक्षणम्। संस्कारजन्यत्वविशेषणानुपादानेऽ- नुभवेऽतिव्याप्तिरतखद्वारणाय तदुपादानम् । संस्कारध्वंसेऽविव्या- प्तिवारणाय विशेष्यम् । ध्वंसं प्रति प्रतियोगिनः कारणत्वात् संस्का- रध्वंसेऽपि संस्कारजन्यत्वस्य सत्वात् । प्रत्यभिज्ञायामविव्याप्तिवारणाय मात्र पदम् । अनुभवं लक्षयति । वद्भिन्नमिति । तद्भिन्नत्वं नाम स्मृति- भिन्नत्वम् । तथाच स्मृतिभिन्नत्वविशिष्टज्ञानत्वमनुभवस्य लक्षणम् । विशेषखानुपादाने स्मृतावतिव्याप्तिः, विशेष्यानुपादाने घटादावति-

ES

व्याभिरतस्तद्वारणाय विशेषणविशेययोपादानम् । अनुभवं विभ जते । स द्विविध इति ।

दी० – बुद्धेर्लक्षणमाह । सर्वेति । कालादावतिव्यामिवार साय गुण इति । रूपादावतिव्यानिवारणाय सर्वव्यवहार इति । जानामी- त्यनुत्र्यवसाय गम्यज्ञानत्वं लक्षणमित्यर्थः । बुद्धिं विभजते । सेति । स्मृतेर्लक्षणमाह । संस्कारेति । भावनाख्यः संस्कारः । संस्कारध्व- सेऽतिव्यानिवारणाय ज्ञानमिति । घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति । प्रत्यभिज्ञायामतिव्याप्तिवारणाय मात्रेति । अनुभवं लक्षयति । तद्भिन्नमिति । स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः । अनुभवं विभजते । स द्विविध इति ।

गं० सर्वे च ते व्यवहारास्तेषां हेतुः व्यवहार सामान्यहेतुरित्यर्थः । शब्दप्रयोग इति । वुबोधयिषापूर्वक इत्यादिः । ज्ञानं विना । वाक्यार्थज्ञानं विना शब्दप्रयोगाऽसम्भवात् । अर्थं बुध्द्धा शब्दरचनेति न्यायादिति भावः । तथा च तादृशव्यवहारजनकतावच्छेदक जातिमत्वमर्थः । तेन निर्विकल्पकादौ नाव्याप्तिः । बुबोधयिषापूर्वक वाक्यप्रयोगे वाक्यार्थज्ञानखेन कारणत्वात् कार णतावच्छेदकज्ञानत्वमादाय लक्षणसमन्वयः । वुद्धिरिति लक्ष्यनिर्देशः । लघुल- क्षणनाह । ज्ञानमिति । ज्ञानस्वजातिमवं बुद्धेर्लक्षणमित्यर्थः । ज्ञानस्वजाति- सिद्धिस्तु तादृशव्यवहारजनकतावच्छेदकतया ज्ञानपदशक्यतावच्छेदकतया वर बोध्या । ज्ञानपदस्य बुद्धिलक्षणपरत्वं स्वयमाह दीपिकायां । जानामीत्या- दिना । वदमहं जानामीत्य नुध्यवसायसि दज्ञानस्वमित्यर्थः । विषय विनिर्मोकेण्ट केवलज्ञान व्यवसायस्याऽलीकतया यथाश्रुताऽसङ्गतेः ।

संस्कारेतराजन्यत्वमिति

संस्कारमात्रेत्यस्य

यथाश्रुतार्थपरत्वे असम्भवः, स्मृतौ संस्कारेतराऽऽत्मादिजन्यत्वसत्वादत उक्तम् । वहिरिन्द्रि-

याऽजन्यत्वविशिष्टेति/

वक-सङ्ग्रहः

[[१००]]

मूले। स द्विविध इति । सः अनुभवः । द्वैविध्यं दर्शयति यथार्थोऽयथार्थश्चेति । प्रमासामान्यलक्षणन्तु भगवद्ज्ञानवृत्तिविषयिता- वत्वे सति अनुभवत्वम् । इदं च ज्ञानभेदेऽपि विषयिताया ऐक्यमिति मतेन । विपविताभेदे तु अनुपदमेव वक्ष्यते । भ्रमसामान्यलक्षणन्तु ईश्वरज्ञानाऽवृत्ति- विषयितावत्वमिति ध्येयम् ।

तद्वति तत्प्रकारकोऽनुभवो यथार्थः । सैव प्रमे-

त्युच्यते ।

न्या०– यथार्थानुभवं लक्षयति । तद्वतीति । तद्वतीत्यत्र सप्त- म्यर्थो विशेष्यत्वम् । तच्छब्देन प्रकारीभूतो धर्मो ग्राह्यः । तथा च तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वे सति अनुभवत्वं यथार्थानुभवस्य लक्षणम् । उदाहरणम् । रजतत्ववद्विशेष्यकत्वे सति रजतत्वप्रकारकं रजते " इदं रजतम्” इति ज्ञानम् । तद्वन्निष्ठविशेष्यता निरूपित- तन्निष्ठप्रकारनाशात्यनुभवत्वमिति निष्कर्षः । अन्यथा यथाश्रते रङ्गरजतयोरिमे रजतरङ्गे इत्याकारकसमूहालम्बनेऽतिव्याप्तिः । तत्रापि रजतत्वद्विशेष्यकत्वरजतत्वप्रकारकत्वयोः, रङ्गत्ववद्विशेष्य- कल्वरङ्ग त्वप्रकारकत्वयोश्च सत्वात् । उक्त निष्कर्षे तु दर्शितभ्रमे नातिव्याप्तिः । तज्ज्ञानस्य रङ्गांशे रजतत्वावगाहित्वेन रजतांशे रङ्ग- त्वावगाहित्वेन रजतत्वप्रकारतायाः रङ्गत्ववन्निष्ठविशेष्यतानिरूपितत्वे- ऽपि रङ्गत्वनिष्ठप्रकारतायाः रजतत्ववन्निष्ठविशेष्यतानिरूपितत्वेऽपि रजतत्वप्रकारतायाः रजतत्ववन्निष्ठविशेष्यता निरूपितत्वाभावात्, रङ्ग- त्वप्रकारतायाः रङ्गत्ववन्निष्ठविशेष्यतानिरूपितत्वाभावाच ।

गं० - प्रमाविशेषलक्षणमाह । तद्वतीति । तदस्यास्तीति तद्वान् तस्मिन् । तथाचेति । यत्र पुरोवर्त्तिनि रजते इदं रजतम् इत्याकारकं ज्ञानं जातं,

[[१०१]]

टोकाश्रयोपेतः

स यथार्थानुभवः । तत्र लक्षण समन्वयोsरि । तथाहि Freestने भयो

विषयाः । विशेष्यः प्रकारः, संसर्गव । तत्र रजतं विशेष्यः । रजनत्वं प्रकारः । समवायः रजतविशेष्यकं रजतत्वप्रकारकं समवायसंसर्ग नच्छदेन प्रकारीभूतरजतन्वग्रहगे तद्वत् रजतं

"” इदं पदार्थः

संसर्गः । एवं व तज्ज्ञानं

भवतीति । च

तचाsत्र ज्ञाने विशेष्य

तत् रजतत्वम्, तच्चाऽत्र ज्ञाने प्रकारः । तद्वद्विशेष्यकत्वे सति तत्प्रकारक सति अनुभवरूपलक्षणस्य " हवं रजतम् " इन्याकारकानुभवे सवालक्षण- समन्वयः । यथार्थानुभवेऽतिव्याप्तिवारणाय सत्यन्तद्वयम् । स्मृतावति- व्याप्तिवारणायाऽनुभवत्वनिवेशः । अत एव ज्ञानत्वमपि नोक्तम् । नचेष्टा- पत्तिः । प्रमायाः पञ्चविधत्वेन तकरणस्यानुभवस्य इन्द्रियादिवत् पञ्चम- प्रमाणत्वापतेः । तथा च प्रत्यक्षानुमानोपमानशब्दः प्रमाणानि इति सूत्रविरोधः स्यादिति ध्येयम् । नतु रङ्गांशे रजनन्वप्रकारकं रजतांशे रङ्गाव- प्रकारकं यत् ‘रङ्गरजतयोः” इमे रजतरङ्ग इति समूहाम्ब नभ्रमः, तत्रा- तिव्याप्तिरित्यत आह तद्वन्निष्ठविशेष्यतानिरूपितेति । श्रन्यथा उक्त- निष्कर्षाभावे । एवं च यत्र यः प्रकारः तनिष्ठविशेष्यताप्रकार तयोर्निरूप्य निरूपकभावः । अत्र रङ्ग रजतत्वं प्रकारः तथा च रङ्गनिष्ठ विशेष्यता रजतत्वनिष्टप्रकारतयोर्निरूप्यनिरूपकभावः । एवं रजते रङ्गत्वं प्रकारः, तथा चं रजतनिष्ठविशेष्यतारङ्गत्वनिष्ठप्रकारतयोर्निरूप्यनिरूपकभावः । एवं च रङ्गत्ववन्निष्टविशेष्यतानिरूपितर ङ्गखनिष्ठप्रकारताशालित्वविरहेण रज- तत्ववन्निष्टविशेष्यतानिरूपितरजतत्वनिष्ठ प्रकारताशालित्वविरहेण च नोक- अमेऽतिव्याप्तिरित्याह उक्तनिष्कर्षे स्थिति । नातिव्याप्तिरिति शेषः । केचित्तु ययोर्विषयतयोनिरूप्यनिरूपक मात्रः तनिरूपित विषयितयोरवच्छेद्याच्छे- दकभावः इति नियमः । तथा च तद्विशेष्य कत्वावच्छिन तत्प्रकारकत्वमिति पर्यवसितार्थे नोकभ्रमेऽतिव्याप्तिरिति प्राहुः ।

[[1]]

,

दी० - यथार्थानुभवस्य लक्षणमाह । तद्वतीति । ननु घटे घटत्वमिति प्रमायामव्याप्तिः, घटत्वे घटाभावादिति चेन्न । यत्र

तर्क -सङ्ग्रहः

[[૦૨]]

यत्सम्बन्धोऽस्ति तत्र तत्सम्बन्धानुभव इत्यर्थाद्, घटत्वे घटसम्बन्धो- ऽस्तीति नाव्याप्तिः । सैवेति । यथार्थानुभव एव शास्त्रे प्रमेत्यु- फरते, इत्यर्थः ।

[[1]]

गं०– ननु तद्वतीत्यस्य तदधिकरणे इत्यर्थकतया “घटे घटत्वमिति प्रमायामव्याप्तिः । तस्या घटत्वं आधेयतासम्बन्धेन घटवदित्यर्थकतया विशेष्यीभूतघटत्वे संयोगादिवृत्तिनियामक सम्बन्धेन प्रकारीभूतघटवत्वाभा• वात्,

आधेयतायाश्च वृत्तिनियामकत्वाभावादित्याशयेन शङ्कते । नन्विति । तद्वत् पदस्य तत्सम्बन्ध्यर्थकत्वमित्यभिप्रायेण समाधत्ते । यत्र यत्सम्बन्धो- ऽस्तीति । यो यत्सम्बन्धी भवतीत्यर्थः । तथा च तेन सम्बन्धेन तत्सम्बन्धि निष्ठविशेष्यतानिरूपिततः सम्बन्धावच्छिन्नतन्निष्ठप्रकारताशाल्यनुभवत्वस्य - क्षणत्वस्वीकारादिति यावत् । सैवेति । यथार्थानुभव एवेत्यर्थः । प्रमेत्यु- च्यते इति । प्रमाशब्देन व्यवहियत इत्यर्थः ।

अत्रेदं बोध्यम् । प्रमात्वं द्विविधम् । आंशिक प्रमात्वम्, सर्वाशे प्रमात्वं च । तद्वति तत्प्रकारकत्वमिति तु भांशिकप्रमात्वम् । अनुगमस्तु विशेष्यता- विशिष्टप्रकारताकत्वं ज्ञाने निवेश्यम् । बै० स्वनिरूपितत्व-स्वाश्रयनिष्ठा- धिकरणतानिरूपितनिरूपकतावस्तोभयसम्बन्धेन । निरूपकतावत्ता व स्व- सामानाधिकरण्य– स्वावच्छेदकसम्बन्धावच्छिन्नत्व-स्वानवच्छेदकान वच्छिन्न– त्वस्व वृतित्वैतच्चतुष्टयसम्बन्धेन । स्ववृत्तित्वं च स्वानवच्छेदकानवच्छिन्नत्व- सम्बन्धेनेति ।

सर्वाशे प्रमात्वन्तु विशेष्यताविशिष्टप्रकारत्वाऽनिरूपकावं ज्ञाने निवे- श्यम् । चै० स्वनिरूपितत्व-स्वाधिकरणनिष्ठाधिकरणतानिरूपितनिरूपकता- वदन्यत्वोभयसम्बन्धेन । निरूपकतावत्ता चोकचतुष्टयसम्बन्धेनेति । इदमे– व अमसामान्यभिश्चत्वमपीति ध्येयम् ।

तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः

सैवाऽप्रमेत्युच्यते ।

[[२०३]]

त्या

  • यथार्थानुभवं लक्षयति । तदभाववतीति । अत्रापि पूर्ववत् तदभाववन्निष्टविशेष्यतानिरूपिततन्निष्ठप्रकारनाशाल्यनुभवत्वं विवक्षणीयम् । अन्यथा यथाश्रुते रङ्गरजतयोरिमे रङ्गरजते इत्या- कारकसमूहालम्बनप्रमायामतिव्याप्तिः । तस्या रजतरङ्गो भय विशेष्यक- स्वेन रजतत्वरङ्गलोभयत्रकारकत्वेन च रजतत्वाभाववङ्गविशेष्यक- त्व- रजतत्वाभावप्रकारकत्वयोः रङ्गत्वाभाववद्रजतविशेष्यकत्व-रङ्गत्व- प्रकारकत्वयोश्च सत्वान् । उक्तनिष्कर्पे तु न तत्राऽतिव्याप्तिः । प्रमायाः रजतांशे रजतत्वावगाहित्वेन रङ्गांशे रङ्गत्वावगाहित्वेन च रजतत्व- रजतत्वाभाववद्रङ्गनिष्ठविशेष्यतानिरूपितत्वाभावात्, रङ्गत्व प्रकारतायाः रङ्गत्वाभाववद्रजतनिष्ठविशेष्यता निरूपितत्वाभा वाच । उदाहरणम् । रजतत्वाभाववद्विशेष्यकत्वे सति रजतत्वप्र- कारकं “शुक्तौ इदं रजतम्” इति ज्ञानम् ।

प्रकारतायाः

दी० - अयथार्थाऽनुभवं लक्षयति । तदभावप्रतीति । नन्विर्द संयोगीति प्रमायामतिव्याप्तिरिति चेन्न । यदवच्छेदेन यत्सम्बन्धाभावः तदवच्छेदेन तत्सम्बन्धज्ञानस्य विवक्षितत्वात् । संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्संयोगावच्छेदेन संयोगसम्बन्धस्य सत्खान्ना- तिव्याप्तिः ।

गं० - श्रयथार्थाऽनुभवं लक्षयतीति । अयथार्थाऽनुभवविशेष्यक- लक्षणस्वरूप प्रामाण्यप्रकारकज्ञानानुकूल शब्द प्रयोगानुकूलकृतिमानिति बोधः । मूले। तदभाववतीति । अत्रापि तच्छब्देन प्रकारीभूतो धर्मो धर्त्तव्यः । तस्याभावस्तदभावः सोऽस्यास्तीति तदभाववान् तस्मिन् । सप्तम्यर्थो विशेष्य- त्वम्, तत्र प्रकृत्यर्थस्य " तदभाववतो” निष्ठत्यसम्बन्धेनान्त्रयः । तस्य च निरूप- कत्व सम्बन्धेन ज्ञानेऽन्वयः । तथा च तदभाववनिष्टविशेष्यतानिरूपकत्वे सति तथ्यकारकrवं लक्षणम् । यत्र पुरोवर्त्तिनि शुक “इदं रजतम्” इत्याकारकं

तर्क-सङ्ग्रहः

to

ज्ञानं जातं सोऽयथार्थानुभवः । स एत्र लक्ष्यः । एवं चात्र तच्छदेन प्रकारी- भूतरजतत्वं प्राह्यम् । तदभाववती शुक्तिः । सा चाsत्रज्ञाने विशेष्या । तत्- रजतस्वमं तच्चात्र ज्ञाने प्रकार इति तदभाववद्विशेष्यकत्वे सति तत्प्रकारकत्वे सति अनुभवत्वरूप लक्षणस्य शुक्तिविशेष्यकर जतत्व प्रकार के “इदं रजतम् "

अनुभवत्वरूपलक्षणस्य इत्याकारकाऽयथार्थानुभचे सत्वालक्षणसमन्वयः । अत्रापि । अयथार्थाऽनु- भवलक्षणेपि । पूर्ववदिति । यथार्थाऽनुभवलक्षणवदित्यर्थः । विवक्षणीय- मिति । तथा च सप्तम्यर्थविशेष्यतायाः न निरूपकत्वसम्बन्धेन ज्ञानेऽन्वयः, किन्तु निरूपितत्सम्बन्धेन प्रकारतायामन्वयः “तत्प्रकारक इत्यस्य तन्निष्ट- कारता निरूपितप्रकारितावानित्यर्थात् " इति भावः । अथवा सप्तम्यर्थो विशे- ध्यकत्वं “विशेष्यित्वम्” तत्र निरूपितत्वसम्बन्धेन प्रकृत्यर्थस्याऽन्वयः । तस्याः- afच्छara संवन्धेन प्रकारकत्वे “प्रकारितायां” अन्वयः । तथाच तदभाववद्विशे- ध्यकत्वावच्छिन्नतत्प्रकारकत्वानुभवत्वं तदर्थः । विवक्षायाः फलमाह । श्रन्यथे. ति । अविवक्षित इत्यर्थः । रजतत्वावगाहित्वेन । रजतत्वप्रकारकत्वेन । शेषं स्पष्टार्थम् । श्रमविशेषलक्षणस्य प्रमाविशेषेऽतिव्याप्तिमाशङ्क्य निरा- करोति । दीपिकायां नन्विति । इदं संयोगीति प्रमायामिति । वृक्षः कपिसंयोगीति प्रमायां, अग्रावच्छिन्नो वृक्षः कपिसंयोगीति प्रमायां चेत्यर्थः । यतिव्याप्तिरिति । वृक्षादेरपि कपिसंयोगाभाववत्वादित्यर्थः । यदवच्छे- देन यत्सम्बन्धाभाव इति । यत्सम्बन्धावच्छिन्नयन्निष्टप्रतियोगिताकाभावा- वच्छेदकोयः इत्यर्थः । यथाश्रुते कपिसंयोगस्य समवायेनाऽव्याप्यवृत्तित्वेऽपि समवायस्य व्याप्यवृत्तितया तदभावस्यापि व्याप्यवृत्तित्वेनाऽवच्छेदकाऽप्र- सियासङ्गव्यापतेः । तदवच्छेदेन तत्सम्बन्धज्ञानस्येति । तदवच्छिन्न- विशेष्यतानिरूपिततत्सम्बन्धावच्छिन्नत निष्टप्रकारताशा लिज्ञानस्येत्यर्थः । तत्सं अन्धावच्छितनिष्ठप्रतियोगिताका भावावच्छेदकावच्छिन्न विशेष्यतानिरूपितत- सम्बन्धावच्छ्रितनिष्ठ प्रकारताशालिज्ञानस्येति समुदितार्थः । तथा च वृक्षः कपिसंयोगीति प्रमीय विशेष्यतायाः कपिसंयोगाभावावच्छेदकीभूतमूलावच्छि- अस्वाभावेन तादृशप्रमायां नातिव्याप्तिः । मूलावच्छिलो वृक्षः कपि-

[[१०५]]

[[1]]

टीकात्रयोपेतः

संयोगीत्यादिभ्रमे लक्षणमुपपाद्य अग्रावच्छिन्नो वृक्षकपिसंयोगीति प्रमायाम. तिव्याप्तिं वारयति । संयोगाभावावच्छेदेनेति । कपिसं योगाभावावच्छेद- कीभूतमूलावच्छिन्न विशेष्य तानिरूपित कपिसंयोगनिष्ठप्रकारताशा लिज्ञानस्येत्य- धः भ्रमत्यादिति । निरुक भ्रमरुक्षणाऽक्रान्तत्वादित्यर्थः । नाव्याप्तिरिति शेषः । संयोगावच्छेदेनेति । संयोगावच्छेदकीभूताऽग्रावच्छेदेनेत्यर्थः । संयोगसम्बन्धस्य सत्वादिति । कपिसंयोगसत्वादित्यर्थः । नातिव्याप्ति- रिति । अग्रावच्छेदेन वृक्षः कपिसंयोगीति प्रमायामित्यादिः । अप्रादेः कपिसंयोगावच्छेदकत्वेन तदभावावच्छेदकत्वाभावान्न तादृशप्र मायामति- व्याप्तिरिति भावः ।

अत्रापि ज्ञाने विशेष्यताविशिष्टप्रकारतानिरूप करवमेवानुगतं भ्रमत्वम् । बै० उक्तोभयसम्बन्धेन । द्वितीयसम्बन्धघटक वै० उक्तचतुष्टयसम्बन्धेनेति ।

यच्च नित्यज्ञानाऽवृत्तिविषयितावत्वमेव तदिति पूर्वमुक्तम् तन्नसम्यक् । नित्यज्ञाने विशिष्टविषयित्वाऽनुपगमे समानाकारकविषयिताया ऐक्यानुपगमे वा अस्मदादिप्रमायामतिव्यातेरिति ध्येयम् ।

यथार्थानुभवश्चतुर्विधः । प्रत्यक्षानुमित्युपमिति- शाब्दभेदात् । तत्करणमपि चतुर्विधम्, प्रत्यक्षानुमा- नोपमानशब्दभेदात् ।

न्या० - यथार्थानुभवं विभजते चतुर्विध इति । तत्करणमिति । फलीभूत प्रत्यक्षादिकरणं चतुर्विधमित्यर्थः । प्रत्यक्षादिचतुर्विधप्रमा- णानां प्रमाकरणत्वं सामान्यलक्षणम् । एकैकप्रमाणलक्षणं तु वक्ष्यते, प्रत्यक्षज्ञानेत्यादिना ॥

दी० – यथार्थानुभवं विभजते यथार्थेति । प्रसङ्गात् प्रमाकरणं विभजते तत्करणमिति । प्रमाकरणमित्यर्थः । प्रमायाः करणं प्रमा- समिति प्रमाणसामान्यलक्षणम् ।

तर्क-सङ्ग्रहः

[[१०६]]

गं०– यथार्थाऽनुभवं विभजते इति । यथार्थाऽनुभवत्वाचान्तर- परस्पराऽसङ्कीर्णधर्म प्रकारकयथार्थानुभव विशेष्यकज्ञानानुकूलशब्दप्रयोग नुक् - कृतिमान् मूलकार इति बोधः । प्रत्यक्षं प्रत्यक्षप्रमा अनुमितिः- अनुमितिप्रमा। उपमितिः उपमितिप्रमा शाब्द- शाब्दप्रमा। तत्करणम्- यथार्थानुभवकरणम् । तथा च प्रत्यक्षप्रमाकरणं प्रत्यक्षप्रमाणम् । अनुमिति- ‘प्रमाकरणमनुमानप्रमाणम् । उपमितिप्रमाकरणं उपमानप्रमाणम् । शाब्द- प्रमाकरणं शब्दप्रमाणम् । दीपिकायां प्रसङ्गादिति । प्रसङ्गश्च स्मृतिविष- यत्वे सति द्वेषाविषयत्वम् तस्मादित्यर्थः । सामान्यधर्मज्ञानस्य विशेष- धर्मजिज्ञासां प्रति कारणतया प्रमाणसामान्यलक्षणमाह । प्रमायाः करण. मिति । प्रमानिष्टकार्यतानिरूपितकरणमित्यर्थः ।

}

असाधारणं कारणं करणम् ।

न्या०– करणलक्षणमाह- असाधारणमिति । व्यापारवद- साधारणं कारणं करणमित्यर्थः । असाधारणत्वभ्व कार्यत्वातिरिक्त- धर्मावच्छिन्न कार्यतानिरूपितकार हताशालित्वम् । यथा दण्डादेर्घ- टादिकं प्रत्यसाधारणकारणत्वम् । कार्यत्वातिरिक्को घटत्वादिरूपो धर्मः तदवच्छिन्नकार्यता घटे तन्निरूपितकारणता दण्डेऽतो घटं प्रति दण्डोऽसाधारणं कारणम् । भ्रम्यादिरूपव्यापारवत्त्वाच कर णम् । साधारणकारणत्वश्व कार्यत्वावच्छिन्न कार्यतानिरूपित कारण- वाशालित्वम् । यथेश्वरादृष्टादेः कार्यत्वावच्छिन्नं प्रत्येव कारणत्वात् साधारणकारणत्वम् ।

दी० - करणलक्षणमाह असाधारणेति । साधारणकारणे दिक्कालादावतिव्याप्तिवारणाय असाधारणेति ।

गं०- करणलक्षणमाहेति । प्रसङ्गसङ्गत्येति शेषः । करणलक्षण- मिरवत्र द्वितीयार्थो विषयित्वम्, तस्य धात्वर्यैकदेशे ज्ञानेऽन्वयः । प्रधात्क

[[2]]

टीकात्रयोपेतः

श्व ज्ञानानुकूलशब्दप्रयोगः । तथा च करणलक्षणविषयकज्ञानानुकूल. शब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । कार्यत्वातिरिकेति । कार्यत्वभिन्नत्यर्थः । कार्यत्वव्याप्येति यावत् । तच न्यूनवृत्तित्वरूपम् । एवं व कार्यत्वव्याप्यधर्मावच्छिन्न कार्यतानिरूपितकारणतावत्वम साधारणत्वम् । चम्यादिरूपव्यापारवत्वाच्चेति तज्जन्यत्वे सति तज्जन्यजनको हि व्या-

पार,

एवं च भ्रम्यादेः दण्डजन्यत्वमस्ति दण्डजन्य घटजनकत्वमस्तीति श्रभ्यादेर्व्यापारत्वमुपपन्नम् । जनकतासम्बन्धेन तद्वत्स्त्वस्यापि दण्डे सत्वादिति भावः । श्रम्यादिरूपव्यापारेऽतिव्याप्तिवारणाय व्यापारवदिति कारणविशेष. म् । ईश्वराऽष्टादेरिति । आदिना ईश्वरीयज्ञानेच्छाकृतीनां प्रागभाव- कालदिशां षण्णां परिग्रहः ।

कार्यनियतपूर्ववृत्तिकारणम् ।

न्या० - कारणं लक्षयति- कार्यनियतेति । कार्य प्रति निय- तत्वे सति पूर्ववृत्तित्वं कारणत्वम् । नियतत्वानुपादाने पूर्ववर्तिनो रासमादेरपि घटादिकारणत्वं स्यात्, अतो नियतत्वे सतीति विशेष- णम् । नियतपूर्ववर्तिनो दरडरूपादेरपि घटकारणत्वं स्यादतोऽ- नन्यथासिद्धत्वमपि कारणलक्षणे निवेशनीयम् एवं च न तत्राति- व्याप्तिः, दण्डरूपादीनामन्यथासिद्धत्वात् ।

दी० - कारणलक्षणमाह- कार्येति । ‘पूर्ववृत्ति कारणम्” इत्युक्ते रासभादावतिव्याप्तिः स्यादतो नियतेति । तावन्मात्रे कृते कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति ।

गं० — कारणं लक्षयतीति । कारणविशेष्यकलक्षणस्वरूपप्रामाण्यप्रका* रकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । कार्यं प्रति । कार्योत्पत्ति प्रति । नियतत्वे सति । व्यापकत्वे सति । यथा घटं प्रति दण्डः कारणम् । तत्र हि कार्यों घटः तदुत्पत्तिं प्रति दण्डो व्यापकःतर्क- सङ्ग्रहः

[[१०८]]

" ra ra घटोत्पत्तिः तत्र तत्र दण्ड इति व्याप्त्या दण्डस्य व्यापकत्वम्’ कार्यपूर्ववर्ती च दण्ड इति कार्योत्पत्तिव्यापकत्वे सति पूर्ववृत्चित्वरूपलक्षणस्य दण्डे सत्वालक्षणसमन्वयः । एवं च कार्याऽव्यवहितप्राकक्षणावच्छेदेन कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणवृत्यत्यन्ताभावप्रतियोगिता नवच्छेदक- धर्मवत्वं कारणत्वम् । यथा कार्यतावच्छेदकीभूतसमवायसम्बन्धेन घटाधि. करणे कपाले स्वजन्यत्रमिवत्तासम्बन्धेन दण्डो नास्तीत्यभावो गृहीतुं नैत्र शक्यते किन्तु वटो नास्तीत्यभाव एव तत्प्रतियोगितावच्छेदकं घटवं अन- वच्छेदकं दण्डवं तद्वत्वस्य दण्डे सत्वालक्षणसङ्गतिः । “समवायेन घटं प्रति स्वजन्यमिवत्तासम्बन्धेन दण्डः कारणमिति” । न च तादृशाभावाप्रति- योगित्वमित्येव सम्यक् किमनवच्छेदकत्वानुधावनेनेऽति वाच्यम् । अरण्य- स्थदण्डादेः कारणत्वानुपपत्तेः । तत्रापि कारणत्वमिष्यते तथाहि कारणत्वं द्विविधम् । फलोपधानरूपं स्वरूपयोग्यत्वरूपं च । आद्यं व्यवहितपूर्व- वर्त्तनि दण्डादौ । तच फलविशिष्टत्वम् । वै० स्थाव्यवहितपूर्ववृत्तित्व सम्बन्धेन द्वितीयं चाsरण्यस्थदण्डादौ । तच्चाऽव्यवहितपूर्ववर्त्तितावच्छेदकधर्मवत्वमिति । घटादिकारणत्वं स्यादिति । तथा च रासभादावतिव्याप्तिरिति भावः । तस्य घटपूर्ववृत्तित्वादिति यावत् । श्रतो नियतत्वे सतीति । तथा च रासभादेर्घदव्यापकत्वविरहेण नातिव्याप्तिरिति भावः । तावन्मात्रे कृते इति । कार्यनियतत्वमात्रस्य लक्षण इत्यर्थः । कार्ये घटे अतिव्याप्ति- रिति । स्वस्मिन् स्वव्यापकत्वसत्वात् । पूर्ववृत्तीति । तथा च स्वस्य स्वपूर्ववृत्तित्वाभावाश्वातिव्याप्तिरिति भावः । दण्डरूपादेरपीति । अपिना दण्डसमुच्चयः । तथा च घटं प्रति यथा दण्डः कारणम्, तथा दण्डरूपमपि कारणं स्यात्, घटं प्रति नियतपूर्ववर्त्तित्वादिति भावः । नचाऽनियतरास भादेः अनन्यथासिद्धत्वविशेषणेनैव वारणात् नियतपदं व्यर्थमिति वाच्यम् । दण्डस्य दण्डत्वेन वटजनकत्वेऽपि द्रव्यत्वेनाऽन्यथासिद्धत्वम् “विशेषधर्मेण- व्यभिचाराऽज्ञाने सामान्य धर्मेणाऽन्यथासिद्धत्वात् एवं च दण्डादौ अनन्यथा- सिद्धत्वाभावेन घटकारणत्वानुपपत्तिवारणाय अन्ययासिद्धयनिरूपकत्वं धर्मे

[[२०६]]

वम्,

[[1]]

टीकात्रयोपेतः

विशेषणीयम् एताद्दशार्थलाभायैव नियतपदोपादानादिति । वस्तुतस्तु अनन्यथासिद्धत्वं अन्यथासिद्धभेदकूटवत्वम्-तथाच भेदकूटनिवेशे गौर- अतो. नियतपूर्ववर्त्तितावच्छेदकयद्धर्मावच्छिने न कारणत्व व्यवहारः प्रमाणिकानां तत्तद्धर्मावच्छिद्यत्वम्, अन्यथासिद्धत्वम् । तद्वित्वमनन्यथा- सिद्धलम् एवं च भेटलाघवार्थं भेदप्रतियोगितावच्छेदककोटौ नियतत्वो- पादानमावश्यकमिति । कार्याभावप्रयोजकीभूताभावप्रतियोगित्वं कारणत्व- मित्यपि केचित् ।

दी० - ननु तन्तुरूपमपि परं प्रति कारणं स्यादिति चेत्, न । अनन्यथासिद्धत्वे सतीति विशेषणात् । अनन्यथासिद्धत्वम् श्रन्यथा- सिद्धिविरहः । अन्यथा सिद्धिस्त्रिविधा येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमगम्यते तं प्रति तदन्यथासिद्धम् । यथा तन्तुना तन्तुरूपं, तन्तुत्वं च पटं प्रति ।

गं० — अन्यथासिद्धिविभजने प्रसङ्गसङ्गतिमाह । श्रनन्यथासिद्धत्व- मिति । अन्यथासिद्धि विरह इति । अन्यथासिद्ध्यभाव कूटवत्वामत्यर्थः । श्रन्यथासिद्धिस्त्रिविधेति । प्रतियोगिभूतान्यथासिद्धिस्त्रिविधेत्यर्थः ।

। प्रथमामन्यथासिद्धिमाह । येन सहैवेति । यदवच्छिन्नमित्यर्थः । यस्य यष्टिमित्यर्थः । पूर्ववृत्तित्वमित्यनेनाऽन्वयः । यं प्रति । कार्य प्रतीत्यर्थः तन्तुना तन्तुरूपमिति । पटं प्रति अन्यथासिद्धमित्युत्तरेणान्वयः । तथा व पटं प्रति तन्तुरूपनिष्टं पूर्ववृत्तित्वं तन्त्यवच्छिन्नमेव भवति इति परं प्रति तन्तुरूपमन्यथासिद्धम् । तन्तुरूपस्य हि घटं प्रति तन्तुरूपत्वेनैव कारणत्वं वाच्यम्, नतु रूपत्वेन “रूपसत्वे घटसत्वम् रूपाभावे पटाभाव इत्य- न्वयव्यतिरेकाभावात् " एवं च पटात्मककार्यं प्रति तन्तुरूपस्य या पूर्व- सिता सा तन्तुनैव गृह्यते इति पदं प्रति तन्तुरूपस्याऽन्यथासिद्धिः । “तथा च यस्य यत्कार्य प्रति स्वातत्र्येणान्वयव्यतिरेकौ न गृह्यते किन्तु स्वकारण- मादायैव सौ गृह्यते तत्कार्यं प्रति तदन्यथासिद्धम् । एवं पटात्मककार्य

[[3]]

तर्क - सङ्ग्रहः

[[११०]]

प्रति तन्तोः कारणत्वं तन्तुत्वेनैव “तन्तुस्वावच्छिन्नैव” तत्कार्य प्रति स धर्मा न्यथासिद्धः । अमुमर्थमेवाऽह तन्तुत्वं चेति । पदं प्रति अन्यथासिद्ध मित्युत्तरेणान्वयः ।

दी० - अन्यं प्रति पूर्ववृत्तित्वे ज्ञाते एव यस्य यं प्रति पूर्व- वृत्तित्वमवगम्यते तं प्रति तदन्यथासिद्धम् । यथा शब्द प्रति पूर्व- वृत्तित्वं ज्ञाते एव पटं प्रति श्राकाशस्य ।

गं० - द्वितीयाऽन्यथासिद्धिमाह । श्रन्यं प्रतीति । फलाननुगुणम प्रतीत्यर्थः । तेन स्वर्गं प्रति यागादेः घटं प्रति दण्डादेवाsपूर्व भ्रमि-पूर्व- वृत्तित्वग्रहोत्तरकालीनग्रहविषयत्वेऽपि नान्यथासिद्धिः । पूर्ववृत्तित्वे इति । प्रकृतकार्यातिरिक्तकार्यनिरूपितनियतपूर्ववृत्तित्वे इति । ज्ञाते एव । ज्ञान- विषये सत्येवेत्यर्थः । तादृशपूर्ववृत्तित्वज्ञानानन्तरमेवेति यावत् । यस्य यं प्रति पूर्ववृत्तित्वमिति । यन्निष्ठयनिरूपित पूर्व वृत्तित्वमित्यर्थः । श्रवग- म्यते ज्ञानविषयतावदित्यर्थः । तादृशपूर्ववृत्तित्वज्ञानं भवतीति यावत् । तथाच प्रकृतकार्यातिरिक्तकार्यनिरूपित नियतपूर्व वृत्तित्वेन ज्ञायमान निष्ठप्रकृत- कार्यनिरूपित नियतपूर्ववृशिताश्रयत्वं प्रकृतकार्यनिरूपिताऽन्यथासिद्धत्वमिति फलितम् । उदाहरति । यथेति । शब्दं प्रतीत्यादि । भयं भावः । आका- शस्य हि घटपूवृत्तित्वमाकाशत्वेनैव स्यात् आकाशत्वं च शब्दसमवायिका- रणत्वम् तथाच शब्दं प्रति पूर्वशित्वं गृहीत्वैव घटादिकं प्रति जनकत्वं ग्राह्यमित्याकाशमन्यथासिद्धमिति भावः । एवं कुलालपितुरपि अन्यथासि- त्वं बोध्यम्, तस्य हि घटातिरिककुलालं प्रति पूर्ववृत्तित्वं गृहीत्वैव वा- दिकं प्रति कारणत्वं प्राप्तम् इति तदन्यथासिद्धम् । कुलालपिताऽपि कुला- छपितृत्वेनैवाऽन्यथासिद्धः । कुलालत्वेन तु जनक एवेति ध्येयम् । नन्वेवमा- काशादेर्घटादिकं प्रतीव संयोगादिकं प्रत्यपि हेतुता विलीयेत । तत्रापि शब्द प्रति पूर्ववृचित्त्रमहोत्तरमेव संयोगादिकं प्रति पूर्ववृधित्वग्रहादिति चेत् । यड में चद्धर्मावच्विनिरूपितनियतपूर्ववृचितावच्छेदकस्वग्रहोत्तरकालमेव यद्धर्मा-

टीकात्रयोपेतः

वच्छिन्ननिरूपित नियतपूर्व वृचितावच्छेदकत्वग्रहः तद्धर्मावच्छिन्नस्य तद्म- छिन्नं प्रति तेन रूपेण हेतुतायामन्यथासिद्धिरित्यर्थात् आकाशस्याप्याकाश- स्वेन रूपेण संयोगावच्छिन्नं प्रति हेतुत्वेऽन्यथासिद्धेरिष्टवान् । द्वध्यत्वेन रूपेण संयोगत्वावच्छिनं प्रति पूर्ववृनिम्यग्रहस्तु शब्दत्वावच्छिन्ननिरूपित पूर्ववृत्तित्व- महोत्तरकालीनत्वाभावे गगनादीनां द्रव्यत्वेन रूपेण संयोगहेतुत्वं निष्प्रत्यूहम् । अथ सिद्धस्य गगनादेरष्टद्रव्यातिरिक्तद्रव्यत्वेन हेतुत्वोक्तावन्यथासिद्धयभावः, नहि शब्दवृतिग्रहात्तरमेव तद्द्मह इति नियमः । किञ्च शब्दप्रत्यक्ष श्रोत्र वेन तुता विलीयेन । तत्र शब्दपूर्वशित्वग्रहोत्तरमेव तद्ग्रहादिति चेत् । तत्र पञ्चमान्यथासिद्धेरैव सम्भवात् । शब्दप्रत्यक्षस्थले तु कर्णविवरावच्छिना- काशवेन हेतुनानुपपत्तिः । नचैवं कार्यमात्रे कालदिशार्हेतुत्वानुपपत्तिः । तत्रापि कालिकादिपरत्वापरत्वपूर्ववृत्तित्वग्रह एव तद्द्महादिति वाच्यं । विनापि कालिकादिपरत्वापरत्वपूवृत्तित्वग्रहमाधारत्वेन कार्यसामान्ये हेतुत्वावधार- णादिति समासः । नच आकाशस्य घटं प्रत्यहेतुत्वमित्र शब्दं प्रत्यपि हेतु- स्वानुपपतिः । तत्रापि शब्दपूर्ववृत्तित्वप्रहाधीनत्वादिति वाच्यम् । शब्द प्रति जनकत्वे स्वस्य जनकतावच्छेदकत्वात् । खवत्यादिकमादाय विनि- गमनाविरहेतु विशेषपदार्थस्यैव तथास्वं बोध्यम् ।

दी० ० - अन्यत्र कृप्तनियतपूर्ववर्त्तिन एव कार्यसम्भवे तत्सहभूत- मन्यथासिद्धम् । यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य । एवं चाऽनन्यथासिद्ध नियतपूर्ववृत्तित्वं कारणत्वम् ।

गं० - तृतीयाऽन्यथासिद्विमाह । अन्यत्रेति । प्रकृतकार्यभिने इत्यर्थः । लप्तेति । लघुधर्मावच्छिन्नेत्यर्थः । नियतपूर्ववर्द्धिन एवेति । नियतपूर्ववृत्सिताश्रयेणैवेत्यर्थः । कार्यसम्भवे इति । प्रकृतकार्यस्याप्युत्पत्ति- निर्वाहे इत्यर्थः । तत्सहभूतमिति । तद्भिन्नमित्यर्थः । तथाच प्रकृतकार्यंस- जातीय कार्यभिन्न कार्यनिरूपित लघुधर्मावच्छिन्न नियतपूर्ववृत्तिताशून्यत्वं तत्का यंसजातीयनिरूपिताऽन्यथासिद्धत्वमिति फलितम् । उदाहरात । यथेति ।

तर्क-सङ्ग्रहः

विजातीयतेजः संयोगाद् युगपद्रूपादिचतुष्टयोत्पत्तिस्थले इत्यर्थः । अपाकज- गन्धसजातीयगन्धं प्रतीत्यर्थः । रूपप्रागभावस्येति अन्यथासिद्धत्वमिति शेषः । अपाकजरान्धस्थले गन्धं प्रति गन्धप्रागभावस्य हेतुत्वावश्यकतया पाकस्थलेऽपि तत्सम्भवे रूपप्रागभावोऽन्यथासिद्ध इति भावः, इदमुप- लक्षणम् । यत्र पाकात्कदाचिद्रूपान्तरोत्पत्तिर्न जाता किन्तु गन्धान्तरोत्पत्तिरेव, तत्र रूपप्रागभावविरहात् गन्धप्रागभावस्यैव क्लृप्तनियतपूर्ववृत्तिताकतया तेनैव रूपपरावत्तिस्थलेऽपि गन्धोत्पत्तिसम्भवे रूपप्रागभावोऽन्यथासिद्ध इति भावः । एवं चेति । अन्यथासिद्धत्वस्य त्रैविध्ये चेत्यर्थः ।

[[1]]

श्रत्रेदं बोध्यम् । लघुत्वं त्रिविधम् । उपस्थितिकृतम् । शरीरकृतम् । सम्बन्धकृत च । भद्यं गन्धं प्रति रूपप्रागभावाऽपेक्षया गन्धप्रागभावे । अभाव बुद्धी प्रतियां गिज्ञानस्य कारणत्वेन गन्धात्मककार्योपस्थित्यनन्तरं गन्ध- प्रागभावस्यैव शीघ्रमुपस्थितिः, नतु रूपप्रागभावस्य तदुपस्थितेः रूपज्ञान- सापेक्षत्वादित्यु स्थिति कृतं लाघवम् ।

द्वितीयन्तु प्रत्यक्षं प्रति अनेकद्रव्यत्वापेक्षया महत्वस्य कारणत्वे । अनेकद्रव्यत्वं च - अणुभिन्नद्रव्यत्वम् । तथाचाऽणुभिन्नद्रव्यपेक्षया महत्व - स्वजातेः कारणतावच्छेदकत्वे शरीरकुतलाघवमित्यर्थः ।

तृतीयन्तु घट प्रति दण्डत्वाऽपेक्षया दण्डन्य कारणत्वे । दण्डत्वस्य स्वाश्रयजन्यभ्रमिवत्तासम्बन्धेन कारणावं स्यात्, दण्डस्य तु स्वजन्यभ्रमि- चसासम्बन्धेन कारणत्वमिति सम्बन्धकृतं लाघवमिति ।

कार्य प्रागभावप्रतियोगि ।

न्या०– कार्य लक्षयति । कार्यमिति । प्रागभावप्रतियोगित्वं कार्यम्य लक्षणम् । कार्योत्पत्तितः पूर्वम् ‘इह घटो भविष्यति’ इति या प्रतीतिर्जायते तत्प्रतीतिविषयीभूतो योऽभावः स प्रागभावः । घटादिरूपं कार्य्यम् ।

दी० - कार्यलक्षणमाह कार्यमिति ।

टीकात्रयोपेतः

गं० कार्यविशेष्यलक्षणम्वरूपद्मामाग्य प्रकारकज्ञानानुकूलशब्दप्रयो- गानुकूलकृतिमान मूलकार इति बोधः । उत्पत्तेः पूर्व विमानोऽभावः प्राग- भावः । तत्प्रतियोगि कार्यमित्यर्थः । यस्याभावः स प्रतियोगी । तथा वोत्पत्तेः पूर्वं यस्य घटादेरभावः स एव घटादिः प्रतियोगीत्यर्थः । जन्यस्यैव प्रागभावो विद्यते “घटो भविष्यतीतिप्रतीतेः " नतु नित्यस्य “परमाणु भविष्यतीत्यप्रतीतः” अतः कार्यमेव प्रागभावप्रतियोगीत्यर्थः ।

कारणं त्रिविधम् । समवाय्यसमवायिनिमित्त- भेदात् । यत्समवेतं कार्यमुत्पद्यते तत्समवायि- कारणम् । यथा ततः।

न्या०– कारणं विभजते-कारणं त्रिविधमिति । समवायिका रणं लक्षयति– यत्समवेतमिति । यस्मिन् समवेतं सत् समवायेन सम्बद्धं सत् कार्यमुत्पद्यते तत्समवायिकारणमित्यर्थः । उदाहरणं- यथा तन्तव इति । येषु तन्तुषु समवायेन सम्बद्धं सत् पदात्मकं कार्य- मुत्पद्यते तन्तवः समवायिकारणमित्यर्थः । सामान्यलक्षणन्तु सम- वायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारण- त्वं समवायिकारणत्वमिति । समवायसम्बन्धेन घटाधिकरणे कपा• लादौ कपालादेः तादात्म्यसम्बन्धेनैव सत्त्वात् समवायसम्बन्धा- वच्छिन्नघटत्वाद्यवच्छिन्न कार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नक- पालवाद्यवच्छिन्नकारणतायाः कपालादौ सच्वालक्षणसमन्वयः । समवायेन जन्यभावत्वावच्छिन्नं प्रति तादात्म्य सम्बन्धेन द्रव्यस्यैव कारणत्वाज्जन्यभात्रेषु द्रव्यगुणकर्मसु त्रिषु द्रव्यमेव समवायिकार- राम् । द्रव्ये तु द्रव्यावयवाः समवायिकारणम्, अतो गुणादावपि द्रव्यमेव समवायिकारणम् इत्याशयेनाह - पटश्च स्वगतरूपादेरिति । समवायिकारणमित्यनुषज्यते ।

[[४]]

तर्क- सङ्ग्रहः

[[११४]]

दी० - कारणं विभजते । कारणमिति । समवायिकारणलक्ष- रामाह–यत्समवेतमिति । यस्मिन् समवेतमित्यर्थः ॥

गं० - मूले कारणमिति भावप्रधानो निर्देशः कारणत्वमिति यावत् । मूलें । यत्समवेतमिति । यस्मिन् समवेतं यत्समवेतम् । समवायेन वृचि । तथाच कार्य यस्मिन् समवायसम्बन्धेन विद्यते वर्तमानं सदुत्पद्यते, तत्समवायिकारणमित्यर्थः । सम्बद्धं सदिति । वर्तमानं सदित्यर्थः । अव-

वयविनोः समवायात् । तन्तव इति । पटस्येत्यादिः । सामान्यलक्ष- यन्त्विति । श्रत्रेदं बोध्यम् । येन सम्बन्धेन कार्यं कारणे तिष्ठतिस सम्बन्धः कार्यताः च्छेदक सम्बन्धः । कार्यता च तत्सम्बन्धावच्छिन्ना भवति । कार्याधि- करणे कारणं येन सम्बन्धेन तिष्ठति स सम्बन्धः कारणतावच्छेदकसम्बन्धः । कारणता च तत्सम्बन्धावच्छिन्ना भवति । तदेवाह समवायसबन्धाव- च्छिन्नकार्यतेत्यादि । पटश्च स्वगतरूपादेरितीति । रूपाद्यात्मक कार्य पटे समवायसम्बन्धेन वर्त्तमानं सदेवोत्पद्यते “गुणगुणिनोः समवायात् " भतः स्वगतरूपादिकं प्रति पटः समवायिकारणम् । तथाच समवायसम्बन्धा- वच्छिन्नरूपत्वावच्छिन्नकार्यतानिरूपित तादात्म्यसम्बन्धावच्छिन्नकारणत्वस्य पटे सत्वालक्षणसमन्वय इति ध्येयम् ।

कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सन्ति कारणमसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य । तन्तुरूपं पटगतरूपस्य ।

न्या० - श्रसमवायिकारणं लक्षयति कार्येति । श्रसमवा- यिकारणं द्विविधं । कार्येण सहैकस्मिन्नर्थे समवेतं सत् यत् कारणं तत् इत्येकम्, कारणेन सहैकस्मिन्नर्थे समवेतं सत् यत् कारणं तदपरम- समवायिकारणमित्यर्थः । अत्र कारणेनेत्यस्य स्वसमवायिकारणेने- त्यर्थः । जन्यद्रव्यमात्रे अवयवसंयोगस्यैवासमवायिकारणत्वात् पटा-

cretarivar

त्मककार्ये तदवयवन्तु संयोगस्यैवा समवायिकारणत्वमिति दर्शयन प्रथममुदाहरति—यथा तन्तु संयोगः पदस्येति । यथा तन्तुसंयोगः पटात्मक कार्येण सहैकम्मिन्नर्थे नन्तौ समवायसम्बन्धेन विद्यमानत्वे सति कारणत्वात् पढात्मककार्यं प्रति तन्तुसंयोगोऽसमवायिकारण- मित्यर्थः । द्वितीयसमवायिकारणं कारणेन सहेत्यादिना पूर्वकं तदुदाहरति-तन्तुरूपमिनि । कारणेन सह पटरूपसमवायिकार- णीभूतपटेन सह, एकस्मिन्नर्थे तन्तुरूपेऽर्थे समवेतत्वे सवि कारण- त्वात् तन्तुरूपं पटगतरूपस्यासमवायिकारणमित्यर्थः ।

सामान्यलक्षणन्तु समवायसम्बन्धावच्छिन्न कार्यतानिरूपिता या समवाय - स्वसमवायिसमवेतत्वान्यतर सम्बन्धावच्छिन्ना कारणता तदाश्रयत्वमसमवायिकारणत्वमिति । द्रश्यासमवायिकारणीभूतावय- वसंयोगादौ तु समवायसम्बन्धावच्छिन्न घटत्वावच्छिन्न कार्यता- निरूपिता या समवायसम्बन्धावच्छिन्ना कपालद्वय संयोगनिष्ठाकार- ता कपालद्वयसंयोगे वर्तते । एवमाद्यपतनक्रियायामाद्यस्यन्दन- क्रियायां च गुरुत्वद्रवत्वेऽसमवायिकारणे भवतः । श्राद्यपतनक्रियां प्रति आद्यस्यन्दनक्रियां प्रति च समवायसम्बन्धेनैव तयोः कारण- त्वात् । श्रवयविगुणभूतघटपटरूपादौ त्ववयवगुणीभूत कपालतन्तु- रूपादेः स्वपदप्राह्मकपालतन्तुरूपादिसमवायिकपालतन्त्वादिसमवे- चत्वसम्बन्धेनैव कारणत्वात् तत्सम्वन्धावच्छिन्नकारणताश्रयत्वमवय विगुणकपाल- तन्तुरूपादौ वर्तते ।

दी० - असमवायिकारणलक्षणमाह— कार्येणेति । कार्येणे- -त्येतदुदाहरति-तन्तुसंयोग इति । कार्येण पटेन सह एकस्मिन् वन्तौ समवेतत्वात् वन्तुसयोगः पटस्यासमवायिकारणमित्यर्थः ।

तर्क-सङ्ग्रहः

[[११६]]

कारणेन सहेत्येतदुदाहरति तन्तुरूपमिति । कारणेन पटेन सह एकस्मिन् तन्तौ समवेतत्वान् तन्तुरूपं पटरूपस्यासमवायिकारण- मित्यर्थः ।

[[1]]

गं० - इत्येकमिति । इदमेव कार्यैकार्थप्रत्यासत्तिरित्युच्यते । अपर- मिति । इदमेव कारणैकार्थप्रत्यासत्तिरित्युग्यते । प्रथममिति । कार्येण सह एकस्मिद्यर्थ समवेतत्वे सति कारणमित्यर्थः । अत्र पटात्मकं कार्य तन्तु- समवेतम् “अवयवावयविनोः समवायात्” तन्तुसंयोगोऽपि तन्तुषु समवेतः गुणगुणिनोः समवायात् । तथाचाsत्र कारणतावच्छेदकसम्बन्धः कार्यताव- च्छेदकसम्बन्धश्च समवाय एवेति कारणता कार्यता च समवायसम्बन्धा- वच्छिन्चैवेति बोध्यम् । पूर्वोक्तमिति । कारणेन सहैकस्मिन्नर्थे समवेतत्वे. सति कारणमित्यर्थः । स्वसमवायिकारणेनेति । स्वकार्यसमवायिकारणे- नेति यावत् । स्वं - कारणम् प्रकृते न तन्तुरूपं स्वकार्य - पटरूपम् - तत्समवायिकारणं पटः स च समवायेन तन्तुषु वर्त्तते । तन्तुरूपमपि तन्तौ वर्तते । एवं चात्र कारणतावच्छेदकसम्बन्धः स्वसमवायिसमवेतत्वरूपः स्वं तन्तुरूपं तत्समवायीतन्तुः तत्समवेतत्वं पटे इति स्वसमवायिसमवे तत्वसम्बन्धेन तन्तुरूपं पटं वर्त्तते पटरूपमपि समवायेन पटे वर्त्तते अतः कार्यतावच्छेदकसम्बन्धः समवाय एवेति ध्येयम् । दीपिकायामपि । कारणेन पटेनेत्यस्य स्वकार्यसमवायिकारणेन पटेनेत्यर्थो बोध्यः । स्वं तन्तुरूपम् । न व स्वसमवायिकारणेनेति यथाश्रुत एवास्तु स्वं कार्यं प्रकृते पटरूपमिति वाच्यम् स्वपदस्य कार्यपरत्वे " यथाश्रुतमूलादपि " कार्यतावच्छेदकसम्बन्ध एव स्वसमवायिसमवायो भविष्यतीति समवाय-स्व समवायिसमवायाऽन्यः तरसन्बन्धावच्छिन कार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारणत्वमिति प· यवसितार्थे “ सामान्यलक्षणन्तु ” इत्याद्यग्रिमग्रन्थविरोधापत्तेः । कारणतायामेवाऽन्यतरसम्बन्धावच्छिन्नत्वं निविष्ट नतु कार्यतायामिति ध्येयम् । तयोः । गुरुत्वद्रवत्वयोः ।

तत्र

[[११७]]

अधै तुरीतन्तु संयोगस्य पटाऽसमवायिकारणत्वापतिः ।, समवायेन पटेन सह तुरीनन्नु संयोगस्य समवायेन एकस्सिन तन्नौ सत्वात् । ननु नुरीतन्तु संयोगस्य पदात्मककार्येण सह तन्तौ समवेतत्वेऽपि कारणत्वरूपवि- शेप्यदलविरहान्न पटाऽसमवायिकारणत्वापत्तिः । नच समवायेन पटत्वाच- च्छिन्नं प्रति तुरीसंयोगस्य हेतुतया तेन रूपेण तुरीपटसंयोगस्याऽपि कारण- तया तदापनिर्युबेति वाच्यम् । तुरीशून्यदशायां पोत्पादवारणाय संयोगेन तुरीवैनेव हेतुत्वात तुरीसंयोगत्वापेक्षया तुरीवस्य कारणतावच्छेदकत्वे ला- घवात् । तथाच विशेष्यदलविरहात्कथं तदाऽऽपत्तिः । नचैगं तुरीवन्तुसंयो-

१ न च तुरीनन्तु संयोगस्य पदाऽसमवायिकारणत्वे इष्टापतिरिति वाच्यम् । कार्य- द्रव्यनाशं प्रति श्रसमवायिकार णनाशस्य कारणत्वेन नुरीतन्तुमंयोगनाशात् पटनाशापत्तेः । द्वयसुकनाशान्यथानुपपत्त्या सत्स्वपि तन्नुषु तत्संयोगाऽपगमेन पटना शाऽन्यथानुपपत्त्या च श्रसमवायिकारण नाशस्यैव द्रव्यनाशप्रयोजकत्वं नतु समवायिकारणनाशस्य । समवा- विकारणं विनापि क्षणद्वयं द्रव्यस्थितौ वाधकाभावात् । श्रसमवायिकार णनाशकार्य- द्रव्यनाशयोः कार्यकारणभावस्तु प्रतियोगितामन्दन्धन द्रव्यनाशं प्रति स्वप्रतियोगि- - समवायियावत्समवेतत्व स्वप्रतियोगिजन्यत्व कालिया पतत्रितयसम्बन्धेन नाशः कारण- मिति । दण्डादिनिमित्तकारणनाशाद् घटनाशापत्तिवारणाय श्रथः सम्बन्धः । कपाल- पवनसंयोगनाशाद् घटनाशापत्तिवारणाय द्वितीयः सम्बन्धः । भाविक नालद्वयसंयोग- नाशाद् घटनाशापत्तिवारणाय तृतीयसम्बन्धः । यावत्यदनिवेशान्तरीतन्तुसं योगनाशात्य- वनाशापत्तिवारणमिति ध्येयम् ।

२ यत्तु संयोगेन तुरीत्वेन हेतुत्वे कारणतावच्छेदकसम्बन्धत्व कल्पनायाः अनेक निष्ठतया गौरवम्, अतो लाघवात्समवायेन तुरीतन्तुसंयोगत्वेन हेतुत्वम् गुरुभूतेऽप्ये कस्मिन् कारणतावच्छेदकत्वकल्पना तो ऽनेक कारणतावच्छेदक सम्बन्ध त्वकल्पनायाः गरीय- स्त्वात् । अतस्तुरीतन्तु संयोगे पटाऽसमवायिहेतुत्वापादनं युक्तमेवेति । तन्न । कारण- तावच्छेदकग्रहस्य प्राथमिकतया प्रथमग्रहे लघुभूतधर्मे कारणतावच्छेदकत्व निर्णये वृत्ते तदुत्तरकल्पनायाः फलमुखतया दोषकरत्वाभावादिति ।तर्कसङ्ग्रहःः

[[११८]]

गादेरसमवायिकारणत्वाभावेऽपि तुर्यादेर्हेतुतया तत्रैवाऽसमवायिहेतुत्वापत्ति- रिति वाच्यम् । " एकार्थेसमवेतत्वे सति” इत्यस्य समवायसम्बन्धावच्छिन्नवृत्ति- त्वपरतया तत्र दोषाभावात् । अन्यथा तत्त्वादीनां तादात्म्येन पटेन सह तन्तौ वर्चमानतया हेतुतया चाऽतिप्रसङ्गादिति चेद् । एवमपि वेगस्याऽभिघाता- समवायिकारणत्वापत्तिर्वीरैव " “अभिघातां च संयोगत्वव्याप्यो जातिवि- शेषः । तदवच्छिन्ने च क्रियाया एवाऽसमवायिकारणत्वम्, न तु वेगस्य । सामान्यतः संयोगत्वावच्छिन्नं प्रत्येव क्रियात्वेनाऽसमवायिकारणत्वात् वेगस्य तु निमित्तमात्रत्वेन विशेष्यदलस्यापि सत्वात् । यद्यपि वेगस्य न साक्षाद- भिघातजनकत्वम्, किन्तु स्पन्दजननद्वारा । तत्रापि वेगजन्यतावच्छेदकं न. स्पन्दत्वम्, विनापि वेगं नोदनेन क्रियोत्पादात्, अपि तु वेगजन्यतावच्छे- aar feat कियत्वव्याप्या नातिरेव स्वीकार्या । तथा च तादृशजात्यव- छिन्नं प्रति वेगवेन हेतुत्वम्, तादृशविजातीयक्रियात्वेन अभिघातत्वाव- च्छिन्नं प्रति च हेतुत्वमभ्युपगम्यते इति वेगस्याऽभिघातहेतुतायां माना- भावः । तथापि अभिघातत्वावच्छिन्नं प्रति विजातीयक्रियात्वेन वेगत्वेन वा हेतुहेतुमद्भाव इत्यत्र विनिगमकाभावेन वेगहेतुताया अपि सिद्धेः ।

नच वेगादिनाशेऽपि क्रिययाऽभिधातजनन सन्देहारसन्दिग्धन्यभिचारकेण वेगत्वेन हेतुत्वाभावो निष्यूण्ढ एवेति कथं विनिगमनाविरह इति वाच्यम् । एवमपि ज्ञाने इच्छासमवायिकारणत्वापतेर्दुर्वारत्वादिति चेन्न । सामान्य- लक्षणे आत्मविशेषगुणान्यत्वस्य विशेषणीयत्वात् । तथा च समवायसम्बन्धा- वच्छिनकार्यतानिरूपितसमवायस्त्रसमवायिसमवेतत्वान्यतरसम्बन्धावच्छिन्ना-

१ नच वेगस्याऽभिघाताऽसमवायिकारणत्वे इष्टापत्तिरेव किं नेष्यते श्रसमवायि- कारणनाशस्य द्रव्यनाशं प्रत्येव हेतुतया बेगनाशादभिधातनाशापत्तिरशक्यैवेति वाच्यम् । श्रसमवायिकारणमन्तरा चयत्रयं कार्यंस्थितेरनिष्टतयाऽभिघातनाशा पसेर वा त्रैष्टापत्ती वाचकत्वात् । एवमेव ज्ञाननाशादिच्छानाशापत्तिरपि बोध्या । तत्राऽऽत्मविशेषगुणान कुमाऽप्यसमवायिकारणत्वं नास्तीति सिद्धान्तमोऽपि बोध्यः ।

Ka

टीकाप्रयोपेत

ऽऽत्मविशेषगुणाऽवृत्तिकारणतावत्वमसमवायिकारणन्नं पर्यवसन्नम्। एवं विशेषलक्षणाक्रान्तपटा समवायिकारणलक्षणं तुन्तु संयोगभितां देयम् । तञ्च तन्तुभिनासमवेतत्वम्, अन्यथा हस्तनन्नु संयोगभिन्नत्व-चैमनन्तु संयोग- भिवाद्यनन्तनिवेशे गौरवापत्तेः ।

एवम् च समवायसम्बन्धावच्छिन्न पटवावष्टिन कार्यतानिरूपितनिरुक्का- न्यतरसम्बन्धावच्छिन्ननन्तुभिन्नाऽसमवेतनिष्ठ कारणताश्रयमं पदाऽसमवायि- कारण पर्यवसितम् । वस्तुतस्तु पटसमवायिनिष्ठाभावप्रतियोगिता- नवच्छेदकतन्तु संयोगत्व पटाऽसमवायिकारण’वम् विशेषलक्षणे नुरीतन्तु. संयोगभिन्नत्वनिवेशे अन्यथा सिद्धिनिरूपितक तानवच्छेदकत्वनिवेशे वा गौरवात् । अन्यथा सिन्दयनिरूपकतावच्छेदकत्व निवेशस्तु सामान्यलक्षणे पवेति ध्येयम् ।

तदुभयभिन्नं कारणं निमित्तकारणम् । यथा तुरीवेमादिकं पटस्य ।

न्या०– निमित्तकारणं लक्षयति - तदुभयेति । समवाय्य- समवायिभिन्न कारणं निमित्तकारणमित्यर्थः ।

दी० - निमित्तकारणं लक्षयति - तदुभयभिन्नमिति । सम- वायिकारणभिन्नत्वे सति श्रसमवायिकारणभिन्नत्वे सति कारणत्वं निमित्तकारणस्य लक्षणमित्यर्थः ।

गं० - निमित्तकारणं लक्षयतीति । निमित्तकारणविशेष्य कलक्षणस्व रूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । तदुभयभिन्नमिति यथाश्रुतमूलात् समवायिकारणाऽसमवाबि- कारणोभयभिन्नत्वमित्यर्थो लभ्यते, एवं चोभयभेदस्य केवलान्वयित्वेन पट समवायिकारणे तन्तौ - पटाऽसमवायिकारणे तन्तुसंयोगे च सवातत्र तत्रा- इतिव्याप्तिरत आह । समवायिकारणभिन्नत्वे सतीति । समवामि-

तर्क - सङ्ग्रहः

[[१२०]]

कारणेऽतिव्याप्तिवारणाय प्रथमसत्यन्तम् । श्रसमवायिकारणेऽतिव्याप्तिवार- णाय द्वितीय सत्यन्तम् । पारिमाण्डल्यादावतिव्यासि वारणाय ’ विशेष्यदलम् । उदाहरति । भूले । यथेति । आादिना तुरीतन्तुसंयोगादेः परिग्रहः ।

ननु घटनिमित्तकारणे दण्डादावव्याप्तिः, तस्य स्वगतरूपादिकं प्रति समवायिकारणत्वेन समवायिकारणभिन्नत्वविरहात्, एवं पटनिमित्तकारणे तुरीतन्नु संयोगेऽपि तस्य तुरीपटसंयोगं प्रति असमवायिकारणत्वेन तद्भि- afeरहात् । नच तत्कार्य समवायिकारणभिन्नत्वे सति तत्तत्कार्याऽसमवायि. कारणभिन्नत्वे सति तत्तकार्यकारणत्वमित्युक्तौ न दोष इति वाच्यम् । तथापि

प्रति निमित्तकारणे प्रतियोग्यादावव्याप्तेः, तस्य समवायिकारणासम- वायिकारणयोरप्रसिद्धेरिति चेन । समवायिकारणत्वभिन्नत्वे सति असमवा- यिकारणत्वभिन्नत्वे सति कारणत्वस्यैव निमित्तकारणत्वात् । तथा च तन्तु संयोग निष्ठाकारणता निरूपकभेदेन भिन्नैवेति नोक्तदोषः । वस्तुतस्तु वस्तुविशिष्टत्वं निमित्तकारणत्वम् । वै० स्वकारणत्वस्त्राभाववत्वोभयसम्ब न्धेन । स्वाभावश्च समवायिकारणत्व-असमवायिकारणत्वान्यतरसम्बन्धाव- छिप्रतियोगिताकः । तेन नाऽननुगमो नाप्यप्रसिद्धिरिति ध्येयम् ।

यद्वा यद्धर्मावच्छिनकार्यतानिरूपितसमवायिकारणताशून्यत्व विशिष्टय- दर्मावच्छिन्न कार्यतानिरूपिताऽसमवायिकारणताशून्यत्वसमानाधिकरणयद्व- मच्छिकार्यतानिरूपितकारणताशालित्वं तद्धर्मावच्छिनं प्रति तस्य निमित्तत्वमित्यर्थः । अfer ararer जन्यत्वावच्छिन्नकार्यतानिरूपितसम-

१ पारिमाण्डल्यं परमाणुपरिमाणं द्वयणुकपरिमाणं च । तत्तु न कस्याऽपि कारण मिति परिमाण निरूपयाऽवसरे स्पष्टं व्याख्यातम् ।

२ एतेन ईश्वरघटसंयोगे ईश्वरस्य निमित्तकारणत्वानुपपत्तिः, तस्य द्रव्यत्वेन संयोगसमवायिकारणतया समवायिकारणभिन्नत्व विरहात् । इष्टापतौ तु कार्यमात्रे ईश्वरस्य निमित्तत्व सिद्धान्तापलापापत्तिरिति पूर्वपचः समाहितः, कारणतायाः परस्परं मेदाद ।

[[१२१]]

वायिकारणता विशिष्ट जन्यत्वावच्छिन्नका येनानिरूपिताऽसमवायिकार urrearsraeमानाधिकरणजन्यत्वावच्छिन्न कार्यनानिरूपित कारणताशालित्व- मिति । नचैव जन्यत्वावच्छिन्न कार्यतानि रूपिनसमवायिकारणताया अप्रसि- तया तच्छून्यस्प च सूतराममन्विात् एवमसमवायिकारणताशून्य- त्वमपीत्यव्याप्तिः । suडा तु बदनिष्ठत्वावच्छिन्न कार्यतानिरूपितसम- वायिकारणतायाः arratataकार्यतानिरूपिताऽसमवायिकारणतायाश्च कपाल संयोगा प्रसिद्धतय तच्छृन्यत्वरूपनिमित्तत्वं सुलभमिति चेत् । भन्नोच्यते । यद्धर्मावच्छिन्न कार्यतानिरूपितसमवायिकारणत्वं यद्यद्धर्माद- चिच्छन कार्यतानिरूपिताऽसमवायिकारणत्वं प्रत्येकं तत्तन्निष्ठाभावप्रतियोगिताव- च्छेदकं यद्यद्धर्मावच्छिन्न कार्यतानिरूपितयद्यद्धर्मावच्छिन्नकारणत्वत्व तद्धर्माश्रयं प्रति तद्धर्माश्रयस्य निमित्तत्वमित्यर्थात् अस्ति च घटत्वावच्छिन्न कार्यतानिरू- पितसमवायिकारणत्ववनिष्ठाभावप्रतियोगितावच्छेदकं, घटत्वावच्छिद्यकार्य- तानिरूपितदण्डवावच्छिन्नकारणत्वत्वमिति दण्डादौ निमिसत्वम् । अस्ति वेश्वरश्येश्वरसंयोगे तत्र संयोगत्वावच्छिन कार्यतानिरूपितसमवायिकारणत्व- चत्पटनिष्ठाभावप्रतियोगितावच्छेदकं जन्यत्वावच्छिन्नकार्यतानिरूपितेश्वरत्वाव- च्छिन्नकारणत्वमिति तद्धर्माश्रयसंयोगं प्रति तद्धर्माश्रयत्येश्वरस्य निमित्तत्वं निर्व्यू मिति मामकीनोऽयं नूतनः पन्थाः ।

तदेतत्त्रिविधकारएमध्ये यदसाधारणं कारणं तदेव करणम् ।

न्या०—करणलक्षणमुपसंहरति तदेतदिति । यदसाधारण- मिति । व्यापारवत्वे सतीत्यपि पूरणीयम् । अन्यथा तन्तुकपालसं- योगयोरतिव्याप्तिः । तन्तुकपालसंयोगयोरपि कार्यत्वातिरिक्तपटत्व- घटत्वावच्छिन्नं प्रति कारणत्वादसाधारणत्वमस्त्येवेत्यतस्तत्र करणत्व- वारणाय व्यापारवत्वे सतीति करणलक्षणे विशेषणं देयम् ।

तर्क - सङ्ग्रहः

[[१२२]]

व्यापारस्वं च तज्जन्यत्वे सति तज्जन्यजनकत्वम् । भवति हि दण्ड- जन्यत्वेसति दण्डजन्यघटजनकत्वाद् भ्रम्यादेर्दण्ड व्यापारत्वम् । एवं कपाल संयोगतन्तु संयोगादेरपि कपालतन्तुव्यापारख, कपालत-

न्तुजन्यत्वे सति कपालतन्तुजन्यघटपटजनकत्वात् । करणलक्षणे- साधारणत्वविशेषणानुपादाने ईश्वरादृष्टादेरपि व्यापारवत्कारणत्वस्य सत्वात्, अतस्तत्रातिव्याप्तिवारणायासाधारणेति विशेषणम् ।

दी ० — करणलचणमुपसंहरति । तदेतदिति ।

गं० - मूले । तदेतदिति । तत्तलक्षणलक्षितं अनुपदं निरुकं यस्त्रि- विधं कारणत्वं तन्मध्ये इत्यर्थः । घटकत्वं सप्तम्यर्थः । तस्याऽसाधारणकार- गत्वेऽन्वयः । तथा च निरुक्तकारणतात्रयघटकाऽसाधारणकारणत्वमेव करण- त्वमित्यर्थः । अन्यथा । व्यापारवत्वे सतीति विशेषणानुपादाने । श्रतिव्या- प्तिरिति । चक्षुः संयोग- श्रम्यादिरूपाऽसाधारणव्यापारमात्रेऽतिव्याप्तिरिति यावत् । असाधारणत्वमुपपादयति । तन्तुकपालसंयोगयोरपीति । तन्तु संयोगस्य कार्यत्वव्याप्यपटत्वावच्छिन्न कार्यतानिरूपित कारणतावत्वात्, कपालसंयोगस्य च कार्यत्वव्याप्यघटत्वावच्छिन्न कार्यतानिरूपित कारणतावत्वा- दिति यावत् । तत्र । तन्तुसंयोगे कपालसंयोगे चेत्यर्थः ।

तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ।

म्या०— षड्विधेन्द्रियभूत प्रत्यक्षप्रमाणस्य लक्षणमाह । तत्रेति । प्रमाभूतेषु प्रत्यक्षात्मकं यद् ज्ञानं चाक्षुषादिप्रत्यक्षं तत्प्रति व्यापारव- दसाधारणकारणमिन्द्रियं भवति, अतः प्रत्यक्षज्ञानकरणत्वं प्रत्यक्षस्य लक्षणम् । आद्यसन्निकर्षातिरिक्तचतुर्विधसन्निकर्षाणां समवायरूप- त्वेन व्यापारत्वं न सम्भवतीति इन्द्रियमनः संयोगस्यैव वाह्यप्रत्यक्षे खननीये इन्द्रियव्यापारता बोध्या । मानसप्रत्यक्षे तु आत्ममनः सं- योगस्यैव सा बोध्या ।

[[१२३]]

दी० - तत्रेति । प्रमाणचतुष्टयमध्ये इत्यर्थः ।

टीकाप्रयोपेतः

गं० - मूले । प्रत्यक्षज्ञानकरणमिति । अत्र प्रशस्य प्रमाणे प्रमितौ च प्रयोगालक्षणवाक्यघटक प्रत्यक्षपदं प्रत्यक्षप्रमिनिपरम् । ननु प्रमाणपरमिति स्फुटीकरणाय ज्ञानपदम् । नतु प्रत्यक्षज्ञानत्वेन लक्षणे प्रवेशः ज्ञानत्वांशस्य व्यर्थत्वात् । नच प्रत्यक्षपदस्य प्रमाणप्रमितिसाधारणचे का क्षतिरिति वाच्यम् । तथा सति चक्षुरादिनिरूपित कारणताश्रयेऽतिध्याते- रिति ध्येयम् । अनुमानादावतिव्याप्तिवारणाय प्रत्यक्षेति । विषयतासम्बन्धेन प्रत्यक्षं प्रति संयोगसंयुक्तसमवायाद्यन्य तमसम्बन्धेनेन्द्रियाणां कारणतया न कार्यकारणयोर्वैयधिकरण्यम् । एवं च विषयतासम्बन्धावच्छिन्न प्रत्यक्षनिष्ठ- कार्यतानिरूपित्तसंयोगाद्यन्यतमसम्बन्धावच्छिन्नकारणताश्रयत्वं प्रत्यक्षप्रमाण- स्य लक्षणं बोध्यम् । व्यापारवदिति । व्यापारत्वं च तज्जन्यत्वे सति तज्ज- न्यजनकत्वम्, यथा संयोगे इन्द्रियजन्यत्वं इन्द्रियजन्य प्रत्यक्ष जनकःवमपीति लक्षणसमन्वयः । ननु समवायस्य नित्यत्वेन संयुक्तसमवायादीनां कथं व्यापारत्वम् इत्यत आह । इन्द्रियमनः संयोगस्यैवेति ।

?

[[1]]

ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् । इन्द्रियार्थसन्नि- कर्षजन्यं ज्ञानं प्रत्यक्षम् । तद् द्विविधम् । निर्विकल्पकं सविकल्पकं चेति ।

न्या०– प्रत्यक्षप्रमाणलक्षणमुक्त्वा प्रत्यक्षप्रमालचणमाह । ज्ञानाकरणकमिति । क्षेपकल क्षणमिदम् । ज्ञानं व्याप्तिज्ञानं, सादृश्य- ज्ञानं, पदज्ञानं च कारणं येषां ते ज्ञानकरणकाः, अनुमित्युपमितिशा- ब्दाः । ज्ञानकरणकं न भवतीति ज्ञानाऽकरणकम्, तत्त्वं प्रत्यक्षलक्ष- गम् । इदं लक्षणमीश्वरप्रत्यक्ष साधारणम् । ईश्वरप्रत्यक्षस्याऽजन्य- त्वात् जन्यप्रत्यक्षे च इन्द्रियाणामेव करणत्वं नतु ज्ञानरयेति तयो-

,

तर्क-सङ्ग्रहः

[[१२४]]

रुभयोः सङ्ग्रहः । इन्द्रियार्थसन्निकर्षेति । जन्य प्रत्यक्षस्यैव - लक्ष्यत्व- मित्यभिप्रायेणेदं लक्षणम् । प्रत्यक्षं विभजते । निर्विकल्पकमिति ।

दी० – प्रत्यक्षज्ञानस्य लक्षणमाह । इन्द्रियेति । इन्द्रियं - चक्षुरादिकम् - अर्थो घटादिः, तयोः सन्निकर्षः संयोगादिः तज्जन्य- ज्ञानमित्यर्थः । तद्विभजते । तद् द्विविधमिति ।

गं० - ईश्वरप्रत्यक्षसाधारणमिति । ईश्वरप्रत्यक्षस्याऽजन्यत्वेन ज्ञानकरणकभिन्नत्वसत्वालक्षणसमन्वयादितिभावः । तयोः । ईश्वरप्रत्यक्ष- जन्यप्रत्यक्षयोः । दीपिकायां । तज्जन्यज्ञानमिति । इन्द्रियार्थसन्निकर्ष- जन्यत्वे सति ज्ञानत्वमित्यर्थः । अयं घट इत्याकारकं यदज्ञानं सदेव प्रत्यक्ष- मित्यर्थः । नच इन्द्रियार्थसन्निकर्षजन्यत्वमात्रमेव कुतो नोक्तमिति वाच्यम् । इन्द्रियार्थसन्निकर्षध्वं सेऽतिव्याप्तेः, तस्याऽपि इन्द्रियार्थसन्निकर्षजन्यत्वात् । नचेन्द्रियार्थसन्निकर्षत्वावच्छिन्नकारणतानिरूपित कार्यतावत्वमित्युक्तौ न दोषः, प्रतियोगिता सम्बन्धेन ध्वंसं प्रति तादात्म्यसम्बन्धेन प्रतियोगित्वेनैव प्रति- योगिनः कारणत्वम्, नतु सन्निकर्षत्वेनेति वाच्यम् । एतादृशार्थलाभायैव ज्ञानपदोपादानात् । प्रत्यक्षं विभजते इति । प्रत्यक्षम् - प्रत्यक्षज्ञानम् ।

इदुमुपलक्षणम् । चाक्षुषप्रत्यक्षे आलोकसंयोगः उद्भूतरूपं च कारणम् । तथा च द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन द्रव्यचाक्षुषं प्रति समवायसम्बन्धेन तयोः कारणत्वम् । द्रव्यसमवेतवृत्तिलौकिक विषयता- सम्बन्धेन द्रव्यसमवेतरूपादिचाक्षुषं प्रति स्वाश्रयसमवाय सम्बन्धेन तयोः कारणत्वम् । द्रव्यसमवेतसमवेत वृत्तिविषयतासम्बन्धेन द्रव्यसमवेतसमवेत- रूपत्वादिचाक्षुयं प्रति तयोः स्वाश्रयसमवेतसमवायसम्बन्धेन तयोः कारण- त्वम् स्वं ० आलोकसंयोगः उद्भूतरूपं चेति । एवं त्वावप्रत्यक्षे उद्भूतस्वर्थः

१ विषयता च विषयनिष्ठोधर्मं विशेषः । विषयिता च ज्ञाननिष्ठो धर्मविशेषः । विषयता सम्बन्धेन ज्ञानेच्छाकृतयो विषये वर्तन्ते । विषयाश्च विषयितासम्बन्धेन ज्ञानेच्छाकृतिषु इति ।

ढोकाश्रयोपेतः

कारणम् । तथा च द्रव्यवृतिविषयतासम्बन्धेन द्रव्यस्पार्शनप्रत्यक्षं प्रति सम वायसम्बन्धेनोद्धृतस्पर्शः कारणम् । द्रव्यसमवेतवृत्तिली क्रिकविषयतासम्बन्धेन द्रयसमवेतस्पार्शनं प्रति स्वाश्रयसमवायसम्बन्धेनोस्पर्शः कारणम् । दव्यसमवेतसमवेतवृत्तिविषयतासम्बन्धेन द्रव्यसमवेतसमवेतस्यार्शनप्रत्यक्षं प्रति स्वाश्रयसमवेतसमवायसम्बन्धेनोद्भूतस्पर्शः कारणम् ।

aresप्रत्यक्षमात्रे महत्वं कारणम्, महत्त्वं च परिमाणरूपम् । महत्य- स्वं जातिविशेषः, प्रत्यक्षकारणतावच्छेदकतया सिद्धः । तथाच द्रव्यवृत्तिलौकिक- विषयता सम्बन्धेन द्रव्यप्रत्यक्षं प्रति समवायसम्बन्धेन महत्त्वं कारणम् द्रव्य- समवेतवृत्तिलौकिक विषयतासम्बन्धेन द्रव्यसमवेतगुणकर्मसामान्यप्रत्यक्षे स्वा- श्रयसमवायसम्बन्धेन महत्त्वं कारणम् । द्रव्यसमवेतसमवेतवृत्ति लौकिक- विषयता सम्बन्धेन द्रव्यसमवेतसमवेतरूपत्वादिप्रत्यक्षे स्वाश्रयसमवेतसम- वायसम्बन्धेन महत्वं कारणम् । स्वं महत्वम् ।

ज्ञानसामान्यं प्रति तु विजातीयाऽऽत्ममनः संयोगः कारणम् । वैजा- त्थं च परात्मव्यावृत्तस्वम् । एवं त्वहमनः संयोगोऽपि कारणम् । अन्यथा सुषुप्तिकाले ज्ञानोत्पादप्रसङ्गात्, अस्माकं तु पुरीतनामकनाढ्यां त्वगिन्द्रि याऽभावेन स्वङ्मनःसंयोगाभावात्सुपुसिकाले न ज्ञानोत्पादप्रसङ्गः। पुरीतत्- नाड्यां मनः प्रवेशो हि सुषुप्तिरिति ध्येयम् ।

चर्ममनः संयोगस्य ज्ञानसामान्ये कारणत्वमित्यपि केचित् ।

वस्ततस्तु पराऽऽत्मनः परेण मनसा, सुपुप्तिकाले स्वीयात्मनः स्वीयम- नसा च प्रत्यक्षापत्तिवारणाय परात्मव्यावृत्तपुरीतत्व हिदेशावच्छिन्नात्ममनः- संयोगस्यैव कारणत्वं कल्प्यते । तथा च तेनैवाऽतिप्रसङ्गवारणे त्वङ्मनः संयो गस्य चर्ममनः संयोगस्य वा ज्ञानसामान्ये हेतुत्वं न प्रामाणिकमिति ध्येयम् ।

निष्प्रकारकं ज्ञानं निर्विकल्पकम् ।

न्या० - तल्लक्षयति । निष्प्रकारकमिति । प्रकारताशून्य ज्ञानत्व- मेव निर्विकल्पकत्वमित्यर्थः । निर्विकल्प के चतुर्थविषयता स्वीक्रि-

तर्क - सङ्ग्रहः

[[१२६]]

यते । त्रिविधविषयतामध्ये एकाऽपि तन्त्रनास्ति । श्रतो विशेष्यता- शून्यज्ञानत्वं संसर्गताशून्य ज्ञानत्वमित्यपि लक्षणं सम्भवति ।

दी० – निर्विकल्पकस्य लक्षणमाह । निष्प्रकारकमिति । विशे- रणविशेष्यसम्बन्धानवगाहिज्ञानमित्यर्थः ।

[[1]]

ननु निर्विकल्पके किं प्रमाणमिति चेन्न । गौरिति विशिष्टज्ञानं विशेषणज्ञानजन्यं विशिष्टज्ञानत्वात् दण्डीतिज्ञानवत्, इत्यनुमानस्य प्रमाणत्वात् । विशेपणज्ञानस्यापि सविकल्पत्वेऽनवस्थाप्रसङ्गान्निर्वि कल्पकसिद्धिः ।

गं०- तलक्षयतीति । निर्विकल्पकं लक्षयतीत्यर्थः । निर्विकल्प कविशे- प्रयकलक्षणस्त्ररूपप्रामाण्यप्रकारकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मू- लकार इति यावत् । दीपिकायां । लक्षणमाहेति । निर्विकल्पकविशेष्यक- लक्षणप्रकारकज्ञानानुकूलव्यापाराऽनुकूलव्यापाराऽनुकूलकृतिमान्

मूलकार इति बोधः । विशेषणविशेष्यसम्बन्धानवगाहिज्ञानमिति । विशेषणं- च विशेष्यं च सम्बन्धवेति विशेषणविशेष्यसम्बन्धाः, ताननवगाहते इति व्यु- स्त्या विशेषणानवगाहिज्ञानं विशेष्यानवगाहिज्ञानं संसर्गानवगाहिज्ञानं च निर्विकल्पक स्वरूपम् । यद्यपि निर्विकल्पके घटघटत्वयोः समवायस्य भानं सम्भवतीति विशेषणाद्यनवगाहित्वं दुर्घटम् । तथापि प्रकारत्वानि - रूपकत्वं विशेष्यत्वानिरूपकत्वं संसर्गत्वानिरूपकत्वं वा लक्षणं बोध्यम् । ae ac-घटत्वसमवायानां विशेष्यतया प्रकारतया संसर्गतया व भाना- स्वीकारादित्याह । चतुर्थविषयता स्वीक्रियते इति । निर्विकल्पके प्रमाणाभावात् प्रत्यक्षस्य द्वैविध्यमप्रमाणिकमित्याक्षिपति । नन्विति । किं मानमिति । तस्याऽतीन्द्रियतया प्रत्यक्षप्रमाणाऽसम्भवादिति भावः । विशिष्टज्ञानमिति सावधारणम् । विशिष्टज्ञानमेवेत्यर्थः । नतु विशिष्ट- वैशिष्ट्यावगाहिज्ञानमिति यावत् । ज्ञानाकारमाह । गौरिति । निरवच्छि -गोत्वनिष्ठ प्रकारतानिरूपितनिरवच्छिन्न विशेष्यताशालिज्ञानमिति यावत् ।

[[१२७]]

टीकात्रयोपेतः

विशेषण ज्ञानजन्यमिति । समवायसम्बन्धावच्छिनविशेषणज्ञाननिष्ठ- कारणतानिरूपितकार्यतावदित्यर्थः । विशिष्टज्ञानत्वादिति ज्ञानीय- प्रकारानिरूपकत्वादित्यर्थः । अयं भावः । विशिष्टgat विशेषणज्ञानं कारगम् । एवं व घट इत्याकारकविशिष्टद्धावपि विशेषणीभूतवत्वज्ञानस्य कारणतया ज्ञानार्थ निर्विकल्पकवीकार आवश्यकः । अन्यथा “महत्वा- वच्छ

ass लोकसंयोगावच्छिन्न” चक्षुः संयोगानन्तरं बट- इत्याकारकप्रत्यचं न स्यात् कारणीभूत “घटत्वात्मक” विशेषणज्ञाना- भावात् । नत्र azrarsuares केवलवदविपयक प्रत्यक्षमेवाऽस्थिति वाच्यम् अनुलिख्यमान ज्ञान्यखण्डोपाध्यतिरिक्तपदार्थविषयकज्ञानस्य किञ्चि- aircraftaarत् तादृशप्रभ्यक्षोत्पत्यसम्भवात् । तथाच आदौ चक्षुरादि- afor: ततो विशेषणज्ञानात्मकं घटत्वनिर्विकल्पकम् । ततो घट इत्याकारकं सविकल्पकमिति स्थितिः ।

,

अथ frfacesearsaीन्द्रियत्वे किं मानमिति चेत् । यत्र यत्र ज्ञान- विषयकप्रत्यक्षत्वं तत्र तत्र विषयविषयकत्वमिति व्याप्तिः । यथा सविकल्प- कस्य प्रत्यक्षं भवति घटमहं जानामीति प्रतीतेः । इदमेव विशिष्टवैशिष्ट्याव- गाहिज्ञानमित्युच्यते । विशिष्टवैशिष्ट्या वगाहिबुद्धौ च विशेषणतावच्छेदकप्र- कारकं ज्ञानं कारणम् । विशेषण यद्विशेषणं तद्विशेषणतावच्छेदकमि युध्यते । घटमहं जानामीति प्रतीतौ आत्मा विशेष्यः – तत्र ज्ञानं विशेषणम् -तत्र विपयिता सम्बन्धेन घटः प्रकारः " प्रकारविशेषणपदयोः पर्यायता । प्रकारत्वं विशेषणतान्याप्यधर्म इति केचित् उभयथाऽपि प्रकारत्वं विशेषणत्वं न न व्यभिचरति” घटे घटत्वं प्रकारः स एव विशेषणतावच्छेदकम् । निर्वि- कल्पके च घटत्वादिकं न प्रकारः, तथा च विशेषतावच्छेदकी भूतघटत्वज्ञानरूप- कारणविरहान निर्विकल्पस्य प्रत्यक्षम्, किन्तु तदतीन्द्रियमेवेति सिद्धान्तः ।

,

सप्रकारकं ज्ञानं सविकल्पकम् । यथा डित्थोऽ- यम् । ब्राह्मणोऽयम् । श्यामोऽयमिति ।तर्क-सङ्ग्रहः

E

न्यः ० – सविकल्पकं लक्षयति । सप्रकारकमिति । विषयताया ज्ञाननिरूपितत्वात् ज्ञानस्य विषयतानिरूपकत्वेन प्रकारतानिरूपक- ज्ञानत्वं सविकल्पकस्य लक्षणम् । एवं विशेष्यता निरूपकज्ञानत्वं, संसर्गतानिरूपक ज्ञानत्वमित्यपि लक्षणं सम्भवति । उदाहरणम् । यथेति । इदन्त्वावच्छिन्न विशेष्यतानिरूपित डित्थत्वप्रकारताशा लिज्ञानं ब्राह्मणत्वप्रकारताशालिज्ञानं च सविकल्पकमित्यर्थः ।

दी० सविकल्पकं लक्षयति । सप्रकारकमिति । नामजात्यादि- विशेषणविशेष्यसम्बन्धावगाहिज्ञानमित्यर्थः । सविकल्पक मुदाहरति ।

यथेति ।

[[1]]

गं० - सविकल्पकं लक्षयतीति । सविकल्प कविशेष्यकलक्षणस्वरूप- प्रामाण्यप्रकारकज्ञाना कूल शब्द प्रयोगानुकूलकृतिमान् मूलकार इति बोधः । विषयता त्रिविधा । प्रकारताऽऽख्या- विशेष्यताऽऽख्या-संसर्गताऽऽख्या च । विषयिताऽपि त्रिविधा । प्रकारिताऽऽख्या - विशेष्यिताऽऽख्या-संसर्गिताऽऽ. ख्या न्व । विषयता ज्ञाननिरूपिता भवति । ज्ञानं विषयतानिरूपकं भवति । इममर्थमेवाह । विषयताया इति । एवं विषयताविषयितयो निरूप्य - निरूपकभावः । यथा प्रकारताप्रकारितयोः । विशेष्यताविशेष्यितयोः । संसर्गतासंसर्गितयोः । तथा च प्रकारतानिरूपितप्रकारितावत्वमित्यादीन्यपि लक्षणान्यूहनीयाति । डित्थोयमिति । इदं च नानप्रकारकज्ञानमात्रोप- लक्षकम् । डित्थः काष्ठमयो हस्ती डवित्थस्तन्मयो मृग इति कोषः । अत्र प्रथमान्तेदं शब्दार्थः “काष्ठमयो हस्ती” विशेष्यः । विशेष्यताविशे. व्यवृत्तिर्भवति । डित्थत्वं प्रकारः । प्रकारता तत्रिधैवेति । प्रकारताविशेष्य- तयोश्च निरूप्यनिरूपकभावः । ब्राह्मणोऽयमिति । इदं च जातिप्रकारक ज्ञानमात्रोपलक्षकम् । इदन्त्वावच्छिन्नविशेष्यतानिरूपितब्राह्मणत्वप्रकारता - शालिज्ञानमित्यर्थः । श्यामोऽयमिति । इदं च गुणप्रकारकज्ञानमात्रोप- लक्षकम् । इदन्त्वावच्छिन्न विशेष्यता निरूपितश्यामत्वनिष्ठ कारताशा लिज्ञान-

[[1]]

टोकात्रयोपेतः

मित्यर्थः । इदमुपलक्षणम् । अयं भाव इत्याकारकं भावत्वरूपोपाविप्रकारकं ज्ञानमपि सविकल्पकं बोध्यम् । दीपिकायां । नामजायादिरूपं यद्विशेषणं विशेष्यं च संवन्धश्चेति इन्द्रः । तानबगाइते इति व्युत्पत्तिरिति ध्येयम् ।

प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः । संयोगः - संयुक्तसमवायः - संयुक्तसमवेतसमवायः- समवायः - समवेतसमवायो विशेषणविशेष्यभाव- श्रेति ।

  • चाक्षुषादिषड् विधप्रत्यक्ष कारणीभूतान् षड्विधसन्नि - कर्षान् विभजते- संयोग इत्यादि । द्रव्यवृत्ति लौकिकविषयता सम्ब- न्धेन चाक्षुपत्वावच्छिन्नं प्रति चक्षुः संयोगस्य हेतुत्वम् । द्रव्यसमवेत- वृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुः संयुक्त- समवायस्यै हेतुत्वम् । द्रव्यसमवेतसमवेतवृचिलौकिक विषयतासम्ब श्वेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुः संयुक्तसमवेतसमवायस्य हेतुत्वम् । द्रव्यमाह कापीन्द्रियाणि चक्षुस्त्वमनांसि त्रीण्येव । अन्यानि प्राणरसनश्रवणानि गुणमाहकाणि । श्रतस्त्वगिन्द्रियस्थले द्रव्य- वृत्तिलौकिकविषयतासम्बन्धेन त्वाचत्वावच्छिन्नं प्रति स्वक्संयोगस्य हेतुता । एवं द्रव्यसमवेतत्वाचत्वावच्छिन्नं प्रति त्वक्संयुक्तसमवायस्य हेतुता । द्रव्यसमवेतसमवेतोष्ण त्वशीतत्वादिजातिस्पार्शनप्रत्यचे त्वक्संयुक्तसमवेतसमवायस्य हेतुता । एवमात्ममानसप्रत्यचे मनः-

१ समवायेनेति शेषः ।

२ स्वरूपसम्बन्धेनेति शेषः ।

३ अत्र महत्वावच्छिन्नत्वं उद्भूतस्पर्शावच्छिनत्वं च देयम् ।

तर्क -सङ्ग्रहः

[[१३०]]

संयोगस्य हेतुता । श्रात्मसमवेतसुखादिमानंसप्रत्यक्षे मनः संयुक्त- समवायस्य हेतुता । आत्मसमवेतसमवेत सुखत्वादिमानस प्रत्यक्षे मनः संयुक्तसमवेतसमवायस्य हेतुता । रसनघ्राणयोस्तु रसगन्ध- तद्गतजातिग्राहकत्वेन द्वितीयतृतीययोः सन्निकर्षयोरेव तत्र हेतुतः बोध्या ।

न्या०– श्रवणेन्द्रियस्याकाशरूपत्वेन

शब्दस्याकाशगुणत्वेन श्रवणेन्द्रियेण समं शब्दस्य समवायः सन्निकर्षः । शब्दवृत्तिशब्दत्व - कत्व खत्वादिजातिविषयक श्रावणप्रत्यक्षे समवेतसमवायस्य

हेतुता बोध्या ।

दी० - इन्द्रियार्थसन्निकर्षान् विभजते । प्रत्यक्षेति ।

गं०- इन्द्रियार्थसन्निकर्ष विभजते इति । इन्द्रियार्थसन्निकर्ष- स्वावच्छिन्नविशेष्यकइन्द्रियार्थसन्निकर्षत्वावान्तरधर्मप्रकारकज्ञानानुकूलकृति- मानू सूटकार इति बोधः । मूले प्रत्यक्षज्ञानहेतुरिति । प्रत्यक्षात्मकं यद् ज्ञानं तस्य हेतुरित्यर्थः । इन्द्रियार्थसन्निकर्ष इति । इन्द्रियं च अर्थश्च इन्द्रियार्थी, तयोः सन्निकर्ष इत्यर्थः । सन्निकर्षः सम्बन्धः ।

"

द्रव्यप्रत्यक्षं प्रति इन्द्रियसंयोगः कारणम् । नच द्रव्य, प्रत्यक्षस्य ज्ञानरूपतया समवायेनाऽऽमवृत्तित्वात्, समवायेन इन्द्रियसंयोगस्य विषय- निष्ठस्याऽऽत्मनि असम्भवात् कथं कार्यकारणभाव इति वाच्यम् । विषय- तायाः कार्यतावच्छेदकसम्बन्धत्वेनाऽदोषात् । तथा च द्रव्यवृत्तिविषयता. सम्बन्धेन प्रत्यक्षत्वावच्छि’ प्रति इन्द्रियसंयोगः कारणम् । एवं द्रव्य- समवेतवृत्तिविषयतासम्बन्धेन प्रत्यक्षत्वावच्छिनं प्रति इन्द्रियसंयुक्तसमवायः कारणम् । एवं द्रव्यसमवेतसमवेतवृत्तिविषयतासम्बन्धेन प्रत्यक्षत्वावच्छिन्नं प्रति इन्द्रियसंयुक्तसमवेतसमवायः कारणमिति सामान्यकार्यकारणभावः

Fre

१ अत्र महत्वावच्छिन्नत्वनिवेशे प्रयोजनाभावेन” केवलमन संयोगस्येत्यर्थः ।

प्राचीनैः स्वीक्रियते । परन्तु एतादृशकार्यकारणभावे परस्परजन्ये व्यभिचारः, चाक्षुपस्थले त्वगिन्द्रियरूपकारणाभावात् । एवमन्धकारे घटचक्षुः- संयोगात्स्पार्शनापत्तिश्चेति प्राचीनमतं दोषमनुसन्धाय विशिष्यैव कार्यकारणभावमाह । बोधिन्यां : द्रव्यवृत्तीति । नच विशिष्यकार्य- कारणभावस्यावश्यकत्वेऽपि यद्विशेपयोरिति न्यायेन सामान्यकार्यकारण भावोष्यावश्यक इति वाच्यम् । तादृशनियमं मानाभावात् । नच प्रत्यक्ष सामान्याभावं प्रति इन्द्रियसंयोगत्वावच्छिन्नप्रतियोगिताका भावस्य एकस्यैव aataara araana मानमिति वाच्यम् । प्राणेन्द्रियादिसंयोगसन्वेदि इव्यनिष्टलौकिकविषयतया प्रत्यक्ष सामान्याभावसत्वेन तादृशनियमस्य तत्र प्रयोजकत्वाऽसम्भवादिति ध्येयम् ।

अथैवं विशिष्यकार्यकारणभावस्यैवाssवश्यकत्वे आत्मप्रत्यक्षानुरोधेन मनः संयोगस्य कारणत्वमस्तु । एवमात्मसमवेतमानस “ज्ञानादि” प्रत्यक्षा- नुरोधेन मनः संयुक्तसमवायस्यापि कारणत्वमस्तु । परन्तु चक्षुःसंयोगस्व चक्षुः संयुक्तसमवायस्य वा कारणखे मानाभावः । रूपत्वादिचाक्षुपानुरोधेन . “चक्षुः " संयुक्तसमवेतसमवायस्य कारणतायाः आवश्यकतया चक्षुःसंयोगस्य चक्षुः संयुक्तसमवायस्याऽन्यथासिद्धत्वात् तयोः पृथक् सन्निकर्षत्वमनावश्यकम् । “चक्षुः “संयुक्तसमवेतसमवायेनैव घटादेः घटसमवेतरूपादेव चाक्षुपपत्य- क्षसम्भवः । तथाहि । चक्षुः संयुक्तः कपालिकादिः – तत्समवेतः कपालादिः

। तत्र घटस्य समवायसत्वात् । एवं चक्षुःसंयुक्तः कपालादिः तत्संयुक्तो घटादिः तत्र रूपस्य समवायादिति चेन्न । केवलं चक्षुःसंयुक्तसमवेतसम- वायस्य कारणत्वे परमाणुनीले नीलवस्य चाक्षुपप्रत्यक्षाssपतिः । नच- नीलत्वे महत्वोद्भूतरूपयोरभावान्न तदापत्तिरिति वाच्यम् । नीलत्वं जातिः सा परमाणुनीले घटनीले चैकैव तत्र स्वाश्रयसमवेतसमवायसम्बन्धेन महत्वस्य उद्भूतरूपस्य न सत्वात् । स्वं महत्वं तदाश्रयो घटः तत्समवेतं नीलरूपम् तत्समवायस्य नीलवे सत्वात् " तदेव नीलत्वं परमाणुनीले वर्त्तते इति घटनीलमादाय परमाणुनीले महत्वं बोध्यम्” । एवं स्वं

तर्क-सङ्ग्रहः

[[१३२]]

उद्भूतरूपं तदाश्रयो घटः परमाणुर्वा तत्समवेतं नीलं तत्समवायस्य च मीत्वे सत्वात् । “परमाणुरूपस्यापि उद्भूतत्वात्” एवं वायवीयस्पर्शसम - ftera चेतसत्तायाश्चाक्षुषप्रत्यक्षं स्यात्, वायोर्महत्ववत्वेन स्वाश्रयसमवेतसमवाय- सम्बन्धेन सत्तायां महत्वस्य सत्वात्, स्वाश्रयवटादिकमादाय तत्सम्बन्धेनो- द्भूतरूपस्य च सत्वात् । अतः चक्षुः संयुक्तसमवेतसमवाय सबन्धघटकचक्षुः- संयोगांशे सामानाधिकरण्यसम्बन्धेन उद्भूतरूपावच्छिन्नत्वं महत्वावच्छि- त्वं च विशेषणीयम् । तथा च नोक्कापतिः । चक्षुःपरमाणु संयोगे उद्भूतरूपावच्छिनत्वसत्वेऽपि महत्वावच्छिन्नत्वाभावेन वायुचक्षुः संयोगे महत्वावच्छिनत्वसत्वेऽपि उद्भूतरूपावच्छिन्नत्वाभावेन च विशिष्टसम्बन्धा- भावात् । एवं च “परमाणौ महत्वाभावेन” महत्वावच्छिन चक्षुः संयुक्त- समवेतसमवायस्य त्रसरेणावभावात् तच्चाक्षुषानुपपत्तिरतः संयोगस्य प्रत्यासतित्वमावश्यकम् एवं महत्वावच्छिन्नचक्षुः संयोगस्य चक्षुःसंयुक्त- समवेतसमवायस्य च त्रसरेणुरूपेऽभावाच्चाक्षुषानुपपत्या चक्षुःसंयुक्तसमवाय-

"

टि० १ नच सामानाधिकरण्यसम्बन्धेन चक्षुः संयोगे उद्भूतरूपावच्छिन्नत्वनिवेशे गौरवात संयुक्त एव समवायेन उद्भूतरूपावच्छिनत्वं निवेश्यतां लाघवादिति वाच्यम् । यत्र घटे पृष्ठावच्छेदेनाss लोकसंयोगः चक्षुः संयोगस्त्वयावच्छेदेन तत्र घटप्रत्यक्षामाबाद, श्रालोकसंयोगावच्छिन्नत्वं सामानाधिकरण्यसम्बन्धेन चतुःसंयोगे एव निवेश्यम् । सामानाधिकरण्यं चाऽत्र स्वावच्छेदकावच्छिन्नत्वरूपम् । तेन नोक्तदोषतादवस्थ्यम् । “संयुक्तांशे विशेषणत्ले उक्त स्थले घटप्रत्यक्षापत्तितादवस्थ्यात् ” । नचाऽऽलोकसंयोगा- मच्छिनत्वं चतुःसंयोगे विशेषणमस्तु महत्वावच्छिन्नत्वम् उद्भूतरूपावच्छिन्नत्वं च चक्षुःसंयुक्त एव विशेषयमस्तु सम्बन्धे लाघवादिति वाच्यम् । अर्धजरतीयन्यायापत्तेः । वस्तुतस्तु वक्तविशेषणद्वयं संयुक्त एव, आलोकसंयोगावच्छिनत्वं संयोगे एव । एकत्र विशेषणत्रयस्वीकारे विनिगमनाविरहेण गुरुभूतकार्य कारणभावा धिक्यप्रसङ्गादिति ध्येयम् ।

[[1]]

२ उद्भूतरूपावनत्वं च सामानाधिकरण्यसम्बन्धेन उद्भूतरूपविशिष्टत्वम् । पर्व महत्वावच्छिनत्वमपि ।

तर्क-सङ्ग्रहः

[[१३२]]

उद्भूतरूपं तदाश्रयो घटः परमाणुर्वा तत्समवेतं नीलं तत्समवायस्य च मीत्वे सत्वात् । “परमाणुरूपस्यापि उद्भूतत्वात्” एवं वायवीयस्पर्शसम - ftera चेतसत्तायाश्चाक्षुषप्रत्यक्षं स्यात्, वायोर्महत्ववत्वेन स्वाश्रयसमवेतसमवाय- सम्बन्धेन सत्तायां महत्वस्य सत्वात्, स्वाश्रयवटादिकमादाय तत्सम्बन्धेनो- द्भूतरूपस्य च सत्वात् । अतः चक्षुः संयुक्तसमवेतसमवाय सबन्धघटकचक्षुः- संयोगांशे सामानाधिकरण्यसम्बन्धेन उद्भूतरूपावच्छिन्नत्वं महत्वावच्छि- त्वं च विशेषणीयम् । तथा च नोक्कापतिः । चक्षुःपरमाणु संयोगे उद्भूतरूपावच्छिनत्वसत्वेऽपि महत्वावच्छिन्नत्वाभावेन वायुचक्षुः संयोगे महत्वावच्छिनत्वसत्वेऽपि उद्भूतरूपावच्छिन्नत्वाभावेन च विशिष्टसम्बन्धा- भावात् । एवं च “परमाणौ महत्वाभावेन” महत्वावच्छिन चक्षुः संयुक्त- समवेतसमवायस्य त्रसरेणावभावात् तच्चाक्षुषानुपपत्तिरतः संयोगस्य प्रत्यासतित्वमावश्यकम् एवं महत्वावच्छिन्नचक्षुः संयोगस्य चक्षुःसंयुक्त- समवेतसमवायस्य च त्रसरेणुरूपेऽभावाच्चाक्षुषानुपपत्या चक्षुःसंयुक्तसमवाय-

"

टि० १ नच सामानाधिकरण्यसम्बन्धेन चक्षुः संयोगे उद्भूतरूपावच्छिन्नत्वनिवेशे गौरवात संयुक्त एव समवायेन उद्भूतरूपावच्छिनत्वं निवेश्यतां लाघवादिति वाच्यम् । यत्र घटे पृष्ठावच्छेदेनाss लोकसंयोगः चक्षुः संयोगस्त्वयावच्छेदेन तत्र घटप्रत्यक्षामाबाद, श्रालोकसंयोगावच्छिन्नत्वं सामानाधिकरण्यसम्बन्धेन चतुःसंयोगे एव निवेश्यम् । सामानाधिकरण्यं चाऽत्र स्वावच्छेदकावच्छिन्नत्वरूपम् । तेन नोक्तदोषतादवस्थ्यम् । “संयुक्तांशे विशेषणत्ले उक्त स्थले घटप्रत्यक्षापत्तितादवस्थ्यात् ” । नचाऽऽलोकसंयोगा- मच्छिनत्वं चतुःसंयोगे विशेषणमस्तु महत्वावच्छिन्नत्वम् उद्भूतरूपावच्छिन्नत्वं च चक्षुःसंयुक्त एव विशेषयमस्तु सम्बन्धे लाघवादिति वाच्यम् । अर्धजरतीयन्यायापत्तेः । वस्तुतस्तु वक्तविशेषणद्वयं संयुक्त एव, आलोकसंयोगावच्छिनत्वं संयोगे एव । एकत्र विशेषणत्रयस्वीकारे विनिगमनाविरहेण गुरुभूतकार्य कारणभावा धिक्यप्रसङ्गादिति ध्येयम् ।

[[1]]

२ उद्भूतरूपावनत्वं च सामानाधिकरण्यसम्बन्धेन उद्भूतरूपविशिष्टत्वम् । पर्व महत्वावच्छिनत्वमपि ।

तर्क - सङ्ग्रहः

[[१३४]]

संयुज्यते इति । मन इन्द्रियेणेति । संयुज्यते इत्यनेनाऽन्वयः । इन्द्रिय- मर्थेनेति । अस्यापि संयुज्यते इत्यनेनाऽन्वयः । नचाऽऽत्मप्रत्यक्षे आत्मम- नःसंयोगमात्रस्य हेतुतया तत्प्रत्यक्षानुपपत्तिः, तत्रेन्द्रियमनः संयोगविरहात्, विषयेन्द्रियसंयोगाभावाच्चेति वाच्यम् । आत्मप्रत्यक्ष सङ्ग्रहाय आत्मा मनसा संयुज्यते ततः प्रत्यक्षज्ञानमुत्पद्यते इति योजनयाऽनुपपत्तिविरहादिति ।

घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः । चक्षुः संयुक्ते घटे रूपस्य समवायात् ।

दी० - संयुक्तसमवायमुदाहरति । घटरूपेति । तत्र युक्तिमाह । चक्षुः संयुक्ते इति ।

गं० - मूले । घटरूपप्रत्यक्षजनने इति चक्षुषा इत्यनुषज्यते । घटे रूप घटरूपम्, समवेतत्वं सप्तम्यर्थः । घटसमवेतरूपमित्यर्थः घटरूपस्य प्रत्यक्षं घटरूपप्रत्यक्षम्, विषयकत्वं पष्ट्यर्थः । तथा च घटसमवेतरूप- विषयकं “घटे रूप” इत्याकारकं ज्ञानं यदा चक्षुषा जन्यते तदा संयुक्तसम वायः इन्द्रियार्थसन्निकर्षः । इन्द्रियं चक्षुः अर्थों घटरूपम्, अनयोः सम्ब- न्धः संयुक्तसमवायः । तत्र । संयुक्तसमवायस्य सन्निकर्षत्वे । युक्तिमाह । हेतुमाहेत्यर्थः । मूले । चतुःसंयुक्त घटे इति । चक्षुः संयुक्तो घटः तस्मिन् रूपस्य समवायादित्यर्थः ।

मूले घटपदं द्रव्यमात्रोपलक्षकम् । रूपपदं समवेतमानोपलक्षकम् । एवं चक्षुः संयुक्ते इत्यत्र चक्षुः पदमिन्द्रियमान्त्रोपलक्षकम् । घटपदं द्रव्यमा- श्रोपलक्षकम् । रूपपदं द्रव्यसमवेतमानोपलक्षकम् ।

तथा च द्रव्यसमवेतवृत्तिलौकिक विपयतासम्बन्धेन चाक्षुपत्वावच्छिनं प्रति स्व, संयुक्तसमवायसम्बन्धेन चक्षुः कारणम् । एवं तादृशविषयता सम्बन्धेन स्पritraratच्छ प्रति उक्तसम्बन्धेन त्वगिन्द्रियं कारणम् । एवं तादशविष-

तासम्बन्धेन मानस, सुखादिप्रत्यक्ष, त्वावच्छिन्नं प्रति निरुकसम्बन्धेन मनः

[[૫]]

टोकात्रयोपेतः

कारणम् । एवं तादृशसम्बन्धेन प्राणज “गन्धप्रयक्ष” त्वावच्छिन्नं, प्रमि उक्त-

सम्बन्धेन प्राणेन्द्रि’ कारणम् । एवं

च्छिन्नं प्रति रसः कारणमिति विशिष्यैव

सम्बन्धेन गसनरसप्रत्यक्षस्वाव- कार्यकारणभावः । केवलं श्री

fasts नायं सन्निकर्ष इति ध्येयम् ।

रूपत्वसामान्यप्रत्यचे संयुक्तसमवेतसमवायः सन्निकर्षः । चक्षुः संयुक्तं घटे रूपं समवेतम्, तत्र रूपत्वस्य समवायात् ।

दो० – संयुक्तसमवेतसमवायमुदाहरति । रूपत्वेति ।

गं०– मूले रूपत्वसामान्य प्रत्यक्षे इनि । रूपत्वं यत्सामान्य नस्य प्रत्यक्षे इत्यर्थः । रूपत्वसामान्यविषयकप्रत्य इति यावत् । अत्रापि चक्षुषा इत्यनुषज्यते । तथा च वदरूपे रूपत्यमिन्याकारकप्रत्यचे संयुक्तः समवेतसमवायः सन्निकर्षः । चक्षुःसंयुक्ते घटे इति । चक्षुः संयुक्त घट तसमवेतं रूपम्, तस्मिन् रूपत्वस्य समवायो वर्त्तते, जानिव्यक्त्योः समवायादिति ।

अत्रापि रूपत्वपदं जातिमात्रोपलक्षकम् । द्रव्यसमवेतसमवेतप्रत्यक्षे इति यावत् । एवं चक्षुःपदं श्रोत्रं विहायेन्द्रियमात्रोपलक्षकम् । घटपदं द्रव्य- मात्रोपलक्षकम्, रूपपदं द्रव्यसमवेतमात्रोपलक्षकम् । रूपत्वपदं तत्समवेन- मात्रोपलक्षकम् ।

तथा च द्रव्यसमवेतसमवेतवृत्ति लौकिक विषयतासम्बन्धेन चाक्षुष “रूरः स्वप्रत्यक्ष” स्वावच्छिन्नं प्रति स्त्रसंयुक्तसमवेतसमवायसम्बन्धेन चक्षुः कारणम् । एवं ताशसंवन्धेन स्पार्शनस्पर्शत्व “प्रत्यक्ष स्वावच्छिन्नं प्रति तादृशसं- बन्धेन स्वगिन्द्रियं कारणम् । एवं तादृशसम्बन्धेन मानस ‘सुखत्वप्रत्यक्ष’ . त्वावच्छिन्नं प्रति तादृशसम्बन्धेन मनः कारणम् । एवं तादृशसम्बन्धेन प्राणज “गन्धत्वप्रत्यक्ष” त्वावच्छित्रं प्रति उक्तसम्बन्धेन घ्राणेन्द्रियं कारणम् । एवं

तर्क - सङ्ग्रहः

E

तादृशसम्बन्धेन रसनेन्द्रियजन्य “रसत्वविषयक” प्रत्यक्षत्वावच्छिनं प्रति

सम्बन्धेन रसनेन्द्रियं कारणमिति ।

[[1]]

श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः । कर्णविवरवृयकाशस्य श्रोत्रत्वात् शब्दस्याऽऽका- शगुणत्वात्, गुणगुणिनोश्च समवायात् ।

"

दी० - समवायमुदाहरति । श्रोत्रेणेति । तदुपपादयति । कर्णेति । गं० - मूले । श्रोत्रेण । श्रोत्रेन्द्रियेण । शब्दसाक्षात्कारे इति । शब्दस्य साक्षात्कारः, शब्दसाक्षात्कारः तस्मिन् । षष्ठयर्थो विषयकत्वम्, साक्षात्कारः प्रत्यक्षात्मकं ज्ञानम् । एवं च " अयं शब्दः” इत्याकारकं शब्द- विषयकं ज्ञानं यदा श्रोत्रेन्द्रियेण जायते तदा समवायः इन्द्रियार्थसन्निकर्षः श्रोत्रमिन्द्रियम् अर्थः शब्दः, अनयोः सम्बन्धः समवायः । दीपिकायां । तदुपपादयतीति । तत् समवायस्य सन्निकर्षत्वम् । कर्णविवरवर्त्याकाशस्य कर्णविशिष्टाकाशस्य । श्रोत्रत्वात् । श्रोत्रेन्द्रियत्वात् । तथा च शब्दः आकाशे एव वर्तते । श्रोत्रन्तु आकाशमेवेति शब्दस्य समवायेन श्रोत्रे सच्चात् तदुपपत्तिरिति ध्येयम् ।

एवं च शब्दवृत्तिलौकिकविषयतासम्बन्धेन श्रावण ‘शब्दप्रत्यक्ष’, स्वाव- निं प्रति श्रोत्रावच्छिन ‘समवायसम्बन्धेन श्रोत्रेन्द्रियं कारणम् । श्रोत्रा वच्छिनत्वं च श्रोत्रानुयोगिकत्वविशिष्टसमवायः । यः शब्दो यदवच्छेदेनो- त्पद्यते स शब्दः तदेशानुयोगिकत्वविशिष्टसमवायवानित्यनुभवानुरोधात्कर्ण- विवरावच्छेदेनोत्पद्यमानशब्दस्यैव कर्णविवरा नुयोगिकत्व विशिष्टसमवायवस्थं न तु देशान्तरासच्छेदेनोत्पद्यमानशब्दस्येति न श्रोत्र देशेऽनुत्पशब्दस्य समवायेन श्रावणत्वापत्तिरिति ध्येयम् ।

दी० - ननु दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेन्न ।

१ अत्रापि महत्वावच्छिनत्वं न देयम् प्रयोजनाभाबाद ।

[[१३७]]

बीचीत रङ्गन्यायेन कदम्बमुकुलन्यायेन वा शब्दाच्छब्दान्तरोत्पत्ति- क्रमेण श्रोत्रदेशे जातस्य श्रोत्रसम्बन्धात् प्रत्यक्षत्वसम्भवात् ।

गं० - ननु श्रोत्रावच्छिन्नसमवायस्य संसर्गत्वे भेयान्द्यवच्छेदेनोत्पन्न- शब्दस्य भेर्याद्यवच्छिन्नसमवायवत्वम् नतु श्रोत्रावच्छिन्नसमवायवत्वम्, श्रोत्रावच्छेदेन प्रथमशब्दस्योत्पत्यभावात् एवं च सन्निकर्षविरहात् शब्दस्य प्रत्यक्षानुपपत्तिरित्याशङ्कते । नन्वित्यादिना । दूरस्यशब्दस्येति । कर्ण- मित्रदेशावच्छेद्यशब्दस्येत्यर्थः । कथं श्रोत्रसम्बन्ध इति । कथं कर्णावच्छे- स्वमित्यर्थः । तथा च कस्यापि शब्दस्य कर्णावच्छेद्यत्वाऽभावाच्छन्दस्य प्रत्यक्षानुपपत्तिरिति भावः । वीचीतरङ्गन्यायेनेति यथा आद्यवीची सर्व दिगवच्छेदेन तरङ्गान्तरं जनयति, स तरङ्गः तरङ्गान्तरं जनयति तथा. भैर्याद्यवच्छेदेन जायमानशब्दोऽपि सर्वदिगवच्छेदेन शब्दान्तरं जनयति, सोऽपि शब्दः शब्दान्तरं जनयति इति रीत्या कर्णविवरावच्छेदेनोर पद्मशब्दो गृह्येते “अयमेव वीचीतरङ्गन्यायेनोत्पत्तिक्रमः” । कदम्बमुकुलन्यायेनोत्पत्ति. प्रकारमाह । कदम्बमुकुतन्यायेनेति । यथा आदिमं कदम्बमुकुलं नालकाधिकरणविशेषे सर्वदिगवच्छेदेन एकदैवाऽनेकमुकुलानि जनयति तथा भेरीमृदङ्गाद्यवच्छेदेन जायमानः प्रथमशब्दः सर्वदिगवच्छेदेन दशशब्दान् जनयति तादृशदशशब्दाः शब्दान्तरान् जनयन्तीति । " अयमेव कदम्ब - सुकुलन्यायेनोत्पत्तिक्रमः” । वाकारोऽनास्थायाम् । दशशब्दानां तत्प्रागभा- वानां तद्धेतुहेतुमद्भावे व कल्पनागौरवादिति ध्येयम् । आयशब्दस्तु अतीन्द्रिय एवेति । श्रोत्रदेशे जातस्येति । कर्णविवरावच्छेदेन जायमान- शब्दस्येत्यर्थः । श्रोत्रसम्बन्धादिति । श्रोत्रावच्छितसमवायरूपसनिक- सत्वादित्यर्थः । प्रत्यक्षत्वसम्भवादिति । तथा च शब्दस्याऽतीन्द्रियत्वम- प्रामाणिकमिति भावः ।

शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः । श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् ।तर्क-सङ्ग्रहः

दी० - समवेतसमवायमुदाहरति । शब्दत्वेति ।

[[१३८]]

गं० - मूले । शब्दत्वसाक्षात्कारे इति । श्रोत्रेणेत्यनुषज्यते । शब्दत्वस्य साक्षात्कारः शब्दत्वसाक्षात्कारः । तस्मिन् । एवं च शब्दस्व- विषयकप्रत्यक्षे इत्यर्थः । एवं च शब्दे शब्दत्वमित्याकारकशब्दत्वविषयक- ज्ञाने समवेतसमवायः इन्द्रियार्थसन्निकर्षः । इन्द्रियं श्रोत्र, अर्थः शब्दत्वं, तयोः सम्बन्धः समवेतसमवायः । समवेतस्य श्रोत्रावच्छिन्नसमवेतस्य, समवाय इत्यर्थः । अस्य सन्निकर्षत्वमुपपादयति । श्रोत्रसमवेते इति । शब्दसमवेतशब्दत्वे श्रोत्रसमवेतसमवायसत्वादित्यर्थः । तथा च शब्द- समवेतवृत्ति लौकिकविषयतासम्बन्धेन श्रावण “शब्दत्व प्रत्यक्ष” स्वावच्छिन प्रति श्रोत्रावच्छिन्न समवेतसमवायसम्बन्धेन श्रोत्रं कारणम् ।

अभावप्रत्यचे विशेषणविशेष्यभावः सन्निकर्षः । भूतलं घटाभाववदित्यत्र चतुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् ।

[[1]]

न्या० - श्रभावप्रत्यक्षे इति । विशेषणविशेष्यभावो नाम विशेषरणतसन्निकर्षः । पञ्चविधसन्निकर्षेषु मध्ये संयोगस्थाने संयुक्त- पढ़ें, समवायस्थाने समवेतपदं च घटयित्वा अभावस्थले निर्वाह्यम् । तथाहि द्रव्याधिकरणकाऽभावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता, द्रव्यसमवेताधिकरणका भाव प्रत्यते इन्द्रियसंयुक्तसमवेतविशेषणता, द्रव्यसमवेतसमवेताधिकरणका भाव प्रत्यक्षे इन्द्रियसंयुक्तसमवेतसम- बेतविशेषगुवाच सन्निकर्षः । तत्र घटे पटत्वाभावः संयुक्तविशेषणतया गृह्यते । घटसमवेतघटत्वादौ पृथिवीत्वाभावः संयुक्तसमवेतविशेषणः

· टि० - १ साच न प्रकारतारूपा, अतो भूतले घटाभाव इत्यत्रापि विशेषणतयै सन्निकर्षः । नातः षड्विधत्वहानिरिति ध्येयम् ।

• १३६

टीकात्रयोपेतः

तया गृह्यते । घटसमवेतसमवेतरूपत्वादौ नीलत्वाभावश्च संयुक्तसम- वेतसमवेतविशेषणतया गृह्यते इति सङ्क्षेपः ।

इति न्यायबोधिन्यां प्रत्यक्ष परिच्छेदः ।

दी० - विशेषणविशेष्यभावमुदाहरति । श्रभावेति । तदुपपा- यति । घटाभाववदिति । भूतलं विशेष्यम् । घटाभावो विशेषणम् । भूतले घटाभावो नास्तीत्यत्र अभावस्य विशेष्यत्वं द्रष्टव्यम् ।

गं० - मूळे । अभावस्य प्रत्यक्षमभावप्रत्यक्षम् । तस्मिन् । अभाव- पियकप्रत्यक्षे इत्यर्थः । विशेषणं च विशेष्यं च विशेषणविशेष्ये तयोर्भावः । विशेषणभावः, विशेष्यभावश्चेत्यर्थः । द्वन्द्वान्ते श्रयमाणं पदं प्रत्येकमभि- सम्बध्यते इति न्यायात् । विशेषणता - विशेष्यता इति यावत् । यथा भूतलं. प्रभाववदिति ज्ञाने अभावस्य इन्द्रियसम्बद्ध विशेषणतासन्निकर्षः । इन्द्रियं चक्षुः — तत्सम्बद्धं भूतलं तत्र विशेषणता घटाभावस्येति । सङ्क्षेप इति । शाभावः श्रोत्रावच्छिन्न विशेषणतया गृह्यते । गृह्यते च काद स्वत्वाभावः श्रोत्रावच्छिन्नसमवेतविशेषणतया, करवे खत्वाभावः श्रोत्रावच्छि नसमवेतसमवेतविशेषणतया, घटाभावे पटाभावः संयुक्तविशेषणविशेषण- तया, काsभावे खत्वाभावः श्रोत्रावच्छिन्न विशेषणविशेषणतया । अभावस्तु सर्वत्र विशेषतयैव गृह्यते, परन्तु अधिकरणैः सह इन्द्रियाणां पृथक्-पृथक् सम्बन्धः उक्तदिशा कल्पनीय इति ध्येयम् । दीपिकायां भूतले घटो ना. स्तीत्यत्रेति । आधेयतासम्बन्धावच्छिन्नभूतलनिष्ठ प्रकारतानिरूपितघटाभाव- निष्ठ विशेष्यताशालिप्रत्यक्षे इत्यर्थः । विशेष्यत्वमिति । इन्द्रियसम्बद्धविशे- प्यत्वमित्यर्थः । अत्रापि सम्बन्धः पूर्ववदूहनीयः । यद्यपि विशेषणता नाना- विवा तथापि विशेषणतात्वेन रूपेण सा एकविधैवेति न पडूविधत्वहानिः । न च संयुक्तसमवायादीनां चतुणां समवायस्वेनैकविधत्वात् षडविधत्वहानि- स्तदवस्यैवेति वाच्यम् । स्वतन्त्रेच्छेन पृथक्-पृथक् कथनात् । वस्तुतस्तु संयोग संयुक्तसमवाय विशेषणताभेदेन सन्निकर्षस्त्रिविध एवेति ध्येयम् ।

वर्क-सङ्ग्रहः

दी० - एतेन अनुपलब्धेप्रमाणान्तरत्वं निरखम् । " यद्यत्र घटोऽभविष्यत् तदा भूतलमिवाऽद्रक्ष्यत् दर्शनाभावान्नास्ति” इति तर्कितप्रतियोगिसत्वविरोध्यनुपलब्धेः सहकृतेन इन्द्रियेणैव अभाव- ज्ञानोपपत्तौ अनुपलब्धेः प्रमाणाऽन्तरत्वाऽसम्भवात् । अधिकरणत्व- ज्ञानार्थमयेक्षणीयेन्द्रियस्यैव करणत्वोपपत्ती अनुपलब्धेः करणत्व- स्याऽयुक्तत्वात् । विशेषणविशेष्यभावो विशेषणविशेष्य स्वरूपमेव नातिरिक्तः सम्बन्धः ।

० - एतेन । विशेषणतायाः सन्निकर्षत्वस्वीकारेण । विशेषणतासनि- कर्षबलादभावस्य प्रत्यक्षविषयत्वेनेति यावत् अनुपलब्धेरिति । योग्यानु- पधेरिति यावत् । प्रमाणत्वम् । प्रत्यक्षाद्यतिरिक्तप्रमाणत्वम् । मीमांसकै- स्तु विशेषणतासनिकर्षो न स्वीक्रियते । नच समवायप्रत्यक्षानुरोधेन सः स्वीकर्त्तव्य इति वाच्यम् । तैः समवायाऽनङ्गीकारात् एवं च सन्निकर्षाभावा- दभावप्रत्यक्षाऽन्यथानुपपत्याऽनुपलब्धिनामकं प्रमाणान्तरं स्वीकार्यमिति । परन्तु विशेषणतायाः सन्निकर्षत्वस्वीकारेणैवाऽभावस्य प्रत्यक्ष सम्भवारिक- ‘मनुपलब्धेः प्रमाणान्तरत्वेनेति भावो नैयायिकानाम् । अनुपलब्धेरभावप्रा इकत्वाभावे भूतलादौ घटवत्ताश्रमदशायामपि घटाभावप्रत्यक्षापत्तिः, विशे- पणतासचिकर्षसत्वात् । नवाऽभावग्राहकसन्निकर्षसत्वेऽपि घटवत्तानिश्चयस्य प्रतिबन्धकत्वेन घटभ्रमदशायां न घटाभावप्रत्यक्षापत्तिरिति वाच्यम् । प्रति- बभ्यतावच्छेदककोटौ लौकिक सचिकर्षाऽजन्यत्वस्य निवेशनीयतया घटाभावः प्रत्यक्षस्य लौकिकसन्निकर्षजन्यत्वेन प्रतिवध्यतावच्छेदकानाक्रान्तत्वादित्या- शङ्कां अभावप्रत्यक्षे योग्यानुपलब्धेः सहकारिकारणत्वं स्वीकृत्य परिहरति । यद्यत्रेति । भूतले यदि घटः स्यादित्यर्थः । तदा भूतलमिवेति । भूतक- प्रत्यक्षमिव घटप्रत्यक्षमपि स्यादित्यर्थः । दर्शनाभावादिति । तदर्शनाभा वादित्यर्थः । तर्कितेति । तर्कितम् आपादितम् । यत्प्रतियोगिसत्वम् । सद्विरोष्यनुपलब्धीत्यर्थः । प्रतियोगिसत्यप्रसञ्जन प्रसञ्जित प्रतियोगिकत्वरूप-

टीकाप्रयोपेतः

योग्यताविशिष्टो यः उपलब्ध्यभावः तत्सहकृतेनेन्द्रियेणेत्यर्थः । प्रतियोगिनो घटादेः सत्वप्रसञ्जनेन “यदि अत्र घटः स्यादित्यापादनेन” प्रसञ्जितः आपा- दितः " तर्हि घटोपलभ्येतेत्यापत्तिविषयीभूतः” प्रतियोगी " उपलब्धिरूपः प्रतियोगी” यस्य । तथा च प्रतियोग्युपलब्ध्यभावः अभावप्रत्यक्षे सहकारि- कारणमित्यर्थः । श्रभावज्ञानोत्पत्ताविति । अभावनिष्ठ लौकिकविषयता- शालिप्रत्यक्षोत्पतौ । अनुपलब्धेरिति । योग्यानुपलब्धेरित्यर्थः । नन्वे- सावता अभावप्रत्यक्षे इन्द्रियाणां करणत्वम्, अनुपलब्धेः सहकारित्वमित्या- यातम्, तदपेक्षया अनुपढधेरेव करणत्वकल्पनं वरम्, एवमनुपलब्धिसडक- सेन्द्रियस्य करणत्वम्, इन्द्रिय सहकृतानुपलब्धेर्वा इत्यत्र विभिगमनाविरह- त्यत आह । श्रधिकरणशानार्थमिति । अधिकरणं विना अभावग्रहानुत्प- त्या अधिकरणग्रहार्थं इन्द्रियाणां कारणत्वस्यावश्यकतया कृप्तकारणेनेन्द्रिये -

[[1]]

वाऽभावग्रहोत्पत्तौ प्रमित्यन्तरकल्पनायाः प्रमाणान्तरकल्पनायाश्चाऽन्याय्य- त्वादिति भावः । करणत्वोपपत्ताविति । घटाभावादिविषयक प्रमाकरण- स्वसम्भवे इत्यर्थः । अनुपलब्धेरिति । योग्यानुपलब्धेरित्यर्थः । करणत्वा- योगादिति । करणत्वस्याऽप्रामाणिकत्वादिति भावः । इदमुपचक्षणम् । अनुपलब्धिर्शाता सती कारणम्, अज्ञाता वा । नाद्यः । अनुपलब्धेरपि उप- वध्यभावरूपतया तत्रापि अनुपलब्धेः कारणत्वं वाच्यम् एवं तस्यात्रि अभावरूपतया तत्रापि तस्याः कारणत्वमितिरीत्याऽनवस्थाप्रसङ्गात् । न द्वितीयः । तथा सति अभावप्रत्यक्षस्य ज्ञानाकरणकत्वात्प्रत्यक्षत्वं निर्व्यूढमे- वेति सङ्क्षेपः । ननु त्वयाऽपि विशेषणविशेष्यभावाख्योऽतिरिक्तः सम्बन्धः कल्पनीय इत्यत माह । विशेषणविशेष्यभाव इति । विशेषणतासत्रिकर्ष इत्यर्थः । विशेषणविशेष्यस्वरूप एवेति । अभावस्वरूपः अधिकरणस्त्र- रूपोवेत्यर्थः । एवकारार्थं विवृणोति । नातिरिक्तः पदार्थ इति । विशेषण- तासन्निकर्षो नाभावाधिकरणाभ्यामतिरिक्तः पदार्थ इत्यर्थः । एवं तत्तत्का- लीनतत्तद्भूतलादिकं तत्तदभावानां सम्बन्धः इति विश्वनाथोक्तिरपि सङ्गच्छते ।

}

तर्क - सङ्ग्रहः

एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षम् । तत्करण- मिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् । इति तर्कसङ्ग्रहे प्रत्यक्षपरिच्छेदः समाप्तः ।

दी० – प्रत्यक्षज्ञानमुपसंहरन् तस्य करणमाह । एवमिति । श्रसाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः । प्रत्यक्षमुप- संहरति । तस्मादिति ।

इति दीपिकायां प्रत्यक्षपरिच्छेदः ।

गं०-असाधारणकारणत्वादिति । कार्यत्वव्याप्यप्रत्यक्षत्वाच - च्छिन्नकार्यतानिरूपितकारणतावत्यादित्यर्थः । इन्द्रियाणि पटू । घ्राण रसन- चक्षुः स्वक्-श्रोत्र-मनांसि । करणभेदात् प्रत्यक्षप्रमाऽपि षड़विधा । घ्राणज- रासन - चाक्षुषत्वाच श्रौत्र मानसभेदादिति ।

इदमत्रावधेयम् । प्रत्यक्षं द्विविधम् । लौकिकम्, अलौकिकं च । सन्निकर्षषट्कजन्यं खौकिकम्, तच्च व्याख्यातमेव । अलौकिकसन्निकर्ष- जन्यमलौकिकम् । अलौकिकसन्निकर्षस्त्रिविधः । सामान्यलक्षणा-ज्ञानलक्षणा योगजभेदात् ।

"

[[1]]

लक्षणशब्दस्याऽर्थद्वयम् स्वरूपो विषयश्च । आद्ये सामान्यमेवलक्षण- मिति व्युत्पत्तिः । सामान्यात्मकः सम्बन्धः इति यावत् । स च इन्द्रियसम्ब. दविशेष्यकज्ञानप्रकारीभूतः । यथा इन्द्रियं चक्षुः तत्सम्बद्धो घटः तद्विशेष्यकं घटः इत्याकारकं ज्ञानं तस्मिन् प्रकारीभूतं यद् घटत्वम्, तदेव निखिलघर- प्रत्यक्षे " घटाः इत्याकारके” कारणम् । तथा च विशेष्यतासम्बन्धेन घट० प्रत्यक्षं प्रति समवायसम्बन्धेन घटत्वं कारणमिति पर्यवसितः कार्यकारण• - भावः । द्वितीये । सामान्यं विषयो यस्याः “ज्ञानव्य केः” इति व्युत्पत्तिः । सामान्य विषयकशानं सम्बन्धः । तथा च यावद्घटप्रत्यक्षे घटत्वं न कारणम्, किन्तु घटत्वज्ञानमिति फलितम् । तथा च समवायसम्बन्धेन तद्वर्माश्रय- बावदुघटविषयकप्रत्यक्षं प्रति समवायसम्बन्धेन सामान्यविषयकज्ञानं हेतु-

रिति कार्यकारणभावः । अथवा स्वीयप्रकाराश्रयद्वसंवत्व सम्बन्धेन तम्पुरु terraraft प्रति स्वीकारनाश्रयसम्बन्धेन तत्पुरुपीय- ज्ञानं हेतुरिति ।

ज्ञानलक्षणासन्निकर्षतु इन्द्रियसंयुक्तमनः संयुक्तमसमचे तस्मृति- fareraरूपः । यथा सुरभिचन्दनमित्यत्र ।

योगश्चित्तवृत्तिनिरोधः तेन जातः सर्वज्ञत्वादिरूपः योगजः सन्निकर्षः । यथा देशकालय्यवहितसूक्ष्मपदार्थविषयकप्रत्यक्षं । युक्त-युञ्जानयोगिभेदेन सनिपि द्विविधः । सर्वदा सर्वविषयक ज्ञानवान् युक्तः । चिन्ताविशेष- सहकारेण सर्वविषयक ज्ञानवान् युञ्जान इति सङ्क्षेपः ।

इति गङ्गार्या प्रत्यक्षपरिच्छेदः ।

अनुमितिकरणमनुमानम् ।

न्या०– अनुमानं लक्षयति । अनुमितीति । अनुमितौ व्या- प्रिज्ञानं करणम्, परामर्शो व्यापारः । श्रनुमितिः फलम्, कार्यमि- त्यर्थः । परामर्शस्य व्याप्तिज्ञानजन्यत्वे सति व्याप्तिज्ञानजन्याऽनु- मितिजनकत्वात्, तज्जन्यत्वे सति तज्जन्यजनकत्व रूपव्यापारत्वमुप- पन्नम् श्रनुमितिकरणत्वमनुमानस्य लक्षणम् अनुमानं व्याप्तिज्ञानम् । एवस्य परामर्शरूपव्यापारद्वारा अनुमितिं प्रत्यसाधारणकारणतया - ऽनुमितिकरणत्वमुपपन्नम् ।

दी० अनुमानं लक्षयति अनुमितिकरणमिति ।

गं०- अनुमानं लक्षयतीति । उपजीवकत्व सङ्गत्या इति शेषः ॥ अनुमान विशेष्यकलक्षणस्वरूपप्रामाण्यप्रकारक ज्ञानानुकूलशब्दप्रयोगानुकूल- कृतिमान् मूलकार इति बोधः । मूले अनुमितिकरणमिति । अनुमितेः

१ सङ्गतिसामान्यलचखादिकन्तु माथुर्यामवसेयम् ।

[[1]]

तर्क - सङ्ग्रहः

[[१४४]]

करणमनुमितिकरणम् । निरूपितत्वं षष्ठयर्थः तथाचाऽनुमितिनिष्ठ कार्य तानि- रूपिताऽपाधारकारणत्वमनुमानप्रमाणस्य लक्षणम् । अनुमितौ व्याप्तिज्ञानं -करणमिति । प्राचीनमतेन इदम् । वन्हिव्याप्यो धूम इति निश्चयं कृत्वा “वन्द्यार्थी” कश्चिन्पुरुषः पर्वतमगमत्, तत्र तस्य पर्वतो वन्हिमानवेति संशयो जातः । ततः पर्वतो धूमवानिति ज्ञानं प्रत्यक्षात्मकं पक्षधर्मताज्ञानं जातम् । ततो वन्हिष्याप्यो धूम इति व्याप्तिस्मरणम् । धूमज्ञानस्य व्याप्त्यनुभवजन्यो यो व्याप्तिसंस्कारः तस्योद्बोधकत्वात्, अतएव एकसम्बन्धिज्ञानमपरसन्द- धम्मारकमिति व्युत्पत्तिरपि । अत्र एकसम्बन्धिज्ञानं धूमज्ञानं अपरसम्ब- न्धिनो वन्हिव्याप्तेः स्मारकम् उद्बोधकविधया इति यावत् । ततश्च वन्हि- व्याप्यधूमवान् पर्वत इति परामर्शः । ( परामर्शे च व्याप्तिज्ञानं कारणम् । विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् ) । ततः व्याप्यनिश्चयेन व्यापकनि• चयात्मिका” पर्वतो वन्हिमानित्यनुमिति जायते इति । तथा च परामों क्याप्तिज्ञानजन्यत्वस्य व्याप्तिज्ञानजन्यानुमितिजनकत्वस्य च सत्वात्परामर्श- स्य व्यापारत्वोपपत्तिः । तदेवाह । परामर्शस्येति । उपसंहरति । अनु. मानं व्याप्तिज्ञानमिति । अनुमितिकरणत्वादिति यावत् । तदेव स्पष्टयति । पतस्येति व्याप्तिज्ञानस्येत्यर्थः । अनुमितिं प्रत्यसाधारणकारणतयेति । अनुमितित्वावच्छिन्नकार्यतानिरूपितकारणतयेत्यर्थः ।

परामर्शजन्यं ज्ञानमनुमितिः ।

न्या० – परामर्शजन्यमिति । परामर्शजन्यत्वविशिष्टज्ञानत्वमनु- मितेर्लक्षणम् । अत्र ज्ञानत्वमात्रोपादाने प्रत्यक्षादावतिव्याप्तिः, अतः परामर्शजन्यत्वे सतीति विशेषणोपादानम् । परामर्श जन्यत्वमात्रोको परामर्शध्वंसेऽतिव्याप्तिरतस्तद्वारणाय ज्ञानत्वोपादानम् ।

दी० - अनुमितेर्लक्षणमाह परामर्शेति ।

गं०- परामर्शजन्यत्वे सति ज्ञानव्यमनुमितेर्लक्षणम् । सति सप्तम्या विशिष्टार्थकतबाऽऽछ । परामर्शजन्यत्वविशिष्टेति वैशिष्ठ्यं च सामा-

[[૫]]

नाधिकरण्यसम्बन्धेन । परामर्शध्वंसेऽतिव्याप्तिरिति । प्रतियोगिता- सम्बन्धेन ध्वमं प्रति तादात्म्येन प्रतियोगिनः कारणत्वान। न च तथापि वन्हव्याप्यधूमवान् पर्वत इति ज्ञानवानहमित्याकारक परामर्शप्रत्यक्षेऽति- व्याप्तिः, “विषयनासम्बन्धेन प्रत्यक्षं प्रति तादात्म्यसम्बन्धेन विपयस्य कार- णतया " परामर्शविषयकप्रत्यक्ष परामर्शजन्यत्व - ज्ञानत्वोभयोः सत्वादिति वाच्यम् । समवायसम्बन्धावच्छिन्नपरामर्शवावच्छिन कारणता निरूपितसम वायसंवन्धाच्कार्यतावश्वस्य तदर्थत्वात । परामर्शनिष्ठजनकनायां सम- वायसंवन्धावच्छिन्नवविरहान, परामर्शध्वंसनिष्ठायां परामर्शप्रत्यक्षनिष्ठायां च जन्यतायां समवाय सम्बन्धावच्छिक त्वविरहान्नातिव्याप्तिः

न च ज्ञानस्व-

रूपविशेष्यदलं व्यर्थमिति वाच्यम् । इष्टापत्तेः । एतादृश र्थ प्रभायैव ज्ञान- पदम् न च वन्हिव्याप्यधूमवत्पर्वतवान् अयं देश हनि विशिष्टवैशिष्ठ्या- वगाहिबुद्धी अतिव्याप्तिः, समवायेन विशिष्टबुद्धिं प्रति समान विशेषण- ज्ञानस्य कारणतया जन्यतायां जनकतायां च समवायसम्बन्धावन्नित्वस- स्वादिति वाच्यम् । परामर्शजन्यत्वे सति हेत्वविपयकज्ञानत्वस्यैव लक्षणार्थ- ल्वात् 1 तादशविशिष्टवैशिष्ट्या वगाहिबुद्धेर्हे ! विषयक ज्ञातिव्याप्तिः । तथा च परामर्शजन्य हेत्वविषयकज्ञान वृत्यनुभवत्वव्याप्यजातिमत्वं अनु- मितेर्लक्षणम् । एवं व्याप्तिज्ञानकरणकं ज्ञानमनुमितिः । एवमनुमितित्व- जातिमत्वमप्यनुमितेर्लक्षणम् ।

व्याप्तिविशिष्टपचधर्मताज्ञानं परामर्शः । यथा वन्हिव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं “पर्वतो वन्हिमान्” इति ज्ञानमनुमितिः ।

न्या०– अनुमितिलक्षणघटकीभूत परामर्शल क्षणमाचष्टे । व्या- प्तिविशिष्टेति । व्याप्तिविशिष्टं च तत्पक्षधर्मताज्ञानं चेति कर्मधारयः । अत्र विशिष्टपदस्य प्रकार तानिरूपकपरत्वात्, पक्षधर्मतायाः ज्ञान-

[[१०]]

तर्क - सङ्ग्रहः

[[१४६]]

मित्यत्र पष्ठ्या त्रिषयत्वबोधनात्, धर्मतापदस्य सम्बन्धार्थकत्वात्, कर्मधारय समासेन समस्यमानपदार्थयोरभेद संसर्गलाभाच व्याप्तिप्र- कारकाऽभिन्नं यत्पक्ष सम्बन्धविषयकं ज्ञानं तत्परामर्श इति लभ्यते । एवं सति “धूमो वन्हिव्याप्यः, आलोकवान् पर्वतः” इत्याकारकस- मूहालम्बने परामर्शलक्षण मस्तीत्यतिव्याप्तिः, तद्वारणाय पक्षनिष्ठ - विशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता तन्निरूपिता या व्याप्ति- निष्ठा प्रकारता तच्छालिज्ञानं परामर्श इति निष्कर्षः । एतादृश- परामर्शजन्यत्वे सति ज्ञानत्वमनुमितेर्लक्षणम् ।

[[1]]

दी० – परामर्श लक्षयति । व्याप्तीति । व्याप्तिविषयकं य- पक्षधर्मताज्ञानं स परामर्श इत्यर्थः । परामर्शमभिनीय दर्शयति । यथेति । अनुमितिमभिनीय दर्शयति । तज्जन्यमिति । परामर्श - जन्यमित्यर्थः ।

गं० - अनुमितिलक्षणघटकीभूतो यः परामर्शस्तल्लक्षणमाचष्ट । कथय- तीत्यर्थः । घटकत्वं च तद्विषयिताव्यापकविषयिताकत्वम् । मूले व्याप्ति- विशिष्टेति । व्याप्त्या विशिष्टः व्याप्तिविशिष्टः व्याप्तिमानित्यर्थः । ननु व्याप्तिविशिष्टश्चासौ पक्षधर्मश्चेति व्याप्तिविशिष्टपज्ञधर्मः, तस्य भावः व्याप्तिविशिष्टपक्षधर्मत्वम्, तस्या ज्ञानमिति व्युत्पत्या व्याप्तिविशिष्टत्वसमा नाधिकरणपक्षधर्मताविषयकनिश्चयत्वं लक्षणमिति लभ्यते । तच्च वन्हिव्याप्य- धूमवान् हृदः इति भ्रमात्मकपरामर्शेऽव्याप्तम् तत्र पक्षधर्मताविरहेण वि. शिष्टनिश्चयत्वाऽसत्वात् । एवं वव्हिव्याप्यहदुत्ववान् हद इति परामर्शे चाव्याप्तम्, तत्र पक्षधर्मतावि पयक निश्चयत्य सत्वेऽपि पक्षधर्मत्वे व्याप्ति- विशिष्टत्व सामानाधिकरण्याभावात् । यदि च व्याप्तिविशिष्टश्च पक्षधर्मश्चेति व्याप्तिविशिष्टपक्षधर्मौ तयोर्भावः व्याप्तिविशिष्टपचधर्मता तस्याः ज्ञान- मितिष्युत्पत्या व्याप्तिविशिष्टत्वपक्षधर्मत्वोभयविषयकं ज्ञानमित्यर्थः, तदोक्ता-

टोकाश्रयोपेतः

व्याप्तिवारणेऽपि यन्हिव्याप्यो धूमः लोकवान पर्वत इति ज्ञातेऽनि व्याप्तिरित्यत आह । व्याप्तिविशिष्टं चेनि । तया व विशिपम्य त्रिपयोऽर्थः । व्याप्तिप्रकारकमित्यर्थः । प्रकारासम्बन्धेन व्याप्तिविशिष्टमिनि यावत । अथवा व्याप्या विशिष्टः व्याप्तिविशिष्टः हेतुः, व्याप्तिविशिष्टत्य पक्षधर्मता इति व्याप्तिविशिष्ट पक्षधर्मता, तस्या ज्ञानमिति पतिः । षष्ठयर्थी पिकवम् तथा

व्याप्तिविशिष्टविषयकक्ष वर्तनाजान

मित्यर्थं इति ।

[[1]]

$

·

नव धर्मापस्य वृत्ति सार्थकत्वे व्याप्तिविशिष्टहेतु विशेष्यकपक्ष वृत्ति- कारकज्ञान परामर्श इत्यथों लभ्यते । वव्हिव्याप्यवमः पर्वते “वहि- व्याप्यधूमः पर्वनवृत्तिः”, इति ज्ञानस्यैव परामर्शवमायातम्, न तु वव्हि. व्याप्यमान पर्वत इति ज्ञानस्य, अन्य पर्वतवृत्तित्वप्रकारकत्वादित्यन आह । धर्मतापस्य सम्बन्धार्थकत्वादिति । तथा च साध्यव्याप्य हेतु-रक्षोभयसम्बन्धावगाहि ज्ञानं परामर्श इति मूलार्थः । एवं च वन्हि - व्याप्यधूमवान् पर्वत इति ज्ञानस्यापि लाभः । परामर्शलक्षणमस्तीति । तथा च तादशसमूहालम्बनज्ञानादनुमित्यापत्तिरिति भावः । तद्वारणा येति । श्रत्रेदं बाध्यम् । अन्तराभासमानविषयतयोः केपाञ्चिन्मते अभेदः, केषाञ्चिन्मते अवच्छेद्यावच्छेदकनाकः । यथा वन्हिव्याप्यधूमशान पत इति ज्ञानीयपर्वतनिष्ठविशेष्यतानिरूपितप्रकारता धूमेऽस्ति एवं वन्हिव्याप्ति- निष्टकारतानिरूपितविशेष्यताऽपि धूमेऽस्तीति तयोरभेदः इत्येकं मतम्, अवच्छेद्यावच्छेदकभावः इत्यपरम् । तथा च साध्यव्याप्तिनिष्ठप्रकारतानि - रूपित विशेष्यत्वावच्छिन्न “हेतुनिष्ठ प्रकारतानिरूपितपक्ष निष्टविशेष्यताशादि ज्ञानम्, साध्यव्याप्तिनिष्ठ प्रकारतानिरूपितविशेष्यभिन” हेतुनिष्ठ” प्रकार- तानिरूपितपक्षनिष्ठविशेष्यताशालि ज्ञानं वा परामर्शः । विशेष्यताप्रकार- तयोः परस्परं निरूपयनिरूपकभावे विनिगमकाभावादाह । पक्षनिष्ठेति । तथा च पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता तादशप्रकारत्वा- वच्छित “ताशप्रकारत्वाभिना वा " या विशेष्यता तनिरूपितव्याप्ति-तर्क - सङ्ग्रहः

[[१४८]]

निष्ठप्रकारताशालि ज्ञानमित्यर्थः । दीपिकायां । परामर्शमभिनीय दर्शय- तीति । परामर्शलक्षणमुक्त्वा स्वरूपं दर्शयतीत्यर्थः । श्रनुमितिमभिनीय दर्शयतीति । अनुमितिलक्षणमुक्त्वा स्वरूपं दर्शयतीत्यर्थः ।

न्या० - अनुमितिपरामर्शयो र्विशिष्य कार्यकारणभावश्चेत्थम् । पर्वतत्वावच्छिन्नोद्देश्यता निरूपित संयोग सम्बन्धावच्छिन्नवन्हित्वावच्छि- नविधेयताकानुमितिं प्रति वन्हिन्याप्तिप्रकारतानिरूपिता या धूमत्वा- वच्छिन्ना प्रकारता तन्निरूपिता या पर्वतत्वावच्छिन्ना विशेष्यता तच्छालिनिर्णयः कारणम् । स च निर्णयः वन्हिव्याप्यधूमवा- पर्वत इत्याकारको बोध्यः ।

गं० - धूमत्वावच्छिन्ना प्रकारतेति । धूमत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिका या प्रकारतेति यावत् । धूमत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वाभिन्न प्रकारतेति वार्थः । तेन प्रकारतायां प्रका- रतानिरूपितत्वविरहेऽपि न क्षतिः ।

अत्रेदं वक्तव्यम् । कार्यकारणभावो विषयनिष्ठप्रत्यासत्या भात्म- निष्ठप्रत्यासत्या च । आधो यथा विशेष्यतासम्बन्धेन तत्पुरुषीयतद्विधेयकानु- मिति प्रति विशेष्यतासम्बन्धेन तत्पुरुषीयत द्विधेयव्याप्य हेतु प्रकारकनिश्चयः कारणम् । विशेष्यस्य संसर्गतया भानेन विशेष्यस्य कार्यतावच्छेदककोटौ कारणतावच्छेदकोटौ वा न निवेशः । परन्तु तत्पुरुषीयत्वनिवेश आवश्यकः, अन्यथा चैत्रस्य परामर्शात् मैत्रस्याऽनुमित्यापत्तेरिति ध्येयम् ।

द्वितीयो यथा समवायेनानुमितिं प्रति समवायेन परामर्शः कारणम् । अयमेव सामान्यकार्यकारणभावः । परन्तु वन्हिव्याप्यधूमवान् पर्वतः इति परामर्शोत्तरं घटवद् भूतलमित्यनुमित्यापत्तिवारणाय विषयनिवेश आव-

कः । अयमेव विशिष्यकार्यकारणभावः । तत्प्रकारमाह । पर्वतत्वाव च्छिन्नोद्देश्यतेत्यादिना । उद्देश्यत्वं च स्वरूपसम्बन्धविशेषः । तच न विशेष्यतानियतम्, पर्वते वन्हिरित्यत्र पर्वतेऽपि सत्वात्, किन्तु उद्देश्य-

arerraria:

मात्रतीति । इदमुपलक्षणम् । वन्हिव्याप्यधमवान पर्वत इति परामर्शः- दतीतानागनानुमितिवारणाय तत्तदनुमिति पनि नपरामर्श-वेनारि कारणत्रं वाच्यम् । एवं पर्वनो वन्हिमानित्यनुमितिं प्रनि वन्हिव्याय धूमवान् पर्वतः वन्हिन्याच्या लोकवान पर्वतः वहिव्यान्येन्धनवान

,

पर्वत इति नाना परामर्शानां कारणतया परस्परजन्ये व्यभिचारभर गाय नतत्परामर्शाऽध्य रहिनोत्तरानुमितिं प्रति तत्तत्परामर्श-वेन कारणत्वम् । ना च स्वाध्यवहितोत्तरत्व स्वसामानाधिकरण्यो भयबन्धेन तत्तत्परामर्शविशि टानुमितिं प्रति तत्तत्परामर्शः कारणमित्यन्यत्र विस्तरः ।

[[4]]

दी० - ननु संशयोत्तर प्रत्यक्षेऽतिव्यातिः, स्थाणुपुरुपसंशयान न्तरं “पुरुपत्वव्याप्यकरादिमानयमिति” परामर्शे सति ‘पुरुष एवेति’ प्रत्यक्षजननात् । न च तत्राऽनुमितिरेवेति वाच्यम् । पुरुषं साक्षा- करोमीत्यनुव्यवसाय विरोधादिति चेन्न । पक्षता सहकृत परामर्शज. न्यत्वस्य विवक्षितत्वात् । सिपाधयिपाविरहविशिष्टसिद्धयभावः पक्षता । साध्यसिद्धिरनुमितिप्रतिबन्धिका । सिद्धिसत्वेऽपि अनुमि नुयाम् इतीच्छायामनुमितिदर्शनान्, सिषाधयिषा उत्तेजिका । तत- श्चोत्तेजका भावविशिष्टमण्यभावम्य दाहकारणत्ववत् सिषाधयिषात्रि- रहविशिष्टसिद्धयभावस्याऽप्यनुमितिकारणत्वम् ।

गं०- परामर्शजन्यं ज्ञानमिति यथाश्रतमाक्षिपति । नन्विति । संशयोत्तर प्रत्यक्षे इति । अयं स्थाणुर्वा पुरुषो वेति संशयोत्तरं “अयं पुरुष” इति प्रत्यक्षे इत्यर्थः । इदमुपलक्षणम् । अयं न पुरुष इति विपरीतनिश्चयोत्तर प्रत्यक्षेऽपि बोध्या । संशयसत्वे “विपरीतनिश्वयसत्ये चा” सत्यपि सन्निकर्षादौ व्याप्यदर्शनं विना प्रत्यक्ष निश्चयानुत्पत्या प्रत्यक्षं प्रत्यपि व्याप्यदर्शनस्य हेतुत्वेन प्रत्यक्षस्याऽपि परामर्शअन्यत्वावृतिव्याप्तिः । तत्रेति । प्रात्यक्षिक परामर्शोत्तरमित्यर्थः । श्रनुमितिरेवेति । अनुमिति-

तर्क - सङ्ग्रहः

પૂ

देवोत्पद्यते न प्रत्यक्षमित्यर्थः । तथाच संशयोत्तरप्रत्यक्षे अनुमितिसामग्र्या अपि सत्वेन अनुमितिरेवेति लक्ष्यतयाऽतिव्याप्तिरिष्यैवेति भावः । श्रनुव्य. वसायविरोधादिति । संशयोत्तर प्रत्यक्षस्याऽनुमितित्वोपगमे तदुत्तरं साक्षात्करोमीति प्रतीतिनं स्यात्, किन्तु अनुमिनोमीति स्यादिति भावः । इदमुपलक्षणम् । समानविषयकानुमिति प्रति प्रत्यक्ष सामप्रयाः प्रति- बन्धकत्वेन पुरुषत्वे चक्षुः संयुक्तसमवाय रूपलौकिकसन्निकर्षसत्वात् पुरुष. स्वस्य प्रत्यक्षमेव जायते इत्यपि बोध्यम् । पक्षतासहकृतेति । तथा च पक्षताजन्य वे सति परामर्शजन्यत्वमनुमितेर्लक्षणम्। तथा च तादृश- प्रत्यक्षस्य परामर्शजन्यत्वेऽपि पक्षताजन्यत्वाभावान्नातिव्याप्तिः । पुरुषत्व- स्यानुमिति में जायतामितीच्छासरखे तु अनुमितिरेव भवति । समानविषय- कानुमिति प्रति “अनुमित्साविरहविशिष्ट” प्रत्यक्षसामग्र्याः प्रतिबन्धकत्वा- दिति ध्येयम् । अनुमिति प्रति साध्यनिश्चयः प्रतिबन्धकः । सिद्धिसत्वेऽपि सिषाधयिपासत्वेऽपि अनुमित्युत्पादात् सिषाधयिषाविरहविशिष्टत्वं सि+ विशेषणम् । सिद्धिः साध्यनिश्चयः । उत्तेजिकेति । उत्तेजकत्वं च प्रति- बन्धकतावच्छेदकीभूताभावप्रतियोगित्वम् । प्रतिबन्धकत्वं च कारणीभूता- भावप्रतियोगित्वम् । एतत्तत्वमग्रे वक्ष्यते ।

यत्र यत्र धूमस्तत्र तत्राऽग्निरिति साहचर्यनिय- मो व्याप्तिः ।

न्या० - यत्र यत्रेति । यत्रपदवीप्सावशाद् धूमाधिकरणे यावति वन्हित्वलाभात् । यावत्पदमहिम्ना धूमव्यापकत्वं वन्हौ लब्धम् । तदेव स्पष्टयति साहचर्यनियम इति । एतदर्थस्तु नियतसाहचर्य व्याप्तिरिति । नियतत्वं व्यापकत्वम् । साहचये नाम सामानाधिकर- रायम् । तथा च धूमव्यापक वन्हिसामानाधिकरण्यं व्याप्तिरित्यर्थः ।

धूमव्यापकत्वं नाम धूमसमानाधिकरणाऽत्यन्ताभावप्रतियोगि-

We

तावच्छेदकधर्मत्वम् । तादृशधर्मो वन्हौ वन्हित्वम् । तथाहि । धूमाधिकरणे पर्वतमहानसचवरादौ वर्त्तमानोऽभावः त्वावच्छिन्न- प्रतियोगिताकाभावो न तु वन्हित्वावच्छिन्न प्रतियोगिताकोऽभावः, कुतः, पर्वतादौ वन्हेः सवान् एवं सति धूमाधिकरण पर्वतादी वर्त्तमानस्य घटाभावस्य प्रतियोगितावच्छेदकं घटत्वम्, पटाभावस्य प्रतियोगितावच्छेदकं पटत्वम्, अनवच्छेदकं वन्हित्वम्, तादृशं वन्हित्वं वन्हौ वर्त्तते, तो धूमव्यापकत्वं वन्हौ वर्त्तते तथा च धूमव्यापक वन्हिसामानाधिकरण्यं व्यातिरिति फलितमिति । इयम- न्वयव्यामि ः सिद्धान्तानुसारेण ।

दीः - व्याप्तेर्लक्षणमाह । यत्रेति । यत्रधूमस्तत्राग्निरिति व्या• प्रेरभिनयः । साहचर्यनियम इति लक्षणम् । साहचर्य सामानाधिक- रण्यम् । तस्य नियमः, हेतुसमानाधिकर णात्यन्ताभावाऽप्रतियोगि साध्य सामानाधिकरण्यं व्याप्तिरित्यर्थः ।

गं० - सहचरत इति सहचगै समानाधिकरणौ, एकाधिकरणवृत्ती, तयोर्भावः साहचर्यं सामानाधिकरण्यम्, एकाधिकरणवृत्तित्वमिति यावत् । यत्र यत्र धूमस्तत्र तत्राग्निरिति । यत्र यत्र हेतुस्तत्र तत्र साध्य- मित्यर्थः व्याप्तेरभिनय इति । व्याप्तेः स्वरूपमित्यर्थः । व्याप्तिलक्षणस्य सद्धेतुमात्रं लक्ष्यम् । व्याप्तिपक्षधर्मताविशिष्टो हेतुः सद्धेतुः । व्यासिलक्षण- स्याऽसद्धेतुमात्रं अलक्ष्यम् । असद्धेतुश्च व्याप्तिपक्षधर्मत्वाभाववान् हेतुः । तेन धूमवान् वन्हेरित्यत्र वन्हौ पक्षधर्मतासत्वेऽपि व्याप्त्यभावान्न सद्धेतुत्वम्, ह्रदो वन्हिमान् धूमादित्यत्र धूमे व्याप्तिसत्वेऽपि पक्षधर्मताविरहान सद्धेतु- त्वम् । व्याप्तिलक्षणमाह । दीपिकायां । हेतुसमानाधिकर णेत्यादि । हेत्वधिकरणवृत्तीत्यर्थः । इदं चात्यन्ताभाव विशेषणम् । तथा च वन्हिमान् धूमादित्यत्र हेतुर्धूमः हेत्वधिकरणं पर्वतादिः तत्र वर्त्तते योऽत्यन्ताऽभावः-

तर्क-सङ्ग्रहः

પૂર

" धूमाधिकरणे वन्हिर्नास्तीति प्रतीतिसाक्षिको भावो गृहीतुं नैव शक्यते” किन्तु तदन्यो घटो नास्तीतिप्रतीतिसाक्षिकोऽभावः तादृशाभावस्य प्रति- योगी घटः अप्रतियोगी साध्यो वन्हिस्तत्सामानाधिकरण्यं धूमे इति लक्षण-

समन्वयः ।

धूमवान् वन्हेरित्यादौ तु हेतुर्वन्हिः हेत्वधिकरणमयो गोलकम्, तत्र वर्त्तमानो योऽत्यन्ताभावः धूमोनास्तीति प्रतीतिविषयीभूतोऽभावोऽपि गृहीतुं शक्यते ताशाभावस्य प्रतियोगी एव धूम इति नातिव्याप्तिः ।

न च वन्हिमान् धूमादित्यत्र हेतुर्धूमः हेत्यधिकरणं पर्वतः तत्र वर्त- मानो योऽत्यन्ताभावः महानसीयन्ह्यभावः वन्हिवटोभयाभावश्च तादृशा- भावस्य प्रतियोगी एव वन्हिरित्यव्याप्तिरिति वाच्यम् । हेत्वधिकरणवृत्यत्य- न्ताभावप्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकं तदवच्छिन्नसाध्य सामाना- धिकरण्यस्य व्याप्तिपदार्थत्वात् । समन्वयप्रकारो न्यायवोधिन्याम् ।

इदमत्रावधातव्यम् । पक्षे यो धर्मंस्तिष्ठति स धर्मः पक्षतावच्छेदको धर्मः । यथा पर्वतो वन्हिमानित्यत्र पर्वतत्वम् । एवं साध्ये यो धर्मस्तिष्ठति स धर्मः साध्यतावच्छेदको धर्मः । यथा तत्रैव वन्हित्वम् । येन सम्बन्धेन साध्यं पक्षे तिष्ठति स सम्बन्धः साध्यतावच्छेदकसम्बन्धः यथा तत्रैव संयोगः । eat यो धर्मस्तिष्ठति स धर्मः हेतुतावच्छेदको धर्मः । यथा तत्रैव धूमत्वम् । येन सम्बन्धेन हेतुः पक्षे तिष्ठति स सम्बन्धः हेतुतावच्छेदकसम्बन्धः इति । यथा तत्रैव संयोगः ।

स्या०–

  • पूर्वपक्षव्याप्तिस्तु साध्याभाववदवृत्तित्वम् । साध्यता- बच्छेदक सम्बन्धावच्छिन्न साध्यतावच्छेदकावच्छिन्न प्रतियोगिताका भा ववन्निरूपित हेतुतावच्छेदकसम्बन्धावच्छिन्न वृत्तितात्वावच्छिन्नप्रतियो- गिताकाभावो व्याप्तिः । तच केवलान्वयिनि श्रव्याप्तमिति ।

गं० - साध्याभाववदवृत्तित्वमिति । साध्यस्याभावः साध्या- भावः स यत्रास्तीति साध्याभाववान्, साध्याभाववतो न वृत्तिर्यस्येति

[[१५३]]

टीकात्रयोपेतः

साध्याभाववृत्ती तस्य भावः साध्याभाववदवृत्तित्वम् । तथा च साध्या- भावाधिकरणनिरूपितवृत्तित्वाभावो व्याप्तिरिति फलितम् । वन्दिमान् धूमादित्यत्र साध्यो बन्हिः साध्याभावो वन्द्यभावः तदधिकरणं हृदादिः । तन्निरूपितवृत्तिता मीन- शैवालादौ वृत्तित्वाभावो धूमेऽस्तीति लक्षणसम- स्वयः । धूमवान् वहेरित्यत्र साध्यो धूमः । साध्याभावो धूमाभात्रः तदधिकरणमयो गोलकं तन्निरूपितवृत्तिता एवं वन्हाँ अस्ति वृत्तित्वाभावो नास्तीति नातिव्याप्तिः ।

ननु साध्याभावाधिकरणनिरूपितवृत्तित्वाभाव इत्यत्र वृत्तित्वाभाव इत्यस्य यदि वृत्तित्व नियोगिकाभावोर्थः, तदा धूमवान् वन्हेरित्यादावति- व्याप्ति, धूमाभावाधिकरणायोगोलकनिरूपितवृत्तित्वस्य वन्हौ सत्वेऽपि नादृशवृत्तित्वजलत्वोभयाभावसत्वात्, “एकसत्वेऽपि हयं नास्तीति प्रतीतेः " तादृशोमयाभावस्यापि वृत्तित्वप्रतियोगिकत्वात् । एवं धूमाभावाधिकरण- हूदनिरूपितवृत्तित्वाभावमादायाऽपीत्यत आह । वृत्तितात्वावच्छिन्न- प्रतियोगिताकाभाव इति । वृत्तितात्वेतरधर्मानवच्छिन्नवृनितात्वावच्छिन्न- प्रतियोगिताका भाव इत्यर्थः । एवं च तादृशवृत्तित्वजलत्वो भयाभाश्मादाय नातिभ्याप्तिः । तादृशोभयाभावस्य प्रतियोगि वृत्तित्वं जष्टत्वं च । प्रतियो. गितावच्छेदकं वृत्तितात्वं जलत्वत्वं उभयत्वं च । प्रतियोगिता “वृत्तित्वनिष्ठा” त्रितयधर्मावच्छिना, तथा च प्रतियोगिताया वृत्तितास्वेतरेण जलवत्वादिना- sवच्छिन्नतया वृत्तितात्वेतरधर्मानवच्छिन्नत्वविरहात् । एवं हृदनिरूपितवृत्ति- स्वाभावस्यापि वारणम् । तादृशाभावीयप्रतियोगिताया वृत्तितात्वेतरेण इदे- नावच्छिन्नत्वात् । इदस्याऽपि निरूपितत्व सम्बन्धेन “वृत्तित्वरूप " प्रतियोगि- विशेषणतया प्रतियोगितावच्छेदकत्वादिति ।

वन्दिमान् धूमादित्यत्र वन्द्यभावाधिकरणहृदनिरूपितकालिकसम्बन्धा- वच्छिन्नवृत्तिताया एव धूमे सत्वेन वृत्तित्वाभावविरहादध्याप्तिः । एवं वन्द्यभावाधिकरणं यथा हृदः तथा धूमावयवोऽपि तन्निरूपितसमवाय- सम्बन्धावच्छिन्नवृत्तितायाश्च धूमे सत्वात् अतो वृत्तितायां हेतुतावच्छेदक.

तर्क -सङ्ग्रहः

सम्बन्धावच्छिन्नत्वं निवेशितम् । एवं च हृदनिरूपित संयोगसम्बन्धाव च्छिन्नवृत्तितायाः, धूमावयवनिरूपित संयोगसम्बन्धावच्छिन्नवृत्तितायाश्च धूमे विरहान्नाव्याप्तिः ।

साध्याभावोऽपि यदि साध्यनिष्टप्रतियोगिताको भावस्तदा वन्हिमान् धूमादित्यादौ महानसीयवन्ह्य मात्रं वन्हिघटोभयाभावं चादाय एवं सम- वायेन वन्ह्यभावं चाऽदायाऽव्याप्तिरतः प्रतियोगितायां साध्यतावच्छेद- कावच्छिन्नत्वं साध्यतावच्छेदक सम्बन्धावच्छिनत्वं च निवेशित- मित्यन्यत्र विस्तरः । केवलान्वयिनि । इदं वाच्यं ज्ञेयत्वादित्यत्र । श्रव्याप्तमिति । साध्यामाचप्रसिद्धयेति शेषः । इदमुपलक्षणम् । वन्हिमान् धूमादित्यत्र वन्ह्यभावाधिकरणहदनिरूपितकालिकसं बन्धावच्छि वृत्तितायाः धूमे सत्वादव्याप्तिवारणाय वृत्तितायां हेतुतावच्छेदकसम्बन्धा- वच्छिनत्वनिवेश स्यावश्यकतया सत्तावान् द्रव्यत्वादित्यत्र सत्ताभावाधिकर णसामान्यादिनिरूपितसमवाय संवन्धावच्छिन्नवृत्सित्वाऽप्रसिद्धयाऽयातिश्चेति ध्येयम् ।

यस्य पर्वतादिवृतित्वं पचधर्मता ।

दी० - पक्षधर्मतास्वरूपमाह । व्याप्यस्येति ।

गं०- मूले व्याप्यस्येति । व्याप्तिविशिष्टत्य “व्याप्त्याश्रयस्य " धूमादिरूप हेतोरित्यर्थः । पर्वतादिवृत्तित्वं पक्षसम्बन्धः स एव पक्षधर्मतेत्यु- च्यते इत्यर्थः । तथा च पक्षो हेतुमानिति ज्ञानं पक्षधर्मता ज्ञानम् । यथा पर्वतो धूमवानिति ज्ञानं । साध्यव्याप्यो हेतुरिति व्याप्तिज्ञानम्, यथा वन्हि - व्याप्यो धूम इति ज्ञानम् । साध्यव्याप्यहेतुमान् पक्ष इति ज्ञानं परा मर्शः, यथा वन्हिव्याप्यधूमवानयं पर्वत इति ज्ञानम् । पक्षः साध्यवानि- त्यनुमितिः। यथा पर्वतो वन्हिमानिति ।

सन्दिग्धसाध्यवान् पक्षो भवति । मतुवन्तं साध्यं भवति । पञ्चम्यन्तो हेतुर्भवति । निश्चितसाध्यवान् सपक्षो भवति । निश्चितसाध्याभाववान् विपक्ष इति ।

अनुमानं द्विविधम् स्वार्थ परार्थ च । तत्र स्वार्थ स्वानुमितिहेतुः । तथाहि स्वयमेव भूयोदर्शनेन यत्र घूमस्तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चानौ सन्दिहानः पर्वते धूर्म पश्यन् व्याप्तिं स्मरति ‘यत्र धूमस्तत्राग्निरिति तद्- नन्तरं ‘वन्हिव्याप्यधूमवानयं पर्वतः’ इति ज्ञानमु- स्पद्यते । यमेव लिङ्गपरामर्शः उच्यते । तस्मात् ‘पर्वतो वन्हिमान्’ इति ज्ञानमनुमितिरुपद्यते । तदेतत् स्वार्थानुमानम् ।

[[1]]

न्या० - अनुमानं विभजते- स्वार्थमिति । स्वार्थानुमानं नाम न्यायाप्रयोज्यानुमानम् ।

दी० - अनुमानं विभजते- अनुमानमिति । तद् द्वैविध्यं दर्श- यति - स्वार्थमित्यादिना – तत्रेति । उभयोर्मध्ये इत्यर्थः । स्वार्थानु- मितिं दर्शयति । स्वयमेवेति । भूयो दर्शनेनेति ।

[[1]]

गं० - अनुमानं विभजते इति । अत्र विपूर्वक भजधातोः अनन्तरविरुद्ध- धर्मप्रकारकज्ञानानुकूलव्यापारोऽर्थः आख्यातार्थः कृतिः । अनुमान मित्यत्र द्विती

। यार्थी विशेष्यत्वम् । तस्य घाल थैङ्कदेशे ज्ञानेऽन्वयः । एवं च अनुमान विशेष्यक- अनुमानत्वावान्तर विरुद्ध धर्मप्रकारक ज्ञानानुकूलव्यापारानुकूलकृतिमान्मूलकार इति बोधः । मूळे स्वार्थे परार्थं चेति । तथाच अनुमितिस्तावद् द्विविधा स्वार्थानुमितिः परार्थानुमितिश्च तत्र स्वार्थानुमितिकरणं स्वार्थानुमानम् परार्थानुमितिकरणं परार्थानुमानम् । तदेवाह स्वानुमितीति । स्वार्थानु- मितिरित्यर्थः । स्वस्य अर्थः प्रयोजनं “साध्यसंशयनिवृत्तिरूपं” यतः सा

नर्क-सङ्ग्रहः

પદ્

इति व्युपस्या स्त्रीयसंशयनिवृत्तिफलिकाऽनुमितिः स्वार्थाऽनुमितिरिति यावत् । सहचारज्ञानप्रयोऽयं यदनुमितिकरणं तदेव स्वार्थानुमानम् । पञ्चा- वायववाक्याप्रयोज्यव्याप्तिज्ञानं स्वार्थानुमानमिति न्यायबोधिनी कृतः । मूले स्वयमेवेति । अनुमित्सावान् कश्चित्पुरुष एवेत्यर्थः । अस्य पर्वतसमीपं बात इत्युत्तरेणाऽन्वयः । भूयोदर्शनेनेति । यावत्सु धूमाधिकरणेषु वन्हि. दर्शनेनेत्यर्थः । भूयोदर्शनेन “पर्वते धूमोऽस्तु वन्हिर्मास्तु” इति व्यभिचार- शङ्कानिरासः । यत्र धूमस्तत्राग्निरिति । वन्हिव्याप्यो धूम इत्याकारिकामि- त्यर्थः । महानलादौ व्याप्तिं गृहीत्वेति । महान सादिरूपाधिकरणविशेषे क्याप्सित्यक्षोत्तरमित्यर्थः । पर्वतसमीपं गत इति । प्राप्तवानित्यर्थः । तद्गते । पर्वतगते, पर्वतवृत्तिनि इति यावत् । सन्दिहानः इति । पर्वत- वृत्तिवन्हिविषयक सन्देहवानित्यर्थः । पर्वते धूमं पश्यन्निति । पर्वतविशे

धूम प्रकारकचाक्षुपवानित्यर्थः । पर्वतो धूमवानित्याकारकज्ञानवानिति न्यावत् । इदमेव पक्षधर्मताज्ञानम् । तादृशप्रत्यक्षाऽव्यवहितोत्तरक्षणे व्या- स्मरतीति । वन्हिव्याप्यो धूम इत्याकारकव्याप्तिविषयक स्मृतिमान् भवतीत्यर्थः । तदनन्तरं व्याप्तिस्मरणानन्तरम् । श्रयमेवेति । लिङ्गपरा- ममपेक्ष्य पुलिङ्गनिर्देशः । तस्मादिति । वन्हिव्याप्यधूमवानयं पर्वत इत्याहारकङ्गिपरामर्शादित्यर्थः । तदेतदिति । तादृशलिङ्ग परामर्श इत्यर्थः । स्वार्थानुमानमपेक्ष्य नपुंसकलिङ्गनिर्देशः ।

दी० — ननु पार्थिवत्व लोह लेख्यत्वादौ शतशः सहचारदर्शनेऽवि मण्यादौ व्यभिचारोपलब्धेर्भूयोदर्शनेन कथं व्याप्तिग्रह इति चेत्, न । व्यभिचारज्ञानविरहसहकृत सहचारज्ञानस्य व्याप्तिप्राहकत्वात् । व्यभिचारज्ञानं द्विविधम् । निश्चयः शङ्का च । तद्विरहः कचित्तत् । कचित् स्वतः सिद्ध एव । घूमाऽग्न्योर्व्याप्तिग्रहे कार्यकारणभाव- भङ्गप्रसङ्गलक्षणस्तक व्यभिचारशङ्कानिवर्त्तकः ।

पं० - स्वयमेव भूयोदर्शनेनेति यथाश्रुतमूलात् भूयोदर्शनमात्रस्य

[[૫૭]]

टीकात्रयोपेतः

व्याप्तिग्रहे कारणत्वमित्याशयेनाऽशङ्कते नन्विति । लोहलेख्यं पृथिवीत्वा- ferra यत्र यत्र पृथिवीत्वं तत्र तत्र लोहलेख्यत्वमिति शतशः सहचार- दर्शनेऽपि हीरक मण्यन्तर्भावेन व्यभिचारनिश्चयरूपप्रतिबन्धकसद्भावाद् व्याप्तिनिश्चयो न सम्भवतीति । कथं व्याप्तिग्रह इति । व्याप्तिज्ञानं न भूयो दर्शन जन्यमित्यर्थः । लोहलेख्यत्वादौ इत्यत्रादि पदात् धूमवान् वम्हे- रियत्र वह्निधूमयोः परिग्रहः । तयोः शतशः सहचारदर्शनेऽपि अयोगोल- कान्तर्भावेण व्यभिचारनिश्चयाद् व्याप्तिग्रहानुत्पत्तेः भूयोदर्शनस्य न व्याप्ति- ग्रहेतुत्वसम्भव इति भावः । व्यभिचारज्ञानविरहसहकृतेति । तथा च व्यभिचारज्ञानाऽभावः सहचारनिश्चयश्चैतद्द्द्वयं व्याप्तिग्रहे कारणम्, न केवलं सहचारग्रह इति भावः । सहचार, सामानाधिकरण्यम्, तद्ज्ञानं विशेषणज्ञानविधया व्याप्तिग्रहे कारणम् । व्याप्तिज्ञाने व्यभिचारज्ञानस्य प्रतिबन्धकतया प्रतिबन्धकाभावविधया व्यभिचारज्ञानाभावः कारणम् । संशयनिश्चय साधारणव्यभिचारज्ञानत्वेन प्रतिबन्धकतेत्याह । निश्चयः शङ्काचेति । तद्विरहः । व्यभिचारशङ्काविरहः । व्यभिचारज्ञानोत्पादक- सामग्रीसमवधानकाले आह । तर्कादिति । तर्कप्रयोज्य इत्यर्थः । पर्वते धूमः अस्तु वहिर्मास्तु इति व्यभिचारशङ्का यदि भवेत्तदा तदेव निवर्त नीया, धूमो यदि वन्हिन्यभिचारी स्यात्तदा वन्हिजन्यो न स्यादित्याकारक- तर्कः मणिमन्त्रादिन्यायेन व्यभिचारसंशयप्रतिबन्धक इति भावः । क्वचिदिति । व्यभिचार ज्ञानोत्पादक सामग्रीविरहस्थले स्वतसिद्ध एवेति । प्रतिबन्धकीभूतव्यभिचारज्ञानोत्पादकसामग्रीविरहप्रयोज्य एवेत्यर्थः । धूमा- ऽग्न्योर्व्याप्तिग्रहे इति । वन्हिव्याप्यो धूम इत्याकारकट यातिग्र हे इत्यर्थः । कार्यकारणभावभङ्गप्रसङ्गल क्षणस्तर्कः । प्रसङ्गः प्रसक्तिः सम्पादन- यावत् । कार्यकारणभावभङ्गसम्पादनमेव लक्षणं प्रयोजनं यस्य स इत्यर्थः । स च उक्त एव । व्यभिचार शङ्कानिवर्त्तकः । व्याप्तिग्रहप्रति- वन्धकीभूतव्यभिचारशङ्काप्रतिबन्धक इत्यर्थः ।

मिति

टि०-१ हीरकादिमणेः पृथिवीत्वाभिप्रायेण ।वर्क-सङ्ग्रहः

दी० - ननु सकलवन्दिधूमयोरसन्निकर्षात् कथं व्याप्तिग्रह इति चेन्न । वन्हित्वधूमत्वरूपसामान्य प्रत्यासत्या सकलवन्हिधूमज्ञान सं भवात् । तस्मादिति । लिङ्गपरामर्शादित्यर्थः ।

E

गं० - ननु महानसे वन्हिधूमयोर्व्याप्तिग्रह काले धूमसामान्ये व्याप्ति- निश्चये सत्येव पर्वते धूमदर्शनोत्तरं वन्हिग्याप्यो धूम इति स्मरणात् वन्हि व्याप्यधूमवान् पर्वत इति परामर्शः सम्भवति, महानसे व्याप्तिप्रत्यक्षदशायां लौकिकसन्निकर्षाभावाद् धूमान्तरस्य " प्रत्यक्षाsसम्भवेन धूमसामान्ये व्याप्ति- निश्चयो न सम्भवति । पर्वतीयधूमे च व्याप्तेरननुभूततया कथं व्याप्तिस्मर- णम्, कथं वा परामर्श इत्याशङ्कते नन्वित्यादिना । सकलवन्हिधूमयो- रिति । सकलवन्हेः सकलधूमस्य चेत्यर्थः श्रसन्निकर्षात् । चक्षुःसंयोगा- भावात् । कथं व्याप्तिग्रह इति । वन्हिव्याप्यो धूम इत्याकारक व्याप्तिग्रहः कथमुत्पद्यते इत्यर्थः । इदमुपलक्षणम् । महानसीयधूमे वन्हिन्याते- निश्चितत्वात् अन्य धूमस्य चानुपस्थितत्वात् धूमो वन्हिव्याप्यो नवेति संशयोप्यनुपपत्र इत्यपि बोध्यम् । लौकिकसन्निकर्षाभावेऽपि सामान्यलक्षणा- प्रत्यासत्तिरूपाऽलौकिकसन्निकर्षबलेन वन्हित्वेन निखिलवन्हीनां धूमत्वेन निखिलधूमानां वन्हिसामानाधिकरण्यत्वेन निखिलसमानाधिकरण्यस्य च प्रत्यक्ष सम्भवात् पर्वतीयधूमेऽपि व्याप्तेगृहोतत्वेन धूमदर्शनेन व्याप्तिस्मरण- सम्भत्राचानुपपत्तिः परामर्शस्येति समाधते । वन्हित्वधूमत्वेति ।

यत्तु स्वयं धूमाग्निमनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुज्यते तत्परार्थानुमानम् । यथा ‘पर्वतो वन्हिमान् धूनवत्वात् । यो यो धूमवान् स सोऽग्निमान्। यथा महानसम् । तथा चाऽयम् । तस्मात्तथा । अनेन प्रतिपादिताल्लिङ्गात् । परोऽप्यग्निं प्रतिपद्यते ।

We

टीकात्रयोपेतः

न्या०—–न्यायप्रयोज्यानुमानं परार्थानुमानम् । न्यायत्वं च प्रतिज्ञादिपञ्चकसमुदायत्वम्’ ।

दा०- परार्थानुमानमाह यत्विति । यच्छन्दस्य ‘तन् परार्था- नुमानम्’ इति तच्छन्देनान्वयः । पञ्चावयववाक्यमुदाहरति- यथेति ।

गं०- परार्थानुमानमाहेति । परस्य प्रतिवादिनः अर्थः प्रयोजनं ‘साध्यसंशय निवृत्तिरूपं साध्यानुमितिरूपं वा यस्मात्, तत्, परार्थम् । reat परप संशभिन्नार्थकं तथा च परः “संशय भिन्नः " अर्थः प्रयोजनं यस्मादिति विग्रहः परार्थं च तदनुमानं चेति परार्थानुमानम् तथा च परार्था- नुमानविषयकज्ञानानुकूहव्यापारानुकूलकृतिमान् मूलकार इति बोधः । मूले यत्त्विति । पञ्चावयववाक्यमित्यनेनाऽन्वयः । तत् पञ्चावयववाक्यम्, परार्थानुमानमित्यर्थः । ननु परार्थाऽनुमितिकरणं परार्थानुमानम् । तच लिङ्गपरामर्श एव । " तस्मा लिङ्ग पर (मर्शो ऽनुमानम्” इति । स्वयमेव वक्ष्यति एवं च पञ्चावयव वाक्यस्यानुमानत्वकथनमसङ्गतमिति चेन्न । परार्थानुमानमित्यत्र न कर्मधारयः किन्तु परार्थमनुमानं यस्मादिति बहुव्रीहिः । एवं च परार्थानुमानमित्यस्य परार्थानुमान जनक मित्यर्थः । अथवा यदिति लुचतुर्थी कमव्ययम्, यदर्थमित्यर्थः । यत्यदार्थः परामर्शः यदर्थ पञ्चावय- ववाक्यं प्रयुक्ते तत्परार्थानुमानमित्यर्थः वस्तुतः तदिति लुप्तपञ्चमीकमव्ययम् । प्रयोज्यत्वं पञ्चम्यर्थः पञ्चावयववाक्यप्रयोज्यमित्यर्थः तदेवाऽह न्यायबोधिन्यां । न्यायप्रयोज्यानुमानमिति । प्रतिज्ञादिपञ्चवाक्यैः तत्तद्वाक्यार्थविषयकं ज्ञानं जन्यते तेन च धूमविशेष्यकव्यातिप्रकारकं ज्ञानं जन्यते तेन व परामर्श उत्पाद्यते इति न्यायस्य “प्रतिज्ञादिपं चवाक्यात्मक समुदायस्य” परामर्शप्रयो- कता । प्रतिज्ञा दिपञ्चकसमुदायत्वमिति । उचितानुपूर्वीकप्रतिज्ञादिपञ्चक- टि० D - पञ्चावयववाचामित्यनेन पञ्च अवयवाः यस्य वाक्यस्य तदिति व्युतदा एतादृशार्थलाभः ।

तर्क-सङ्ग्रहः

[[१६०]]

समुदायत्वमिति यावत् । उचितानुपूर्वी च प्रतिज्ञोत रहेतूस रोपनयो त्तरनिगमनस्वरूपा । एवं च यादृश्यादृशानुपूर्व्यवच्छिन्ने न्यायव्यवहारः । तादृशतादृशानुपूमत्वं न्यायत्वमिति तत्वम् ।

मूलार्थस्तु स्वयमेव । अनुमितिमानेव । धूमादग्निमनुमाय । धूमलिङ्गक बन्ह्यनुमियुत्तरमित्यर्थः । परं प्रतिपत्यर्थमिति । परं पुरुषा- न्तरं । प्रतिपत्यर्थं । ज्ञानायेति यावत् । एवं वाऽनुमितिमता पुरुषेण “पुरुषान्तरस्याऽप्यनुमितिर्भवतु इतीच्छया” प्रयुक्तं यत्पञ्चावयववाक्यं तप्रयोज्यानुमानं परार्थानुमानमित्यर्थः । प्रतिज्ञादिस्वरूपमाह पर्वतो वन्हिमानिति । अत्र वन्हिमदभिन्नः पर्वत इति बोधः । धूमादिति । अत्र धूमपदस्य धूमज्ञाने लक्षणा । पञ्चम्याः ज्ञाप्यस्वे । धूमज्ञानजन्यज्ञानविषय- त्वमिति बोधः । यो य इति । अत्र द्विरुक्तयच्छन्दस मग्भियाहृतवन्हिप दस्य धूमव्यापकन्हौ लक्षणा । द्विरुकयत्पदं महासत्व- महानसान्यत्वादिरूपेण सकल हे व धिकरणोपस्थापकम् । तत्पदमपि तादृशत्वधिकरणोपस्थापकम् । एवं च महानसं धूमवद् धूमव्यापकवन्हिमश्च । महानसान्यं धूमवद् धूम व्यापक वन्हिमश्चेति बोधः । एवं च धूमवति धूमव्यापक वन्हिमाने धूमव्या- पकवन्हिसमानाधिकरणो धूम इति पर्यवसितो बोधः । तथा चाऽयमिति । तथा वन्हियाप्य धूमवान् । श्रयं च । पर्वतश्च । तथा च वन्हिव्याप्य- धूमवदभिन्नः पर्वत इति बोधः । तस्मात्तथेति । तस्मात् । वन्हिव्याप्य- धूमात् । तथा। वन्हिमान् । उपनयस्थाऽयमित्यनुषञ्जनीयम् । एवं च वन्हिष्याप्यधूमज्ञानज्ञाप्यवन्हिमदभिन्नः पर्वत इति बोधः । परार्था - नुमानमुपसंहरति । अनेनेति । पञ्चावयववाक्येन । प्रतिपादितात् । प्रतिपत्तिविषयात् । न्यायप्रयोज्यादिति यावत् । लिङ्गादिति । लिङ्ग- परामर्शादित्यर्थः । परोऽपि । स्वसमीपतिपुरुषोऽपि । श्रग्नि प्रति- पद्यते इति । द्वितीयार्थी विषयित्वम् । धात्वर्थश्च ज्ञानं तच्चाऽनुमिति- रूपम् । आख्यातार्थ आश्रयत्वम् । तथा च वन्हिविधेयकानुमितिमान् परोऽपि भवतीत्यर्थः ।

[[१६१]]

टीकात्रयोपेतः

प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वन्हिमानिनि प्रतिज्ञा । धूमवत्वादिति हेतुः । यो यो धूमवान् स स वन्हिमान् यथा महान समि- स्युदाहरणम् । तथा चाऽयमित्युपनयः । तस्मात्तथेति निगमनम् ।

दी० 2 - अवयव स्वरूपमाह । प्रतिज्ञेति । उदाहृतवाक्येषु प्रति- ज्ञादिविभागमाह । पर्वतो वन्हिनानिति । साध्यवत्तया पक्षवचनं प्रतिज्ञा । पञ्चम्यन्तं लिङ्गनतिपादकं वचनं हेतुः । व्यातिनतिनादक वचनमुदाहरणम् । व्याप्तिविशिष्टलिङ्गप्रतिपादकं वचनमुनयः । हेतुसाध्यवत्तया " पक्षप्रतिपादकं” वचनं निगमनम् । पक्षज्ञानं प्रति- ज्ञाप्रयोजनम् । लिङ्गज्ञानं हेतुप्रयोजनम् । व्याप्तिज्ञानमुदाहरण- प्रयोजनम् । पक्षधर्मज्ञानमुपनयप्रयोजनम् । अत्राधितत्वादिकं नि- गमनप्रयोजनम् ।

गं० - श्रवयव स्वरूपमाहेति । अवयवानाहेति यावत् । अवयव- विषयक ज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । अवयवत्वं च न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतमत्वम् । मूळे प्रतिज्ञादिलक्षणस्याऽ नुक्तत्वात्स्वयं तलक्षणान्याह । साध्यवत्तयेति । साध्यवतावेति शेषः । अन्यथा पर्वतोवन्हिमानिति प्रतिज्ञायामव्याप्यापत्तेः । साध्यप्रकारकं साध्यवत्वप्रकारकं वेत्यर्थः । तथा च पक्षतावच्छेदकावच्छिन्नविशेष्यतानिरू- पितसाध्यतावच्छेदकसम्बन्धावच्छिन्न साध्यतावच्छेदकावच्छिन्नप्रकारताशालिको- धजनकवाक्यं प्रतिज्ञेति पर्यवसितम् । पञ्चम्यन्तेति । पञ्चस्यन्तत्वे सति लिङ्गप्रतिपादकत्वं हेतुत्वमित्यर्थः । लाक्षणिकपञ्चम्यन्तपदत्वमिति यावत् । व्याप्तिप्रतिपादकमिति । व्याप्यवद्विशेष्यकव्यापकत्यकार का भेदसंसर्गक

[[११]]

तर्क- सङ्ग्रहः

[[1]]

[[१६३]]

वोधजनकवाक्यत्वमित्यर्थः । व्याप्तिविशिष्टेति । पक्षतावच्छेदकावच्छिन्नवि- शेष्यतानिरूपितसाध्यव्याप्यहेतुप्रकारताशालिबोधजनकवाक्यमित्यर्थः । हेतुः साध्यवचयेति । तथा च व्याप्तिपक्षधर्मताविशिष्टहेतुविशिष्ट हेतुत्वान्वित साध्यस्य पक्षे वैशिष्ट्यावगाहिबोधजनको न्यायावयवो निगमनमित्यर्थः । पक्षधर्मज्ञानमिति । पक्षवृत्तित्वज्ञानार्थमित्यर्थः । श्रवाधितत्वादिक- मिति । आदिना असत्प्रतिपक्षितत्वपरिग्रहः । अवाधितत्वपदस्य अवधि- तत्वप्रतिपत्तौ लक्षणा । अवधितत्वादेनिङ्गमनप्रयोज्यत्वाभावादिति ध्येयम् ।

स्वार्थानुमिति परार्थाऽनुमित्योर्लिङ्गपरामर्श एव करणम् । तस्माल्लिङ्गपरामर्शोऽनुमानम् ।

दी० - अनुमितिकरणमाह स्वार्थेति ।

[[1]]

गं०-अनुमितिकरणमाहेति । अनुमितिकरणस्वरूपमाहेत्यर्थः । मूले । स्वार्थेति । स्वार्थानुमितौ परार्थाऽनुमितौ चेत्यर्थः । लिङ्गपरामर्शएवेति । लिङ्ग विशेष्यकव्याप्तिप्रकारकज्ञानमेवेत्यर्थः । एवकारेण लिङ्गस्य कारणत्वव्य- वच्छेदः । तत्राऽनुपपत्तिः स्वयमेव दास्यते श्रत्रेदं बोध्यम् । करणं द्विविधम् । व्यापारवदसाधारणं कारणं करणमित्येकम् । अपरञ्च फलाऽयोगव्यवच्छिन्न कारणं करणम् । तत्राऽऽद्यपक्षे व्याप्तिज्ञानमेव करणम् । नतु परामर्शस्तस्य व्यापाराभावात् । द्वितीयमते परामर्श एव करणमिति ध्येयम् ।

दी० – नतु व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेवाऽनुमितिसम्भवे विशिष्टपरामर्शः कथमङ्गीकर्त्तव्य इति चेन्न । “वन्हिव्याप्यवानयं” इति शाब्दपरामर्शस्थले परामर्शस्याऽऽवश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् ।

गं०- प्रभाकरः शकते नन्विति । व्याप्तिस्मृतिपक्षधर्मताज्ञाना- भ्यामेवेति । यत्रादौ धूमवान् पर्वत इति पक्षधर्मताज्ञानम् । ततो वहिव्याप्यो धूम इति व्याप्तिस्मरणम् । तत्र ज्ञानद्वयाभ्यामेवेत्यर्थः । एव-

[[१६३]]

टीकात्रयोपेतः

कारेण परामर्शस्य कारणत्वव्यवच्छेदः । परामर्श विनापीत्यर्थः । परामर्श प्रति तयोः कारणत्वावश्यकतया अनुमिति प्रत्येतयोः कारणस्वीकारेण सामञ्जस्य परामर्शस्य कreater are fत भावः परामर्शस्या- ssaश्यकतयेति । निदर्शनव्यातिस्मरणाभ्यां विनैव यत्र शाब्दात्मकः वन्हिग्याप्यधूमवानिति परामर्शस्तत्र परामर्शस्य कारणत्वमुभयमनसिद्धम् एवं च व्याप्तिपचधर्मताज्ञानयोः कारणनायकल्पनामपेक्ष्य परामर्शये- Asarvataria crघवमिति भावः । ननु परामर्शस्य न परामर्शत्वेन कारणत्वसम्भवः । यत्र ज्ञानद्वयादेवानुमिनिस्तत्र व्यभिचारात् । किन्तु व्याप्यतावच्छेदकीभूतधूमत्वप्रकारक ज्ञानत्वेनैव तथा व ज्ञानयस्थलेऽप्य- नुमितिनिर्वाहः । न च यत्र व्याप्यतावच्छेदकीभूनधूमवादिज्ञानविरहेऽपि केवलं वन्हिव्याप्यवानिति ज्ञानं तत्राऽनुमितिर्न स्यात्, व्याप्यतावच्छेदकी- भूतधूमत्वप्रकारकज्ञानाभावादिति वाच्यम् । तत्रापि लिङ्गतावच्छेदकवा- हिपरामर्श कल्पयित्वैवाऽनुमितेः स्वीकारान् । क्षणविलंवम्य शपथनिर्ण- यत्वात् । तथा च नानुमित्यनुपपत्तिरित्यत आह । लाघवेनेति । व्याप्यतावच्छेदकप्रकारकनिश्चयत्वाऽपेक्षया व्याप्तिप्रकारकप धर्मताज्ञान- स्वस्य लघुत्वेनेत्यर्थः । लिङ्गतावच्छेदकानवगाहिपरामर्शस्थले लिङ्गतावच्छे- दकावगाहिपरामर्शकल्पनम् किं वा ज्ञानद्वयस्थले परामर्शः कल्पनीय इत्यत्र विनिगमनाविरहोऽपि बोध्यः । किं च व्याप्यतावच्छेदकप्रकारकपक्ष- धर्मताज्ञानत्वेन कारणत्वे धूमवान् पर्वत इति ज्ञानादेाऽनुमित्यापत्तिः । पक्षधर्मताज्ञानव्याप्तिज्ञानयोः स्वातन्त्र्येण कारणत्वे च वन्हिव्याप्यो धूमः, आलोकवान् पर्वत इति ज्ञानाभ्यामनुमित्यापत्तिरित्येतत्सर्वमालोच्याह । सर्वत्र परामर्शस्यैव कारणत्वादिति । फलमुख गौरव स्यादोषत्वादिति

भावः ।

दा लिङ्गं न करणम अतीतादौ व्यभिचारात् । व्यापार- वन्कार करणमिति मते परामर्शद्वारा व्याप्तिज्ञानं करणम् ।

तर्क-सङ्ग्रहः

[[१६४]]

सज्जन्यत्वे सति तज्जन्यजनको हि व्यापारः । अनुमानमुपसंहरति । तस्मादिति ।

लिङ्गपरामर्श एव करणमिति मूलोक्तैवकारव्यवच्छेद्यं स्पष्टयति । लिहू न करणमिति । लिङ्गमिति । व्याप्तिज्ञानविशेष्यीभूतं लिङ्ग- मित्यर्थः । न करणमिति । परामर्शद्वारा न करणमित्यर्थः लिङ्गज्ञानस्य करणत्वे तु लिङ्गज्ञानत्वं कारणतावच्छेदकं वाच्यम् । लिङ्गस्य कारणत्वे लिङ्गत्वं कारणतावच्छेदकम् । तथा च लाघवात् लिङ्गमेव करणमित्याचार्या- णामाशयः । लिङ्गस्यानुमित्यकरणत्वे हेतुमाह श्रतीतादाविति । अतीतादि- लिङ्गकानुमितावित्यर्थः आदिना अनागतपरिग्रहः । व्यभिचारादिति । तत्र लिङ्गरूपकारणाभावाद् व्यतिरेकव्यभिचारादित्यर्थः । तथा च इयं शाला धूमवती श्यामवर्णत्वात् । इत्यनुमानेन धूर्मानिश्चयवतः पुरुषस्य इयं शाला वन्हिमती धूमादित्यनुमितिर्न स्यात् । लिङ्गस्य तदानीमभावात् । एवमना- रातस्थले पिपीलिकाण्डसञ्चरणेन सुवृष्टिमनुमितवतः पुरुषस्य देशोऽयं सुभिक्षवान् सुवृष्टेरित्यनुमितिर्न स्यात् लिङ्गरूपरूपकारणाभावात् । उद्देश्यतासम्बन्धेनानुमितिं प्रति हेतुतावच्छेदकसम्बन्धेन लिङ्गस्य तन्मते कारणत्वात् इति । समवायेनानुमिति प्रति स्वविषयकज्ञानवत्वसम्बन्धेन लिङ्गस्य कारणत्वेऽपि तेन सम्बन्धेन लिङ्गस्यैवाऽभावादिति ध्येयम् ॥

लिङ्गं त्रिविधम् । अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्ति- मदन्वयव्यतिरेकि । यथा वहौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निरिति श्रन्वयव्याप्तिः । यत्र वन्हि - र्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्यतिरेकव्याप्तिः ।

[[१६५]]

न्या० - अन्वयेनेति । व्यापकसामानाधिकररूपान्वयव्या त्रिमानित्यर्थः । व्यतिरेकेणेति । व्यतिरेको नानाभावः । तथा च साध्याभावहेत्वभावयोव्योमिः व्यतिरेकव्यातिः । इयं व्याप्तिः यत्र यत्र वन्ह्यभावस्तत्र तत्र धूमाभावः इति । यत्र पदवीसा वन्ह्यभाववति यावति धूमाभावमहणेन यावत्पदम्य व्यापरवा धूमाभावे वन्यभावव्यापकत्वं लभ्यते । एवं च न्ह्याः स्वाश्रयीभूतबन्द्यभावव्यापकीभूताभावप्रतियोगित्वसम्बन्धेन । धूम- निष्ठतया व्यतिरेकमा निमखेन धूमव्यापक वन्हिसामानाधिकरण्य- रूपान्वयव्यातिमत्त्वेन चान्वयव्यतिरेकित्वेन गीयते व्यतिरेक परामर्श - स्तु बन्ह्यभावव्यापकीभूताभावप्रतियोगिधूमवान् पर्वत इत्याकारकः ।

दी० - लिङ्ग विभजते । श्रन्वयव्यतिरेकि लक्षयति । अन्वयेनेति हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः, तदभावयोर्व्यातिर्व्यतिरेकव्याप्तिः ।

गं० - तस्मालिङ्गपरामर्शोऽनुमानमिति मूलेन लिङ्गस्य स्मृतत्वेन प्रसङ्गसङ्गत्या लिङ्गं विभजते मूले । लिङ्गं त्रिविधमिति । व्याप्याश्रयत्वं लिङ्गसामान्यलक्षणम् । श्रन्वयेनेति । अन्वय सहचारेणेत्यर्थः नृतीयार्थो ज्ञानज्ञाप्यत्वम् । तस्य व्याप्तौ भन्वयः । व्यतिरेकेणेति । व्यतिरेकसहचा रेणेत्यर्थः तृतीयार्थः पूर्ववत् । तथा चान्वयचहचारज्ञानज्ञाप्यव्याप्तिमद् व्यतिरेकसहचारज्ञानज्ञाप्यव्याप्तिमच लिङ्गं अन्वयव्यतिरे कीत्युच्यते । अन्त्र - यव्यतिरेकिलिङ्गं दर्शयति यथेति । वन्हौ साध्ये धूमवत्वम् । धूमः अन्वयव्यतिरेकिहेतुरित्यर्थः व्याप्तौ अन्वयसहचारज्ञानज्ञाप्यत्वमुपपादयति । यत्रेति । याशाधिकरणे इत्यर्थः । तत्रेति । तादृशाधिकरणे इत्यर्थः । इत्यन्वयव्याप्तिरिति । इदाकारकाऽन्वय सहचारज्ञानज्ञाप्यन्याप्तिरित्यर्थः । व्याप्तिश्च हेतुव्यापकसाध्य सामानाधिकरण्यरूपा साध्याभावदवृत्तित्वरूपा वा बोध्या । व्याप्तौ व्यतिरेकसहचारज्ञान ज्ञाप्यत्वमुपपादयति । यत्रेति ।

at-eing:

[[१६६]]

यादशाधिकरणे इत्यर्थः । वन्हिर्नास्तीति । वन्ह्यभाव इत्यर्थः । तत्रेति । तादृशाधिकरणे इत्यर्थः । धूमोऽपि नास्तीति । धूमाभावोऽपीत्यर्थः । इति व्यतिरेकव्याप्तिरिति । इत्याकारकन्यतिरेक सहचार ज्ञानज्ञाप्यव्याप्तिरि त्यर्थः । धूमाभावे वन्हा भावव्यापकत्वं लभ्यते इति । नन्वेवं चन्ह्यभावे धूमाभावव्याप्तिग्रहेऽपि धूमे कथं व्याप्तिग्रह इत्यत आह । एवं चेति । स्वं वन्द्मभावनिष्ठा व्याप्तिः । दीपिकायां तदभावयोरिति । साध्याभावहेत्व- भावयोरित्यर्थः ।

अन्वयमात्र व्याप्तिकं केवलान्वयि । यथा घटो- ऽभिधेयः प्रमेयत्वात् पटवत् । अत्र प्रमेयत्वाभिधेय- स्वयोर्व्यतिरेक प्राप्तिर्नास्ति सर्वस्यैव प्रमेयत्वादभि धेयत्वाच ।

न्या० - केवलान्वयिनोल क्षणमाह अन्वयेति । व्यतिरेक- व्याप्तिशून्यत्वे सति श्रन्वयव्याप्तिमत्त्वं केवलान्वयित्वम् । अथवा केवलान्वयिसाध्यकत्वं तत् । एतच्च लक्षणं हेतोर्व्यतिरेकित्वेऽपि सङ्गच्छते । साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तेरभावा. दन्त्रयमान्त्रव्याप्तिकं केवलान्वयि इति मूलकारोक्तं लचणमुपपन्नम् ।

गं० - केवलान्वयिनो लक्षणमाहेति । केवलान्वयिविशेष्यक लक्षण प्रकारकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । मूले केवलान्वयीति । केवलं अन्वयः " अन्वयव्याप्तिः” यस्यास्तीति केवला- न्वयि तदेवाह श्रन्वयमात्रव्याप्तिकमिति । अन्वयव्यतिरेकिणि अतिभ्या- सियारणाय सत्यन्तत् । श्रन्वयव्याप्तिमत्वमिति । व्याप्तिमत्वमित्यर्थः । अन्वय-वेन निवेशे प्रयोजनाभावात्, विशेष्यविशेषणभावे विनिगमनाविरहा- चेति । मूले केवलान्वयीत्यत्र केवलपदेन साध्यव्यतिरेकव्यवच्छेदः । अन्ययित्वं चाऽविवक्षितम् । अभावाऽप्रतियोगिसाध्यकत्वं केवलान्वयित्व -

[[१६७]]

टीकात्रयोपेतः

fireferrearers । अथवेति । साध्ये केवलान्वविनिवेशस्य फलमाह पतच लक्षमिति । केचियः । हेतोव्यं- तिरेकित्वेऽपीति । अपि शब्दः केवलान्वयित्वसमुच्चायकः वाच्यं घट- स्वादित्यत्र घटत्वहेतोरपीति यावत् ।

[[1]]

न्याः – श्रत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् । न चा- त्यन्ताभावाप्रतियोगित्वरूप केवलान्ववित्वमाकाशाभावे संयोगाभात्रे चाव्याममिति वाच्यम् । स्वविरोधिवृत्तिमत्यन्ताभावाप्रतियोगित्व- स्यैव तदर्थत्वात् । एकजातीयसत्बन्धेन सर्वत्र विद्यमानत्वं केवलान्व- यित्वमिति नव्याः ।

दी० – केवलान्वयिनो लक्षणमाह - अन्वयेति । केवलान्वयि- साध्यकं लिङ्ग केवलान्वयि । अत्यन्ताभावाप्रतियोगित्वं केवलान्व- त्रिम् । केवलान्वयि उदाहरति-घटोऽभिधेयः प्रमेयत्वात् इति ।

। ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः ।

[[1]]

गं० - साध्यनिष्ठ केवलान्वयित्वं निर्वति । श्रत्यन्ताऽभावाऽप्रति- योगित्वमिति । श्रव्याप्तमिति । आकाशाऽभावस्य संयोगाभावस्य व केवलान्वयित्वादिति भावः । स्वविरोधीति । स्वविरोधी अथ च वृत्तिमान् योऽत्यन्ताभावः तदप्रतियोगित्वमित्यर्थः । स्वं प्रतियोगी । अत्र स्वपदेन atoयत्वं नैव गृहीतुं शक्यते वाच्यत्वाभावस्य वाग्यत्वविरोधित्वेऽपि वृत्ति- मत्वविरहात् । किन्तु स्वपदेन घटादेर्यहणम्, तद्विरोधी अथ च वृत्तिमान् योऽस्यन्ताभावः घटाभावः तत्प्रतियोगित्वं घटे अप्रतियोगित्वं वाच्यत्वे इति लक्षणसमन्वयः । स्वविरोधित्वनिवेशात्संयोगाऽभावे नाव्याप्तिः । संयोगा- भावाभावस्य वृत्तिमत्वेऽपि संयोगाभावाऽविरोधित्वेन स्वपदेन संयोगा- भावग्रहणासम्भवात् । गगनाभावाभावस्य वृत्तिमत्वविरहेण स्वपदेन गगना- भावस्यापि ग्रहणासम्भवाद् गगनाभावेऽपि नाव्याप्तिरिति ध्येयम् । एक-तर्क -सङ्ग्रहः,

[[१६८]]

जातीयसम्बन्धेनेति । स्वरूपसम्बन्धेनेति शेषः । मूले । घटोऽभिधेयः प्रमेयत्वादिति । अत्र घटः पक्षः । अभिधेयत्वं साध्यम् । प्रमेयत्वं हेतुः । प्रमेयत्वं न दीपिकायां । ईश्वरप्रमाविषयत्वमिति । चकारात् ईश्व - रेच्छाविषयत्व तादृशकृतिविषयत्वादेः परिग्रहः । सर्वत्रास्तीति । सर्वत्र वृत्तीत्यर्थः । घटपदाभिधेयत्वस्य पटेऽभावादभिधेयत्वं न केवलान्वयीत्याशङ्काया- माह । सर्वपदाऽभिधेयत्वमिति । सर्वमित्याकारकसर्व विषयकज्ञान- विषयत्वं सर्वनास्तीत्यपि बोध्यम् । श्रश्र अभिधेयत्व साध्यकस्थले सर्वस्या. ’ ऽपीति तथा च प्रमेयत्वाभिधेयत्वयोः केवलान्वयित्वेन तदभावाऽप्रसिद्ध्या

व्यतिरेकव्याप्तिः सुतरामप्रसिद्धेति भावः ।

व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा प्रथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् । यदितरेभ्यो न भिद्यते न तद् गन्धवत् । यथा जलम् । न चेयं तथा । तस्मात् न तथेति । अत्र यद् गन्धवत् तदि- तरभिन्नमित्यन्वयदृष्टान्तो नास्ति पृथिवीमात्रस्य पक्षत्वात् ।

न्या०– केवलव्यतिरेकिणो लक्षरणमाह-व्यतिरेकेति । नि– श्चितान्वयव्याप्तिशून्यत्वे सति व्यतिरेकव्याप्तिमत्त्वं केवलव्यतिरेकि-’ त्वम् । यथा पृथिवीति । अत्र पृथिवीत्वावच्छिन्नं पक्षः, पृथिवीतर- जलादिभेदः साध्यम्, गन्धवत्वं हेतुः । श्रत्र यद् गन्धवत् तदितर- भेदवदित्यन्वयदृष्टान्ताभावाद्भन्धव्यापकेतरभेदसामानाधिकरण्यरूपा-

न्वयव्याप्तिग्रहा सम्भवः ।

किन्तु यत्र तत्र पृथिवीतरभेदाभावस्तत्र तत्र गन्धाभावो यथा जलादिकमिति व्यतिरेकदृष्टान्ते जलादावितरभेदाभावरूपसाध्याभाव-

[[१६६]]

टीकात्रयोपेतः

व्यापकता गन्धाभावे गृह्यते । इममेवार्थ मनसि निधाय यदितरभ्यो न भिद्यते न तद्गन्धवत् तथा जलमिति ग्रन्थेन मूलकारोव्यतिरेक- व्याप्तिदेव प्रदर्शितवान् । एवम्प्रकारेण व्यतिरेकव्याप्तिग्रहानन्तरमि- तरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती पृथिवीवीत्याकारक- व्यतिरेकिपरामर्शात् पृथीवित्वावच्छिन्नोद्देश्यतानिरूपितेतर भेदत्वाव- च्चिन्नविधेयताका पृथिवीदर भेदवतीत्या कारिकानुमितिर्जायते इति तत्त्वम् । यथाश्रुतमूलार्थस्तु यत् जलं इतरेभ्यो न भिद्यते इतरभेदा- भाववत्, न तद् गन्धवत् जलमितर भेदाभावव्यापकगन्धाभाववत् । इत्येवम्प्रकारेण गन्धाभावनिरूपिता व्याप्यता इतरभेदाभावे गृह्यत इत्यर्थः न चेयं तथेति । इयं पृथिवी, न तथा इतर भेदाभावव्यापक- गन्धाभाववती न किन्तु तदभावात्मकगन्धवती । तस्मान्न तथेतीति । तस्मात् । गन्धाभावाभावत्वात् । न तथा । इतरभेदाभाववती न ।

किन्तु इतरभेदाभावाभाववती इतरभेदवतीति पर्यवसन्न इति ।

दी० - केवल च्यतिरेकिगोलक्षणमाह । व्यतिरेकेति केवल- व्यतिरेकिणमुदाहरति । पृथिवीति ।

गं० – केवलव्यतिरेकिणो लक्षणमाहेति । केवलव्य तिरे किविशेष्यक- लक्षणप्रकारकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । मूले। केवलव्यतिरेकीति । केवलं व्यतिरेकः “व्यतिरेकव्याप्तिः” अस्या- स्तीति केवलव्यतिरेकी यस्मिन् हेतौ व्यतिरेकव्याप्तिरेव विद्यते स हेतुः केवल- व्यतिरेकीत्यर्थः । तदेवोक्तं व्यतिरेकमा त्रव्याप्तिकमित्यनेन । अन्वय- व्यतिरेकिणि अतिव्याप्तिवारणाय सत्यन्तम् । विशेष्यदले व्यतिरेकपदं न देयम्, व्याप्तिमत्वस्यैव सम्यक्त्वात् । मूले । इतरेभ्यः जलादिभ्यः- प्रतियोगित्वं पञ्चम्यर्थः । भिद्धातोर्भेदोर्थः भेदश्चाऽन्योन्याभावः । आख्या- तार्थ आश्रयत्वम् । तथा च जलादिप्रतियोगिकाऽन्योन्याभाववतीत्यर्थः

तर्क - सङ्ग्रहः

Ge

अन्वयव्याप्तिस्तु न सम्भवतीत्याह मूले । श्रत्र यदिति । अन्वयदृष्टान्तः । अन्वयव्याप्तौ दृष्टान्तः । श्रन्वयदृष्टान्तो नास्तीति । ननु यद् गन्धवसदि- तरभिन्नं यथा घटः इत्यन्त्रयदृष्टान्तोऽस्येवेत्यत आह । पृथिवीमात्रस्येति । तथा च पक्षाऽतिरिक्तस्यैव दृष्टान्तत्वेन घटस्य च पक्षान्तर्गतत्वेन न दृष्टान्तत्वं सम्भवतीति भावः । केचित्तु व्यतिरेकसहचारेणाऽपि अन्वयव्याप्ति- रेव गृह्यते, व्यतिरेकव्याप्तिज्ञानन्तु नानुमितौ कारणम् । यत्र व्यतिरेकमात्र- सहचाराद्व्याप्तिग्रहः तद्व्यतिरेकीत्युच्यते साध्यनिश्चयस्तु घटादावेव । अनु- मितिस्तु पृथिवीत्वावच्छेदेन । अत्रच्छेदावच्छेदेनानुमितिं प्रति सामाना- धिकरण्येन सिद्धेरप्रतिबन्धकत्वादिति वदन्ति ।

दी० - नन्त्रितरभेदः प्रसिद्धो न वा । आद्ये यत्र प्रसिद्धस्तत्र हेतुमत्रे अन्त्रयित्वम् । असत्त्वे असाधारण्यम् । द्वितीये साध्यज्ञानाभावात् कथं तद्विशिष्टानुमितिः । विशेषज्ञानाभावे विशि- ष्टज्ञानानुदयात् । प्रतियोगिज्ञानाभावाद व्यतिरेकव्याप्तिज्ञानमपि न स्यात् इति चेत्, न, जलादित्रयोदशान्योन्या भावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यां साध्यते । त्रयोदशत्वावच्छिन्नसा- व्यस्यैकाधिकरणवृत्तित्वाभावान्नान्त्रयित्वासाधारण्ये, प्रत्येकाधिकर- प्रसिद्धधा साध्यविशिष्टानुमितिः, साध्याभावव्यापकीभूताभावप्रति- योगित्वमिति व्यतिरेकव्याप्तिनिरूपणं चेति ।

गं० - ननु पृथिवी इतरेभ्योभिद्यते गन्धवत्वादित्यत्र गन्धवत्वहेतोः केवलव्यतिरेकित्वमुक्तम्, तन्न युक्तमित्याक्षिपति । नन्वित्यादिना । इत- रभेदः प्रसिद्धो नवेति । प्रसिद्धः इतरभेदः साध्यते, अप्रसिद्ध इतरभेदो वा साध्यते इत्यर्थः । पृथिवी जलभिन्ना, तेजोभिन्ना वायुभिन्ना इत्यादि रीत्या जलत्वाद्यवच्छिन्न प्रतियोगिताकैकैकभेदः साध्यते, जलादि- अभावान्तान्यतम- वृत्ति यत्पृथिवीतरत्वं तदवच्छिन्न प्रतियोगिताकभेदो वा साध्यते इति यावत् । rasपि पक्षैकदेशे प्रसिद्धो यः तादृशैकैकभेदः स साध्यते, पक्षातिरिके -

,

[[१७१]]

I

टीकात्रयोपेतः

प्रसिद्धो यः ताकभेदः स वा साध्यते इति विकल्पद्वयम् । तत्राssधे प्रथमविकल्पं दूषयति । यत्र प्रसिद्ध इति । यस्मिन्नधिकरणे " घटादी’ इतरभेदो गृहीतः तत्रैवेत्यर्थः । हेतुसत्वेऽन्वयित्वमिति । हेतुत्वप्रयुक्त. मन्वयित्वमेवेत्यर्थः । तथा च गन्धवत्वहेतोः “अन्वयेन व्यतिरेकेण च व्या- सिमन्वाद अन्वयव्यतिरेकिवमेव स्यान्न तु केवलव्यतिरेकित्वमिति भावः । आये द्वितीयविकल्पं दूषयति । श्रसत्वे इति । हेतुविरहे इत्यर्थः । श्रसाधारण्यमिति । हेत्वसत्वप्रयुक्तमसाधारण्यमित्यर्थः । तथा च पक्षा- तिरिके साध्यनिश्चये तत्र गन्धवत्वरूप हेतोरभावात् गन्धवत्वरूपहेतोर- साधारण्यमेव, सर्व सपक्षविपक्षव्यावृत्तत्वात् पक्षमात्रवृत्तित्वाच्च । असाधा- रण्ये सद्धेतोरेव लक्ष्यतया केवलव्यतिरेकिलक्षणलक्ष्याऽप्रसिद्धिरिति समुद्दिनार्थः । अप्रसिद्ध इतरभेदः साध्यते इति विकल्पं दूषयति । द्वितीये इनि । साध्यज्ञानाभावादिति साध्याऽप्रसिद्ध्येत्यर्थः । कथं विशिष्टानु- मितिरिति । पृथिवीविशेष्यकेतर भेदप्रकारकानुमितिः कथमुत्पद्यते इत्यर्थः । सत्र हेतुमाह । विशेषणज्ञानाभावे इति । विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादिति भावः । ननु पृथिवीविशेप्यकेतर भेदप्रकार कानुमितिर्माभूत्, पृथिव्यामितरभेदः” इत्याकारकेतर भेदविशेष्य कानुमितिरेवजायतामित्याशङ्कां परिहरति । प्रतियोगिज्ञानाभावादिति साध्यात्मक प्रतियोगिज्ञानाभावादि- त्यर्थः । व्यतिरेकव्याप्तिज्ञानमपि व्यतिरेकव्याप्तिज्ञानमेवेत्यर्थः । न स्या- दिति । तथा च साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्याप्तिज्ञाने ‘साध्याभावज्ञानस्यावश्यमपेक्षिततया तद्ज्ञाने प्रतियोगिज्ञानविधया इतर – भेदज्ञानस्याsपेक्षितत्वेन साध्यज्ञानाभावे व्यतिरेकव्याप्तिज्ञानमपि न सम्भव- तीति भावः । पृथिव्यां न प्रत्येकभेदः साध्यते, नापि पृथिवीतरत्वावच्छिन्न- प्रतियोगिताकभेदः, अपि तु जलादीनां ये त्रयोदशान्योभावाः तेषां भेदकूटः साध्यते तथा च नोक्तदोषावसर इत्याह । त्रयोदशान्योन्याभावाना’-

टि० ननु जलाद्यष्टद्रव्य-गुणादिषट्पदार्थानां भेद एव पृथिव्यां साधनीयः,

[[१७१]]

I

टीकात्रयोपेतः

प्रसिद्धो यः ताकभेदः स वा साध्यते इति विकल्पद्वयम् । तत्राssधे प्रथमविकल्पं दूषयति । यत्र प्रसिद्ध इति । यस्मिन्नधिकरणे " घटादी’ इतरभेदो गृहीतः तत्रैवेत्यर्थः । हेतुसत्वेऽन्वयित्वमिति । हेतुत्वप्रयुक्त. मन्वयित्वमेवेत्यर्थः । तथा च गन्धवत्वहेतोः “अन्वयेन व्यतिरेकेण च व्या- सिमन्वाद अन्वयव्यतिरेकिवमेव स्यान्न तु केवलव्यतिरेकित्वमिति भावः । आये द्वितीयविकल्पं दूषयति । श्रसत्वे इति । हेतुविरहे इत्यर्थः । श्रसाधारण्यमिति । हेत्वसत्वप्रयुक्तमसाधारण्यमित्यर्थः । तथा च पक्षा- तिरिके साध्यनिश्चये तत्र गन्धवत्वरूप हेतोरभावात् गन्धवत्वरूपहेतोर- साधारण्यमेव, सर्व सपक्षविपक्षव्यावृत्तत्वात् पक्षमात्रवृत्तित्वाच्च । असाधा- रण्ये सद्धेतोरेव लक्ष्यतया केवलव्यतिरेकिलक्षणलक्ष्याऽप्रसिद्धिरिति समुद्दिनार्थः । अप्रसिद्ध इतरभेदः साध्यते इति विकल्पं दूषयति । द्वितीये इनि । साध्यज्ञानाभावादिति साध्याऽप्रसिद्ध्येत्यर्थः । कथं विशिष्टानु- मितिरिति । पृथिवीविशेष्यकेतर भेदप्रकारकानुमितिः कथमुत्पद्यते इत्यर्थः । सत्र हेतुमाह । विशेषणज्ञानाभावे इति । विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वादिति भावः । ननु पृथिवीविशेप्यकेतर भेदप्रकार कानुमितिर्माभूत्, पृथिव्यामितरभेदः” इत्याकारकेतर भेदविशेष्य कानुमितिरेवजायतामित्याशङ्कां परिहरति । प्रतियोगिज्ञानाभावादिति साध्यात्मक प्रतियोगिज्ञानाभावादि- त्यर्थः । व्यतिरेकव्याप्तिज्ञानमपि व्यतिरेकव्याप्तिज्ञानमेवेत्यर्थः । न स्या- दिति । तथा च साध्याभावव्यापकीभूताभावप्रतियोगित्वरूपव्याप्तिज्ञाने ‘साध्याभावज्ञानस्यावश्यमपेक्षिततया तद्ज्ञाने प्रतियोगिज्ञानविधया इतर – भेदज्ञानस्याsपेक्षितत्वेन साध्यज्ञानाभावे व्यतिरेकव्याप्तिज्ञानमपि न सम्भव- तीति भावः । पृथिव्यां न प्रत्येकभेदः साध्यते, नापि पृथिवीतरत्वावच्छिन्न- प्रतियोगिताकभेदः, अपि तु जलादीनां ये त्रयोदशान्योभावाः तेषां भेदकूटः साध्यते तथा च नोक्तदोषावसर इत्याह । त्रयोदशान्योन्याभावाना’-

टि० ननु जलाद्यष्टद्रव्य-गुणादिषट्पदार्थानां भेद एव पृथिव्यां साधनीयः,

वर्क-सङ्ग्रहः

[[१७४]]

विनिश्चयत्वावच्छिन्नप्रतिबन्धकतानिरूपित प्रतिबध्यताशाली संशयः तत्पक्षक- सत्साध्यकानुमितौ कारणम् । तादृशसंशय एव पक्षतेति ।

इदञ्च लक्षणम् । सन्दिग्धसाध्यवत्वरुपलक्षणं च । नियमेन जायते इति । प्राचीनानामयमाशयः । साध्यनिश्चयसत्वे वाघनिश्वयत्वे वा अनुमितिर्न भवतीति द्वयोविङ्घटनाम संशयस्यानुमितिकारणत्वमावश्यकम्, एवं च साध्यनिश्चयस्य वाघनिश्चयस्य वा संशयं प्रति प्रतिबन्धकत्वादुभय- सत्वे संशयरूपकारणाभावादेव नानुमितिः । संशयोत्तरं सिद्धिसत्वेऽनुमिति- र्भवत्येव, संशयस्योत्तेजकत्वादिति । प्राचीनमतं दूषयति । गगनविशेष्य- केति । सन्देहाऽभावदशायामपीति । गगनं मेघवनवेत्याकरकसन्देह- विरहेऽपीत्यर्थः । श्रनुमिते दर्शनात् । तथा च व्यतिरेकव्यभिचारात्संशयो नाऽनुमितिकारणमिति भावः । श्रनुमित्युद्देश्यत्वमिति । तच्च स्वरूप- सम्बन्धविशेषः प्रकृते सिषाधयिषाविरहविशिष्टसिद्धयभाव एवेति ध्येयम् । सन्दिग्धसाध्यवत्व रूपलक्षणस्य लक्ष्यं निद्दिशति मूले यथेति । धूमवत्वे ताविति । धूमवत्वरूप हेत्वधिकरणमित्यर्थः । न च यथा पर्वत इत्युक्यैव सामञ्जस्ये धूमवत्वे हेतावित्युक्तिर्व्यर्थेति वाच्यम् । पञ्चरूपोपपन्नत्व घटकपक्ष- सत्वं दर्शयितुं तथोपन्यासात् । पञ्चरूपाणि च पक्षसत्व सपक्षसत्वविपक्षाs- सत्वाऽ-वाधितत्वाऽ सत्प्रतिपक्षितत्वानीति ।

दी० पक्षलक्षणमाह- सन्दिग्धेति । नतु श्रवणानन्तरभावि मननस्थले अव्याप्तिः, तत्र वेदवाक्यैरात्मनो निश्चितत्वेन सन्देहा- भावात् । किश्व प्रत्यक्षेऽपि वन्हौ यत्रेच्छयाऽनुमितिः, तत्राव्याप्ति- रिति चेत्, न उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात् ।

गं० – सिपा धयिषाविरहविशिष्टसिदभाव एव पक्षता इति नवीनाः । एवं च घनगर्जनस्थले नानुमित्यनुपपत्तिः सिद्धयभावरूपपक्षतासत्वादिति नवीनमतं सिद्धान्तयितुमाक्षिपति । नन्वित्यादिना श्रवणानन्तरेति आत्मविशेष्य केतर भेदप्रकार कशाब्दबोधानन्तरजायमानाऽऽत्मपक्षकेतर भे दानुमि

वर्क-सङ्ग्रहः

[[१७४]]

विनिश्चयत्वावच्छिन्नप्रतिबन्धकतानिरूपित प्रतिबध्यताशाली संशयः तत्पक्षक- सत्साध्यकानुमितौ कारणम् । तादृशसंशय एव पक्षतेति ।

इदञ्च लक्षणम् । सन्दिग्धसाध्यवत्वरुपलक्षणं च । नियमेन जायते इति । प्राचीनानामयमाशयः । साध्यनिश्चयसत्वे वाघनिश्वयत्वे वा अनुमितिर्न भवतीति द्वयोविङ्घटनाम संशयस्यानुमितिकारणत्वमावश्यकम्, एवं च साध्यनिश्चयस्य वाघनिश्चयस्य वा संशयं प्रति प्रतिबन्धकत्वादुभय- सत्वे संशयरूपकारणाभावादेव नानुमितिः । संशयोत्तरं सिद्धिसत्वेऽनुमिति- र्भवत्येव, संशयस्योत्तेजकत्वादिति । प्राचीनमतं दूषयति । गगनविशेष्य- केति । सन्देहाऽभावदशायामपीति । गगनं मेघवनवेत्याकरकसन्देह- विरहेऽपीत्यर्थः । श्रनुमिते दर्शनात् । तथा च व्यतिरेकव्यभिचारात्संशयो नाऽनुमितिकारणमिति भावः । श्रनुमित्युद्देश्यत्वमिति । तच्च स्वरूप- सम्बन्धविशेषः प्रकृते सिषाधयिषाविरहविशिष्टसिद्धयभाव एवेति ध्येयम् । सन्दिग्धसाध्यवत्व रूपलक्षणस्य लक्ष्यं निद्दिशति मूले यथेति । धूमवत्वे ताविति । धूमवत्वरूप हेत्वधिकरणमित्यर्थः । न च यथा पर्वत इत्युक्यैव सामञ्जस्ये धूमवत्वे हेतावित्युक्तिर्व्यर्थेति वाच्यम् । पञ्चरूपोपपन्नत्व घटकपक्ष- सत्वं दर्शयितुं तथोपन्यासात् । पञ्चरूपाणि च पक्षसत्व सपक्षसत्वविपक्षाs- सत्वाऽ-वाधितत्वाऽ सत्प्रतिपक्षितत्वानीति ।

दी० पक्षलक्षणमाह- सन्दिग्धेति । नतु श्रवणानन्तरभावि मननस्थले अव्याप्तिः, तत्र वेदवाक्यैरात्मनो निश्चितत्वेन सन्देहा- भावात् । किश्व प्रत्यक्षेऽपि वन्हौ यत्रेच्छयाऽनुमितिः, तत्राव्याप्ति- रिति चेत्, न उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात् ।

गं० – सिपा धयिषाविरहविशिष्टसिदभाव एव पक्षता इति नवीनाः । एवं च घनगर्जनस्थले नानुमित्यनुपपत्तिः सिद्धयभावरूपपक्षतासत्वादिति नवीनमतं सिद्धान्तयितुमाक्षिपति । नन्वित्यादिना श्रवणानन्तरेति आत्मविशेष्य केतर भेदप्रकार कशाब्दबोधानन्तरजायमानाऽऽत्मपक्षकेतर भे दानुमि

[[१७५]]

टीकात्रयोपेतः

तिस्थले इत्यर्थः । अभ्यासिसुपपादयति । तत्रेति । आत्मनीत्यर्थः । अस्यम सन्देहाभावादित्यनेनाऽन्वयः । सन्देहाभावे हेतुमाह । वेदवाक्यैरिति । अशरीरं वावसन्तमित्यादिवेदवाक्यैरित्यर्थः । निश्चितस्खे चेति । देहेन्द्रि यादिभित्वप्रकारतानिरूपित निश्चयीयविशेष्यताश्रयत्वेनेत्यर्थः । सन्देहा- भावादिति । देहेन्द्रियभिन्नत्वप्रकारतानिरूपित संशयीयविशेष्यत्वाभावा- दित्यर्थः । प्रत्यक्षस्लेप्यव्याप्तिमाह । किचेति । प्रत्यक्षेऽपि बन्हा- विति । निश्चितेऽपि वन्हाविग्यर्थः । यत्र । पर्वतादौ । इच्छया । वन्ह्यनु- मितिजायतामिनच्छया । श्रव्याप्तिरिति । तथा च पर्वतादौ वन्हिनिश्चय- काले साध्य सन्देहरूपपक्षताविरहादव्याप्तिरित्यर्थः । इदमुपलक्षणम् । धूमेन निश्चतेऽपि वन्हाँ आलोकेन वन्द्यनुमितिर्जायतामितीच्या वन्ानुमिता- वपि व्यभिचारो बोध्यः । एतेन केवलसिदयभावस्य पक्षतात्वेऽपि उक्तव्य • भिचारस्तदवस्थ एवेति सूचितम् । उक्तपक्षताश्रयत्वस्येति । सिषाध विपाविरहविशिष्टसिद्ध्यभावस्येत्यर्थः । लक्षणत्वादिति । तथा च नोक- व्यभिचार इति भावः । न च सिषाधयिषामात्रमेवपक्षताऽस्विति वाच्यम् । नगर्जनेन मेघानुमितिस्थलेव्यभिचारतादवस्थ्यात् न च फलवलाद् गगने मेघानुमितिजायतामितीष्ठाकल्पनेन

न व्यभिचार इति वाच्यम् । हस्तिघटकवस्वादिना " मदीयशत्रुः सम्पन्नः” इत्याकारकानुमितिस्थले व्यभि• चारतादवस्थ्यात् । शत्रुविशेष्यक सम्पनत्व प्रकार कानुमितीच्छायाः कल्पयितुम• शक्यत्वादिति ध्येयम् ।

अग्रेदं बोध्यम् । अनुमितौ सिषाधयिषा उत्तेजिका भवति । उत्तेजकत्वं च प्रतिबन्धकसरखे कार्यजनकत्वम् । सिद्धिचानुमितौ प्रतिबन्धिका भवति । प्रतिबन्धकत्वञ्च कारणीभूताभावप्रतियोगित्वम् । प्रतिबन्धकाभावस्य कार्यमात्रे कारणतया कारणीभूतो योऽभावः सिद्ध्यभावः तत्प्रतियोगित्वं सिद्धावस्त्येवेति । सिद्धिश्व साम्यनिश्वयः । प्रतिवध्य प्रतिबन्धकभावश्च प्रकृत- पक्षतावच्छेदकावडियो देयतानिरूपितप्रकृतसाध्यतावच्छेदकसम्बन्धावच्छि- अप्रकृतसाध्यतावच्छेदकावच्छिन्न विधेयताशाल्यनुमितिं प्रति प्रकृतपक्षता-

तर्क - सङ्ग्रहः

GT

बच्छेदकावच्छिन्न विशेष्यतानिरूपितप्रकृतसाध्यतावच्छेदकसम्बन्धावच्छिन्नप्रकृ तसाध्यतावच्छेदकावच्छिन्न प्रकारताशालिनिश्चयस्य प्रतिबन्धकत्वम् । यथा पर्वतत्वावच्छिन्नोद्देश्यतानिरूपित संयोगसम्बन्धावच्छिन्न वह्नित्वावच्छिन्नविधेय- ताशाल्यनुमितिं प्रति पर्वतत्वावच्छिन्नविशेष्यता निरुपित संयोगसम्बन्धाव- च्छिन्न वह्नित्वावच्छिन्नप्रकारताशालिनिश्चयस्य प्रतिबन्धकत्तम् । यथा साध्य- प्रकारिकासिद्धिः अनुमितिविरोधिनी सा च पर्वतोवह्निमान् इत्याकारिका तथैव पर्वते वह्निः इत्याकारिका साध्यविशेष्यिका सिद्धिरपि अनुमितिप्रति- afrat । इयस्तु विशेषः पर्वतोवह्निमान् इत्याकारकः साध्यप्रकारकनि-

यः साध्यप्रकारकानुमितौ " पर्वतोवह्निमान् इत्याकारिकायाम्” विरोधी, प्रतिवध्यप्रतिबन्धक भाव तूकएव । साव्यविशेष्यिका सिद्धिस्तु साव्यविशेष्य- कानुमितौ प्रतिबन्धिका तत्प्रकारश्च वह्नित्वावच्छिन्न विशेष्यता निरुपित- “स्वनिष्ट अधिकरणतानिरुपित” आधेयत्वसम्बन्धावच्छिन्नपर्वतत्वावच्छिन्न- विधेयताशाल्यनुमितिं प्रति वह्नित्वावच्छिन्नविशेष्यता निरुपित “स्वनिष्ठ अधिकरणतानिरुपित” आधेयत्वसम्बन्धावच्छिन्नपर्वतत्वावच्छिन्नप्रकारता- शालिनिश्चयत्वेन प्रतिबन्धकत्वम् । तथा च पक्षविशेष्यकसाध्य- प्रकारकानुमितिं प्रति पक्षविशेष्यकसाध्यप्रकारकसिद्धिः प्रतिबन्धिका । साध्यविशेष्यकानुमितिं प्रति साध्यविशेष्यकसिद्धिः प्रतिवन्धिकेति ।
पुनर् अपि सिद्धिद्विविधा ।
पक्षतावच्छेदक-सामानाधिकरण्येन पक्षतावच्छेदकावच्छेदेन च ।
सामानाधिकरण्येन सिद्धिः, अवच्छेदावच्छेदेन सिद्धिश्च
“पर्वतो वह्निमान्” इत्याकारिकैव ।
किन्तु यत्र प्रकारतावच्छेदक-सम्बन्धः?? - शुद्ध-संयोगः सा सिद्धिः सामानाधिकरण्येनेत्युच्यते ।
यत्र पर्वतत्व-व्यापक-वह्नि-प्रतियोगिक-संयोगः प्रकारतावच्छेदकतया भासते सा
सिद्धिः पर्वतत्वावच्छेदेनेत्युच्यते । एवं अनुमितेर् द्वैविध्यं बोध्यम् ।
तत्रापि अवच्छेदकावच्छेदेनानुमितिं प्रति सामानाधिकरण्येन सिद्धिः प्रतिवन्धिका । सामानाधिकरण्येनानुमितिं प्रति सिद्धिद्वयं प्रतिबन्धकम् । प्रतिवन्धकाभा- विधया सिद्ध्यभावोऽनुमितौ कारणम् तत्रापि सिद्धौ सिषाधयिषाविरह-

}

[[१७७]]

[[१]]

ataraयोपेतः

fafarera विशेषणीयम् । सिषाधयिषा व पर्वतं वन्द्यनुमितिमें जायताम् हयायाकारिका तथा व सियाधयिषाविरहवेशिवं सिद्धौ सामानाधिकरण्य- सम्बन्धेन विशेषणम् सिविच विशेष्या । विशिष्टाभावोऽनुमितौ कारणम् विशिष्टाभावः विशेष्याभावप्रयुक्तीविशेषणाऽभावप्रयुक्तः उभयाभावप्रयुक्तश्च- यत्र न सिद्धिः नापि सिषाधयिषा परामर्शमात्रा देवानुमितिः तत्र विशेष्या- भावप्रयुको विशिप्राभावः । यत्र सिविः सिधाधयिषा व अस्ति नत्र विशेषणानामयुको विशिष्टाभावः । यत्र तु केवलमुतेजकम् नत्र विशिष्टाभावः उन्यानामयुतः यत्र केवना सिद्धिः तत्र न विशिष्टाभावः fahurta सिधाारिपाविरहस्य सिद्धेः चोभयोः सत्वात् अतः रक्षतारूपकारणाभावात् तत्र नानुमितिरित्यन्यत्र विस्तरः ।

निश्चितसाध्यवान् सपक्षः । यथा तत्रैव महा-

नसम् ।

न्या० - सपक्षलक्षण माह निश्चितेति । साम्यप्रकारक निश्चय- विशेष्यत्वं सपक्षत्वम् । निश्चयश्च महानसं वन्दिमदित्याकारकः ।

० - सपक्षलक्षणमाह - निश्चितेति ।

दी.

गं०- मूले। निश्चितेति । निश्चितश्चासौ साध्यवांश्चेति निश्चितसा- ध्यवान् । साध्यवत्वेन निश्रयमानत्वम् । फलितार्थमाह । साध्य- प्रकारकेति । तथा च विशेष्यतासम्बन्धेन साध्य प्रकारकनिश्चयवत्वं सपक्ष- स्वमिति यावत् । लक्ष्यं दर्शयति । यथेति । तत्रैव महानसमिति । तत्र महान समेवेति योजना । तत्र । धूमवत्वे हेतौ । तथा च धूमरूपत्वधि- करणमहान समेवेत्यर्थः । एतेन हेतोः सपक्षसत्वमाविष्कृतम् ।

निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव

महाहृदः ।

રतर्क-सङ्ग्रहः

[[१७८]]

न्याः - विपक्षलक्षणमाह - निश्चित साध्याभावेति । साध्य- भावप्रकार निश्चय विशेष्यत्वं विपक्षत्वम् । निश्चयश्च हृदो वन्यभाव- वान् इत्याकारकः ।

दी० - विपक्षलक्षणमाह - निश्चितेति ।

गं० - अत्रापि निश्चितश्वासौ साध्याभाववांश्चेति विग्रहः । साध्या- Hraaran निश्चीयमानत्वं तदर्थः । विशेष्यतासम्बन्धेन साध्याभावप्रकारक frerrarafafa fararaमिति यावत् । लक्ष्यमाह । यथेति । तत्रैव महाहद इति । नत्र महाहूद एवेति योजना । तत्र धूमवत्वे हेतौ । तथा च धूमवत्वरूप हेत्वन- धिकरणं महाहृद एवेत्यर्थः । एतेन हेतोर्विपक्षासत्वमाविष्कृतम् ।

सव्यभिचारविरुद्धसत्प्रतिपक्षाऽसिद्धवाधिताः प-

श्व हेत्वाभासाः ।

न्या० – एवं सद्धेतून्निरूप्य हेत्वाभासान्निरूपयति । सव्यभि चारेति । हेतुवदाभासन्ते इति हेत्वाभासाः, दुष्टहेतव इत्यर्थः । दोषाश्च व्यभिचारविरोधसत्प्रतिपक्षाऽसिद्धिवाधाः । एतद्विशिष्टाः हेतवो दुष्टहेतव इत्यर्थः । यद्विषयकत्वेनज्ञानत्याऽनुमितिवत्करणा- न्यतरविरोधित्वं तत्वं दोपसामान्यलक्षणम् । हेतौ दोषज्ञाने सति अनुमितिप्रतिबन्धो जायते, व्याप्तिप्रतिवन्धो वा । अतो वादिनिप्र- हाय वादिनोद्भाविते हेतौ दोषोद्भावनार्थ दुष्टहेतुनिरूपणमित्यर्थः । पर्वतो वन्हिमान् प्रमेयत्वादित्यत्र प्रमेयत्वहेतौ साध्याभाववद्वृत्ति- त्वव्यभिचारे ज्ञाते वन्ह्यभाववदवृत्तित्व रूपव्याप्तिज्ञान प्रतिवन्धः फलम् ।

दी० एवं सद्धेतून निरूप्य असद्धेतून निरूपयितुं विभजते । सव्यभिचारेति ।

[[१७६]]

"

गं०- एवं प्रकारेण प्रथेनेति यावत । सद्धेतूनिति । व्याप्तिपक्ष- धर्माविशतूनियर्थः । fatara fafa । तस्य निपूर्वकरूपधा- किदेशे ज्ञानेऽन्वयः । धात्वर्यश्व ज्ञानानुकूलव्यापारः । व्यत्ययाथों indiaम्वम् : नस्यामिमनिरूपणेऽन्वयः । हेत्वाभासानिन्यत्र द्वितीयार्थी विषवम् नम्यनिकदेशे ज्ञानेऽन्वयः । कृतिश्चाऽव्यानाची । तथा च सद्भेनुनिरूपणध्वंसकालीन हेत्वाभासविषयकनिरूपणानुकूलकृतिमान् मृण कार इति बोधः । दीकियां निरूपयितुमिनि । इच्छाप्रयोज्यत्वं तुमुन्द्र- वार्थः । नाशनिरूपणेच्छा प्रयोज्यविभागानुकूलकृतिमानिति बोधः । दुष्टहेतव इत्यर्थइति । एवं नोराभासा इति व्युत्पत्या हेवाभासप efreshers । searवं दुष्टश्वमिति दुष्टहेतुलक्षणं स्फुटमेवेति तदुपेक्ष्य Free stars लक्षयति । यद्विषयकत्वेनेत्यादिना । यः विषयो यस्मिन्निति द्विपकं तस्य भावो यद्विषयकम्वम् तेन । यपदेन विषयो धर्तव्यः । तत्पदेनाऽपि स एव । तत्वस्य विषये सत्वात्,

विषया पत्र दोषाः । विषयाश्च निर्विभक्तिकाः, यथा वन्ह्य भाववद्वृत्तिप्रमेयत्वरूपी दोषः । ज्ञानं च सविभक्तिकम्, यथा वन्द्यभाववद्वृत्तिप्रमेयत्वमित्याकारकम् । श्रत्रेदं बोध्यम् । तद्वत्तावुद्धिं प्रति तदभाववत्तानिश्वयस्य तदभावव्याप्य- निश्चयस्य प्रतिबन्धवम् । यथा घटादिः “घटवद्भूतलमित्या- कारिका” प्रति घटाभाववत्ता निश्चयस्य " घटाभावबनलमित्याकारक- निश्वयस्य” तदभावव्याप्यवत्तानिश्चयस्य च “घटाभावव्याप्यवन्तलमित्यः- करस्य” प्रतिबन्धकत्वम् । प्रतिवध्या बुद्धिर्भवति । प्रतिवध्यतावच्छेदकं मध्यवृत्तिद्धित्वादिकम् । प्रतिवध्यता बुद्धित्वावच्छिना । एवं निश्वयः freest भवति । निश्चयत्वादिकं “प्रतिवन्धकवृत्तिधर्मः” प्रतिबन्धक तावच्छेदकं भवति । प्रतिबन्धकता च निश्चयत्वावच्छिना । तथा च तदुमः

विशेष्यतानिरूपितवत्सम्बन्धावच्छिन्नत मावच्छिप्रकारताशा लिबुद्धि- स्वावच्छिद्यप्रतिबध्य नानिरूपिततत्सम्बन्धावच्छित मविच्छिन्नप्रतियोगिताका- arrafats तादृशप्रतियोगिताका मावव्याप्यवत्तानिश्चयस्य च प्रति-

तर्क-सङ्ग्रहः

१८०.

बन्धकत्वम् । रक्षणार्थस्तु यद्विषयकत्वेन दोषविषयकत्वेन । ज्ञानस्य : दोपज्ञानस्य । तत्करणेति । अनुमितिकारणेत्यर्थः । यथा वन्ह्यभाववद्वृत्ति- प्रमेयत्वविषयकत्वेन ज्ञानस्य वन्द्यभाववद्वृत्तिप्रमेयत्वमितिज्ञानस्य व न्ह्यभावव वृत्तिप्रमेयत्वमिति व्याप्तिज्ञानविशेधित्वमस्ति अतो वन्द्यभाववद्. वृतिप्रमेयत्वरूपो दोषो बोध्यः ।

यद्विषयकत्वेनेत्यत्र तृतीयार्थोऽवच्छेदकत्वम्, ’ तस्य यद्विषयकत्वेऽन्वयः । ज्ञानयेत्यत्र पष्ट्यर्थी fनिष्ठत्वम् तस्याऽपि यद्विषयकत्वेऽन्यः । यद्विषय- कत्थं च यद्रूपावच्छिन्न विषयतानिरूपित विषयित्वम्, विरोधिपदार्थस्याs- चच्छेदकत्वेऽन्वयः । तथा च ज्ञाननिष्ठाय द्रूपावच्छिन्नविषयतानिरूपितविष- यिता प्रकृतानुमितितत्कारणान्यतरनिष्ठप्रतिवध्यतानिरूपित प्रतिबन्धकताब- च्छेदिका तद्रूपवस्वं लक्षणम् इदो वन्हिमान् धूमादित्यत्र वन्ह्यभाववद्दे रक्षणसमन्वयः । तथा हि वन्ह्याभाववान् हूद इत्याकारकज्ञाननिष्ठा या वन्ह्यभाववद्दत्वावच्छिन्न दिपयतानिरूपित्तविषयिता साहृदो वन्हिमानित्य- नुमितिप्रतिषन्धकतावच्छेदिका भवति तद्रूपवत्वस्य वन्द्यभाववद्दे सत्वात् । ज्ञानपवं अनाहार्याऽप्रामाण्यज्ञानानास्क दित निश्चयपरम् । तेन आहार्याप्रामा- व्यज्ञानास्कन्दितज्ञानसंशयानादाय नासम्भवः । वाचसत्प्रतिपक्षासा- धारणादिपु व्याप्तिवारणायानुमितीति । व्यभिचारादावव्याप्तिवारणाय तत्कारखेति । हेत्वाभासनिरूपणप्रयोजनमाह । निग्रहायेति । पराजया- येत्यर्थः । स्वस्य विजयायेति यावत् । विजयश्च पराहङ्कार खण्डनम् । अहमु- स्कृष्ट इति ज्ञानं वा । इदमुपलक्षणम् । तत्वनिर्णयायेत्यपि बोध्यम् ।

दी० - अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम् । गं० - अनुमितीति अनुमितेः प्रतिबन्धकं अनुमितिप्रतिबन्धकम् ।

टि० १ तच्च स्वव्यापकतत्कत्वम् तथाचाऽनाहार्याऽप्रामाण्यज्ञानानास्क न्दिन- निश्वयवृत्तित्व विशिष्ट यद्रूपावच्छिन्नविषयिताव्यापिका प्रकृतानुमितित्व व्यापक प्रतिवध्यता- विरूपित प्रतिबन्धकता तद्रूपवत्वं समुदितार्थः ।

[[१८१]]

टीकात्रयोपेतः

अनुमिनिनिष्ठप्रनिवध्यतानिरूपितवनिबन्धनावदित्यर्थः । अनुमितिपदं च रक्षः साध्यवान सायाकारकसमूहावनानुमिनिपरम् । वाधादिसङ्ग्रह साध्यवानिति । व्यभिचारादिसङ्ग्रहाय साम्यव्याप्यनुमा

1 निनि अनुमिनिनियन्धकं च तवार्थज्ञानं नि अनुमितिवित्रकथा- ज्ञानम् । तस्य विषयः तस्य तदनन्त्रमिति । एवं च हो मानिन्यत्र बन्धनाद्दे लक्षणसमन्वयः तथा हि । अनुमितिः-दो वन्दिनान् दिव्यान्यमवति समूहाना-तत्यतिवन्धकं यद् यथार्थज्ञानं नन्यभाववाद इत्याकारकं तद्विषयत्वस्य वन्द्य भाववद्दे सत्वादिति । एवं धूमवान् वरित्यत्र धूमाभाववदवृनिवन्हिरूपव्यभिचारेऽपि । तथा हि । अनुमितिः-नो धूमवान् श्रमव्याप्यवहिमातिसमूहानामिका ।

यद्यधार्थज्ञानं भृमानाववद्वृत्तियन्हिरित्याकारकं ज्ञानं “प्रभि चारनिश्चयस्य व्याप्तिज्ञानाशे प्रनिवन्धकवात्” तद्विपयलस्य धूमाभाववद वृनिहि रूपव्यविचारे सम्वादिति । पर्वतो हिमान धूमादिश्यत्र वन्य नावे- निव्याप्तिः पर्वतां वन्हिमानित्यनुमितिप्रतिबन्धकं यत्पर्वनो बन्हा नाववानित्या arrier शानं त्विस्य भावे सत्वान् । अतो यथार्थेति । यथार्थ पदोपादाने तु पर्वतो बन्हा नाश्वानिति ज्ञानस्य यथार्थवासावानाति- व्याप्तिः । तथा च प्रकृतरक्षनावच्छेदकावच्छिन्न विशेष्यतानिरूपितसाध्यता- वच्छेदकसम्बन्धावच्छिन्न साध्यतावच्छेदकावच्छिन्नप्रकारताशालिनी अथ च साध्यतावच्छेदकावच्छिन्ननिरूपितव्याप्तिविशिष्टहेतुतावच्छेदकावच्छिन्नप्रकार- नाशालिनी या अनुमितिः तादृशानुमितिवव्यापक प्रतिवध्यतानिरूपितप्रति- चन्धकनाशालियथार्थज्ञानविषयत्वं समुदितार्थ इत्यन्यत्र विस्तरः ।

soufभचारोऽनैकान्तिकः । स त्रिविधः- साधा-

२० १ न च तथापि अनुमितित्र नैवन्च कयथार्थविषयत्वमित्येवोच्यतां किं ज्ञानादेनेति वाच्यम् । पर्वतो वन्हिमानित्यत्र कामिनोज्ञानेऽतिव्याप्तेः । कामिनीजि- इनायाः कामिनाज्ञानान्यज्ञानमात्रे प्रतिवन्ध नया नियन्त्रस्य कामिनोज्ञाने सत्वादिति ।

तर्क -सङ्ग्रहः

१=२

रणाऽसाधारणानुपसंहारिभेदात् । तत्र साध्याभाव- ववृत्तिः साधारणोऽनैकान्तिकः । यथा पर्वतोऽग्निमान् प्रमेयत्वात् इति । प्रमेयत्वस्य वन्ह्यभाववति हृदे विद्यमानत्वात् ।

सव्यभिचारं विभज्य दर्शयति साधारयेति । साधार- साद्यन्यतमत्वं सव्यभिचारसामान्यलक्षणम् । साधारणत्वं साध्या- भाववद्वृत्तित्वम् । वन्दिमान् प्रमेयत्वादित्यत्र प्रमेयत्व हेतौ वन्ह्यभाव- ववृत्तित्वरूपव्यभिचारे ज्ञाते वन्ह्यभाववदवृत्तित्व रूपव्याप्तिज्ञान- प्रतिबन्धः फलम् ।

दी० - सव्यभिचारं विभजते स त्रिविध इति । साधारणं लक्षयति तत्रेति । उदाहरति यथेति ।

गं० - मूले । श्रनैकान्तिक इति । एकान्ते साध्यवत्येव वर्त्तते इति ऐकान्तिकः । न ऐकान्तिकः अनैकान्तिकः । साध्याभाववद्वृत्तिरिति यावत् । तत्र । साधारणाऽसाधारणानुपसंहारिषु मध्ये । साध्याभाववद्वृत्ति. रिति । साध्यस्याऽभावः साध्याभावः साध्याभावो यत्रास्तीति साध्याभाववान्, साध्याभाववतो वृत्तिर्यस्येति साध्याभाववद्वृत्ती तस्य भावः साध्याभाववद्- वृत्तित्वम् यः पर्वतो वन्हिमान् प्रमेयत्वादित्यत्र साध्यो वहिः साध्याभावो वन्ह्यभावः तदधिकरणं हृदः तनिरूपितवृत्तित्वं प्रमेयत्वे इति लक्षणसमन्वयः । तथा च प्रमेयत्वं वन्ह्यभाश्वद्वृत्तीति निश्चयः प्रमेयत्वं वन्ह्यभाववदद्दत्तीति व्याप्तिबद्धौ प्रतिबन्धकः एवं साध्यतावच्छेदके हेतुमनिष्ठाभावप्रतियोगिता- वच्छेदकत्वमपि व्यभिचारः । एवं च वव्हित्वं प्रमेयत्ववष्टिष्ठाभावप्रतियो. गितावच्छेदकमिति व्यभिचारनिश्चयः वन्हित्वं प्रमेयत्वव निष्ठाभावप्रतियो- गितानवच्छेदकमिति “सिद्धान्त व्याप्तिघटक” व्यापकताबद्धौ विरोधीति ।

[[१८३]]

ataraयोपेतः

यद्यपि साध्यवदनित्ये सति साध्याभाववृतित्वमेव व्यभिचारो वाच्यः । अन्यथा विरुद्धेऽतिव्याप्तिः स्थान, तथापि मन्यन्नमनुपदेयमन्त्र, विरुदम्य साधारणरि अन्यभावात, उपधेयसङ्करेऽपि उपाधेराङ्कन queerate पार्थक्याच्चेनि ध्येयम् । मूळे विद्यमानत्वादित्यनन्न साधारणानैकान्तिकत्वं तस्प्रेति पुरणीयम् ।

सर्वसपत्तविपक्षव्यावृत्तः पदमात्रवृत्तिरसाधा- रणः । यथा शब्दोऽनित्यः शब्दत्वादिति । शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यो व्यावृत्तं शब्दमात्र- वृत्ति ।

न्या० - असाधारण इति सर्वसपक्षव्यावृत्तत्वं निश्चित साध्य- वदवृत्तित्वम् । साध्यवदवृत्तित्वं च साध्यासामानाधिकरण्यम् । eat साध्या सामानाधिकरण्ये निश्चिते साध्य सामानाधिकरण्यरूप- व्यामिज्ञानप्रतिबन्धः फलम् ।

दी० – असाधारणं लक्षयति - सर्वेति ।

गं० - श्रसाधारणं लक्षयतीति । सपक्षाच विपक्षाचेनि सपक्ष विपक्षाः । सर्व च ते पक्षविपक्षाचेति सर्वपक्षविपक्षाः " सपक्षश्च निश्चितसाध्यवान्, विपक्षञ्च निश्चिनसाध्याभाववान्” तेभ्यो व्यावृत्तः “तदधिः” इति । तथा च सर्वनिश्चिनसाध्यवदवृत्ति वे सति सर्वनिश्चित साध्याभाववदवृत्तित्वे सति पक्षवृत्तित्वमसाधारणस्य लक्षणम् । वहिमान, धूमादित्यत्र धूम हेतोः सर्वविपक्षव्यावृत्तत्वेनाऽतिव्याप्तिवारणाय प्रथमसत्य न्तम् । तत्रापि सर्वपदं तत्रैत्र धूमहेताः तिव्याप्तिवारणाय, धूमहेतोः भयो- गोल्कादिरूपयत्किचित्स पक्षव्यावृत्तत्वात् । सर्वपदात्सपक्षनिरूपितवृत्तित्व- सामान्याभावलाभः । पर्वतो वहिमान् पर्वतदान्यतरस्यादित्यादौ ताह- शान्यतरत्वे “साधारणव्यभिचारिणि” अतिव्याप्तिः तादृशहेतोः सपक्षव्या-

तर्क - सङ्ग्रहः

[[१८४]]

वृन्दतो द्वितीयसत्यन्तम् । तादृशहन्तोरपि कासाररूपयत्किचिद्विपक्षव्या- वृतत्वादतिव्याप्तिवारणाय सर्वपदम् । विपक्षवृत्तित्व सामान्याभावनिवेश- लाभार्थम् । अवृत्तिगगनादिहतावतिव्याप्तिवारणाय विशेप्यदलम् । लक्ष्यं दर्शयति । यथेति । अत्र शब्दः पक्षः । नित्यत्वं साध्यम् । शब्दत्वं हेतुः । अत्र सपक्षाः आकाशादयो नित्याः । विपक्षाः अनित्याः घटादयः तदुभय- व्यावृत्तं शब्दत्वम्, पक्षमात्रवृत्ति चेत्याह । शब्दत्वं हीति । अत्र प्रथम- सत्यन्तदले निश्चितत्वं न देयम्, एवं द्वितीयसत्यन्तमपि न देयम्, दूषक- तायामनुपयोगात् । एवं च साध्यवदवृनित्वमेवाशिष्टमित्याह । साध्यवद- वृतिवचेति । अयं हेतुः साध्यसामानाधिकरण्याभाववानिति निश्चयस्य व्याप्तिघटकीभूतसाव्य सामानाधिकरण्यज्ञाने विरोधित्वमिति ।

अन्वयव्यतिरेकदृष्टान्तर हितोऽनुपसंहारी । यथा सर्वमनित्यं प्रमेयत्वादिति । अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति ।

न्या० - अनुपसंहारियां लक्षयति अन्वयेति । उभयत्र दृष्टान्ता- भावादन्वयव्याप्तिज्ञानव्यतिरेकव्याप्तिज्ञानोभयसामग्री नास्तीत्यर्थः । सर्वस्यैव पक्षत्वात् पक्षातिरिक्ताप्रसिद्धेरिति भावः । वस्तुतस्तु अत्यन्ताभावाप्रतियोगिसाध्यकत्वमेवानुपसंहारित्वम् इति बोध्यम् ।

दी० अनुपसंहारियो लक्षणमाह । श्रन्वयेति ।

गं० - मूले । श्रन्वयेति । अन्ययदृष्टान्तरहितत्वे सति व्यतिरेकदृष्टा- न्तरहितत्वमनुपसंहारिणो लक्षणम् । श्रन्वयः । अन्वयव्याप्तिः । व्यतिरेकः व्यतिरेकभ्याप्तिः । तथा चाऽन्वयव्याप्तौ व्यतिरेकव्याप्तौ च दृष्टान्तरहितो यो हेतुः सोऽनुपसंहारीत्यर्थः । केवलान्वयिनि सतौ अतिव्याप्तिवारणाया- न्वयदृष्टान्तरहितत्वोपादानम् । केवलव्यतिरेकिणि अतिव्याप्तिवारणाय विशेष्यदलम् । उदाहरति । यथेति । अत्र सर्व पक्षः अनित्यत्वं साध्यम् ।

Ru

टीकात्रयोपेतः

प्रमेयत्वं हेतुः । नान्यत्राऽन्वयव्याप्ती व्यतिरेकव्याप्त च दृष्टान्तसम्भव इत्याह अत्रेति । प्रमेयत्व लिङ्गानुमानं इत्यर्थः । सर्वस्यापीति । अपि एवकारार्थे सरस्यैव पक्षत्वादित्यर्थः । साध्यवत्वेन सन्दिह्यमानन्वादिति यावत् । दृष्टान्तोनास्तीति । क्षातिरिकम्य traत्वादिति भावः सर्वत्र साध्य- सन्देहे काप्यन्वयव्यतिरेकसष्टचार निश्चयाऽसम्भवन व्याप्तिनिश्चयप्रतिबन्धक- नैवेतस्य फलम् । इदं तु प्राचीनतम् । सहचाराऽग्रहः सहचारनिश्चये एव साक्षाविरोधी, नाप्यनुमिनी तत्कारणे वा परम्परया व्याप्तिज्ञानविरोधिचे- पि साक्षाद्विरोधिनः एव हेत्वाभासत्वात् । एवं च नोक्ताऽनुपसंहारित्वस्य हेवाभाव इति प्राचीनमने दोषमनुसन्धाय नव्यमतेनाह । वस्तुतस्त्विति । तथा च साध्यमत्यन्ताभावाऽप्रतियोगीति निश्चयः

तिरेकयातिज्ञाने प्रतिवन्धक इति भावः ।

साध्याभावव्याप्तो हेतुर्विरुद्धः ॥ यथा शब्दो नित्यः कृतकत्वादिति । कृतकत्वं हि नित्यत्वाभावेना- ऽनित्यत्वेन व्याप्तम् ।

न्या० - विरुद्धं लचयति साध्याभावण्यात इति । साध्याभाव- व्याप्तिः साध्याभावनिरूपितव्यतिरेकव्यामिः साध्यव्यापकीभूताभाव- प्रतियोगित्वम् । तथा च पक्षविशेष्यक साध्याभावव्याप्यहेतुप्रकारक- ज्ञानान् । पक्षविशेष्यकसाध्य प्रकार कानुमितिप्रतिबन्धः फलम् ।

दी० - विरुद्धं लक्षयति । साध्येति ।

गं० - मूळे साध्याभावेति । साध्यस्याभावः साध्याभावः । प्रति- योगित्वं पष्ट्यर्थः । साध्यप्रतियोगिकामात्र इत्यर्थः । तेन व्याप्तः व्याप्तः व्याप्तिमान । व्यतिरेकव्याप्तिमानिति यावत् । साध्यस्य व्यतिरेकव्याप्तिः साध्याभावघटिता, यथा वन्द्यभावव्यापकीभूताभावप्रतियोगित्वं वन्हेष्यति- रेकव्याप्तिः । अत्र तु साध्याभावस्य व्यतिरेकव्याप्तिः साध्याभावाभावघटिता।

तर्क - सङ्ग्रहः

[[१८६]]

साध्याभावाभावस्व साध्यरूपतया साध्यघटितेति यावत् । तामेवाह साध्यव्यापकीभूतेति । यत्र यत्र साध्याभावाभावः तत्र तत्र हेत्वभावः इति व्यतिरेकसहचारो बोध्यः । व्यापकस्याभावो व्याप्यो भवति, व्याप्यस्या- भावो व्यापको भवतीति नियमः । व्यापकश्चात्र हेत्वभावः तदभावो हेतुव्र्व्याप्यः, व्याप्यश्व साध्याभावाभावः, साध्यम्, तदभावः " साध्याभावः” व्यापकः । तथा च साध्याभावव्याप्तो हेतुरिति लक्षणं सम्पन्नम् । साध्यव्यापकीभूता- भावप्रतियोगित्वमिति यावत् । उदाहरति । यथेति । अत्र शब्दः पक्षः । नित्यत्वं साध्यम् । कृतकत्वं हेतुः । " कृतकत्वं च कार्यस्वम् । " नित्यत्वं तत्र तत्र कृतकत्वाभाव इति सहचारवलेन साध्यीभूतनित्यत्वव्या- पकीभूतो योऽभावः कृतकत्वाभावः तत्प्रतियोगित्वं कृतकत्वे इति लक्षण- समन्वयः । अत्र नित्यत्व व्यापकीभूताभावप्रतियोगिकृतकत्वरूपो विरोधो दोषः । तद्ज्ञानं “नित्यत्वव्यापकीभूताभावप्रतियोगिकृतकत्वं इत्याकारक” कृतकत्वमान शब्द इति पक्षधर्मताज्ञान सहकारेण शब्दो नित्य इत्याकारका नुमितिविरोधि, तादृशज्ञानस्य साध्याभावानुमितेः कारणात्। विरोधित्व- सुपपादयति । तथा चेति । साध्याभावव्याप्येति । साध्याभावनिरूपित- व्यतिरेकव्याप्तिमदित्यर्थः । तथा च साध्याभावाभाव “साध्य” व्यापकीभूता- भावप्रतियोगिहेतु प्रकारकज्ञानादित्यर्थः । शब्दो नित्यत्वव्यापकीभूताभाव प्रतियोगिकृतकस्ववानिति ज्ञानादिति यावत् । पक्षविशेष्यकेति । शब्दो नित्यः, इत्याकारकानुमितिप्रतिबन्धः फलमित्यर्थः ।

न्या० - एवं सत्प्रतिपक्षेऽपि । विरुद्धसत्प्रतिपक्षयोविंशेषस्तु विरुद्ध हेतोरेकत्वेन सत्प्रतिपक्षहेतोद्वित्वेन च ज्ञातव्यः । सत्प्रविपक्षे द्वौ हेतू, विरुद्धे एको हेतुरिति यावत् । साध्याभावसाधकहेतुः साध्यसाधकत्वेनोपन्यस्त इत्यसामर्थ्य सूचनमपि ।

गं०- एवं सत्प्रतिपक्षेऽपीति । यथा विरोधनिश्वयस्य साध्या- भावानुमितिसामग्रीत्वेन साध्यानुमितिप्रतिबन्धः फलम्, तथा साध्याभाव-

[[१८७]]

टीकात्रयोपेतः

व्याप्यहेतुमान् पक्षः इत्याकारकसत्प्रतिपक्षनिश्चयस्याऽपि साध्याभावाऽनु. मितिसामग्रीत्वेन साध्यानुमितिप्रतिबन्धः फलमिति भावः । ननु तहि कथमनयोर्भेद इत्यत आह । विशेषस्त्विति । तथा च हेतुभेदे सत्प्रति- पक्षः । हेत्वैक्ये विरोध इति भावः । भेदकान्तरमपि दर्शयति । साध्या. भावेति । तथा च सत्प्रतिपक्षे द्वितीयो हेतुः साध्याभावसाधकः । विरुद्धस्थले तु वस्तुगत्या साध्याभावसाधके हेतावेव साध्यसाधकत्वभ्रम इत्यसामर्थ्य सूचकग्वम् । तथाचाऽसामर्थ्य सूचकत्वमेव भेदसाधकमितिभावः ।

यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः । यथा शब्दो नित्यः श्रावणत्वात् शब्द- त्ववत् । शब्दोऽनित्यः कार्यत्वात् घटवदिति ।

दी० - सत्प्रतिपक्षं लक्षयति यस्येति ।

गं०- सन् विद्यमानः प्रतिपक्षः “प्रकृतसाध्याभावसाधकी भूतोऽन्यो. हेतुः” यस्येति व्युत्पत्या लभ्यमेवार्थ स्पष्टीकरोति । मूले । यस्येति । यत्पदं प्रकृतपक्षपरम् । सम्बन्धित्वं पष्ट्यर्थः । तस्य साध्येऽन्वयः । तथा च प्रकृत- पक्षसम्बन्धि यत्साध्यं तदभावव्याप्य हेत्वन्तरस्य ज्ञानं प्रकृतपक्षेऽस्ति सः सत्प्रतिपक्ष इति । तथा च साध्याभावव्याप्यहेतुमान् पक्षः इति निश्चयः पक्षः साध्यवानित्यनुमितिविरोधी । सत्प्रतिपक्षस्तु साध्याभावव्याप्यहेतु- मत्पक्ष रूप एव । उदाहरति । यथेति । अत्र शब्दः पक्षः नित्यत्वं साध्यम् । श्रावणत्वं हेतुः । श्रावणत्वं च श्रोत्रेन्द्रियजन्य प्रत्यक्षविषयत्वम् । नित्यत्वव्या- प्य श्रावणत्ववान् शब्द इति परामर्श एव सत्प्रतिपक्षनिश्चयः । तद्विषयीभूतो नित्यत्वव्याप्यश्रावणत्ववच्छब्दरूपः सत्प्रतिपक्षः । एतनिश्चयश्च शब्दोऽनित्य इत्यनुमितौ विरोधी । द्वितीये शब्दः पक्षः । अनित्यत्वं साध्यम् । कार्यत्वं हेतुः, अनित्यत्वव्याप्यकार्यध्ववान् शब्द इति परामर्शः, स एव सत्प्रतिपक्ष निश्चयः । तद्विषययीभूतोऽनित्यत्वव्याप्य कार्यत्ववच्छब्दरूपः सम्प्रतिपक्षः ।तर्क -सङ्ग्रहः

CE

एतनिश्चयश्च शब्दो नित्य इत्यनुमितौ विरोधी । एवं परस्पराऽभावव्याप्य. वत्ताज्ञानात्परस्परानुमितिप्रतिवन्धः फलम् । तथा च स्वसाध्यविरुद्ध साध्या- भावव्याप्यहेतुप्रकारतानिरूपितपचतावच्छेकावच्छिन्नविशेष्यताशालिनिश्चय- कालीन प्रकृतसाध्यव्याप्यहेतुप्रकारतानिरूपितपक्षतावच्छेदकावच्छिन्न विशेष्य- ताशालिनिश्चयविषय इति फलितम् । सत्प्रतिपक्षश्चाऽनित्यदोषः । विरोधि - परामर्शकाले सद्धेतोरपि सत्प्रतिपक्षितत्वादिति ध्येयम् । केचित्तु विरोधि- परामर्शकालेऽपि जलादिहेतोरेव सत्प्रतिपक्षितत्वम्, न तु धूमादिहेतोरिति सम्प्रतिपक्ष दोषो नित्य ए, अन्यथा वाधस्याऽप्यनित्यदोषत्वापत्तेरिति वदन्ति ।

सिद्धस्त्रिविधः । श्रयासिद्धः, स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति । श्राश्रयासिद्धो यथा गगनार- विन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् इति । ear गगनारविन्दमाश्रयः स च नास्त्येव ।

न्या० - श्रश्रयासिद्ध इति । श्राश्रयासिद्धिर्नामपक्षे पक्षता- वच्छेदकविरहः । यथेति । अत्रारविन्दे गगनीयत्वाभावे निश्चिते गगनीयत्वविशिष्टारविन्दे सौरभानुमितिप्रतिबन्धः फलम् ।

दी० – श्राश्रयासिद्धमुदाहरति - गगनेति ।

गं० - श्रपासिद्ध्याद्यन्यतमत्वमसिद्धिसामान्यलक्षणम् । असिद्ध- भेदमाह त्रिविध इति । पक्षे पक्षतावच्छेदकविरह इति । पक्षता- वच्छेदकाभाववत्पक्षत्वं वा आश्रयासिद्धिः । अत्र गगनारविन्दं पक्षः । सुरभिवं साध्यम् । अरविन्दत्वं हेतुः । गगनीयत्वं पचतावच्छे दकम् । गगनीयत्वाभाववदरविन्दरूपाऽऽश्रयासिद्धिः । तनिश्वयः “गगनीयत्वाभाव- वदुरविन्द मिल्याकारकः " गगनारविन्दमिति पक्षज्ञाने विरोधी । तथा च पक्षघटिततया अनुमितौ परामर्श च प्रतिबन्धक इति ध्येयम् । स च नास्येवेति । अरविन्दस्य गगनीयत्वं नास्तीत्यर्थः ।

[[१८६]]

स्वरूपासिद्धो यथा शब्दोऽनित्वश्चाक्षुषत्वात् रूपवदिति । अत्र चाक्षुषत्वं पक्षे नास्ति शब्दस्य श्रावणत्वात् ।

न्या - स्वम्पासिद्ध इति । स्वरूपासिद्धिर्नाम पचे हेत भावः । तथा च हेत्वभावविशिष्टपक्षज्ञानान् पक्षविशेष्य कहेतुप्रका- रकपरामशीनुपपत्त्या परामर्शप्रतिबन्धः फलम् ।

दी० — स्वरूपासिद्धमुदाहरति– शब्द इति ।

गं० - स्वरूपं हेतुः । तस्यासिद्धिः, तस्याऽभावः तद्वान् । हेतुरि त्यर्थः । पक्षे हेत्वभाव इति । हेत्वभाववत्पक्षत्वं वा स्वरूपासिद्धिः । अत्र शब्दः पक्षः । अनित्यत्वं साध्यम् । चाक्षुपत्वं हेतुः । चाक्षुषत्वाभाव- वच्छब्दरूपा स्वरूपाऽसिद्धिः । एतन्निश्वयः “चाक्षुत्वाभाववान् शन्द surance:” परामर्श विरोधी ।

एतस्या एव भेदो भागाऽसिद्धिः । सा च पक्षतावच्छेदकसामानाधि करण्येन हेतोरभावः । यथा शब्दोऽनित्यः संयोगजन्वादिति । अत्र शब्द- शब्दे हेतोरभावः । स्वरूपासिद्धिस्तु पक्षतावच्छेदकावच्छेदेन हेतोरभाव इति विशेषः ।

सोपाधिको हेतुर्व्याप्यत्वासिद्धः । साध्यव्याप- कत्वे सति साधनाव्यापकत्वमुपाधिः । साध्यसमा- नाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापक- त्वम् । साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साध- नाव्यापकत्वम् । यथा पर्वतो धूमवान् वन्हिमत्वात्, हत्यत्रार्द्रेन्धनसंयोग उपाधिः । तथाहि । यत्र धूम-

टि०

१ तद्वत्ता च हेतौ स्वज्ञान विषयप्रकृत हेतुतावच्छेदकवत्व सम्बन्धेन ।

तर्क-सङ्ग्रहः

[[१६०]]

स्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकत्वम् । यत्र वन्हिस्तत्रान्धनसंयोगो नास्ति योगोलके आर्द्रे- न्धनाभावात् इति साधनाव्यापकत्वम् । एवं साध्य- व्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः । सोपाधिकत्वाद् वन्हिमत्वं व्याप्यत्वा- सिद्धम् ।

गं० - व्याप्यत्वस्याऽसिद्धिर्यस्मात्स व्याप्यत्वासिद्धिः, उपाधिरेव । उपाधिश्व व्यभिचारित्वसम्बन्धेन हेतौ वर्तते, तथा चोपाधिमान् हेतुव्र्व्याप्य Easies इत्यर्थः । हेतौ व्यभिचारित्व सम्बन्धेनोपाधिमत्वम् व्याप्यत्वासि- दस्य लक्षणम् । साध्यव्यापकतां निर्वति । साध्यसमानाधिकरणेति । साध्याधिकरणवृत्तीत्यर्थः । " यथा धूमवान् वम्हेरित्यत्र” साध्यो धूमः साध्याधिकरणं पर्वतादिः तत्र वर्त्तते योऽत्यन्ताभावः " धूमाधिकरणे भाई- न्वन संयोगाभावो गृहीतुं नैव शक्यते धूमे आर्द्रेन्धनसंयोगस्य सहकारि- वात् किन्तु " घटाभाव एव तत्यतियोगित्वं घटे, अप्रतियोगिवं आहे- न्धनसंयोगे, इति आर्द्रेन्धनसंयोगस्य साध्यध्यापकत्वम् । साधनाऽध्याप- कावं निर्वति । साधनेति । यथा तत्रैव साधनं वन्हिः तदधिकरणमयो- गोलकं तत्र वर्त्तते योऽय्यन्ताभावः आर्द्रेन्धनसंयोगाभावः तत्प्रतियोगित्वस्य आन्धन संयोगे विद्यमानत्वादाद्वैन्धनसंयोगस्य साधनाव्यापकता । या- erent उपाधिरस्ति तादृशाहेतुमुदाहरति । यथेति । उपाधौसाध्य व्यापक- नाग्राहकाऽन्वय सहचारं दर्शयति । यत्र धुम इति । उपाधौ साधनव्याप- कवन्तु नास्ति साधनम्यापकताग्राहक सहचाराऽभावाद, इति साधना- व्यापकत्वं निर्विवादमेवेति आर्द्रेन्धन संयोगस्योपाधित्वं सम्प्रतिपन्नमित्याह । एवमिति । उपाधिविशिष्टत्वेन वन्हिमवहेतोर्व्याप्यत्वासिद्धत्वमित्याह । सोपाधिकत्वादिति ।

[[१६१]]

न्याः व्याप्यत्वासिद्ध इति । प्रकृते धूमव्यापकत्वमार्द्रेन्धन- मन्त्रगृहीतं चेद्धू आहेत्वनयोगव्याप्यत्वं गृहीतम् । एवं न्हेयापक मान्न संयोगे गृहीतं चेद् वन्हौ व्याप्यत्वं गृहीतम् तदेव व्यभिचरितन्त्रम् । तथा चानाविव्यभिचरितत्वं साधने गृहीतं चेदुपाधिभूतान्धनसंयोगव्याण्यधूमध्यभिचरितत्वं गृहीतमेत्र अनु मानकारश्च पूर्वानुमानहेतुं पत्रीकृत्य वन्हिधूमव्यभिचारी धूमच्या- पकान्नसंयोगव्यभिचारित्वान् घटत्वादिवत् यो यत्साध्यव्यापक- व्यभिचारी म सर्वोऽपि साध्यव्यभिचारीति बोध्यः एवम्प्रकारेण प्रकृत मानहेतुभूते पत्ते साध्यव्यभिचारोत्थापकतया दूपकत्वमुपाधेः फलम् । तथा च धूमाभाववद् वृत्तित्व रूपधूमव्यभिचारे गृहीते वन्द क्षमाभाववदवृत्तित्वरूप व्याविज्ञानप्रतिबन्धः फलम् ।

दी० - व्याप्यत्वासिद्धस्य लक्षणमाह सोपाधिक इति उपाध चणमाह साध्येति ।

,

गं० - एवमिति । उपाधिः साध्यव्यापको भवति । “व्यापकः त्यतिवारी भवति यथा धूमव्यापको वन्हिः धूमव्यभिचारीच” हेतुस्तु aurat arrest भवति “व्यभिचारी भवतीति यावत्” हेतुर्यदि उपाधि- व्यभिचारी स्यात् तदा साध्यव्यभिचारी अपि स्यात् । व्यापकव्यभिचारिणो व्याप्यव्यभिचारावश्यकत्वात् । तदेवाह । वन्हरिति । तद्व्याप्यत्वम् । उपाध्यव्याप्यव्यम् । व्यापकत्वमिति यावत् । तदेव । अभ्याप्यत्वमेव । गृहीतमेवेति । व्यापकव्यभिचारिणो व्याप्यव्यभिचारावश्यकत्वादिति भावः । पक्षे वहाँ । एवं सत्प्रतिपक्षोत्थापनमपि उपाधेः फलम् यथा अयोगोलकं धूमवद्वन्हेरित्यत्र अयोगोलकं धूमाभाववद् धूमव्यापकाऽऽ- न्धनसंयोगाभावादिति ध्येयम् ।

दी० - उपाधिश्वतुर्विधः । केवलसाध्यव्यापकः, पक्षधर्मावच्छि-

तर्क-सङ्ग्रहः

[[१६२]]

असाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छि असाध्यव्यापकश्चेति । श्रद्य श्रन्धनसंयोगः । द्वितीयो यथा- " वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात्” इत्यत्र वहिर्द्रव्यत्वावच्छिन्न- प्रत्यक्षत्वव्यापक मुद्भूतरूपवत्वम् । तृतीयो यथा- प्रागभावो वि नाशी जन्यत्वात् इत्यत्र जन्यत्वावच्छिन्नाऽनित्यत्वव्यापकं भाव- त्वम् । चतुर्थस्तु ‘अत्यन्ताभावो विनाशी प्रमेयत्वान्’ इत्यत्र जन्य- त्वावच्छिन्नाऽनित्यत्वव्यापकं भावत्वम् ।

गं० यूनतापरिहाराय उपाधि विभजते । उपाधिश्चतुर्विध इति । श्राद्यः । केवलसाध्यव्यापकः । श्राधनसंयोग इनि । धूमवान् कहे- frees आन्धनसंयोग इत्यर्थः । धूमत्वमात्रावच्छिन्नस्य व्यापक इत्यर्थः । द्वितीयः । पक्षधर्मावच्छिन्नसाध्यव्यापक इत्यर्थः । पक्षवृत्ति यत्किचिद्धर्मा- वच्छिन्नसाध्यव्यापक इयर्थः । वायुः प्रत्यक्षः प्रत्यक्षस्पशश्रियत्वादित्यत्र उपाधी साध्यव्यापकत्वविरहेऽपि पद्मधर्मवहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापक- स्वमस्त्येवेति नोपाधिभङ्गप्रसङ्गः। एतेन उद्भूतरूपवत्वं नोपाधिः, साध्यध्या- पकत्वविरहात् साध्यस्य आत्मनि सत्वात् तत्रोपाधेरभावादिति पूर्वपक्षः समाहितः । तृतीयः । साधनावच्छिन्नसाध्यव्यापकः । प्रागभावो विनाशी वन्यत्वादित्यत्रेति । अत्र भावत्वमुपाधिः । तस्य केवलसाध्यव्यापकत्वाभा वात् जन्यत्वस्य पक्षावृत्तित्वेन पक्षधर्मावच्छिन्न साध्यव्यापकत्वाभावात्, भावत्वे निरुकोपाधियलक्षणं न सभवतीति तृतीयोपाधिलक्षणस्याऽवश्यक- सेति ध्येयम् । चतुर्थस्तु । उदासीनधर्मावच्छिन्नसाध्यध्यापक एवेत्यर्थः प्रमेयत्वादिति । भयं हेतुर्जन्यत्वस्योदासीनत्व सम्पादनाय भावत्वमिति । चतुर्थोपाधिरिति पूर्वेणान्वयः । नात्र भावस्वरूपोपाधौ निरुक्तोपाधिलक्षण-

सम्भवः । araar केवलसाध्यव्यापकत्वाभावात् जन्यत्वस्याऽत्यन्ता- भावाऽवृतिखेन पक्षधर्मावच्छिन्नसाध्यव्यापकत्वाभात् जन्यत्वस्य प्रकृत- साधनमिनत्वेन साधनावच्छिश्च साध्यव्यापकत्वाभावाच्चेति ध्येयम् । इदमुप-

[[१६३]]

टोकाश्रयोपेतः

लक्षणम् । कचित्साधनश्यापकोऽपि उपाधिः । यथा करका पृथिवी aforinacafter अनुष्णाशीतस्पर्शवत्वम् । एवं व्याप्यनवच्छेदक- हेतुतावच्छेदकत्वं म्बाऽसिद्वेक्षणम्, यथा पर्वतो वन्हिमान् नीलधूमा- दिन नीलम

न आप्यतावच्छेदकत्वम्, स्वसमानाधिकरणः कृतसाध्य- व्याप्यतावच्छेदकधर्मान्तराध्वटितस्यैव व्याप्यतावच्छेदकत्वात् स्वं “गुरुधर्मो finger तत्समानाधिकरणं अथ व प्रकृतसाध्यव्याप्यतावच्छेदकं यद् धर्मान्तरं वं घटितत्वेन तद्घटितत्वाभावात् नीलधूमत्वरूपव्याप्यत्वा- सिद्धौ क्षणमन्वयः ।

एवं साध्याप्रसिद्धि साधनाप्रसिद्धी अपि व्याप्यत्वाऽसिद्धावेवाऽ- न्तर्भूते । तत्र साध्ये साध्यतावच्छेदकाभावः साध्या सिद्धिः । यथा पर्वतः काञ्चनमयन्हिमान् धूमादित्यत्र काञ्चनमयत्वाभाववान् वन्हिरिति निश्चयस्य काञ्चनमयवन्हिरिति साध्यज्ञाने विरोधितया साध्यघटितत्वेन अनुमितौ व्याप्तिज्ञाने परामर्शे विरोधित्वम् ।

eat हेतुतावच्छेदकाभावः साधनाऽप्रसिद्धिः यथा पर्वतो वन्हिमान् काञ्चनमयधूमादित्यत्र काञ्चनमयत्वाभाववान् धूमः इति निश्चयस्य काञ्चन मयधूमः इति हेतुज्ञाने विरोधितया हेतुघटितत्वेन व्याहिज्ञाने परामर्शे विरोधित्वमिति ।

यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स वाघितः । यथा वन्हिरनुष्णो द्रव्यत्वादिति । अत्रा- नुष्णत्वं साध्यं, तदभाव उष्णत्वं स्पार्शनप्रत्यक्षेण गृह्यत इति वाधितत्वम् । व्याख्यातमनुमानम् ।

इति तर्कसङ्ग्रहे अनुमानपरिच्छेदः ।

न्याः – यस्येति । ‘यस्य’ हेतोः । ‘साध्याभावः ’ साध्यवाधः । प्रमाणान्तरेण प्रत्यक्षादि प्रमाणेन । पक्षे निश्चितः स बाधित इत्यर्थः ।

तर्क - सङ्ग्रहः

[[१६४]]

तथा च प्रात्यक्षिकसाध्यवाधनिश्वये जाते साध्यानुमितिप्रतिबन्धः फलम् । वाधितसाध्यकत्वाद् वाधितहेतुरित्युच्यते ।

न्यायवोधिन्यामनुमानपरिच्छेदः ।

दी० — वाधितस्य लक्षणमाह । यस्येति ।

गं० - पक्षे साध्यभावः, साध्याभाववत्पक्षो वा वाघ इत्यर्थः । यथा aat fearfares न्ह्यभाग्वद्दः, इदवृत्तिवन्ह्यभागे वा वाघः । इदो वन्ह्यभाववान्, हृदे वन्ह्यभावः इति निश्चयो वा हृदोन्हिमानित्यनुमितौ विरोधी । अत्र वन्ह्यभाववद्दो वाधः । एतादृशदोपवत्वस्य हेतौ सत्वान् दुर्वाधित इत्युते । तौ दोपवत्यं च स्वविषयकज्ञान विषय प्रकृतहेतुता- वच्छेदकत्वसबन्धेन । स्वं बन्ह्यभाववद्दादिरूपो दोषः स्वविषयकं यद्- ज्ञानं वन्ह्यभाववान् हुदो धूमश्चेति समूहालम्बनात्मकं ज्ञानम् । तद्विषयीभूतं यद् " हेतुतावच्छेदकं” धूमत्वं तत्त्वं धूमे । तथा च एतादृशसम्बन्धेन बन्ध- भाववदवान् धूम इति धूमे वाघित्वम् । सर्वत्र दोषवत्वमेतादृशसम्बन्धे- नैव प्राह्मम् । ज्ञानं च दोप- हेतुविषयकसमूहालम्बनरूपं ग्राह्यम् ।

एवमुत्पत्तिकालावच्छिन्नघटो गन्धवान् पृथिवीत्वादित्यत्र, मूला- aforest वृक्षः कपिसंयोगीत्यत्र च गन्धाभाववदुत्पत्तिकालावच्छिन्नघटरूपः, कपिसंयोगाभाववन्मूलावच्छिन्नवृक्षरूपश्च बाधो बोध्य इति ।

अत्र सामानाधिकरण्येनानुमितिं प्रति अवच्छेदावच्छेदेन वाघनिश्चयः प्रतिवन्धकः । अत्रच्छेदावच्छेदेनानुमितौ तु सामानाधिकरण्येन बाधनि- श्रयः, अवच्छेदावच्छेदेन वाधनिश्चयश्श्रोभयं प्रतिबन्धकमिति ध्येयम् ।

दी०- - अत्र वाघस्य प्राह्यभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम् । इतरेषां परामर्शप्रतिबन्धकत्वम् । तत्रापि साधारणस्याऽव्यभिचाराभावव- वया विरुद्धस्य सामानाधिकरण्या भाववत्त्या, व्याप्यत्वासिद्धस्य न्वया,

[[१६५]]

विशिष्टव्यात्य भाववत्तया

श्रसाधारणानुरसंहारिणोज्यानि संशया-

aran व्याविज्ञान र

प्रविद्धियो. उपाधिस्तु व्यभिचारज्ञानद्वारा

साधनं तु पचताविकतया श्रश्र-

निग्रहस्थानान्तरमिति नवीनाः ।

पचधर्मताज्ञानतिबन्धकच व्याविज्ञानविकः ।

यासिद्धान्तर्भवतीति प्रायः

[[०]]

इत्यनुमान परिच्छेदः ।

f

दाणकनावीजं दर्शयनि अत्रेति । दोषपञ्चक- मध्यं यः वाघस्य । वाधनिश्वयस्य । ग्राह्याभावनिश्चयत्वेनेति । प्राद्यस्य " साध्यस्य” यो भावस्तद्विषयकवेन्वर्थः । साध्याभावविपयक- वेनिया अम्य साक्षादनुमिनिप्रतिबन्धकग्वमिति परेणान्वयः । सत्प्र- तिपक्षस्येति । साध्याभावव्याप्यहेतुमान्पक्षः इति निश्चयस्येत्यर्थः । विरोधिज्ञानसामग्रीत्वेनेति । साध्याभावानुमितिसामग्रीत्वेन यथः तद- भावव्याप्यवत्तानिश्वयत्वेनेति यावत् । इतरेषाम् । बाधसत्प्रतिपक्षभिन्ना- नाम् । तादृशदोपनिश्चयानामिति यावत् । परामर्शप्रतिबन्धकत्वमिति । अत्रापि साक्षादित्यनुषज्यते । तत्रापि । बाघसन्प्रतिपक्षदोषभिन्नेष्वपि । सिद्धसाधनन्त्विति । अवधारणार्थकस्तु शब्दः । आश्रयासिद्धावित्युत्तरं योजनीयः । पक्षताविघटकतया । सिद्ध्यभावरूपपक्षतावि घटकतया । श्राश्रयासिद्धावन्तर्भवतीति । आश्रयासिद्वावेवान्तर्भवतीत्यर्थः । नवी ना इति । न्यूनाधिकापसिद्धान्तवत् वास भिन्नमेव निग्रहस्थानं तदित्यर्थः । इति गङ्गायामनुमानपरिच्छेदः ।

उपमितिकरणमुपमानम् । सञ्ज्ञासञ्ज्ञिसम्बन्ध- ज्ञानमुपमितिः । तत्करणं सादृश्यज्ञानम् । तथाहि- कश्चिद् गवयपदवाच्यमजानन् कुतश्चिदारण्यक - पुरुषाद् " गोसदृशी गवय” इति वाक्यं श्रुत्वा वनं

तर्क-सङ्ग्रहः

[[१६६]]

गतो वाक्यार्थ स्मरन् गोशदृशं पिण्डं पश्यति । तद्- नन्तरम् ‘अयं गवयपदवाच्यः’ इत्युपमितिरुत्पद्यते । इत्युपमानम् ।

इति तर्कसङ्ग्रहे उपमानपरिच्छेदः ।

न्याः – उपमानं लक्षयति- उपमितिकरणमिति । उपमिति लक्षयति सञ्ज्ञासञ्ज्ञीति । सञ्ज्ञा नाम पदम् । सञ्ज्ञी अर्थः । तयोः सम्बन्धः शक्तिः । तथा च पदपदार्थसम्बन्धज्ञानमुपमितिरित्यर्थः । उपमानं नामातिदेशवाक्यार्थज्ञानम् । अतिदेशवाक्यार्थस्मरणं व्यापारः । उपमितिः फलम् । गोसदृशो गवय इत्याकारकवाक्याद् गोसादृश्यावच्छिन्नविशेष्य कगवयपदवाच्यत्वप्रकारकं यज्ज्ञानं जायते तदेव करणम् ।

इति न्यायबोधिन्यामुपमानपरिच्छेदः ।

दी० — उपमानं लक्षयति । उपमितीति ।

इत्युपमानपरिच्छेदः ।

गं० - मूले । उपमितिकरणमिति । उपमितेः करणमुपमितिकर णम् । निरूपितत्वं षष्ट्यर्थः । तथा चोपमितिनिरूपित करणयसुपमानस्य लक्षणम् । सम्बन्धज्ञानमिति । शक्तिप्रकारकज्ञानमेवोपमितिरित्यर्थः । शक्तिश्च वाध्यचरूपा ‘वाचकः पदं भवति, अर्थो वाच्यो भवति वाध्यत्व भर्ये निष्टति” उपमित्याकारस्तु गवयो गवयपदवाच्य इति । अत्र गवयो विशेष्यः, गवयपदवाच्यत्वं प्रकारः । तथा च शक्तिप्रकारकज्ञानत्वसत्वा-

Kes

मन्त्रयः । तत्करमिति । उयमितिकरणमित्यर्थः । सादृश्य- ज्ञानमिति । व्यक्तिविशेष्य कसाहस्य कारकनिश्चय इत्यर्थः । स च भय गोमद हत्याकारकः । व्यापारara अतिदेशवाक्यार्थस्मृतिः । प्रक्रिय

तथाहीत्यादिना । कश्चिदिति । ग्रामीण इत्यर्थः । गवय- पदवाच्यमिति । गवयार्थमित्यर्थः । श्रजानन्निति । विशेषरूपेण ज्ञानशून्य इत्यर्थः । विशेष गवाजिज्ञासया यं कञ्चनाऽऽरण्य- कमुद्दिश्य कीटशी गवयदार्थ इति प्रश्नानन्तरमिति शेषः । कुतश्चिदिति । यस्माकमाचिदित्यर्थः । इति वाक्यं श्रुत्वेति । गोसाहःया वच्छिक - विशेष्यकगवयपदवाच्यत्वप्रकारक शाब्दबोधानन्तरमित्यर्थः 1 वाक्यार्थ स्मरनिति । मरिष्यन्नित्यर्थः । स्मरणस्य दर्शनोत्तरमाविश्वाद्यथाश्रुताऽसं- गतः । वस्तुतस्तु गोसदृशं पश्यन् वाक्यार्थ स्मरतीत्येत्रपाठः साधुः । पश्य- तोति । अयं गोसदन इनि चाक्षुषवान् भवतीत्यर्थः । तदनन्तरं । प्रत्य क्षानन्तरम् । श्रयं गवयपदवाच्य इति । इदन्वावच्छिनविशेष्यतानि- रूपित गवयपदवाच्यत्वप्रकारताशालिज्ञानमुपमिनिः । इयं व प्राचीनमतम् : नवीनमते गवयो गवयपदवाच्य इत्युपमितिः । गवयस्वच्छिन्न विशेष्यता- निरूपित गवयपदवाच्यत्वप्रकारनाशालिज्ञानमिति यावत् । प्राचीनमतानु- सरणे इच्छिक शक्तिप्रहेऽपि गवयान्तरे शक्तिप्रदाभावप्रसङ्गादिति । ‘इदमुपलक्षणम् । वैधम्र्योपमितिमपि स्वीकुर्वन्ति टीकाकृतः । तत्र वैधर्म्य - विशिष्टपिण्डदर्शनं करणम् । जलादिविधर्मगुणवती पृथिवीत्यतिदेशवाक्यार्थ- स्मरणं व्यापारः । पृथिवी पृथिवीपदवाच्येत्युपमितिः फलमित्यपि बोध्यम् ।

इति गङ्गायामुपमान परिच्छेदः ।

आसवाक्यं शब्दः श्राप्तस्तु यथार्थवक्ता । वाक्यं पदसमूहः । यथा गामानाय शुक्तां दण्डेनेति ।

न्या० - शब्दं लक्षयति । श्राप्तेति । श्राप्तोरितत्वे सतितर्क-सङ्ग्रहः

[[१६८]]

वाक्य शब्दस्य लक्षणम् । प्रमाणशब्दत्वं लक्ष्यतावच्छेदकम् । वाक्यत्वमात्रोको अनाप्तोश्चरितवाक्येऽतिव्याप्तिः, अत आप्तचरित- त्वनिवेशः । तावन्मात्रोक्तौ जवगड़दशादावतिव्याप्तिरतो वाक्यत्वम् ।

त्वं च प्रयोग हेतुभूतयथार्थज्ञानवत्वम् । तथा च प्रयोगहेतुभूत- यथार्थज्ञानजन्यशब्दत्वमिति पर्यवसितोर्थः । वस्तुतस्तु पदज्ञानं करणम वृत्तिज्ञानसहकृत पदज्ञानजन्य पदार्थोपस्थितिर्व्यापारः । वाक्यार्थज्ञानं शाब्दबोधः फलम् ।

दी० - शब्दं लक्षयति । श्राप्तेति । वाक्यं लक्षयति । वाक्यमिति ।

गं० - शब्दं लक्षयतीति । शब्दविशेष्यकलक्षणस्वरूप प्रामाण्यप्रका- रकज्ञानानुकूलशब्दप्रयोगानुकूलकृतिमान् मूलकार इति बोधः । मूले ! श्राप्तवाक्यमिति। आप्तस्य वाक्यं आप्तवाक्यम्, सम्बन्धित्वं षष्ठ्यर्थः । सम्बन्धश्च उच्चरितत्वरूपः । श्राप्तवाक्यमिति । भावप्रधानो निर्देशः फलि - नार्थमाह । श्राप्तोच्चरितत्वे सतीति । शब्द इति लक्ष्यनिर्देशः । शब्द्यते व्यज्यते शाब्दबोधविजयीक्रियते अर्थों अनेनेति शाब्दप्रमाकरणं तदर्थः । प्रमाणशब्द इति यावत् । ननु आष्ठः इष्टजनः तदुच्चरितत्वे सति वाक्याव- रूपै शब्दप्रमाणलक्षणमनुपपत्रम्,

इष्टजनोच्चरितवाधितार्थवाक्येऽति याते- रित आह । श्राप्तत्वं चेति । प्रयोग हेतुभूतं यद् यथार्थज्ञानं तद्वत्व- मित्यर्थः । वुबोधयिषया वाक्यप्रयोगं प्रति वाक्यार्थज्ञानस्य हेतुत्वालक्षण- सङ्गतिः । निष्कृष्टार्थमाह । तथा चेति । शाब्दबोधे जननीये पदस्याss- सोचरितत्वं नापेक्षणीयम् शाब्दबोधविलम्बस्तु योग्यताज्ञानविलम्बादेव, एवं च वाक्यत्वमेवावशिष्टम्, तदेवाह । वस्तुतस्त्वित्यादिना । पदज्ञानमिति सावधारणम् तेन ज्ञायमानं पदं न करणमिति सूचितम् । तस्य करणत्वे मौनिलिखित श्लोकादौ शाब्दबोधानुपपत्तिः स्यात्, तत्र पदाभावादिति ध्येयम् । व्यापारमाह । वृप्तिज्ञान सहकृतेति । वृत्तिज्ञान सहकृता या पदज्ञानजन्य- पदार्थोपस्थितिः सैव व्यापार इत्यर्थः । पदार्थोपस्थितेः पदज्ञानजन्यत्वात्,

,

[[१६६]]

टीकाप्रयोपेतः

पदज्ञानजन्य शाब्दबोधजनकत्वाच व्यापारम् । ननु पदार्थोपथिनेः कथं । पन्धो वृतिः । वृत्तिरुपसम्बन्धस्य एकसम्बन्धिज्ञानमपरसम्बन्धिस्मा-

ज्ञानजन्यमिति सम्पदा । तथा

कमिति राया पाक सम्बन्धिनो ज्ञानस्य पदार्थ रूपाऽपरसयन्त्युपस्थिति- जनक पदार्थोपस्थः पदज्ञानजन्यत्वं सिद्धम् । उपस्थितिश्च स्मृतिः । न च तथापि पास्थितव्यापारत्वमनुपपन्नमेव तस्या. पदज्ञानजन्यत्वे - विज्ञानजन्यधजनकत्वस्य नियुकिकत्वादिति वान्यम् । अगृही- नशकिकानां पारसीकादि शब्दानां ज्ञानादरि तदर्थविषयक शाब्दबोधापत्तेः पज्ञानस्य सन्वान । अतः पदार्थोपस्थितः शान्दोष जनकत्वमा श्यकम्, तथा च नोकायतिः पदार्थोपस्थितिरूपकारणविरहात् । एवं पदार्थोपस्थितेः शाब्दबोधजनकत्वेन व्यापारत्वं सूपपादमेवेति ध्येयम् । न च तथापि पदार्थों- पति वृनिज्ञानकृतस्वनिवेशनं किमर्थमिति वाच्यम् । यत्र आदौ azaari ततः समवायेन घटपदाधिकरणतयाऽऽकाशस्य स्मरणं ततः narrer शाब्दबोधापतेः । तन्निवेशे तु आकाशोपस्थितेः “घटपद” वृत्तिज्ञानजन्यत्वाभावाच घटपदाधीनाऽऽकाशोपस्थितिस्थले आकाशविषयक- शाब्दबोधापत्तिः । उपस्थितौ पदजन्यश्वस्याऽनिवेशे तु पदज्ञानवतः प्रत्यक्षा- दिना पदार्थोपस्थतावपि शाब्दबोधापत्तेः । वाक्यार्थज्ञानमिति । वाक्यस्या र्थः वाक्यार्थः । षष्ठ्यर्थः प्रतिपाद्यत्वम्, वाक्यप्रतिपाद्यार्थ इत्यर्थः । वाक्या- र्थस्य ज्ञानं वाक्यार्थज्ञानम, विषयित्वं षष्ठ्यर्थः । वाक्यार्थविषयकं ज्ञान- मित्यर्थः । शाब्दबोध इति यावत । स एव फलमित्यर्थः । तथा च पदज्ञानं करणम् । पदजन्यपदार्थोपस्थितिर्थ्यापारः शक्तिज्ञानं सहकारिकारणम् ।

दि० १ तथा च हस्तिनो हस्तिपकस्य संयोगसम्बन्धसत्वे यथा हस्तिदर्शने हस्ति- पकस्मरणं, तथा पदपदार्थयोः सम्बन्धज्ञानसत्वे पदश्रवणोत्तरं श्रर्थस्मरणमनुभवसिद्धम्, इति वृत्तिरूनसम्बन्ध ज्ञानमिव सबन्धिज्ञानविषया पदज्ञानमपि पदार्थोम्पस्थितौ कारणमिति '

भावः ।

[[2]]

तर्क-सङ्ग्रहः

[[२००]]

शाब्दबोधः फलम् । मूले । वाक्य पदसमूह इति । साकाङ्क्षपदसमूहस्वं वाक्यस्य लक्षणमित्यर्थः ।

न्या०–

  • वृत्तिर्नाम शक्तिलक्षणान्यतररूपा । शक्तिर्नाम घटा- दिविशेष्यक घटादिपदजन्यवोधविषयत्वप्रकारक केश्वरसङ्केतः । ईश्वर- सङ्केतो नाम ईश्वरेच्छा, सैत्र शक्तिरित्यर्थः । शक्ति निरूपकत्वमेव पढ़े शक्तत्वम् । विषयतासम्बन्धेन शक्त्याश्रयत्वम् अर्थे शक्यत्वम् ।

गं० - “शक्तिलक्षणान्यतरनिष्ठ” वृत्तित्वं च पदप्रतियोगिकार्थानु. योगिकसंवन्धत्वम् । अर्थ प्रतियोगिकपदानुयोगिक सम्बन्ध वा । सा वृत्तिः शक्तिरूपा, लक्षणारूपा चेति । शक्तिश्च अस्माच्छन्दादयमथबोद्धव्य इतीश्व- रेच्छारूपा, लक्षणारूपा । शब्दादित्यत्र पञ्चम्यर्थो ज्ञानजन्यत्वम् । तस्य बुधधात्वर्थे बोधेऽन्वयः । तव्यप्रत्ययार्थो विषयत्वम् । तथा च एतच्छदज- न्यबोधविषयतावानयमर्थो भवतु इत्याकारकेच्छायां एतत्पदजन्यबोधविषयत्वं प्रकारः, अर्थो विशेष्यः । अमुमेवार्थमाह । शक्तिर्नामेति । एवं चेश्वरेच्छा त्वमेव तत्पदवाच्यस्वम् । ईश्वरेच्छावत्ता च स्वीयतत्पदजन्यबोधविषयत्व निष्टप्रकारतानिरूपितविशेष्यतासम्बन्धेन । एतेन ईश्वरेच्छायाजगन्मात्रविषय- कवेन घटपदजन्यबोधविपयत्वप्रकारक भगवदीच्छीयविशेष्यतायाः पटेऽपि सत्वेन पटे घटपदवाच्यत्वापत्तिः, एवं गङ्गापदजन्यबोधविषयकप्रकारकभग- वदिच्छी विशेष्यतायास्तीरे सत्वेन लक्षणोच्छेदापत्तिश्चेति दूषणद्वयमपास्तम् । ईश्वरेच्छाया ऐक्येपि उक्त सम्बन्धेनेश्वरेच्छायास्तत्राभावात्, विशेष्यताया विशेष्यभेदेन मिश्रत्वात् । लक्षणास्थळे गङ्गापदजन्यो बोधो भवतु तीरं च च बोधविषयो भवतु इतीच्छास्वीकारेण गङ्गापदजन्यबोधविषयतास्वावच्छिन- प्रकारतानिरूपित विशेष्यता वास्तत्राऽभावादिति ध्येयम्। शक्तिनिरूपक- त्वमिति । निरुकविशेष्यतासम्बन्धेन पदनिरूपिता शक्तिः अस्ति शक्तिसं- बन्धस्य पदं निरूपकम् । आश्रयोऽर्थ इति । अथवा तत्पदविशिष्टत्वमेव तत्पदवाच्यत्वम् । वै० स्वजन्यबोधविषयतात्वावच्छिन प्रकारतानिरूपितेश्वरे-

[[२०१]]

च्छीयविशेष्यतासम्बन्धेन । एतादृशसम्बन्धस्य परं प्रतियोगि, अर्थोऽनुयो • गीति आधेयः प्रतियोगी । आवारोऽनुयोगीनि प्रवादात । यथा संयोगसम्ब- नवस्य घटः प्रतियोगी, भूतलं वाऽनुयोगीति ।

न्याः–शक्य सम्बन्धो लक्षणा । सा द्विविधा । गौणी शुद्धा- चेति । गौणी नाम सादृश्यविशिष्टे लक्षणा । यथा सिंहो माणवक seerat feeपदस्य सिंहसादृश्यविशिष्टे लक्षणा । शुद्धा त्रिविधा । जहदक्षणा श्रजलतरणा-जहदजहल्लक्षणा चेति । लक्ष्यतावच्छेदक- रूपेण लक्ष्यमात्रवोधप्रयोजिका जहल्लक्षणा । यथा गङ्गायां घोष इत्यत्र गङ्गापवान्यवाहसम्बन्धस्य तीरे सत्वात्तादृशशक्य सम्बन्ध रूपलक्ष- गाज्ञानाद गङ्गानदात्तीरोपस्थितिः । लक्ष्यतावच्छेदकरूपेण लक्ष्य- शक्योभयबोधप्रयोजिका श्रजहल्लक्षणा । यथा काकेभ्यो दधिरक्ष्य- तामित्यत्र काकपदस्य दध्युपघात के लक्षणा, लक्ष्यतावच्छेदकं दध्युपधातकत्वम् तेन रूपेण दध्युपघातकानां सर्वेषां काकविडाल - कुक्कटसारमेयादीनां शक्यलक्ष्याणां बोधात् । जहदजहल्लक्षणा च जीवब्रह्मणोरैक्यं श्रुवतां वेदान्तिनां मते । सा च शक्यतावच्छेदक- परित्यागेन व्यक्तिमात्रबोधप्रयोजिका । यथा तत्त्वमसीत्यत्र सर्व- ज्ञत्व किञ्चिज्ञत्वपरित्यागेन व्यक्तिमात्रबोधनात् ।

}

गं०- शक्यसम्बन्धी लक्षणेति । स्वशक्यसम्बन्ध इत्यर्थः । स्वं गङ्गापदं तच्छक्यः प्रवाहः तत्सम्बन्धस्तीरे इति गङ्गापदसम्बन्धिवं तीरेऽस्तीति, एकसम्बन्धिज्ञ नमपर सम्बन्धिस्मारकमितिरीत्या गङ्गापदात्तीरोपस्थितिः । ततः तीरविषयकशाब्दबोधः । स च तीरवृत्तिर्घोष इत्याकारकः । लक्षणाज्ञाने तात्प- र्यानुपपनिः कारणम् । तथा च तद्धर्मावच्छिन्न विशेष्य कलक्षणा कारकज्ञानस्य तद्वर्मप्रकार स्मृति प्रति कारणत्वम् । यथा तीरत्वावच्छिन्नविशेष्यकं यल- क्षणाज्ञानं तीरं गङ्गापदशक्य सम्बन्धीत्याकारकं तत्तीरोपस्थितौ कारणम् ।

तर्क - सङ्ग्रहः

[[२०२]]

अत्रापि सर्वविषयकत्वनिर्वाहार्थं ईश्वरेच्या कल्प्या । सा च गङ्गापदजन्यो बोधो भवतु, तीरं वोधविषयो भवतु इति समूहालवनात्मिका । एवं च बोधांशे गङ्गापदजन्यस्वावगाहितया तीरांशे च बोधविषयत्वावगाहितया चेश्वरेच्छायाः सर्वविषकत्वोपपत्तिः । गौणीनामेति । तद्भिन्नत्वे सति तद्ग- तभूयोधर्मवत्वं साक्ष्यम्, तदात्मकः शक्यसम्बन्धो गौणीत्यर्थः । दध्यु. पघातकत्वमिति । दधिनाशकत्वमित्यर्थः । काकेभ्य इत्यत्र जन्यत्वं पञ्च- म्यर्थः । व्यापारो नाशानुत्पत्तिश्च धात्वर्थः । अनुत्पत्तौ प्रयोज्यतासम्बन्धेन व्यापारस्याऽन्वयः । तथा च दध्युपवासकजन्यनाशोत्पत्तिप्रतियोगिकः

स्वरक सकव्यापारप्रयोज्यो योsभावस्तदधिकरणं दधीति बोधः काकेभ्यो दधि रक्ष्यतामित्यस्य । जीवब्रह्मणोरैक्यं ब्रुवतामिति । लक्षणाया अस्वीकारे परोक्षचैतन्याऽपरोक्ष चैतन्यवाचकयोः “सर्वंशत्यकिञ्चिज्ञत्ववाचकयोश्च” तत्त्वमोः सामानाधिकरण्यानुपपत्या ऐक्यं न स्यादिति भावः ।

इदमुपलक्षणम् । लक्षितलक्षणाऽप्येको भेदो लक्षणायाः । सा च परम्परासम्बन्धरूपा । यथा द्विरेफपदस्य अमरे लक्षणा । अत्र स्ववाच्यरेफ- ara feaपदवा व्यस्वरूपः परम्परासम्बन्धः । स्वं द्विरेफपदम् तद्वाच्यं रेफ- द्वयम्, तदुद्घटितं पदं भ्रमरपदम् तद्वाच्यत्वं भ्रमरे इति ।

शक्तं पदम् ।

दी० - पदलक्षणमाह । शक्तमिति ।

गं० - पदलक्षणमाहेति । पदविशेष्यकलक्षणप्रकारकज्ञानानुकूल- व्यापारानुकूलकृतिमान् मूलकार इति बोधः । मूले शकं पदमिति । शत्वं पदस्य लक्षणम् । शक्तत्वं च शक्तिनिरूपकत्वम् । निरूपकता संव- वेन शक्तिविशिष्टत्वमिति यावत् ।

इदमत्र वक्तव्यम् । पदं चतुर्विधम् । यौगिक रूढ योगरूढ यौगिक- रूढमेदात् । यत्राऽवयवार्थ एव बुध्यते तद्यौगिकम् । यथा पाचकादिपदम् । मन्त्र धात्वर्थः पाकः । प्रत्ययार्थः कर्त्ता । तथा च पाककर्त्ता इति बोधः ।

[[२०३]]

टीकात्रयोपेतः

यत्रावयवाशनिनिरपेक्षया समुदायशक्या बोधः तम् । यथा गोपदम् । अवयवार्थविषयक बोधजनकतावच्छेदिका सती स्वार्थबोधजनकतावच्छेदिका यानुपूर्वी तादृशानुपूर्वीत्पदं योगरूढम् । यथा पङ्कजपदम् । यत्र यौ. freeartः स्वाध्येण बोधः तद्योगिकरूढम् । श्रोद्भिदादिपदम् । यौगिक बनिये । यागविशेषे रुद्रम् ।

अम्मात्पदादयमर्थी बोद्धव्य इतीश्वरसङ्केतः

शक्तिः ।

दीः – अर्थस्मृत्यनुकूल पदार्थसंवन्धः शक्तिः । सा च पदार्था- न्तरमिति मीमांसकाः । तन्निरासार्थमाह । अस्मादिति । डित्यादि- पदानामिव घटादिपदानामपि सङ्केत एव शक्तिः न तु पदार्थान्तर- मित्यर्थः ।

·

गं०– अर्थस्मृत्यनुकूलेति । अर्थस्य स्मृतिः अर्थस्मृतिः । अर्थवि- यकस्मृतिरित्यर्थः । अत्र अर्थात अव्यावरीकम, अर्थाऽविषयक स्मृतेरप्रसिद्धः । अनुकूलत्वमिह प्रयोजकत्वम्, तच्च कारणतावच्छेदकाऽनुध्यन्यथा सिद्धिचतुष्ट- शून्यत्वे सति कार्यनियनपूर्ववृत्तित्वम् कारणतावच्छेदकसाधाधारणम् । तेन पदाथपस्थितौ शक्तिज्ञानम्य शक्तिमत्पदज्ञानस्य वा कारणत्वेन शक्ति- रूपसम्बन्धस्य शाब्दबोधजन कोपस्थितिजनकत्वाभावेऽपि कारणतावच्छेदक- स्वरूपाऽनुकूलन्त्रमक्षनमेवेति । तथा च शाब्दबोध जन को पस्थित्यनुकूलत्वे सति पदपदार्थसम्बन्धत्वं शक्तिलक्षणम् कालिकादिसम्बन्धेऽतिव्याप्तिवारणाय सत्यन्तम् । पदेऽतिव्याप्तिवारणाय विशेष्यदलम् । न च लक्षणायामतिष्या- प्तिरिति वाच्यम् । लक्षणाभिनत्वेनाऽपि विशेषणीयत्वात् । सा च । शकिश्च । पदार्थान्तरमिति । न तु ईश्वरेच्छारूपेति यावत् । तन्निरा- सार्थमिति । मीमांसकमतनिराकरणाय कृप्तपदार्थेष्वन्तर्भावमाहेत्यर्थः । मूळे । अस्मात्पदादिति । ईश्वरसङ्केतः । ईश्वरेच्छा । न च शक्त रीश्वरे-

तर्क -सङ्ग्रहः

[[२०४]]

च्छारूपत्वं घटे घटपदशक्तिर्न स्यात्, ईश्वरेच्छायाः घटाद्यवृत्तित्वादिति वाच्यम् । विषयतासम्बन्धेन तस्याः घटे सव्वात् । न चेश्वरेच्छायाः सर्व त्रिपयकतया घटविषयकेच्छाया विषयतया वस्तुमात्रसाधारण्येन वस्तुमात्रे एव घटपदस्य शक्त्यापत्तिरिति वाच्यम् । दत्तोत्तरत्वात् ।

इदमुपलक्षणम् । इदं पदममुमर्थं बोधयतु इत्याकारिका भगवदि- च्छाऽपि शक्तिः । अर्थमित्यत्र द्वितीयार्थी विषयित्वम् धात्वर्थो बोधः । णिजय जनकस्वम् । तथाचेदं पदं एतदर्थविषयकत्रोधजनकतावद् भवतु इति " एतदर्थविषयक शेधजनकत्वप्रकारकएतत्पदविशेष्यको” भगवत्सङ्केतः । अयं च सङ्केतः पदनिष्ठः । तथा चेश्वरेच्छावत्वं बाचकत्वम् । इच्छावत्ता च एतदर्थविषयक बोधजनकत्वप्रकारतानिरूपितत्वीय विशेष्यता सम्बन्धेन । पदे अर्थशिष्टत्वं araaraमिति यावत् । वै स्वविषयक बोधजनकत्व प्रकारतानि- रूपितेश्वरेच्छीय विशेष्यतासम्बन्धेनेति । अयं च सङ्केतः पदानुयोगिक अर्थ- प्रतियोगिकः । पदार्थोपस्थितौ उभयविधशक्तिज्ञानमेव सहकारीति ध्येयम् ।

दी० - गवादिशब्दानां जातावेव शक्तिः, विशेषणतया जातेः प्रथममुपस्थितत्वात्, व्यक्तिलाभस्तु आक्षेपादिति केचित् । तन्न । गामानयेत्यादौ वृद्धव्यवहारेण सर्वत्राऽऽनयनादेर्व्यक्तावेव सम्भवेन जातिविशिष्टव्यक्तावेव शक्तिकल्पनात् ।

गं० - जातिशक्तित्रादिमीमांसकमतं निरसितुं तन्मतमाक्षिपति । गवादिशब्दानामिति । आदिना घटादेः परिग्रहः । जात्यवच्छिन्नवाचक- शब्दानामित्यर्थः । जातावेव शक्तिरिति । एवकारेण व्यक्तौ आकृतौ वा शक्तिव्यवच्छेदः । जातौ शक्तिस्वकारे युक्तिमाह । विशेषणतयेति । प्रकारतयेत्यर्थः । विशिष्टबुद्धौ विशेषणज्ञानस्य हेतुतया जातिरूपविशेषणज्ञानं बिना व्यक्तिभानाऽसम्भवात् । प्रथममुपस्थितत्वादिति । व्यक्तिभानार्थं न्यायमतेऽपि गोस्वस्य प्रथममुपस्थितत्वेनेत्यर्थः । नाऽगृहीतविशेषणा- बुद्धिर्विशेष्यमवगाहते इति न्यायात् । तथा च लाघवात् जाताचेव

[[૨૦૫]]

टीकात्रयोपेतः

शक्तिः, “विशेष्यं नाभिधा गच्छेत् क्षीणशक्ति विशेषणे इति तन्मत- सिद्धान्ताद व्यकौ न शतिरिति । इदमुपलक्षणम् । यस्यां कस्यां चि. aat after व्यभिचारः घटादिपदान् शक्तिमत्वेनाऽनिर्णीतव्य केरपि

ratnit आनन्यम्

बोध्यम् । नन्वेवं सुनिशा

[[4]]

शाब्दबोधादयेन तत्र शक्तिज्ञानरूपकारणविरहात् । सर्वासु व्यक्तिषु शक्ति- व्यक्तिभेदेनेश्वरेच्छाविष यत्वरूपशक्तिभेदादित्यपि व्यक्तिभानानुपपत्तिः, व्यक्तौ शक्तिर- हात, अन्यथा गवादिपशन घटादिविषयकशदबोधापरित्यत आह । व्यक्तिलाभस्त्विति । भ्यकः शाब्दबोधविषयन्त्रन्तु इत्यर्थः । अवधारणार्थक• शः आक्षेपादियुत्तरं योजनीयः । श्राक्षेपादिनेति । अर्थापचिप्रमा- णादिनेभ्यः । येन विना यदनुपपन्नं तत्तेनाऽऽक्षिप्यते इति न्यायः । अत्र व्यक्तिभानं विना जातिमानमनुपपन्नमित्यर्थापत्तिप्रमाणा १- क्युपस्थितिः । भादिना क्षणापरिग्रहः । तथाचार्थापत्तिप्रमाणेन लक्षणाज्ञानेन वा व्यक्त्युपस्थित्या व्यक्तेः शाब्दबोधसम्भवे व्यक्तौ शक्तिर्ना- ङ्गीकर्त्तयेति भावः ।

प्रथमतो व्यवहारादेव हि पदानां शक्तिनिश्चयः, व्यवहारश्चाऽऽनयना. दिरूपः । अनयनं च उत्तर देशसंयोगावच्छिन्नक्रियानुकूलव्यापार एव । कर्मता वाsa उत्तर देशसंयोगावच्छिनक्रियारूपा, तस्याः “व्यवहारस्य च”, जाताव सम्भवेन वृद्धव्यवहारात् जातिविशिष्टव्यक्तावेव शक्तिरवधार्यते इति समाधते । गामानयेत्यादाविति । सर्वत्रेति । एतस्य शक्तिकल्पनादि-

१ व्यतिरेक्यनुमानादिति यवत्। अनुमानप्रकारश्च कर्मत्वं गोवृत्ति गोत्व निष्ठ कर्मता, आनयनं मे वृतकर्मवाकं गोत्ववृत्तिकर्मताकत्वादिति वा यन्नैवं तन्नैवं घटत्वनिष्ठ कर्मनावन् ।

२ एनेन अर्थापत्तिप्रमाणाद व्यक्तेरूप स्थितावप व्यक्तेः शाब्दबोधविषयत्वाऽनुप- पत्तिः, वृत्तिज्ञान सहकृनपद जन्य पदार्थोपस्थितेरेव शाब्दबोधहेतुत्वादिति निरस्तम् । लक्ष-

ये उपस्थित्या शाब्दबोध इति ध्येयम् ।

तर्क-सङ्ग्रहः

[[२०६]]

त्युत्तरेणान्वयः । श्रानयनोदेरिति । प्रयोज्यवृद्वकर्तृकाऽऽनयना देरित्यर्थः । व्यक्तावेव सम्भवेनेति । जातिविशिष्टव्यक्तावेव वृत्तित्वेनेत्यर्थः । शक्ति - कल्पनात् । शक्तिकल्पनाया युक्तत्वादित्यर्थः । तथा च प्रयोज्यकर्तृ- arssनयनन्य गवि एव सम्भवेन तत्र जातिविशिष्टव्यक्तो शक्तिस्वीकारे ला- घवात् सर्वत्रैव जातिविशिष्टव्यक्तौ शक्तिकल्पनाया युक्तत्वादिति भावः ।

[[4]]

गामानयेत्यादौ गोत्वादेरानयन कर्मत्वाऽन्वयानुपपचिप्रनिसन्धानान् गोveer aft क्षणस्वीकारेऽपि गौरस्ति तां पश्येतादौ गोरखादेरस्तित्व- दर्शन कर्मत्रान्वयानुपपचिप्रतिसन्धान रूपलक्ष गावी जस्याभावेन तत्र गवि लक्षणायाः स्वीकर्तुमशक्यतयाऽनुभवसिद्धस्य व्यक्तिमानस्यानुपपतिश्चेत्यपि बोध्यम् । किं च तव गौः शक्येति शक्तिग्रहो यद्यभिमतः, तदा व्यक्तावेव शक्ति, यदि तु गोपदं गोवे शक “गोत्वं गोपदशक्यमिति वा " इति afteः, तदा गोवप्रकारकपदार्थस्मरणं “गोत्वप्रकारक स्मरणाभावात् “गो- स्वप्रकारकशबोधश्च न स्यात् तत्प्रकारकपदार्थोपस्थिति प्रति तत्प्रकारक शक्तिज्ञानस्य हेतुत्वात् तत्प्रकारकशाब्दबोधं प्रति तत्प्रकारकपदार्थोपस्थितेच हेतुत्वात् । त्वन्मते शक्तिज्ञानस्य गोवत्वप्रकारकत्वेन गोत्वप्रकारकत्वविर - हात् । किञ्च गोत्वे यदि शक्तिः, तदा शक्यतावच्छेदकं गोवत्वम्, गोस्वत्वं च गवेतरासमवेतत्वे सति सकलगोसमवेतत्वम्, तथा च शक्य- तावच्छेदकको गोousaीनामनुप्रवेशाद् महद्गौरवं च । अतो जात्याकृति- विशिष्टव्यक्तावेव गवादिपदानां शक्तिरिति सिद्धान्तः । जात्याकृतिव्यक्तयः पदार्थ इति सूत्रे पदार्थः इति एकवचनेन जात्याकृतिव्यक्ति एकैव शक्तिः । शक्त रनुगमकं व गोत्वादिकमतो न व्यभिचारो नवाऽऽनन्यमिति ध्येयम् ।

दी० - शक्तिप्रदश्च वृद्धव्यवहारेण । तथा हि व्युत्पित्सुत्रलो

टि०-१ न च गोपदं गोत्वे शक्तमिति शक्तिग्रहस्य गोत्वप्रकारकत्वान्न प्रका रक्त गब्दबोधानुपपत्तिरिति वाच्यम् । शक्तिम है यदशे गोत्वादिकारकत्वं शब्दबोधोऽपि तदेशे गोत्वादिप्रकारकत्वमित्ये नादृशसमान प्रकारकत्व सिद्धान्तितत्वात ।

“सामान्य” इत्युत्तमवृद्धवाक्यश्रवणानन्तरं मध्यमवृद्धस्य प्रवृत्तिमु पलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्ध वृनिजनकज्ञानम्याऽन्वयव्य- तिरेकाभ्यां वाक्यजन्यन्त्रं निश्चिय " श्रश्वमानय, गां वधान” इति वाक्यान्तरे वामद्वापाभ्यां गां पदस्य गोविशिष्टे शक्तिः, अश्व- पदस्याऽश्वत्वविशिष्ठे शक्तिरिति व्युत्पद्यते ।

[[०]]

पिपादयनि । शक्तिग्रहश्चेति । अनुक्त. समुग्रावरुध शब्दः । व्यवहारेणेत्युतरं योजनीयः । व्युत्पित्सुरिति । अर्थविशेषे शनिग्रहच्छावानित्यर्थः । बाल इति । गवादि- पत्र शेषे शकिज्ञानशून्य इत्यर्थः न तु स्तनन्धय इत्यर्थः । इत्युत्तमवृद्धवाक्यश्रवणानन्तरमिति । इन्याकारकं प्रयोजक. बग्नं वा नादशवाक्यप्रयोज्यशब्दबोधानन्तरमित्यर्थः । वृद्धे प्रयोजकत्वं अन्येच्छाधीनेच्छावे सति अभिज्ञावम् । मध्यमवृद्धस्येति । प्रयो- ज्यस्येत्यर्थः । अन्येष्ठाधनेच्छादभिज्ञस्थेति यावत् गवानयनं दृष्ट्वा प्रवृतिमुपलभ्य चेत्यन्वयः । उपलभ्येत्यस्य अनुमायेत्यर्थः । इदं गवानयन स्व “गवानयन” विषयकप्रवृतिजन्यं चेष्टात्वात् मदीयचेष्टावदित्यनुमायेति यावत् । सा “गवाननविषयकप्रवृत्तिः” स्वविषयधर्मिक कृतिसाध्यत्वप्रकारक - ज्ञानजन्या प्रवृत्तित्वात् मदीयप्रवृत्तिदित्यनुमानेन मध्यमपुरुषप्रवृत्तेर्ज्ञानज- न्यस्वं निश्चिनोति । ततः मध्यमवृद्धप्रवृत्तिजनकज्ञानस्येति । प्रयोज्यवृद्ध- समवेनं गवानयनानुकूलप्रवृत्तिजनक “गवानयनं मत्कृतिसाध्यं मदिष्टसाधनं चैत्याकारकं " गवानयन धर्मिक कृति साध्यत्वप्रकारकं इष्टसाधन प्रकारकं च ज्ञानं तस्प्रेत्यर्थः । तादृशज्ञानविशेष्यीभूतं यद्गवानयनं तद्ज्ञानस्येति यावत् । श्रन्वयव्यतिरेकाभ्यामिति । तादृश वाक्यश्रवणोत्सरं प्रवृत्ति- दर्शनाद वाक्यश्रवणा पूर्व प्रवृत्यदर्शनाचे यर्थः । वाक्यजन्यत्व- मिति । गामानयेनि वाक्यप्रयोज्यत्वमित्यर्थः । निश्चित्य । अनुमायेत्यर्थः । तथा च गवानयनविषयकं ज्ञानं असाधारण हेतुकं । कार्यस्वाद् घटवदित्यनु-

[[1]]

३तर्क- सङ्ग्रहः

[[२०८]]

मानेनाऽसाधारणहेतुकत्वे निश्चिते लाघवाद् वृद्धवाक्यमेव तादशज्ञाना. साधारणकारणमित्यवधारयति । अवधारणं च गामानयेति वाक्यं गोकर्मकाs. नयने शक्तं अन्वयव्यतिरेकानुविधायित्वादिति । ननु गोकर्मकाऽऽनयन ज्ञानस्य गामानयेति वाक्यजन्यत्वावधारणेऽपि गामिति भागस्याऽयमर्थः, आनयेति भागस्याऽयमर्थः इति विशिष्य ज्ञातुमशक्यमेवेति कथं व्यवहारादितो गवादिपदशक्तिग्रह इत्यत आह । इति वाक्यान्तरे इति । इत्याकारक- प्रयोजक वृद्धप्रयुक्तवाक्यान्तरे श्रुते सतीत्यर्थः । तदनन्तरं मध्यमवृद्धकर्तृकं गोबन्धनमश्वानयनं च वेति शेषः । श्रावापोद्वापाभ्यामिति । आनय- नबन्धनाभ्यामित्यर्थः । गोरेवाऽऽनयनबन्धनोभयवत्वात् अश्वस्यैवाऽऽनयन- ऽऽश्रयत्वाश्चेत्यर्थः । इति व्युत्पद्यते । इत्याकारकनिर्णयवान्भवतीत्यर्थः 1

दो० - ननु सर्वत्र कार्यपरत्वाद्वयवहारस्य कार्यपरवाक्ये एव व्युत्पत्तिः, न सिद्धपरे इति चेन्न " काञ्च्यां त्रिभुवनतिल को भूपतिः” इत्यादौ सिद्धेऽपि व्यवहारात् । विकसितपद्ये मधूनि पिवति मधु- करः इत्यादौ प्रसिद्धपदसमभिव्याहारात् सिद्धेऽपि मधुकरादिव्युत्प- चिदर्शनाच्च ।

गं० - अत्र प्रयोजकवृद्धोश्च रितगामानयेति वाक्यश्रवणाधीन शाब्दबोध- प्रयोज्यमध्यम पुरुष प्रवृत्तिजन्यगवानयनं दृष्ट्वा पूर्वोक्तरीत्या गवाऽऽनयनरूपं कार्य गामानयेति शब्दप्रयोज्यमिति समीपस्थो बालोऽवधारयति । ततो गां नयति प्रयोजकवृद्ध प्रयुक्तवाक्यश्रवणोत्तरकालीनशाब्दबोधप्रयोज्यमध्यम- पुरुषप्रवृधिजन्यगोनयनं दृष्ट्रा तादृशबालः प्रयोज्यवृद्धकतु कगोकर्मकनयनं प्रयोजकवृद्धोच्चरित “गां नयेति” शब्दप्रयोज्यमित्यनुमिनोति । एवं अश्व- मानयेति तदुच्चरितवाक्यप्रयोज्यं प्रयोज्य वृद्धकतं काऽश्वकर्मकाऽऽनयनमित्यु- ‘करीत्याऽनुमिनोति एवं गोकर्मकबन्धनं गां बधानेति तदुच्चरितवाक्यप्रयोज्य- मिति निश्चिनोति । ततश्च गवादिपदं आनयनात्मक कार्यान्वितगोशकं अनुपपचि प्रतिसन्धानं विना तादृशकार्यान्वितगोविषयकवोधतात्पर्येण

[[२०६]]

"

टोकाश्रयोपेतः

वृद्धकर्तृकोचारणजन्यवान इति व्यतिरेक्यनुमानान तादृशवायः गोध- दादिपदानां कार्यान्वितत्रवादी शक्ति गृह्णाति । तत्रापि व्यान्यधर्माविि and arata careeधर्माविीिन्पादक सामग्री अपेक्षिता एवं व कार्या तिरादिविषयक शब्दबोधं प्रति कार्यान्वितादिविषयका व्यापककार्यताविषयकशास्वस्तिकसामी अवश्यनपेक्षितव्या, सा सामग्री सिमभिव्याहारः इति प्रभाकरमतमुपन्यस्य नृपयति । नन्वित्यादिना । सर्वत्र व्यवहारस्य कार्यपरादिति योजना । सर्वत्रेति । सर्वस्येत्यर्थः । व्यवहारस्येति । गवादिपदमात्रस्यङ्ग्यर्थः । कार्य परत्वात् । कार्यान्यनशका । कार्यपरवाक्यं एवेति । लिपिटिनवाक्यं एवेम्यर्थः । व्युत्पत्तिरिति । शनिरित्यर्थः । न सिद्धपरे इति । न aarti इत्यर्थः । व्युत्पत्तिरिति पूर्वेणान्वयः । तथा च घटादि- पदानां कार्यान्विनवादी शक्तिसत्वेपि व्यापकधमविच्छिन्नसामग्रीविधया “कार्यतावाचक” रिङादिपदस्य हेतुतया गौरस्तीग्यादि वाक्यानां हिकादि. पदघटितत्वाभावेन न शाब्दबोधसमर्थवमिति भावः । अत्र गामानयेत्यादि- प्रयोजकवृद्धव्यवहारात् पूर्वोकक्रमेण कार्यान्वित पदानां प्रथमतः शनिग्रह- sपि कार्यान्वितघटत्वापेक्षया घटत्वस्य शक्यतावच्छेदक वे राघवमिति लाघवज्ञानेन अनन्य लभ्यो हि शब्दार्थं इति न्यायाच्च घटादिपदानां घटादिमा शक्तिः एवं च भूतले गौरस्तीत्यादि लिखवघटितवाक्यस्यापि शाब्दबोधसमर्थस्वं दुवारमित्याशयेन समाधत्ते । सिद्धेपीति । सिद्धपर- वाक्येऽपीत्यर्थः । तेनाऽसिद्ध एव शकिग्रह इति प्रभाकरेणाऽनुक्तत्वेऽपि नाऽसङ्गतिः । व्यवहारादिति । कार्यानन्वितभूपतिविषयक शाब्दबोधस्य जायमानत्वादित्यर्थः । प्रसिद्धपदसमभिव्याहारादिति । मधुकरशब्दा- र्थस्य विकसितपद्मवृत्तित्वज्ञानादित्यर्थः । सिद्धेऽपीति । कार्यानन्वित- भृङ्गत्वाद्यवच्छिन्नेऽपीत्यर्थः । मधुकरादिव्युत्पत्तिदर्शनाश्चेति । मधु- करादिशब्दानां शक्तिमहाच्चेत्यर्थः ।

दी० - लक्षणाऽपि शब्दवृत्तिः । शक्यसम्बन्धो लक्षणा ।

[[१४]]

तर्क-सङ्ग्रहः

[[२१०]]

गङ्गायां घोष इत्यत्र गङ्गापदवाच्य प्रवाहसम्बन्धादेव तीरोपस्थितौ तीरेsपि शक्तिर्न कल्प्यते । सैन्धवादौ लवणाश्वयोः परस्परसम्ब- न्याभावान्नानाशक्तिकल्पनम् । लक्षणा त्रिविधा । जहल्लक्षणा- प्रजहल्लक्षणा जहदजहल्लक्षणा चेति । यत्र वाच्यार्थस्याऽन्वयाऽ- भावः तत्र जहल्लक्षणा । यथा मच्चाः क्रोशन्तीति । यत्र वाच्यार्थ - स्याऽप्यन्वयः तत्राऽजहदिति । यथा छत्रिणो गच्छन्तीति । यत्र वाच्यैकदेशत्यागेन एकदेशाऽन्वयः तत्र जहदजहदिति । यथा तत्व- मसीति । गौण्यपि लक्षणैव लक्ष्यमाणगुण सम्बन्धस्वरूपा । यथा

निर्माण इति ।

गं० - ननु घटादिपदात् समवायेनाऽऽकाशस्मरणे जाते आकाशस्य शाब्दबोधानुदयेन वृत्या पदजन्यपदार्थोपस्थितिः शाब्दबोधे हेतुर्नाच्या, वृत्तिश्च शक्तिरूपा । तथा च गङ्गायां घोष इत्यादी गङ्गापदम्य तीरे शक्य- भावात् कथं तद्विपयकशाब्दबोधः इत्यत आह । लक्षणाऽपीति । अपना शक्तिः समुच्चीयते । शब्दवृतिरिति । पदनिरूपिता अर्थनिष्ठा वृत्तिरित्यर्थः । तथा च वृत्तिद्विविधा शक्तिलक्षणा च । तत्र शक्तिस्वरूपं मूले प्रतिपादितम् । इदानीं लक्षणास्वरूपमाह । शक्यसम्बन्ध इति । तत्पद- शक्यसम्बन्धः, तत्पदलक्षणा इत्यर्थः । ननु गङ्गापदस्य उभयत्र शक्तिरेवास्तु गङ्गापद प्रतिपाद्यत्वस्याऽविशेषादित्यत आह । गङ्गायामिति । न च विनिगमनाविरहातीरे एवं शक्ति, प्रवाहबोधस्तु लक्षणयैवेति वाच्यम् । प्रयोगबाहुल्यस्यैव प्रवाहशकौ विनिगमकत्वादिति भावः । इत्यत्रेति । इत्याकारकवाक्यघटकेत्यर्थः । तस्य गङ्गापदेऽन्वयः । गङ्गापदवाच्यप्रवा- इसम्बन्धादेवेति । लक्षणारूपतादृशसम्बन्धज्ञानादेवेति यावत् । तीरो पस्थिताविति । तीरवृत्तिर्वोष इत्याकारकशाब्दबोधजनकतीरोप स्थितिसम्भवे इत्यर्थः । न कल्प्यते इति । तीरे शक्तिनाङ्गीक्रियते । नानाधर्मावच्छि भगवदिच्छारूपश चिकल्पने गौरवादिति भावः । नन्वेवं नानार्थ स्थलेऽ-

[[२११]]

टीकात्रयोपेतः

प्येनैव शािस्तु, इतरार्थानां लक्षणयैव वोधसम्भवः इत्यत आह । सैन्धवादाविति । सैन्यवपादावित्यर्थः । आदिना हरिपदादिपरिग्रहः । परस्परसम्बन्धाभावादिति । शक्यसम्बन्धाभावादित्यर्थः । fairnesा- भान्यपि बोध्यम् । लक्षणां विभजते । त्रिविधेति । उदाहरति । यथेति । मदस्य मञ्चस्प्रे लक्षणा । छत्रिय इति । योदमित्यादिः । aferrer एकार्थवाहिनि लक्षणा । गौण्या लक्षणान्तर्गतत्वमाह । गोगोति । गोगी वृत्तिः क्षाविशेष एवेत्यर्थः । उक्ष्यमाणो यो गुणः स्त इत्यर्थः । स पुत्र सादृश्यम् । तथाचाऽ-

foreststreet लक्षणा इनि यावत् ।

दी :- त्र्यञ्जनाऽपि शक्तिलक्षणान्तर्भूता शब्दशक्तिमूला अर्थ- शक्तिमूत्ता च, अनुमादिना श्रन्यथासिद्धा ।

गं० ननु व्यञ्जनाऽपि पदवृतिः । व्यञ्जना व शक्तिलक्षणाद्यजन्य- प्रतीतिजनकः शब्दनिष्ठो व्यापारः । सा द्विविधा । शब्दशन्तिमूला-अर्थ- शक्तिमूला च । आद्या गङ्गायां घोष इत्यादौ गङ्गापदेन घोपे शैत्यपावन- स्वादेर्ण्यज्यमानत्वात् । अन्यथा तीरे घोष इत्येव वक्तव्यं स्यात्, स्वायते शब्दप्रयोगे नावाचकं पदं प्रयोक्तव्यमिति नियमात् । न च शै यपावनत्वप्रतीतिर्लक्षणया उपपद्यते केवलतीरलक्षणयैवाऽन्वयानुपपत्ति- परिहारे शैम्यपावनत्वादिविशिष्ट लक्षणायां मानाभावात् । द्वितीया " गच्छ गच्छति चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्रगतो भवान्” इत्यादौ मयि देशान्तरं गते सति अस्याः मरणं भविष्यतीति नायकस्य ज्ञानमुत्पद्यते सा व्यञ्जना अर्थशक्तिमूला । तथा च व्यञ्जनाद्वृत्तिरङ्गी कत्र्तव्येष्यालङ्कारिकशङ्कां परिहरति । व्यञ्जनाऽ- पीति । अपिना गौणीपरिग्रहः । तथा च यथा गौजी अन्तर्भूता तथा व्यञ्जनाऽपीति भावः । शब्दशक्तिमूला शब्दसामर्थ्य मूला । शक्तिलक्षणा- न्तर्भूतेति । शक्स्यन्तर्भूता - रूक्षणान्तर्भूता चेत्यर्थः । बाचा यथा " दूरस्थो-

[[1]]

तर्क - सङ्ग्रहः

[[२१२]]

भूवरी रम्य” इत्यादी भूधरपदेन पर्वानामित्र राज्ञामपि शक्यैव प्रतीतिः सम्भवति । द्वितीया यथा गङ्गायां घोष इत्यादी शैन्यपावनत्वविशिष्टतीर प्रतिक्षयैव सम्भवति । तात्पर्यानुपपत्तेरेव लक्षणान्रीजत्वादिति । श्रर्थ- शक्तिमूला, प्रवासाधिकरणदेशे जन्मकथनेन जन्मनश्च मरणोत्तरकालीन. वेन प्रवासीत्तरकालीनमरगरूपाऽर्थ सामर्थ्यमूला च स्वर्थे श्रनुमानादि- नेति । अनुमानप्रयोगस्तु इयं मदीयगमनोत्तरकालप्राणवियोगवती विलक्षण- शब्दप्रयोक स्वादित्याकारकः । आदिना सम्भावनापरिग्रहः । तथा च निरुक्तः नुमादिनाऽन्यथासिद्धत्वाद् व्यञ्जनाया नृत्यन्तरग्ये प्रमाणाभाव इति भावः ।

किं व्यञ्जना स्वरूपसती कारणं ज्ञाता वा । नाद्यः । तथा सनि सर्वदा सर्वस्यैव व्युत्पन्नस्य तादृशवान्धापरी, न तु सहृदयमानस्य, व्यञ्जनाया अविशेषात् । इष्टापती अनुभवविरोधः । सहजाऽप्रतीयमानरूपगृढत्वस्य तादृशव्यङ्गे ऽनुपपत्तिश्च स्यात् । न द्वितीयः । व्यञ्जना ग्राहकवस्य वक्तव्य- स्वापातात् । ज्ञानसामान्य सामग्र्यास्तग्राहकावे उक्तदोषतादव- दिति ध्येयम् ।

ननु व्यञ्जनाया अस्कारे कथमेकविधार्थबोधानन्तरं अपरार्थबोधः, शक्तिज्ञानादेकदेोभयार्थभान प्रसङ्गात् । न च व्यञ्जनास्वीकारेऽपि कथं साहशबोध इति वाच्यम् । व्यञ्जनायाः स्वशक्यैकार्थबोधानन्तरबोधं प्रत्येव कारणत्वादिति चेत्र तर्कालङ्काराः । वस्तुतः शक्त्याद्युपस्थितानामेकचि धान पदार्थानामन्वयबुद्धेरनन्तरं यद्यन्य विधानामन्वयबोधः स्यात्, स्यादपि तदनुरोधेन व्यञ्जनास्वीकारः । न चैवम् । तत्तदर्थकशाब्दसामान्यं प्रत्येत्र तत्तदर्थ कनिस्तात्पयन्धियः प्रतिबन्धकत्वात् तप्तदर्थानां यथाकथञ्चिदुपन- यवशेन मनमैव विशिष्टवी सम्भवात्, मानोरथिकसुखविशेषपर्यवसितं चम- aari cafe erasers मानसस्यापि बोधस्य विशिष्यहेतुतायाः सुवचलात् म्यञ्जनाख्यपदार्थान्तरस्य शाब्दबोधे तद्धेतुस्वस्य च प्रमाणविरहेणाऽसस्था- चेति सङ्क्षेप इति प्राहुः ।

दी० — तात्पर्यानुपपचिर्लक्षणावीजम् ।

·

[[२१३]]

टीकात्रयोपेतः

गं० - ननु सर्वत्र लक्षणया गान्धारराय लक्षणायाँ मुख्यार्थी agranateधानं प्रयोजकस्युम्, तथा गङ्गायां घोष इत्यत्र लक्षणया बोधसम्भवेऽपि यः प्रवेशय, छत्रिणी यान्नीत्यादौ न तत्सम्भवः, सुराधान्ययानुपपरावा । एवं गङ्गायां घोष इत्यत्रापि सर्वत्र forest aret, arrests arस्यादिलक्षणया वाऽन्वयानुप- पतिपरिहारसम्भवान, कुafe interस्य तीरे, कुत्रविद घोपपदस्य म्याद a freeानुपपत्तिः चैन्यन आह । तात्पर्यानुपपत्ति- रिति । नानुपपभिरेवेन्यर्थः । लज्ञणावीजमिति । लक्षणाप्र योजक

"

तथा च यष्टिषु प्रवेशान्वयानुपपत्तेरभावेऽपि भोजनता-

fat लक्षण एवं नीरवृतिघोष इति बोधतात्पर्येण प्रयुके गङ्गाया घोष इयादा तादृशनात्पर्यानुपपत्या गङ्गापदस्य तीरे लक्षणा, तस्य इनिबोधतात्पर्येण प्रयुक्ते गङ्गायां घोष इत्यादौ तादृशता- म्पयनुपपत्या घोषपदस्य मत्स्यादी लक्षणा, एवं च नोकनियमानुपपत्ति- रिति भावः ।

दी० – तत्त्रतीतीच्छयोश्चरितत्वं तात्पर्यम् । तात्पर्यज्ञानं च वाक्यार्थज्ञाने हेतुः, नानार्थानुरोधान् । प्रकरणादिकं च तात्पर्यमा -

हैकम ।

गं०— नापयं निर्वन्ति । तत्प्रतीतीच्छ्रयेति । “तीरादिरूप” तदर्थ- विषयकsोघेच्छा प्रयुकन्त्वं तात्पर्यमित्यर्थः ननु सैन्धवमानयेत्यादिनाना- intro treat भवे लवणे च शक्तेस्तुल्यतया सर्वदा अश्वलवणबोधः स्यात्, अश्वलवणबोधौपयिकसामय्याः अविशिष्टत्वात् एकसामय्याः अपरबोधप्रतिवन्धकत्वे तादृशवाक्याच्छावोध एव नस्यादित्यत आह । तात्प र्यज्ञानं चेति । तात्पर्यज्ञानमपीत्यर्थः । वाक्यार्थज्ञाने हेतुरिति । शाब्द वोघसामान्य कारणमित्यर्थः । नतु । तत् प्रतीतिः परं प्रयोजनं यस्येति तत्परं पदमित्यर्थः । तत्परस्य भावः तात्पर्यम् इति व्युत्पत्या पदनिष्ठो धर्म-

तर्क-सङ्ग्रहः

[[२१४]]

विशेष एव artistsयाथः । न च तात्पर्यपदं इच्छायां लाक्षणिकमिति वाच्यम् । लक्षणया तात्पर्यशब्दम्य इच्छामानपरत्वे श्रोतृसमवेतच्छाया अपि तात्पर्यरूपपत्या सैन्धवमानयेति वाक्यप्रयोक्तुरिष्टासिद्धिः स्यादिति चेन । वक्तृसमवेतच्छायाः तात्पर्यरूपत्वात् । सा च सैन्धवमानयेत्यादी aharashtrassiयनासंसर्गकवण प्रकारकबोधो जायतामित्याकारा । कर्मत्वविशेष्यकाऽऽधेयतासंसर्गकलवणप्रकारकोघेच्छयोच्चरितमिदं वाक्य- मित्याकारक श्रीस्तात्पर्यज्ञानं कारणम् । एतदभिप्रयोक्तम्, तत्प्रतीती. यच्चरितत्वरूपेति । तथा च यादृशवाक्यविशेष्यकं स्वप्रयोज्योच्चरित- स्वसम्बन्धेन वक्तुरिच्छाप्रकारकं तात्पर्यज्ञानं तारशवायजन्यशाब्दबोधे कारणमतो नाऽनियमः । तात्पर्यज्ञानस्य हेतुत्वे प्रमाणसाह नानार्थानुरोधा- दिति । नानार्थक सैन्धवादिपदजन्यैकैक बोधानुरोधादित्यर्थः । ननु परेच्छायाः परस्याऽप्रत्यक्षत्वेन कथं श्रोतुर्वक्तृतात्पर्यज्ञानमित्यत आह प्रकरणादिक- मिति । प्रकरणं भोजनयात्रादिप्रस्तावः । तथा च सैन्धवमानयेति वाक्य- घes Horani caणतात्पर्यकं भोजनप्रकरणं प्रयुज्यमानत्वात् यन्नैवं तन्नैवं प्रयागप्रकरणे प्रयुज्यमान सैन्धवपदवदिति व्यतिरेक्यनुमानात् अनु- मिम्यात्मकं तात्पर्यज्ञानं सम्भवत्येवेति भावः । न च तात्पर्यज्ञानजनकप्रक- रणादीनामेवशाब्दबोधे कारणत्वमस्त्विति वाच्यम् । तेषामननुगमात् । तात्पर्यज्ञानजनकत्वेन तेषामनुगमे तु तात्पर्यज्ञानत्वेनैव कारणत्वे लाघवा- दिति ध्येयम् ।

दी० - द्वारमित्यादौ विधेहीति शब्दाभ्याहारः । नतु अर्थ- ज्ञानार्थत्वात् शब्दस्याऽर्थमविज्ञाय शब्दाऽभ्याहाराऽसम्भवादर्थाऽ- ध्याहार एव युक्त इति चेन्न । पदजन्यपदार्थोपस्थितेः शाब्दज्ञाने हेतुत्वात् । अन्यथा घटः कर्मत्वमानयनं कृतिः इत्यत्रापि शाब्दज्ञा- नप्रसङ्गात् ।

गं० - अर्थाऽप्याहारवादिभट्टमतनिराकरणायाह । द्वारमित्यादा-

[[२१५]]

fafa ।

cretariat

यर्थः । आदिना पेटिकामित्यादेः परिग्रहः । तथा

च यत्र द्वारमित्युकं नत्र पिही शोधेयः । ततः पिधानादिरूपा- पतिः। arraiकविधानानुकूलकृतिमांस्वमिति बोध इति भावः । नशा

[[1]]

नहि जन्यपदाथपस्थितिः कारणम्, लाघवेन पदार्थों- fits are अन एव द्वारमित्यादौ न पिधेहीति पदाध्याहारः किन्तु अध्याहार एवेति : सकने । नन्विति । श्रर्थज्ञानार्थत्वाच्छन्द- स्येति । अबोध अर्थः प्रयोजनं यस्य सः । तस्य भावस्तस्मात् शब्दस्याध्यायेत्यर्थः । सदाध्याहारस्य शाब्दबोधफलका- हियर्थः । अर्थमविज्ञायेनि । अर्थज्ञानयत्यकाले इत्यर्थः शब्दाऽध्याहा

सम्भवादिति । शन्दाsनुसन्धानाsसम्भवादित्यर्थः । युक्त इति । तथा चाऽर्थ बुद्ध्वा शब्दरचनेति न्यायेन वाक्यप्रयोगे अर्थज्ञानस्य हेतुवाकया पिधानरूपार्थोपस्थितेः शब्दकरूपनातः प्रागेवावश्यकतया तदर्थं शदकल्पना व्यथैवेति अर्थाध्याहार एव युक्त इति भावः । अर्थो- पस्थितिः शब्दाध्याहारस्य फलम् अर्धे चोपस्थिते व्यर्थ एव शब्दाध्याहार इनि तेषामाशयः । समाधन । नेति । पदविशेषजन्येति । पदज्ञान- जन्येत्यर्थः । विशेषपदं साकाङ्क्षपद जन्यत्वलाभार्थम्, अन्यथा निराकाङ्क्ष• पदजन्योपस्थितितः शाब्दबोधापनेः । तथा च परस्परसाकाङ्क्षपदज्ञान- जन्योपस्थितः शाब्दबोधे हेतुत्वादिति पर्यवसितोर्थः । अत एव घटः कर्म- स्वमित्याद्यनुधावनम् । एवं च तत्र कर्मत्वादिपदजन्यकर्मत्वाद्युपस्थितेः सचेऽपि घटपदोत्तराम्पदजन्यकर्मत्वाद्युपस्थितेरस वेन सिद्धान्तिमते न शाब्दबोध प्रसङ्ग इति ध्येयम् । श्रन्यथा । उपस्थितौ साकाङ्क्षपदज्ञान- जन्यपाऽनिवेशे । शाब्दज्ञानप्रसङ्गादिति । घटकर्मकाssनयनानुकूल- कृतिमानिति शाब्दबोधापरोरित्यर्थः । तथा च अम्पदज्ञानजन्यकर्मत्वोप- स्थितेः लोट्पदज्ञानजन्य कृत्युपस्थितेश्च तादृशशाब्दबोधहेतुतया प्रकृते तादृशकारणाभावान्न तादृशशाब्दबोधापतिः । एवं च द्वारमित्यादौ पिधाना- दिरूपार्थाध्याहारे निरुक्तकारणाभावाच्छाब्दबोधानुपपत्या शब्दाध्याहार

नर्क-सङ्ग्रहः

[[२१६]]

आवश्यक इति भावः इदमुपलक्षणम् । पुष्पेभ्य इत्यादी स्पृहयतया दिभ्याहारं विना चतुपपति बोध्या । स्पृहेरीप्सित इति

हार्थायोगे एवं कर्मस्वार्थकचतुष्याः विधानादिति ।

दीव - पङ्कजादि पदेषु योगमदिः । श्रवयवशक्तिर्योगः, समु- दायशक्ती रूढ़िः । नियतपद्यत्वज्ञानार्थ समुदायशक्तिः । अन्यथा कुमुदेsपि प्रयोगप्रसङ्गः ।

ति ।

० -

पङ्कजादिपदे योग दर्शयति । पङ्कजादिपदेवि- सादिपरिग्रहः अत्र शतिर्द्विविधा । योगो रुविश्वेति । योगरुद्विरिति । योगसहिता रूटिरियर्थः । द्विविधमभिरपि पङ्कजादि- पतिरिति यावत । योगार्थमाह । श्रवयवशक्तिरिति । पटक- पदनिरूपितशकियोङ्ग इम्पर्थः रूढिम्वरूपमाह । समुदायशक्तिरिति । पदनिरूपितशक्तिः समुदायाम करुदिशतिरित्यर्थः । तथा च पङ्कजपदस्य पङ्कनिष्टजनकननिरूपितजन्यताश्रये शनिसत्वान पद्मवाच्छिने शक्ति सस्टर पङ्कजादिपदे शद्वियम् । इदमुपलक्षणम् । पदं चतुर्विधं पूर्वकं वेदितव्यम् । ननु पङ्कजादि पदे अश्यवशक्तिस्वीकारमात्रेण निर्वाह किं पद्म-वष्टि समुदायशक्ति स्वीकारेणेत्यत आह । नियतेति । शाब्द- बोधे नियमेन पद्मत्वावच्छिन्नविषयक स्वनिर्वाहार्थमित्यर्थः । समुदायशक्ति- रिति । समुदायशक्तिरपीति । स्वीकार्येति शेषः । श्रन्यथा । पद्मत्वाव- टि समुदायशक्त्यनङ्गीकारे । कुमुदेऽपीति । अपिना पद्मसमुच्चयः । प्रयोगप्रसङ्ग इति । पङ्कजपदस्य प्रयोगापत्तिरित्यर्थः । पङ्कजपदात्पङ्कज- निकर्तृत्वप्रकारकपद्मविशेष्यको धस्येव पञ्जकनिकर्तृत्वप्रकारक कुमुदविशेष्यक- बोधस्थापत्तिरिति यावत्’ । योगार्थबोधाऽनभ्युपगमे तु स्थलपद्मेऽपि तादृशप्रयोगापतेरिति ध्येयम् ।

टि०– १ न च पङ्कजपदात् केवलयाऽवयवशक्त्या कुमुदबोधापत्तिरिति याच्यम् । योगादुर्बलीयस्त्वात् । तथा च पद्मत्वानवनिविशेष्यतानिरूपित पङ्कज-

[[૨૫૭]]

टीकात्रयोपेतः

दी० - इतरान्विते शक्तिरिति प्रभाकराः । श्रन्वयस्य वाक्या- तया मानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया इति गौतमीयाः ।

गं० तद्विषयकादयाञ्चे वृत्तिज्ञानजन्यतदुपस्थितिः कारणम्, अ. न्यथा घटादिपदान पदादिविषयकशाब्दबोधापत्तेः । एवं च अन्वयांशेऽपि after eater अन्यथा घरमित्यादि वाक्यघटकघटपदात् शक्त्या घटस्य, नाशादन शक्य कर्मवस्य उपस्थितिभवेऽपि घटकर्मत्वयोः संसर्ग- म्य " आधेयतारूपस्व” शाब्दबोधे भानानुपपत्तिः, तस्य वृत्तिज्ञानजन्यो- स्थिति सन्ताबाधकपदाभावात संसर्गताभिन्नतद्विषयताशालि-

निवृतिज्ञानाननत्तद्विपयकोपस्थितित्वेन कारणत्वोक्ती उक्त- anarartist कार्यताasaौरवाचेरिति प्राभाकरमतमाक्षिप्य समाध । इतराऽन्विते इनि पदानामित्यादिः । अन्वयः सम्बन्धः । इतरानु रोगिकान्वयवति इतरप्रतियोगिकाऽन्वयवति च शक्तिरित्यर्थः । यथा वपदस्य कर्मवानुयोगिकाऽऽयता” सम्बन्ध” विशिष्ट शक्तिः तथा- पदस्यापि घटप्रतियोगिकाऽऽधेयता” सम्बन्ध"विशिष्ट शक्तिः, विनिग- मनाविरहेण एकशेपस्य कर्तुमशक्यत्वात् । तथा पदार्थद्वयसंसर्गेऽपि शस्त्रीकरणीयतया त्वयोः संसर्गः उभयपदलभ्य एवेति नोका- नुपपतिः । एतन्मते इतरान्वितघटो घटपदशक्यः, इतरान्वितकर्मत्वं अम्- पदशक्यम् इति वा शक्तिज्ञानं कारणम् । अत्र इतरत्वमुपलक्षणम् । इत-

शस्य कर्मवस्य पदान्तरलभ्यतया तत्र शक्यकल्पनात् अन्वितघटे एव घटपदः शक्तिः । इति प्राभाकरा इति । बदन्तीति शेषः । वस्तुतस्तु भट्टानामिदं मतम् । तन्मतं निरस्यति । श्रन्वयस्येति । संसर्गस्येत्यर्थः ।

निकर्तृत्व नकारताशा लिबोधं प्रति पङ्कजपदं पद्मशक्तं इत्याकारकं रुदिज्ञानं प्रतिबन्धक मिति भावः । एवं च पङ्कजपदात् श्रवयवार्थ कजनिकर्तृत्वप्रकारक रुद्ध्यर्थं पद्मविशेष्यक- बोधो भवति । अतएव “पङ्कजं कुमुदं” इत्यत्र पङ्कजनिकर्तृत्वेन “भूमौ पङ्कज मुश्पन्न " मित्यादौ च पद्मत्वेन, पङ्कजपदस्य लक्षणयन्त्र कुमुद स्थलपद्मयोर्बोध इति ध्येयम् ।

*तर्क -सङ्ग्रहः

[[२१८]]

वाक्यार्थतafa । कान्ति यान । अन्वयांशेऽपीति । कस्यापि पदस्य संसः ।

अत्रे बोध्यम् । सामान्यनस्तद्विषयकाळबोध वृतिज्ञानजन्यतद्विषय- कोपस्थितिनं कारणम्, तथा सुनि बटपदान प्रकारकोधस्येव आधे- यता सम्बन्धेन acxकारकत्व विशेषकवधस्य, “वदत्वं घटीयमिन्याकार- कस्य” विभावेन “बटः वटवं च” इत्याकारकस्य वा बोधस्याऽऽपत्तेः । किन्तु Harare aनविशेषको वृतिज्ञान ‘जन्यतद्धर्मावनिविषय- कोपस्थितिः कारणम् । तथा च संसर्गे विशेषणतास्त्रीकारेऽपि प्रकार नाया अनभ्युपगमेन कार्यतावच्छेदकानाक्रान्तनया व्यभिचाराभावेन पदार्थद्वय संसर्गे शक्ति प्रमाणाभाव इत्यागनेन तैयायिकाः घटादिपदानां घटा.

तानि ।

दिमा

पदार्थद्वयसंसर्गस्य

शाब्दबोधमान प्रयोजिकाssaira ।

तथा च

दि०-१ अत्र

ननकरन यां विधेयनावं निवेशनीयम् श्रन्यथा

घटबभूतलमिति वाक्यात्वप्रकारक भूविशेष वृतज्ञानजन्य. व- विभूतल विषयकोप स्थिनिरूपकारण विरहैय व्यतिरेकव्यभिचाराः

घटस्य विषयेतया न व्यभिचार इति ।

,

टि०२ इदं पुनरिहावधेयम् शक्तिनक्षणो भयसाधारणवृत्तित्वस्य दुर्वचतया न वृत्तिज्ञानत्वेन कारणत्वम्, किन्तु नद्विपयकशाब्दबोधे तच्छक्तपदज्ञानजन्यतदुपस्थितिः, उल्लाच्चखिकपदज्ञानजन्यत दुपस्थितिश्च कारणम् एवं शक्तिवानं लक्षणाज्ञानं चोभयविधम् पदविशेष्यकं अर्थविशेष्यकं च तत्र परस्परजन्यबोधे व्यभिचारवारणाय पदविशेष्यक- शक्तिडानाधोनोपस्थित्यव्यवहितोत्तर जायमानशाब्दबोधं प्रति पदविशेष्यक वृत्तिज्ञानाधीनो- पस्थितिः करणम् । परमर्थविशेष्यकशक्तिज्ञानाधीनोपस्थित्यव्यवहितोत्तरजायमानशाब्द- बोभं प्रति अर्थविशेष्यकशक्तिज्ञानाधानोपस्थितिः कारणम् । एवं च वृत्यनुपस्थितस्या- sपि पदार्थद्वयसंसर्गस्य शाब्दबोधे भानोपगमे व्यभिचाराऽभावात् किं तत्र शक्तिकल्प- नेनेति ध्येयम् ।

a

टीकात्रयोपेतः

आधेयतासम्बन्धेन घटप्रकारककर्मत्वविशेष्यकशाब्दबोधं प्रति घटपदाऽव्यव हितोत्तरपदत्वरूपानुपुर्वाज्ञानं, अम्पदाव्यवहितपूर्ववृत्तिघटपदत्वरूपाऽ- नुपूर्वीज्ञानं वा कारणम् । अन्यथा अम्घट इति वाक्यादपि शाब्दबोधापतेः । प्रत्ययः परत्याद्यनुशासनमपि आकाङ्क्षाभिधायकमेवेति ध्येयम् ।

आकाङ्क्षायोग्यतासन्निधिश्च वाक्यार्थज्ञाने हेतुः । दीः आकाङ्क्षेति । आकाङ्क्षादिज्ञानमित्यर्थः । अन्यथा आ- काङ्क्षादिभ्रमाच्छादयधो न स्यात् ।

गं०– एतावना पदज्ञानं करणम्, “वृत्तिज्ञान सहकृतात्पदज्ञानात् " गं०-तावना पायस्थितियारः शाब्दबोधः फलमिन्यायातम् । परन्तु एवमपि घट आनयनं कृतिः, घः कर्मत्वं आनय, घटः कर्मत्वं आनयनं कृतिरित्यादि निरा- कांवाश्याच्छन्दबोधापत्तिवारणाय शाब्दबोधे कारणान्तराण्यपि कथयति । मूले श्राकाङ्क्षेति । वाक्यार्थज्ञाने इति । शाब्दबोधे इत्यर्थः । आकाङ्क्षा स्वरूपसती न कारणम्, वक्ष्यमाणदोषात, अत आकाङ्क्षापदं आकाङ्क्षाज्ञान- परतया व्याचष्ट दीपिकायां आकाङ्क्षादि ज्ञानमित्यर्थ इति । श्रन्यथा । आकाङ्क्षादेरेव हेतुग्वे । अकाङ्क्षादिभ्रमादिति । घटः कर्मस्वमित्यत्र घर- पदाऽव्यवहितोसराऽम्पदस्वभ्रमादित्यर्थः । शाब्दबोधो न स्यादिति । तथा च शाब्दबोधोपपत्तये आकाङ्क्षादि ज्ञानस्य हेतुत्वमावश्यकमिति भावः । आदिना योग्यताभ्रमात सन्निधिभ्रमाच्छाब्दबोधोपपत्तये योग्यताज्ञानस्य सविधिज्ञानस्य च कारणता सूचिता । तेन न्हिना सिञ्चतीत्यत्र सेके वन्हि. करणकत्वरूपयोग्यताभ्रमात् असहोच्चरितवाक्येषु सान्निध्यभ्रमदशायां

च न शाब्दबोधानुपपत्तिः

पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावक-

त्वमाकाङ्क्षा ।

न्या०-आकाङ्क्षां लक्षयति । पदस्येति । अव्यवहितोत्तरत्वादि-

[[3]]

‚ad-eing:

[[૨૦]]

सम्बन्धेन यत्कारकज्ञान व्यतिरेकप्रयुक्तो यादृशशाब्दबोधा- भावः तादृशशाब्दबोधे तत्पदे तदवमाकाङ्क्षा । यथा घटमि व्यादिस्थलेऽव्यवहितोत्तरत्व संवन्धेन “अम्पदं घटपदव” दित्या- कार काऽम्पदविशेष्यकघटपदप्रकारकज्ञानसत्वे घटीयं कर्मत्वमिति वोधो जायते । “अम्घट” इति विपरीतोचारणे तु वादृशज्ञानामा- वाचाह शान्दबोधो न जायते, अवस्तादृशाऽऽकाङ्क्षाज्ञानं कारणम् ।

दी० आकाङ्क्षां लक्षयति । पदस्येति ।

गं०- मूळे । पदस्येति । पदनिष्ठ मित्यर्थः । पदान्तरविरहप्रयु तेति । यत्पदविरह नयोजयेत्यर्थः । श्रन्वयाऽननुभावकत्वम् शाब्द- बोधजनकत्वाभावः तत्पदस्य तत्पदेन सहाऽऽकाङ्क्षा यथा घटमित्यादौ घटपदत्य अम्पदष्यतिरेकप्रयुक्ताऽन्वयाननुभावकत्वं वर्तते न हि अम्पदव्यतिरेके घटपदं शाब्दबन्धं जनयति “घटः कर्म व " मिम्यादौ नाहन शाब्दबोधानुदयात् । अनो घटपदस्य अम्पदेनाssकक्षा एवं अम्पदस्य घटपदेनाssकाङ्क्षा प्रकृति- प्रत्ययोः परस्परं सावान” । बान्धिन्यां यत्पदे इति । अम्पदे इत्यर्थः । fates सप्तम्यर्थः यदेति । घटपदेस्यर्थः । तत्पदे । अमूपदे तत्पदवत्वं । घटवत्वम् । पदवत्ता वाऽव्यवहित्तोरवसम्बन्धेन तथा च आधेयसम्बन्धेन घटपकारककर्मताविशेष्यकशावोधं प्रति घटपदाव्यवहि- तोत्तराऽम्पदत्वरूपानुपूर्वीज्ञानं, अम्पदाऽम्य वहितपूर्ववृत्तिघटपदत्वरूपानु. पूर्वीज्ञानं वा कारणम्। तादृशज्ञानाऽभावादिति । श्रव्यवहितोचरत्व- सम्बन्धेन घटपदवत् अस्पदमिन्याकारकज्ञानाभावादित्यर्थः एवं घटौ घटानित्यत्रापि ।

इदमुपलक्षणम् । राजपुरुष इत्यादि समासस्थलेऽपि अभेदसंवन्धेन राजतम्बन्धिप्रकारकपुरुषविशेष्यकशाब्दबाधं प्रति राजपदाव्यवहितोचरपुरुष- पदत्वरूपाssकक्षाज्ञानं पुरुषवदाव्यवहितपूर्व वृत्तिराजपदत्वरूपाऽऽकाङ्क्षाज्ञा- नं वा कारणम् । तेन राजपुरुष इन राजापुरुष इतिवाक्यान ताइशोबोध इति ।

[[२२१]]

अर्थाऽबाधो योग्यता ।

। N

टीकात्रयोपेतः

न्याः - अर्थाऽबाध इति । बाधाभावो योग्यतेत्यर्थः । श्रमिना सिच्चेदित्यत्र सेककरणत्वस्य जलादिधर्मस्य वन्छौ वाघनिश्चयस- वान तादृशवाक्याच्छाब्दबोधः ।

दी० – योग्यतालक्षणमाह । श्रर्थेति ।

गं० - मले अर्थाऽबाध इति । अर्थस्य बाधः - एकपदार्थे अपरप- atrisar: । तद्विरहाsपरपदार्थ एव । तथा चैकपदार्थे अपरपदार्थवत्थं यो तेति पर्यवसितम् । सेचनं पयःकरणकत्वसत्वात् पयमा सिञ्चतीत्यादौ योग्यता । हिना सिञ्चतीत्यादौ तु न योग्यता । सेचने वन्हिकरणकत्वचि - रहान । बान्धिन्यां वाधाऽभाव इनि बाधज्ञानाभाव इत्यर्थः । सेचनं पयः- करस्वाभाववदिति बाधनिश्वयाऽभावरूपयोग्यताबलात् पयसा सिञ्चती- त्यत्र बोधः । वन्हिना सिञ्चतीत्यादां तु न योग्यता । सेचनं वन्हिकरणकत्वा भाववदिति वाधनिश्वयस्यैव सत्वेन वाघनिश्चयाभावरूपयोग्यताविरहात् । वन्हौ बाघनिश्चयसत्वादिति । वन्हिः सेककरणत्वाभाववानिति वाधनि- श्रयत्वादित्यर्थः । तुल्यविधिवद्यतया सेचनं वन्हिकरणकत्वाभाववदिति बाधश्चियस्यापि सत्वात् ।

न च एतादृशयोग्यतायाः अर्थनिष्ठत्वेन वाक्यनिष्ठत्वाभावाद चहिना सिञ्चतीत्यस्येव पयसा सिञ्चतीनि वाक्यस्यापि अयोग्यवाक्यत्वापत्तिरिति वाच्यम् । वाक्ये स्वरूपसम्बन्धेन योग्यताविरहेऽपि प्रतिपादकता सम्बन्धेन योग्यतासवानकापचिः ।

पदानामविलम्बेनोच्चारणं सन्निधिः ।

न्या० - सन्निधिं निरूपयति । पदानामिति ।

दी० - - सन्निधिलक्षणमाह । पदानामिति । अविलम्बेन पदार्थों- पस्थितिः सन्निधिः । उच्चारणं तु तदुपयोगितया उक्तम् ।

तर्क-सङ्ग्रहः

રમ

गं० मूले । पदानामिति अभिमनशाब्दबोधजनकानामित्यर्थः । कर्मणि षष्टी विलंवेन अव्यवधानेन । वैशिष्ट्यं तृतीयार्थः । तथा च परम्परव्यवधानाभावविशिष्ट यस्पदकर्मकमुच्चारणं स सन्निधिरित्यर्थः । नया च शाब्दबोधानुकूलपदविशिष्ट पदत्वमा सत्तिरिति यावत् । वै० स्वाव्य- वाहन पूर्व-स्वाध्यवहितं सरत्वान्यतरसम्बन्धेनेति ।

ननु मौनिश्लोकादी उच्चारणाभावेऽपि शाब्दबोधस्याऽनुभवसिद्धतया तत्र नोकस निधिसम्भव इत्यालोच्य पदानामविवेनोच्चारणमित्यस्य अर्धा- नामविवनः पस्थिव्यर्थ कतया तादृशोपस्थितिरेव सन्निधिरित्याह । दीपि कायां । अविलम्बन पदार्थोपस्थितिरिति । अविलंयेन । अभ्यवधानेन । एव च मौनिलेकादौ पदज्ञानेन पदार्थोप स्थितावेव शाब्दबोधो नान्यथा । ननु आसरोरुपस्थितिरूपत्वे “अविलम्बन पदोष्चारणं व्यर्थमित्यत आह । उच्चारणन्विति । अविलंयेन पत्रोच्चारणवित्यर्थः । अवधारणार्थ कस्तु शब्दः तदुपयोगितयेत्युत्तरं योज्यः । अविलंवेन पापस्थितिसम्पादक नये - वेत्यर्थः । तथा यत्पदार्थस्य यत्पदार्थे नान्योऽपेक्षितः तयोः पदयोः अव्यवधानेनोपस्थितिः शाब्दबोधे कारणमित्यर्थः ।

तथा चाssकाङ्क्षादिरहितं वाक्यमप्रमाणम् । यथा गौरश्वः पुरुषो हस्तीति न प्रमाणम्, आकाङ्क्षा- विरहात् । वन्हिना सिश्चेदिति न प्रमाणम्, योग्यता- विरहात् । प्रहरे प्रहरे असहोचारितानि गाम् आनय इत्यादि पदानि न प्रमाणम्, सान्निध्याभावात् ।

न्याः - श्रसहोचारितानि । विलंवोश्चारितानि ।

दी० - गौः श्रश्व इति । घटः कर्मत्वमित्यप्यनाकान्तोदाहरणं

द्रष्टव्यम् ।

[[२२३]]

[[7]]

[[1]]

गं० - मूत्र आकाङ्क्षादि रहितं वाक्यमिति । आकाङ्क्षादित्रयशून्यं वायसामान्यमियर्थः । श्रनमामिति । अत्रान्नस्य शाब्दबोधजननास aara atarरहितवाक्यमुदाहरति । यथेति । न प्रमाणमिति । अधान्तस्य शादजननाऽसमर्थमित्यर्थः । तत्र हेतुमाह । श्राकाङ्क्षावि• रहादिति । पतिरेकयुकान्याननुभावक वाभावेन तत्प रुपाकाङ्क्षाया अभावादिति भावः । गौरव इत्यादौ अभेद- नवम्य योग्यताविरहेणैव वारयितुं शक्यत्वादनाकां- ferencenteredपिकायां । घटः कर्मत्यमिति ।

वाक्यं द्विविधम्-वैदिक, लौकिकं च । वैदिक- arraineer सर्वमेव प्रमाणम् । लौकिकं त्वा- सोनकं प्रमाणम् । अन्यदप्रमाणम्। वाक्यार्थज्ञानं शा-

[[1]]

ज्ञानम् । तत्करणं शब्दः । इति शब्दप्रमाणम् ।

न्या० – वैदिकमिति । वेदवाक्यमित्यर्थः । इदमुपलक्षणम् । वेदमूलस्मृत्यादीन्यपि ग्राह्याणि । लौकिकं त्विति । वेदवाक्यभिन्नमि- त्यर्थः । श्रवत्वं च प्रयोगहेतुभूत यथार्थ ज्ञानवत्त्वम् ।

इति न्यायबोधिन्यां शब्दपरिच्छेदः ।

दी० वाक्यं विभजते वाक्यमिति । वैदिके विशेषमाह - वैदिकमीश्वरोक्तत्वादिति ।

गं० - दीपिकायां । वैदिके विशेषमाहेति । वैदिकer लक्षणमाहे- स्यर्थः । ईश्वरोकत्वादिति । ईश्वरोक्तत्वमेव वैदिकानां लक्षणमिति भावः । लौकिकस्य द्वैविध्यमुपपादयति । लौकिकन्त्विति । तु शब्दोऽवधारणार्थकः । आप्तोक्तं लौकिकं प्रमाणम्, अनातोक्त लौकिकमप्रमाणमित्यर्थः । वाच्या- ज्ञानमिति एकपदार्थे भररपदार्थसंसर्गविषयकं ज्ञानमित्यर्थः । तत्कर-

[[1]]

तर्क-सङ्ग्रहः

[[૪]]

यमिति । शाब्दज्ञानकरणमित्यर्थः । शब्दः इति । शब्दज्ञानमित्यर्थः । नीलोट इत्यादौ प्रथमं नीलादिपदानां शक्तिज्ञानं ततः कालान्तरे नीलादि पदज्ञानम् । ततो वृत्तिज्ञानाधीन नीलाद्यपस्थितिः । ततोऽभेदसम्बन्धावच्छि• अनोळखावच्छिन्न प्रकारतानि रूपितघटावच्छिन्नविशेष्यताशाली बोधः ।

दी० - ननु वेदम्यानादित्वात् कथमीश्वरोक्तत्वमिति चेत्, न । ‘वेदः पौरुषेयः वाक्यसमूहत्वान् भारतादिवत्’ इत्यनुमानेन पौरुपे. यत्वसिद्धेः । न व स्मर्यमाणकर्त्त कत्वमुपाधिः । गौतमादिभिः शिष्यपरम्परया वेदेऽपि सकते स्वम्भरणेन साधनव्यापकत्वान् । ‘तस्मात्ते पानान् त्रयो वेदा अजायन्त’ इति श्रुतेः ।

गं०-मीमांसकः शङ्कने । नन्विति । श्रनादित्वात् । नित्यत्वात् । पौरुषेय इति । पुरुषप्रणीत इत्यर्थः । जन्य इति यावत् । पौरुपेयत्वं च स्वसजातीयो चारणाऽनपेक्षनमा ‘दशून्यपुरुषोच्चरितत्वम् । वेदत्वं चानुपल- म्यमानमूलान्तर सनि महाजनपरिग्रहीनवाक्यत्वम् वाक्यसमूहत्वा- दिति । वाक्यत्वादित्यर्थः । शेषभागो व्यर्थ एवेति ध्येयम् भारतादिव- दिति । आदिना पुराणादेः परिग्रहः । स्मर्यमारणकर्त्त कत्वमिति । शायमानन्त’ कत्वमित्यर्थः । यत्र यत्र पौरुषेयत्वं तत्र तत्र स्मर्यमाणकर्तृक• त्वमिति साध्यव्यापकता पक्षान्तर्भावेण साधनाव्यापकता बोध्या । तेपा- नात् । तपोविशेषात् ।

[[८]]

दी० - ननु वर्षा नित्याः " स एवायं गकारः” इति प्रत्यभिज्ञा बलात् । तथा च कथं वेदस्यानित्यत्वमिति चेत्, न । उत्पन्नो गकारो नष्टो गकारः इत्यादिप्रतीत्या वर्णानामनित्यत्वात् सोऽयं aare: इति प्रत्यभिज्ञायाः ‘सेयं दीपज्वाला’ इविवत् जात्यावल- म्वनत्वात् । वर्णानां नित्यत्वेऽप्यानुपूर्वी विशिष्टवाक्यस्याऽनित्यत्वात् । वस्मादीश्वरोको वेदः । मन्त्रादिस्मृतीनामाचाराणां च वेदमूलकतया

[[૨૨૫]]

टोकात्रयोपेतः

प्रामाण्यम् । स्मृतिमूतवाक्यानामिदानीमनध्ययनान् तन्मूलभूता काचित् शाखनित्रेति कल्प्यते

ननुपश्यमानात्सादस्य कल्पयितुमशक्यतया विप्रकी- गवादयायुक्तत्वादिति नित्यानुमेयो वेदो मृज्ञमिति चेत् न । तथापि वर्णानुपूर्वज्ञानाभावेन तस्य बोधकत्वासम्भवात् ।

गं० - वर्तमात्रम्य निन्यत्वादिमीमासक शङ्कते । नन्विति । वर्णानां नित्याह स एवायमिति । इति प्रत्यभिज्ञाबलादिति । इत्या- कारकक्षायादित्यर्थः । तथा च । वर्णाai freecafeat च । इत्यादि प्रतीत्येति । इत्याकारकप्रतीत्यन्यथानुपपत्येत्यर्थः । अनित्य- स्वादिति । अनित्य वाङ्गीकारस्याऽवश्यकत्वादित्यर्थः । साजात्याऽ- वलम्बनत्वादिति । तजातीयाऽभेदविषयकत्वस्वीकारादित्यर्थः । ननु स एवाभ्यं गकार इति प्रतीतेः साजात्यावलम्बनत्वे मानाभावः, अन्यथा सोऽयं देवदत्त इत्यादि प्रत्यभिज्ञाया अपि साजात्यावलम्बनत्वाऽपत्तेः, अतो वर्णानां नित्यवमावश्यकमित्यत आह । नित्यत्वेऽपीति । नित्यत्वपक्षेऽपीत्यर्थः । अनित्यत्वादिति । रचनाविशेषरूपाऽऽनुपूर्ष्या अनित्यत्वेन तद्विशिष्टवाक्य- स्यानित्यत्वादित्यर्थः । तस्मादिति । वाक्यस्याऽनित्यत्वादित्यर्थः । पुष्पाणां चैत्रकर्तृकवाभावेऽपि मालायाः चैत्रक कन्ववदिति यावत् । इति कल्प्यते । इति स्वीक्रियते । कस्य चिद्वेदस्याऽनित्यत्वेऽपि कस्य- विद्वेदस्यनित्यत्वमित्येकदेशी शङ्कते । नन्वित्यादिना । पठ्यमानवेदवा- क्योत्सादनस्येति । पठनकर्मीभूतवेदवाक्यनाशस्येत्यर्थः । कल्पयितुम. शक्यतयेति । कल्पनायाः अप्रामाणिकतयेति यावत् । विप्रकीर्णवाद- स्य । वेदः शिथिलः इति व्यवहारस्य । श्रयुक्तत्वात् । अप्रामाणिकत्वात् । नित्याऽनुमेय इति । नित्योऽनुमेयवेत्यर्थः । मूलमिति । स्मृत्याचारा- णामित्यादिः । वर्णानुपूर्वीज्ञानाभावेनेति । अनुमितवेदस्याऽऽनुपूर्वीनि श्रयाभावेनेत्यर्थः । तस्य। अनुमितवेदस्य बोधकत्वाऽसम्भवात् । बोधजननाऽसमर्थवान् । अप्रमाणत्वादिति यावत् ।

१u

तर्क -सङ्ग्रहः

[[२२६]]

दी० - ननु एतानि पदानि स्मारितार्थ संसर्गवन्ति श्राकाङ्क्षादि- मत्पदकदम्बकत्वात् “गामानय दण्डेनेवि” मद्वाक्यवत् इत्यनुमा- नादेव संसर्गज्ञानसम्भवान् शब्दो न प्रमाणान्तरमिति चेत्, न । अनुमित्यपेक्षया शाब्दज्ञानस्य विलक्षणस्य ‘शब्दात्प्रत्येमि’ इत्यनु- व्यवसायसाक्षिकस्य सर्वसम्मतत्वात् ।

गं० - शब्दमनुमानेऽन्तर्भावयन् वैशेषिकः प्रत्यवतिष्ठते । नन्विति । अत्र एतानि पदानि पक्षः । गामानयेति वाक्यवटकघटपद-अम्पद-आङपूर्वक-

पदपदानीत्यर्थः । स्मारितार्थ संसर्गवत्त्वं साध्यम् । स्मारिताश्च ते अथाव तेषां संसर्गः, स यत्रास्तीति विग्रहः । न चार्थसंसर्गवत् पदे वाधिमिति वाम् । संसर्गज्ञापकत्वस्यैव साध्यत्वात् । न च घटमानये- या घटकrवयोः कर्मत्वानयनयोश्च तात्पर्याऽविपयकालिकसंसर्गज्ञान पूर्व- कन्वमादायाथान्तरमिति वाच्यम् । ‘साभ्यघटक” संसर्गे तात्पर्यविषय. स्वस्यापि निवेशनीयत्वात् । तथा च तत्तत्पदैः स्मारिताः ये तत्तदर्थाः तेषां तात्पर्ययो यः संसर्गः तद्ज्ञानप्रयोजकानीत्यर्थः । आकाशघटोभयबोध- नान्पर्येण प्रयुकाद् घटपदाद् घटमात्रोपस्थितौ घटादेखि गगनसंसर्गमादाया- aftaarरणाय स्मारितेति । स्मारितत्वं च वृत्या बोध्यम् । तेन घटपद- श्रवणानन्तरं समवायेनाऽऽकाशोपस्थितौ आकाशसंसर्गमादाय नाऽर्थान्त- राssपतितादवस्यात् । श्राकाङ्क्षादिमत्पद कदम्बकत्वादिति । आकाङ्क्षायो- ग्यतासनिधिमत्पदसमूहकत्वादित्यर्थः । तेन साध्याभाववति आकाङ्क्षारहिते- अयोग्य अनासने च वाक्ये हेतुसत्वेऽपि न व्यभिचारः । मवाक्यव- दिति । मया श्रुतगामानयेति वाक्य वटकगोपदादिवदित्यर्थः । संसर्गज्ञान- सम्भवादिति । पदार्थोपस्थित्यनन्तरं एकपदार्थे अपरपदार्थ संसर्गावनाहि. ज्ञानं हि शाब्दबोधः, तस्य सम्भवादित्यर्थः । तथा च शाब्दबोधोऽनुमितिः लिङ्गजत्वादित्यनुमानेन शाब्दबोधस्य प्रमान्तरत्वेऽसिद्धे विलक्षणप्रमाकरण- वाभावाच्छन्दोऽपि न प्रमाणान्तरमित्याह । शब्दो नेति । शब्दात् । गौरस्ती-

[[२२७]]

निवास्यात् । प्रत्येमि । जानामि । अस्त-वेन गामित्यादिः । एवं अस्तित्वेन गां शान्दयामि न वतुमिनीमीत्यनुव्यवसायोऽपि बोध्यः । श्रनुव्यव- लायसाक्षिकस्य । अनुभवसायविषयम्य । इदमुपलक्षणम् । व्याप्ति-

न्यायि शाब्दबोधस्वानुभवसिद्ध वात् । न च सर्वत्र शब्दश्रवणा- नस्तर व्याप्तिज्ञाने प्रमागमम्नोत्यपि बोध्यम् । किं च एकसम्बन्धिज्ञान विधया यथा पदज्ञानमर्थस्मारकं भवनि, तथा अर्थज्ञानस्यापि पदस्मारकतया वन्हि - रूपार्थज्ञानेन पदस्मरणं कल्पयित्वा अनुमितिस्थले शाब्दबोध एव किं न स्वीक्रियतामित्यास्तां विस्तरः ।

दी० ननु श्रर्थापत्तिरनि प्रमाणान्तरमस्ति “पीनो देवदत्तो दिवा न भुके” इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या रात्रिभो जनमर्थापत्त्या कल्प्यते इति चेन्न । “देवदतो रात्रौ भुङ्क्ते दिवामुञ्जानत्वे सति पीनत्वात्” इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात् ।

गं० – एतावता तत्करणं चतुर्विधमित्यादि मूलोपात्तानां चतु प्रमापपाद्य अर्थापत्यादीनां अतिरिक्तस्त्रप्रमाणत्वादिमीमांसक. मननिराकर गायाssst सम्मतमुपन्यस्यति नन्वित्यादिना । अर्थापत्तित्वं जातिविशेषः, अर्थापयामीत्यनुभवसिद्धः । अर्थापत्तिशब्दः “अर्थस्याऽऽपति- यस्मादिति व्युत्पत्या प्रमाणपरः ।

अर्थापत्तिशब्देनाऽन्यथानुपपत्तिज्ञानं

“अनुपपत्तिज्ञानं वाऽभिधीयते । तदेतत्प्रमाणम् । अन्यथानुपपत्तिद्विविधा । श्रुतार्थान्यथानुपपत्तिः । दृष्टार्थान्यथानुपपत्तिश्वेति । अर्थस्याऽऽपत्तिरिति व्युत्पत्या अर्थापत्तिशब्दः प्रमापरः । साऽपि द्विविधा । श्रुतार्थाऽऽपत्तिः । दृष्टार्थाssपत्तिश्च । उपपाद्यज्ञानं करणम् । उपपाद्यं चात्र पीनत्वम्, उपपादकज्ञानं फलम् । उपपादकं रात्रिभोजनम् । येन बिना यदनुपपक्ष तस्योपपादकत्वात् यदनुपपन्नं तस्योपपाद्यत्वात् । श्रर्थापचिर पीति ।

•तर्क - सङ्ग्रहः

[[२२८]]

अपना प्रत्यक्षादिपरिग्रहः । तथा च यथा प्रत्यक्षादि विलक्षणप्रमितिकरणं तथाऽर्थापत्तिरपीति भावः । दृष्टे प्रत्यक्षते ज्ञाते । अनेन दृष्टार्थाऽऽपत्तिः सूचिता । श्रुते । शब्दादवगते । अनेन श्रुतार्थापत्तिः सूचिता । पीनत्वाऽन्यथा- ऽनुपपत्येति । तादृशानुपपत्तिज्ञानरूपप्रमाणेनेत्यर्थः यथाश्रुते अनुपपत्ति- सत्वेऽपि तदज्ञानविरहत्रतः पुंसः कल्पनाऽसम्भवेनानुपपत्तेः । अस्यैव विशेषणं श्रर्थापत्या इनि । दिवाभुञ्जानस्य देवदत्तस्य रात्रिभोजनं विना पीनत्वमनुपपन्नमिति ज्ञानेनेति यावत् । रात्रिभोजनं कल्प्यते इति । frerseः पीनो देवदतो रात्रिभोजीत्यर्थापत्तिः प्रमा जन्यते इत्यर्थः । पीनत्वादिति । योगाद्यजन्यपीनत्वादित्यर्थः । सिद्धत्वादिति । अनुमि- तत्वादित्यर्थः यत्र तत्र यथा मासोपवासी तापस इति व्यतिरेकेण दृष्टान्तः । अवेद बोध्यम् । अव्याप्यस्य नोपपाद्यता । अध्यापको नोपपादकः । तथा चोपपादकाभावव्यापकीभूताभावप्रतियोगित्वं उपपाद्यस्येति पर्यवसितम् - तदेव च व्यतिरेकव्याप्तिरूपमिति ध्येयम् ।

दी० - शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव ।

“इ बटे यतस्तिष्ठति” इत्यैतिह्यमपि श्रज्ञातमूल प्रवक्तकः

शब्द एव ।

चेष्टाऽपि शब्दानुमानद्वारा व्यवहारहेतुरिति न प्रमाणान्तरम् । तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि ।

इति दीपिकायां शब्दपरिच्छेदः ।

गं० - अनुमानमेवेति । न प्रमाणान्तरमिति भावः । अनुमानप्रयोग- स्तु अयं पञ्चाशद्वान् शतवस्वादित्याकारकः । ऐतिह्यमपीति । शब्द एव । शब्दः प्रमाणमेवेत्यर्थः । अज्ञातः मूलं प्रवक्ता यस्य स तथा इत्यर्थः । चेष्टापि । शब्दानुमाने एव न तु प्रमाणान्तरम् । शब्दानुमानद्वारेति । श्रदस्मृतिद्वारा इत्यर्थः । व्यवहारहेतुरिति । द्वित्वादिबोध प्रयोजकम् ।

टीकात्रयोपेतः

अनुमानद्वारा । अयं एतादविषयक तात्पर्यवान् विलक्षणचेष्टावत्वात्

मनुमानं

दज्ञाने जाने शाब्दबोध उत्पद्यते इति ।

इति गङ्गायां शब्दपरिच्छेदः ।

दीः- (य) ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतो ग्राह्यं परतो

ति विचार्यते ।

गं० प्रसङ्गत प्रमायस्य अनानामिति । संस्कारनिष्ट’

परनोग्रान्वव्यवस्थापयितुमुपक्रमते । प्रकार कन्वरूप” प्रमात्वस्यातीन्द्रि

[[19]]

नया इच्छाष्टिय परैरपि परतो ग्राह्याभ्युपगमेनाऽविवादादाह । ज्ञानानामिति । ज्ञानभेदेन प्रसान्वं भिन्नमिति सूचयितुं बहुवचननिर्देशः । निवं पार्थः । अन्वयश्चास्य तद्वति तत्प्रकारकत्वमित्यनेन । स्वतो ग्राह्यमिनि । ज्ञानग्राहकसामग्रीजन्यग्रहविषय इत्यर्थः । परत इति ग्राह्यमित्यनुषज्यते । अनुमानादिजन्य ग्रह विषय इत्यर्थः । विचार्यते इति । निर्णीयते इत्यर्थः । श्रत्रेदं बोध्यम् । स्वत इत्यस्य स्वस्मात् स्वकीया - दिति वार्थः । तत्र गुरूणां मते ज्ञानं, मिति ‘ज्ञान” मातृ “आत्मा’ मेय " विषय” पुनस्त्रितयविषयकम् । तन्मते चक्षुः संयोगाद्यनन्तरं “घटमहं जानामीति प्रत्यक्षस्यैवोत्पत्तेः स्वविषकत्वमेव ज्ञानस्य स्वप्रकाशत्वम् । एवं व्यवसायस्य स्वप्रकाशात्मकतया स्वेनैव स्वगतप्रामाण्यस्य ग्रहणाद्, भवति प्रामाण्यस्य स्वतग्राह्यत्वम् । विशिष्टवुद्धिं प्रति विशेषणज्ञानस्य कार- जनायाम्नैरनङ्गीकारादनुपस्थितस्याऽपि प्रमात्वस्य भानसम्भवात् । तथा च स्वन इत्यस्य स्वस्मादिस्यर्थः । तथा च स्वस्यैव स्वप्रामाण्यविषयकतया स्वजनक सामग्री पुत्र स्वनिष्ठप्रामाण्यनिश्चायिका ।

"

१ गुरूणां मते ज्ञानस्य स्वप्रकाशस्त्रं तेषामयमभिप्रायः । ज्ञानस्य तद्गतप्रामा- यस्य वा ज्ञानान्तरात्रे तादृशज्ञानान्तरस्य तद्वनप्रामाण्यस्य च ग्रहार्थ ज्ञानान्तरा पेचायामनवस्थापत्त्या स्वप्रकाशरूपत्वमावश्यकमिति ।

तर्क - सङ्ग्रहः

,

J

[[२३०]]

मिश्रमते तु यं इनि “व्यवसायात्मक” ज्ञानं अनुव्यवसायग्रा - सम् अनुव्यवसायच व्यवसाय प्रत्यक्षम् घटमहं जानामीत्याकारकम् । नज्ञनिका सामग्री आत्ममनः संयोगादिकम् तथाचानुव्यवसायेन व्यव सायनिष्ठ प्रामाण्यं गृह्यते । एतन्मते स्वत इत्यस्य स्वकीयादित्यर्थः । स्व- प्रयोज्यादिति यावत । तथा च व्यवसायजन्यो योऽनुष्यवसायः, तत्सामग्री प्रथम “व्यवसायात्मक “ज्ञाननिष्टप्रमात्वनिश्चायिका, अनुव्यवसायस्य व्यव- सायविषयकत्ववद् व्यवसायनिष्ठप्रामाण्यविषयकवाच्चेति ।

या

भट्टमतं ज्ञानमतीन्द्रियम् १, ज्ञानेन ज्ञाततानामकः कचिद्धमों जन्यते स च धर्मो विषयनिष्ठः “ज्ञानो वट इति प्रतीतिसाक्षिकः " प्रत्यक्षसिद्धः । ज्ञानता च ज्ञानमनुमापयति । अनुमानप्रयोगस्तु इयं ज्ञातता घटत्वप्रका रकघट विशेष्यकज्ञानजन्या

घटसमवेतघटत्वप्रकारकज्ञाततात्वात् । यत्समवेतयत्प्रकारकज्ञातता सा तद्विशेष्यकतत्प्रकारकज्ञानजन्या पदविशेष्यक- परत्वप्रकारकज्ञाततावदिति सामान्यव्याप्तिरिति । एतन्मतेऽपि स्वत इत्यस्य स्वकीयादित्वाऽर्थः । तथा च स्वजन्या या ज्ञाततालिङ्गकाऽनुमितिः तत्सा- मग्री स्वनिष्ठप्रामाण्यनिश्चायिकेति भावः ।

दी० - तत्र विप्रतिपत्तिः । ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकया- वज्ञानप्राहकसामग्री प्राह्यम् न वा । अत्र विधिकोटि : स्वतस्त्वम् । निषेधको टिः परतस्त्वम् ।

[[1]]

गं० तत्र । विचारे । प्रयोजकत्वं सप्तम्यर्थः । विप्रतिपत्तावन्वेति । विप्रतिपचिस्वरूपमाह । ज्ञानप्रामाण्यमिति । तद्वतितन्प्रकारकत्वविशिष्टं ज्ञानं प्रपूर्वक माधातोरर्थः, ल्युट्प्रत्ययश्च प्रयोगसाधुत्वसम्पादकः, ध्यम् प्रत्ययश्च

१ श्रात्मसमवेत वृत्तिलौकिक विषयतासम्बन्धेन प्रत्यक्षं प्रति धर्माधर्मादिवि ज्ञानस्यापि तादात्म्य सम्बन्धेन प्रतिबन्धकत्वात् । २ ज्ञानजन्यविषयसमवेतपदार्थान्तररूपा इत्यर्थः ।

[[२३१]]

टीकात्रयोपेतः

"

भावार्थः । एवं च प्रामाण्यमित्यस्य तद्वतितत्प्रकारकज्ञानत्वमर्थः । तत्रापि ज्ञान-वाङ्गनिवेशी व्यर्थः, प्रयोजनविरहात । एवं च तद्वतितत्प्रकारकत्वमेवा • शिष्टम् । करrार्थकये तु प्रमाकरणन्त्रमित्यर्थः स्यात् तादृशप्रमा- करमनिरासाय ज्ञानपदम् ’ तदरि सावधारणम्, तथा व प्रमाकरणत्वं न ज्ञानमात्रवृति, प्रमाकरणे मनसि व्यभिचारात् किन्तु तद्वतितत्प्रकारक स्वरूपवनेत्र ज्ञानमात्रवृतीनि ज्ञाननिष्ठप्रमात्वं पक्षः । तद्वति तर कारकज्ञानवमिति यावत् । तदप्रामाण्याऽग्राहकेति । तत्पदं पक्षीभूत- प्रकृनप्रामाण्यः श्रयज्ञानपरम्, तत्राग्रामाण्याऽग्राहिकाः “अयं घट इत्याकारकं शान अनमा हत्याकारकं यत्तादृशप्रमात्वाश्रयविशेष्यका प्रमात्वप्रकारकं ज्ञानं तदजनिका.” अथ च यावद ज्ञानमाहिकाः " प्रकृतप्रामाण्याश्रयज्ञान- ग्रहजनिकाः " सामग्रयः तज्जन्यग्रहविषयां न वेत्यर्थः । तजन्यग्रहविषयत्वं विधिकोटः । तदभावो निपेधकोटिः स्वतस्त्वमिति । स्वतस्ववादिनो मीमांसकाः गुरुमिश्र भट्टास्त्रयः । परतस्त्ववादिनां नैयायिकाः । गुरुमते नाराज्ञानविषयक ग्रहः प्रथमज्ञानमेव “घटमहं जानामीत्याकारकं” तन्मले ज्ञानस्य प्रकाशरूपत्वात् । मिश्रमते तु अनुव्यवसायात्मकम् भट्टमते च अनुमितिः। तजनिका सामग्री क्रमेण चक्षुः संयोग आत्ममनः संयोग परामर्शा- दिकम् । विधिकोटिप्रसिद्धिस्तु तादृशप्रामाण्याश्रवज्ञाने “अयं घट इत्या- कारके”, तादृशज्ञानविषये घटत्वे ज्ञानवे च ।

,

दी० - अनुमानप्राह्यत्वेन सिद्धसाधनवारणाय यावदिति । ‘इदं ज्ञानमप्रमा’ इति ज्ञानेन प्रामाण्याग्रहाद्वाधवारणाय श्रप्रामाण्या- ग्राहकेति । " इदं ज्ञानमप्रमा” इति अनुव्यवसायनिष्ठप्रामाण्यग्राह- कस्य अप्रामाण्याप्राहकत्वाभावात् स्वतस्त्वं न स्यादतः तदिति । तस्मिन् प्राप्रामाण्याश्रये श्रप्रामाण्याप्राहकेत्यर्थः । उदाहृतस्थले

टि १ तथा च प्रमाकरणत्वे समभिव्याहृतज्ञानमात्रवृत्तित्त्रान्वयानुपपत्या प्रामय्यपदे तत्परत्वभ्रमनिरासः ।

तर्क - सङ्ग्रहः

areera

अप्रामाण्यग्राहकस्याऽप्यनुव्यवसाये

स्वतस्त्वसिद्धिः ।

[[२३२]]

तदप्राहकत्वात्

गं०- सामग्रयां यावत्वनिवेशस्य प्रयोजनमाह । श्रनुमानग्राह्यत्वे. नेति । इदं ज्ञानं प्रमा सफलप्रवृत्तिजनकत्वात् यचैवं तत्रैवं यथाऽप्रमेत्यनु- मितिजनक सामग्रया अपि निरुक्तज्ञानग्राहक सामग्रीतया तादृशसामग्रीजन्या- ऽनुमितिरूप प्रहविषयत्वस्योभयवादिसिद्धत्वेन सिद्धसाधनापत्तेरिति भावः । यावत्वविशेषणे व प्राथमिका व्यवसाय सामन्या अपि यावदन्तर्गततया सद्माद्यस्वस्य नैयायिकैरनभ्युपगमान सिद्धसाधनाऽवकाश इति ध्येयम् । नैयायिकमते च तादृशसामग्रीग्राह्यत्वाभावसाधने वाघवारणायेत्यपि

बोध्यम् ।

इदं ज्ञानमिति । रजत विशेष्यकरजतत्वप्रकारकज्ञानमित्यर्थः । इति ज्ञानेनेति । इति ज्ञानग्राहकेणेत्यर्थः । इत्याकारकज्ञान ग्रहजनक सामग्न्या इति यावत् प्रमाण्याऽग्रहादिति । प्रमात्वग्रहाऽनुत्पतेरित्यर्थः । तथा चेदं ज्ञानमप्रमेत्याकार करजतविशेष्य कर जतत्व प्रकारकज्ञान विशेष्यकाऽप्रमात्वप्रका- रकज्ञानजनकसामग्या यावदन्तर्गततया प्रतिबन्धकवशेन प्रामाण्याऽग्रहात् “स्वतस्य " वाधवारणाय अप्राण्याऽग्राहकेति विशेषणमिति भावः । श्रप्रामाण्याऽग्राहकेतीति । तथा च तादृशसामग्र्याः साध्य कोह्यप्रविष्टतया प्रामाण्यस्याग्रहेऽपि न वाघ इति भावः ।

इदं ज्ञानमिति । शुक्तिविशेष्यकर जतत्वप्रकारकज्ञानमित्यर्थः । इत्य- नुव्यवसायनिष्ठप्रामाण्यग्राहकस्येति । इत्याकारको य इदं ज्ञानमप्रमे- स्वनुव्यवसायः तविष्ठनिरुक्तप्रामाण्यप्रकारको यो ग्रहः तज्जनकचक्षुः सश्चिक- र्षादिघटितकारणकलापस्येत्यर्थः । श्रप्रामाण्याऽग्राहकत्वाभावादिति । व्यवसायनिष्ठाप्रामाण्यग्राहकत्वेनेत्यादिः । स्वतस्त्वं न स्यादिति । अनुष्यवसायनिष्ठ नेरुकप्रमात्वस्य स्वतो ग्राह्यत्वानुपतिरित्यर्थः । तदिति लुप्तसप्तमीकम् तदप्राहकत्वात् अप्रामाण्याग्राहकत्वात् स्वतस्त्वसिद्धि-

[[२३३]]

रिति । तथा च तत्पदस्य स्वाश्रयपरतया

character:

स्व श्रयविशेष्यकाप्रमात्व-

प्रकारक ग्रहाजनकस्वाश्रयग्राहक सामग्रीत्वव्यापकम्वग्राहक सामग्रीरख करवमेव स्वस्तिस्वमिति फलितम् । एवं च निरुकस्थले व्यवसायस्य प्रारूप स्वाश्रयत्वाभावात् अनुत्र्यवसायस्यैव स्वाश्रयतया तद्ग्राहक सामयाः स्वाश्रयविशेष्यकाप्रामाण्य प्रकारकज्ञानाजनकतयोदाहृतस्थले ताह- शसामप्रयाः प्रसिद्धत्वात् तादृशसामग्रीन्वव्यापकस्वग्राहकसामग्रीत्वकत्व- रूपस्यानुष्यवसायनिष्ठामाण्ये सत्यात नोकानुपपत्तिरिति भावः । अप्रत्यक्षमात्रस्य ज्ञानज्ञातृज्ञेयरूप त्रितयविषयकत्ववादिनां प्राभाकराण मने प्रत्यक्षनाम्यानुष्यवसायरूपत्वेन प्रमाण्यानुमितिजनक सामग्र्यामिव विषयचक्षुस्तेयोगात्ममनस्संयोग घटित सामग्र्यामपि स्वाश्रयग्राहक सामग्री - स्वात्तत्र स्वग्राहकसामग्रीत्व रूपव्यापकस्यापि सत्वेन प्रामाण्ये तन्मत- रीत्या विधिकोटिप्रसिद्धिः, मुरारिमिश्रमते अनुव्यवसायभ्य व्यवसायविषय- कश्वत् तन्निष्टप्रामाण्यविषयकत्वस्यापि सत्वेन चक्षुस्संयोगालोकसंयोगाद्य- घटितात्ममनस्संयोग घटितसामग्रयामपि त्वाश्रयग्राहक सामग्रीत्वसत्वेन तत्र सत्वात् तन्मतरीत्या विधिकोटि- प्रसिद्धिः । भट्टमते ज्ञानमतीन्द्रियं तजन्यज्ञाततयानुमेयम् । ज्ञातता तु ज्ञानवत् सविषया घटो ज्ञात इत्याकारकप्रत्यक्षसित समवायेन स्वरुप- सम्बन्धेन वा विषयवृत्तिः । एवं च घटवृत्तिज्ञातता घटत्वप्रकारकघटविशेष्य. कज्ञानजन्या जन्यतासम्बन्धेन तादृशज्ञानवती वा घटवृतिघटत्वप्रकारक• ज्ञाततावात् यन्नैवं तदें यथा पटनिष्टज्ञाततेत्यादिव्यतिरेक्यनुमानेन इदानीतनघट वृत्तिज्ञातता पक्षक निरुक्त साध्य कनिरुक्तहेतुक पूर्व कालीनघटवू ति- ज्ञाततादृष्टान्तघटितान्वय्यनुमानेन वा ज्ञानवत् तन्निष्ठप्रामाण्यस्याप्यनुमिति- सम्भवात् । तथा च ज्ञाततापक्षकानुमितिजनक सामग्र्यामपि तन्मते स्वाश्रय- ग्राहकसामग्रीत्वसत्त्वेन तत्र स्वग्राहकसामग्रीत्वरूपव्यापकस्यापि सत्वा-

तत्र भट्टमतरीत्या विधिकोटिप्रसिद्धिर्बोध्या ।

स्वग्राहकसामग्रीत्वरूपव्यापकस्यापि

श्री० ननु स्वत एव प्रामाण्यं गृह्यते, " घटमहं जानामि "

वर्क-सङ्ग्रहः

[[२३४]]

इत्यनुव्यवसायेन घटघटत्वयोरिव तत्सम्बन्धस्यापि विषयीकरणात् व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वान् । पुरोवर्त्तिनि प्रकारसम्बन्धस्यैव प्रमात्वपदार्थत्वादिति चेत्, न । स्वतः प्रामाण्यग्रहे ‘जलज्ञानं प्रमा न वा’ इत्यनभ्यासदशायां प्रभात्वसंशयो न स्यात् । अनुध्यवसायेन प्रामाण्यस्य निश्चितत्वात् । तस्मान् स्वतो ग्राह्यत्वाभावात् परतो ग्राह्य- त्वम् । तथाहि प्रथमं जलज्ञानान्तरं प्रवृत्तौ सत्यां जललाभे सति “पूर्वोत्पन्नं ज्ञानं प्रमा” समर्थप्रवृत्तिजनकत्वात् ‘यन्नैवं तन्नैवं यथा अप्रमा’ इति व्यतिरेकिणा प्रमात्वं निश्चीयते । द्वितीयादि ज्ञानेषु पूर्वज्ञानदृष्टान्तत्वेन तत्सजातीयत्व लिङ्गे नान्वयव्यतिरेकिणापि गृह्यते ।

गं० इत्थं विप्रतिपत्ति प्रदर्य मीमांसकमतं दूषयितुमुपन्यस्यति । नन्विति । स्वत एव प्रामाण्यं गृह्यते इति । प्रामाण्यं स्वतो गृह्यत एवेति योजना । प्रामाण्यं स्वतो ग्राह्यमेवेत्यर्थः । घटत्वादिमति घटत्वादिप्र. कारकत्वरूपं प्रामाण्यं ज्ञानग्राहकसामग्रीग्राह्यमेवेति यावत् । स्वतो ग्राह्यत्व- मुपपादयति । घटमहं जानामीत्यनुव्यवसायेनेति । इदं च मिश्रमता- भिप्रायेण । मतत्रयसाधारण्येन तु प्राथमिकज्ञानग्रहणेति यावत् तत्संव स्थस्यापीति । घटघटत्वयोः समवायरूपसम्बन्धस्यापीत्यर्थः । विषयक- रणादिति । तथा च स्वनिरूपितविषयताश्रययावद्विषयकत्वस्य स्वनिष्ठ वि- पयताक प्रत्यक्षत्वव्यापकत्वादिति भावः ।

सिवान्तयति । स्वतः प्रामाण्यग्रहे इति । प्रामाण्यस्य निरुक्तस्तो- ग्राह्यत्वस्वीकारे इत्यर्थः । जलशानमित्यादि । अनभ्यासदशायां जलज्ञानं प्रमा न वेति संशयशे न स्यादिति योजना । श्रनभ्यासदशायां -जल- ज्ञानं प्रमेध्याकारकजलज्ञान विशेष्यक प्रमात्वप्रकारक निश्चया भावदशायाम् । अलशानं प्रमा न वेति । जलज्ञानानन्तरजातजलज्ञानवानहमिति ज्ञाना- नन्तरमित्यादिः । इति संशयो न स्यादिति 1 इत्याकारकसंशयो

टीकात्रयोपेतः

नोत्पद्यतेत्यर्थः । न चेष्टापतिः । अनुभवविरोधादिति भावः । तत्र हेतुमाह । अनुव्यवसायेनेति ।

न च प्राभाकरमते घटादिज्ञानस्यैव तद्ज्ञानविषयकत्वात् तद्ज्ञाननिष्ट- प्रामाण्यावगाहिन्वादयकमया संशयानुपपत्तिसम्वेऽपि भाट्टादिमते प्राथमिक- तादृशज्ञानस्य तद्ज्ञानाविषयकतया प्रमात्वविषयकत्वाभावात् प्राथमिकताह- ज्ञानोत्तरं नमते संशयो नानुपपन्न इति वाच्यम् । तथा सति धर्मिज्ञा नाभावात्सशयाऽनुपपतितादयस्थ्यात् । संशये धर्मितावच्छेदकप्रकारकनि- यहेतुतायाः मन्वादिति । तस्मादिति । संशयानुपपत्तिरूपवाधकसत्वा- दित्यर्थः । ईचस्वग्राह्यत्वाभावे हेतुः । स्वतोग्राह्यत्वाभावादिति । निम्नोग्राह्यत्वस्य वक्तुमशक्यत्वादित्यर्थः । इदं च परतो ग्राह्यत्वे हेतुः । परतो ग्राह्यत्वमिति । अनुमानग्राह्यत्वमित्यर्थः । अनुमानप्रकार माह । तथाहीत्यादिना । प्रथमं जलज्ञानानन्तरमिति । प्राथमिकजलज्ञानान- न्तरमित्यर्थः । यत्र प्रथमं जलज्ञानं ततः जलज्ञानवान हमित्यनुव्यवसायः – तत इदं ज्ञानं प्रमा न वेति संशयः । अनन्तरं जले इष्टसाधनताज्ञानाधीनेच्छा तदनन्तरमिति यावत् । प्रवृत्तौ सत्यां जललाभे सतीति । प्रवृत्तिसम- कालं जलप्राप्तौ सत्यामित्यर्थः । पूर्वोत्पनजल ज्ञानमिति । प्राथमिकजल- ज्ञानमित्यर्थः । प्रमेति । जलत्ववतिजरुत्वप्रकारकत्वरूप प्रमात्ववदित्यर्थः । सफलप्रवृत्तिजनकत्वादिति । इच्छाद्वारा जलत्ववति जलस्वप्रकारकप्रवृ- शिप्रयोजकत्वादित्यर्थः तत्सजातीयत्वलिङ्गेनेति । समर्थप्रवृत्तिजनकत्वे- नेति यावत् ।

दी० –प्रमाया गुणजन्यत्वमुत्पत्तौ परतस्वम् । प्रमाऽसाधार- कारणं गुणः, अप्रमाऽसाधारणकारणं दोषः । तत्र प्रत्यक्षे विशेषणवद्विशेष्यसन्निकर्षो गुणः, अनुमितौ व्यापकवति व्याप्य- ज्ञानम् । उपमितौ यथार्थसादृश्यज्ञानम् । शाब्दज्ञाने यथार्थयोग्यता- ज्ञानम् इत्याद्यूहनीयम् । पुरोवर्त्तिनि प्रकाराभावस्यानुव्यवसायेना-

A

तर्क-सङ्ग्रहः

[[२३६]]

नुपस्थितत्वात् श्रप्रमात्वं परत एव गृह्यते । पित्तादिदोपजन्य त्वमुत्पत्तौ परतस्त्वम् ।

गं० - प्रमोत्पत्तेः परतस्त्वमुपपादयति प्रमाया इति । प्रमाया उत्पत्तौ गुणजन्यत्वं परतस्वमिति योजना । परतस्त्वमिति । परस्वमेवेत्यर्थः । स्वी- कार्यमिति शेषः । अनुपस्थितत्वादिति अविषयीकरणादित्यर्थः । श्रप्रमा- त्वमिति । तदभाववति तपकारकत्व रूपमप्रमात्वमित्यर्थः । परत एव गृह्यते इति । तथाहि । शुक्तिविशेष्यकर जतत्वभ्रमानन्तरं इष्टसाधनताज्ञानादिक्रमेण प्रवृत्तौ सत्यां रजarser पूर्वोत्पन्नं रजतज्ञानमप्रमा विफलप्रवृत्तिजनकत्वात् यनैवं तन्नैवं यथा प्रभा इति व्यतिरेकिणा निश्चीयते इति । अप्रमालस्य परतो ग्राह्यत्वमुपपाद्याश्मोत्पत्तेरपि परतस्त्वमुपपादयति । पिश्वादीति । आदिना मण्डूकवसान्जन परिग्रहः ।

दी०-

० - ननु सर्वेषां ज्ञानानां यथार्थत्वात् श्रश्रयथार्थज्ञानमेव नास्तीति । न च " शुक्ताविदं रजतम्’ इति ज्ञानात् प्रवृत्तिदर्शनाद- न्यथाख्यातिसिद्धिरिति वाच्यम् । रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव प्रवृत्तिसम्भवान् । उपस्थितेष्टभेदाप्रहस्यैव सर्वत्र प्रवर्तकत्वेन ‘नेदं रजतम्” इत्यादी अतिप्रसङ्गाभावादिति चेत् न । सत्यरजतस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन प्रवृत्तिजनकतया शुक्तावपि रजतार्थिप्रवृत्तिजनकत्वेन विशिष्टज्ञानस्यैव कल्पनात् ।

गं० - प्राभाकरः शङ्कते । नन्विति । सर्वेषां ज्ञानानामिति । घटत्वादिधर्म प्रकारकज्ञानमात्रस्येत्यर्थः । यथार्थत्वादिति । घटत्वादिमवि- ष्ठविशेष्यताकत्वादित्यर्थः । श्रयथार्थज्ञानमेव नास्तोति । विप्रतिपत्तिस्तु तदभाववद्विशेष्यकतस्प्रकारकत्वरूपाऽयथार्थत्वं ज्ञानवृति न वेत्याकारिका aiser । तेन न सिद्धयसिद्धिभ्यां व्याघातः । इच्छा दौ विधिकोटिप्रसिद्धियों- ध्या । शङ्कते । नचेति । शुकाविदं रजतमिति ज्ञानादिति । भत्रेदं

[[२३७]]

टीकात्रयोपेतः

I

रजतमिति ज्ञानमिदन्त्वेन शुक्तिविशेष्यकमेव न तु रजतविशेष्यकमिति स्फुटीकरणाय शुकावित्युकम्। प्रवृत्तिदर्शनादिति । प्रवृत्तेरनुभवसिद्धत्वा- दित्यर्थः । अन्यथास्यातिरिति । अयथार्थज्ञानमित्यर्थः । स्वीकार्येति शेषः । तथा च विशेष्यता सम्बन्धेन तद्मम्प्रकारकप्रवृत्तौ विशेष्यता संवन्धन तद्धर्मप्रकारकेच्छायाः तेन सम्बन्धेन तद्धर्मप्रकारकेच्छायां तेन सम्बन्धेन तद्धर्म- प्रकारकज्ञानस्य च हेतुम्वमिति रम्या कार्यकारणभावस्य सर्वमतसिद्धत्वेन तव मतं रङ्गविशेष्यकरजनत्वप्रकारक ज्ञानाऽप्रसिध्या कारणाभावेन रजतार्थिनो रहे प्रत्यनुपपगिरिति भावः । प्रभाकरमते इर्द, रजतमितिज्ञानद्वयं - इद. मिनि प्रत्यक्षात्मकम् रजतमिति स्मृत्यात्मकम् । अत एव यथार्थम् । उभयमन्त्र प्रवृणौ कारणमित्याह । रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेवेति । एवकारोऽप्यर्थकः । प्रवृत्तिसम्भवादिति । पुरोवर्त्तिविशेष्यकरजतत्वप्रका रकन वृत्रनुभवसिद्धत्वादित्यर्थः । तथा च ज्ञानद्वयाम्प्रवृत्त्युपपत्तेः, अन्यथा- ख्यातिर्न स्वीकार्येति शेषः । नन्वेवं सति नेदं रजतमिति ज्ञानाव्यवृत्त्यापत्तिः, निरुन्तकारणसम्वादत आह । उपस्थितेष्टभेदाऽग्रहस्यैवेति । रजतभेदाऽ- ग्रहस्यैवेत्यर्थः । प्रवर्तकत्वेन । प्रवृत्तिजनकत्वेन । इत्यादी । इत्यादिशा- नोतरमित्यर्थः । श्रतिप्रसङ्गाभावादिति । प्रवृत्त्यापत्यसम्भवादित्यर्थः ।

संशय- विपर्यय तर्क-

अयथार्थानुभव स्त्रिविधः,

भेदात् ।

न्या०– यथार्थाऽनुभवं निरूप्याऽयथार्थाऽनुभवं विभजते । संशयेत्यादिना ।

दी० — यथार्थानुभवं विभजते श्रयथार्थ इति, स्वप्नस्य मानसविपर्ययरूपत्वात् न त्रैविध्यविरोधः ।

गं० - यथार्थाऽनुभवं निरूप्येति । यथार्थानुभवविषयक निरूपण- ध्वंसकालीनाऽयथार्थानुभवत्वावान्तरधर्मप्रकारकज्ञानानुकूलव्यापारानुकूलकृति-तर्क -सङ्ग्रहः

[[२३८]]

मान् मूलकार इनिबोधः । स्वमाऽनध्यवसाययोरन्त नवमाह । स्वप्नस्येति । नया व विपर्ययेऽन्तर्भाव इत्यर्थः । यद्यपि प्रदेशविशेषावस्थितमनः संयोगः स्त्रमः एवं च संयोगरूपस्य तस्य न विपर्ययेऽन्तर्भावयितुं शक्यते, तथापि नादृशसंयोगाऽसमवायिकारणकज्ञाने भाक्ततयाऽन्तर्भाव इति ध्येयम् । एवं किस्विदित्याकारकाऽनवध्यवसायस्याऽपि विपर्ययेऽन्तर्भाव इत्यपि बोध्यम् ।

एकस्मिन्धर्मिणि विरुद्धनानाधर्मवैशिष्ट्यज्ञानं संशयः । यथा स्थाणुर्वा पुरुषोवेति ।

न्या०– एकेति । एकधर्मावच्छिन्नविशेष्य कभावाऽभावप्रकारक - ज्ञानं संशय इत्यर्थः । भावद्वय कोटिक संशयप्रसिद्धेः स्थाणुर्वेत्यत्र स्थाणुत्वस्थाणुत्वाभावपुरुपत्व- पुरुषत्वाभाव कोटिक एव संशयः ।

दी० - संशयलक्षणमाह एकेति घटपटौ इति समूहालम्बनेऽति- व्याप्तिवारणाय पकेति । घटो द्रव्यमित्यादौ श्रतिव्याप्तिवारणाय विरुद्धेति । घटत्वविरुद्धपटत्ववानित्यत्र अतिव्याप्तिवारणाय नानेति ।

[[1]]

[[1]]

गं०-मूले । एकस्मिन्निति । सप्तम्यर्थो विशेष्यत्वम् धर्मिपदं मुख्य विशेष्यता लाभार्थम् । विरुद्धेति । विरुद्धाः परस्पराऽसमानाधिकरणाः ये धर्माः तेषां वैशिष्ट्यं सम्बन्धः । तस्य ज्ञानं विषयत्वं षष्ठ्यर्थः । तथा चैकधर्मावच्विविशेष्यतानिरूपितविरुद्ध नानाधर्मं प्रकारताशालिज्ञानत्वमिति यावत् । अत्र नानाधर्मपदं भावाभावोभयपरम् । अतएवोक्त न्यायबोधिन्यां भावद्वयकोटिक संशयाऽप्रसिद्धेरिति । मूले । स्थाणुर्वा पुरुषो वेति । इत्याकारक इत्यर्थः । स्थाणुवस्थाणुत्वाभावकोटिकः स्थाणुर्वेत्येकः संशयः । पुरुषत्वपुरुषत्वाभावकोटिकः पुरुषो वेथाकारकोऽपरः संशयः । अथवा कोटि- चतुष्टयविपयत्वं संशये स्वीक्रियते न तु भावद्वयमात्रकोटिक इति ध्येयम् ।

[[२३६]]

टीकात्रयोपेतः

अयं स्थाणुर्वा पुरुषो वा, अयं स्थाणुः पुरुषश्चेति संशयसमुच्चययो- वैलक्षण्याय संशये कोटिवाख्यविपयता स्वीक्रियते । अथवा समुच्चये विशेष्यता विशेष्यभेदेन मित्रा, संशये उभयप्रकारतानिरूपिताविशेष्यतैका, परन्तु वन्हिप्रकारतानिरूपित विशेष्यतायाः वन्ह्यभावप्रकारतानिरूपितविशेष्य- ताया ऐक्येपि तयोरवच्छेद्याऽवच्छेदकभावः स्वीक्रियते ।

संशये साधारणधर्मवद्धर्मिज्ञानं असाधारणधर्मवद्धर्मिज्ञानं विप्रतिपत्तिश्च कारणम् । यथा उच्चैस्तरत्वं स्थाणुरूपसाधारणं ज्ञात्वा स्थाणुर्नवेति संशयं करोति । यथा वा शब्दस्वस्य नित्याऽनित्यव्यावृत्तत्वं गृहीत्वा शब्दो नित्यो नवेति सशयं करोति । विप्रतिपत्तिश्च शब्दात्मिका । एकेनोक्तं शब्दो नित्य इति अपरेण तु शब्दोऽनित्य इति । तत्र मध्यस्थस्य संशयो भवत्येवेति ।

मिथ्याज्ञानं विपर्ययः, यथा शुक्तौ इदं रजतमिति ।

न्या० ।

  • मिथ्याज्ञानमिति । अयथार्थज्ञानमित्यर्थः विपर्ययो

नाम भ्रमः ।

दो० – विपर्ययलक्षणमाह मिध्येति तदभाववति तत्प्रकारक निश्चय इत्यर्थः ।

गं०- तदभाववतीति । इदं च प्रमायामतिव्याप्तिवारणाय । संशये इच्छायां चातिव्याप्तिवारणाय निश्चयपदं निश्चयत्वं च संशयान्य- ज्ञानत्वम् । तदभावाऽप्रकारकत्वे सति तत्प्रकारकज्ञानत्वमिति यावत् । अन यद्वक्तव्यं तदुक्तं प्राक् । यथा शुकौ इदं रजतमिति । इत्याकारकनिश्चय इत्यर्थः ।

ननु रजतःच प्रकारक प्रत्यक्ष कारणीभूतत्य इन्द्रियसन्निकर्षस्य संयुक्तसम- वायस्य विरहेण कथं शुकौ इदं रजतमित्याकारकप्रत्यक्षं रङ्गस्य चक्षुः संयुक्तत्वेऽपि रजतत्वे तत्समचायाऽभावादिति चेन्न । लौकिकसन्निकर्षविरहे. पि अलौकिकसन्निकर्षस्य ज्ञानलक्षणाया स्वीकारादिति ध्येयम् ।

तर्क-सङ्ग्रहः

[[२४०]]

व्याप्यारोपेण व्यापकारोपस्तर्कः । यथा यदि बहिर्न स्यात्तर्हि धूमोऽपि न स्यादिति ।

न्याः व्याप्यारोपणेति । तर्के व्याप्यस्य व्यापकस्य च वाघनिश्चयः कारणम्, अन्यथा इष्टापत्तिदोषेण तर्कानुत्पत्तेः ।

दी० - तर्क लक्षणमाह । व्याप्येति । यद्यपि तर्कों विपर्ययेऽ- न्तर्भवति, तथापि प्रमाणानुप्राहकत्वात् भेदेन कीर्तनम् ।

गं - मूले । व्याप्यारोपेणेति । श्रारोपः आहार्यज्ञानम् । तच वाघकालीनेच्छाजन्यज्ञानम् । तृतीयार्थी जन्यत्वम् । तथा च व्याप्यविपयका- SSहार्यज्ञानजन्य व्यापकविपयकाऽहार्यज्ञानस्वं तर्कलक्षणम् । आपाद्यव्याप्य- आपादकवत्तानिश्चयः तर्फे कारणम् । वन्ह्यभात्रः आपादकः आपाद्यो धूमा- भावः । तथा च धूमाभावव्याप्यवन्ह्यभाववत्तानिश्चयो “मूलोकतकें” कारणम् । वस्तुत आपाद्यव्यतिरेकनिश्चय एव तर्फे हेतुरिति ध्येयम् । न्यायबोधिन्यां व्याप्यस्य आपादकस्य । व्यापकस्य आपाद्यस्य । तर्कस्य विपर्ययान्तर्भूत. स्वात् कथमसङ्गतमित्याक्षिपति । यद्यपीत्यादिना । प्रमाणाऽ- नुग्राहकत्वादिति । व्याप्तिज्ञान प्रतिवन्धकव्यभिचारशङ्कानिवर्धकत्वादि- स्पर्थः । संशयनिश्चयसाधारणव्यभिचारज्ञानत्वेन व्याप्तिबुद्धौ प्रतिबन्धकतया “धूमोsस्तु वहिर्मास्तु इति” व्यभिचारशङ्कायाः व्यासिद्धौ प्रतिबन्धकत्वे निवृत्यर्थ तर्कोऽपेक्षणीय इति भावः । स चायं पञ्चविधः । आत्माश्रय- अन्योन्याश्रय-चक्रक अनवस्था-तदन्यवाधितार्थप्रसङ्गभेदात् ।

[[1]]

स्मृतिरपि द्विधा । यथार्थाऽयथार्था च । प्रमा- जन्या यथार्था । श्रप्रमाजन्या यथार्था ।

दी० - स्मृतिं विभजते स्मृतिरिति ।

गंο- स्मृतिलक्षणं प्रागुक्तं वेदितव्यम् । प्रमाजन्या यथार्थाऽनु-

[[२३१]]

टीकात्रयोपेतः

भवजन्या । तथा च तद्वति तत्प्रकारकस्मृनित्यं यथार्थस्मृतेर्लक्षणम् । श्रप्र- साजन्या अयथार्थानुभवजन्या । तथा च तदभाववनि तत्प्रकार कस्मृतित्वं अर्धम् ।

सर्वेषामनुकूलतया वेदनीयं सुखम् ॥

न्याः - सुखं निरूपयति । सर्वेषामिति । इतरेच्छाधीनेच्छा. विपयत्वमिनि निष्कर्पः । यथाश्रुते घटोsनुकूल इत्याकार कज्ञानद- शायामनुकूतत्वप्रकारकज्ञानविशेष्यत्वस्य घटादावपि सत्वाद् घटा. दावतिव्यातिरिति । सुखेच्छाघीने मोजनादावतिव्याप्तिवारणाय इत रेच्छाधीनेच्छाविशेषणम् । सुखेच्छायाः सुखत्वप्रकारकज्ञानमात्र- जन्यत्वान् ॥

दी० - सुखं लचयति । सर्वेषामिति । “सुखी अहम्” इत्या- धनुव्यवसायगम्यं सुखत्वादिकमेव लक्षणम् । यथाश्रुतं तु स्वरूपक- थनमिति द्रष्टव्यम् ॥

गं०–मूले सर्वेषामिति । सकळप्राणिनामित्यर्थः । श्रनुकूलतया । इच्छाविषयतया । वेदनीयमिति । ज्ञायमानमित्यर्थः । सुखमिति । सुखरूपमित्यर्थः । तथा च सकलप्राणिनामभिलषितमेव सुखमिति यावत् । दीपिकायां - सुखी श्रहमिति । इदमुपलक्षणम् । सुखपदशक्यतावच्छे- दकतया सिद्धसुखम्वजातिमत्वमपि लक्षणं बोध्यम् । यथाश्रुतं त्विति । सर्वेषामनुकूल तयेत्यादिकमित्यर्थः स्वरूपकथमिति । अन्यथा अगम्याग- मनादिजन्यसुखेऽव्याप्तेः । साधूनां “नपरदारान्गच्छेदिति” तस्य प्रतिकूलतया वेदनीयत्वात् ॥

प्रतिकूलतया वेदनीयं दुःखम् ॥

न्या० - दुःखं निरूपयति । प्रतिकूलेति । अत्रापीतर द्वेषानधी- १६

तर्क- सङ्ग्रहः

[[२४२]]

नद्वेपविपयत्वमिति निष्कृष्टलक्षणम् । द्वेपविषयत्वमात्रोको सर्पादावति- व्याप्तिः । तत्रापि द्वेपविषयत्वसत्वादव इतर द्वेपानधीनेति द्वेषविशेष- गम् । सर्पजन्यदुःखादौ द्वेषात् सर्पेऽपि द्वेष इति सर्पद्वेषस्य सर्पन- न्यदुःखद्वेषजन्यत्वादन्यद्वेषा जन्यद्वेषविपयत्वरूप दुः खलक्षणस्य सर्पादौ नातिव्यातिः । फलेच्छा उपायेच्छां प्रति कारणम् । अतः फलेच्छा- चशादुपायेच्छा भवति । एवं फले द्वेषादुपाये द्वेषः ।

गं०-मूले प्रतिकूलतयेति । द्वेपविषयतयेत्यर्थः । अत्रापि सर्वेषा- मिन्यनुषज्यते । अत्रापि दुःखी अहमिति प्रत्यक्ष सिद्धदुःखत्व जातिमत्वं

दुःख. पदच्छेदकतया सिद्धदुःखत्यजातिमत्वं वा दुःख लक्षणं बोध्यम् । यथा- श्रुतं विपतिविशेषेण विषभक्षणादिजन्यदुःखे प्रतिकूलतया वेदनीयत्वाभावे- नाऽव्याप्ति स्यादिति ध्येयम् ॥

इच्छा कामः । क्रोधो द्वेषः । कृतिः प्रयत्नः ।

गं०-मूले । इच्छा काम इति । इच्छाकामयोः पर्यायता सूचनाय । लक्षणन्तु प्रवृत्तेः साक्षादनुकूलत्वम् । ज्ञानवारणाय साक्षादिति । एवमह मिच्छामीति प्रत्यक्षसिद्धेच्छात्वजातिमत्वमिच्छा सामान्यस्य लक्षणम् 1 इच्छा द्विविधा । फलेच्छा – उपायेच्छा च । फलं तु सुखं दुःखाभावश्च । इतरेच्छाधीनेच्छा विषयत्वं फलस्य लक्षणम् । फलमेव पुरुषार्थः । फलविशे- यच्छात्वं पच्छाया लक्षणम् । फलेच्छां प्रति फलज्ञानं कारणम् । उपाय- विशेष्यकेच्छावं उपायेच्छाया लक्षणम् । उपायेच्छां प्रति इष्टसाधनता. ज्ञानं कारणम् । मूले । क्रोधो द्वेष इति । तयोः पर्यायता सूचनाय । निवृत्तेः साक्षादनुकूलत्वं द्वेपलक्षणम् । ज्ञानवारणाय साक्षादिति । बलवद्- द्विष्टसाधनताज्ञानं द्वेषे कारणम् । एवं च “द्विष्टसाधनताज्ञानजन्यतावच्छे- दक” द्वेपत्वजातिमत्वमपि द्वेषस्य लक्षणम् । द्वेषं प्रतीष्टसाधनताज्ञानं प्रति- वन्धकमिति ध्येयम् । मूले । कृतिः प्रयक्ष इति । तथा च कृतित्व जाति-

[[1]]

arataयोपेतः

सर्व प्रयत्रस्य लक्षणम् । प्रययस्त्रिविधः । प्रवृनिनिवृत्तिजीवनयोनियम- नेशन । “मोमीतिमनतिसिद्ध–” प्रवृत्तित्वानिमत्वं प्रवृत्तेर्लक्षणम् ।

। विकीषां कृतिसाध्यताज्ञानं दष्टसाधनताज्ञानं उपादानत्यक्षं च कारणम् । मितीः कारणम् । जीवनयोनियनस्तु प्रापञ्चकसंवारे कारणम्, अतीन्द्रियश्च ।

विहितकर्मजन्यो धर्मः । निषिद्धकर्मजन्योऽ धर्मः ।

न्याः-धर्माऽधमों निरूपयति । विहितेति । वेदविहितेत्यर्थः । निषिद्धेति । वेदनिषिद्धेत्यर्थः ।

गं० - मुले । विहितकर्मजन्येति । वेदविहितं यस्कमं सजन्येत्यर्थः । कर्तव्यतया श्रुतिचोदितकर्मजन्येति यावत् । इदं च धर्मकार दर्शनपरन् क्षयं तु धर्मश्वजातित्वम् । सुखग्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेक तया धर्मस्वजातिसिद्विर्बोध्या । मूले। निषिद्धकमजन्येति । वेदनिषिद्धं ari जन्येrयर्थः । अकर्तव्यत्वेन श्रतिचोदितकर्मजन्य एवेति यावत् । लक्षणं तु अधर्मस्वजातिमत्वम्, अधर्मव्वजातिसिद्धिस्तु दुःख स्वावच्छिन्न- कार्यनानिरूपितकारणतावच्छेदकतया बोध्या । अष्टत्वन्तु न जातिरिनि

ध्येयम् ।

ननु यागादिकमेव स्वर्गादिहेतुरस्तु किमदृष्ट वीकारणेति चेन । यागा- दिकं फलकालपर्यन्तस्थाविस्वजन्यफलानुकूलव्यापारवान् तावत्कालमस्थायित्वे सनि जनकत्वात् अनुभववदित्यनुमानेनाऽदृष्टसिद्धेः । नचाप्रयोजकत्वम् । यागो यदि विरध्वस्तत्वे सति सभ्यापारो न स्यात्तदा स्वर्गकारणं न स्याद

दिति विपक्षवाधकतर्कसत्वात् । न च यागध्वंस एव व्यापारोऽस्तु किमदृष्टेनेति वाच्यम् । क्रियाकलापात्मकयागस्य ध्वंसानामान्येन लाघवादे- काऽदृष्टसिद्धः । नचाsत्र क्रियाणां युगपद्विनाशः, येनै कोध्वंसः स्यात् । न च चरमक्रियाध्वंसस्तथा । पूर्वपूर्वक्रियाणामानर्थक्यापत्तेः । तन्मात्रानुष्ठाने. पि फलापत्तेश्च । किं च गङ्गास्नानादेः फलजनकतायां सानध्वंसस्य व्यापारत्वं

तर्क - सङ्ग्रहः

[[૨૨]]

वयम् स्नानं च सर्वाङ्ग जलसंयोगः तेपामानन्त्यादनन्तध्वंसानां हेतुस्व- कल्पने गौरवम् । किं च कर्मनाशाजलस्पर्शादिना धर्मनाशोऽप्येवं सति नोपपयेन ध्वंसस्याविनाशिन्वान ।

किच से वैजान्याभावेन कार्यवै जान्यानुपपत्तिः, तथा च कार्यवैजाव्य- स्य कारणवै जात्यप्रयं तथा विजातीयकारणानुमानम् । वस्तुतः प्रतियोगि- Sarita arora नास्येव । तथा च स्वर्गे न यागध्वंसजन्यः याग- जन्यश्वाद् घटजन्यं जलाहरणं न घटध्वंसजन्यमिति । किं व ध्वंसस्य कारणत्वं यागस्य प्रतिबन्धकत्वापत्तिः, कारणीभूताभावप्रतियोगिन एव तत्वात् । अत पुत्र “ध्वंसवेनाऽपि हेतुत्वे प्रतियोगी न कारणमिति व्याप्ति- देव व्यभिचाराभावात्” इति शब्दमणिटिप्पण्यां रुचिदन्तेनोक्तमित्यलम् ।

बुद्धयादयोऽष्टौ आत्ममात्र विशेषगुणाः । वुद्धी- veerप्रयत्ना नित्या अनित्याश्च । नित्या ईश्वरस्य । श्रनित्या जीवस्य ।

न्या० - बुद्धयादयोष्टाविति । बुद्धिसुखदुःखेच्छाद्वेपप्रयत्न- धर्माsan: इत्यर्थः ।

गं० - श्रात्ममात्रविशेषगुणा इति । आत्मसमवेतविशेषगुणा इत्यर्थः । बुद्धीच्छाप्रयत्नानां विभावमाह । नित्या श्रनित्याश्चेति । नित्या- ईश्वरस्येति । नित्याः ईश्वरसमवेता इत्यर्थः । अत्र प्रयत्ननिरूपणानन्तरं तेषां विभागमकृत्वाऽष्टनिरूपणानन्तरं विभागकरणे मूलं मृग्यमिति ।

[[1]]

संस्कार स्त्रिविधः । वेगो भावना स्थितिस्थापक- वेति । वेगः पृथिव्यादिचतुष्टयमनोमात्रवृत्तिः । अ- नुभवजन्या स्मृतिहेतुर्भावना । श्रात्ममात्रवृत्तिः ।

न्या० — संस्कारं विभजते । संस्कार इति । भावनां लक्षयति ।

[[२४५]]

अनुभति । श्रनुभवजन्यन्त्रे सति स्मृतिहेतुत्वं भावनाया लक्षणम् । अनुभवजन्यत्वे सतीति विशेषणानुपादाने आत्ममनःसंयोगे - निव्यानिः श्रममनः संयोगभ्य ज्ञानमात्रं प्रन्यसमवायिकारणत्वेन स्मृतिं प्रत्यपि कारगवान् न स्वदुपादानम् । श्रात्मनः संयो- गम्यानुभवजन्यत्वाभावान्नावित्र्यानिः । तावन्मात्रे कृतेऽनुभवध्वंसे- प्रतिव्यामि, ध्वंसं प्रति प्रतियोगिनः कारणत्वेनाऽनुभवध्वंसस्याप्य- नुभवजन्यत्वादतः स्मृतिहेतुत्वोपादानम् । अनुभवध्वंसे स्मृतिहेतुत्वा- भावान्नातिव्यातिः ।

दी- संस्कारं विभजते । संस्कार इति । संस्कारत्वजाति- मान संस्कारः । वेगस्याश्रयमाह । वेग इति । वेगत्वजातिमान् वेगः ।

गं०— संस्कारत्वजातिमत्वं संस्कारस्य लक्षणम् । संस्कारपदशक्यता- वच्छेदकतया संस्कारम्वजातिसिद्धिबोध्या । प्रत्यक्षसिद्धवेगस्वजातिमत्वं वेगस्य लक्षणम् । वेगो द्विविधः कर्मज वेगजभेदात् ।

भावना हि अनुभवेन जन्यते, स्मृतिं जनयति । अतोऽनुभवजन्य वे सति स्मृति हेतुत्वस्य भावनायां सत्वालक्षणसमन्वयः । मूले । स्मृतिहेतु- रिति । इदमुपलक्षणम् । प्रत्यभिज्ञाहेतुरित्यपि बोध्यम् । भावनां प्रति उपेक्षान्यनिश्चयः कारणम् । न चाऽनुभव एवं स्मृति प्रति कारणमस्तु किं भावना कल्पनेनेति वाच्यम् । विना व्यापारं पूर्वानुभवस्य स्मरणादिजनना- sसामर्थ्यात् स्वस्वव्यापाराऽन्यतराभावे कारणत्वाऽसम्भवात् कार्यान्यच- हितप्राकक्षणवृति स्व स्वग्यापाराऽन्यतरकत्वस्यैव कारणतात्मकत्वात् । न चाsनुभवध्वंस एवं व्यापारोऽस्विति वाच्यम् । प्रतियोगिध्वंसयोरेकत्रा- जनकत्वात् । अनुभवस्य स्मृतिं प्रति प्रतिवन्धकत्वापत्त व कारणीभूता- भावप्रतियोगित्वस्य प्रतिबन्धकतापदार्थस्वात् । वस्तुतोऽपूर्व साधकयुक्त्या संस्कारसिद्धि निराबाधैवेति ध्येयम् ।

"

"

तर्क-सङ्ग्रहः

૨૫.

न्या० - ननु विशिष्टबुद्धिं प्रति विशेषण ज्ञानस्य कारणता सकलतान्त्रिकमतसिद्धा, यथा दण्डविशिष्टबुद्धिं प्रति दण्डज्ञानं कारणम् । दण्डविशिष्टबुद्धिर्नाम दण्डप्रकार कबुद्धिः, तथा च दण्डप्रकारक बुद्धित्वावच्छिन्नं प्रति दण्डज्ञानत्वेन कारणत्वमित्या- पतितम् । दण्डनकारकबुद्धिः दण्डी पुरुष इत्याकारकबुद्धिस्तत्र दण्डज्ञानं कारणम्, नहि दण्डमजानानः पुमान् दण्डीपुरुष इति प्रत्येति एवं च यत्रायं दण्ड इति प्रत्यक्षं जातं तदनन्तरं दण्डो पुरुष इत्याकारकप्रत्यक्षमुत्पन्नं तत्र दण्डी पुरुष इत्याकारक प्रत्यक्षेऽतिव्या- प्रिः । तद्धि स्वाव्यवहितपूर्व क्षणोत्पन्नदण्डज्ञानात्मकानुभवजन्यं जनि- प्यमाणे दण्डीपुरुष इत्याकार कम्मरणे कारणं च, स्मृतिं प्रति अनुभव- स्य कारणत्वात्, तथा चाऽनुभवजन्यत्वं सति स्मृतिहेतुत्वरूपभावना- लक्षणस्य यथोक्तदण्डी पुरुष इत्याकारकानुभवे विद्यमानत्वादति. व्याप्तिदिरितिचेद् । श्रत्र ब्रूमः । अनुभवजन्यत्वं हि अनुभवनिष्ठ- कारणता निरूपितकार्यताश्रयत्वम्, तत्र कारणतायामनुभवत्वावच्छि न्नत्वं निवेश्यते, तथा चानुभवत्वावच्छिन्नकारणता निरूपित कार्यता- श्रयत्वमनुभवजन्यत्वमिति फलितम्, अतोनोक्तातिव्याप्तिः, तथा हि दण्डप्रकारक बुद्धित्वावच्छिन्न कार्यतानिरूपिता दण्डज्ञाननिष्ठा या कार-

ता तम्यां न दण्डानुभवत्यमवच्छेदकं, दण्डानुभवादिवद्दण्डस्मर- गादपि दण्डप्रकारकवुद्धेरुत्पत्तेः, तो दण्डप्रकार कबुद्धित्वावच्छिन्नं प्रति अनुभवस्मरण साधारणदण्डज्ञानत्वेनैव दण्डज्ञानस्य कारण- तायाः स्वीकरणीयत्वेन दण्डज्ञानत्वस्यैव तदवच्छेदकत्वात्, तथा चाऽनुभवत्वावच्छिन्न कारणतानिरूपितकार्यताश्रयत्वस्यो क्तप्रत्यक्षेऽ भावान्नातिव्याप्तिः । भावनायां तु लक्षणमिदं वर्त्तते । तथा हि । अनुभवेनैव भावनाख्यसंस्कारोत्पत्या भावनात्वावच्छिन्नं प्रति अनु-

[[२४७]]

ateroयोपेतः

ratniseeds कारणतया भावनात्वावाच्छिन्न कार्यतानिरूपिता- नुभवनिष्ठ कारणतायामनुभवत्वमवच्छेदकम् श्रतोऽनुभवत्वावच्छिन कारणतानिरूपित कार्यताश्रयत्वं भावनायां वर्त्तते इति नासम्भवः ।

[[1]]

नन्वेवं स्मृतिहेतुत्त्रविशेपणवैयर्थ्यम्, तद्धि अनुभवध्वंसेऽति- व्यामिवारणाय प्रागुपात्तम्, न हि यथोक्तानुभवजन्यत्वविवचायां- मनुभवध्वंसेऽतिव्यातिः प्रसज्यते । तथा हि । ध्वंसत्वावच्छिन्नं प्रति प्रतियोगिनः कारणत्वं प्रतियोगित्वेन रूपेण तत्तद्ध्वंसस्वावच्छिन्नं प्रति च तत्तत्प्रतियोगिव्यक्तेः तत्तव्यतित्वनेत्येवं ध्वंसप्रतियोगिनोः कार्यकारणभावः । तथा च ध्वंसनिष्ठकार्यतानिरूपिता याऽनुभवनिष्ठा कारणता तस्यां प्रतियोगित्वमवच्छेदकं तत्तद्वयक्तित्वं च नत्वनुभव- त्वमपीत्यनुभवत्वावच्छिन्नकारणतानिरूपित कार्य ताश्रयत्वरूपानुभवज- न्यत्वविरहेणैवाऽतिव्याप्तिवारण सम्भवात्कृतं स्मृतिहेतुत्व विशेषणेनेति- चेन्न । स्मृतावतिव्याप्तिवारणायैव तदुपादानात् । तथा हि । स्मृति प्रति अनुभव एव कारणं न तु स्मृतिरपि, अतो घटस्मृतित्वावच्छिन्नं प्रति घटानुभवम्य घटानुभवत्वेनैव कारणत्वं न तु घटज्ञानत्वेन, तथा च घटस्मृतिनिष्ठ कार्यतानिरूपिता या घटानुभवनिष्ठाकारणता तस्यां घटानुभवत्वमवच्छेदकम् तेनाऽनुभवत्वावच्छिन्नकारणतानि- रूपित कार्यताश्रयत्वस्य स्मृतौ विद्यमानत्वादतिव्याप्तिवारणाय स्मृति• हेतुत्वमुक्तम्, न हि स्मृतिः स्मृतिहेतुः अतो न तत्रातिव्याप्तिरित्यल- मनल्पजल्पनेन ।

दो०- भावनां लक्षयति । अनुभवेति । अनुभवध्वंसेऽतिव्या- प्तिवारणाय स्मृतीति । श्रत्मादौ श्रतिव्याप्तिवारणायानुभवेति । स्मृतेरपि संस्कार जनकत्वं नवीनैरुक्तम् ।तर्क-सङ्ग्रहः

गं० - स्मृतेरपीति । अपिना अनुभवपरिग्रहः । तथा चैतन्मते श्रनु भवजन्या इत्यस्य ज्ञानजन्या इत्यर्थो बोध्यः । नवीनैरुक्तमिति । तेषामयमाशयः । स्मृति प्रति अनुभवः अनुभवत्वेन न कारणम्, अपि तु ज्ञानस्वनैव, अनुभवम्वेन कारणत्वे स्वरगानन्तरं करणं न स्थात्, संस्कारस्य फलनाश्यतया पूर्वमरणेन विनाशात् । ज्ञानत्वेन कारणत्वे तु पूर्वस्मृतैरपि स्वजन्य संस्कारद्वारा उत्तरस्मृतौ कारणतया नोक्तानुपपत्तिरिति । प्राचीना- नान्त्वयमाशयः । अनुमवत्वेनैव कारणत्वम्, न तु ज्ञानत्वेन, अनुभवत्व- स्यापि जानित्वेन ज्ञान वापेक्षया गौरवाभाशत् । न च विनिगमनाविरहः । विशेषधर्मेण व्यभिचाराऽज्ञाने सामान्यधर्मेणाऽन्यथासिद्धत्वात् । संस्कार- नाशकच कालस्य – रोगस्य - चरमफचस्य वा, नत्वान्तरालिकस्मरणा- नामिति नोकानुपपत्तिरित्यत्र विस्तरः ।

अन्यथाकृतस्य पुनस्तदवस्थापादकः स्थितिस्था- पकः । कटादि पृथिवीवृत्तिः ।

दी० - स्थितिस्थापकं लक्षयति अन्यथेति ।

सङ्ख्यादयोष्टौ नैमित्तिकद्रवत्ववेग स्थितिस्थापकाः सामान्य गुणाः अन्य रूपादयो विशेषगुणाः । द्रव्यविभाजकोपाधिद्वयसमानाधिक रावृत्तिजातिमत्वं विशेषगुणत्वम् ।

गं०-मूले अन्यथाकृतस्य । अवस्थान्तरं प्रापितस्य । तदवस्था पादकः । पूर्णवस्थाजनकक्रियाहेतुः । वेगभावनान्यसंस्कारत्वं तल्लक्षणम् । श्रत्रेदंवोध्यम् । गुणाः द्विविधाः सामान्यगुणाः विशेषगुणाश्च । सङ्ख्या. परिमाणपृथकत्व-संयोग-विभाग परत्व-अपरस्व-गुरुत्व नैमित्तिकद्रवत्व- वेग- स्थितिस्थापकाः सामान्यगुणाः । रूपस्पर्शान्यत्वे सति द्रव्यविभाजकोपाधि- क्याप्यतावच्छेदकसंयोगविभाग वेगद्रवत्वाऽवृत्तिजातिशून्यगुणत्वम् । द्रव्य- विभाजकतावच्छेदकं यत्पृथिवीत्वादि तद्वद्याप्यतावच्छेदकं च गन्धत्वादि तच्छू-

[[२४६]]

न्यत्वस्य सङ्ख्या

टीकात्रयोपेतः

वालक्षणसमन्वयः अन्येरूपादय इति । रूपरस-

गन्ध-स्पर्श-बुद्धि, सुख-दुःख इच्छा द्वेष प्रयन्न सांसिदि

धर्म अधर्म भाव- ना-शब्द इत्यर्थः । द्रव्यविभाजकेति । द्रव्यविभाजकीभूनं यदुपाधिद्वयं

[[1]]

  • पृथिवीवादिरूपं” तत्तत्समानाधिकरणाः “द्वित्वपृथकत्व संयोगादयः नवृत्तिजातिमद्गुणत्वमित्यर्थः ।

भावनाsन्यो यो वायुवृत्तिवृत्तिस्पर्शाऽवृत्तिधर्म समवायी तदन्यत्वे सति गुरुवाऽजलद्रवन्वान्यगुणत्वमिति यावत् । तेन एकत्वे परिमाणे च नाति- व्याप्तिः कटादिपृथिवीवृत्तिरिति । केपां चिन्नते पृथिव्यादिचतुष्टयवृत्ति- रिति ध्येयम्। संस्कारः सर्वोऽप्यनित्य एत्र ।

चलनात्मकं कर्म । ऊर्ध्वदेश संयोगहेतुरुत्क्षेप- एम् । अधोदेश संयोगहेतुरपक्षेपणम् । शरीरसन्निकृ- टसंयोग हेतुराकुञ्चनम् । शरोरविप्रकृष्टसंयोगहेतुः प्र- सारणम् । अन्यत्सर्व गमनम् । पृथिव्यादिचतुष्टयम- नोवृत्ति ।

दी० - कर्मणो लक्षणमाह चलनेति । उत्क्षेपणादीनां कार्य- भेदमाह । ऊर्ध्वति । वक्रतासम्पादकं कर्म श्राकुञ्चनम् । ऋजुता सम्पा- दकं प्रसारणमित्यर्थः ।

गं० - कर्मस्वजातिमत्वं कर्मणो लक्षणम् । ऊर्ध्वदेशात । भदौ क्रिया ततो विभागः ततः पूर्वसंयोगनाशः तत उत्तरदेशसंयोगः इति क्रमः । स चोत्तरदेश संयोगः यद्य धर्ध्वदेशसंयोगः स्यात् तदा तादृशसंयोगजनकीभूतं कर्म उत्क्षेपणमित्युच्यते । एवमपक्षेपणादिष्वपि वोध्यम् । लक्षणन्तु ऊर्ध्वदेशसं- योगाऽसमवायिकारणत्वम् । एवमुत्क्षेपणत्वादिजातिमत्वमपि । श्रन्यत्सर्व- मिति । भ्रमणरेचनस्यन्दनोर्ध्वज्वलन तिर्यग्गमनात्मकं सर्व गमनस्वरूपमित्य-

वर्क -

सङ्ग्रहः

[[૫]]

थेः । उच्क्षेपणादीनामपि गमनेऽन्तर्भावात पृथनिरूपणं शिष्यबुद्धिवैशद्याय स्वतन्त्रम्य मुनन्दियोङ्गपर्यनियोगानर्हस्याच्चेति ध्येयम् ।

नित्यमेकमनेकानुगतं सामान्यम् । द्रव्यगुण- कर्मवृत्ति । तद् द्विविधं पराऽपरभेदात् । परं सत्ता । अपरं द्रव्यत्वादि ।

न्या० - सामान्यं निरूपयति । नित्यमेकमिति । नित्यत्वे सति अनेकसमवेतत्वं सामान्यलक्षणम् । नित्यत्वानुपादाने संयोगादावति- व्याप्तिः, तत्राऽपि अनेक समवेतत्वसत्वान्, तद्वारणाय नित्यत्व- विशेषणम् । अनेकसमवेतत्वानुपादाने श्राकाशादावविव्याप्तिः, तद्वारणायाने कसमवेतत्वविशेषणम् । अनेकत्वानुपादाने जलपर माणुरूपादावतिव्याप्तिः, श्रतोऽनेकेति ।

दी० - सामान्यं लक्षयति । नित्यमिति । संयोगेऽतिव्याप्ति- वारणाय नित्यमिति । जलपरमाणुगतरूपेऽतिव्याप्तिवारणाय एकेति । परमाणुपरिमाणादावतिव्याप्तिवारणाय अनेकेति । श्रनुगतत्वं सम- वेतत्वम् । तेन नाऽभावादावतिव्याप्तिः ।

गं० - तत्रापि । संयोगादावपि । न चैवमपि नित्यसंयोगेऽतिव्याप्ति-

1 रिति वाच्यम् । नित्यसंयोगे मानाभावात् । दीपिकायां एकेतीति । वस्तु तस्तु एकपदं प्रामादिकमेव प्रतिभाति । न च नित्यत्वे सति अनेकवृत्तित्व मेवास्तु किं समवायसम्बन्धावच्छिन्न वृत्तित्वनिवेशेनेति वाच्यम् । अस्यन्ताs- भावेऽतित्र्याप्तेः तस्य नित्यत्वात् अनेकवृत्तित्वाच । श्रतोऽनेकेतीति । नचानेकार्य यदि यत्किचिदेकभिन्नत्वं तदा उक्तदोषतादवस्थ्यम् जलीय - परमाणोरपि यत्किचिदेकभिस्वात्, यदि एकत्वावच्छिन्न सामान्यभेदः तदा- प्रसिद्धिः, एकत्वस्य केवलान्वमित्वादिति वाच्यम् । स्वप्रतियोगिसमवेतत्व

[[२५१]]

टीकात्रयोपेतः

स्वसामानाधिकरण्यो भय सम्बन्धेन भेदविशिष्टत्वस्यैव अनेकसमवेतत्वाच कोवि दोषः ।

नित्यद्रव्यवृत्तयो व्यावर्त्तका विशेषाः ।

न्या० - नित्यद्रव्येषु परमाण्वादिषु वर्त्तमानाः । " श्रतएव " व्यावर्त्तकाः इतरभेदाऽनुमितिहेतवः । नित्यद्रव्यवृत्तित्व रूप पक्षधर्मता- प्रयोज्येतरभेदानुमापकताशालिन इत्यर्थः । नित्यद्रव्यनिष्ठविशेष्यता. निरूपितैकमात्रवृत्तिभेदानुमितिजनकतावच्छेदकप्रकारताश्रयत्वं विशे- षाणां लक्षणमिति भावः । पार्थिवपरमाणौ जलादिभेदानुमापक- गन्धेऽतिव्यानिवारणाय एकमात्रवृत्तित्वं भेदविशेषणम् । घटादौ तदितरभेदानुमापके तपादावतिव्याप्तिवारणाय निरूपितान्तं प्रकार- वाविशेषणम् । एतेन व्यावर्त्तका इत्यस्य नित्यद्रव्य विशेष्य केतर भेदा- नुमितिप्रयोजका इत्यर्थकतया लक्षणपरत्वेन साफल्येऽपि नित्यद्रव्य- वृत्तय इति विफलमेव, स्वरूपाख्यानस्याऽपि कृतत्वादिति प्रत्युक्तम् ।

दो०— विशेषं लक्षयति । नित्येति ।

गं० - बित्यद्रव्याणि च पृथिव्यादिचतुष्टयपरमाणवः, आकाशकालदि- गात्ममनांसि च । अयं घटः घटान्तराद् भिन्नः एतत्कपालसमवेतत्वादिति रीत्या सावयव घटादि द्यणुकपर्यन्तद्रव्याणां तत्तदवयवभेदाद् भेदः । परमाणूनां निरवयवत्वान्नाऽवयवभेदप्रयुक्तो भेदः सम्भवतीति परमाणूनां परस्परं भेदर्थं विशेषनामकः पदार्थः स्वीक्रियते । अयं परमाणुः परमाण्वन्तर- भिन्नः विशेषादिति प्रकारः । न च परमाणुभेदकस्याऽसत्वे क्षतिविरह इति वाच्यम् । घटारम्भकपरमाणुतः पटारम्भकपरमाणोरवैलक्षण्येन पटपटयोर • वैलक्षण्यप्रसङ्गात् । कारणवैलक्षण्यं विना कार्यवैलक्षण्याऽदर्शनात् । परमाणोरेव म्यावर्त्तकत्वमिति न शङ्क्यम् । परमाणुः न स्वतो व्यावर्धकः रूपस्पर्शाऽन्यत रवत्वाद् घटवदित्यनुमानवाधात् । तथा च परमाणूनां परस्परभेदसिद्ध्यम्य-

सर्व-सङ्ग्रहः

પર

धानुपपत्या erse विशेषोङ्गीकर्त्तव्य इति भावः । परमाणुपु परस्परभेदाऽनुमितिः किञ्चिलिङ्गज्ञानजन्या अनुमितित्वाद् वन्द्याद्यनुमितिवदित्यनुमानाद् विशेष- सिबोध्या । न च परमाणूनां तत्तन्नीलपीतादिरूपभेदेन भेदसम्भवाद्विशेषा- ङ्गीकारो व्यर्थ इति वाच्यम् । एकजातीयरूपवतां तेषां तदनभ्युपगमे भेदानु पपत्तेः । ननु विशेषाणां परस्परव्यावर्त्तनाय विशेषान्तरमुपगन्तव्यम् तथा चाऽनवस्थेति चेन । परमाणुष्यावर्त्तनाय कल्प्यमानविशेषस्य स्वभ्यावर्त्तकनि- रपेक्षस्यैव कल्पनात्’ । नव्यास्तु विना व्यावर्त्तकं परेषां विशेषाणामिव नित्यानामपि द्रव्याणां स्वतो व्यावर्त्तकत्वादित्याहुः । केचित्तु शब्द समवायि- कारणतावच्छेदकतया तत्कल्पनमावश्यकम्, अनेक शब्दादौ तत्कल्पने गौरवात् । न च तत्परिमाणव्यक्तिस्तथास्तु । तदैकत्वादिना विनिगमनाविरहात् । न चाले विनिगमनाविरहः सम्भवतीति तत्सिद्धिरित्याचक्षते । तचिन्त्यम् । यत्राननुगतानि कारणानि तत्राऽपेक्षते कारणतावच्छेदकोऽनुगतो धर्मः कारणतायाः । प्रकृते तु कारणाननुगमाभावान्नापेक्षणीयोऽनुगतोधर्मः । न च कारणता सावनिति नियमः । मानाभावात् ।

नित्यसम्बन्धः समवायः । अयुतसिद्धवृत्तिः । योर्द्वयोर्मध्ये एकमपराश्रितमेवाऽवतिष्ठते तावयुत- सिद्धौ । यथा अवयवाऽवयविनौ गुणगुणिनौ क्रिया- क्रियावन्तौ जातिव्यक्ती विशेषनित्यद्रव्ये चेति ।

न्या०– समवायं निरूपयति । नित्येति । सम्बन्धत्वं विशिष्ट- प्रतीतिनियामकत्वम् । तावन्मात्रोक्तौ संयागेऽतिव्याप्तिरतो नित्य इति विशेषणम् । ययोर्द्वयोर्मध्ये इति । यन्निष्टका निरूपिताss- घेयतासामान्यं यदवच्छिन्नं तदु पयान्यतरत्वमयुतसिद्धत्वमित्यर्थः ।

टि० १ तथा च विशेषाः स्यतो व्यावृत्ता इति भावः । स्वतो व्यावृतत्वं च स्वभिन्नलिङ्गजन्यस्य विशेष्यकस्व सजातीयेतर मैदाऽनु मिलविषयत्वम् ।

પર

टीकात्रयोपेतः

दी० – समवायं लक्षयति नित्येति । संयोगेऽतिव्याप्तिवारणाय नित्येति । श्राकाशादावतिव्याप्तिवारणाय सम्बन्ध इति । प्रयुत- सिद्धलक्षणमाह ययोरिति । ‘नीलोघट’ इति विशिष्टप्रतीतिः विशे- परणविशेष्यसम्बन्धविपया विशिष्टप्रत्ययत्वात् दण्डीति प्रत्ययवदिति समवायसिद्धिः । श्रवयवावयविनाविति । द्रव्यसमवायिकारणम- वयवः । तज्जन्यं द्रव्यमत्रयवि ।

गं० - विशिष्टप्रतीतिनियामकत्वमिति । विशेष्यता प्रकारताऽन्य- विशिष्टवीविपयत्वमिति यावत् । ययोर्द्वयोर्मध्ये घटक पाल्योमध्ये । एकं RE: । अपराािवतिष्ठते कपालाश्रितमेवावतिष्ठते । तौ घटकपाला- विन्यर्थः । इह कपाले घट इति प्रतीतेः कपालावच्छेदेन एतत्काले घटवत्वा- वगाहितया घटनिष्ठकालनिरूपिताऽऽधेयता सामान्यस्य कपालावच्छिन्नतया क पालवटो भयमयुनसिद्ध मिनि । घटभूतलवारणाय सामान्यमिति ।

A

अनादिः सान्तः प्रागभावः । उत्पत्तेः पूर्व

कार्यस्य ।

दी० ० — प्रागभावं लक्षयति । श्रनादिरिति । श्राकाशादावतिव्या- प्तिवारणाय सान्त इति । घटादावतिव्याप्तिवारणाय अनादिरिति । प्रतियोगिसमवायिकारण वृत्तिः, प्रतियोगिजनकः, भविष्यतीति व्यव हारहेतुः प्रागभावः ।

गं०- मूले अनादिरिति । आादिरहित इत्यर्थः । आदिः उत्पत्तिः । उत्पत्तिश्चाऽऽद्यक्षणसम्बन्धः । प्रागभावाऽप्रतियोगित्वमिति यावत् । सान्त इति । अन्तो ध्वंसः । प्रतियोगितासम्बन्धेन तद्वान् । तथा चोत्पत्तिशून्यत्वे सति वंसप्रतियोगित्वं प्रागभावस्य लक्षणम् । दीपिकायां । सान्त इति । विशेष्यदलमित्यर्थः श्रनादिरिति । सत्यन्तदरमित्यर्थः । प्रतियोगि-

तर्क - सङ्ग्रहः

[[૨૫]]

समवायिकारणवृत्तिरिति । प्रतियोगिनो यत्समवायिकारणं तत्र वर्त्तते इत्यर्थः । कार्यस्योत्पत्तेः पूर्वमिति मूलमपि अत्रैवोपतिष्ठते । ध्वंसप्राग- भावयोः स्वप्रतियोगिसमवायिदेशवृत्तित्वनियमात् । प्रयोजनमाह । प्रतियोगिजनक इति घण्टे कारणमित्यर्थः । प्रमाणमाह । भविष्यतीति व्यवहारहेतुरिति । भविष्यतीति व्यवहाराऽसाधारणकारणमित्यर्थः । भवि- प्यतीत्यस्य प्रतियोगिता सम्बन्धेन प्रागभाववान् इत्यर्थः, व्यवहर्तव्यतावच्छेदकं प्रागभाववत्वम् । तच प्रागभाव एव । एवं च भविष्यतीति शब्दप्रयोगे प्राग- भावः कारणम् । व्यवहारे व्यवहर्त्तव्यतावच्छेदकस्य कारणत्वादिति ।

[[1]]

नव्यास्तु प्रागभावे मानाभावः । न च तत्र प्रत्यक्षं, इह घटप्रागभाव इति प्रत्ययवासनाकल्पिततया तदसाधकत्वात् । भविष्यतीति प्रत्ययस्य वर्तमान कालोत्तरकालोत्पत्तिकत्वविषयकत्वेन निर्वाह तथा वात् । अभावत्वं विनाशिवृति पदार्थविभाजकोपाधित्वाद्भावत्ववदित्यनुमानस्याप्रयोजकतया तदसिद्विः । स्यादेतत् उत्पन्नस्य पुनरुत्पादवारणाय तदभ्युपगमो दुर्वारः । तदानीमपि सामग्र्याः अक्षतत्वात् । न च तदुत्पादोत्तर कालीन तदुत्पाद रूपस्य पुनरुत्पादस्याप्रसिद्धतयाऽपादनासम्भवः । घटाद्युत्पत्तिद्वितीयक्षणः यद्येतद्ध- सामग्र्यव्यवहितोत्तरः स्यात् घटाद्युत्पादवान् स्यादित्याकारकापत्तेः सम्भवात् । नचेहाऽप्रसिद्धिरस्ति इति चेत् । सत्यं । सम्भवति तदेदं यदि सामग्र- व्यहितोत्तरत्वं तदुत्पादवत्वव्याप्यम् तत्रैव मानाभावात् किन्तु तद्वत्ता- व्याप्यमेव । एवं चोत्पादकेन द्वितीयादिक्षणे तद्वचैवाऽपादनीया । न चेयम frerset । अथवोत्पस्यन्तर्भावेन व्याप्तिरस्तु । तथापि न घटोत्पत्तिद्वितीय- क्षणे तदुत्पादः, किन्तु जन्यद्रव्यत्वावच्छिन्नं प्रति द्रव्यत्वेन प्रतिबन्धकतया प्रतिवन्धकाभावरूप हेत्वभावेनैव तदनुपत्तेः । अनन्तप्रागभावां हेतुहेतु- सद्भावकल्पनापेक्षया ईशकल्पनाया एवोचितत्वात् । न च महाघटना- शानन्तरं यत्र खण्डघट उत्पद्यते तत्र खण्डघटोत्पत्तिकाले तद्धयापत्तिः कार्या- व्यवहितप्राकालावच्छेदेन प्रतिबन्धका भावहेतोः सच्चादिति वाच्यम् । तत्र यादशारम्भकसंयोगनाशाद् घटो नष्टः तादृशसंयोगव्यकेरेव हेतुत्रोपगमेन

[[૫૫]]

टीकात्रयोपेतः

नापतिगन्धोऽपि । न च यत्र सहाधपटस्य विंशतितन्तु संयोगना- शानन्तरं मण्डप उत्पनेत ताम्पत्तिकाले तत्पोत्पादवारणाय विनिसंयोगानां हेतुकल्पनापेक्षया नागभावहेतुस्वकल्पनमेव साधीय इति वाच्यं । नत्र तादृशघटावनिं प्रति तत्पदनाशवेन प्रतिबन्धकस्व कल्पनात् । न च तत्पटम्वावच्विं प्रति तत्तत्पदनाशत्वेन जन्यद्रव्यत्वात्र- छिनं प्रति द्रव्यत्वेन न प्रतिवन्धककल्पनागौरवेण तत्पदं प्रति तत्पटभाग- arian नैव साधीयसीति वाच्यं । यत्र महापटनाशान्तरं न खण्डपन्नः तत्र भावनानी वावच्छिन्नाभावस्य हेतुत्व- कपनायां लाघवात् । यत्र च महापटनाशान्नरं खण्ड पट उत्पद्यते तत्र तदुत्पादाराव नागवेन स्वाध्येण प्रतिबन्धकत्वं कल्प्यते इयनवद्यम् ।

न ज्ञानिनां धर्माधर्मोपनिवारणायाद्य तत्वज्ञानप्रागभावत्वेन हेतु-

नयमिति तत्र सिद्धि रिति तदसत् । तत्वज्ञानध्वंसत्वेन प्रतिव- न्धकत्वकल्पनया तदुत्पादवारणात् । न च तत्रज्ञानोत्पादकाsदृष्टोत्पत्या- पत्तिः । न च तवापि तुल्यं । अव्यहितप्राकालावच्छेदेनाद्यतत्व ज्ञानप्रागभा- वस्य सवादिति वाच्यं । कार्यसह नावेन तम्प्रागभावस्य हेतुत्वापगमेनास्म- and आपत्तिवारणादिति साम्प्रतं । अष्टत्वावच्छिन्नं प्रति तत्वज्ञानत्वेनापि निबन्धकeoकल्पनात् । न च कार्यकारणभावद्वयगौरवमिति वाच्यं । तवा- प्याद्यस्य तत्रज्ञानप्रागभावे स्वसामानाधिकरण्यकालिकविशेषणतावच्छ- सम्वृत्तित्वोभयसम्बन्धेन तत्वज्ञानवदन्यत्वरूपतया तत्वज्ञानवदन्यत्वप्राग- भाववयो मियोविशेष्यविशेषणभावे विनिगमनाविरहेण कार्यकारणभाव- द्वयस्य त्वया स्वीकारात् । अधितिष्ठते च जनकतावच्छेदकशरीरनिबन्धनं लाववमिति मन्तव्यम् ।

परे तु प्रागभावानङ्गीकारे तत्पदानधिकरणतन्तौ तत्पपटापरिवारणाय तत्पदप्रागभावत्वेन हेतुत्वं स्वीकरणीयमिति तत्सिद्धिः । न च तत्पदत्वाव- छिवं प्रति तत्तःसंयोगत्वेन हेतुस्वोक्त्याऽपि निर्वाहेण प्रागभावासिद्धिरिति वाच्यम् । अनेकसंयोगानां हेतुत्वकल्पनापेक्षया तत्कल्पनाया एवोचितत्वा-

तर्क - सङ्ग्रहः

[[२५६]]

दिति । तन । तवापि सहस्रन्तुकपरस्य व्यादितन्तुपु आपत्तिशरणाय चरम- संयोगत्वेन हेतुत्वकल्पनावश्यकतया तेनैव तत्पदानधिकरणतन्तौ वारणसम्भ यात् । नचैकस्मादेवाग्निसंयोगाद्विलक्षणा रूपरसादयः उत्पद्यन्ते तेषां च सामग्रीभेदावश्यकतया प्रागभावः सिद्धयतीत्युक्तं युगे । तत्तप्रतिबन्धका भावघटित सामग्री चित्र्यादेव कार्यवैचित्र्यसिद्धेस्तदसाधकत्वात् ।

यत्तु धूमपरामर्शजन्यतावच्छेदकताघटक सम्बन्धतया तसिद्धिः । अन्यथा धूमलोकलिङ्गकपरामर्शजन्यातुमितेरपि पर्वतत्वाविच्छिन्नोद्देश्यतानि रूपितवन्हित्वावच्छिन्नविधेयताशाल्यनुमितिस्वाक्रान्ततया व्यभिचारात् । अतो जन्यतावच्छेदकं धूमलिङ्गकत्वं वाच्यम् । तच्च स्वसमानाधिकरण्य स्त्रवृत्ति- प्रागभावप्रतियोगित्व स्ववृत्तिकृतिमत्वैतत्रितय संवन्धेन धूमपरामर्शविशिष्ट. स्वमिति तत्सिद्धिरिति । तत्त धूमलिङ्गकत्वस्य विषयता विशेषरूपस्य व्यव. स्थापनीपतया तसिद्धौ साधकाभावादिति ।

अन वदन्ति । भिटविषयकानुमितिसामग्रीकाले भिन्नविषयकप्रत्यक्षा- पत्तिवारणायानुमितिसामग्रीत्वेन प्रतिवन्धकन्वं कल्पनीयम् । तत्र वासि दयभावविशिष्टपरामर्शवेन प्रतिवन्धकत्वोक्तौ विशेषणविशेष्यभावे विनि गमनाविरहेणानं तप्रतिवभ्य प्रतियन्धकभावापत्या गौरवात् । प्रागभावाभ्युप- गमे तु सिद्धभाव वाधाभावस्वाद्यनिवेशेन स्ववृत्तिप्रतियोगित्वसम्बन्धेन कृतिविशिष्टानुमितिप्रागभावत्वेन प्रतिबन्धकत्वं कल्प्ययितुं युज्यते । एतादृशसं- वन्धेन कृतिविशिष्टस्य प्रागभावस्यानुमित्यव्यवहितप्राकालावच्छेदेन वर्त्तमान- क्या प्रतिबन्धकाभाव हेतोरभावात् न कार्यापत्तिरिति ।

यत्त चित्रत्वावच्छिनं प्रति षड्भावहेतुत्वापेक्षया लाघवाश्चिश्रप्रागभा- वत्वेन हेतुत्वात्तसिद्धिरिति तत् रूपवद्रूपत्वेन हेतुत्वोक्त्यापि निर्वाण तत्कल्पनायां गौरवादिति ।

यदपि तस्वज्ञानजन्यतावच्छेदकं धरमदुःखध्वंसत्वं तत्र चरमत्वं स्वसा- मानाधिकरच्या वच्छिकाचिकसंवन्धेन दुःखप्रागभाववदन्यत्वमिति तदसि

[[૧૫]]

eteroयोपेतः

द्धिरिति । तदप्युक्तसम्बन्धेन दुःखवदन्यत्वस्य ध्वंसे निवेश सम्भवेनाऽप्युपप- व्या तत्साधकाभावादित्यलमतिप्रसङ्गेन ।

सादिरनन्तः प्रध्वंसः उत्पत्त्यनन्तरं कार्यस्य ।

दी० ध्वंसं लक्षयति । सादिरिति । घटादावतिव्याप्तिवारणाय अनन्तेति । आकाशादावतिव्याप्तिवारणाय सादिरिति । प्रतियोगि- जन्यः प्रतियोगिसमवायिकारणवृत्तिः, ध्वस्त इति व्यवहारहेतुः ध्वंसः ।

गं० - मूले । सादिरिति । उत्पत्तिमानित्यर्थः । प्रागभावप्रतियोगीति यावत् । श्रनन्तः । अन्तरहितः अन्तो ध्वंसः । प्रतियोगिता सम्बन्धावच्छि प्रतियोगिताकध्वंसाभाववानित्यर्थः । ध्वंसाऽप्रतियोगीति यावत् । तथा च प्रागभानप्रतियोगित्वे सति अभावत्वं ध्वंसस्य लक्षणम् । दीपिकायां । अनन्तेति । विशेष्यदलमित्यर्थः । सादिरिति । सत्यन्तदलमित्यर्थः । प्रतियोगिजन्य इति प्रतियोगितासम्बन्धेन ध्वंसं प्रति तादात्म्यसम्बन्धेन प्रतियोगी कारणमित्यर्थः । शेषं पूर्ववद् ।

त्रैकालिकः संसर्गावच्छिन्नप्रतियोगिताकोऽत्य- न्ताभावः । यथा भूतले घटो नास्तीति ।

न्या०— अत्यन्ताभावं निरूपयति त्रैकालिकेति । प्रागभावा- प्रतियोगित्वे सति ब्वंसाप्रतियोगित्वे सत्यन्योन्याभावभिन्नत्वे सत्य- भावत्वमत्यन्ताभावस्य लक्षणम् । ध्वंसप्रागभावान्योन्याभावाकाशा- दोनां वारणाय यथाक्रमं विशेषणोपादानम् । वस्तुतस्तु संसर्गाभावत्वं तादात्म्यभिन्न सम्बन्धावच्छिन्न प्रतियोगिताका भावत्वम् । ध्वंसप्राग- भावयोश्च न संसर्गावच्छिन्न प्रतियोगिताकत्वमिति तेनैव तद्वारणे त्रैकालिकेति स्वरूपाख्यानमेवेति बोध्यम् ।

१७तर्क -सङ्ग्रहः

[[२५८]]

दी० – अत्यन्ताभाव लक्षयति त्रैकालिक इति । अन्योन्या- भावेऽतिव्याप्तिवारणाय संसर्गावच्छिन्नेति । ध्वंसप्रागभावयोरति- व्याप्तिवारणाय त्रैकालिक इति ।

[[1]]

गं० - त्रैकालिक इति । नित्य इत्यर्थः । संसर्गपदं तादात्म्य भिन्नसंसर्ग • परम् । तथा च नित्यत्वे सति तादात्म्यभिन्नसम्बन्धावच्छिन्नप्रतियोगिताकाs- भावावं अस्यन्ताभावस्य लक्षणम् । ध्वंसप्रागभावयोः सम्बन्धावच्छिन्न प्रतियो- ताकत्वविरहादेवाऽतिव्याप्तिवारणे नित्यत्वोपादानं व्यर्थमित्याह । वस्तुत- विति । दीपिकायां । संसर्गावच्छिन्नतीति तादात्म्यसम्बन्धानवच्छिन्नेत्यर्थ- कम त्रैकालिक इतीति । ध्वंसप्रागभावप्रतियोगितयोः किञ्चित्सम्बन्धानव- च्छिन्नत्वेन तादात्म्यसम्बन्धानवच्छिन्नध्वस्य सुतरां सत्वात् । स्वरूपमाह यथेति । अनुयोगिवाचक सप्तम्यन्तपद समभिव्याहृतप्रतियोगिवाचकपदसम- व्याहृतन शब्दोल्लेखित प्रत्ययविषयाऽभावोऽत्यन्ताभावस्वरूपम् ।

अत्र बोध्यम् । नजपदाऽसत्वे यादृशवाक्यात् यद्धर्मिणि येन सम्बन्धेन यद्वत्ता प्रतीपत्ते, नञ्सत्वे तादृशवाक्यात् तत्सम्बन्धावच्छिन्नप्रति- योगिताकतदभावः प्रतीयते इति नियमः । यथा नजसत्वे भूतले घटवता संयोगेन प्रतीयते नसत्वे स एव प्रतियोगितावच्छेदकसम्बन्धः, प्रतियो- गिता च तत्सम्बन्धावष्ठितीति ।

तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकोऽन्योन्या

भावः यथा घटः पटो नेति ।

न्या०– श्रन्योन्याभावं निरूपयति तादात्म्येति । दी० - अन्योन्याभावं लक्षयति तादात्म्येति ।

गं०– मूले । तादात्म्यसम्बन्धावच्छिन्नेति । संसर्गवेधया तादाम्या- बच्छिवेत्यर्थः । तेन संयोगेन घटतादात्म्यवाश्चास्तीत्यस्य न सङ्ग्रहः तदीयप्रति- योगितायां प्रकारविधया तादात्म्याच्छवेऽपि संसर्गविधया तादात्म्यान-

[[૨૫૩]]

टीकात्रयोपेतः

afदिनि यम् । अन्योन्याभावत्त्ररूपमाह । यथेति तथा च प्रथमान्त- भिप्रतियोग्यनुरिवाचकास मिग्रानन शोले वितप्रत्ययविपया-

आवोsयोन्याभावस्वरूपमित्यर्थः

दी० - प्रतियोगितावच्छेदकारोप्यसंसर्गभेदान् एकप्रतियोगि- कयोरत्यन्ताभावान्योन्याभावयोर्यत्वम् । ‘केवलदेवदत्ताभावात् मुख्य मावः’ इति प्रतीत्या विशिष्टाभावः ‘एकसस्त्रेऽपि द्वौ न स्तः’ aft after faarafच्छन्नाभावः, संयोगसम्बन्धेन च घटवति समवायसम्बन्धेन घटाभावः तत्तद्घटाभावाद्यत्वावच्छिन्न प्रतियो- गिताकसामान्याभावश्चातिरिक्तः । एवमन्योन्याभावोऽपि । घटत्वेन पोनास्तीति व्यधिकरणधर्मावच्छिन्नाभावो नाङ्गीक्रियते । पटे ari नास्तीति तस्यार्थः । अतिरिक्तत्वे स केवलान्वयी । सामयिका- भावोऽप्यत्यन्ताभाव एव समयविशेषे प्रतीयमानः घटाभाववति घटानयने श्रत्यन्ताभावस्य अन्यत्र गमनाभावेऽपि प्रतीते घटाप- सारणे सति प्रतीतेर्भूनलघट संयोग नाग भावध्वंसयो र्घटात्यन्ता- भावप्रतीतिनियामकत्वं कल्प्यते । घटवति तत्संयोगप्रागभावध्वंसयो. रसस्वादत्यन्ताभावस्याप्रतीतिः । वटापसारणेच संयोगध्वंससत्वा- प्रतीतिरिति ।

गं० - अत्यन्ताभावाऽन्योन्याभावयोर्बहुत्यं दर्शयति । प्रतियोगितावच्छे- दत्यादि । आरोप्य संसर्गः - प्रतियोगितावच्छेदक सम्बन्धः । तथा च तियो- गितावच्छेदकधर्मभेदात् प्रतियोगितावच्छेदकसम्बन्ध मेदाच एकप्रतियोगिक स्वाऽप्यन्यन्ताभावस्य बहुत्वम् । अन्योन्याभावस्य तु प्रतियोगितावच्छेदक- धर्मभेदादेव बहुत्वम्, न तु प्रतियोगितावच्छेदकसंवन्धभेदात् तत्र तादा- यस्यैव प्रतियोगितावच्छेदकत्वात् । तदेव दर्शयति । केवलदेवदत्ताभा नगदिति विशिष्टाभावोऽतिरिक्त इत्यन्वयः । दण्ड्यभाव इति । दण्डनिष्ठावच्छेदक-

तर्क-सङ्ग्रहः

[[२६०]]

ताकदेवदत्सनिष्टप्रतियोगिताकाभाव इति भावः । एकसत्वेऽपि । वन्हिसवेऽपि । द्वौ न स्त इम्यादि प्रतीत्येति । वन्हि घटौ न स्त इत्यादि प्रतीत्येत्यर्थः । सिद्ध इति शेषः । द्वित्वावच्छिन्नाभाव इति । केवल वन्हित्वावच्छिन्नाभावादिति- शेषः । अतिरिक्त इत्यनेनाऽन्वयः । सम्बन्धभेदेनाऽभावस्याऽतिरिक्तत्वं दर्शयति । समवायेन घटाभाव इति । संयोगेन घटाभावादिति शेषः । अस्याप्य- तिरिक्त इत्यनेनाऽन्वयः । सामान्याभावविशेषाभावयोर्भेदं दर्शयति । तत्तद् घटाभावादिति । एवमन्योन्याभावोपीति । अत्यन्ताभाववत् अन्योन्याभावोपि प्रतियोगितावच्छेदकभेदेनातिरिक्तः स्वीकार्य इत्यर्थः । नाङ्गीक्रियते इति । प्रतियोग्यवृत्तिश्च धर्मो न प्रतियोगितावच्छेदक इति नियमात् । ननु तादृशप्रतीतः को विषय इत्यत नाह । पटे इति । ननु संयोगेन घटाभावस्या- Sस्यन्ताभावरूपत्वे घटाऽऽनयनेऽपि घटाभावप्रत्यक्षाऽपत्तिः, अत्यन्ताभावस्य नित्यत्वात्, अतः सामयिका भावोऽतिरिक्तः स्वीकार्य इति प्राचीनमतं दूषयति । सामयिकाऽभावोपीति । सामयिकाभावः समयविशेषे प्रतीयमा- नोऽप्यत्यन्ताभाव एवेति योजना । घटाभाववतीति । तादृशभूतलादावित्यर्थः । प्रथममित्यादिः । घटानयने इति । घटवतीत्यर्थः । एतस्याऽप्रतीतेरित्यनेनाऽ- न्वयः । प्रतीतेरिति । तस्मिवाऽधिकरणे इत्यादिः । तत्तत्कालीनतत्तद्भूत- arita aereभावसंसर्गतया घटकालस्य सम्बन्धाघटकतया घटकाले न वयऽत्यन्ताभावबुद्धिरित्यपि बोध्यम् ।

दी० — केवलाधिकरणादेव नास्तीति व्यवहारोपपतौ श्रभावो न पदार्थान्तरमिति गुरवः । तन्न । अभावानङ्गीकारे कैवल्यत्य निर्वक्तुमशक्यत्वात् । श्रभावाभावो भाव एव । नातिरिक्तः । श्रनव- स्थाप्रसङ्गात् । ध्वंसप्रागभावः प्रागभावध्वंस्य प्रतियोग्येवेति प्राभ्वः । अभावाभावः अतिरिक्त एव । तृतीया भावस्य प्रथमाभावरूपत्वात् - नानवस्थेति नवीनाः ।

गं०- ननु अभावानां अधिकरणरूपतैवाऽस्तु अतिरिक्काऽभावे अभाव-

[[२६१]]

,

स्वकल्पनातः कुप्ताऽधिकरणे एव अभावन्वकल्पनायां लाघवात् किं च तत्त- कालीन भूतादिरूपाऽधिकरणविशेषस्यैवाऽभावसम्बन्धतया नादशाऽधि- करणविशेषेऽभावत्वकल्पनाया एवोचितत्वात् । नत्र अभावादिकरणयोरभेदात् घटाभाववद् भूतलं इति प्रतीत्यनुपपतिः प्रत्युत घटाभावभूतलम् इति प्रतीत्यापत्तिः । अन्यथा भूतलं भूतलवदित्यपि प्रतीतिः स्यादिति वाच्यम् । अभेदेपि अवच्छेदकभेदेनैव तादृशप्रत्ययोपगमादिति प्राभाकरमतं दूषयितुं नमनमुपन्यस्यति केवलाधिकरणादेवेऽनि । अधिकरणविशेयं favat- कृत्यैवेत्यर्थः, एक्कारेणातिरिक्ताभावविषय कन्त्रपरिच्छेदः, इति गुरव इति । वदन्तीति शेषः । कैवल्यस्य निर्वक्तुमशक्यत्वादिति । निर्वक्तुमसमर्थ- स्वादित्यर्थः । तथा च कैवल्यं यदि भूतलम्वरूपं तदा घटवनलेऽपि घटा- भाववचाबुद्धिप्रसङ्ग, भूतलस्य घटाभावरूपत्वात् । यदि तु कैवल्यं घटा- भrataम्, तदासिद्धोऽतिरिकोऽभाव इति भावः । अभावाभाव इति । घटाभावाभाव इत्यर्थः । नानिरिक्त इति । किन्तु घटरूप एवेत्यर्थः । प्रति- योग्येवेति । अनवस्थापत्तेरिति शेषः । भतिरिक्त एवेति । भावत्वाभावत्व योर्विरोधादिति भावः । नन्वेवमनवस्था स्यादित्यत आह-तृतीयेति ।

सर्वेषामपि पदार्थानां यथायथमुक्तेष्वन्तर्भा- वात्सप्तैव पदार्था इति सिद्धम् ।

न्या० ननु

सादृश्यादीनामतिरिकपदार्थानामनिरूपणेन न्यूनतेत्यत आह । सर्वेषामिति । " प्रमाणप्रमेयसंशयप्रयोजनदृष्टा- न्तसिद्धिन्ताऽवयवतर्कनिर्णयवाद जल्पवितण्डा हेत्वाभासच्छलजाति- निग्रहस्थानानां तत्वज्ञानान्निःश्रेयसाधिगम” इति न्यायस्याऽऽदिमसूत्रे उक्तानां प्रमाणप्रमेयादीनामित्यर्थः । तद्भिन्नत्व विशिष्ट तद्गतभूयो- धर्मस्यापि घटपटादिरूपत्वेन नातिरिक्तत्वम्, एवमन्येषामप्यूह्यम् ।

गं० ननु सादृश्यं अतिरिक्तः पदार्थः षड्भावानन्तर्भूतत्वे सति अभा-

तर्क - सङ्ग्रहः

२६२·

वाऽनन्तर्भूतत्वात् यन्नैत्रं तन्नैवं यथा घटः । न च विशेषणासिद्धिरिति वाच्यम् । साहश्यं षड्भावानन्तर्भूनं सामान्यवृत्तित्वे सति सामान्येतरवृत्ति- स्वान् गगनाभाववदित्यनुमानेन तस्या निरासात् । सादृश्यं अभावानन्तर्भूतं भावत्वेन प्रतीयमानत्वात् घटवदित्यनुमानेन विशेष्याऽसिद्धिनिरासाच्च । तथा च कथं सप्तैव पदार्था इत्याक्षिपति । नन्वित्यादिना । प्रमाणादीनां यथा- यथं द्रव्यादिषु अन्तर्भावो वक्ष्यते सादृश्यस्याऽतिरिक्तत्वखण्डनेन पूर्वोक्कशङ्कां परिहरति । तद्भिन्त्वविशिष्टेति । भूयः पदं क्वाचित्कम्, तद्गताऽसाधारण- धर्मपरम् तेन तद्वयक्तिवृत्ति तद्वयतिखादेरभावसत्वेऽपि तद्वयतिवृत्ति प्रमे- यत्वादिमत्वेऽपि घटस्य नाऽप्रसङ्गाऽतिप्रसङ्गौ । तथा च तद्वित्वे सति तद्गताऽ- साधारणधर्मवत्वं सारइयम् । सादृश्यनिरूपकेऽतिव्याप्तिवारणाय सत्यन्तम् । aerat चन्द्रसाश्वारणाय विशेष्यदलम् ।

,

वस्तुतस्तु

आलङ्कारिकचमत्कृतिविषयतावच्छेदकधर्मवद्भेदसमानाधि- करणोक्तविषयतावच्छेदकधर्मं सजातीयधर्मशालित्वं सादृश्यम् । सा च प्रका• रताविशेष्यता वेत्यन्यदेतत् । नच धर्मयोरेकप्रतीतिविषयत्वाभावान्नतत्वम् । शशी आल्हादकः, मुखमाल्हादकमिति समूहालम्बनप्रतीतिविषयतया तदुपपत्तेः एतेनासाधारणत्वं न तदितरावृत्तित्वे सति तद्वृत्तिस्वरूपं तद्व्यक्तिमात्रवृत्ति- धर्मस्यैवेशतया मुखे तथात्वानापत्तेः । न च मेयत्वादेरव्यतिरेकितया तद्दृ- त्तिवृत्तिव्यतिरेकिधर्मत्वं तस्वं वाच्यम् । तद्वृत्तिद्वन्यत्वादिमति घटादौ अति- प्रसङ्गादिति निरस्तम् ।

अथ ननूपमानोपमेयत्वं यदैकस्यैव वस्तुनः इन्दुरिन्दुरिव श्रीमानित्यादौ तदनन्वय इत्यादावुपमानोपमेयत्वे एकस्यैवैकवाक्यगे । अनन्वय इत्यत्र न केवलं भाति नितान्तकीत्तिनितंविनी सैव नितंविनीव । यावद विलासायुध- कासवासास्ते तद् विलासा एव तद्विलासाः इत्यादौ चान्वयालङ्कारस्थले एक- स्यैव वस्तुनोपमानोपमेयत्वप्रदर्शनात् तस्य च सादृश्यघटिततया तलक्षणा- व्याप्तिः । स्वभेदस्य स्वावृचित्वादिति चेव । अनन्वयालङ्कारस्थले निरुपम- यस्य कवितात्पर्यविषयत्वात् ।

[[२६३]]

एकदा इन्याहुर्गुरुचरणाः ।

[[1]]

टीकात्रयोपेतः

afe एकायैवेत्यनेन निशब्दबोध्यत्वव्यवच्छेदो बोध्यते । अस्यामुन- fararः वक्त्रमित्यादौ नानन्वयः । किन्तूपमैवेत्याहुः तन । एकस्यैवार्थस्य भेदेनापाततो भेदः प्रतीयते । न वस्तुभेद इति तदन्वय एव । उदेति feat are ara raानमन्तीत्यादाविवाक शब्दोपादानामेत्र युक्तमिति ध्येयम् ।

दीः- ननु " प्रमाणप्रमेय-संशय प्रयोजन- दृष्टान्त-सिद्धान्वा- ज्वयव तर्क निर्णय-वाद- जल वितण्डा- हेत्वाभास छल-जाति- निग्रहस्था- नानां तत्वज्ञानान्निःश्रेयसाधिगमः ।” इति न्यायशास्त्रे पोडशा- पदार्थानामुक्तत्वात् कथं समैवेत्यत श्राह सर्वेषामिति । सर्वेषां सप्तस्वे- वान्तर्भाव इत्यर्थः ।

आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोष प्रेत्यभावफलदुःखापवर्गा- स्तु प्रमेयम् इति द्वादशविधं प्रमेयम् । प्रवृत्तिर्धर्माधर्मौ । रागद्वेष- मोहा दोषाः । रागः इच्छा । द्वेषो मन्युः । मोहः शरीरादौ आत्म- स्वभ्रमः । प्रेत्यभावो मरणम् । फलं भोगः । श्रपवर्गो मोक्षः । स च स्वसमानाधिकरणदुःखप्रागभावासमान कालीनदुःखध्वंसः । प्रयोजनं सुखप्रात्रिः दुःखहानिश्च । दृष्टान्तो महानसादिः । प्रामाणिकत्वेन श्रभ्युपगतोऽर्थः सिद्धान्तः । निर्णयो निश्चयः । स च प्रमाण- फलम् । तत्त्वबुभुत्सोः कथावादः उभयसाधनवती विजिगीषुकथा जल्पः । स्वपक्षस्थापनाहीना विस्तडा । कथा नाम नानावचूक : पूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भः । अभिप्रायान्तेरण प्रयुक्तस्यार्था- न्तरं प्रकल्प्य दूषणं छलम् ।

गं० - प्रत्यक्षप्रमाणस्त्र द्रव्ये, अनुमानोपमानशब्दानां च गुणेन्तर्भावस्य स्फुटत्वात्प्रमेयादीनामन्तर्भावमाह । श्रात्मेत्यादिना । तथाचात्मशरीरेन्द्रिय-:

तर्क-सङ्ग्रहः

[[૧૫]]

रूपप्रमेयस्य द्रव्ये, अर्धस्य ‘रूपरसगन्धस्पर्शशब्दात्मकस्य’ गुणे, मनसः द्रव्ये, बुद्धेर्गुणे, प्रवृत्तेर्गुण, दोषाणां गुणे, प्रेत्यभावस्य गुणे, फलस्य गुणे, दुःखस्य गुणे, अपवर्गस्याभावेऽन्तर्भावः, संशयस्य गुणे सुखरूप रयोजनस्य गुणे, दुःखाभात्र- रूपप्रयोजनस्याभावे, दृष्टान्तसिद्धान्तयोः यथायथं द्रव्यादिषु, अवयवस्य तर्कस्य निर्णयस्य च गुणे वाइजल्पवितण्डानां गुणे, हेत्वाभासानां यथायथं द्रव्यादिषु, चलस्य गुणेऽन्तर्भावः जातेर्गुण, निग्रहस्थानानां यथायथं द्रव्यादिष्वन्तर्भावः अपवर्गपदार्थमाह । श्रपवर्गो मोक्ष इति । स च । मोक्षश्च । दुखध्वंस इति । दुःखानि तु पइिन्द्रियाणि, पडविषयाः, षड्बुद्धयः शरीरं सुखं दुःखं चेत्येकविंशतिरिति । इदानीन्तनाऽस्मदादि दुःखध्वंसे मुक्तित्वापत्तिवारणाय दुःखप्रागभावासमानकालीनेति दुःखध्वंस विशेषणम् । शुकादि मुक्तावतिव्या- विचारणाय स्वसामानाधिकरण्यनिवेशः ।

[[1]]

दी० - असदुत्तरं जातिः । साधर्म्य - वैधर्म्य - उत्कर्षापक- वयवयविकल्प साध्यप्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्र- करणहेत्वर्थापत्यविशेषोप पत्युपलब्धिनित्यानित्यकार्यसमा जातयः ॥

गं०–जातिस्वरूपमाह–असदुत्तरमिति । स्वाभिमतार्थव्याघातक- स्वोत्तरवाक्यमित्यर्थः । जातेश्वतुविशतिभेदानाह । साधर्म्येति । अत्र arraft कार्यान्तानां इन्द्रः । तैः समा । इति विग्रहः । तत्र साधम्र्येण वाद्यभिमतसाधकहेतु दूषकमुत्तरं साधर्म्यसमा । यथा शब्दोऽनित्यः कृतकत्वाद् घटवत् व्यतिरेकेण वा व्योमवदित्युपसंहृते नैतदेवं, यद्यनित्यघट- साधर्म्यानित्याऽऽकाशवैधर्म्याद्वाऽनित्यः स्यानित्याकाशसाधमर्यादमूर्तत्वानि. स्यः स्याद्विशेषो वा वक्तव्यः । वैधम्र्येण वाद्यभिमतसाधकवाद्युक्त हेतु दूषकं उत्तरम् वैधर्म्यसमा । यथा शब्दोऽनित्यः कृतकस्याद् घटवदाकाशवद्वेति स्थापनायां अनित्यघटवैधर्म्यादमूर्तस्वानित्यः स्याद्विशेषो वा वक्तव्य इति । स्वाभिमतसाधकवाद्य दृष्टान्तसाधर्म्यात् वाद्यनभिमतसाधकमुत्तरं उत्कर्ष- समा । यथा शब्दोऽनित्यः कृतकत्वादिति स्थापनायामनित्यत्वं कृतकत्वं

[[૫]]

,

,

रूपसहचरितमतः शब्दोऽपि रूपवान् स्यात् । वाद्यभिमतसाधक- तुभ्यां वाद्यभिमनार्थान्तरस्याभावसाधनमुत्तरमपकर्षलमा । यथा adioनित्यः arecaादित्यत्र यद्यनित्यसहचरितधर्मात् कृतकत्वादनि- यः Raat preवानित्यत्वसहचरियधर्म रूपवत्वव्यावृत्या शब्देऽकृतक- स्वस्यानित्यत्वस्य च व्यावृत्तिः स्यात् । वर्ण्यस्य स्थापनीयस्य दृष्टान्तस्य प साधकमुत्तरं वयसमा । पक्षवृतिर्हेतुहि गमकः पक्षश्च सन्दिघसा- ध्यकः, तथा च सन्दिग्धसाध्यकवृत्तिहेतुमया दृष्टान्तेऽपि स्वीकार्य : तथा दष्टान्तस्यापि सन्दिग्धसाध्यकत्वात् सपक्षवृतित्वा निश्चयात् असाधारण हेतुः । हेतुः सन्दिग्धसाध्यकवृत्तिर्यदि न दृष्टान्ते तदा मकवाभावात् साधनविकलो दृष्टान्तः स्यादिति भावः । पक्षे असिद्धध- संयोः तुल्यतया नियामकाभावप्रयुक्तासाधकमुत्तरमवर्ण्यसमा । यथा दृष्टान्ते तत्वं तादृशो हेतुरेव गमक इत्यभिमानेनैवमुत्तरम् दृष्टान्ते यो हेतुः सिद्धसाध्यकवृत्तिः स चेन्न पक्षे तदा गमकहेत्वभावात् स्वरूपा- सिद्धिः स्यादतस्तादृशो हेतुरवश्यं पक्षस्वाभिमते स्वीकार्यः तथा च सन्दि ग्धसाध्यकत्वलक्षणपक्षत्वाभावादाश्रयासिद्धिः । दृष्टान्तविकल्प प्रदर्शनपूर्वक- दार्शन्तिकविकल्पकथनं विकल्पसमा । यथा शब्दोऽनित्यः कृतकत्वादित्यत्र कृतकत्वस्य गुरुत्वव्यभिचारदर्शनाद् गुरुत्वस्याऽनित्यत्वव्यभिचारदर्शनादनि- त्यत्वस्य मूर्तस्वव्यभिचारदर्शनात् धर्मत्वाविशेषात् कृतकत्वमप्यनित्यत्वं व्य- भिचरेदिति । दृष्टान्तस्य साध्यतुल्यताकथनं साध्यसमा । अत्रायमाशयः- एनत्प्रयोगसाध्यस्यैवानुमितिविषयत्वं तथा च पक्षादेरनुमितिविषयत्वात् साध्यवदेन प्रयोगसाध्यत्वमतः साध्यसमा, तथाहि — पक्षादेः पूर्वसिद्धत्वे एतत्प्रयोगसाध्यत्वाभावान्नानुमितिविषयत्वं पूर्वमसिद्धत्वे पक्षादेरज्ञानादाश्र यासिद्धवादयः । प्राप्या हेतुनिष्टसाध्य सामानाधिकरण्यरूपया साध्येन हेतुसाधनरूपप्रत्यवस्थानं प्राप्तिसमा । यथा घटेन सम्बद्धो दण्डो घटका- रणमित्युच्यते तदा घटो दण्डकारण स्यात् सबत्वाविशेषात् । अप्राप्त्या - पक्षे असिद्धरूपया दोषोद्भावनं श्रप्राप्तिसमा । यथा घटेनासम्बद्धो दण्डो घट

,

तर्क -

सङ्ग्रहः

२६६.

कारणमित्युच्यते तदा दण्डः पटत्यापि कारणं स्यादसम्बद्धत्वाविशेषात् । साधन- परम्पराविषयकः प्रश्नः प्रसङ्गसमा । यथा शब्दोऽनित्यः श्रावणत्वादित्यत्र श्रावणत्वमनित्यत्वसाधकम् तत्र किं साधकं साधकं विना तस्य सिद्धेरभा वात् तत्रापि किञ्चित्साधकप्रदर्शने तत्रापि किञ्चित्साधकं इति प्रश्नपरम्परा- सम्भव इति । दृष्टान्तान्तरेण साध्याभावसाधकं प्रतिदृष्टान्तलमा । यथा यदि घटदृष्टान्तेनानित्यश्शब्दस्तदाकाशदृष्टान्तेन नित्य एव किं नस्यादिति । उत्पत्यभावरूपया अनुत्पत्या दोपोद्भावनमनुत्पत्तिसमा । यथा घटी रूप- वान् गन्धान् पटवदित्युक्ते घटोत्पत्तेर्गन्धोत्पत्तेश्च पूर्व हेत्वभावादसिद्धिः, पढे च गन्धोत्पत्तेः पूर्व हेत्वभावेन दृष्टान्तासिद्धिः । उभयसाधारणधर्मप्रद- र्शन पूर्वकसाध्यसंशयोद्भावनम् संशयसमा । यथा शब्दोऽनित्यः कार्य्यत्वाद् घटवदित्युक्ते सामान्ये गोलादौ दृष्टान्ते घटे चैन्द्रियकत्वं तुल्यं, तथा च यथा कार्यत्वात् निर्णायकादनित्यत्वं निर्णीयत्ते, तथा ऐन्द्रियकत्वात् संशयकार- णादनित्यत्वं सन्दिह्यताम् । वाद्युक्तहेतोः साध्याभावसाधक हेत्वन्तरोद्भावनं प्रकरणसमा । यथा शब्दोऽनित्यः कृतकत्वादित्युक्ते नैतदेवं श्रावणत्वेन नित्यत्वसाधकेन बाधात् । हेतुत्वासम्भवपूर्वकाहेतुत्वकथन महेतुसमा । यथा घटादिकं दण्डादेन पूर्ववर्त्तितया कारणम् तदानीं घटादेरभावात् नापि घटाद्युत्तरकालवर्त्तितया पूर्व कारणभावात् अविद्यमानो दण्डः कथं घटं जन- येत् नापि समानकालवर्तितया एककालीनत्वाविशेषात्कि कस्य कारणमित्यत्र नियामका भावात्तथा च कारणं अकारणेन सम इति । अर्थापत्तिसिद्ध हेतुना साध्याभावोद्भावनमर्थापत्तिसमा । अयमाशयः — अर्थापत्तिर्हि उत्तेना- नुक्तमाक्षिपति, तथा च शब्दोऽनित्य इत्युक्तेऽर्थादापाद्यतेऽन्यनित्यं, तथा व दृष्टान्तासिद्धिर्विरोधश्च । सर्वाविशेषप्रसङ्गोद्भावनं श्रविशेषसमा । यथा अनित्यत्वेन शब्दघटयोरविशेष उध्यते तदा प्रमेयत्वेन सर्वेषामविशेष- प्र इति । उभयपक्षसाधर्म्येण साधनोपपत्तिकथन सुपपत्तिसमा । यथा शब्दोऽनित्यः कृतकस्वादित्युके यथा त्वत्पक्षेऽनित्यत्वे प्रमाणमस्ति, रामा मत्पक्षोऽपि सममाणकः स्वत्पक्ष मत्पक्षान्यतरत्वात्पक्षवत् वायुक्तसा-,

टीकात्रयोपेतः

धनाभावेऽपि पोपलब्धिकथनमुपलब्धिसमा । यथा पर्वतो वह्निमान् धमान्युक्ते वह्निनं धूमसाध्यः धूमं विना भालोकादिनाप्युपलम्भात् तथा धूमो न वह्निसाधको द्रव्यत्वसाधकत्वेनोपलम्भात् तथा पर्वतो न वह्निमान् वह्नि विरहिणोऽपि पर्वतस्योपलम्भादित्यादि बोध्यम् । वादिना कस्यचित् पदार्थस्यानुपलब्धिवशादनङ्गीकारेऽनुपलब्धिवशादेव वाद्यभिमतयत्किचित्प- दाभावसाधनमनुपब्धिसमा । शब्दोऽनित्यः, यदि शब्दो नित्यः स्यादु- वारणात् प्राक् कुनो नोपलभ्यते न हि घटाद्यावरणकुडयादिवच्छन्दस्या- वरणमस्ति तदनुपलब्धेरिति नैयायिकैरुके प्रतिवादी प्रत्यवतिष्टते यद्यावरणा- नुपलब्धेरावरणाभावः सिध्यति तदावरणानुपलब्धेरप्यनुलम्भात् तदावरणा- परभावसिद्ध तद्विपरीतस्य तदावरणस्योपपत्तेस्तनित्यत्वमेव स्यादिति । धर्मस्य नित्यानित्यत्वविकल्पात् धर्मिणो नित्यत्वसाधनं नित्यसमा । अनि- स्यत्वस्य नित्यमस्वीकारे तदभावदशायां नित्य एव शब्दः स्यात् न हि दण्डाभावशून्यतादशायां न दण्डीति प्रयुज्यत इत्यनित्यत्वं नित्यमेवास्तीत्यु- पगन्तव्यम् । तथा च शब्दस्यापि नित्यत्वमन्यथा तत्रानित्यत्वस्य सर्व- कालवृत्तित्वासम्भवादिति अनित्यदृष्टान्तसाधर्म्यात् सर्वानित्यत्व-सङ्गोद्भावनं

। । श्रनित्यसमा । सत्वरूपघटादिसाधम्र्येण सर्वानित्यत्वप्रसङ्गः । अन्यकार्ये- णापि वा तहेतोः सम्भवाभिधानं कार्यसमा । शब्दोऽनित्यः प्रयत्नना- न्तरीयकत्वादिति प्रयोगे प्रयत्नान्तरीयकत्वं प्रयत्नकार्ये घटादौ प्रयत्नानन्त- रोपलभ्यमाने की कादौ च दृष्टम् तत्र द्वितीयं न तज्जन्यत्वसाधकम्, प्रथमं त्वसिद्धम् ।

दी० - वादिनोऽपजय हेतुर्निग्रहस्थानम् । प्रतिज्ञाहानिः, प्रतिज्ञा- न्तरं, प्रतिज्ञाविरोधः, प्रतिज्ञासन्न्यासः, हेत्वन्तरम् अर्थान्तरम्, निरर्थकम् अविज्ञातार्थम्, अपार्थकम् अप्राप्तकालं, न्यूनं, अधि- कम्, पुनरुक्तम्, अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा पर्यनुयोज्योपेक्षणं, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासाच निग्रहस्थानानि । शेषं सुगमम् ।तर्क - सङ्ग्रहः

[[२६८]]

गं० - वादिनि इति । तथा च वादिनिष्ठपराजय सम्पादकत्वं निग्रहस्थान सामान्यलक्षणम् । तस्य द्वाविंशति भेदानाह प्रतिज्ञाहानिरि- न्यादिना । यत्र प्रतिज्ञातार्थविरुद्धाभ्युपगमः प्रतिज्ञातार्थ परित्यागो वा तत्र प्रतिज्ञाहानिः । यथा ‘शब्दोऽनित्यः प्रत्यक्षगुणत्वात्’ इत्यत्र ‘सोयं गकारः” इत्यादि प्रत्यभिज्ञानात्परेण बाधे उद्भाविसे ‘अस्तु तर्हि नित्यः शब्दः’ इति नित्यत्वमङ्गीकुर्वन् वादी शब्दस्यानित्यत्वप्रतिज्ञां जहाति । इयञ्च पक्षत्याग- स्साध्यत्यागो हेतुत्यागो दृष्टान्तत्यागः तद्विशेषणत्यागचेति पञ्चधा भवति । आद्यस्तु शब्दोऽनित्यः प्रयत्न जन्यगुणत्वात् इत्युक्ते केनिचद् सोयं गकार इति प्रत्यभिज्ञाबलात् वाचे उद्भाविते अस्तु तर्हि घटोऽनित्यः इति पक्षत्यागः । पूर्वोकोपाच शब्दो नित्य एवेति स्वीकारे साध्यव्यागः अनित्यः शब्दः द्रव्यत्वादित्युक्ते परेण स्वरूपासिद्धोऽयमिति दूषिते कृतकत्वादिति पुनर्हेतु- प्रयोगे हेतुस्यागः दृष्टान्तत्यागस्तु उदाहृतः । एवमेव द्रव्यात्मकशब्दः अनित्यः कृतकत्वादित्यत्राश्रयासिद्धेरुहावने अस्तु तर्हि शब्दोऽनित्य इति पक्षविशे- पणत्यागः । एवमेव साध्यविशेषणत्यागः । एवमेव हेतु विशेषणत्यागादिकमिति बोध्यम् । प्रतिज्ञान्तरमिति । पूर्वोक्तप्रतिज्ञायां दूषितायां तत्र विशेषणा- न्तरदानम् प्रतिज्ञान्तरमित्यर्थः । तद्विविधम् पक्षविशेषणदानात् साध्य- विशेषणदानाच्च । यथा शब्दोऽनित्य इत्यत्र धनावंशतस्सिद्धसाधने उद्भाविते वर्णरूपेति पक्षविशेषणदानम् । अन्त्यं यथा क्षित्यादिकं गुणजन्यं कार्यवा- दित्यत्राष्टजन्यत्वेन सिद्धसाधने उद्भाविते सविषयकेति गुणविशेषणदान. मिति । प्रतिज्ञाविरोध इति । प्रतिज्ञाहेत्वोः विरोधः । प्रतिज्ञाविरोध इत्यर्थः । यथा द्रव्यं गुणभिन्नं रूपत्वादित्यादि । प्रतिज्ञासन्न्यास इति । स्वयं प्रतिज्ञा तस्यापह्नकः प्रतिज्ञासन्न्यासः । यथा अनित्यः शब्दः इन्द्रियवेद्यत्वा- दित्युके परेण सामान्ये व्यभिचारमुद्राम्य दूषिते केनोच्यते अनित्यश्शब्द इति स्वोकमपलपति । तत्रापवश्चतुर्विधो भवति । क एत्र माह इत्येकः ] परमतानुवादोऽयं मया इदमेवोक्तमिति द्वितीयः । स्वयमुक्तेऽपि एवमुकमिति त्वं वदेति तृतीयः । तत्परोकं ममा इदमेवोक्तमिति चतुर्थः ।

[[२६६]]

टोकाश्रयोपेतः

हेत्वन्तरमिति । शुद्ध नौ दूषिते तत्र विशेषणान्तरोपादानं हेत्वन्तरम् । यथा शब्दोऽनित्यः । प्रत्यक्षत्वादित्यश्च सामान्ये व्यभिचारे उद्भाविते जाति- मत्वे सतीति विशेषणदानम् । श्रर्थान्तरमिति । प्रयुक्तस्यानुपयुक्तार्थकथनं श्रर्थान्तरमित्यर्थः । यथा ( रसं सैन्धववत्वात् इत्युक्ते नाश्वे रसोऽस्तीति दूषणमिति ) । नित्यः शब्दः अस्पर्शवत्यादित्युक्ते हेतुरिति पदं हिनो तेस्तुनि - प्रत्यये कृते कृदन्तम् । पदं च सुप्तिङन्तमित्याद्यर्थान्तरकथनम् ॥ निरर्थक- मिति । अवाचकवर्णप्रयोगो निरर्थकमित्यर्थः । यथा शब्दोऽनित्यः जबग- दशवात् सभवदधषिति वत् । अथवाऽसाधुशब्दप्रयोगो निरर्थक- मित्यर्थः । यथा शब्दमनित्यमित्यादि । श्रविज्ञातार्थकमिति । वादिना वास्त्रयमुक्तमपि प्रतिवादिना सदस्यैरपि यन बुध्यते तदविज्ञातार्थकमित्यर्थः । तच्चासिद्धार्थकं त्वरितोच्चरितं लाक्षणिक मित्यादिरूपं स्वसामर्थ्यंवारणार्थ प्रयुक्तमिति । श्रपार्थकमिति । परस्परानन्वितार्थकपदसमूहोऽपार्थक- मित्यर्थः । यथा शब्दः शब्दत्वं घटः पटो वा नित्यमनित्यञ्च परत्वादित्यादि । श्रप्राप्तकालमिति । भवयवानां व्युत्क्रमेण कथनमप्राप्तकालमित्यर्थः । यथा कृतकत्वाच्छन्दोऽनित्य इत्यादि । न्यूनमिति । स्वमतसिद्धावयवानां मध्ये एकस्यानुक्तिः न्यूनमित्यर्थः । उदाहरणन्तु स्फुटम् । अधिकमिति । अन- न्वितानुपयुक्त पुनरुक्तभिन्नस्य सिद्धप्रयोजनस्य पुनः कथनमधिकमित्यर्थः । हेतूदाहरणधिवयमिति वा । यथा शब्दोऽनित्यः श्रावणत्वाच्छन्दत्वाच्चेति । एवमुदाहरणद्वयेऽपि बोध्यम् । पुनरुकमिति वादिमध्यस्थानुमिति बिना शब्दार्थयोः पुनः कथनम् पुनरुकमित्यर्थः । यथा ‘शब्दोऽनित्यः शब्दोऽ- नित्य इति’ शब्दपुनरुक्तम् । शब्दोऽनित्यः ध्वंसप्रतियोगीत्यर्थपुनरुक्तम् । अननुभाषणमिति । वादिना त्रिरुक्तस्य वाक्यस्य सदस्यैविज्ञातार्थस्याननु- वादोऽननुभाषणमित्यर्थः । उदाहरणं स्पष्टम् । श्रज्ञानमिति । वादिना त्रिरुक्तवाक्यस्य सदस्यैः ज्ञातार्थस्यार्थानवबोधोऽज्ञानमित्यर्थः । स्पष्टम् । अप्रतिभेति । प्रतिवादिनानूदिते वादिवाक्ये तदर्थे विज्ञातेऽपि उत्तरास्फूर्ति- वशात् तूष्णीम्भावोऽप्रतिभेत्यर्थः । स्पष्टम् । विक्षेप इति । असम्भवत्का-

तर्क-सङ्ग्रहः

[[२७०]]

र्यान्तरव्यासङ्गात् कथाविच्छेदो विक्षेपः । यथा इदमेकं कार्यन्तिष्ठति तत्कृत्वा- अवशिष्टं करिष्यामीति । मतानुज्ञेति । स्वपक्षे दोषाभ्युपगमपूर्वकं परपक्षे दोपप्रसञ्जनं मतानुज्ञेत्यर्थः यथा त्वं चोर इत्युक्त

े त्वमपि चोर इत्युक्तम् । पर्यनुयोज्योपेक्षणमिति । वादिनो निग्रहस्थानसत्वेऽपि प्रतिवादिनस्तदनु- द्भावनं पर्यनुयोज्योपेक्षणमित्यर्थः । इदमपि स्पष्टम् । निरनुयोज्यानुयोग इति । अनिग्रहे भ्रान्या निग्रहोङ्गावनमित्यर्थः । छलजात्यांरेतन्मध्ये अन्त- भवि इति । श्रपसिद्धान्त इति । एकसिद्धान्तमाश्रित्य कथाप्रवृत्तौ तद्विरुद्ध- सिद्धान्तमवलम्ब्य उत्तरदानमित्यर्थः यथा व्यक्तमेकप्रकृतिकं विकारस्वात् एकमृत्पिडवृत्तिवकलश वदिति साङ्ख्यमतमवलम्ब्य प्रयुक्त का प्रकृतिः को विकार इति प्रतिवादिना पृष्टं यस्मिन् धर्मण्यवस्थिते एकधर्मनिवृत्तौ धर्मा- न्तरमुत्पद्यते सा प्रकृतिः यो धर्मो निवर्तते उत्पाद्यते च स विकार इति वादिनोक पुनः प्रतिवादी वदति - अपसिद्धान्तः । तव मते भसतः उत्प- स्वभावात् सतो विनाशाभावाच किन्वाविर्भावतिरोभावमात्र कार्यकारणयोर- भेदात् । कारणरूपेण सूक्ष्मतया अवस्थितिः तिरोभावः । कार्यरुपेण स्थूल- तयावस्थानमाविर्भाव इति । सत्कार्यवादिमते प्रकृतिविकारयोः उद्भवाभावात् इदमनुमानं न सिध्यति, असतः कार्यतावादे स्वपसिद्धान्त इति । हेत्वा- भासाश्चेति । तलक्षणं तु प्रागुक्तम् । निग्रहस्थानानीति । द्वाविंशतिधा- भवन्तीति । शेषः । ननु निग्रहस्थानानां द्वाविंशतिघा विभागेऽपि अन्तर्भा- वामुक्तः न्यूनतेत्यत आह- शेषमिति । कृप्तपदार्थान्तर्भूतत्वमित्यर्थः । सुगममिति । तेषां मध्ये केषाञ्चित् शब्दविशेषरूपत्वात् । गुणान्तर्भूतत्वं, केषाञ्चित् द्रव्यान्तर्मूतत्वं केषाञ्चित् अभावान्तर्भूतत्वं अनायासेन ज्ञातुं शक्यत इत्यर्थः ।

दी० - नतु करतलाऽनलसंयोगे सत्यपि प्रतिबन्ध के सति चाहानुत्पत्तेः शक्तिः पदार्थान्तरमिति चेन्न । प्रतिवन्धकाभावस्य कार्यमात्रे कारयत्वेन शक्तेर नुपयोगात् कारणत्वस्यैव शक्तिपदार्थत्वात् ।

સ્

[[१५]]

टोकात्रयापेतः

[[1]]

० - ननु दाहं प्रति शक्तिमत्वेन चन्हेः कारणत्वम्, न तु वन्हित्वेन, तथा मनि मणिसमवधानं दाहाssपतेः । शक्तिमन्हेः कारणवे तु “मधानका शकेनांशान” विशिष्टकारणाभावाच तदापत्तिरिति कारणतावच्छेदकतया शक्तिः स्वीकार्येति प्रभाकर मतमुपन्यस्यति । नन्वित्या- दिना । करतलाऽनलसंयोगे सत्यपीति । इदं च दाहकारणत्वप्रद नाय । प्रतिबन्धके सतीति । इदं च कारणतावच्छेदकविरहप्रदर्शनाय । दाहानुत्पते । दायभावात् । अत्र करतलदाहो यदि करतलानल- संयोगमात्रजन्यः स्यात् तदा प्रतिवन्ध समपि स्यान् इति तनुसन्धेयः । afraseria कार्याकुटिकत्वम् किन्तु कारणीभूताभावप्रति- योगित्वम्, तथा च मणेः प्रतिबन्धकत्वेन नभावरूप कारणान्तरविरहादेव दाहानु पतिसम्भवेऽतिरिकशकिम्वीकारोऽनुचित इत्याशयेन समाधत्ते । प्रतिबन्धका भावस्येति शकेरनुपयोगादिति । शरमाणिकत्वादि- स्पर्थः नन्वेवं वन्हौ स्वभाविकी दहनशतिरिति । प्रवादोग्याहन्येतेत्यत आह कारणत्वस्यैवेति । दाहकारणत्वस्यैवेत्यर्थः ।

डी० – ननु भस्मादिना कांस्यादौ शुद्धिदर्शनादाधेयशक्तिरङ्गी- कार्येति चेन्न । भस्मादिसंयोगसमानकालीनाऽस्पृश्यस्पर्शप्रतियोगि- कयावद्भावसहितभस्मादिसंयोगध्वंसस्य शुद्धिपदार्थत्वात् ।

गं०— एतावता सहजशक्तिं निरस्याऽऽधेयशकिं निरसितुं तन्मत- मुपन्यस्यति । नन्वित्यादिना भस्मादिनेति । आदिनाऽम्लादेः परिग्रहः । कांस्यादाविति । आदिना ताम्रादेः परिग्रहः “भस्मना शुद्धयते कांस्य ताम्रमम्लेन शुद्धयति । गाम्मयाच्छुद्धयते भूमिः नारी तु रजसा तथा” इति वचनात् शुद्धेर्भस्मादिजन्यत्वप्रतिपादनात् अङ्गीकार्येति । कांस्यादेर- स्पृश्य वस्तुस्पर्शे सति न कार्यक्षमता, शक्तिमत्कांस्यादेरेव तद्योग्यत्वात्, अस्पृश्यस्पर्शे सति शक्तेर्नाशात् भस्मसंयोगे तु पुनः शक्तेरुत्पादास- योग्यता तथा च कांस्यादौ आधेयशक्तिः स्वीकार्येति भावः । भस्मादि-

तर्क - सङ्ग्रहः

[[२७२]]

संयोगेत्यादि । भस्मादिसंयोगसमानकालीनाः यावन्तः अस्पृश्यस्पर्शप्रति- योगिकाsभावाः तत्समुदाय विशिष्टभस्मादिसंयोगध्वंसस्येत्यर्थः ।

तथा च भस्मादिसंयोगध्वं स विशिष्टकूटत्वावच्छिन्नाधिकरणत्वं शुद्धि- पदार्थः । कूटत्वे तादृशसंयोगध्वंस वै० स्वाधिकरणकालनिष्ठाधिकरणता- निरूपितनिरूपकतावच्छेदकत्व, स्वप्रतियोगिभस्मादिसंयोगकालीनाऽप्पृश्य-

स्पर्शसंसर्गाभावत्वावच्छिन्नानुयोगिताकपर्याप्तिकत्वोभयसम्बन्धेनेति ।

दी० — स्वत्वमपि न पदार्थान्तरम् । यथेष्टविनियोगयोग्यत्वस्य स्वत्वरूपत्वान् । तदवच्छेदकं च प्रतिप्रहादि लब्धत्वमेवेति ।

[[3]]

गं० – स्वत्वं तावत्पदार्थान्तरम्, मम स्वस्वम् तव स्वत्वम् ब्रह्म- स्वम्, इति प्रतीतिसिद्धम्, षष्ठीवाच्यम् । तच स्वरूपसम्बन्धेन स्वर्णादिनि- म् । स्वर्णे स्वत्वमितिप्रतीतेः । निरूपकतासम्बन्धेन स्वामिनिष्ठम् । तच न द्रव्यगुणकर्मस्वरूपं गुणवृत्तित्वात् । नापि सामान्यविशेषसमवायाद्यन्यतम. स्वरूपं आपत्तिमत्वे सति विनाशित्वात्, अतएव नाऽभावस्वरूपं भावत्वेन प्रतीयमानत्वाचेत्यत आद। न पदार्थान्तरमिति । तत्वे प्रमाणाऽभावा- दिति शेषः । ननु तर्हि स्वत्वं किं स्वरूपमित्यत आह । यथेष्टविनियोग- योग्यत्वमिति । योग्यतानियामकमाह । तदवच्छेदकं चेति । योग्यता- नियामकं चेत्यर्थः । प्रतिग्रहादिति । आदिना विक्रयादिपरिग्रहः । तथा च मानाभावात् स्वत्वं न पदार्थान्तरमिति भावः ।

दी० - श्रथ विधिर्निरूप्यते - प्रयत्नजनक चिकीर्षाजनक ज्ञान- विषय विधिः तत्प्रतिपादको लिङादिर्वा :

[[1]]

गं० - प्रसङ्गसङ्गत्या विधिनिरूपणं प्रतिजानीते । श्रथेति । श्रथ- पदार्थानां सप्तविधत्वम्यवस्थापनानन्तरम् । मयेत्यध्याहार्यम् । तथा च पदार्थनि सप्तविधत्वम्यवस्थापनान्तरमत्समवेत कृतिजन्य वर्धमान कालाव्य वहि- सोतरकालय विज्ञानानुकूलव्यापारनिरूपितविषयतावान् विधिरिति बोधः ।

[[२७३]]

टोकाश्रयोपेतः

लियों विधिः, विध्यर्थश्च कृतिसाध्यत्वम्, इष्टसाधनत्वम्, बलवदनिष्टान- gauria । कथमिति चेदाह । प्रयत्नेति । प्रयत्नपदं चात्र प्रवृत्तिपरम् । तथा च प्रवृत्तिजनिका या चिकीर्षा तज्जनकं यद् ज्ञानं तद्विषय इत्यर्थः । नथाहि । प्रकृति प्रति चिकीर्षा कारणम्, चिकीर्षा च कृतिसाध्यत्वप्रकारिका इच्छा " सा च पाको मत्कृतिसाध्यो भवतु इत्याकारिका – पार्क कृत्या साधयामी- “यकारिका at” तत्र पाको मन्कृतिसाध्यः - पाको मदिष्टसाधनं पाकोबलवद- निष्टाननुबन्धीति पाकविशेष्यककृतिसाध्यत्वप्रकारकस्य इष्टसाधनत्वप्रकारकस्य बलवदनिष्टाननुवन्धित्वप्रकारकस्य च ज्ञानत्रयस्यैव कारणत्वं विनिगमना- विरहात् । ताज्ञानविषयत्वं कृतिसाध्यत्वे- इष्टसाधनत्वे बलवदनिष्टाननु- वन्धित्वे च तान्येव विधिप्रतिपाद्यानि । तथा च प्रवर्धक चिकीर्षा जनकताव- errerrarara farधत्वं पर्ययसितम् । धात्वर्थमुख्यविशेष्यकश्चात्र बोधः । तथा च यजेतेत्यत्र यागः कृतिसाध्यः इष्टसाधनम्, बलवदनिष्टाननु- वन्धी चेति बोधः । तत्प्रतिपादकः तादृशविषयप्रतिपादकः । लिङा- दिर्वा - विधिरित्यर्थः ।

दी० – कृत्यसाध्ये प्रवृत्यदर्शनात् कृतिसाध्ये प्रवृत्तिदर्शनान् कृतिसाध्यताज्ञानं प्रवर्तकम् । न च विषभक्षणादौ प्रवृत्तिप्रसङ्गः, इष्टसाधनता लिङ्गककृतिसाध्यताज्ञानस्य काम्यस्थले, विहितकालशु- चिजीवित्वनिमित्तज्ञानजन्यस्य नित्यनैमित्तिकस्थले, प्रवर्त्तकत्वात् । न चाननुगमः । स्वविशेषणत्रचाप्रतिसन्धानजन्यत्वस्यानुगतत्वादिति गुरवः ।

गं० – प्राभाकरमतमुपन्यस्य दूषयति । कृत्यसाध्ये । चन्द्रमण्डलाss- नयनादौ । प्रवृत्यदर्शनादिति । प्रवृत्तिविरहादित्यर्थः । प्रवर्त्तकमिति । प्रवृत्तिजनकमित्यर्थः । तथा वाऽन्वयव्यतिरेकाभ्यां कृतिसाध्यताज्ञानमेव प्रवृत्तिकारणमिति भावः । न चेति । प्रवृत्तिप्रसङ्ग इत्यनेनाऽन्वयः । कृतिसाध्यताज्ञानस्य सत्वादिति शेषः । निराचष्टे । इष्टसाधनतालिङ्ग-

[[१८]]

नर्क - सङ्ग्रहः

[[२७४]]

}

केति । काम्यस्थले इति । अस्य प्रवर्त्तकत्वादित्यनेनाऽन्वयः । ज्योतिष्टोम यागादावित्यर्थः । तथा च काम्यं मकुतिसाध्यं मत्कृतिं विना असावे सति बलवदनिष्टाऽननुवन्धित्वे सति इष्टसाधनात् यन्नैवं तवं यथा चैत्यवन्दनम् इत्यनुमानाधीन कृतिसाध्यताज्ञानस्य प्रवर्त्तकत्वान्न विपभक्षणादौ प्रवृत्यापत्तिः, तत्र बलवदनिष्टाननुबन्धिन्त्ररूपविशेषणाभावात् । नित्ये प्रवर्त्तकमाह । विहितकालेत्यादि । विहितकालशुचिजीवित्वज्ञानजन्यस्य कृति साध्यता- ज्ञानस्य नित्ये प्रवर्त्तकत्वात्, “अशौचादिरूप” निमित्तज्ञानाधीनस्य तस्य नैमित्तिके प्रवर्त्तकत्वादित्यर्थः । तथा च अहमेतत्कालिक कृतिसाध्य सन्ध्या- चन्दनकः एतत्कालिकशुचिजीवित्वात् यचैवं यथा बौद्धः इति रीत्या कृतिसाध्यताज्ञानस्य प्रवर्त्तकत्वादिति श्रनुगम इति । प्रवृत्तिसामा न्यप्रयोजकस्यैवाभावादिति भावः । स्वविशेषणेति । त्वं प्रत्याश्रयः पुरुषः तद्विशेषणं तत्र वर्त्तमानः स्वाभिमतो धर्मः । सत्र काम्ये कामना नित्ये कालशौचादि । तद्धता तत्सम्बन्धः, “स्वपियसाधनत्वरूपः " तत्प्रति. सन्धानं तनिश्चयः लिङ्गविधया तज्जन्यत्वस्येत्यर्थः । अनुगतत्वादिति । तथा च तज्जन्यत्वेन निखिलकृतिसाध्य प्रकारकाऽनुमितीनामनुगमादिति भावः ।

दी० -तन्न । लाघवेन कृतिसाध्येष्टसाधनताज्ञानस्यैव चिकी- र्षाद्वारा प्रयत्नजनकत्वात् । न च नित्ये इष्टसाधनत्वाभावादप्रवृत्तिप्र सङ्गः । तत्रापि प्रत्यवायपरिहारस्य पापक्षयस्य च फलत्वकल्पनात् । तस्मात्कृतिसाम्येष्टसाधनत्वमेव लिङाद्यर्थः ।

गं० - दूषयति । तन्नेति । लाघवेनेति । कारणतावच्छेदकलाघवात् । म्याप्तिज्ञानाद्यकल्पनाच । कृतिसाध्येष्टसाधनताज्ञानस्यैवेति । इदमु पलक्षणम् । बलवदनिष्टाननुवन्धित्वज्ञानस्यापि प्रवर्त्तकत्वं बोध्यम् । एवकारेण स्वविशेषणवत्ता तिसन्धानजन्यकृतिसाध्यताज्ञानस्य कारणस्वच्यवच्छेदः । प्रयाजनकत्वात् । प्रवृत्तिजनकत्वात् । श्रप्रवृत्तिप्रसङ्गः । प्रवृत्यभाव- प्रसङ्गः । इष्टसाधनताज्ञानस्य कारणतया “इष्टानुत्पत्या " कारणाभावात्प्रवृत्ति-

[[૨૭૫]]

टीकात्रयोपेतः

नं स्यादिति भावः । प्रत्यवायपरिहारस्य । पापप्रागभावस्य । पापक्षय- म्य चेति । चकारः पूर्वकल्पेऽम्वरससूचनाय । तथा च ‘सन्ध्यामुपासते ये तु सततं सन्धितव्रताः । विधूतपापास्ते यान्ति ब्रह्मनोकमनामयम्’ इति वचनेन पापनाशस्य aera: प्रतिपादनादिति भावः । उप- संहरति । तस्मादिति ।

दी० ननु ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यत्र लिङ स्वर्गसाधन कार्य प्रतीयते यागस्याशुनरविनाशिनः कालान्तर्भावि स्वर्ग- साधनत्वायोगान् तद्योग्यं स्थायि कार्यमपूर्वमेव लिङाद्यर्थः । कार्य कृतिसाध्यम् । कृतेः सविषयत्वाद्विषयाकाङ्क्षायां यागो विषयत्वेना- म्वेति । ‘कस्य कार्यम्’ इति नियोज्याकाङ्क्षायां स्वर्गकामपदं नियो- ज्यपरतयाऽन्वेति । कार्यभोक्ता नियोज्यः तेन ‘ज्योतिष्टोमनामक • या विषयं स्वर्गकामस्य कार्यम् । इति वाक्यार्थः सम्पद्यते । वैदिकलित्वात् यावज्जीवमग्निहोत्रं जुहुयात्’ इति नित्यवाक्ये - व्यपूर्वमेव वाच्यं इति कल्प्यते । “आरोग्यकामोभेषजपानं कुर्यात् " इत्यादि लौकिकलिङः क्रियाकार्ये लक्षणा इति चेत् न । यागस्या- प्ययोग्यतानिश्चयाभावेन साधनतया प्रतीत्यनन्तरं निर्वाहार्थ अवान्त- व्यापारतयाऽपूर्वकल्पनात् । कीर्त्तनादिना नाशश्रतेन यागध्वंसो व्यापारः । लोकव्युत्पत्तिबलात् क्रियायामेव कृतिसाध्येष्टसाधनत्वं लिखा वोध्यत इति लित्वेन विध्यर्थकत्वम् । श्राख्यातत्वेन यन्नार्थ- कत्वम् । पचति पाकं करोतीति विवरणदर्शनात् किं करोतीति प्रश्ने पचतीत्युत्तराचाख्यातस्य प्रयत्नार्थकत्वनिश्चयात् ।

गं०— अपूर्वे एव लिङादेः शक्तिरिति मतमुपन्यस्यति । नन्विति । स्वर्गसाधन कार्यमिति । स्वयं प्रति व्यापारविधया कारणं कार्य-कृतिसा- ध्यतावत् । प्रतीयते शक्त्या बोध्यते । तथा च कार्य " कृति साध्यत्वप्र-

तर्क - सङ्ग्रहः

[[२७६]]

कारकधीविशेष्ये अपूर्वे इति यावत्” हिङादीनां शक्तिरिति भावः । तत्र हेतुमाह । यागस्येति । स्थायि । फलपर्यन्तस्थायि । कार्यपदार्थमाह । कृतिसाध्यमिति । कृतिजन्यमित्यर्थः । कस्य कार्यमिति । कीदृशपुरुषस्य कृतिसाध्यमित्यर्थः । श्रन्वेतीति । तथा च स्वर्गकामपदार्थस्य समवेतत्व- सम्बन्धेन कृतान्त्रय इति भावः । कार्यभोक्तेति । स्वर्गादिरूपफलभोके - त्यर्थः । कुत्रचित् कार्यबोद्धति पाठः । तत्र इदं मत्कृतिसाध्यमिति ज्ञानवानि - त्यर्थः । नित्यवाक्ये इति । नित्यवाक्यघटकलिङ पदस्यापीत्यर्थः श्रपूर्व- मेव वाच्यमिति । अपूर्वं वाच्यमेवेति योजना । कल्प्यते । अनुमीयते इत्यर्थः यावज्जीवमित्यादिश्रुतिघटकलिङपदं अपूर्वचाचकं वैदिकलित्वात् वेदिक लिहन्तरवदित्यनुमानम् । क्रियाकार्ये इति । कृतिसाध्यत्वे इत्यर्थः । यागध्वंसस्य व्यापारत्वं निरस्यति । कीर्तनादिनेति । अधिकं अदृष्टनिरूपणे द्रष्टभ्यम् । क्रियायामेवेति । धात्वर्थविशेष्यककृतिसाध्यत्वादिप्रकारकबोधो लिङा जायते इत्यर्थः ।

ननु तहि प्रथमान्तार्थ मुख्य विशेष्यकशाब्दवोधानुपपत्तिरित्यत आह । लिवेनीति । तृतीयार्थोऽवच्छिन्नत्वम् । विनिष्ठेष्टसाधनत्वादिनिरू. पितशक्तता लिहत्वावच्छिन्नेत्यर्थः । श्राख्यातत्वेनेति । लिहूनिष्ठा कृतिनि- रूपितशक्तता आख्यातत्वावच्छिन्नेत्यर्थः । तथा च लित्वेनेष्टसाधनत्वादि- बोधनेऽपि आख्यातत्वेन रूपेण कृतेरपि बोधनात् कृतिसाध्येष्टसाधनयागा- नुकूलकृतिमानित्य कारकप्रथमान्तार्थमुख्यविशेष्य कशाब्दबोधस्य नानुपपत्ति- रिति भावः । ननु आख्यातस्य यत्रार्थकत्वे किं मानमित्यत आह । पच- तीति । विवरणं च तत्समानार्थकपदान्तरेण तदर्थकथनम् । पाकं करोतीति वाक्यघटकद्वितीयान्तपाकपदज्ञानजन्यपाकत्वावष्टिविषयक बोधात् एता- दृशवावयघटककृञ्धानुपदज्ञानजन्यकृतित्वावच्छिन्नविषयकबोधाच्च, पचधातोः पाकत्वावच्चिने शक्तिग्रहः आख्यातस्य कृतौ शक्तिग्रहः । पाकपदेन पचधा- तोर्विवरणं दृष्टान्तार्थम् । भाख्यातं यतस्वविशिष्टे शकं यत्तत्वविशिष्टशतक- शेतिप्रतिपादिवार्थप्रतिपादकत्वात्, यद्यद्धर्मावच्छिन्नपदप्रतिपादितार्थप्रतिपा-

[[२७७]]

टीकात्रयोपेतः

दकं भवति तत्तद्धर्मावच्छिन्नशकं पाकपदेन विवृतपचधातुवत् । प्रश्नोत्तरान्य- धानुपपत्याsपि आख्यातं यत्नत्वावच्छिने शतमित्याह । किं करोतीति प्रश्ने इति । किंविषयक यत्नवानयमिति जिज्ञासाबोधकशब्दप्रयोगे कृते सनीत्यर्थः । पचतीत्युत्तरादिति । पाकविषयकयन्नवानित्युत्तरादित्यर्थः । वस्तुविशेषविषयकयःनजिज्ञासायाः वस्तुविशेषविषयकयत्नार्थकपदघटितो त्त- aarti faar निवृत्यसम्भवादाख्यातस्य यन्नार्थकत्वमावश्यकमिति भावः ।

दी० – रथो गच्छतीत्यादौ श्रनुकूलव्यापारे लक्षणा ।

गं० - ननु लकारसामान्यस्य न कृतौ शक्तिः, रथो गच्छतीत्यादौ रथे कृत्यभावेनाऽऽख्यातस्य व्यापारे लक्षणाssपत्तेः, किन्तु व्यापारमात्रे शक्तिः, रथो गच्छतीत्यादावपि गमनानुकूलव्यापारस्य रथे सत्वेन शक्त्यैव बोधोप- पत्तेरिति मीमांसकमतं निरस्यति । रथो गच्छतीत्यादाविति । आदिना घटो नश्यति जानातीत्यादेः परिग्रहः । व्यापारे इति । इदमुपलक्षणम् । नश्यतीम्यत्र आख्यातस्य प्रतियोगित्वे - जानातीत्यत्र आश्रयत्वे निरूढ- लक्षणा बोध्या ।

इदमत्रबोध्यम् । चैत्रो ग्रामं गच्छतीत्यत्र कर्मत्वं द्वितीयार्थः “कर्मणि द्वितीयेत्यत्र कर्मणीति भावप्रधानानिर्देशतया कर्मध्ये द्वितीयाविधानात् " कर्मत्वं च क्रियाजन्यफलशालित्वम्, “क्रिया धात्वर्थः " - सा च प्रकृते गम- नम्, तच उत्तरदेशसंयोगानुकूलव्यापारः । व्यापारमात्रं वा । तथाचाऽन- क्रियापदेन तादृशव्यापारी गृह्यते, तजन्यं फलं उत्तरदेश संयोगात्मकं तदा- श्रयत्वस्य ग्रामे सत्वात् ग्रामस्य कर्मव्यम् । तथा च द्वितीयार्थे कर्मत्वे प्रकृत्यर्थस्य ग्रामस्याssधेयतयाऽन्वयः । कर्मत्वस्य “उत्तरदेश संयोगस्य” अनुकूलत्वसम्बन्धेन धात्वर्थे " व्यापारे” ऽन्वयः । तस्य अनुकूलत्वसम्बन्धे- नाऽऽख्यातार्थ कृतावन्वयः । तस्याः समवायसम्बन्धेन प्रथमान्तपदार्थे चैत्रा- दावन्वयः । तथा च ग्रामकर्मकगमनानुकूलकृतिमांश्चैत्र इति बोधः ।

चैत्रेण गम्यते ग्राम इत्यन्त्र, कृतिस्तृतीयार्थः । तस्यामाधेयता सम्बन्धेनतर्क - सङ्ग्रहः.

[[२७८]]

प्रकृत्यर्थस्य चैत्रान्वयः । तस्याश्च जन्यतासम्बन्धेन धावर्थगमने । तस्य आख्यातार्धकर्मत्वे “फले” जन्यतासम्बन्धेनान्वयः । तस्य आश्रयतासम्ब- मधेन प्रामेऽन्वयः । तथा च चैत्रवृत्तिकृतिजन्यव्यापारजन्यपाश्रयो ग्राम इति बोधः ।

दी० -देवदत्तः पचति देवदत्तेन पच्यते तण्डुलः, इत्यादौ कन्तु कर्मणोर्नाख्यातार्थत्वम्, किन्तु तद्गतैकत्वादीनामेव । तयोरा- क्षेपादेव लाभः ।

[[1]]

गं० - वैयाकरणैराख्यातस्य कर्त्तरि शक्तिरङ्गीक्रियते । तेषामयमभि- प्रायः । लः कर्मणि च भावेचाऽकर्मकेभ्य इति सूत्रे कर्तरिकृदिति सूत्रस्थं कर्त्तरीति पदमनुवर्त्य - सकर्मक धातुसमभिव्याहृतलकाराः कत्त ‘कर्मवाचकाः स्युः । अकर्मक धातुसमभिव्याइतलकाराः भावकत्त वाचकास्युरित्यर्थः स्वी- क्रियते । तथा च देवदत्तस्तण्डुलं पचतीत्यत्र आख्यातार्थः कर्त्ता, तस्याऽभे- देन प्रथमान्तपदार्थे कर्त्तरि अन्वयः । एवं च तण्डुलकर्मकः देवदत्ताऽभिषेक- कत्त को विफित्यनुकूलो व्यापार इति धात्वर्थमुख्यविशेष्यको बोधः । चैत्रेण पष्यत तण्डुल इत्यत्रापि आख्यातार्थः कर्म, तस्य अभेदेन प्रथमान्ततण्डल- पदार्थेऽन्यः । शाब्दबोधस्तु तथैव । चैत्र स्तिष्ठतीत्यादौ च चैत्रकस. कास्थितिरिति बोधः । तथा चैतन्मते आख्यातस्य कर्त्तरि कर्मणि च शक्तिः । शक्यतावच्छेदकं कत्तत्वम्, तच कृतिमत्वम्, कृतिरेवेति यावत् । शक्यतावच्छेदकी भूतकृतीनामानन्त्येन गौरवम्, अतो नैयायिकैः कृतौ “कर्मत्वे व” आख्यातस्य शक्तिः स्वीक्रियते । कृतित्वजातेः शक्यतावच्छेदक- त्वे लाघवादिति ।

[[1]]

e

नतु भाख्यातस्य कृतौ “कर्मत्वे” च शक्तिस्वीकारे चैत्रः पचतीत्यत्र चैrपदोत्तरं तृतीया स्यात्, आख्यातेन कर्तुरनभिधानात् । एवं पच्यते तण्डुल इत्यत्र तण्डुलपदोत्तरं द्वितीया स्यात्, आख्यातेन कर्मानभिधानादि- स्वत आह । देवदत्त इति । इत्यादाविति । घटकत्वं सप्तम्यर्थः ।

[[२७६]]

टोकात्रयोपेतः

नस्यास्यतेऽन्वयः । तथा च कर्तुः कर्मणश्च नाssस्यतार्थत्वमिति भावः । न श्वेवमुक्तवृतीयाद्वितीययोरापनिरित्यत आह । किन्विति । तद्गतैक- स्वादीनामेवेति । कन कर्मगतैकादीनामेवेत्यर्थः । आख्यातार्थत्वमित्यनु. affic । आदि द्वित्वबहुवयोः परिग्रहः । तथा च यत्र आख्यातेन कर्ता गतसङ्ख्या नाऽभिधीयते तत्र तृतीयेत्यनुशासनार्थत्वात् एवं यत्र आख्यान कर्मगतसङ्ख्या नाऽभिधीयते तत्र द्वितीयेत्यनुशासनार्थत्वाच itstra तृतीयाद्वितीययोरापत्तिरिति ध्येयम् । नन्वेवं देवदत्तः पचतीति वाक्यात कत कर्मणोः शाब्दबोधो न स्यात्, तयोराख्यातेनाऽनुपस्थितेरित्यत आह । तयोरिति । कत कर्मणोरित्यर्थः । श्राक्षेपादेवेति । प्रथमान्त- कर्मभिव्याहारादेवेत्यर्थः । लाभः । शाब्दबोधः । भवतीति

शेषः ।

दी० प्रजयतीत्यादौ धातोरेव प्रकर्षे शक्तिः । उपसर्गाणां द्योतकत्वमेव न तत्र शक्तिः ।

[[1]]

गं०-उपसर्गाणां द्योतकम्वमाह । प्रजयतीत्यादाविति । आदिना पराजयते इत्यादेः प्ररिग्रहः । धातोरेवेति । जिधातोरेवेत्यर्थः । एवकारेण प्रेत्युपसर्गस्य शक्तताव्यवच्छेदः । प्रकर्ष शक्तिरिति । प्रकर्षेऽपि शक्तिर- न्यर्थः । प्रकृष्टजये शक्तिरिति यावत् । ननु प्रादेनिरर्थकत्वे कथं न जयतीत्येव प्रयोग इत्यत आह । द्योतकत्वमेवेति । तात्पर्यग्राहकस्य मेवेत्यर्थः उपसर्गेण धात्वर्थी बलादन्यत्र नीयते महाराऽऽहारसंहारविहार परिहारवदिति । हरिकारिकाsपि द्योतकवं व्यवस्थापयतीति, उपसर्गभिन्ननिपातानां तु वाचक- वमिध्यते । यथा एत्रकारस्य अन्ययोगव्यवच्छेदे शक्तिः ।

[[1]]

दी० - पदार्थज्ञानस्य परमप्रयोजनं मोक्षः । तथा हि “आत्मा चा भरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिष्यासितव्यः” इति श्रुत्या श्रवणादीनां तत्वसाक्षात्कारे हेतुत्वबोधनात् । श्रुत्या देहादिविलक्ष- णाऽऽत्मज्ञाने सत्यपि, असम्भावना निवृत्तेः युक्त्यनुसन्धानरूपमनन-

तर्क-सङ्ग्रहः

[[२८०]]

साध्यत्वात् । मननोपयोगिपदार्थनिरूपणद्वारा शास्त्रस्याऽपि मोक्षो- पयोगित्वम् । तदनन्तरं श्रुत्योपदिष्टयोगविधिना निदिध्यासने कृते तदनन्तरं देहादिविलक्षणाऽऽत्मसाक्षात्कारे सति देहादौ श्रहमभिमा- नरूपमिथ्याज्ञाननाशे सति दोषाऽभावात् प्रवृत्यभावे धर्माऽधर्मयोर- भावाज्जन्माभावे पूर्वधर्माधर्मयोरनुभवेन नाशे चरम दुःखध्वंसरूपो मोक्षो जायते । ज्ञानमेव मोक्षसाधनम् मिथ्याज्ञान निवृतेर्ज्ञानमात्र. साध्यत्वात् । " तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽ- नाय” इति साधनान्तर निपेधाश्च ।

गं० - पदार्थज्ञानजनकन्यायशास्त्रस्य प्रयोजनवत्तां दर्शयति । पदार्थ- ज्ञानस्येति । पदार्थनिर्णयस्येत्यर्थः । परमप्रयोजनं मोक्ष इति । मोक्ष एव परमप्रयोजनमित्यर्थः । मोक्षफलकत्वमुपपादयति । तथाहीत्यादिना । इति श्रुत्येति । इत्याकारक श्रुतेरित्यर्थः । अत्र चाssमाद्रष्टव्य इत्यात्म- साक्षात्काररूपमात्मदर्शनमुद्दिश्य तत्साधनतया श्रवणादेविधानम् । तथा चाग्निहोत्रं जुहोति यवागूं पचति” इति वदर्थक्रमस्य बलवत्वात् श्रवणमन- नादिभिरात्मसाक्षात्कारः कर्त्तव्य इत्यर्थः पर्यवसितः । श्रवणादीनामिति । श्रवणमनननिदिध्यासनानामित्यर्थः । तत्वसाक्षात्कारे । आत्मसाक्षात्कारे । श्रुत्येति । अशरीरं वावसन्तं प्रियाऽप्रिये न स्पृशत इति श्रुत्या “अचक्षुः अश्रोत्रं तदपाणिपादमिति श्रुत्वा चेत्यर्थः देहादिविलक्षणाऽऽत्मशाने सत्यपि । देहेन्द्रियादिभिनत्वप्रकारकाऽऽत्मविशेष्यकशाब्दबोधे जातेऽपि । असम्भावनानिवृशेरिति । अप्रामाण्यज्ञाननिवृत्तेरित्यर्थः । अप्रामाण्यज्ञाना- नास्कन्दितश्रवणस्यैवाऽऽत्मदर्शनोपयोगित्वादिति भावः । युक्त्यनुसन्धान- रूपेति । युक्तिभिरनुचिन्तनरूपेत्यर्थः । मननं च आत्मनः इतरभिन्नत्वेनाs- नुमानज्ञानम् । तच भेदप्रतियोगीतरज्ञानसाध्यम् । तदर्थ पदार्थनिरूपणम् । पक्षज्ञानार्थमात्मनिरूपणं चेति पदार्थज्ञानाभावे मननमेव न सम्भवती- स्वाह । मननोपयोगीति । मननप्रयोजकेत्यर्थः । मोक्षोपयोगित्वम्-

[[२८१]]

मोक्षफलकम् । तदनन्तरमिति । मननानन्तरमित्यर्थः । निदिध्यासने कृते । श्रावणसमानाकारकाऽनवरताऽऽत्मानुसन्धाने कृते । तदनन्तरं । निदिध्यासनान्तरम् । देहादिवितिक्षणाऽऽत्मसाक्षात्कारे सति । देहेन्द्रियादिभिस्वप्रकारकाऽऽत्म विशेष्य कसाक्षात्कारे सति । देहादौ श्रह- मभिमानरूपेति । देहादिविशेष्य काऽभे देनाऽऽत्मप्रकारक भ्रमरूपेत्यर्थः । दोषाऽभावादिति । दोषाश्च रागद्वेषमोहाः । जन्माऽभावे इति । कार्यमात्रं प्रति अदृष्टस्य हेतुत्वादिति । पूर्वधर्माऽधर्मयोरिति । प्रारब्धा- दृष्टस्येत्यर्थः । अनुभवेन । भोगेन । नाशे । नाशानन्तरमित्यर्थः । प्रारब्धस्य भोगेकनाश्यत्वादिति भावः । चरमदुःखध्वंसलक्षणो मोक्षो जायते इति । श्रदं बोध्यम् । मुक्तिस्तावत्पञ्चधा । सालोक्य सारूप्य साष्टि- सामीप्य - सायुज्य भेदात् । भगवता सहैकस्मिलोके वैकुण्ठाख्येऽवस्थानं सालोक्यम् । सारूप्यं भगवता सह समानरूपता । साष्टिः भगवदैश्वर्यसमा- नैश्वर्यम् । सामीप्यं भगवतोऽतिसमीपेऽवस्थानम् । सायुज्यं च निर्वाणम् । प्रकृते सायुज्यमेव निःश्रेयसपदार्थः, तस्य चरमदुःखध्वंसरूपत्वादिति ध्येयम् । चरमत्वं च दुःखे तत्वज्ञाननाश्यतावच्छेदकतया सिद्धः स्वसमानाधिकरण- दुःखप्रागभावाधिकरण क्षणावृत्तिदुःखमात्रनिष्ठो दुःखत्वव्याप्यो जातिविशेषः ।

तत्वज्ञानेनाऽऽहत्य चरमदुःखमुत्याद्य तद्द्ध्वंसजननात् । तद्ध्वंसस्य चोत्कटे- च्छाविषयतया तत्साधनत्वेन तत्प्रतियोगिनो दुःखस्याप्युपादेयत्वात् । न च चरमत्वस्य दुःखमात्रवृत्तित्वे पृथक् दुःखपदं व्यर्थम् चरमध्वंसो मोक्ष इत्य- स्यैव सम्यक्त्वादिति वाच्यम् । दुःखत्वव्याप्या सा जातिरिति बोधनाय तदुपादानादिति ।

दी०.

० - ननु “तेस्प्राप्तिहेतुर्विज्ञानं कर्मचोकं महामुने” इति कर्मणोपि मोक्षसाधनत्व श्रवणात् ज्ञानकर्मणोः समुच्चय इति चेत् न " नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुवन्

टि० १ विष्णुपुराणम् । पूर्वार्द्धस्तु तन्मा त्रप्राप्तये यतः कर्त्तव्यः पण्डितैर्नरैरिति ।

तर्क - सङ्ग्रहः

[[२]]

अभ्यासेन व पाचयेत् । अभ्यासात्पक्क विज्ञानः कैवल्यं लभते नरः” । इत्यादिना कर्मणो ज्ञानसाधनत्वप्रतिपादनात् ज्ञानद्वारैव मोक्षसा- धनम्, ‘न साक्षात्, तस्मात् पदार्थज्ञानस्य मोक्षः परम प्रयोजनम् इत्येव रमणीयमिति ।

इति श्रीमदभट्टोपाध्याय विरचिता तर्कसङ्ग्रहदीपिका समाप्ता ।

गं० - ज्ञानकर्मसमुच्चयवादी शङ्कते नन्वित्यादिना । तत्प्राप्तिहेतु- रिति । मोक्षप्राप्तिहेतुरित्यर्थः । मोक्षहेतुरिति यावत् । विज्ञानमिति । आत्मज्ञानमित्यर्थः । कम चेति । नित्यं नैमित्तिकं कर्म वेस्यथः । उक्तमिति । जनकादिभिरिति यावत् । इतीति । इत्याकारकव्यासवचनेनेत्यर्थः । कर्मण इति । कर्मणोऽपीत्यर्थः । समुच्चय इात । मुक्तिसाधनमिति शेषः । निश्यनैमित्तिकैरिति । भगवदाराधनादिकर्मणा तीर्थयात्रादिकर्मणा- चेत्यर्थः । दुरितक्षयम् । पापनाशद्वारा चित्तशुद्धिकरमित्यर्थः । ज्ञानद्वा- रेति । तथा च निष्कामनया भगवस्त्रीत्यर्थं कृतैः कर्मभिः तत्वज्ञानप्रति- areeread freey वैराग्यम् । ततः श्रवगादिक्रमेण मिथ्याज्ञाननाशात् मुक्तिनिष्पत्तिरिति ।

कारणादन्यायमतयोर्वा लव्युत्पत्तिसिद्धये ।

भन विदुषा रचितस्तर्कसङ्ग्रहः ॥

इति तर्कसङ्ग्रहः समाप्तः ।

न्या०– कणादस्येदं कारणादं कारणादन्यायमते इति द्वन्द्वगर्भ- कर्मधारयः । कणादप्रोक्तगौतमप्रोक्तमतयः रितियावत् । काणादन्या- याऽभिन्न मतद्वयविषयक बालसमवेताऽभिन्न व्युत्पत्ति सिद्धि प्रयोजकाऽन्नं- भट्टाभिन्नविद्वन्निष्ठ भूतकालीन कृतिविषयाऽभिन्न स्तर्कसङ्ग्रहाख्यप्रन्थ इ. त्यन्वयबोधः ।

इति श्रीगोवर्द्धनकृता न्यायबोधिनी समाप्ता ।

[[२८३]]

टीकात्रयोपेतः

गं० - इन्द्रगर्मकर्मधारय इति । काणादं च न्यायं च काणान्याये,

ते च ते मते च तयोरिति यावत् ।

जनकः प्रभुदन्तः श्रीनान्ही देवी च मत्प्रसूः

न्यायाचार्यो गुरुवमाचरणः शरणं मम १ यत्कृपाकणलाभेन श्रीमद्विश्वेश्वराश्रमे

समाप्तिमगमद् व्याख्या गङ्गा गङ्गेव निर्मला २

इति महामहोपाध्याय याज्ञिकमूर्द्धन्य- पं० श्रीप्रभुदत्त शास्त्रिसुत- न्यायाचार्य श्रीशिवदत्तमिश्र गौड़विरचिता गङ्गा नाम्नी व्याख्या समाप्ता ।

शुभं भूयात् ।