+न्याय-वैशेषिके

परिचयः

  • नी+++(नि+ई)+++यत+++(=निश्चयेन प्राप्यते)+++ उक्तोदाहरणापेक्षयाऽप्य् अन्यस्मिन् स्थले ऽर्थविशेषो येन, स न्यायः।

अद्भुतांशाः

  • वैशेषिकेषु
    • क्रमेण पदार्थसुविभजने यत्नः।
    • परमाणवः, विशेषाः, इन्द्रिय-सन्निकर्षकल्पनम्। परिष्कार-परम्परा।
  • नैय्यायिकेषु
    • प्रत्यक्षमूर्धन्यता। अनुमानकेन्द्रिता। व्याप्तिपरीक्षा।
    • धर्मग्रहणेनैव व्यक्तिग्रहणम्।
    • परिष्कार-परम्परा।

निकृष्टांशाः

  • वैशेषिकेषु
    • पदार्थ-विभागे - अलाघवं क्वचित्, मोक्षकेन्द्रितत्वाद् अपूर्णता।
    • द्रव्यगुणवर्णने - आधुनिकविज्ञानेन सहासामञ्जस्यम्।
  • नैय्यायिकेषु
    • प्रवेशे काठिन्यम् - अपर्याप्त-लक्ष्योदाहरणम् लक्षणावश्यकता-निरूपणे।

लेखाः

न्याय-वैशेषिकयोः परस्पर-पूरकत्वम् अस्ति।

  • वैशेषिकदर्शने पदार्थविज्ञानम्।
  • न्यायदर्शने प्रमाणचिन्तनम्।
  • कोशो ऽत्र

लक्षणवचने क्रमः

  • उद्देशः। नामसङ्कीर्तनम्।
  • लक्षणम्। पदार्थस्य लक्षणवचनम्।
  • परीक्षा। लक्षणौचित्य-परीक्षा।

सूत्राणि

नव्यन्यायपरम्परा

  • प्राचीन-नव्य-परम्परयोर्‌ बह्व् अस्ति साम्यम् (८०%)।
  • अन्नम्भट्ट-तर्कसङ्ग्रहः, तद्व्याख्याश् चात्र
    • तर्कसंग्रहकारः प्रायेण नव्यमतं स्वीचकार, किन्तु कुत्रचित् कुत्रचित् प्राचीनमतं स्वीचकार।
  • विश्वनाथ-न्याय-पञ्चानन-कृत-न्याय-परिभाषा-ग्रन्थः (भाषापरिच्छेदः)

टिप्पन्यः

शाब्दबोध-प्रक्रिया

नव्यन्यायरीत्या प्रकृतिप्रत्यय-विवेकात् परम् “पृथिवी-निष्ठा-ऽधिकरणता-निरूपित+आधेयता-ऽऽश्रयो गन्धः।” इत्यादिभिः शाब्दबोधनिरूपणम् अन्यत्र

बोधनानि

  • नव्य-न्याय-भाषायाम् अत्र
  • आळ्वार-पाठो ऽत्र।