परिचयः
- नी+++(नि+ई)+++यत+++(=निश्चयेन प्राप्यते)+++ उक्तोदाहरणापेक्षयाऽप्य् अन्यस्मिन् स्थले ऽर्थविशेषो येन, स न्यायः।
अद्भुतांशाः
- वैशेषिकेषु
- क्रमेण पदार्थसुविभजने यत्नः।
- परमाणवः, विशेषाः, इन्द्रिय-सन्निकर्षकल्पनम्। परिष्कार-परम्परा।
- नैय्यायिकेषु
- प्रत्यक्षमूर्धन्यता। अनुमानकेन्द्रिता। व्याप्तिपरीक्षा।
- धर्मग्रहणेनैव व्यक्तिग्रहणम्।
- परिष्कार-परम्परा।
निकृष्टांशाः
- वैशेषिकेषु
- पदार्थ-विभागे - अलाघवं क्वचित्, मोक्षकेन्द्रितत्वाद् अपूर्णता।
- द्रव्यगुणवर्णने - आधुनिकविज्ञानेन सहासामञ्जस्यम्।
- नैय्यायिकेषु
- प्रवेशे काठिन्यम् - अपर्याप्त-लक्ष्योदाहरणम् लक्षणावश्यकता-निरूपणे।
लेखाः
न्याय-वैशेषिकयोः परस्पर-पूरकत्वम् अस्ति।
- वैशेषिकदर्शने पदार्थविज्ञानम्।
- न्यायदर्शने प्रमाणचिन्तनम्।
- कोशो ऽत्र।
लक्षणवचने क्रमः
- उद्देशः। नामसङ्कीर्तनम्।
- लक्षणम्। पदार्थस्य लक्षणवचनम्।
- परीक्षा। लक्षणौचित्य-परीक्षा।
सूत्राणि
- न्यायसूत्राणि - गौतमप्रणीतानि
- वैशेषिक-सूत्राणि
- गङ्गेशोपाध्याय-कृत-तत्त्व-चिन्तामणिः
- ततः न्यायवैशेषिके एक्य् अभवताम्।
- २१-तम-शतकस्य पदार्थशास्त्र-परिष्कारः।
नव्यन्यायपरम्परा
- प्राचीन-नव्य-परम्परयोर् बह्व् अस्ति साम्यम् (८०%)।
- अन्नम्भट्ट-तर्कसङ्ग्रहः, तद्व्याख्याश् चात्र।
- तर्कसंग्रहकारः प्रायेण नव्यमतं स्वीचकार, किन्तु कुत्रचित् कुत्रचित् प्राचीनमतं स्वीचकार।
- विश्वनाथ-न्याय-पञ्चानन-कृत-न्याय-परिभाषा-ग्रन्थः (भाषापरिच्छेदः)
टिप्पन्यः
शाब्दबोध-प्रक्रिया
नव्यन्यायरीत्या प्रकृतिप्रत्यय-विवेकात् परम् “पृथिवी-निष्ठा-ऽधिकरणता-निरूपित+आधेयता-ऽऽश्रयो गन्धः।” इत्यादिभिः शाब्दबोधनिरूपणम् अन्यत्र ।
बोधनानि
- नव्य-न्याय-भाषायाम् अत्र।
- आळ्वार-पाठो ऽत्र।