श्रीवैष्णवाः
परमतानाम् सीमितो ऽप्य् अङ्गीकारो दृश्यते प्राचीनेषु। तेषाम् अस्मिन् सूत्रे सङ्ग्रहो ऽस्तु।
साङ्ख्यं योगः पञ्चरात्रं
वेदाः पाशुपतं तथा ।
आत्मप्रमाणान्येतानि
न हन्तव्यानि हेतुभिः॥
(म. भा. शा. ३५०-६३) ॥
इति श्रीभाष्यकारेण रामानुजेन +उच्यत इति ज्ञायते 9:18 इत्यस्मात्। तत्रैव तेनैव “अनुक्तम् अविरुद्धम् अन्यतो ग्राह्यम्” इत्यपि न्यायः प्रयुक्त इति ज्ञायते।
वरदाचार्यस्य सर्वाङ्कषा-व्याख्याने
श्रीमद्-अभिनव-रङ्ग-नाथ-ब्रह्म-तन्त्र-परकाल-महादेशिकाः
तदा तदा सत्यम् एवं प्रकटयेरन् बहुजन-मध्य एव, न रहसि -
‘भगवद्-रामानुज एवावतारपुरुषः,
नेतर इति नाहम् अङ्गी करोमि ।
व्याख्यातॄणां यथा-तथात्वेऽपि
मूलपुरुषास् सर्वेऽपि महात्मान एव ।
परं तु व्यवहारस्य पुरोवर्ति-चेतनोद्देश्यकत्वात्
काल-देश-पुरुषानुगुणं भिद्येरन्न् एव शब्दाः ।
एतावद् विन्यास-विशेषम् अजानद्भिः शब्द-मात्र-परायणैः
पूर्व-ग्रह-ग्राहाद् आत्मानं रक्षितुम् अशक्तैः
मोचितुम् तत्-तद्-व्याख्याकारैर् एव सर्वं पूर्व-पश्चिमी-कृतम् ।
सारतस् तु श्रीशङ्कराचार्यैर् उपक्रान्तम्, भगवद्-रामानुजैः पूरितम् । तावद् एव '
इति ॥
समय-विशेषे च स भगवान् स्पष्टम् एवान्वग्रहीत्
‘श्रीशङ्कराचार्याणां काले
श्रीरामानुजाचार्या यद्य् अवतीर्णाः स्युः,
तदैतेऽपि श्रीशङ्कराचार्य-क्रमम् एव नूनम् अनुसरेयुः ।
तथैव श्रीशङ्कराचार्या यदि श्रीरामानुजाचार्याणां कालेऽवतीर्णाः स्युः,
तदा तेऽपि श्रीमद्-रामानुजाचार्य-मार्गम् एव नूनम् अनुसरेयुः,
न संशयः ।
उभयोर् हृदयम् एकम् एव।
शब्द-विन्यासस् तु तत्-तत्-कालानुगुणो ऽनिवार्यः’
इति ॥
शाङ्कराः
शाङ्करा एवं वदन्ति -
‘स्वसिद्धान्त-व्यवस्थासु
द्वैतिनो दृढनिश्चयाः ।
परस्परं विरुद्ध्यन्ते,
तेनायं न विरुद्ध्यते ॥’ (मां. का. 3-17)
अन्तिमपादे तु वरदाचार्यः
परं तु,
‘भावाभावौ निषेद्धुं
तद्-उभय-विधिवद् व्याहतत्वाद्
अशक्यम्’इति न्यायेन भेदाभेदयोः परस्पराभाव-रूपत्वेन
+अन्यतरेणान्यतर+अनिषेधासंभवात् (नैवम्)।
‘परमतम् अप्रतिषिद्धं अनुमतम् भवति’ इत्यप्य् अङ्गीकृतम् सूत्रभाष्ये। प्रस्थानत्रयभाष्ये वाक्यानि सन्ति यत्र तन्मतनामकथनपूर्वकम् तत्प्रमेयाङ्गीकार: ।
त्रिक-शैवाः
अभिनवगुप्तः -
शास्त्रं च परमेश्वर-भाषितम् एव प्रमाणम् -
अपर-शास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन (अस्माभिः शैवैर्) +अभ्युपगमात्,
तद्-अर्थातिरिक्त-युक्ति-सिद्ध-निरूपणाच् च।
(तत्र मुकुन्दरामः - “अपर-शास्त्रोक्तानाम् अर्थानां = बौद्ध-वैष्णवादिभिः स्वस्वाम्नायेष्व् अनुशिष्टानाम् । ते च +अर्था अपरशास्त्रोक्ता बौद्ध-वैष्णवादि-शास्त्राभिहिताः।”)
In the 8th sūtra of प्रत्यभिज्ञाहृदयम्, Kṣemarāja (क्षेमराज) says that all the siddhāntas or theses of all the darśanas, are just the different aspects of the one Ātman (आत्मा).
आगमिक-शैवाः
शैवागमानुसारिणो भिन्नैर् दर्शनैर् जीवानां भिन्न-स्तरीयोत्क्रान्तीर् अङ्गीकुर्वन्तीति ज्ञायते, यथा सर्वात्म-शम्भोः सिद्धान्त-प्रकाशिकायाम् अत्र।
किञ्च क्वचित् “कौल-यामलादि-शास्त्राणां हिंसा-मैथुन-सङ्गमस्य सम्भवात्
पिशाचादि-पद-प्राप्तिः स्यात्।” इत्य् अप्य् उक्तम्!
भर्तृहरिः
प्रज्ञा विवेकं लभते
भिन्नैर् आगमदर्शनैः ।
कियद्वा शक्यमुन्नेतुं
स्वतर्कमनुधावता ॥
इति भर्तृहरिः वाक्यपदीये ।