पर-मताङ्गीकारः

परमतानाम् सीमितो ऽप्य् अङ्गीकारो दृश्यते प्राचीनेषु। तेषाम् अस्मिन् सूत्रे सङ्ग्रहो ऽस्तु।

  • श्रीवैष्णवाः TW
  • शाङ्कराः TW

त्रिक-शैवाः

अभिनवगुप्तः -

शास्त्रंपरमेश्वर-भाषितम् एव प्रमाणम् -
अपर-शास्त्रोक्तानाम् अर्थानां तत्र वैविक्त्येन +++(अस्माभिः शैवैर्)+++ +अभ्युपगमात्,
तद्-अर्थातिरिक्त-युक्ति-सिद्ध-निरूपणाच् च।

(तत्र मुकुन्दरामः - “अपर-शास्त्रोक्तानाम् अर्थानां = बौद्ध-वैष्णवादिभिः स्वस्वाम्नायेष्व् अनुशिष्टानाम् । ते च +अर्था अपरशास्त्रोक्ता बौद्ध-वैष्णवादि-शास्त्राभिहिताः।”)

In the 8th sūtra of प्रत्यभिज्ञाहृदयम्, Kṣemarāja (क्षेमराज) says that all the siddhāntas or theses of all the darśanas, are just the different aspects of the one Ātman (आत्मा).

आगमिक-शैवाः

शैवागमानुसारिणो भिन्नैर् दर्शनैर् जीवानां भिन्न-स्तरीयोत्क्रान्तीर् अङ्गीकुर्वन्तीति ज्ञायते, यथा सर्वात्म-शम्भोः सिद्धान्त-प्रकाशिकायाम् अत्र

किञ्च क्वचित् “कौल-यामलादि-शास्त्राणां हिंसा-मैथुन-सङ्गमस्य सम्भवात्
पिशाचादि-पद-प्राप्तिः स्यात्।” इत्य् अप्य् उक्तम्!

भर्तृहरिः

प्रज्ञा विवेकं लभते
भिन्नैर् आगमदर्शनैः ।
कियद्वा शक्यमुन्नेतुं
स्वतर्कमनुधावता ॥

इति भर्तृहरिः वाक्यपदीये ।