आगमिक-शैवाः
सर्वात्म-शम्भोः सिद्धान्त-प्रकाशिकायाम् अत्र - “कौल-यामलादि-शास्त्राणां हिंसा-मैथुन-सङ्गमस्य सम्भवात्
पिशाचादि-पद-प्राप्तिः स्यात्।” इत्य् अप्य् उक्तम्!
श्रीवैष्णवाः
वेदान्त-देशिक-वेङ्कटनाथः
सङ्कल्पसूर्योदये वादयति -
किन्तु वर्णाश्रम-जाति-गोत्र-प्रवर-कुल-चरण-देश-काल-विषयादि-भेदेन
व्यवस्थितैव हि विधि-निषेध-मर्यादा ।
तद् अहम् इदानीं परिगृहीत-नियमानुगुणं
स्वयं विपक्ष-निरसनम् अकुर्वाणः
कौशिक इव राघवं त्वां पुरस्कृत्य +++(→कौशिक-वेङ्कटनाथस्यापि सूचना!)+++
कु-दृष्टीन् बाह्यांश् च निराचिकीर्षामि ।+++(5)+++ तत्र च,दूरे भवतु ते वीर
जल्पः सह वितण्डया ।
त्वम् एव स्थिर-वादात्मा
निरुन्द्धि परिपन्थिनः ॥ १७ ॥+++(5)+++अथवा त्वया मन्-निदेशानुवर्तिना
कौशिक-नियमितेन राघवेणेव
साधिकारेण यथा-विधि वीत-राग-कथानावसरे
वेदेश्वर-विदूषकाः सर्वे
तत्त्वाध्यवसाय-संरक्षणार्थम्
अनुज्ञाताभ्यां बलातिबलाभ्याम् इव
जल्प-वितण्डाभ्याम् अपि जेतव्याः ।