विस्तारः (द्रष्टुं नोद्यम्)
Jayarasi: Tattvopaplavasimha
Jayarasi: Tattvopaplavasimha
Based on the edition by Sukhalalji Sanghavi and R.C. Parikh, Baroda 1940.
(Gaekwad’s Oriental Series ; 87)
Partly revised in:
Eli Franco: Perception, Knowledge and Disbelief a study of Jayarasi’s scepticism.
Stuttgart 1987 (Alt und NeuIndische Studien ; 35), 2nd ed. Delhi 1994.
Input by Somadeva Vasudeva, 2000.
PLAIN TEXT VERSION
लोकेशोद्धारः
येऽपि आनन्दरूपम् आत्मनः कैवल्यम् अभिदधति
तेऽपि युक्तिवादिनो न भवन्ति।
कथम्?
यद्य् आत्मन आनन्दरूपं स्वसंवेद्यं च
तदा संसारावस्थायामपि तत् वेद्यं प्रसक्तम्।
ततश्च मोक्षार्थप्रयासो निष्फलः।
अथ संसारावस्थायां न वेद्यते आनादिमलावगुण्ठितम् आत्मनः स्वरूपम्,
यथा पटान्तरिते घटे
घटबुद्धिर् न भवति
एवं मललिप्ते आत्मनि
आत्मबुद्धिर् न भवति।
तदेतद् अयुक्तम् -
दृष्टान्तदार्ष्टान्तिकयोर् वैषम्यात् -
पटान्तरिते घटे घटबुद्धिर् न भवति
पटान्तर्धाने सति
इन्द्रियेण साकं सम्बन्धो नास्ति
तद्-भावाद् घटे नेन्द्रियजं विज्ञानं संपद्यते।
इह तु पुनः मलावगुण्ठनेन कस्य व्यवधानं क्रियते?
न वेद्यवेदकयोर् व्यवधानं क्रियते।
वेद्यं वेदकं च आत्मस्वरूपमेव –
यथा बौद्धानां स्वसंवेद्य-विज्ञानम्,
तच्च विषयसद्भावेऽपि वेद्यते
तद्-अभावेऽपि वद्यते,
तथात्मनः स्वसंवेद्यं स्वरूपं
मल–सद्-भावेऽपि वेद्यते
तद्-असद्भावेऽपि वेद्यते,
मलस्याकिंचित्करत्वाद् आत्मनोऽर्थान्तरत्वेनावस्थानात्।
अथ तादात्म्येन स्थितानि मलानि?
तदा ‘मलानि अपनीयते’ - किमुक्तं भवति?
आत्मापनीयते। 😆 ततश्च मोक्षाभावप्रसङ्गः।
[इन्त्रोदुच्तिओन्]
०।१ ॥। तां मुन तत्त्वोपप्लवसिंहैष विषमो नुनं मय ॥। ॥। नास्ति तत्फलं वा स्वर्गादि । सत्यम्, तावद् आत्तस्य कर्मणः सम्भोक्तं च परमार्थविद्भिर् अपि लौकिको मार्गो ऽनुसर्तव्यः अ ॥। । लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥
इत्यादि ।
०।२ ननु यद्य् उपप्लवस् तत्त्वानां किम् आयाथातस् तत्त्वं व्याख्यास्यामः । पृथिव्य् आपस् तेजो वायुर् इति तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसञ्ज्ञेत्यादि । नान्यार्थत्वात् । किमर्थम्? प्रतिबिम्बनार्थम् । किं पुनर् अत्र प्रतिबिम्ब्यते? पृथिव्यादीनि तत्त्वानि लोके प्रसिद्धानि । तान्यपि विचार्यमाणानि न व्यवतिष्ठन्ते । किं पुनर् अन्यानि?
०।३ अथ कथं तानि न सन्ति? तद् उच्यते सल्लक्षणनिबन्धनं मानव्यवस्थानम् । माननिबन्धना च मेयस्थितिः । तदभावे तयोः सद्व्यवहारविषयत्वं कथं ॥। ताम् । अथ ॥। न ब ॥। व्यवहारः क्रियते, तदात्मनि रूपास्तितत्वव्यवहारो घटादौ च सुखास्तित्वव्यवहारः प्रवर्तयितव्यः
[छप्तेर् १: एxअमिनतिओन् ओफ़् थे न्याय देफ़िनितिओन् ओफ़् पेर्चेप्तिओन्]
१। इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् इति तल्लक्षणम् ।
१।१ तच् चाव्यभिचारित्वम् ॥। किम् अदुष्टकारकसन्दोहोत्पाद्यत्वेनाहोस्विद् बाधारहितत्वेन प्रवृत्तिसामर्थ्येनान्यथा वा?
१।११ तद् यद्य् अदुष्टकारकसन्दोहोत्पाद्यत्वेनाव्यभिचारित्वम्, सैव कारणानाम् अदुष्टता केनावगम्यते?
न प्रत्यक्षेण, नयनकुशलादेर् अतीन्द्रियत्वात् । नाप्य् अनुमानेन, लिङ्गान्तरानवगतेः । नन्व् इदम् एव ज्ञानं लिन्गं तदुत्थं तस्य विशिष्टतां गमयति ।
यद्य् एवम् इतरेतराश्रयत्वं दुरुत्तरम् आपनीपद्यते ।
किं चेन्द्रियाणां गुणदोषाश्रयत्वे तदुत्थे विज्ञाने दोषाशङ्का नातिवर्तते, पुंव्यापारोत्पादितशब्दविज्ञानेव ।
१।१२ अथ बाधानुत्पत्त्याव्यभिचारित्वं ज्ञायते, बाधानुत्पत्तिर् विज्ञानस्य किं यथार्थगृहीतित्वेनाहोस्विद् बाधकज्ञानोत्पादककारकवैकल्याद् इति सन्दिह्मः । दृश्यते हि बाधकज्ञानोत्पादककारकवैकल्याद् बाधानुत्पादः । यथा दूरे मरीचिनिचये जलज्ञाने जाते बाधा न सम्पद्यते, ऽभ्यासदेशावस्थितस्य कारकोपनिपाते सत्य् उत्पद्यते । सा चोपजायमाना संवत्सरादिकालविकल्पेन सञ्जायते । कदाचिच् च कारकवैकल्यान् नैव सम्पद्यते । न चैतावता तस्य यथार्थतोपपद्यते ।
अपि च बाधाविरहैव बाधासद्भावावेदकस्, तदुपलब्धत्वेन तत्सद्भावोपलब्धेः ।
१।१२आन्यच् च बाधाविरहः किं सर्वपुरुषापेक्षयाहोस्वित् प्रतिपत्त्रपेक्षया? तद् यदि सर्वपुरुषापेक्षया तद्विरहोप्य ॥। सर्वज्ञाः स्युः । भवन्तु नाम सर्वे सर्वज्ञाः, को दोषः? असर्वज्ञव्यवहाराभावप्रसङ्गः ।
अथ प्रतिपत्त्रपेक्षया बाधानुत्पादः प्रतिपत्तुर् बाधकं विज्ञानं नोत्पद्यते, तेन तद् अव्यभिचारि । तद् अयुक्तम्, प्रतिपत्तुर् बाधकज्ञानानुत्पादे ऽपि देशान्तरगमनमरणादिना मणिमरीच्यादिविपर्ययज्ञानदर्शनात् । अथवा तद् विपर्ययज्ञानं तथाविधम् एवोत्पन्नं स्वप्रभवस्वभावानुप्रवेशेन, यद् बाधकविज्ञानोत्पादप्रतिबन्धकृत् । तद्ध्वंसो ऽपि तथाभतैव परेष्टसम्यग्ज्ञानवत् । एवं सति यद् उक्तं यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः सैवासमीचीनः प्रत्ययेत्य् एतद् एवासमीचीनम् ।
१।१३ अथ प्रवृत्तिसामर्थ्येनाव्यभिचारितां वेत्सि । प्रवृत्तिसामर्थ्यं फलेनाभिसम्बन्धः, फलं च स्रक्चन्दनवनितोदकादि, तेषु सत्यफलनिष्पत्तेस् तेषु फलोपचारस्, तद्देहसम्बन्धः प्रवृत्तिसामर्थ्यम् । प्रवृत्तिः कायस्था क्रिया, तत्सामर्थ्यम् अव्यभिचारितां गमयति । तत् किम् अवगतम् अनवगतं वा? यदि नावगतम्, तद् अस्तीति कथं वेत्सि? अथावगतम्, तदवगतेर् अव्यभिचारिता कथम् अवगम्यतेति पूर्वोक्तम् अनुसर्तव्यम् ।
१।१३ओदकप्राप्त्या पूर्वोत्पन्नोदकविज्ञानस्याव्यभिचारिता व्यवस्थाप्यते । किं तत्प्रतिभातोदकप्राप्त्याहोस्वित् तज्जातीयोदकप्राप्त्या तद्वंशजजलप्राप्त्या वा?
१।१३अ१ तद् यदि प्रतिभातोदकप्राप्त्या, तद् अयुक्तम् । प्रतिभातोदकस्यावस्थानं नोपपद्यते, झषमहिषपरिवर्तनाभिघातोपजातावयवक्रियान्यायेन प्रत्यस्तमयसम्भवात् ।
१।१३अ२ अथ तज्जातीयोदकप्राप्त्या, एवं तर्ह्य् असत्योदकज्ञाने ऽपि जते क्वचित् तोयम् आसादयन्ति पुमांसः । तद् अप्य् अवितथं स्यात् । अथ तद्देशकालसंलग्नम् उदकं न प्रापयति मिथ्याज्ञानम्, सम्यग्ज्ञानं तु तद्देशकालसंलग्नम् उदकं प्रापयति, तेन तद् अव्यभिचारीति चेद्,
यन् न प्रापयति, तद् व्यभिचारि; तर्हि मुमर्षुपदा ज्ञानं चन्द्रार्कग्रहनक्षत्रतारकादिसंवेदनं च व्यभिचारि प्राप्नोति । न च तद्देशकालसंलग्नोदकप्रापकत्वम् अस्ति, देशस्याप्य् उदकवद् विनाशसम्भवात् ।
अ। न च जातेःसम्भवो ऽस्ति । सैव कथम्? कथ्यते सोदकव्यक्तिभ्यो ऽभिन्ना भिन्ना भिन्नाभिन्ना वेति ।
अ।१ तद् यदि तादात्म्यव्यवस्थिता, तदेह तासां नानात्वेन तस्यापि नानात्वोपपत्तिः । तदेकत्वे च सर्वासाम् एकतापत्तिः । एकत्वे च निःसामान्यता तादात्म्यविपर्यासो वा ।
अ।२ अथार्थान्तरभूता सा व्यावृत्ताकारानुगताकारा वा ।
तद् यदि व्यावृत्ताकारा, न तस्याः सामान्यरूपत्वं व्यावृत्तैकस्वभावत्वात् तोयादिवत् । अथानुस्यूतरूपा, तत् किम् आत्मरूपानुस्यूता पररूपानुस्यूता वा?
तद् यद्य् आत्मरूपानुस्यूता, तद् अयुक्तम्, आत्मन्य् अनुगमाभावात् । अथ पररूपानुस्यूता, केयं पररूपानुस्यूतता किं तत्तादात्म्यं तत्समवायो वा?
तद् यदि तादात्म्यम्, सामान्यतद्वतोर् अभेदप्रसङ्गः ।
अथ पररूपसमवायो ऽनुस्यूताकारता, तद् अयुक्तम् । सामान्याद् भिन्नः समवायः । सामान्यस्यानुगतं रूपम् आलोचयितुम् आरब्धम्, न ततो ऽन्यस्य ।
अ।२अ यदि चोदकजातीयार्थप्राप्त्याव्यभिचारिता पूर्वोदितोदकविज्ञानस्य व्यवस्थाप्यते, तदोदकजातेर् गवादाव् अपि सम्भवो ऽस्ति, गवादिप्राप्त्याव्यभिचारितोदकविज्ञानस्य स्यात् । अथोदकत्वस्य गवादाव् अभावेति चेत्, किम् इतरेतराभावः प्रागभावः प्रध्वंसाभावो ऽत्यन्ताभावो वा?
तद् यदीतरेतराभावस् तदोदकादाव् अपि समानम् उदकत्वस्याभावप्रसङ्गः । उदकरूपता नोदकत्वस्योदकत्वरूपता च नोदकस्यल् ।
अथ प्रागभावस् तदोदके ऽप्य् उदकत्वस्याभावप्रसङ्गः ।
अथ प्रध्वंसाभावस् तदोदके ऽप्य् अभावप्रसङ्गः ।
अथान्यत्रास्ति, नैकत्र प्रत्यस्तमितस्यान्यत्र सम्भवोपपद्यते ।
अथात्यन्ताभावस् तदोदके ऽपि तस्याभावप्रसङ्गः ।
अथ सम्बन्धाभावाद् गवादाव् उदकत्वाभावेति चेत्, तत्रापि किम् इतरेतराभावः प्रागभावः प्रध्वंसाभावो ऽत्यन्ताभावो वेति पूर्ववद् वक्तव्यम् । निमित्तान्तराभावाद् गवादाव् उदकत्वाभावेति चेत्, सो ऽत्रापि समानः ।
अ।२ब् न चोदकव्यक्तीनां नानात्वम् उपपादयितुं पार्यते । उदकम् अनुदकाकाराद् उदकाकारतया व्यावर्तत, उदकाकारात् तु कथं व्यावर्तते? किम् उदकाकारतयाहोस्विद् आकारान्तरेण?
तद् यद्य् उदकाकारतया व्यावर्तते, तदान्यासाम् उदकव्यक्तीनाम् अनुदकाकारता प्राप्नोति रसादेर् इव ।
अथानुदकाकारतयोदकाकारान् निवर्तते, ततो दहनादेर् इवानुदकत्वप्रसङ्गः ।
अथोदकाकाररूपताविशेषे ऽप्य् अवान्तरगणिकाकारभेदपरिकॣप्तिर् इति चेत्, सत्यम् अवान्तरगणिकाकारस् तोयतादात्म्यव्यवस्थितो ऽतादात्म्यव्यवस्थितो वा । तद् यदि तादात्म्यव्यवस्थितस्, तदोदकाकारतयोदकान्तराद् भिद्यते । एवं चान्यासाम् उदकव्यक्तीनाम् अनुदकरूपता प्राप्नोति । पूर्वोदितम् एव दूषणम् । अथातादात्म्यव्यवस्थितस्, तर्ह्य् अनुदकत्वं रसादेर् इव । अथोदकत्वव्यावृत्त्यानुदकाकाराद् व्यावर्तते । शृण्वन्त्व् अमी बाललपितं विपश्चितः । यद्य् उदकत्वव्यावृत्त्यानुदकाद् व्यावर्तते तोयम्, उदकत्वं चोदकाद् अनुदकाच् च कथं व्यावर्तते? न जात्यन्तरं व्यावर्तकम् अस्ति । अभ्युपगमे वानिष्ठोपप्लवानुबन्धः स्यात् । तस्मात् स्वेनैव रूपेणेतरेतरात्मना व्यावर्तते, न जात्यादिना व्यावर्तते, जात्यादेर् अव्यावृत्तिप्रसङ्गात् । तस्मात् स्थितम् एतन् नोदकव्यक्तीनां नानात्वोपपत्तिः
। तदनुपपत्तौ नोदकत्वं नाम सामान्यम् अस्ति स्वत्ववत् ।
अ।२च् इतो ऽपि न विद्यते सामान्यं नित्यस्य सतो विज्ञानजनकत्वायोगात् । तद् एव कथम्? व्युत्पाद्यते विज्ञानजनकावस्थायां यद् एव स्वरूपं सामान्यात्मकं शक्तिमच् छक्तिरूपं च कारकान्तरानपेक्षयाजनकावस्थायां तद् एव रूपम्, अतः पूर्वम् अपि कार्योत्पादप्रसङ्गः । अनुत्पादे वा प्राग् इवेदानीम् अपि न जनयेत् ।
अथ कारकान्तरम् अपेक्ष्योत्पादयति कार्यम् । किं तेन कारकान्तरेण तस्य क्रियते कारकत्वं ज्ञाप्यते वा?
तद् यद्य् उत्पाद्यते सुस्थितं नित्यत्वम् । उत ज्ञाप्यते सिद्धं तर्हि कारकत्वम्, तदभावे ऽपि विद्यमानस्यावद्योतनात् । भवतु नाम कारकत्वम्, को दोषः? कार्योत्पत्तिप्रसङ्गः । अथ कारकत्वे ऽपि कार्यं न जनयेद्, अहो राजाज्ञा गरीयसी नैयायिकपशोः ।
अ।२द् इतो ऽपि नास्ति सामान्यं तदुपपादकमानव्यतिरेकात् ।
नन्व् अस्ति प्रमाणमनयोः सादृश्यम्, एषां सारूप्यम्, तेन सदृशो ऽयम्, असौ वा तेन सदृशेत्यादिज्ञानं सामान्यसत्तावबोधकम् अप्रतिपन्नसामान्यस्य नोपपद्यते । अस्ति त्व् इदं विज्ञानं बाधाविकलं जातितनुव्यवस्थापकम् । तद् एतद् अयुक्तम् । किं निमित्तभूतेन तेनैवंविधं ज्ञानम् उत्पाद्यते कर्मतापन्नेन वा?
तद् यदि निमित्तभूतेनोत्पाद्यते, तदा न सामान्यं कल्पनीयम् । असामान्यात्मकम् एव निमित्तम्, इत्थम्भूतसामान्यज्ञानोत्पादनायालं सामान्यकल्पनया ।
अथ कर्मतापन्नेनोत्पाद्यते, तद् असत् । नैवावभाति विज्ञाने सामान्यं धूर्तैर् अविपर्यासितसंविदाम् । ननु सादृश्यम् अवभाति । सत्यम्, अवभाति, नापह्नूयते, ऽपि तु द्रव्यगुणकर्मात्मकं सत् पाचकादिभेदेषु यथैषां पाचकत्वम्, एते पाचकास्, तत्पाचकसदृशो ऽयम्, असाव् अनेन सदृशेति विशेषादाव् अपि द्रष्टव्यम् । अत्रापि सामान्यपरिज्ञप्तिर् इति चेन्, न सूत्रव्याघातात् सामान्यविशेषेषु सामान्यविशेषाभावात् ततैव ज्ञानम् । अनिष्ठा च विशेषेषु सामान्ये परिकल्प्यमाने सति सन्देहः, सति सन्देहे तेषु विशेषान्तरं परिकल्पनीयम्, पुनः सामान्यम् इत्य् अनिष्ठेत्य् अलम् असद्ग्रहाभिनिवेशेन ।
अ।३ अथ भिन्नाभिन्नं सामान्यं भवद्भिः प्रतिपाद्यत आकारभेदेन व्यक्तिभ्योपलभ्यतेत्य् अर्थान्तरम्, देशभेदेन तु नैवोपलभ्यतेत्य् अव्यतिरिक्तम् । तद् एतन् महासुभाषितम् । न देशभेदेनैव वस्तूनां भेदो, ऽपि त्व् आकारभेदेनैव भावा भेदम् उपयान्ति । यथा चाकारभेदो नास्ति तथानन्तरम् एव निवेदितम् ।
ब्। सामान्यं समवायवृत्त्या व्यक्तिषु वर्ततेति न चासौ विद्यते ।
ब्।१ समवायो हि व्यावृत्तैकस्वभावो ऽनुगतैकस्वभावो वा । तद् यदि व्यावृत्तैकस्वभावः, कस्यासौ समवायः सर्वतो व्यावृत्तेर् नीलादिवत्? अथानुगतैकस्वभावः, सामान्यं तर्हि, न समवायो, नित्यस्य सतो ऽनेकत्र वृत्तेर् गोत्वादिवत् ।
ब्।२ उपपादकप्रमाणाभावाच् च ।
ब्।२१ ननु प्रत्यक्षबुद्ध्यवसेयो ऽसौ । तद् अयुक्तम् । किं सम्बन्धबुद्ध्याध्यवसीयताहोस्विद् इहबुद्ध्या समवायबुद्ध्या वोच्यते?
ब्।२११ तद् यदि सम्बन्धबुद्ध्या, को ऽयं सम्बन्धः?
किं सम्बन्धजातियुक्तः सम्बन्धाहोस्विद् अनेकोपादानजनितो ऽनेकाश्रितो वा सम्बन्धबुद्धिविशेषो वा सम्बन्धबुद्ध्युत्पादको वा सम्बन्धाकारो वा?
तद् यदि सम्बन्धजातियुक्तस् ते सम्बन्धः, सो ऽनुपपन्नः, समवायासम्बन्धत्वप्रसङ्गः । अथानेकोपादानजनितः सम्बन्धस्, तदा कुम्भादेर् अपि सम्बन्धत्वप्रसङ्गः । अथानेकाश्रितः सम्बन्धस्, तदा घटजात्यादेः सम्बन्धत्वं प्रसज्यते । अथ सम्बन्धबुद्ध्युत्पादकस् ते सम्बन्धोच्यते, तदा लोचनादेर् अपि सम्बन्धत्वप्रसङ्गः । अथ सम्बन्धबुद्ध्यवसेयः सम्बन्धो ऽभिधीयते, तदा कौलेयककरिकुमारादिष्व् अपि सम्बन्धशब्दव्युत्पादने सम्बन्धत्वप्रसङ्गः । सम्बन्धेतरयोर् एकविज्ञानविषयत्वेतरस्य सम्बन्धरूपता प्राप्ता ।
अथ सम्बन्धाकारः सम्बन्धः, संयोगाभेदप्रसङ्गः । अवान्तरगणिकाकारस् तु यथा न भेदकस् तथा पुरस्ताद् उक्तम् एव दूषणम् ।
ब्।२१२ अथेह तन्तुषु पटेतीहबुद्ध्याध्यवसीयते, नेहबुद्धेर् अधिकरणसंविद्रूपत्वात् । न चान्यस्मिन्न् आकारे प्रतीयमाने ऽन्यत् परिकल्पयितुं न्याय्यम् अतिप्रसङ्गात् ।
ब्।२१३ अथ समवायबुद्ध्यात्मसात्क्रियते । सो ऽप्य् अनुपपन्नैव, समवायबुद्धेर् अनुपपत्तेः । अयं तन्तुर् अयं पटो ऽयम् अनयोः समवायेति न जातु जानते जनाः ।
ब्।२२ अथानुमानेनानुमीयते । द्वे ऽनुमाने दृष्टं सामान्यतो दृष्टं च । न दृष्टम्, प्रत्यक्षव्यतिरेकात् । सामान्यतो द्र्ष्टम् अपि नास्ति, तत्प्रभवकार्यानुपलब्धेः । नन्व् इहबुद्धिर् एव समवायज्ञापिका इह तन्तुषु पटेति प्रत्ययः सम्बन्धनिमित्तो, ऽबाधितेहप्रत्ययत्वाद् इह कुण्डे दधीति प्रत्ययवत् । किम् अनेनानुमीयते? किं निमित्तमात्रम् उत सम्बन्धः?
यदि निमित्तमात्रम्, ततः सिद्धसाध्यतया सम्बोधयितव्यः । अथ सम्बन्धः, संयोगः समवायो वा । संयोगानुमानोपगमहानिः । समवायानुमाने सम्बन्धव्यतिरेकः । न चान्यस्य सम्बन्धे ऽन्यस्य गमकत्वम् अतिप्रसङ्गात् । न जातु देवदत्तनयनकुटसम्बन्धे यज्ञदत्तेन्द्रियं रूपादिकम् अर्थं करणत्वसाम्यात् प्रकाशयद् दृष्टम् । एवं सति सामान्यसमवायविरहे कथं द्रव्यादिव्यवस्थेति चिन्त्यते ।
१।१३अ३ अथ तद्वंशजजलप्राप्त्याव्यभिचारिता ज्ञायते । तद् अयुक्तम्, अन्त्यावयविद्रव्याणां जनकत्वव्यतिरेकात् । न चोदकव्यक्तीनां नानात्वम् अस्ति । यथा च न विद्यते तथा निवेदितं पुरस्तात् ।
१।१३ब् किं च प्रवृत्तिसामर्थ्येनाव्यभिचारिता पूर्वोदितज्ञानस्य ज्ञाप्यते किं लिङ्गभूतेनाहो ऽध्यक्षात्मकेन?
तद् यदि लिङ्गभूतेन, तद् अयुक्तम्, तेन साकं सम्बन्धानवगतेः । अवगतौ वालं प्रवृत्तिसामर्थ्येन ।
अथाध्यक्षात्मकेन, तद् अयुक्तम्, पूर्वोदितप्रत्यस्तमितेन साकं सन्निकर्षाभावात् । तद्विषयविज्ञानं न प्रत्यक्षफलं निरालम्बनत्वात् केशोण्डुकादिसंवेदनवत् । न विज्ञानस्याभावो ऽवभाति, न भावस् तदभावात् । अविद्यमानस्य विषयार्थो वक्तव्यः किम् आकारार्पकत्वेन वा महत्त्वादिधर्मोपेतत्वेन वा सत्तामात्रेण वा सहोत्पादेन वा? सर्वस्य प्रत्यस्तमितत्वात् कथम् असौ विषयः? तद्विषयत्वे केशोण्डुकादिविज्ञानस्यैव मिथ्यात्वे बीजम् अन्वेषणीयम् । आत्मसत्तामात्रेण मिथ्यात्वे सर्वस्य मिथ्यात्वम् आपद्यते । ततस् तत्त्वोपप्लवः स्यात् ।
१।१४ अथान्यथाव्यभिचारित्वं गृह्यतात्मान्तःकरणसम्बन्धेनोत्पन्नं विज्ञानम् अव्यभिचारिताविशिष्टं प्रद्योत्यते । तद् अयुक्तम् । तद् अव्यभिचारित्वं तद्धर्मो वा तत्स्वरूपं वा ।
१।१४१ तद् यदि तद्धर्मः, स नित्यो ऽनित्यो वा ।
यदि नित्यस्, तदा जातिदोषेणापोदितो वेदितव्यः । अथानित्यः, स पूर्वोत्पन्नः सह पश्चाद् वा जातः । तद् यदि पूर्वोत्पन्नस्, तदा कस्यासौ धर्मः? न हि धर्मिणम् अन्तरेण धर्मो भवितुम् अर्हति । सर्वतो व्यावृत्तरूपत्वात् कः कस्येति वक्तव्यम् । अथ सहोत्पन्नः, कस् तयोः सम्बन्धेति वक्तव्यम् । तादात्म्यतदुत्पत्तिसमवायसम्बन्धाभावे सति षष्ठ्यर्थो वक्तव्यस् तस्याव्यभिचारित्वम् इत्य् अथ पृष्ठोत्पन्नस् तर्हि पूर्वं व्यभिचारिता विज्ञानस्य प्राप्नोति । न चाध्यात्मिको ऽव्यभिचारिरूपो धर्मो ऽस्ति सुखादिव्यतिरिक्तस्, तत्प्रतीत्यसम्भवेन स्वयम् अनभ्युपगमात् । यदि चाव्यभिचारादयो धर्मार्थान्तरभूताभ्युपगम्यन्ते तैर् अवच्छिन्नं विज्ञानं सामग्र्यावस्थापकम् उद्घुष्यते । तच् चानुपपन्नम्, प्रत्येकमनेकविशेषणावच्छिन्नविज्ञानप्रतिपत्तिकालावस्थानायोगात् । ज्ञाप्यज्ञापकयोर्
अभावे कर्तृमात्रप्रबन्धि ज्ञानं स्यात् ।
१।१४२ अथ तत्स्वरूपम् अव्यभिचारित्वं तत् किं स्वसत्तामात्रानुरोधेनार्थान्तरसत्तानुरोधेन वा?
तद् यदि ज्ञानसत्तामात्रतैवाव्यभिचारित्वम् उच्यते, तदा केशोण्डुकसंविदोऽप्य् अव्यभिचारिता स्यात् । न च ज्ञानसत्तामात्रानुरोधेन ज्ञानं व्यभिचार्य् अव्यभिचारि वोद्गीयते । अथार्थान्तरसत्तानुरोधेनाव्यभिचारित्वं किम् अनुपकारकार्थान्तरसत्तानुरोधेनाहोस्विद् उपकारकार्थान्तरसत्तानुरोधेन? तद् यदि तावद् अनुपकारकार्थान्तरसत्तानुरोधेन, तदा केशोण्डुकेन्दुद्वयसंविदो ऽप्य् अव्यभिचारिताप्रसङ्गः । अथोपकारकार्थान्तरसत्तानुरोधेनाव्यभिचारिता किं प्रतीयमानार्थान्तरोपकारकसत्तानुरोधेन तद्विपरीतार्थान्तरोपकारकसत्तानुरोधेन वा? तद् यदि पूर्वपक्षाभ्युपगमस्, तदातीतानागतानुमानविज्ञानस्य योगिप्रत्यक्षस्य च चोदनावचनजनितविज्ञानस्य वाव्यभिचारिता न भवेत्, तदवगतोपकारकार्थाभावात् । भावे वा वितानक्रियालोपप्रसङ्गः । अथोत्तरो मतस्, तदा
केशोण्डुकेन्दुद्वयसंविदो ऽव्यभिचारित्वं प्रसज्यतेत्य् असद्गृहीतम् ।
१।१४अ किं च तद् विज्ञानम् अव्यभिचार्य् अवगतं सामग्र्या ज्ञापकम् अनवगतं वा । यद्य् अवगतं तस्यावगतिर् आत्मसंविद्रूपा वा ज्ञानान्तरवेद्या वा । तद् यद्य् आत्मसंवेदनरूपावगतिस्, तद् अयुक्तम्, स्वयम् अनभ्युपगमात् । अभ्युपगमे वोपगमविरोधः । अथ ज्ञानान्तरवेद्यं वेत्सि, विज्ञानयोर् भेदे बीजम् अन्वेष्टव्यम् । ज्ञनम् अज्ञानाकाराज् ज्ञानात्मतया व्यावर्तते, ज्ञानान्तरात् तु कथं व्यावर्तते? किं ज्ञानात्मतया व्यावर्तताहोस्विद् आकारान्तरेण? तद् यदि ज्ञानात्मतया व्यावर्तते, तदान्यस्य ज्ञानात्मता निवर्तते तोयादेर् यथा । अथाकारान्तरेण, आकारान्तरस्वीकरणे ज्ञानाकारविरहः स्याद्, आकारयोस् तादात्म्यायोगात् । तादात्म्ये वैकं तद् वस्तु ज्ञानम् अज्ञानं वा । यदि ज्ञानम्, न तर्ह्य् आकारान्तरेण व्यावर्तते, किं तु ज्ञानात्मतयैव । अन्यस्याज्ञानात्मकत्वप्रसट्गः
। अथाज्ञानं सिद्धं नः समीहितम् । अथ ज्ञानत्वं
व्यावर्तकम्, तत् केन व्यावर्ततेति पूर्वोक्तम् अनुसर्तव्यम् । विज्ञानान्तरवेद्यम् अपि न सम्भवति । अथ न वेद्यते, तद् अस्तीति कथं पुनर् वेत्सि?
अनेनैव वर्त्मना सत्येतरविज्ञानयोर् विभागाभावो ऽभ्युपगन्तव्यः । अतो ऽव्यभिचारिपदम् अपार्थकम् ।
१।१एतो ऽप्य् अपार्थकम् इन्द्रियार्थसन्निकर्षपदेनापोदितत्वात् । न हि केशोण्डुकविज्ञानस्य नयनार्थसन्निकर्षोद्भूतिर् अस्ति ।
नन्व् अस्ति मरीच्युदकविज्ञानस्य, तदपनोदायाव्यभिचारिपदम् ।
तन् न, यतोदकं प्रतिभाति, न च तेन सह सम्बन्धो ऽस्ति । विद्यमानेन साकं सम्बध्यते, नाविद्यमानेन । तत्सम्बन्धे वा न तद्विषयज्ञानस्य मिथ्यात्वम् इहोपपद्यते सत्योदकसंवेदनवत् ।
ननु यद्य् अपि प्रतीयमानोदकेन सह सम्बन्धो नास्ति चक्षुषस्, तथाप्य् आलम्ब्य मरीचि
निचयेन साकं सम्बन्धो ऽस्ति, तस्यैवालम्बनत्वात्, तद्देशं प्रति प्रवृत्तेः । अतैव मिथ्यात्वमन्यद् आलम्बनम् अन्यच् च प्रतिभाति ।
१।१अ१ को ऽयम् आलम्बनार्थो नाम येनेदम् उद्घुष्यतेऽन्यद् आलम्बनं चान्यत् प्रतिभाति? किं विज्ञानजनकत्वम् आकारार्पकत्वं विज्ञानाधिकरणत्वं विज्ञानावभासितता वा?
तद् यदि विज्ञानजनकत्वम् आलम्बनार्थस्, तदा नयनालोकादेर् अप्य् आलम्बनत्वं प्रसज्यते । अथाकारार्पकत्वम् आलम्बनत्वम्, तद् अयुक्तम्, नैयायिकसमये ऽनभ्युपगमात् । यथा च विषयाकारो विज्ञाने न युज्यते तथोपरिष्टात् प्रतिपादयिष्यामः ।
अथ विज्ञानाधिकरणत्वम् आलम्बनत्वम्, न मरीचिचक्रोत्कलितम् उदीयते ज्ञानम्, अपि त्व् आत्मसमवेतम् आत्मानम् आसादयते । अथ विज्ञानावभासिततालम्बनत्वम्, तदोदकविज्ञानोदकं प्रतीयते, न मरीचयः । अथोदकाकारतया मरीचयैव प्रतीयन्ते, सोदकाकारो मरीचिभ्यो व्यतिरिक्तो ऽव्यतिरिक्तो वा ।
तद् यद्य् अव्यतिरिक्तः, स तात्त्विको ऽतात्त्विको वा ।
यदि तात्त्विकः कथं तदवगतेर् मिथ्यात्वम्? अथातात्त्विकस्, तद् ।आ मरीचीनाम् अप्य् अतात्त्विकत्वं प्रसज्यते । अतात्त्विकोदकतादात्म्ये सति तद् उदकज्ञानम् अतथ्यं किम् उक्तं भवति? मरीचिविज्ञानम् अतथ्यम् । एकस्मिंश् चोदकाकारे प्रतीयमाने केनैतद् आख्यातं मरीचयः प्रतिभान्ति देवानाम्प्रियस्य?
अथार्थान्तरभूतस्, तर्हि न वक्तव्यं मरीचयोदकाकारतया प्रतीयन्त, उदकाकारान्तरिता मरीचयः ।
अथ केशोण्डुकविज्ञाने किम् अवभाति? किम् आलम्बते? केशोण्डुकस्यैवालम्बनत्वं प्रतीयमानत्वं च, तथोदकस्यैवालम्बनत्वं प्रतीयमानत्वं च, नालम्बनान्तरं परिकल्प्यम् । न चोदकज्ञानस्य प्रतीयमानोदकान्यालम्बनत्वेन मिथ्यात्वम्, अपि त्व् अभावात् तात्त्विकत्वेन । अन्यथा केशोण्डुकसंविदो ऽपि मिथ्यात्वं न प्राप्नोत्य्, अन्यालम्बनव्यतिरेकात् ।
१।१अ२ यद् अप्य् उक्तं मरीचिदेशं प्रति गमनान् मरीचीनाम् आलम्बनत्वम् । यद्य् एवं देशस्याप्य् आलम्बनत्वम् अनया रीत्योपपद्यते । न चावभातोदकभिन्नार्थसन्निकर्षजत्वम् उदकविज्ञानस्योपपद्यते, सत्योदकज्ञाने ऽदृष्टत्वात् । अन्यथानुमेयदहनज्ञानस्यापीन्द्रियार्थसन्निकर्षज त्वम् आपनीपद्येत, आत्ममनःसन्निकर्षजत्वात् ।
अथ प्रतीयमानदहनेन सह मनसो नास्ति सम्बन्धस्, तद् इहापि प्रतीयमानेनाम्भसा सह नास्ति सम्बन्धश् चक्षुषः । तस्माद् अव्यभिचारिपदं न युक्तम् इन्द्रियार्थसन्निकर्षपदेनापोदितत्वात् ।
१।१ब् इतो ऽप्य् अनुपपन्नम् अपोह्यज्ञानासम्भवात् । अथ मरीच्युदकविज्ञानापनिनीषयोपादीयते, तत् कथम् अपनीयते?
अविद्यमानोदकविषयत्वात् । यद्य् अविद्यमानम्, को ऽयं विषयार्थः? पूर्वोदितम् अनुसरणीयम् । यदि तत्रोदकं प्रतिभाति, कथं नास्ति? सत्यम्, प्रतिभाति, किं त्व् अतथ्यं प्रतिभाति । अतथ्यता का? किं प्रतीयमानस्याभावोत प्रतीयमानैवाभावः?
१।१ब्१ तद् यदि प्रतीयमानस्याभावः, स किं तदैवाहोस्वित् कालान्तरेण? यदि तदैव, स किम् अवगतो ऽनवगतो वा? यद्य् अवगतः, स केनावगम्यते? किम् उदकविज्ञानेन ज्ञानान्तरेण वा?
तद् यद्य् उदकज्ञानेन, तन् न, तस्योदकविषयत्वात् । तद्विषयत्वे वा न तर्ह्य् उदकज्ञानं भ्रान्तम् इत्य् उपपद्यते, ऽभावविषयस्य परमार्थसत्त्वात् ।
न चोदकाकारावगाहिनि विज्ञाने तोयविनिवृत्तयो ऽवभान्त्यतिप्रसङ्गात् ।
अथ ज्ञानान्तरेण, न, ज्ञानयौगपद्यासम्भवात् । यदि चाभावज्ञानेनाभावव्यवस्था क्रियते भावज्ञानेन च भावव्यवस्था, तदोदकस्य भावाभावाव् एककालौ स्याताम् ।
अथ भावज्ञानं भावव्यवस्थां न करोत्य् अभावज्ञानं चाभावव्यवस्थां करोत्य्, अहो राजाज्ञा नैयायिकपशोः । यदि च भावज्ञानं भावव्यवस्थां न करोति, तदा सर्वभावेष्व् अनाश्वासप्रसङ्गः । तत्प्रसक्ताव् अभावस्याप्य् अनवस्थितिः । तदनवस्थितौ च तत्त्वोपप्लवः स्यात् । अथानवगतः, सो ऽस्तीति कथं पुनर् वेत्सि?
अथ कालान्तरे, तदा न किञ्चिद् बाध्यते, सत्योदकस्यापि कालान्तरे ऽभावोपपत्तेः ।
१।१ब्२ अथ प्रतीयमानैवाभावः, कथं तद्विषयज्ञानस्य मिथ्यात्वम् उपपद्यते, प्रतीयमानस्यैवाभावस्योपपत्तेः? न च भावाकारे प्रतीयमने ऽभावकल्पना न्याय्यातिप्रसङ्गात् । अन्यथा रूपादौ प्रतीयमाने रसादिकल्पना कर्तव्या । न चक्रियते, तथेहाप्य् उदकं प्रतीयते । ननु प्रतीयते, किं त्व् अतथ्यम् । यद्य् एवम् उदकप्रपञ्चो ऽयं दीर्घोदकं मधुरोदकम् इति यथा । नन्व् अत्र सर्वास्व् अवस्थासूदकं प्रतीयते, तेन तास्व् अम्भः प्रकल्प्यते । यद्य् एवं तद् इहाप्य् अवस्थाद्वये ऽप्य् उदकं प्रतीयते सत्योदकम् असत्योदकं च । सत्योदकज्ञाने सत्योदकम् अवभाति, नासत्योदकम् अनुदकं वा । तथासत्योदकज्ञाने ऽसत्योदकं प्रतिभाति, न सत्योदकम् अनुदकं वा, स्वविषयपर्यवसायिन्यो हि बुद्धयः ।
१।१बाथ बाध्यमानत्वेन मिथ्यात्वम् इति चेत्,
किं बाध्यते ऽर्थो ज्ञानम् उभयं वा?
१।१ब१ यद्य् अर्थस्य बाधा, स केन बाध्यते? किं स्वयम् एवात्मानं बाधताहो ऽर्थान्तरेण ज्ञानेन वा?
यदि स्वयम् एवात्मानं बाधते, तदा बाधा तेन क्रियते ज्ञाप्यते वा । यदि क्रियते, ऽव्यतिरिक्ताव्यतिरिक्ता वा ।
यद्य् अव्यतिरिक्ता, तदा बाधा क्रियतेत्य् आत्मानेनोत्पाद्यते । तच् च न जाघटीति स्वात्मनि क्रियाविरोधात् । अथ व्यतिरिक्ता क्रियते, तथापि विद्यमानस्य कर्तृत्वम्, न प्रतीयमानस्यापलापः । अथ बाधा ज्ञाप्यते, साप्य् अभिन्ना भिन्ना वा । यद्यभिन्ना, तदा बाधा तेन ज्ञाप्यते किम् उक्तं भवति? उदकं ज्ञाप्यते । अथ भिन्ना, तदा विद्यमानस्य ज्ञापकत्वं सिद्धं प्रतीयमानस्य चास्तित्वम् । अथार्थान्तरेण बाध्यते, तथापि विद्यमानयोर् बाध्यबाधकभावो भूपालयोर् इव, न चैकस्य बाध्यबाधकभावोपपद्यते । बाधापि तेन प्रतीयमानस्य किं क्रियते ज्ञाप्यते वा?
यदि क्रियते व्यतिरिक्ता व्यतिरिक्ता वा यद्य् अव्यतिरिक्ता, तदाव्यतिरिक्ता बाधोत्पाद्यते किम् उक्तं भवेत्? उदकम् उत्पाद्यते । तदुत्पादने च तत्संविदो ऽमिथ्यात्वम् । अथ व्यतिरिक्तोत्पाद्यते, तथापि तोयसम्बन्धितयोपलब्धेर् अम्भसोपपत्तिः । न जातु देवदत्तस्यासत्त्वे तन्नयनव्यवहारसिद्धिः । अथ ज्ञाप्यते, तदा साव्यतिरिक्ता व्यतिरिक्ता वा । यद्य् अव्यतिरिक्ता ज्ञाप्यते, तदा बाधा तेन ज्ञाप्यते किम् उक्तं भवति? उदकं ज्ञाप्यते । अथ व्यतिरिक्ता सती ज्ञाप्यते, तथाप्य् उदकस्येयं बाधेत्य् अन्यतन्त्रतया प्रतिभासनान् नात्यन्ताभावोपपत्तिः । तस्माद् अर्थान्तरेणापि न बाधोपपत्तिः । अथ ज्ञानेन बाध्यते किं तद्विषयेणान्यविषयेण निर्विषयेण वा? यदि तद्विषयेण, तदा तत् स्वरूपं विधत्ते न तु विपर्यासयति तदाकारपर्यवसितरूपत्वात्
अथान्यविषयं बाधकम्, तद् अपि न युज्यते । यद् यद्विषयं तत् तस्यैव सत्तां विधत्ते, न त्व् अन्यस्य विधायकं प्रतिषेधकं वा । स्वविषयपर्यवसायिन्यो हि बुद्धयः । अथ निर्विषयेण बाध्यते, न किञ्चिद् विदधाति प्रतिषेधति वा निर्विषयत्वाद् एव ।
१।१ब२ अथ ज्ञानं बाध्यते, तस्यापि बाधा का? किं स्वरूपव्यावृत्तिरूपा स्वरूपापह्नवरूपा वा विषयाप्धारलक्षणा वा? तद् यदि स्वरूपव्यावृत्तिरूपा बाधा, तदा सर्वं बाधितं स्याद्, विज्ञानस्य विज्ञानान्तरेण निवर्त्यमानत्वात् । अथ स्वरूपापह्नवरूपा, तद् अयुक्तम्, मिथ्योदकविज्ञानस्याप्यनुभूयमानत्वात् । अथ विषयापहारलक्षणा बाधोच्यते, सापि न युक्ता । यथा च विषयापहारो न शक्यते कर्तुं तथानान्तरम् एव निवेदितम् ।
१।१बा यदि न बाध्यते किम् इत्य् असाव् अर्थक्रियां न करोति भावः? केयम् अर्थक्रिया या तेन न सम्पाद्यते पुंसाम्? किं विज्ञानरूपा प्रवृत्तिरूपा प्राप्तिरूपा सुखदुःखोत्पादभोगरूपा वा?
तद् यदि विज्ञानलक्षणां न करोति, तद् अयुक्तम्, विज्ञानलक्षणाम् अर्थक्रियां करोत्य् एव तोयम् ।
अथ प्रवृत्तिरूपां न करोति, तद् अयुक्तम्, प्रवृत्तिर् हि पुरुषेच्छानुविधायिनी, नार्थस्वरूपभावाभावाव् अनुगमयति । पुरुषो हि कामतः प्रवर्तते वा न वा । न ह्य् एतावता तदभावसिद्धिः । अथ प्राप्तिरूपाम् अर्थक्रियां न करोति, तेनासत्त्वम् ।
तद् अप्य् अयुक्तम्, चन्द्रार्कग्रहनक्षत्रतारकादेः प्राप्त्यभावे ऽपि सत्त्वसम्भवात् । अथ सुखदुःखरूपाम् अर्थक्रियां न करोति, किं दर्शनजं सुखं न करोत्य् आहो देहसम्बन्धजम्? तद् यदि दर्शनजं न करोति, तद् अयुक्तम्, करोत्य् एव । अथ देहसम्बन्धजं न करोति, तदा चन्द्रार्कग्रहनक्षत्रादौ व्यभिचारस्, तेषां देहसम्बन्धजसुखजनकत्वं नास्त्य्, अथ च सत्त्वम् । न चार्थक्रियाकर्तृत्वेन वस्तूनाम् असत्त्वम्, स्वहेतोर् एव विज्ञानजननमात्रस्योत्पत्तेः, सहकारिविरहाद् वा न करोति ।
१।१बब् किं चार्थक्रियां न करोति किम् एकस्य प्रतिपत्तुः सर्वप्रतिपत्तॄणां वा?
तद् यद्य् एकस्य प्रतिपत्तुर् अर्थक्रियां न करोति तेनासत्त्वम्, तदा चन्द्रार्कग्रहनक्षत्रतारकादौ व्यभिचारो, मुमूर्ष्वर्थे च ।
अथ सर्वप्रतिपत्तॄणाम् अर्थक्रियां न करोति तेनासत्त्वम्, एवं तर्हि सर्वभावानाम् असत्त्वप्रसङ्गः । न हि सर्वे भावाः सर्वपुरुषार्थहेतवः । न च सर्वपुरुषार्थक्रियाविहीनम् एतद् इत्य् अवगन्तुं पार्यते ऽर्वाग्विदा । तस्मात् स्थितम् एतद् अव्यभिचारिपदम् अनर्थकम् ।
च्। अन्ये तु मरीच्युदकविज्ञानस्य स्मृतित्वं प्रतिपद्यन्ते, न भ्रान्तिरूपताम् । तस्य कथं स्मृतित्वम्? किम् उदकगृहीतित्वेन गृहीतोदकगृहीतित्वेन वोदकग्रहणानन्तरकालभावित्वेन वा निर्विषयत्वेन वा यम् अहम् अद्राक्षम् इत्य् अनेनाकारेणोपजायमानत्वेन वा?
तद् यद्य् उदकगृहीतित्वेन तदा सर्वोदकविज्ञानानां स्मृतित्वप्रसङ्गः । अथ गृहीतोदकगृहीतित्वेन स्मृतित्वम्, तदाद्यस्यापि गृहीतोदकगृहीतित्वे स्मृतित्वं प्रसज्यते गृहीतोदकग्राहित्वाविशेषात् ।
अथाद्यस्य गृहीतोदकग्राहित्वं नास्ति । तदानीं भिन्नविषयत्वम् । भिन्नविषयत्वे च द्वितीयस्यापि गृहीतग्राहित्वं विहीयते । अथैकविषयत्वम्, आयातं तर्हि प्रथमस्यापि गृहीतग्राहित्वम् अविशिष्टार्थगृहीतिरूपत्वात् प्रथमोत्तरविज्ञानवत् । यथैकनीलस्वलक्षणग्राहकयुगपदुत्पन्नानेकविज्ञानानां नीलज्ञानरूपता न भिद्यते तथेहापि । तथा धारावाहिविज्ञानानां स्मृतिरूपता प्राप्नोति । तथा प्रत्यभिज्ञानस्य च गृहीतग्राहित्वेन स्मृतित्वं प्रसज्यते । अथ प्रत्यभिज्ञानस्य गृहीतार्थग्राहित्वं न विद्यते, तदा प्रत्यभिज्ञानत्वं निवर्तते । न ह्य् आद्यं दर्शनं सैवायम् इत्य् उपजायते । तथानुमानिकम् अपि विज्ञानं गृहीतार्थग्राहित्वेन स्मृतित्वम् आपद्यते । अथोदकग्रहणोत्तरकालभावित्वेन स्मृतित्वम्, तदा संस्कारस्य स्मरणरूपता प्राप्नोत्य्,
उदकग्रहणोत्तरकालभावित्वेन रससंवेदनस्य च ।
अथ निर्विषयत्वेन स्मृतिरूपतोच्यते, तद् अयुक्तम्, पूर्वोदितानुभवावेदितार्थाकारावेदकत्वेनोदीयमानायाः कथं निर्विषयत्वम्? अथ पूर्वानुभूतार्थप्रत्यस्तमये सति समानकालार्थाभावान् निर्विषयता, तदा चोदनाजनितवि
ज्ञानस्य निर्विषयत्वेन स्मृतित्वम् आपनीपद्यते, कर्तव्यतारूपार्थस्य तदाभावात् । भावे वा कर्तव्यरूपता नोपपद्यते । तदनुपपत्तौ सप्ततन्तुक्रियाया विलोपप्रसङ्गः । यदि च निर्विषयत्वेन स्मृतित्वम्, तदा विद्यमानघटजात्यादेः स्मरणस्यास्मृतित्वप्रसङ्गः । अथाद्राक्षम् इत्य् अनेनाकारेणोपजायमानत्वेन स्मृतित्वम्, तद् अयुक्तम् । इहोदकम् इत्य् अनेनाकारेणोपजायमानायाः कथम् अद्राक्षम् इत्य् एवंरूपतोपपद्यते?
अथ विप्रमुषिततयानया भङ्ग्योपजायते, को ऽयं विप्रमोषो नाम? किम् अनुभवाकारस्वीकरणं स्मरणाकारप्रध्वंसो वापूर्वार्थगृहीतित्वं वेन्द्रियार्थसन्निकर्षजत्वं वेन्द्रियार्थासन्निकर्षजत्वं वा?
तद् यद्य् अनुभवाकारस्वीकरणम्, तदा स्मृतिरूपता नोपपद्यते । अथ स्मृतिरूपता, तदानुभवाकारस्वीकरणं नोपपद्यते, स्मृत्यनुभवाकारयोर् इतरेतरपरिहारस्थितिलक्षणत्वात् । अथ स्मरणाकारप्रध्वंसस्, तद् अयुक्तम्, विज्ञानस्य स्वयं स्मृतित्वेनाभ्युपगमात् । प्रध्वंसो ह्य् अविज्ञानात्मकः, कथं स्मृतिरूपतां विधत्ते?
अथापूर्वार्थविषयगृहीतित्वं स्मृतिप्रमोषोच्यते, तदात्यन्ताननुभूतकनकपनसादिसंवित्तीनं स्मृतिविप्रमोषत्वम् आपद्यते । अथेन्द्रियार्थसन्निकर्षजत्वं स्मृतिविप्रल्नोषोच्यते, तदा संवित्तीनां स्मृतिविप्रमोषत्व प्रसङ्गः ।
अथेन्द्रियासन्निकर्षजत्वं स्मृतिविप्रमोषोच्यते, तदा चोदनाजनितविज्ञानस्यानुमानोपमानविज्ञानस्य च स्मृतिविप्रमोषत्वम् आपद्यते । तस्माद् यथा यथा विचार्यते स्मृतिविप्रमोषस् तथा तथा न्यायं न विषहतेति । तस्मान् मरीच्युदकविज्ञानस्य न स्मृतिविप्रमोषरूपता, अपि तु विपरीतख्यातित्वं सम्यग्ज्ञानत्वं वा ।
१।२ तथा व्यवसायात्मकपदम् अपि नोपादेयम् अपनेयाभावात् । ननु स्थाण्वादिके ऽर्थेन्द्रियार्थसन्निकर्षात् सामान्यमात्रदर्शनाद् विशेषानुपलब्धौ सन्देहज्ञानम् उपजायते । तद् अपनीयते । तस्मिन् सन्देहज्ञाने जाते किञ्चित् प्रतिभात्य् आहो न प्रतिभाति । तद् यदि प्रतिभाति, स किं धर्मी धर्मो वा?
तद् यदि धर्मी प्रतिभाति, स तात्त्विको ऽतात्त्विको वा ।
यदि तात्त्विको, नापनेयता तद्विषयविज्ञानस्य । अथातात्त्विकस्, तदाव्यभिचारिपदेनापनीतत्वान् न व्यवसायात्मकपदम् उपादेयम् । अथ धर्मः प्रतिभाति, स स्थाणुत्वलक्षणः पुरुषत्वलक्षणोभयं वा । तद् यदि स्थाणुत्वलक्षणो धर्मः प्रतिभाति, स तात्त्विको ऽतात्त्विको वा । यदि तात्त्विकः, कथं तद्बुद्धेः सन्देहरूपता, तात्त्विकार्थगृहीतिरूपत्वेन सत्योदकसंवेदनवत्?
अथातात्त्विकस्, तदाव्यभिचारिपदेनापोदितत्वान् न व्यवसायात्मकपदम् उपादेयम् । अथ पुरुषत्वलक्षणो धर्मः प्रतिभात्य्, असाव् अपि तात्त्विको ऽतात्त्विको वा । यदि तात्त्विकः, कथं तत्बुद्धेः सन्देहरूपता? अथातात्त्विकस्, तदाव्यभिचारिपदेनापोदितत्वाद् व्यवसायात्मकपदं न साधीयः । अथोभयं प्रतिभाति, तदोभयोस् तात्त्विकत्वम् अतात्त्विकत्वं वाथैकस्य तात्त्विकत्वम् अन्यस्यातात्त्विकत्वम् । तद् यद्य् उभयोस् तात्त्विकत्वम्, तद तद्विज्ञानस्य तात्त्विकत्वम् एव, न सन्देहात्मता । अथोभाव् अप्य् अतात्त्विकौ, तदा तद्विज्ञानस्य विपर्ययरूपता, न सन्देहात्मता । अथैकस्य तात्त्विकत्वम् अन्यस्यातात्त्विकत्वम्, तदा तद् एव ज्ञानं व्यभिचारि तद् एवाव्यभिचारि । अतात्त्विकार्थगृहीतिरूपत्वाद् व्यभिचारि, तात्त्विकार्थगृहीतिरूपत्वाद् अव्यभिचारि । एतेन द्विचन्द्रज्ञानम् उद्घाटितम् । तत्र हि द्रव्याकारः प्रतिभाति,
न गुणाकारः । अथ सन्दिग्धार्थाकारप्रतिभासि सन्देहज्ञानम् इति चेत्,
ससन्दिग्धो ऽर्थो विद्यते वा न वा । तद् यदि विद्यते, कथं तत्संवेदनस्य सन्देहरूपताबाधितार्थगृहीतिरूपत्वात् सत्योदकसंवेदनवत्?
अथ न विद्यते, तदाव्यभिचारिपदेनापोदितत्वाद् व्यवसायात्मकपदम् अपार्थकम् । अथ न किञ्चिद् अपि प्रतिभाति, न तर्हि तस्येन्द्रियार्थसन्निकर्षजत्वं भ्रान्तोदकविज्ञानवत् । तस्माद् व्यवसायात्मकपदम् अप्य् अनुपादेयम् ।
१।३ अव्यपदेश्यपदं च यथा न साधीयस् तथा लक्षणसारे द्रष्टव्यम् ।
१।४ तथेन्द्रियार्थसन्निकर्षजत्वम् अपि नोपपद्यते तद्गत्यभावात् ।
१।४१ इन्द्रियार्थसन्निकर्षो हि व्यवहितार्थानुपलब्धिलिङ्गो वावरणलिङ्गो वा तदुत्पादितघटादिज्ञानावसेयो वा ।
तद् यदि व्यवहितार्थानुपलब्धिलिङ्गस्, तद् अयुक्तम्, तेन सह सम्बन्धानुपपत्तेस् तदभावे [प्।१३८]ऽप्य् अनुपलम्भसद्भावदर्शनात् । यदभावे ऽपि यस्य सद्भावः, स कथं तत्सद्भावावेदकः?
अथावरणलिङ्गस्, तद् अयुक्तम्, तेन सह सङ्गतेर् अभावात्, तदभावे ऽपि सद्भावदर्शनात् । तद्भावे वावरणानर्थक्यम् । तदभावे तद्गतिः कथम्?
अथ तद्भवकुम्भादिज्ञानेनावगम्यते, तद् अयुक्तम्, तदनवगतौ तदुद्भवत्वस्यानवगतेः । पिशाचपरमाणुमहेश्वरकल्पो ऽसौ सन्निकर्षः । कथं तदायत्तता वेद्यते ज्ञाने?
कथं च तदिन्द्रियार्थसन्निकर्षम् आवेदयति ज्ञानम्? किं विज्ञानाकारतयाहो कार्याकारतयेन्द्रियार्थसन्निकर्षजन्याकारतया वा? तद् यदि ज्ञानस्वभावतया, तद् अयुक्तम्, तदभावे ऽपि ज्ञानाकारस्य सम्भवोपमानादिज्ञाने ।
अथ कार्यात्मतया गमयति, तद् अप्य् अयुक्तम्, उपमानानुमानज्ञानमरीचिनीलजलादौ तस्य सद्भावोपपत्तेः । यो येन विना भवति, स कथं तस्य ज्ञापको नाम? अन्यथा सत्त्वादेर् अपि गमकत्वं स्यात् ।
अथेन्द्रियार्थसन्निकर्षजन्याकारतया संसूचयतीति चेद्, असाव् इन्द्रियार्थसन्निकर्षजन्याकारो ज्ञानाकाराद् अव्यतिरिक्तो व्यतिरिक्तो वा ।
यद्य् अव्यतिरिक्तस्, तदा ज्ञानात्मतामात्रम्, नाकारातिरेको ऽन्यो ऽस्ति विभाव्यमानो ऽनुमानादिज्ञानेषु यथा । आकारान्तरातिरेके वा ज् आनरूपता हीयते । अथ व्यतिरिक्तस्, तस्यैव तर्हि गमकत्वम्, न ज्ञानाकारस्य । तस्याप्य् अगमकत्वं तदवेदनात् । किं च तदुत्पन्नम् इन्द्रियार्थसन्निकर्षाद् विज्ञानं स्वरूपेणावगाहनीयम्, ततो व्याप्तिस्मरणम्, तदनु परामर्शज्ञानम्, ततो ऽनुमेयावगतिर् इति न चैतावन्तं कालं विज्ञानं स्थितिपदं बध्नात्य्, आशुभावित्वेन प्रत्यस्तमितत्वात् । अथ बुद्ध्यारूढेन धर्मधर्मिन्यायेन परिकल्प्यते ऽनुमानम्, तदावास्तवं प्राप्नोति सुगतानुमानवत् ।
१।४२ तथेन्द्रियोत्पाद्यत्वम् अपि नोपपद्यतेन्द्रियोत्पाद्यत्वातिरेकानवगतेः । विज्ञानं स्वभावतयैव वेद्यते, नाकारान्तरेण । तज्ज्ञप्तौ वा ज्ञानाकारविरहप्रसङ्गः । न च ज्ञानम् इन्द्रियसम्बद्धं दृष्टम्, येन तद् उपलभ्यमानम् इन्द्रियं गमयति ।
अथ क्रियान्यत्र करणसाध्या दृष्टा ।
सैव गमिकास्तु, यस्याः करणसम्बन्धो ऽवगतः । न चान्यस्य सम्बन्धे ऽन्यस्य गमकत्वं किञ्चित्साम्याद् उपपद्यते । न जातु देवदत्तनयननीलसम्बन्धे सति यज्ञदत्तेन्द्रियं घटादिकम् अर्थम् असति सम्बन्धे करणत्वसाम्याद् प्रकाशयद् दृष्टम् ।
तथार्थजन्याकारो ऽपि विज्ञाने ऽनेनैव प्रकारेण पर्युदस्तो वेदितव्यः ।
१।४३ तथार्थो ऽपि विज्ञानम् उत्पादयत्य् अनुपजातातिशयोपजातातिशयो वाव्यतिरिक्तोपजातातिशयो वा व्यतिरिक्तोपजातातिशयो वा । तद् यद्य् अनुपजातातिशयः करोति, तदा सर्वदा कुर्यान् न वा । करणम् अकरणं च नोपपद्येत तत्स्वरूपानतिवृत्तेः ।
तथाव्यतिरिक्तोपजातातिशयो ऽपि न करोत्य् अकारकाकारस्यानुगतेः । अननुगतौ वा न तर्हि तदव्यतिरिक्तो ऽतिशयः । अथ व्यतिरिक्तोपजातातिशयेन जन्यते, तथापि नोपपद्यते ऽकारकाकारानतिवृत्तेः । अतिवृत्तौ वायातं क्षणिकत्वम् । ततश् च नेन्द्रियार्थसन्निकर्षजं विज्ञानं प्रत्यक्षलक्षणम् ।
[छप्तेर् २: एxअमिनतिओन् ओफ़् थे मीमांसा देफ़िनितिओन् ओफ़् वलिद् चोग्नितिओन्:]
२। अन्ये त्व् अनधिगतार्थगन्तृत्वेन प्रमाणलक्षणम् अभिदधति । ते त्व् अयुक्तवादिनो द्रष्टव्याः । कथम् अयुक्तवादिता तेषम् इति चेद्, उच्यते विभिन्नकारकोत्पादितैकार्थविज्ञानानां यथाव्यवस्थितैकार्थगृहीतिरूपत्वाविशेषे ऽ पि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यं नोत्तरस्येत्य् अत्र नियामकं वक्तव्यम् ।
२।१ अथ यथाव्यवस्थितार्थगृहीतिरूपत्वाविशेषे ऽपि पूर्वोत्पन्नविज्ञानस्य प्रामाण्यम् उपपद्यते, न प्रथमोत्तरविज्ञानस्य, तदानेनैव न्यायेन प्रथमस्याप्य् अप्रामाण्यं प्रसक्तं गृहीतार्थग्राहित्वाविशेषात् । यथैकनीलस्वलक्षणावभासितयुगपदुत्पन्नानेकनीलविज्ञानानां नीलैकार्थगृहीतिरूपता न भिद्यते, तथा पूर्वापरोत्पन्नविज्ञानानाम् अपि गृहीतार्थगृहीतिरूपता न निवर्त्स्यति ।
अथ नियतविषयत्वं पूर्वोत्तरविज्ञानयोः पूर्वोत्पन्नविज्ञानम् अनधिगतार्थाकारस्वीकरणमुखेनोपादीयत, उत्तरं त्व् अधिगतार्थाकारविषयम् उपजायते ।
यदि गृहीतार्थविषयत्वं कथं प्रतिनियतविषयत्वम्? अथ प्रतिनियतविषयत्वं कथं गृहीतार्थग्राहित्वम्, नियतविषयत्वगृहीतग्राहित्वयोर् विरोधात्? यदि च नियतविषयत्वम्, तदोभयोर् अपि प्रामाण्यम् अनधिगतार्थगन्तृत्वाविशेषात् । अथैकविषयत्वम्, तदोभयोर् अपि प्रामाण्यम् अप्रामाण्यं वा गृहीतग्राहित्वाविशेषात् । सो ऽयं गडुप्रवेशाक्षितारकविनिर्गमन्यायोपनिपातः श्रुतिलालसानां दुरुत्तरः ।
२।११ नन्व् अधिगतविषयत्वे सत्य् अपि प्रामाण्याभ्युपगमे स्मृतेर् अपि प्रामाण्यम् अनुषज्यते प्रमाणफलता वा ।
को ऽत्र निवारयिता? स्मृतिर् इहोपजायमानाद्यानुभवावेदितार्थाकारविषया वान्यविषया वा निर्विषया वा ।
तद् यदि पूर्वोदितानुभवावेदितार्थाकारविषया, तदा तस्याः प्रमाणफलता नैव निवारयितुं पार्यते गृहीतार्थग्राहित्वाविशेषाद् इत्य् उक्तम् । एवं च स्मृतिसञ्ज्ञकं सप्तमं प्रमाणं प्रसक्तं मीमांसकानाम् । अथ पूर्वविज्ञानानवधारितार्थविषया । यद्य् एवं कथं तस्याः प्रमाणफलत्वम् अपनेतुं पार्यते? आद्यानुभवस्येव स्मृतिरूपता च न प्राप्नोति । दृष्टश्रुतार्थविषया हि स्मृतिर् नागृहीतार्थविषया ।
अथ निर्विषयेष्यते, तदा न गृहीतार्थग्राहित्वेन स्मृतेर् अप्रामाण्यम्, अपि तु केशोण्डुकसंवेदनवन् निर्विषयत्वेन ।
अपि च यदि निर्विषया, तदा गृहीतार्थग्राहिणी कथम्? गृहीतार्थग्राहिणीति चेन्, निर्विषयेति न वक्तव्यम् । न च निर्विषया । मातरं पितरं शुश्रूषितवान् अहम्, सन्ति मे पञ्चभृत्येति पूर्वानुभवावेदितार्थाकारपर्यवसायिन्यो हि स्मृतयः, स्मृतिज्ञानेन पूर्वानुभवावेदितार्थाकारस्य प्रतिभासनात् ।
अथ स्मृतिविज्ञानकाले पूर्वप्रबोधविषयीकृतार्थस्य प्रत्यस्तमितत्वान् न तद्विषयत्वम् । एवं च निर्विषयत्वेन स्मृतेर् अप्रामाण्यं न गृहीतार्थग्राहित्वेनेत्य् उक्तम् ।
२।२ यदि चावधारितार्थविषयं प्रमाणम् अप्रमानम् उपपाद्यते, तदानुमानज्ञानस्याप्रामाण्यम् आपनीपद्येत ।
तद् एव कथम्? कथ्यते यद् एवाविनाभावसम्बन्धग्रहणकालावधारितम् अग्नित्वसामान्यं लिङ्गाजहद्वृत्तित्वेन प्रत्यक्षेण तद् एवानुमानाद् अवगच्छत्य् आहोस्वित् पावकस्वरूपं मत्वर्थं वा लिङ्गव्यापारसमानकालीनास्तित्वं वा लिङ्गोपसर्जनत्वं वाग्निव्यक्तिपारतन्त्र्यं वाग्नित्वसामान्यस्य?
२।२१ तद् यदि पूर्वावधारितसामान्यविषयम् अभ्युपेयते, तदा प्रामाण्यं नैव समासादयति गृहीतार्थग्राहित्वेन स्मृतिवद् एव । तदप्रामाण्ये नाग्निमत्त्वव्यवस्थोपपत्तिः । तदनुपपत्तौ च नार्थापत्त्याग्निव्यक्तिसंस्थितिः । ततश् चामुत्राग्निर् अग्निर् आनीयताम् इति सकललोकव्यवहारविर ।हः स्यात् । अथ मा भूद् एतद्व्यवहारहानिर् इति चेत् पूर्वावधारिते ऽप्य् अर्थे ऽनुमानस्य प्रामाण्यम् अभ्युपेयते, तदानधिगतार्थगन्तृविशेषणम् अपार्थकं श्रोत्रियाणाम् इति ।
२।२२ अथ पावकस्वरूपम् अनुमिमीषे, तल् लिङ्गाजहद्वृत्तित्वेन पूर्वम् अवधारितं वा न वा । यदि पूर्वोपलब्धम् अधिगतार्थविषयत्वम् आयातम् अनुमानस्य । अथ न पूर्वोपलब्धम्, अव्यापको ऽग्निर् अनुमानात् तर्हि प्रतीयते । तदभ्युपगमे तृणजलादिविषयम् अप्य् अनुमानं प्रसज्यते ।
२।२३ अथ मत्वर्थो ऽनुमीयते, स पूर्वावधारितो वा न वा । यद्य् अवधारितः, कथम् अनधिगतार्थगन्तृविशेषणम् अनुमाने सम्भवति?
अथ नैवावगतस्, तदानीं जलतृणादिविषयम् अप्य् अनुमानं प्रसज्येतेत्य् उक्तम् ।
२।२४ अथ लिङ्गव्यापारसमानकालीनास्तित्वम् अग्नित्वसामान्यस्यानुमीयते, तद् अनुमानव्यापारसमानकालीनास्तित्वम् अग्नित्वसामान्याद् व्यतिरिक्तम् अव्यतिरिक्तं वा । तद् यद्य् अव्यतिरिक्तम्, तदानीं पूर्वोपलब्धास्तित्वविषयम् एवानुमानम् । कथम् अनधिगतार्थगन्तृविशेषणम् अपार्थकं न भवेत्?
अथ व्यतिरिक्तम्, तत् किं पूर्वोपलब्धम् अनुपलब्धं वा?
यदि पूर्वोपलब्धं तद्विषयत्वे ऽनुमानस्य नानधिगतार्थगन्तृविशेषणम् उपपद्यते । अथ नोपलब्धम्, तत् कथम् अनुमीयते जलादिकल्पं धूमेन?
२।२५ अथ लिङ्गोपसर्जनत्वम् अग्नित्वसामान्यस्यानुमानात् प्रतीयते, तल् लिङ्गोपसर्जनत्वम् अग्नित्वसामान्याद् भिन्नम् अभिन्नं वा । यद्य् अभिन्नं पूर्वोपलब्धाग्नित्वसामान्यविषयम् एवानुमानम्, कथं प्रामाण्यभाग् भवति? अथ भिन्नम्, तदविनाभावसम्बन्धग्रहणकाले लिङ्गव्यापकत्वेनावधारितं वा न वा ।
यद्य् अवधारितं कथम् अनधिगतार्थविषयम् अनुमानम्?
अथ लिङ्गव्यापकत्वेनानवगतम्, तदा तद्विषयत्वे ऽनुमानस्य परिकल्प्यमाने त्रिभुवनावेदकत्वं धूमस्य किं न परिकल्प्यते सम्बन्धाभावाविशेषात्?
२।२६ अथाग्निव्यक्तिपार ।तन्त्र्यम् अनुमीयते धूमेनाग्नित्वसामान्यस्येति चेत्, तत् पारतन्त्र्यम् अग्नित्वसामान्यस्य धूमव्यापकत्वेनावधारितं वा न वा ।
यद्य् अवधारितम्, पुनर् अपि गृहीतग्राहित्वं नातिवर्तते ऽनुमानम् । अथ नावधारितं धूमव्यापकत्वेन पारतन्त्र्यम् अग्निसामान्यस्येति चेत्, कथम् अनुमीयतेत्य् उक्तं पुरस्तात् ।
२।३ एतेन पूर्वोपलब्धगोत्वादिप्रतिपादकत्वेन गोशब्दादेर् अप्रामाण्यम् उद्घाटितम् । तद् एव कथम्? कथ्यते किं सङ्केतग्रहणकालावगतगोत्वार्थवाचकत्वं तद्व्यतिरिक्तार्थवाचकत्वं वा प्रतिपाद्यते गोशब्दस्य?
तद् यदि सङ्केतग्रहणकालाधिगतगोत्वस्वरूपावेदकत्वं जेगीयते गोशब्दस्य, तदा विदितार्थाकारावेदकत्वेन न मानत्वम् आसादयति गोशब्दः । अथ वेदितार्थाकारावेदकत्वे ऽपि प्रामाण्यम् आवहति, तदानधिगतार्थगन्तृविशेषणस्य विषयोवक्तव्यः ।
अथ तद्व्यतिरिक्तार्थवाचकत्वम्, तदानीम् असङ्केतितैवार्थः प्रतीयते गोशब्दात् ।ततश् च स्वसिद्धान्तप्रतीतिविरोधो दुमिवारः । अथ गोत्वम् एवावगम्यते गोशब्देनेति चेत्, तत्रापि प्रपञ्चितम् एवाप्रामाण्यकारणं गृहीतग्राहित्वम् । तदप्रामाण्ये न गोत्वव्यवस्थितिः । तदनवस्थितौ नार्थापत्त्याधिकरणव्यवस्थितिः ।
२।३१ इतो ऽपि नार्थापत्त्याधिकरणव्यवस्थितिर् उपपद्यते किम् अर्थापत्त्या पूर्वावधारिताधिकरणप्रत्यायनं क्रियताहोस्विद् अपूर्वाधिकरणप्रत्यायनम्?
तद् यदि पूर्वावधारिताधिकरणपर्यवसितार्थापत्तिस्, तदा प्रतिपादितार्थप्रतिपादकत्वेन न प्रमाणम् ।
अथादृष्टपिण्डावेदकत्वं तदा गोत्वान्यथानुपपत्त्या गजवाजिकल्पनापि कार्या । अथ पूर्वावधारितस्येदानीन्तनम् अस्तित्वम् अर्थापत्त्यावसीयतेति चेत्
तद् इदानीन्तनम् अस्तित्वं पूर्वावधारिताद् व्यतिरिक्तम् अव्यतिरिक्तं वा ।
तद् यद्य् अव्यतिरिक्तम्, तदा पूर्वावधारितार्थप्रतिपादकत्वेन कथम् अर्थापत्तेः प्रामाण्यं वेदविदो वदन्ति?
अथार्थान्तरम्, कथं गोत्वान्यथानुपपत्त्या प्रतीयते? तत्प्रतीत्यभ्युपगमे वा गजवाजिविषयापि प्रतिपत्तिः स्याद् इत्य् असकृत् प्रतिपादितम् ।
एवं च सति यद् उक्तम् इदानीन्तनम् अस्तित्वं न हि पूर्वधिया गतम् इति तद् बालवल्गितम् ।
२।४ एतेन प्रत्यभिज्ञानस्यापि प्रामाण्यं प्रत्युक्तं वेदितव्यम् ।
[छप्तेर् ३: थे बुद्धिस्त् देफ़िनितिओन् ओफ़् मेअन्स् ओफ़् वलिद् चोग्नितिओन्]
३।१ तथा ताथागतानाम् अप्य् अनधिगतार्थगन्तृविशेषणम् अपार्थकम् अपोह्यज्ञानासम्भवात् । न हि पूर्वापरकालभाविनी विज्ञान एकविषये स्तो, न स्वलक्षणैकविषये, न सामान्यैकविषये,
३।११ स्वलक्षणस्याभिन्नैकस्वभावस्य क्रमवृत्त्यनेकविज्ञानजननशक्तिव्यतिरेकात् । अथ युगपदेकविषयोत्पन्नानेकविज्ञानापनोदार्थम्,
तद् अप्य् अयुक्तम् । एकविषयोत्पन्नानेकपुरुषसंवेदनस्याप्रामाण्यम् आपनीपद्येत ।
३।१२ अथ सामान्यैकविषयानेकविज्ञानापनोदार्थं विशेषणम् उपादीयते, तद् अप्य् अयुक्तम् । न सामान्यैकं विज्ञानम् अस्ति, नाप्य् अनेकं विज्ञानम्, तस्य स्वयम् असम्भवात् । तदाकारविरहे सामान्यविषयं विज्ञानम् इति प्रतिकर्मव्यवस्थाहेतुर् वक्तव्यः । तदाकारे वा सामान्यस्य सदात्मता । अतात्त्विकाकारतादात्म्ये वा ज्ञानातात्त्विकत्वप्रसङ्गः ।
३।१अ किं चैकविषये प्रवर्तमानयोर् एकस्याप्रामाण्यं प्रमाणान्तरत्वाभावो वा ।
३।१अ१ तद् यद्य् अप्रामाण्यम्, तद् अयुक्तम् । अविशिष्टैकार्थगृही तिरूपत्वोभयोः प्रामाण्यम् अप्रामाण्यं वा विकल्पानुपपत्तेः । विकल्पे वैकविषयोत्पन्नानेकपुरुषविज्ञानभेदप्रसङ्गः ।
३।१अ२ अथाप्रमाणान्तरत्वम्, तद् अप्य् अनुपपन्नम् । किम् एकविषयोत्पादितानेकप्रत्यक्षादिज्ञानानां व्यक्तिनानात्वं नोपपद्यताहाकारनानात्वम्? तद् यदि व्यक्तिनानात्वं न जाघटीति, तद् असद्, एकनीलोत्पादितानेकनीलालोकविज्ञानानां व्यक्तिनानात्वदर्शनात् ।
अथानेकाकारता नोपपद्यते, तद् अयुक्तम्, नीलालोकविज्ञानानाम् अनेकाकारत्वदर्शनात् । न च तदुत्पादको नीलप्रपञ्चो ऽस्त्य्, एकात्मतया स्वयम् अभ्युपगमात् ।
अथैकविटयत्वे प्रत्यक्षानुमानव्यपदेशानुपपत्तिः ।
तद् एतद् अयुक्तम्, भिन्नकरणकार्यत्वेन व्यपदेशोपपत्तेः । यथैकनीलोत्पन्नानेकदेवदत्तादिज्ञानानां भिन्नकर्तृकार्यत्वेन देवदत्तादिज्ञानव्यपदेशस् तथेहापि ।
३।२ अन्ये त्व् अविसंवादि ज्ञानं प्रमाणम् अभिदधति । को ऽयम् अविसंवादार्थः? किं यथाव्यवस्थितार्थगृहीतित्वं बाधारहितत्वं वा प्रतीयमानार्थजन्यता वा प्रतीयमानार्थं प्रति प्रवर्तकत्वं वार्थप्रापकत्वं वा?
३।२१ तद् यदि यथाव्यवस्थितार्थगृहीतित्वम्, तद् अनुमानज्ञाने नोपपद्यते ।
३।२२ अथ बाधारहितत्वम्, तद् अप्य् अनुमानज्ञाने नोपपद्यते ।
३।२३ अथ प्रतीयमानार्थोत्पाद्यत्वम्, तद् अप्य् अनुमानज्ञानस्य नोपपद्यते, सामान्याकारस्य जनकत्वव्यावृत्तेः ।
तथा रागादिसंवेदनस्याप्य् अवभातार्थोत्पाद्यत्वं नोपपद्यते, स्वात्मोत्पादने सामर्थ्यव्यतिरेकात् । तथा योगिप्रत्यक्षस्य प्रतीयमानार्थजन्यता न सम्भवति व्यतीतानागतयोर् अजनकत्वात् । जनकत्वे वातीतानागतता हीयते ।
३।२४ अथ प्रतीयमानार्थं प्रति प्रवर्तकत्वम् अविसंवादार्थस्, तद् विपर्ययज्ञानस्यापि प्रवर्तकत्वं विद्यते । विपरीतोत्पन्नोदकबुद्धिः प्रवर्तते, न च तस्याविसंवादो ऽस्ति । सत्योदकज्ञाने ऽपि जाते न प्रवर्तते केनापि हेतुना, तद् अपि विसंवादि स्यात् ।
३।२५ अथार्थप्रापकत्वम् अविसंवादस्, तत्र किम् अर्थमात्रप्रापकत्वम् आहो ऽवभातार्थप्रापकत्वं तज्जातीयोदकप्रापकत्वं वा स्वोत्पादकार्थप्रापकत्वं वाथ स्वोत्पादककारकाणां ध्रुवभावित्वम् अविसंवादः?
यद्य् अर्थमात्रप्रापकत्वम्, केशोण्डुकेन्दुद्वयसंवेदनस्याप्य् अविसंवादित्वम् आपद्यते । अथावभातार्थप्रापकत्वम्, तदानुमानज्ञानस्याविसंवादित्वं न लभ्यते ऽवभातार्थाप्रापकत्वात् । अनुमानज्ञाने हि सामान्याकारो ऽवभाति, न चासौ प्राप्यते स्वयम् असत्त्वात् ।
तथा योगिज्ञानस्यातीतानागतार्थे समुत्पन्नस्यार्थप्रापकत्वं न विद्यते । तथा रागादिसंवेदने ऽपि जाते नावभातरागादिप्राप्तिर् अस्ति । तथा प्रत्यक्षे पि विज्ञाने नावभातार्थप्राप्तिर् अस्ति क्षणिकत्वेनास्तमितत्वात् । अथ तज्जातीयोदकप्रापकत्वेनाविसंवादित्वम् उच्यते, तद् अयुक्तम् उदकत्वजातेर् अभावात् । अथानुदकत्वव्यावृत्तिर् जातिर् इत्य् उच्यते, सोदकव्यक्तिभ्यो ऽव्यतिरिक्ता व्यतिरिक्ता वा । यद्य् अव्यतिरिक्ता तदा व्यक्तिर् एव न जातिः । अथ व्यतिरिक्ता सा वस्तुभूतावस्तुभूता वा । यदि वस्तुभूता तदाभ्युपेतहानिः । अथावस्तुभूता तद्गतिः कथम्?
न चोदकव्यक्तीनां नानात्वम् उपपद्यते । यथा च नोपपद्यते तथा निवेदितं नैयायिकप्रत्यक्षलक्षणाधिकारे ।
अथ स्वोत्पादकार्थप्रापकत्वम् अविसंवादकत्वम्, तद् अयुक्तम्, नयनालोकमनस्कारादेः प्रत्यस्तमितत्वात् ।
अथ स्वोत्पादककारकाणां ध्रुवभावित्वम् अविसंवादस्, तदभावे तदभावप्रसङ्गात् । यद्य् एवं केशोण्डुकविज्ञानस्यापि ध्रुवभाविकारणत्वेनाविसंवादो ऽस्त्य् अन्यथाकस्मिकत्वप्रसङ्गात् ।
एवं चाव्यवस्थिते यद् उक्तं न ह्य् आभ्याम् अर्थं परिच्छिद्य प्रवर्तमानो ऽर्थक्रियायां विसंवाद्यतेति तद् बालविलसितम् ।
३।३ तथा मानमेयसङ्ख्यापि सौगतमते नोपपद्यते । तद् एव कथम्? कथ्यते द्व एव प्रमाणे, न मानान्तरम् अस्ति । तद् द्वित्वं किं व्यक्तिभेदेनाकारभेदेन विषयभेदेन वा?
३।३१ यदि व्यक्तिभेदेन, तदापरिसङ्ख्येयत्वं ज्ञानव्यक्तीनाम् आनन्त्याद्, द्वित्वानुपपत्तिः । न च ज्ञानानां भेदो ऽस्त्य् अज्ञानाद् धि ज्ञानं ज्ञानात्मतया भिद्यते, ज्ञानान्तरात् तु कथं निवर्तते? किं ज्ञानात्मतयाकारान्तरेण वा? यदि ज्ञानाकारतया भिद्यते, तदान्येषाम् अज्ञानात्मकत्वप्रसङ्गो रसादेर् इव । अथाकारान्तरेण व्यावर्तते, तदाज्ञानात्मता तस्योत्पद्यते रसादेर् इव ।
३।३२ अथाकारभेदेन मानयोर् भेदः, सो ऽप्य् अनुपपन्नैव । ज्ञानाकारव्यतिरेकेण प्रत्यक्षानुमानयोर् नाकारान्तरम् अस्ति । तदुपगमे वा ज्ञानाकारविरहः स्यात् । न चाकारसमूहात्मकं ज्ञानं तस्याभिन्नात्मकत्वात् ।
३।३३ अथ विषयभेदेन द्वैविध्यम् उपपाद्यते,
३।३३१ तदानुमानज्ञानस्य विषयार्थो वक्तव्यः किम् अग्न्यादिस्वलक्षणविषयं विद्यमानसामान्यविषयम् अपारमार्थिकसामान्यविषयं वा निर्विषयं वा स्वांशविषयं वा?
यद्यग्न्यादिस्वलक्षणविषयम्, तदा प्रत्यक्षानुमानयोर् भेदानुपपत्तिर् अभिन्नविषयत्वात् । अथानुमानिके ज्ञाने ऽग्निमात्रं प्रतीयते, प्रत्यक्षे तु तार्णादिविशेषात्मतया प्रतीयते । यद्य् एवं स्वलक्षणविषयत्वं नातिवर्तते ऽनुमानस्य, यदि नाम वह्नेर् एव प्रपञ्चता । अथ सत्सामान्यविषयत्वम्, तथापि प्रत्यक्षानुमानयोर् न भेदो ऽस्ति सामान्यस्य स्वलक्षणरूपत्वात् । न च सत्सामान्यस्य विज्ञानविषयतोपपद्यते नित्यत्वेन जनकत्वाकारार्पकत्वानुपपत्तेः । न च सत्सामान्यविषयत्वे भ्रान्ततोपपद्यते । भ्रान्तिर् अप्य् अर्थसम्बन्धतः प्रमेति न वक्तव्यम् ।
अथासत्सामान्यविषयम्, न तर्हि तस्य भ्रान्ततासतः स्वेन रूपेण विद्यमानत्वात् । न चासद् विषयभावं प्रतिपद्यते जनकत्वाकारार्पकत्वव्यतिरेकात् । अव्यतिरेके वा वस्तुत्वप्रसङ्गः । तत्प्रसक्तौ च प्रत्यक्षानुमानयोर् भेदानुपपत्तिः ।
अथ निर्विषयम्, न तर्हि मानयोर् भेदो ऽस्त्य्, अनुमानज्ञानस्य विषयासम्भवात् । नापि भ्रान्तता निर्विषयत्वाद् एव । न च ज्ञानस्य स्वसत्तामात्रेण भ्रान्तताभ्रान्तता चोपपद्यते, किं तु परोपधानवशात् ।
अथ स्वांशविषयम्, तथापि प्रत्यक्षानुमानयोर् न नानात्वम्, उभयोः स्वलक्षणविषयत्वात् । न चानुमानज्ञानस्य भ्रान्तता स्वांशस्यावञ्चनात् ।
३।३३२ तथा प्रत्यक्षस्यापि विषयो वक्तव्यः किं रूपादिस्वलक्षणविषयम् आत्मविषयम् उभयविषयं वा?
तद् यदि रूपादिमात्रालोचकम्, तद् अयुक्तं तदनवगतावेतद्गत्यभावात् ।
अथ ज्ञानमात्रकायावगाहकम्, तद् अपि नोपपद्यते, विषयभावस्य जनकत्वाकारार्पकत्वेन व्यवस्थितेः । न च स्वात्मनि जनकत्वम् आकारार्पकत्वं चोपपद्यते । विषयिणम् अपेक्ष्य विषयो भवति, यथा कारणम् अपेक्ष्य कार्यं कार्यं चापेक्ष्य कारणं तथेहापि ।
यदि च प्रत्यक्षज्ञानेनात्ममात्रम् आत्मसात्क्रियते, तदानुमाने ऽप्य् एतद् अस्ति, प्रत्यक्षानुमानयोर् भेदानुपपत्तिः ।
अथोभयं विषयीक्रियते, तद् अप्य् अयुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारेण व्यवस्थितत्वात् । यदि च रूपगृहीतिर् एव ज्ञानगृहीतिस्, तदा रूपस्य ज्ञानरूपता, ज्ञानस्य वा रूपरूपता, रूपगृहीतेर् वा रूपाव्यवस्थापकत्वम् । न चैकस्याकारद्वयं पश्यामः ।
३।३अ न च द्वित्वावधारणम् इहोपपद्यते । प्रत्यक्षं ज्ञानम् आत्मानं गृह्णद् उपजायते, नानुमानं विषययति । तथानुमानम् अप्य् आत्मानम् आत्मसात्कुर्वद् उपजायते, न प्रत्यक्षं ज्ञानम् अवद्योतयति । एवं द्वित्वसङ्ख्याव्यवहारानुपपत्तिः ।
अथ विकल्पेन द्वयावधारणम् इति चेत्, तद् अयुक्तम्, असाव् अप्य् आत्मसंवेदनपर्यवसितत्वान् न द्वयं गृह्णाति । ग्रहणे वाभ्युपेतहानम् । तदनुपपत्तौ च द्व एवेति जडचेष्टितम् ।
[छप्तेर् ४: एxअमिन्ततिओन् ओफ़् थे बुद्धिस्त् देफ़िनितिओन् ओफ़् पेरेचेप्तिओन्]
४।१ तथा प्रत्यक्षं कल्पनापोढम् अभ्रान्तम् इति न वक्तव्यं कल्पनापोढपदस्यापोह्यार्थासम्भवात् ।
ननु कल्पनैवापोह्या ।
केयङ्कल्पना किं गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पनाहो स्मृत्युत्पादकं विज्ञानं कल्पना स्मृतिरूपं वा स्मृत्युत्पाद्यं वाभिलापसंसर्गनिर्भासो वाभिलापवती प्रतीतिर् वा कल्पनास्पष्टाकारा वातात्त्विकार्थगृहीतिरूपा वा स्वयं वातात्त्विकी त्रिरूपाल् लिङ्गतो ऽर्थदृग् वातीतानागतार्थनिर्भासा वा?
४।११ तद् यदि गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पना, तत् किम् अविद्यमानगुणचलनजात्यादिविशेषनोत्पाद्यत्वेन कल्पनोत विद्यमानोत्पाद्यत्वेन?
तद् यद्य् अविद्यमानगुणचलनजात्यादिविशेषणोत्पाद्यत्वेन कल्पनात्वम्, तद् अयुक्तम् अविद्यमानस्य जनकत्वाभावाद् एवाकल्पनात्वम् । अथ विद्यमानगुणचलनजात्यादिविशेषणोत्पाद्यत्वेन कल्पना, तत् किं सविषयं कल्पनाज्ञानं निर्विषयं वा? तद् यदि सविषयं सत् कल्पनाज्ञानम्, तद् अयुक्तम्, गुणचलनजात्यादिजन्यत्वे ऽपि न कल्पनात्वम् अर्थसामर्थ्यसमुद्भवत्वस्यानतिवृत्तेः । अथ निर्विषयं सत् कल्पना, तदा निर्विषयत्वम् एव कल्पनात्वे कारणम्, न गुणचलनजात्यादिविशेषणजन्यत्वम् । यदि च तन् निर्विषयम्, तदा न कल्पनाज्ञानं नाप्य् अकल्पनाज्ञानम्, ज्ञानमात्रता स्यात् । ज्ञानात्मतया च कल्पनात्वे सर्वं ज्ञानं कल्पनाज्ञानं स्यात् ।
४।१२ अथ स्मृत्युत्पादकं ज्ञानं कल्पना, तद् अयुक्तम्, रूपादिदर्शनाद् अपि स्मृतिर् उत्पद्यते न च कल्पनात्वम्, यत्सन्निधाने यो दृष्टस् तद्दृष्टेस् तद्ध्वनौ स्मृतिर् इति वचनात् ।
४।१३ अथ स्मृतिरूपत्वेन कल्पना, तत्रापि किं गृहीतग्राहित्वेन निर्विषयत्वेनापूर्वार्थगृहीतिरूपत्वेन वा? तद् यदि गृहीतार्थग्राहित्वेन कल्पनात्वम्, तदा प्रथमानुभवस्यापि कल्पनात्वम् आपद्यते गृहीतार्थग्राहित्वाविशेषाद् इत्य् उक्तं पुरस्तात् । अथ निर्विषयत्वेन, तदा न कल्पनाकारता नाप्य् अकल्पनाकारता ज्ञानाकारव्यतिरेकेण । अथापूर्वार्थगृहीतित्वेन कल्पनात्वम्, तद् अयुक्तम्, न स्मृतेर् अपूर्वार्थगृहीतित्वम् अस्ति । तदभावान् न कल्पनात्वम् । यदि चापूर्वार्थगृहीतित्वेन कल्पनात्वम्, रूपादिज्ञानानां कल्पनात्वम् आपद्यते ।
४।१४ अथ स्मृत्युत्पाद्यत्वेन कल्पनात्वम्, तदा रूपादिज्ञानस्यापि निर्विकल्पकत्वेनाभिमतस्य स्मृत्युत्पाद्यत्वम् अस्ति, तद् अस्तु कल्पनाज्ञानम् । अथ न भवति तत् कल्पनाज्ञानं स्मृत्या बोधस्वभावतयोत्पादितम्, कल्पनाज्ञानं तु स्मरणाकारतयोत्पाद्यते । तद् इदं मद्विकल्पान्दोलितबुद्धेर् निरुपपत्तिकाभिधानम् । न ह्य् एकस्य स्वभावद्वयम् उपपश्यामः ।
४।१५ अथाभिलापसंसर्गप्रतिभासा प्रतीतिः कल्पना, स संसर्गः पारमार्थिको ऽपारमार्थिको वा । यदि पारमार्थिको, न तदा तस्य कल्पनात्वं रूपादिज्ञानस्येव । अथापारमार्थिकः, कथं तदाभं विज्ञानं नैरात्म्यप्रसङ्गात्? न चातात्त्विके विषयार्थः कश्चिल् लभ्यते जनकत्वाकारार्पकत्वसहोत्पादसत्तामात्रव्यतिरेकात् । यदि चातात्त्विकार्थगृहीतिरूपम्, तदा विपर्ययज्ञानम् । तच् चाव्यभिचारिपदेनापोदितम्, न कल्पनापोढपदम् उपादेयम् ।
४।१६ अथाभिलापवाती प्रतीतिः कल्पना, किम् अभिलापात्मिकाहो ऽभिलापोत्पाद्याभिलापगृहीतिर् वा? तद् यद्य् अभिलापात्मिका, प्रतीतिः कथम्? प्रतीतिश् चेद् अभिलापात्मिकेति न वक्तव्यम्, विरुद्धाकारयोस् तादात्म्यव्यतिरेकात् । अथाभिलापोत्पाद्या, तदा शब्दज्ञानानां कल्पनात्वम् आपद्यते । तेषां च कल्पनात्वे शब्दव्यवस्थानुपपत्तिः स्यात् । अथाभिलापगृहीतित्वेन कल्पनात्वम्, तदा सर्वासाम् अभिलापगृहीतीनां कल्पनात्वम् आपद्यते । तत्कल्पनात्वे शब्दव्यवस्थानुपपत्तिः ।
४।१७ अथास्पष्टाकारा प्रतीतिः कल्पना, अस्पष्टता का? किम् अविज्ञानात्मकत्वम् आहो स्वलक्षणाजन्यत्वम् अथ प्रतीयमानार्थाजन्यत्वं प्रतीयमानासत्यता वा स्वलकणाप्रतिभासिता वा? तद् यद्य् अविज्ञानात्मकत्वम् अस्पष्टता, तद् अयुक्तम्, प्रतीतिर् इहास्पष्टाकारा गीयते, सा कथम् अविज्ञानात्मिका भवितुम् अर्हति? अथ स्वलक्षणाजन्यतास्पष्टता, तदा ज्ञानाकस्मिकत्वप्रसङ्गः । अथ प्रतीयमानार्थाजन्यत्वम्, तदा रागादिसंवेदनस्यास्पष्टता प्राप्नोति, रागादीनां स्वात्मसंवेदनोत्पादकत्वायोगात् । स्वात्मोत्पादकत्वं वस्तूनां न दृष्टपूर्वम् । तथा केशोण्डुकविज्ञानस्य प्रतीयमानकेशोण्डुकोत्पाद्यत्वं न विद्यते । तद् अपि स्प३ष्टाभम् उपजायते, न त्व् अस्पष्टाभम्, न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासितेति वचनात् । अथ स्वलक्षणाप्रतिभासित्वम्
अस्पष्टता, तदा निर्विकल्पाभिमतकेशोण्डुकविज्ञानस्यास्पष्टता प्राप्नोति, तत्र स्वलक्षणस्याप्रतिभासनात्,
स्पष्टाभं च तद् गीयते । न च ताथागते दर्शने तथाभूतं ज्ञानम् अस्ति यत् स्वलक्षणाप्रतिभासि, सर्वस्मिन् ज्ञाने ज्ञानकायप्रतिभासनात् । अथ प्रतीयमानासत्यातास्पष्टता, तदा केशोण्डुकेन्दुद्वयविज्ञानस्यास्पष्टता प्राप्नोति । न च प्रतीयमानस्यासत्यता विज्ञानकायस्य प्रतीयमानत्वात् । न च तस्य विसंवादो ऽस्ति ।
४।१८ अथातात्त्विकार्थगृहीतिरूपा कल्पना, तद केशोण्डुकविज्ञानस्यापि कल्पनात्वम् आपद्यते ।
४।१९ अथ स्वयम् अतात्त्विकी, तदा प्रतीतिः कथम्? प्रतीतिश् चेद्, अतात्त्विकी कथम्?
४।१(१०) अथ त्रिरूपाल् लिङ्गतो ऽर्थदृक् कल्पनेति चेत्, सापि किं लिङ्गजन्यत्वेन कल्पनाहो निर्विषयत्वेन? तद् यदि लिङ्गजन्यत्वेन कल्पनात्वम्, तदा लिङ्गावगाहकनिर्विकल्पकविज्ञानस्यापि कल्पनात्वम् आपद्यते । न चानुमेयज्ञानस्याव्यवधानेन लिङ्गोत्पाद्यत्वम् अस्ति । अथ निर्विषयत्वेन कल्पनात्वम्, तद् अपि न योयुज्यते, स्वांशविषयत्वाद् अनुमानज्ञानस्य । अथ स्वांशविषयव्यतिरिक्तविषयो नास्ति, निर्विषयत्वेन कल्पनात्वम् अपदिश्यते । तदा केशोण्डुकविज्ञानस्यापि कल्पनात्वम् आपद्यते ।
४।१(१०)आथ यन् निर्विकल्पकं तद् विस्पष्टतयोपजायत, आनुमानिकं त्व् अस्पष्टाभम्, तेन तत् कल्पनाज्ञानम् ।
४।१(१०)अ१ तद् अयुक्तम् । अस्पष्टता च यथा न सम्भवति, तथा प्राग् एवोक्ता ।
४।१(१०)अ२ प्रत्यक्षज्ञानस्य च स्पष्टता का? किं स्वलक्षणजन्यताहो स्वलक्षणप्रतिभासिता?
४।१(१०)अ२१ तद् यदि स्वलक्षणजन्यता, किं प्रतीयमानस्वलक्षणजन्यता तद्विपरीतस्वलक्षणजन्यता वा? तद् यदि प्रतीत्यारूढस्वलक्षणजन्यता, प्रतीतौ किम् अवभाति? किम् अर्थो ज्ञानम् उभयं व ? तद् यद्य् अर्थस्, तद् अयुक्तम् अप्रतीतायां प्रतीतौ तदनवभासनात् । अथ ज्ञानम्, न तर्हि तद् आत्मानम् उत्पादयति स्वात्मनि क्रियाव्यतिरेकात् । अथोभयं प्रतिभाति, तद् अयुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वात् । यदि चोभयं प्रतिभाति, तदार्थवज् ज्ञानेनापि ज्ञानम् उत्पाद्यतेत्य् आपद्यते । तच् चायुक्तं स्वात्मनि क्रियाविरोधात् । अथाप्रतीयमानस्वलक्षणजन्यता, तद्गतिः कथम्? न प्रत्यक्षेणाप्रतीयमानत्वाद् एव । नाप्य् अनुमानेन, स्वभावकार्यलिङ्गानवगतेः । न स्वभावानुमानं तत्कार्यतादात्म्ये तदनवगतौ तस्यानवगतेः । नापि कार्यानुमानं तद्भूतकार्यानुपलब्धेः
। पिशाचपरमाणुमहेश्वरकल्पार्थोत्पादितं कार्यं नेहोपलभ्यते । अथ
ज्ञानम् एव तस्य लिङ्गम्, तद् अयुक्तम्, तेन सह तस्य सम्बन्धानवगतेश् चिन्मात्रतयैव न त्व् अन्यो ऽर्थः । न च चिद् आत्मानं जनयति । समनन्तरज्ञानं तस्य हेतुर् इति चेत्, तद् अयुक्तम्, तदवगतौ न मानम् अस्ति । परसन्तानज्ञानार्थकल्पं तद् अपि न स्वसंवेद्यं तत्कार्यज्ञानस्य, ततो भिन्नत्वात् परसन्तानज्ञानार्थवत् । नाप्यनुमाटेन, तदायत्ततायानवगतेः । चिन्मात्रतयैवात्मानम् अवगाहयति, नान्यायत्ततया, ततो ऽन्यस्य पिशाचेश्वरतुल्यत्वात् । यदि च समनन्तरविज्ञानोत्पाद्यत्वेन स्पष्टता, तदानुमानज्ञानस्यापि समनन्तरज्ञानोत्पाद्यत्वेन निर्विकल्पकत्वम् अनुषक्तम् ।
४।१(१०)अ२२ अथ स्वलक्षणप्रतिभासिता स्पष्टता, तत्र किं प्रतिभाति किम् अर्थो ज्ञानम् उभयं वा? तद् यद्य् अर्थस्, तद् अयुक्तम्, अप्रसिद्धायां प्रसिद्धौ तत्प्रसिद्ध्यभावात् । अथ ज्ञानम्, तद् अनुमाने ऽपि प्रतिभाति, तद् अप्य् अस्तु निर्विकल्पकम् । तन्निर्विकल्पकत्वे तर्ह्य् अपोह्यो मृग्यो ऽधुना कल्पनापोढपदस्य । अथोभयं प्रतिभाति, तद् अयुक्तम्, एकोपलम्भस्य द्वितीयाकारपरिहारस्थितिधर्मत्वाभ्युपगमात् ।
४।१(११) अथातीतानागतार्थगृहीतिरूपा कल्पना, तत्र किम् अवभात्य् अर्थस् तदभावो वा न किञ्चिद् वा? यद्य् अतीतो ऽर्थः प्रतिभाति, न तर्हि तस्य कल्पनात्वं वर्तमाननीलज्ञानवत् । नाप्य् अर्थस्यातीतता प्रतीयमानत्वेन नीलजलादिवत् । न हि प्रतीयमानस्यातीतता नाम । यदि च प्रतीयमानस्याप्य् अतीततोच्यते, तदा सर्वस्य बुद्ध्युपलक्षितस्यातीतता भवेत् । ततश् च वर्तमानव्यवहारविरहः स्यात् । अथ तदभावः प्रतिभाति, तस्याप्यतीतता नास्ति, स्वेन रूपेण विद्यमानत्वात् । नापि तद्विषयविज्ञानस्य कल्पनात्वम् उपपद्यते ऽभावार्थसामर्थ्येन समुद्भवात् । असामर्थ्ये वा विषयार्थश् चिन्त्यः । अथ निर्विषयम्, न तर्हि तद् अतीतानागतार्थविज्ञानम् अतीतानागतार्थोपकाररहितम् अपदिश्यते । न च निर्विषयत्वे सति सविकल्पकत्वं निर्विकल्पकत्वं वापि तु ज्ञानात्मतयैव तस्य व्यवस्थितिः
। न च ज्ञानमात्रतया तस्य सविकल्पकत्वम् इष्यते सर्वज्ञानानां सविकल्पकत्वप्रसङ्गात् । यदि
च निर्विषयत्वेनातीतानागतार्थविज्ञानस्य सविकल्पकत्वम् अभ्युपेयते, निर्विकल्पकाभिमतकेशोण्डुकविज्ञानस्यापि सविकल्पकत्वम् आपद्यते । न चातीतानागतविज्ञानस्य निर्विषयत्वम् अस्ति स्वांशपर्यवसितत्वात् । नापि स्वांशव्यतिरिक्तो ऽर्थो ऽन्यो ऽस्त्य् एकोपलम्भेनापोहितत्वात् । न च स्वांशस्य वञ्चनोपपद्यते । तदभावात् सर्वं विज्ञानं सविकल्पकं निर्विकल्पकं वा वक्तव्यं भेदानुपपत्तेः ।
४।१अ यद् अप्य् उक्तं कल्पनापोढं प्रत्यक्षम् अर्थसामर्थ्येन समुद्भवाद् रूपादिस्वलक्षणवद् इति तत्र किं प्रतीयमानस्वलक्षणोद्भवत्वं विवक्षितम् आहो ऽर्थमात्रोद्भवत्वम्? तद् यदि प्रतीयमानस्वलक्षणोद्भवत्वं विवक्षितम्, तदा रागादिसंवेदनस्य योगिप्रत्यक्षस्य च प्रतीयमानस्वलक्षणोद्भवत्वं न लभ्यते । अथेन्द्रियजप्रत्यक्षविवक्षयेदम् अपदिश्यते ऽर्थसामर्थ्येन समुद्भूतत्वाद् इति साधनम्, तत्रापि ॥। स्य बाह्यार्थनिराकरणपरत्वात् । अस्तु वा बाह्यो ऽर्थस्, तथापि किं तेन निमित्तात्मकेनोत्पाद्यताहोपादानात्मकेन? तद् यदि निमित्तभूतेनोत्पाद्यते, तदा तदुत्पादितरूपस्य रूपरूपता न प्राप्नोति निमित्तभूतरूपोत्पादितज्ञानवत् । अथोपादानात्मकेनोत्पाद्यते, तदानया रीत्या रूपरूपतापद्यते ज्ञानस्य रूपोत्पादितरूपस्येव । ततः सर्वम् अविज्ञानात्मकं
जगत् स्यात् । अविज्ञानात्मके च जगति मानमेयव्यवहाराभावप्रसङ्गः । तत्प्रसक्तौ च
कस्येदं लक्षणं प्रस्तूयते? अथोपादानभूतेन रूपेण रूपम् उत्पाद्यते, निमित्तात्मकेन तु ज्ञानम् इति चेत्, तद् इदं महानुभवस्य दर्शनम् । न ह्य् अबालिशैवं वक्तुम् उत्सहेत । न ह्य् एकस्यानेकाकारता नाम । न चानेकनामकरणे मेयाद्यन्यत्वम् अस्ति । अन्यत्वे वा न तर्हीदं वक्तव्यं स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन मनोविज्ञानं निष्पाद्यते । तद् एवम् इन्द्रियज्ञानस्य प्रतीयमानार्थसमुद्भवत्वाभावः । दृष्टान्तश् च साधनविकलो न रूपादिस्वलक्षणस्य रूपरूपावभातार्थोद्भवत्वम् अस्ति । अथाप्रतीयमानस्वलक्ष।णोद्भवत्वं मे विवक्षितम्, तदातीतानागतानुमानविकल्पानाम् अप्रतीयमानार्थोद्भवत्वेन निर्विकल्पकत्वम् आपद्यते ।
४।१ब् यद् अप्य् अन्यद् उक्तम् एकोपलम्भसामर्थ्याद् विकल्पिकायाः समुद्भवेदम् उपलभेदं नोपलभेति किलैकभूतलोपलम्भे सति विकल्पिका बुद्धिर् उत्पद्यतेदम् उपलभेदं नोपलभ्यतेत्यादिकैतद् अपि न युक्तम् । यथा रूपस्वलक्षणस्य सविकल्पकविज्ञानजनकत्वं नास्त्य् अविकल्पकत्वात्, तथा विज्ञानस्वलक्षणम् अपि न सविकल्पकविज्ञानोत्पादकत्वम् अतिवर्तते ऽविचारकत्वाविशेषात् । अथाविचारकत्वाविशेषे ऽपि निर्विकल्पकविज्ञानस्य सविकल्पकविज्ञानोदयदानसामर्थ्यं जेगीयते, तदा रूपादिस्वलक्षणस्याप्य् एतद् अस्तु । ततश् च प्रत्यक्षानुमानयोर् भेदानुपपत्तिः ।
४।१च् यद् अप्य् अन्यद् उक्तं प्रत्यक्षसाधनैवेन्द्रियधियः कल्पनाविरहः ।
अथ को ऽयं कल्पनाविरहो नाम? किं ज्ञानकायतादात्म्यव्यवस्थितदेहस् तद्विपरीतो वा? तद् यदि ज्ञानतादात्म्येन व्यवस्थितस्, तदा प्रत्यक्षसाधनः कल्पनाविरहेति किम् उक्तं भवति? प्रत्यक्षसाधनो विज्ञानाकारः प्रत्यक्षधियः । न केवलं प्रत्यक्षकल्पनाविरहः प्रत्यक्षसाधनो, ऽनुमानधियो ऽपि प्रत्यक्षसाधनैव, ज्ञानाकारस्यानुमानज्ञाने ऽपि भावात् । अथानुमानज्ञानस्याप्य् आत्मसंवित्तौ कल्पनारहितत्वम्, बाह्यार्थापेक्षया कल्पनात्मकत्वम् इति चेत्,
तद् एतन् मुग्धाभिधानं दुनोति मानसम् । कथं स्युर् विविधाकारास् तदेकस्य वस्तुनः?
अथ भेदेन व्यवस्थितस्, तद्गतिः कथम्? न स्वसंवेद्यो ऽसौ ज्ञानाकारव्यतिरेकात् । नापि जनकत्वाकारार्पकत्वेन गृह्यते विरहस्य सामर्थ्यव्यतिरेकात् । एवं च सति यद् उक्तं प्रत्यक्षसाधनैवेन्द्रियधियः कल्पनाविरहेति तद् बालवल्गितम् ।
४।१द् अथ गौर् इत्यादिज्ञानं कल्पना, कथम् अस्य कल्पनात्वम्?
अर्थेनाजनितत्वाद् यदि गवादेर् अर्थस्य गौर् इत्यादिज्ञानोत्पादनसामर्थ्यं स्यात्, तदा प्रथमाक्षसन्निपातवेलायाम् अपि कुर्यात् तदात्मनो ऽविशेषात् । तद् उक्तं
यः प्राग् अजनको बुद्धेर् उपयोगाविशेषतः। स पश्चाद् अपि तेन स्याद् अर्थापाये ऽपि नेत्रधीः॥
अथ शब्दस्मरणम् अपेक्ष्योत्पादयति, तद् एवास्तु तद्देहानन्तरफलत्वाद् गौर् इत्यादिज्ञानस्य । तद् उक्तम्
अर्थोपयोगे ऽपि पुनः स्मार्तं शब्दानुयोजनम्। अक्षधीर् यद्य् अपेक्षेत सो ऽर्थो व्यवहितो भवेत्॥
तद् एतद् अयुक्तम् । प्राथमिकम् अपि ज्ञानं गौर् इति ज्ञानम्, गोपिण्डावगाहिनि विज्ञाने गौर् इति ज्ञानसञ्ज्ञा । ततश् च प्रथमाक्षसन्निपातजम् अपि भवति । एवं च पूर्वापरविज्ञानयोर् एकविषयत्वोभयोर् गौर् इति ज्ञानसञ्ज्ञाविषयत्वम् । नन्व् एकस्य क्रमभाविविज्ञानजनकत्वं किम् एकेन स्वरूपेण स्वरूपान्तरेण वा? एकेनैव स्वभावेन जनयतीति ब्रूमः । नन्व् एककालीनता पूर्वापरविज्ञानयोर् एकस्वभावायत्तत्वे सत्य् आपद्यते । यद्य् एवम् एकनीलोत्पादितनयनालोकविज्ञानानाम् एकदेशसम्बन्धित्वम् एकाकारतैकव्यक्तित्वम् आपद्यतैकनीलोत्पाद्यत्वाविशेषात् । अथैवम्भूतं तत् तस्य स्वरूपं यच् चित्रकार्यकरणात्मकम् । यद्य् एवं ममके ऽपि पक्षे क्रमभाव्यनेककार्यकरणात्मकम् एव स्वरूपं स्वहेतुसामर्थ्यनियमितस्योत्पत्तेः । अथवा यथात्वदीये पक्षे मनोज्ञानं स्वलक्षणविषयं
न च प्रथमाक्षसन्निपातजम्, अपि त्व् इन्द्रियज्ञानेन
स्वविषयानन्तरविषयसहकारिणोत्पाद्यते, तथा गौर् इत्यादिकम् अपि ज्ञानं प्रथमाक्षसन्निपातजेन विज्ञानेन स्वविषयानन्तरविषयसहकारिणा स्मरणाद्युपहितेन चोत्पाद्यतेति निर्विषयत्वाभावो विषयान्तरस्य स्वकारणसामर्थ्यानुरोधेन गौर् इत्यादिज्ञानजननयोग्यस्योत्पत्तेः । स्मरणम् अपि समर्थम् उत्पन्नं सद् गौर् इत्य् उत्पादयति । एवं सति यद् उक्तं यः प्राग् अजनको बुद्धेर् इत्यादि, तद् स्वपरमतम् अनालोच्यैव जेगीयते ।
४।१ए न च ज्ञानाकरव्यतिरेकेण विकल्पाकारो ऽन्यो ऽस्ति । कल्पनाकारो हि ज्ञानतादात्म्येन व्यवस्थितः । ततश् च कल्पनापोढं प्रत्यक्षं किम् उक्तं भवति? ज्ञानापोढं प्रत्यक्षम् । यो यत्स्वभावोपनिबद्धः, स निवर्तमानस् तम् आदाय निवर्तते । ततश् चाज्ञानात्मकं प्रत्यक्षं भिक्षूणां प्रसक्तम् ।
४।२ तथाव्यभिचारिपदम् अपि नोपादेयम् अपोह्यज्ञानासम्भवात् । ननु मार्तण्डपादसङ्घातोत्पादितं विज्ञानम् अपोह्यम् अस्ति कथं तद् अपोह्यम्? अतथ्योदकविषयत्वात् । यद्य् अतथ्योदकविषयत्वम्, कथं तद् अपनीयते ऽतथ्योदकाकारस्य स्वेन रूपेण विद्यमानत्वान् मधुरोदकदीर्घोदकाकारवत्? अथ तत्र मधुरोदकं विद्यते, स्वेन रूपेण प्रतीयमानत्वात्, तद् इहाप्य् उदकं प्रतीयतोदकं गृह्णामीति व्यवहारदर्शनात् । सत्यम्, प्रतिभात्य्, अतथ्यं तु प्रतिभाति ।
४।२१ अतथ्यता का? किं प्रतीयमानस्याभावो ऽथ प्रतीयमानैवाभावः?
४।२११ यदि प्रतीयमानस्याभावः, सो ऽत्र नावाभात्य्, उदकाकारैवावभाति ।
४।२१२ अथ प्रतीयमानैवाभावः सो ऽप्य् अनुपपन्नैव । न हि भावाकारे प्रतीयमाने ऽभावकल्पना युक्ता । अन्यथा रसाकारे प्रतीयमाने रूपाकारः परिकल्पयितव्यः । ततश् चालूनविशीर्णं जगत् स्यात् । यदि चाभावः प्रतिभाति, कथं तद् उदकज्ञानं मिथ्याज्ञानं चोच्यते ऽभावविषयस्य स्वेन रूपेण विद्यमानत्वात्?
४।२२ तद् एतद् उदकज्ञानम् उदकं विषययत्य् उदकाभावम् आत्मानं न किञ्चिद् वा ।
४।२२१ तद् यद्य् उदकं विषययति, तदा न तस्य मिथ्यात्वं मधुरोदकसंवेदनस्येव । तत्र तथ्योदकं प्रतिभाति । किं यत् प्रतिभाति तत् तथ्योदकम्, आहो यत् तथ्यं तत् प्रतिभाति? तद् यदि यत् प्रतिभाति तत् तथ्यम्, इहाप्य् उदकं प्रतिभाति, प्राप्ता तस्यापि तथ्यता ।
अथ यत् तथ्यं तत् प्रतिभाति, तस्य तथ्यता कथं ज्ञायते? किं प्रतीत्यान्यथा वा? यदि प्रतीत्या, इहापि प्रतीतिर् उत्पद्यते । अस्तु तथ्यता । अथ प्रतीतिम् अन्तरेण तथ्यतोपपाद्यते, तदा सुस्थितानि वस्तूनि । सर्ववादसिद्धिः स्यात् । अथ प्रतीयते यदि नाम बाध्यते । प्रतीयते बाध्यते चेति चित्रम् । प्रतीयमानत्वं च जनकत्वाकारार्पकत्वेन व्याप्तम् । यच् च न जनयति नाकारम् अर्पयति तन् नावभाति यथा रूपज्ञाने रसः । प्रतीयते चात्रोदकम्, जनकत्वाकारार्पकत्वोपपत्तिः । तदुपपत्तौ च न बाधोपपत्तिर्, जनकत्वाकारार्पकत्वस्य सत्त्वनिबन्धनत्वात् ।
४।२२२ अथाभावं विषययति, न तर्ह्य् उदकज्ञानरूपताभावगृहीतिरूपत्वात् । नापि तस्य मिथ्यात्वम् अभावविषयस्योपपत्तेः । न च सौगतमते ऽभावे कश्चिद् विषयार्थोपपद्यते जनकत्वाकारार्पकत्वव्यतिरेकात्। उदकाकारो हि प्रतीत्युत्कलितः । तदभावश् चाप्रातीतिकेहोपपाद्यते मुग्धबौद्धैः ।
४।२२३ अथात्मविषयम्, तथापि व्यभिचारिता नोपपद्यते, स्वांशस्यावञ्चनात् । न हि ज्ञानम् आत्मानं विसंवदति । नापि तद् उदकज्ञानत्वेन व्यपदेश्यं रागादिसंवेदनवत् । न हि नीलाभं संवेदनं रसविज्ञानात्मकत्वेन व्यपदिश्यमानं दृष्तम् ।
४।२२४ अथ निर्विषयम्, न तर्हि तद् उदकज्ञानम्, उदकज्ञानतया तु प्रतिभाति, तेन जानीम न निर्विषयम् । यदि च निर्विषयम्, कथं तन् मिथ्याज्ञानम्? ज्ञानमात्रानुरोधेन न मिथ्याज्ञानं नापि सम्यग्ज्ञानम् । न च भवतां पक्षे ज्ञानं निरालम्बनम् अस्ति स्वांशपर्यवसितत्वात् ।
४।२३ विज्ञानस्य व्यभिचारिता किं स्वसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन?
४।२३१ तद् यदि स्वसत्तानुरोधेन, तदा सर्वविज्ञानानां व्यभिचारिता प्राप्नोति ज्ञानरूपतायाः सर्वत्र भावात् । न किञ्चिद् विज्ञानम् अव्यभिचारि स्यात् ।
४।२३२ अथ परसत्तानुरोधेन व्यभिचारितोच्यते, किम् अनुपकारकपरसत्तानुरोधेनाहोपकारकपरसत्तानुरोधेन? तद् यद्य् अनुपकारकपरसत्तानुरोधेन व्यभिचारिता, तदा सर्वसंवित्तीनां व्यभिचारिता प्राप्नोत्यनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन व्यभिचारिताभिधीयते, किं करणभूतपरोपकारकसत्तानुरोधेनाहो कर्मतापन्नोपकारकपरसत्तानुरोधेन? तद् यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां मिथ्यात्वम् आपद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मकारकोपकारकपरसत्तानुवेधेन मिथ्यात्वम्, तद् अयुक्तम्, न तस्य मिथ्यात्वं सत्योदकज्ञानस्येव कर्मकारकेणोपक्रियमाणत्वात् ।
४।२४ तथा सम्यग्ज्ञानत्वम् अपि क हम्? किं ज्ञानसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन?
४।२४१ तद् यदि ज्ञानसत्तामात्रानुरोधेन सम्यक्त्वम्, तदा सर्वसंवित्तीनां सम्यक्त्वं प्राप्नोति ज्ञानाकारस्योपपत्तेः ।
४।२४२ अथ परसत्तानुरोधेन सम्यक्त्वम्, तदा किम् अनुपकारकपरसत्तानुरोधेन किं वोपकारकपरसत्तानुरोधेन? तद् यद्य् अनुपकारकपरसत्तानुरोधेन सम्यक्त्वम्, तदा सर्वासां संवित्तीनां सम्यक्त्वम् आपद्यते ऽनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन किं करणभूतपरोपकारकसत्तानुवेधेनाहो कर्मतापन्नोपकारकपरसत्तानुवेधेन? तद् यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां सम्यक्त्वम् आपद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मतापन्नोपकारकपरसत्तानुवेधेन सम्यक्त्वम् अभिधीयते, तदा रागादिसंवेदनस्य सम्यक्त्वं न प्राप्नोत्य्, अतीतानागतार्थविषयत्वे योगिज्ञानस्य च ।
४।२५ यत् तद् व्यभिचारि ज्ञानम्, तत् किं व्यभिचारिभूतेनोपादानज्ञानेन जन्यताहो ऽव्यभिचारिभूतेनोपादानज्ञानेन जन्यते?
४।२५१ तद् यदि व्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तद् अपि व्यभिचारिभूतेन, प्राप्ता व्यभिचारिपरम्परा । सङ्ग्राह्यम् अव्यभिचारि न लभ्यते ।
४।२५२ अथाव्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तद् उपादानकारणम् अनुकुर्वद् वोपजायते ऽननुकुर्वद् वा । तद् यद्य् उपादानकारणानुकारेणोत्पाद्यते, तदा किम् आप्नोति? अव्यभिचारिस्वरूपानुकारेणोत्पाद्यते । कथम्? अव्यभिचारस्य ज्ञानतादात्म्येन व्यवस्थितेः । न चैकदेशानुकारित्वम् अस्त्य् उपादानकारणस्य निरवयवत्वात् । एवं सर्वं विज्ञानम् अव्यभिचारि प्रसक्तम्, अपोह्यज्ञानानुपपत्तिः । न च व्यभिचाराव्यभिचारौ ज्ञानाद् व्यतिरिक्तौ स्तः । यथा रसाकारो रूपाकारो वा ज्ञानाकाराद् भिन्नो, न तथा व्यभिचाराव्यभिचारौ ज्ञानाद् व्यतिरिक्तौ । ततश् च व्यभिचाराकारो ऽत्र निराक्रियते किम् उक्तं भवति? ज्ञानाकारो ऽत्र निराक्रियते । ततश् चाज्ञानात्मकं प्रत्यक्षं प्रसक्तं सौगतानाम् ।
४।२५आपि च यथा रूपेणोपादानभूतेन जन्यते रूपम्, तथा ज्ञानम् अप्य् उपादानभूतेनैव जन्यते । यैव तस्य रूपोत्पादनात्मा, सैव तस्य ज्ञानोत्पादने ऽपि । न हि तस्य ज्ञानोत्पादनात्मान्यत्वम् ।
अथ निमित्तभूतेन ज्ञानम् उत्पाद्यतोपादानभूतेन रूपम् इति चेत्, तत् कथम् एकस्यानेकाकारयोगितोपपद्यते? न च सञ्ज्ञान्यत्वे मेयाद्यन्यत्वम् उपपद्यते । रूपवद् विज्ञानस्यापि रूपरूपता प्राप्नोति । तत्प्राप्तौ च न परलोक्य् आत्मा । तदभावान् न परलोकः । इदम् एव चेतसि समारोप्याह भगवान् बृहस्पतिः परलोकिनो ऽभावात् परलोकाभावः ।
अथ रूपोपादानजन्यत्वे ऽपि ज्ञानरूपतैव, रूपस्यापि ज्ञानरूपता प्राप्ता रूपोपादानजन्यत्वाज् ज्ञानवत् । अथ ज्ञानं ज्ञानेनोपादानभूतेन जन्यते, रूपम् अपि तेनैव जन्यते । न हि तस्य रूपोत्पादनात्मान्यत्वम् । एवं च
तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः। तद् रूपादि किम् अज्ञानं विज्ञानाभिन्नहेतुजम्॥
अथ रूपोपादानजन्यत्वे ऽपि विज्ञानस्य न रूपात्मता, तथा ज्ञानोपादानजन्यत्वे ऽपि विज्ञानस्य न ज्ञानरूपताटतश् च नैरात्म्यप्रसङ्गः । अथ ज्ञानोपादानजन्यत्वे ज्ञानाकारपरिकल्पना, तथा रूपोपादानजन्यत्वे रूपाकारातालोकोपादानजन्यत्वे चालोकाकारता प्राप्नोति । ततश् चाकारकदम्बात्मकं ज्ञानं प्रसक्तम् । अनिष्टं चैतद् अद्वयरूपत्वेनाभ्युपगमात् ।
४।२५ब् यत् तद् रूपोत्पाद्यं विज्ञानम्, तत् किम् एकदेशेन रूपोत्पाद्यत्वेन स्थितं सर्वात्मना वोत्पाद्यत्वेन पर्यवसितम्? तद् यद्य् एकदेशेन स्थितम्, तद् अयुक्तम्, अखण्डस्यैकदेशविरहात् । अथ सर्वात्मना रूपोत्पाद्यत्वेन पर्यवसितम्, तदा विज्नानोत्पाद्यं न प्राप्नोति, यथैककारकसमूहोत्पाद्यत्वेन पर्यवसितस्य कार्यस्य सङ्घातान्तरोत्पाद्यत्वं न दृष्तम् । ततश् च विज्ञानसङ्घातानुपपत्तिः ।
४।२५च् तथा रूपम् अपि ज्ञानम् एकदेशेन कुर्यात् सर्वात्मना करणपर्यवसितं वा । तद् यद्य् एकदेशेन करोति, तद् अयुक्तम्, अखण्डस्यैकदेशायोगात् ।
अथ सर्वात्मना करोति, तदा रूपं सर्वात्मना विज्ञानकरणे पर्यवसितं न रूपान्तरकरणे प्रवर्तते । यथैककारकसामग्र्य् एककार्योत्पादनपर्यवसिता कार्यान्तरसवित्री न भवति, तथा रूपम् अपि रूपान्तरोत्पादकं न भवति । ततश् च रूपान्तरस्याकस्मिकत्वम् । तदाकस्मिकत्वे कार्यानुमानं विलुप्यते सौगतानाम् । अथानेककार्योत्पादकत्वेन पर्यवसितं रूपस्वरूपम्, तदा घटसङ्ख्यासामान्यादेर् अप्य् अनेकाधिकरणाश्रितात्मकं रूपम्, वृत्तिविकल्पदोषानुपपत्तिः ।
द्।१ इतो ऽपि वृत्तिविकल्पदोषानुपपत्तिर् वृत्तिविकल्पदोषेण वृत्तेर् एव निराकरणं कृतम्, न घटसङ्ख्यासामान्यादेस्, ततो ऽन्यत्वात् । न ह्य् अन्यस्याभावे ऽन्यस्याभावो ऽस्त्य् असम्बन्धात् । न ह्य् अनुदकः कमण्डलुर् इत्य् उक्ते कमण्डलोर् अभावः प्रतीयते, कपालानां तदुदकस्य वा, अपि तु कमण्डलुना साकम् उदकस्य विश्लेषमात्रं प्रतीयते । ननु नैयायिकैर् वृत्तिमद् घटसामान्यम् अभ्युपेयते । तदभावे कथं तस्य संस्थितिः? यद्य् एवं रूपरसविज्ञानानाम् अपि वृत्तिर् अभ्युपेयते नैयायिकैस्, तदभावे ऽपि सद्भावो ऽभ्युपगम्यते तेषां भवद्भिः । अथ तानि प्रतिभान्ति वृत्त्यभावे ऽपि, तेन तेषाम् अभ्युपगमः क्रियते । यद्य् एवं घटसङ्ख्यासामान्यादेर् अपि स्वरूपं प्रतिभात्य् अभिन्नानुगतात्मतया । न चानुभूयमानस्य निह्नवो युक्तः सर्वापलापप्रसङ्गात्
। अनुपलब्धौ वा सैव समर्था, अतं वृत्तिविकल्पदोषेण । यद्य् उपलभ्यते, तदा वृत्तिविकल्पदोषो न वक्तव्यः । अथ
नोपलभ्यते, तथापि न वक्तव्यः ।
द्।२ यद् अप्य् उक्तं देशभेदेनाग्रहणाद् घटसामान्यानुपपत्तिस् तद् अप्य् अयुक्तम् । न देशभेदेन वस्तूनां भेदो, ऽपि त्व् आकारभेदेनाभिन्नानुगतात्मतया तयोः स्वरूपम् अनुभूयते । न देशभेदाग्रहणेन स्वावयवाधिकरणेन सह तयोस् तादात्म्यं सिध्यत्य् असत्त्वं वा । यद्य् आकारभेदेन ग्रहणम्, तदा देशभेदेनाग्रहणस्याप्रयोजकत्वम्, आकारभेदग्रहणेन स्वरूपान्यत्वस्य प्रबोधितत्वात् । अथाकारान्यत्वेन नावबोधो ऽस्ति, सैवास्त्व् असद्व्यवहारसमर्थत्वात् । किं देशभेदाग्रहणेन? स्वहेतोर् एव नियतदेशकालनियमितस्योत्पत्तेर् न देशान्तरादौ ग्रहणम् । अन्यथा रूपादेर् असत्त्वं स्याद् इतरेतरदेशलग्नस्याग्रहणात् ।
द्।३ यद् अप्य् उक्तं नास्ति घटसामान्यं तदग्रहे ऽग्रहात् । किम् अनेन क्रियते? किम् अवयवाधिकरणाव्यतिरेकप्रतिपादनम् आहो ऽसत्त्वप्रतिपादनम्? तद् यद्य् अव्यतिरेकप्रतिपादनं क्रियते, कस्यात्र पक्षीकरणम्? किं घटसामान्यस्याहो तदवयवाधिकरणस्य? तद् यदि घटसामान्यस्य पक्षीकरणम्, तत् किम् अवगतस्यानवगतस्य वा? तद् यद्य् अनवगतस्य, तद् अयुक्तम् । न ह्य् अनवगते धर्मिणि हेतोर् उत्थानम् अस्ति । न चाश्रयवैकल्ये गमकत्वम् । अथावगतस्य, तदा तेनैव भिन्नाकारावगमेनाव्यतिरेकप्रत्यायकसाधनं बाध्यते । अथ तदवयवाधिकरणस्य पक्षीकरणम्, तत्रापि किं स्वस्मात् स्वरूपाद् अव्यतिरेकः साध्यताहो परस्माद् इति?
यदि स्वस्मात् स्वरूपाद् अव्यतिरेकः साध्यते, सिद्धसाध्यतया सम्बोधयितव्याः । अथ परस्माद् अव्यतिरेकः साध्यते, स परात्मा प्रतिपन्नो ऽप्रतिपन्नो वा? यदि प्रतिपन्नः, स किं भिन्नाकारतयावगतो ऽभिन्नाकारतया वा?
तद् यदि भिन्नाकारतयोपलब्धस्, तदानेनैव भिन्नाकारावगमेनाभेदप्रत्यायकं साधनं बाध्यते । अथाभिन्नाकारतयावगतो, न तर्हि परात्मा । इदानीं स्वस्मात् स्वरूपाद् अव्यतिरेकः साध्यतेति सिद्धसाध्यतया सम्बोधयितव्याः । अथानवगतो, न तर्ह्य् एकत्वं रथतुरगविषाणयोर् इव । अथाभावः साध्यस्, तत्रापि कस्य पक्षीकरणम्? किं घटसामान्यस्याहो तद् अवयवाधिकरणस्य? तद् यदि घटसामान्यस्य पक्षीकरणम्, तत् किम् अवगतस्यानवगतस्य वा? यद्य् अवगतस्य, तदा तेनैव सद्भावावगमेनाभावहेतोर् बाध्यमानत्वाद् अगमकत्वम् । अथ नावगतम्, कथं तस्य पक्षीकरणं स्वयम् अनवगतस्य पक्षीकरणायोगात्? अथावयवाधिकरणस्य पक्षीकरणं घटसामान्यं नास्तीति प्रतिज्ञा तदग्रहे ऽग्रहाद् इत्य् अस्य हेतोस् तदभावेन सह सम्बन्धो नास्ति ।
तादात्म्यतदुत्पत्तिसम्बन्धाभावे सति कथं गमकत्वम्? तदग्रहे ऽग्रहाद् इत्य् अस्य को ऽर्थः? किम्
अवयवाधिकरणग्रहणम् एव घटसामान्यस्य ग्रहणम् आहो ऽवयवाधिकरणग्रहणानन्तरं घटसामान्यस्य ग्रहणं किं वा घटसामान्यस्याग्रहणम् एव विवक्षितम्? तद् यद्य् अवयवाधिकरणग्रहणम् एव घटसामान्यस्य ग्रहणं विवक्षितम्, तदा नानेनाव्यतिरेको ऽन्यतरासत्त्वं वा प्रतिपाद्यते । यथा नीलतद्धियोर् एकोपलम्भे ऽपि नान्यतराभावो ऽव्यतिरेको वा, तथा नीललोहितयोर् एकोपलम्भे ऽपि नान्यतराभावो ऽव्यतिरेको वा । अथावयवाधिकरणग्रहणानन्तरं घटसामान्यग्रहणं विवक्षितम्, तदा नानेनाव्यतिरेकः साध्यते ऽन्यतरासत्त्वं वा । यथा रूपग्रहणानन्तरं रससंवेदनं न तयोर् एकतां गमयत्य् ऽन्यतरासत्त्वं वा । अथाग्रहणम् एव विवक्षितं घटसामान्यस्य, तदा तदग्रहे ऽग्रहाद् इत्य् एतन् न वक्तव्यम् । अग्रहाद् इत्य् एतावद् अस्तु । न
ह्य् अन्यस्याग्रहे तदनुपलम्भसिद्धिस् तत्स्वभावविनिवृत्तिनिबन्धनत्वात् तदनुपलम्भस्य । न चायं
व्यतिरेकार्थो लभ्यते तदग्रहे ऽग्रहाद् इत्य् अस्य हेतोर् घटसामान्यस्याग्रहणम् एव, अपि त्व् अवयवाधिकरणग्रहणानन्तरं घटसामान्यस्य ग्रहणं लभ्यते । ततश् च विपरीतसाधनाद् विरुद्धो भवति ।
द्।४ यद् अप्य् अभ्यधाय्य् एकपिण्डग्रहणकालोपलब्धिलक्षणप्राप्तस्यानुपलब्धेर् नास्ति सामान्यम् । कैवम् आह नोपलब्धं सामान्यम्? अपि तूपलब्धम् एव । कथम् ज्ञायते? द्वितीयादिपिण्डदर्शने सति पूर्वे पिण्डे स्मृतिदर्शनाद्, अनेन सदृशो ऽसाव् एवम् अनुस्मरति । अथवैकपिण्डग्रहणकाले तद् उपलब्धिलक्षणप्राप्तं न भवति तेन नोपलभ्यते । उपलब्धिलक्षणप्राप्तिर् इहानेकसहकारिपिण्डोपनिपातः । यदि चोपलब्धिलक्षणप्राप्तम्, कथं नोपलभ्यते? अथ नोपलभ्यते, न तर्ह्य्।उपलब्धिलक्षणप्राप्तम् । उपलब्धिलक्षणप्राप्तिर् इह प्रत्ययान्तरसाकल्यं स्वभावविशेषश् च । एतच् चेद् विद्यते कथम् अनुपलब्धिः? एवम्भूतस्याप्य् अनुपलम्भे परिकल्प्यमाने सर्ववस्तूनाम् अनुपलम्भप्रसङ्गः । उपलब्धौ वान्यत् कारणम् अन्वेष्टव्यम् । अथ प्रत्ययान्तरसाकल्यमात्रं विवक्षितम्,
न तत्स्वभावविशेषः । यद्य् एवम् अदृश्यस्यैवानुपलब्धिर्, न दृश्यानुपलब्धिर् अस्ति । यदि
चान्यकारकसाकल्यम् उपलब्धिलक्षणप्राप्तिर् अभिधीयते, तदाप्य् उपलब्ध्या भवितव्यं नानुपलब्ध्या । इतरकारकसाकल्यं ह्य् उपलम्भजननसामर्थ्यम् । तच् चेद् विद्यते, कथम् अनुपलब्धिः? तस्माद् अनुपलब्धिलक्षणप्राप्तस्यैवानुपलब्धिर्, नोपलब्धिलक्षणप्राप्तस्य ।
द्।५ यद् अप्य् उवाच क्षीरोदकवद् विवेकेनाग्रहणान् नास्ति सामान्यं तद् अप्य् अयुक्तम् । विवेको ह्य् आकारान्यत्वं व्यक्तीनाम् अननुगमरूपता, सामान्यं त्व् अनुगताकारम् अनयोः सारूप्यं तैः सह सारूप्यम् अस् येति विविक्ताकारावगमदर्शनात् । तथा क्षीरोदकयोर् अपि विविक्तम् एव ग्रहणम् । तत्र क्षीरोदकयोर् एकभाजननिक्षेपे सति, किं केवलं क्षीरं प्रतिभात्य् आहोदकम् उभयं वा? तद् यदि क्षीरम् एव प्रतिभाति, कथं तद् उदकाकारान् न विविक्तं भवति? अथोदकं केवलं प्रतिभाति, तद् अपि कथं क्षीरान् न विविक्तं भवति? अथोभयं प्रतिभाति, तदोभयोर् इतरेतराकारविविक्तयोर् ग्रहणं तादात्म्यव्यतिरेकात् ।
द्।६ यद् अप्य् अन्यद् उक्तम् एकत्र दृष्टो भेदो हि क्वचिन् नान्यत्र दृश्यते। न तस्माद् भिन्नम् अस्त्य् अन्यत् सामान्यं बुद्ध्यभेदतः॥ इत्य् एतद् अप्य् अयुक्तम् । एकत्र दृष्टस्य भेदस्यान्यत्र दर्शनम् अस्त्य् एव । यथा घटवस्त्रादेर् एकावयवोपरिदृष्टस्यावयवान्तरलग्नस्योपलम्भस्, तथा सामान्यम् अपि भिन्नम् अस्त्य् अनुगताकारस्य बुद्धिभेदेनाध्यवसीयमानत्वात् ।
द्।७ यद् अप्य् अन्यद् उक्तं नित्यस्य क्रमेतराभ्याम् अर्थक्रियाकरणसामर्थ्यं नास्तीत्य् असत् सामान्यम्, तद् एतद् अयुक्तम् । उभयथाप्य् अर्थक्रियासम्पादनम् उपपद्यते युगपत् क्रमेण च । ननु क्रमकर्तृत्वम् अभिन्नस्य नोपपद्यते, कार्यस्यैककालीनता प्राप्नोति । एतच् चासमीचीनम् । यथा भवतां पक्षैकं नीलस्वलक्षणम् अनेकाकारकार्यं नियतदेशसम्बन्धि जनयति नयनालोकमनस्कारादिरूपम्, न च कार्याणाम् एकाकारतैकदेशसम्बन्धिता वा विद्यतैकस्वभावसमुद्भवत्वे ऽपि, तथेहाप्य् एवम्भूतं । तत् सामान्यं यत् क्रमेतराभ्यां कार्योत्पादात्मकम् । ननु यदि क्रमेण कार्यं करोति, तदा तद् एव जनकं तद् एव चाजनकम् । सत्यम्, तद् एव जनकं तद् एव चाजनकम् । ननु जनकाजनकयोर् भेदप्रसङ्गः । न प्रसङ्गो ऽस्ति । यथा त्वदीये पक्षैकं नीलस्वलक्षणं स्वकार्यापेक्षया
जनकम्, स्वकारणात्मापेक्षया त्व् अजनकम्, न तस्य स्वरूपभेदो ऽस्ति । अथ
स्वकारणम् आत्मानं च जनयति, तद् अयुक्तम् । तद् आत्मानं कुर्वद् उत्पन्नं वा कुर्याद् अनुत्पन्नं वा ।
तद् यद्य् उत्पन्नं करोति, तद् अयुक्तम्, कृतस्य करणायोगात् । अथानुत्पन्नं करोत्य् असतः कः कारकार्थः? तथा स्वकारणम् अपि न जनयतीतरेतराश्रयत्वदोषप्रसङ्गात् । अतस् तद् एव कारकं तद् एव चाकारकम् इति तथा सामान्यम् अपि जनकम् अजनकं च । न चार्थक्रियाकर्तृत्वाभावे ऽसत्त्वं सिध्यति । यथा वह्नेर् अयोगोलकाङ्गारावस्थायां धूमोत्पादकत्वाभावे ऽपि न निवर्तते वह्निरूपता, स्वहेतोर् एव तथाभूतस्योत्पत्तेर् वह्निस्वभावस्य धूमाजनकात्मकस्य च, तथान्यद् अपि कार्यं स्वहेतुनोत्पादितं यद् वस्तुस्वभावं कार्याजनकात्मकं च । तथा सामान्यम् अपि वस्तुभूतं न च कार्यम् उत्पादयति । ननु यदि कार्यं नोत्पादयति, तद् अस्तीति कथं वेत्सि? तदुपलब्ध्या । ननु तदनुत्पाद्या कथं तद्गृहीतिर् भवति? स्वहेतुसामर्थ्यनियमितायास् तद्गृहीत्यात्मतयोत्पत्तेः । न च
तदुत्पाद्यत्वेन तद्गृहीतित्वम्, चक्षुरादेर् अपि संवेद्यत्वप्रसङ्गात् । न च
विषयाकारयोगित्वेन तद्गृहीतित्वं विज्ञानात्मताव्यतिरेकेण विषयाकारसमावेशायोगात् । यो ऽसाव् आकारो विषयार्पितः, स किं ज्ञानाकाराद् भिन्नो ऽभिन्नो वा? यदि भिन्नः, स तात्त्विको ऽतात्त्विको वा । यदि तात्त्विकस्, तद्गतिः कथम्? किं स्वसंवेद्यत्वेनाहो जनकत्वाकारार्पकत्वेन? तद् यदि स्वसंवेद्यत्वेन, तद् अयुक्तम्, अविज्ञानात्मतया स्वसंवेद्यत्वायोगात् । अथ जनकत्वाकारार्पकत्वेन, तदा प्राप्ताकारपरम्परा । अथातात्त्विकस्, तद्गतिर् नोपपद्यते स्वसंवेद्यत्वजनकत्वव्यतिरेकात् । अथाव्यतिरिक्तः, स तात्त्विको ऽतात्त्विको वा । यदि तात्त्विकः, स जडात्मा तद्विपरीतो वा । यदि जडात्मा, न तर्हि चिता सह तादात्म्यम् । चिदचितोस् तादात्म्यानुपपत्तिः । अथ तद्विपरीतस्, तदा ज्ञानमात्रता स्यात् । ज्ञानरूपता च सर्वज्ञानसाधारणा प्रतिकर्मव्यवस्थानुपपत्तिः । अथातात्त्विकस्, तदा ज्ञानस्याप्य्
अतात्त्विकत्वं प्राप्नोति । यदि च विज्ञानतादात्म्येनाकारोत्पत्तिर् भवति, विज्ञानं
सर्वकारकनिष्पाद्यत्वेन साधारणं प्रतिकर्मव्यवस्थानुपपत्तिः । एवं च सति यद् उक्तम्
अर्थेन घटयत्य् एनं न हि मुक्त्वार्थरूपताम्। तस्माद् अर्थाधिगतेः प्रमाणं मेयरूपता॥
तन् मुग्धविलसितं सौगतानाम् ।
द्।८ तद् एवं वृत्तिविकल्पादिदूषणं सामान्यादौ न सम्भवति यथैकं रूपम् अनेककार्योत्पादकत्वेन साधारणम्, तथैकं सामान्यम् अनेकाधारसाधारणम् । अथैकं रूपं नानेकं कार्यं जनयत्य्, अपि त्व् एकम् एव, तत्रापि किं रूपम् एव केवलम् उत्पादयत्य् उत ज्ञानम् एव? तद् यदि रूपम् एव केवलम् उत्पादयति, तदा रूपस्याग्रहणं प्राप्नोति विज्ञानाजननात् । अथ ज्ञानम् एव केवलम् उत्पादयति, तथापि मानसं प्रत्यक्षं न प्राप्नोति । स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन यज् जन्यते, तन् मानसं प्रत्यक्षम् । न च स्वविषयानन्तरभावी विषयोऽस्ति रूपान्तराजननात्६टस्माद् एकम् एव रूपं विज्ञाननीलादिकार्यसाधारणं प्रतिपत्तव्यम् । चक्षूरूपालोकादीनि कारणानि विज्ञानम् उत्पादयन्ति, तानि किम् एकस्वभावयुक्तान्य् आहो नियतस्वभावयुक्तानि?
तद् यद्य् एकस्वभावतयोत्पादयन्ति, तदा कारकैकत्वं प्राप्नोत्य् अभिन्नस्वभावयोगित्वात् ।
अथ नियतस्वभावयुक्तानि ज्ञानरूपं कार्यं जनयन्ति, तदा विज्ञानस्याभेदरूपता निवर्तते नियतस्वभावकारकजन्यत्वाद् रूपशब्दादिवत् । अथ विविधाद् अपि कारणाद् अखण्डितरूपं कार्यं भवति । एवं च कार्यभेदाद् भिन्नकारणानुमानं निवर्तते । एकस्वभावाद् अपि विज्ञानाद् अनेकं नयनालोकादिकार्यम् उत्पद्यते । अनेकस्माद् अप्य् एकं भवति । एवं च सति नियतकार्यदर्शने नियतकारणानुमानं निवर्तते । अथैकस्माद् एव कारणाद् एकं कार्यं भवति न बहूनां सङ्कलितानाम् एकफलोत्पादकत्वम् । ततश् च नियतकार्यदर्शने नियतकारणानुमानं केन निवार्यते? तद् एतद् असमीचीनम् । यद्य् एकं कारणम् एकं कार्यं जनयति तदाभ्युपगमविरोधश् चतुर्भ्यश् चित्तचैत्ता भवन्ति बोधाद् बोधरूपता विषयाद् विषयाकारतेत्यादि । एकम् एव जनयति, किं समानजातीयत्वेनाहो
तदाकारत्वेन किं वा पूर्वापरकालभावित्वेन? तद् यदि
समानजातीयत्वेन जनकत्वम्, तदा समानजातीयं पश्चाद् उत्पन्नम् अपि जनयेत् । अथ तदाकारानुकारित्वेन जनकम्, तत्राप्य् एतद् एव दूषणम् । अथ पूर्वापरकालभावित्वेन जनकम्, न तर्हीदं वक्तव्यम् एकम् एव जनकं चक्षूरूपालोकमनस्काराणां पूर्वकालभावित्वाविशेषात् । एवं चानेकोपादानोत्पाद्यत्वेनाकारकदम्बकस्वरूपं विज्ञानं प्रसक्तम् । रूपाद्याकारपरिहारे वा विज्ञानाकारस्याप्य् अनुपपत्तिः । तदनुपपत्तौ नैरात्म्यप्रसङ्गः । किं च ज्ञानं कार्यैकस्वभावं कारणैकस्वभावम् उभयस्वभावं वा । तद् यदि कारणैकस्वभावम्, तदा कार्यरूपता न सम्भवति । तदभावे न वस्तुत्वं संस्कृतानां वस्तुत्वाभ्युपगमात् । नापि कारणरूपतोपपद्यते ऽनाधीयमानातिशयत्वेन जनकत्वायोगात् । अथकार्यैकस्वभावम्, तथापि न सदात्मकम्
अर्थक्रियाकरणे वस्तुत्वविरहात् । अथोभयात्मकम् । एकम् अनेकात्मकं भवति । केन
त्वं विप्रलम्भितः? न ह्य् एकस्यानेकनामकरणे नानातोपपद्यते । न चानेकनामकरणम् उपपद्यते निमित्तस्याविचित्रत्वात् । एवं विज्ञानस्यासम्भवे सति सन्तानानुपपत्तिर् अभ्रान्तभ्रान्तद्वैतस्यानुपपत्तिश् च ।
ए।१ इतो ऽपि सन्तानस्यासिद्धिर् विज्ञानस्यैकत्वात् । तदेकत्वं चाकारान्तरस्यानुपपत्तेः । उपपत्तौ वा ज्ञानाकारविरहप्रसङ्गः । तत्प्रसक्तौ च सन्तानानुपपत्तिः ।
ए।२ इतो ऽपि विज्ञानसन्तानानुपपत्तिर् विज्ञानम् असद्धर्मात् सदात्मतया निवर्तते, स्वरूपान्तरात् तु कथं व्यावर्तते? किं सदात्मतयाहाकारान्तरेण? तद् यदि सदात्मतया व्यावर्तते, तदा रूपादेर् असदाकारता प्राप्नोति वाजिविषाणयोर् इव । अथाकारान्तरेण निवर्तते, तदा ज्ञानस्यासत्स्वभावता प्राप्नोति तुरगविषाणवद् इत्य् अथ विज्ञानाकारतया निवर्तते रूपादिभ्यो विज्ञानम्, सा विज्ञानाकारता सत्स्वभावासत्स्वभावा वा तद् यदि सत्स्वभावा, तदा ज्ञानाकारतया निवर्ततेति किम् उक्तं भवति? सदात्मतया निवर्तते विज्ञानसदाकारयोर् अव्यतिरेकात् । ततश् च रूपादेर् असदाकारता प्राप्नोति तुरगविषाणवद् इति पूर्वोदितम् एव दूषणम् आपद्यते । अथासत्स्वभावा, तदा खरविषाणवद् विज्ञानरूपतां परित्यजति । त्यागे विज्ञानसन्तानानुपपत्तिः । तदनुपपत्तौ चैत्यवन्दनादिक्रियानर्थक्यम्
।
ए।३ इतो ऽपि विज्ञानसन्तानानुपपत्तिस् तदुत्पादकविज्ञानस्य पूर्वापरसहोत्पन्नविज्ञानं प्रति स्वरूपाविशेषात् । यद् एव पूर्वसहोत्पन्नविज्ञानापेक्षया स्वरूपं तद् एवापरविज्ञानापेक्षयापि स्वरूपं विज्ञानस्य निरवयवत्वेन । ततश् च यथा पूर्वसहोत्पन्नविज्ञानस्य हेतुर् न भवत्य्, एवम् अपरविज्ञानस्यापि हेतुर् न भवति तत्स्वरूपव्यतिरिक्तव्यापारातिशयस्यानुपलब्धेः । अथ पूर्वकालभावैवातिशयस् तेन तस्य हेतुत्वम् उपपाद्यते । यद्य् एवं यथा देवदत्तज्ञानपूर्वकालभावि देवदत्तज्ञानं देवदत्तज्ञानकारणम्, तथा सर्वपुरुषज्ञानानां देवदत्तज्ञानपूर्वकालोत्पन्नानां देवदत्तज्ञानं प्रति हेतुत्वं प्रसक्तम् । तत्प्रसक्तावनेकद्वीपदेशान्तरितपुरुषानुभूतार्थानुस्मरणं स्यात् । तथा स्वजनभुजङ्गमादाव् अननुभूते ऽप्य् अर्थे ऽनुस्मरणं स्यात् । तथा
तथागतावदातज्ञानजन्यत्वे देवदत्तादिज्ञानानाम् अवदातता स्यात् ।
ततश् च सर्वे सर्वज्ञाः स्युः । अथ नैवावदातता देवदत्तादिज्ञानानां तथागतावदातज्ञानोपादानजन्यत्वे ऽपि देवदत्तादिज्ञानेनापि जनितत्वात्, तज्जन्यत्वेनैवतथागतज्ञानस्याप्य् अवदातरूपता न प्राप्नोति । ततश् चासाव् अप्य् अवीतरागः स्याद् असर्वज्ञश् च ।
ए।४ इतश् च सन्तानानुपपत्तिर् विज्ञानयोः सहोत्पादे हेतुफलभावानुपपत्तेः । यदैव कारणज्ञानं विनश्यति, तदैव कार्यज्ञानं जायतेति वः सिद्धान्तः । कारणज्ञानस्य च विनाशस् तदुत्पादैव । ततश् च कारणज्ञानविनाशकाले कार्यज्ञानं भवति किम् उक्तं भवति? कारणज्ञानोत्पादकालैव भवति । ततश् च सहोत्पन्नयोर् हेतुफलभावानुपपत्तिर् एककालोद्गतयोर् गोविषाणयोर् इव । कारणज्ञानस्य चानुत्पन्नस्योत्पत्तिवद् अनुत्पन्नस्य विनाशप्रसङ्गः । ततश् च क्षणम् अपि नोपलभ्येत । उपलब्धौ वा सततोपलम्भप्रसङ्गस् तदात्मभूतविनाशस्योपलम्भविघाताकर्तृत्वात् । विघातकर्तृत्वे वैकक्षणोपलम्भस्याप्य् अनुपपत्तिप्रसङ्गः । अथैकक्षणोपलभ्यस्वभावकं सञ्जातं तेन न सततोपलब्धिर् अनुपलब्धिर् वा । यद्य् एवं द्वादशाष्टक्षणोपलभ्यस्वभावकं
सञ्जातं किं न कल्प्यते? किं चोत्पादविनाशयोर् अभेदे सति कार्यकारणयोः समं विनाशः
स्यात् ।
ए।५ यद् अप्य् अन्यद् उक्तं मातुर् उदरनिष्क्रमणानन्तरं यद् आद्यं ज्ञानं तज् ज्ञानान्तरपूर्वकं ज्ञानत्वाद् द्वितीयज्ञानवत् । नासिद्धत्वाद् दृष्टान्तस्य । द्वितीयादिज्ञानस्यापि यथा ज्ञानपूर्वकत्वं नावगाहयितुं पार्यते, तथा प्राग् एवावेदितम् । किं च यदि ज्ञानत्वाज् ज्ञानपूर्वकत्वानुमानम्, न किलावबोधात्मककारणम् अन्तरेण बोधात्मकं कार्यम् उपपद्यते । एतच् चावद्यम् । अबोधात्मकाद् अपि नीलालोकलोचनादिकारणाद् उपजायते । तथा गर्भादौ यद् आद्यं विज्ञानम्, तद् भूतसङ्घाताद् एव भविष्यति, न ज्ञानान्तरं परिकल्पनीयम् । यस्यानन्तरं यद् भवति, तत् तस्य कारणम्, नापरिदृष्टसामर्थ्यम् । विज्ञानाभावे विज्ञानजन्याकारता निवृत्ता, न तु ज्ञानाकारता । यथेन्द्रियव्यापारम् अन्तरेणोपजायमाने मनोविज्ञानेन्द्रियजन्याकारता
निवर्तते, न तु ज्ञानाकारता । यदि च सदृशात् सदृशस्योत्पत्तिर् नियम्यते, तदा धूमेन
दहनानुमानं न प्राप्नोति, दहनस्य धूमसारूप्यम् अन्तरेणोपादानकारणत्वायोगात् । अथ रूपरूपता सारूप्यम् उभयोर् इति चेत्, तद् इहापि स्वलक्षणरूपता सारूप्यं भूतविज्ञानयोर्, अलं परलोकविज्ञानकल्पनया । अथ विज्ञानरूपता भूतानां न विद्यते तेन तेषाम् उपादानकारणत्वं नास्ति विज्ञानं प्रतीति चेद्, इहापि धूमरूपता नास्ति दहनस्य, नोपादानकारणत्वम् । तदभावे न दहनानुमानम् । तथानुभवज्ञानाद् अनुभवज्ञानस्यैव निष्पत्तिर् अभ्युपेयोपादानकारणानुकारित्वेन कार्यस्य निष्पत्त्यभ्युपगमात् । न चैकदेशानुकारित्वम् अस्ति तद्बीजस्याविचित्रत्वात् । अनुभवाकाराननुकार्।इत्वे च ज्ञानाकारताविरहः स्यात् । अनुकरोति च विज्ञानरूपतां तेन कथं नानुभवात्मकम्? तदुपपत्तौ च प्राप्तानुभवपरम्परेत्य् अलः स्मरणानुपपत्तिः । तदनुपपत्तौ
चानुमानज्ञानस्याप्य् अनुपपत्तिः । ततश् च सर्वव्यवहारविलोपप्रसङ्गः ।
(४।) एवं च न सन्तानसिद्धिर्, नापि सविकल्पकनिर्विकल्पकज्ञानद्वैराश्यम् अस्ति, नापि व्यभिचाराव्यभिचारद्वैविध्यम् उपपद्यते सौगते मते ।
[छप्तेर् ५: एxअमिनतिओन् ओफ़् मीमांसासूत्र १।१।४]
५। तथा सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षं तद् अपि प्रत्युक्तम् । कथम्? एतत् सूत्रं कदाचिल् लक्षणपरं कदाचिच् च कारकसङ्ख्याप्रतिपादनपरं कदाचिच् चानुवादपरम् ।
५।१(१) तद् यदि लक्षणपरम्, तदावबोधस्याव्यभिचारित्वं नावगन्तुं पार्यते नादुष्टकारणजन्यत्वेन नापि प्रवृत्तिसामर्थ्येन नापि बाधारहितत्वेन नान्यथा वा । सर्वं पूर्वोदितम् अनुस्मृत्य वक्तव्यम् ।
५।१२ नापीन्द्रियार्थसम्प्रयोगजत्वं विज्ञानस्यावबोधस्य चार्वाग्भागविदावगम्यते तदतीन्द्रियत्वेन तदायत् ततानढिगतेः । नापीन्द्रियजन्यत्वम् अवगन्तुं पार्यतेन्द्रियाणाम् अतीन्द्रियत्वाद् एव । अथावबोधान्यथानुपपत्त्या सन्निकर्षपरिकल्पना क्रियते । अवबोधस्यान्यथानुपपत्तिर् न भवति । कानुमा?
५।२ अथ कारकसङ्ख्यार्थम्, किं तेन परिसङ्ख्यानेन प्रयोजनम्? आलोकादीनाम् अपि कारकत्वात् तान्य् अपि परिसङ्ख्येयानि भवन्ति ।
५।३ अथानुवादपरता, प्रसिद्धस्यानुवादो नाप्रसिद्धस्य । न चाध्यक्षं क्वचिद् विदितम् । ननु लके विदितम् । न विदितम् इति ब्रूमो ऽव्यभिचारितयानवगतेः । नापि सत्सम्प्रयोगजत्वं विदितम् । ततश् च प्रत्यक्षानधिगतिः । तदनवगतौ चानुवादानुपपत्तिः ।
५।३एतो ऽप्य् अनुवादानुपपत्तिः प्रयोजनाभावात् । न हि प्रयोजनं विनानुवादः प्रवर्तत, ऽनूद्य क्वचित् किञ्चिद् विधीयते प्रतिषिध्यते वा । नन्व् अत्रापि धर्मं प्रति निमित्तत्वं प्रतिषिध्यते । तद् उक्तं धर्मं प्रत्य् अनिमित्तं प्रत्यक्षं विद्यमानोपलम्भनत्वात् सम्प्रयोगजत्वाच् च ।
तत्र किम् अन्यपदार्थावभासोत्पन्नं प्रत्यक्षं धर्मं प्रति निमित्तत्वेन प्रतिषिध्यते किं वा धर्मावभासोत्पन्नम् अनुत्पन्नं वा? तद् यद्य् अन्यपदार्थावभासोत्पन्नप्रत्यक्षव्यावृत्तिः क्रियते, तदाविप्रतिपत्त्या सम्बोधयितव्या जडमतयः ।
अथ धर्मावबोधकोत्पन्नप्रत्यक्षव्यावृत्तिः क्रियते, तदा विरोधेन प्रत्यवस्थेयो भवति । धर्मावबोधकोत्पन्नं प्रत्यक्षं न च धर्मनिमित्तम् इति व्याहतम् अपदिश्यते । अन्यथा चदनावचनजनितविज्ञानस्यापि धर्मावबोधकत्वेनत्पन्नस्यातन्निमित्तत्वं स्यात् । अथानुत्पन्नस्य धर्मावबोधकत्वं नास्ति, केनात्र प्रतिपद्यते यन् नोत्पन्नं तद् धर्मावबोधकम् ? नापि कमलदलावबोधकं स्वयम् असत्त्वात् ।
यद् अप्य् उक्तं सत्सम्प्रयोगजत्वाद् इति, तद् अप्य् अयुक्तम् । सत्सम्प्रयोगजत्वं यथा न भवति तथा प्राग् एवोक्तम् ।
५।३ब् यद् अप्य् अन्यद् उक्तं विद्यमानोपलम्भनत्वात् किल प्रत्यक्षं विज्ञानं विद्यमानम् अवबोधयति । यद्य् एवं न केवलं प्रत्यक्षम्, अपि तु सर्वप्रमाणोत्पादितं विज्ञानं विद्यमानावबोधकम् ।
अथ चदनाजनितं विज्ञानम् अविद्यमानकर्तव्यार्थावबोधकम् ।
यद्य् अविद्यमानम्, कथम् अवबोध्यते? अथावबोध्यते, कथम् अविद्यमानता? अवबोध्यमानत्वेनैव विद्यमानता प्रत्यक्षप्रमाणावबोधितार्थवद् इति नाप्य् अवबोधनम् अवबोध्यम् अन्तरेणोपजायते प्रत्यक्षावबोधनवत् । अपि च चोदनावचनजनितविज्ञानस्य मिथ्यात्वम् उपपद्यते ऽविद्यमानविषयत्वात् केशोण्डुकज्ञानवत् । केशोण्डुकविज्ञानस्यापि प्रतीयमानोपकारकार्थाभावे मिथ्यात्वम् । तद् इहापि प्रतीयमानोपकारकार्थो नास्त्य् एव, कथं न मिथ्यात्वम्? तदन्वये वा कर्तव्यार्थविषयत्वं प्रतिहीयेत चोदनावचसः ।
किं च चोदनाजनितं विज्ञानं कर्तव्यतार्थविषयं वा तदभावविषयं निर्विषयं वा । तद् यदि कर्तव्यतार्थविषयम्, तदा तस्य वर्तमानतैव प्रतीत्युत्कलितत्वाद् विद्यमानतोयादिवत् । तोयादेर् अप्रतीयमानत्वं स्वसत्ताधूमाद् अग्नौ सति जनकत्वादिना निमित्तेन । एतच् चेद् विद्यते, कथम् अविद्यमानता?
अथ तदभावविषयम्, तस्यापि स्वेन रूपेण विद्यमानत्वान् न कर्तव्यता ।
अथ निर्विषयम्, न तर्हि चोदना कर्तव्यावबोधिका, अपि तु निर्विषयेत्य् एवं वक्तव्यम् । एवं स्थिते यथा प्रत्यक्षं विद्यमानोपलम्भकं तथान्यान्य् अपि प्रमाणानि ।
५।अ बुद्धिजन्म प्रत्यक्षम्, न च बुद्ध्यवगमे प्रमाणम् अस्ति । प्रत्यक्षावसेया सा न भवति स्वयम् अनभ्युपगमात् । अनुमानगम्यापि न भवति तया प्रतिबद्धलिङ्गानवगतेः । अथार्थापत्त्या प्रतीयते, किं घटार्थान्यथानुपपत्त्याहो तदुपादानपरित्यागान्यथानुपपत्त्या घटावबोधान्यथानुपपत्त्या वा?
तद् यदि घटार्थान्यथानुपपत्त्या, तद् अयुक्तम् । न बुद्धिकार्यो घटो, ऽपि तु बुद्धिर् इह तत्कार्या ।
अथ घटोपादानपरित्यागान्यथानुपपत्त्या बुद्धिपरिकल्पना क्रियते, तद् अयुक्तम्, बुद्धिस्वरूपस्यानेककालान्तरावस्थानायोगाद् अर्थापत्तेर् निर्विषयत्वम् । केनापि बलवता प्रेरितो बुद्धिम् अन्तरेण वा तदुपप्लवाद् वा घटोपादानपरित्यागाय घटते तेन सन्दिग्धार्थापत्तिः । न च सम्बन्धग्रहणम् अन्तरेण नियतायां बुद्धौ प्रतिपत्तिर् उपपद्यते । अर्थापत्तितस् तु तदनुपपत्ताव् इन्द्रियकल्पनापि दुर्घटा । अथावबोधान्यथानुपपत्त्या बुद्धिपरिकल्पना क्रियते, तस्यापि बुद्ध्या सह सम्बन्धो नास्ति, कथम् अवबोधयति? अवबोधे चावगते प्रत्यक्षावगतैव बुद्धिर् नावबोधगम्या । अवबोधबुद्धिविज्ञानशब्दानां पर्यायत्वाद् अवबुध्यते ज्ञायतेत्य् एको ऽर्थः ।
६। तथा श्रोत्रादिवृत्तिर् अविकल्पिका, एतद् अपि प्रत्युक्तम् ।
६।१ श्रोत्रादिकरणानां शब्दादिविषयाकारतया विपरिणामो वृत्तिशब्देनाभिधीयते । सा चानेकप्रकारा भवति सम्यग्ज्ञानरूपा विपर्ययज्ञानसन्देहरूपा च । तद् उक्तं तमो मोहो महामोहस् तामिस्रो ऽन्धतामिस्रेत्यादि ।
६।११ तद् यदि श्रोत्रादिवृत्तेः प्रत्यक्षत्वम्, तदा विपर्ययादिवृत्तेर् अपि प्रत्यक्षत्वं प्राप्नोति । अथाबाधितपदोपादानं क्रियते । तत् सूत्रे न श्रूयते । भवतु वा तस्य कल्पना, तथाप्य् अव्यभिचारित्वं ज्ञातुं न शक्यते । तच् च नैयायिकप्रत्यक्षलक्षणाधिकारे प्रपञ्चितम् । यदि चाव्यभिचारिपदेन विपर्ययरूपा वृत्तिर् अपोद्यते, तत् तदात्मतया व्यवस्थिता सम्यग्रूपापि वृत्तिर् अपोदिता भवति । ततश् च सङ्ग्राह्या न लभ्यते वृत्तिः ।
अथ सम्यग्रूपा वृत्तिर् इह सङ्ग्राह्या, तदापोह्या नलभ्यते वृत्तीनां स्वरूपैकताभ्युपगमात् । भेदाभ्युपगमे वाभ्युपेतहानम् । न हि भवतां पक्षेन्द्रियाद् भिद्यन्ते वृत्तयस्, तच् चेद् अभिन्नम्, कथं वृत्तीनां भेदः? भेदाभ्युपगमेन्द्रियैकत्वं हीयते । इन्द्रियाव्यतिरेकित्वं वा न वक्तव्यम् ।
६।१एन्द्रियाव्यतिरेकित्वे ऽभ्युपगम्यमाने नीललोहितघटादीनां सर्वदोपलम्भः स्याद्, इन्द्रियावस्थाने तदव्यतिरिक्ताया वृत्तेर् अवस्थानसम्भवात् । तत्सम्भवे च घटाद्यनुपलम्भानुपपत्तिः । अथ वृत्तिसद्भावे ऽप्य् अनुपलब्धिर्, न कदाचिद् उपलब्धिः स्यात् । न हि भवतां पक्षे किञ्चिद् अपूर्वं जायते पूर्वं वा निरुध्यते । ततश् च सर्वस्यास्तित्वोपलब्ध्यनुपलब्धी किङ्कृते? सदोपलब्धिर् अनुपलब्धिर् वा । न ह्य् एवंवादिनो द्वितीया गतिर् अस्ति ।
६।१ब् किं च शब्दादयोपलभ्यन्ते किम् अनुपलभ्यस्वभावोपलभ्यन्ताहोस्विद् उपलभ्यस्वभावाह्?
तद् यद्य् अनुपलभ्यस्वभावोपलभ्यन्ते, तदोपलब्धिः कथम्?
यद्य् अनुपलभ्यस्वभावाः, कथम् उपतभ्येरन्? अन्यथात्मादेर् अप्य् उपलब्धिः स्यात् ।
अथोपलभ्यस्वभावोपलभ्यन्ते, ऽनुपलब्धिः कथम्? किं तेनैवाकारेणाहोस्विद् आकारान्तरेण?
यदि तेनैवाकारेणानुपलब्धिर्, आत्मादेर् अप्य् अनुपलब्धिर् न प्राप्नोति । उपलब्धौ वा बीजान्तरं वचनीयम् ।
अथाकारान्तरेण नोपलभ्यन्ते, तथाप्य् उपलभ्यमानानुपलभ्यमानयोर् नैकत्वं शब्दात्माकारयोर् इव । न ह्य् उपलभ्यस्वभावाच् छब्दाद् अनुपतभ्यस्वभावात्माव्यतिरिक्तो दृष्तः । अथ तस्यैवाभिव्यक्तस्योपलब्धिः । तत्स्वरूपवद् अभिव्यक्तेः सर्वदावस्थानात् सततोपलब्धिप्रसङ्गः ।
अथ तिरोधाने सत्य् अनुपलब्धिस्, तदातत्स्वरूपतादात्म्यात् सततानुपतम्भप्रसङ्गः । उभयोर् वावस्थाने समम् उपलम्भानुपलम्भौ स्याताम् । ततश् चेदानीम् उपतभे पूर्वं नोपलभ३ इति व्यवहारविरहः स्यात् । तथा पूर्वम् उपलभेदानीं नोपलभेत्य् एतद् अपि न प्राप्नोति । अथावयवोपचये सत्य् उपलम्भः । तस्य सर्वदा भावात् सर्वदोपलम्भप्रसङ्गः । अथस्वलक्षणपुष्टौ सत्याम् उपलम्भः । तस्याः सर्वदा सत्त्वात् सततोपलम्भप्रसङ्गः । अथ संस्थानोत्कर्षे सत्य् उपलम्भः । तस्यापि सर्वदा विद्यमानत्वात् सततोपलब्धिः स्यात् ।
तस्माद् येन येन निमित्तेनोपलम्भपरिकल्पना, तस्य तस्य सर्वदा भावात् सततोपलम्भप्रसङ्गः । अथ देशकालकारकापबन्धाद् अनुपलम्भस्, तदा तस्यापबन्धस्य सर्वदा भावाद् अनुपलम्भानुपरमः स्यात् ।
६।२ तथेन्द्रियाणाम् अपि करणरूपता नोपलभ्यते फलवैकल्यात् । नन्व् अस्ति विज्ञानं फलम् । न तस्य सर्वदा विद्यमानत्वात् । सर्वदा विद्यमानयोर् हेतुफलभावो नोपपद्यते, यथा गुणानां परस्परम् आत्मभेदानां वा । न ह्य् आत्मात्मान्तरस्य हेतुर् भवति तत्फलं वा, तथेहाप्यनाद्यन्ता सत्ता न फलं हेतुर् वोच्यते ।
फ़् । किं च भूजलाद्य् अनेकं कार्यम्, तत् किं गुणत्रयाद् व्यतिरिक्तम् अव्यतिरिक्तं वा? तद् यदि व्यतिरिक्तम्, तत् किं तात्त्विकम् अतात्त्विकं वा?
तद् यदि तात्त्विकम्, न तर्हि गुणत्रयोपादानपूर्वकम्, ततो भिन्नत्वाद् आत्मस्वरूपवत् । न च गुणत्रयेण सहान्यतमो ऽपि सम्बन्धोपपद्यते तद्भिन्नकार्यस्य । न मात्रामात्रिकसम्बन्धो नापि सहचरसहचरितभावो नापि निमित्तनैमित्तिकभावोपकार्योपकारकभावो वा । अथातात्त्विकम्, कथं तेन गुणत्रयं प्रतीयते गुणत्रयेण सह सम्बन्धानुपपत्तेः? न च सदसतोः सम्बन्धोपपद्यतात्मखरविषाणयोर् इव । तदभावान् नानुमानाद् गुणत्रयप्रतिपत्तिः । नापि प्रत्यक्षेण गुणावधारणं स्वयम् अनभ्युपगमात् । तद् उक्तं
गुणानां परमं रूपं न दृष्टिपथम् ऋच्छति। यत् तु दृष्टिपथप्राप्तं तन् मायेव सुतुच्छकम्॥
तदनवगमे च न भोग्येन भोक्तुर् अनुमानम् । ततश् च नात्मा न गुणत्रयम् ।
अथाव्यतिरिक्तम्, तत् किं तात्त्विकम् अतात्त्विकं वा?
यदि तात्त्विकम्, तदा कार्याणाम् अपरिसङ्ख्येयत्वे गुणानाम् अप्य् अपरिसङ्ख्येयता । ततश् च त्रयो गुणेति न वक्तव्यम् । अथ गुणानां त्रित्वम्, तदा कार्यस्यापि त्रित्वं प्राप्नोत्य्, आनन्त्यं हीयते । तथा कार्यस्य प्रत्यक्षत्वे गुणानाम् अपि प्रत्यक्षत्वम् । किंविषयं प्रधानानुमानम्? गुण[फ़िनल् पगे मिस्सिन्ग्]
%
%अद्दितिओनल् मतेरिअल् फ़्रोम् गोस् ८७, बरोद १९४० एदितिओन् ओफ़् सन्घवि \। परिख् अन्द् ए। फ़्रन्चोऽस् नोतेस्:
%
%एxअमिनतिओन् ओफ़् आत्मानुमान
%
[\प्प्ल्{७४}{१०}]
[८।१ नैयायिकादिसम्मतस्यात्मानुमानस्य निरासः]
तथात्मानुमानं सुखद्वेषज्ञानादिना न सम्भवति, तेन सह सम्बन्धानवगमात्, तदनवगतौ चानुमानानर्थक्यम् । किं चात्र साध्यते ?
किं ज्ञानसुखादीनाम् आश्रितत्वम्, आहोस्विद् आश्रयाश्रितं वाऌज्ञानस्वरूपम् ? अथाश्रितत्वं साध्यते । तदात्माऌनैवावबोधितः ततो ऽन्यत्वाद् आश्रितत्वस्य ।
अथात्माऌसाध्यते । तद् एवं भवति अस्त्य् आत्माऌविज्ञानात्, न च व्यधिकरणस्य गमकत्वं विद्यते ।
अथाश्रितं ज्ञानस्वरूपं साध्यते । तच् च प्रत्यक्षेणावगतम् । अन्यो ऽनुमानस्य विषयो वक्तव्यः । कथं ज्ञानसुखाद्य् आत्मसम्बन्धित्वेन व्यपदिश्यते किं सत्तामात्रेणाहो तज्जन्यतया तज्जनकत्वन वा तत्समवायित्वेन वा तत्स्वरूपतादात्म्याद् वा ?
तद् यदि सत्तामात्रेण सुखं विज्ञानं वात्मनो ऽपदिश्यते तदात्मवत् सर्वे भावाश् चेतनाः स्युर् विज्ञानसत्ताविशेषात् । तथा सर्वे सुखिनो भवेयुर् आनन्दसत्ताविशेषात् ।
अथ तज्जन्यतयाऌविज्ञानम् आत्मनो ऽपदिश्यते ; तदा नयनालोकपटाश् चेतनाः स्युस् तैर् जन्यमानाविशेषात् ।
अथ तज्जनकत्वेन तस्येति चेत्, तद् अयुक्तं न विज्ञानेनात्मोत्पाद्यते भवतां पक्षे, उत्पादेन वा स्मरणानुपपत्तिः ।
[प्।७५] अथात्मसमवायित्वेन विज्ञानम् आत्मनो ऽपदिश्यते न तदभावात् । भवतु वा समवायो ह्य् अखण्डितात्मा सर्वात्मवस्त्रादिसाधारणः । ततः सर्वे चेतनाः स्युः । अथ विज्ञानोपलक्षितस्य नान्यत्र सम्भवो ऽस्ति तद् अयुक्तं तद् उपलक्षितस्यान्यत्र सम्भवात् तत्सम्भवश् च तस्यैकत्वात् । असम्भवे वा समवायानेकत्वप्रसङ्गः असमवायित्वं वान्येषाम् ।
तथा विज्ञानसमवायात्मनः समवायः किं सत्तामात्रेणाहोस्विद् आत्मजनकत्वेन तज्जन्यत्वेन तत्समवायित्वेनात्मस्वरूपतादात्म्याद् वा ?
तद् यदि सत्तामात्रेणात्मनः समवायो ऽपदिश्यते ; तदा ज्ञानसमवायसत्ताविशेषात् सर्वेषां ज्ञानसमवायित्वप्रसङ्गः । अथ तज्जन्यत्वेन ; तद् अयुक्तं न ह्य् आत्मना समवायोत्पादनं क्रियते नित्यत्वाभ्युपगमात् । अथ तज्जनकत्वेनात्मनः समवायः ; तद् अनुपपन्नम् आत्मनो नित्यत्वात् । अथात्मनि समवेतस् तेनात्मसमवायो ऽभिधीयते । तद् अयुक्तम् । समवायान्तरानभ्युपगमात् । अथात्मतादात्म्येन वर्ततेत्य् आत्मसमवायः उच्यते ।
तदात्मा विद्यते नान्यः समवायो ऽस्ति तत्स्वभावानुप्रवेशात् । एवं विज्ञानानन्दादीनां समवायसम्बन्धेन न नियतात्मव्यपदेशोपपद्यते ।
अथात्मतादात्म्येनोपजायमानं विज्ञानानन्दादिकम् आत्मनो ऽपदिश्यते तदा विकारी प्राप्नोत्य् अनया भङ्ग्यात्मा । ततश् च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः ।
इतो ऽप्य् आत्मा सुखादिकार्याधिकरणो ऽवगन्तुं न पार्यते । किं तेनात्मनानुपजातातिशयेन तापादि कार्यां क्रियताहोस्विद् उपजातातिशयेनापि, किं व्यतिरिक्तोपजातातिशयेन, अव्यतिरिक्तोपजातातिशयेन वा? [प्।७६] तद् यद्य् अनुपजातातिशयेनोत्पाद्यते तापादि कार्यम्, तदा सर्वदा कुर्याद्, अनुपजातबलस्य कार्यकारषाभ्युपगमान्, न तापादिविकलः स्यात्, समं सुखादि कार्यं प्रसज्यते । अथाव्यतिरिक्तोपजातातिशयेनोत्पाद्यते तापादि कार्यम्, तदाव्यतिरिक्तोपजातातिशयेति किं भणितं भवति? आत्मोपजायते । ततश् च स्मरणानुमानप्रत्यभिज्ञानानुपपत्तिः । अथ व्यतिरिक्तोपजातातिशयेन जन्यते तापादि कार्यम्, स तेनात्मना सह सम्बद्धो वा, न वा । यदि न सम्बद्धः, स तस्यातिशयः कथम्? अथ सम्बद्धः, किं जनकत्वेनाथ जन्यत्वेन तत्समवायित्वेन वा? तद् यदि जनकत्वेन सम्बद्धस्, तदात्मा
तेनातिशयेनोत्पद्यतेति स्मरणानुपपत्तिः । अथ जन्यत्वेन, सो ऽपि तेन कथम्
उत्पाद्यते? किम् अनुपजातातिशयेन व्यतिरिक्तोपजातातिशयेन वेति प्राप्ता प्रश्नपरम्परा । अथ तत्समवायित्वेन, न, तस्य सर्वसाधारणत्वात्, तदभावाच् च । अथैककार्यजनकत्वेन सम्बद्धस्, तद् एवेदं चिन्तयितुम् आरब्धं किम् इदं जनकत्वं नामेति । किं च यद् एवानुपजाते ऽतिशयात्मनो रूपं तद् एव जाते ऽपि, तत् कथं कार्यं कुर्यात्? अथ पूर्वरूपस्यातदवस्थ्यम्, सुस्थितं नित्यत्वम्! अथ तादवस्थ्यम्, तथापि न करोति कार्यम् । एवं नैयायिकादिमतेनात्मनोपभोगस्मरणादिकं न जाघटीति ।
[रेफ़ुततिओन् ओफ़् थे मीमाम्स इन्फ़ेरेन्चे ओफ़् थे सेल्फ़्]
प्प्। ८२।७८३।७: तथा मीमांसकमतेनाप्य् आत्मानुमानं न प्रवर्तते प्रमाणान्तरानवधारितार्थविषयत्वाभ्युपगमात् प्रमाणानाम् । नियतविषयाणि हि प्रमाणानि प्रतिपद्यन्ते प्रत्यक्षावसेये नानुमानं प्रवर्तत, अनुमानावसेये च न प्रत्यक्षं प्रवर्तते । ततश् चेतरेतरव्यावृत्तिविशेषविषयाणि । तद् अयुक्तं (रेअद्: उक्तम्) ऽऽविशेषे ऽनुगमाभावः । " विशेषो नियतप्रमाणग्राह्यो ऽर्थः । तथाभूते ऽर्थे ऽङ्गीक्रियमाणे ऽनुमानस्यानुगमाभावः । अनुगमः सम्बन्धस्, तद्ग्रहणानुपपत्तिः । अर्थे (रेअद्: अथ) प्रत्यक्षाद्यवधारिते ऽप्य् ऽर्थे ऽनुमानं प्रवर्तते; नन्व् एवं प्रत्यक्षानुमानसाधारणो ऽर्थः प्रसक्तः । साधारणता समानता । ऽऽसामान्ये सिद्धसाध्यताऽऽ प्रत्यक्षावगतत्वात् । अनधिगतार्थगन्तृविशेषणं चापार्थकम् । अथवा सामान्ये
सिद्धे साधनम् इत्यन्यो ऽर्थः । सामान्ययोर् गम्यगमकभावो ऽभ्युपगम्यते मीमांसकेन । न च तत्
सामान्यं विद्यते । यथा च न विद्यते तथा प्राग् एवोदितम् । ततश् च सिद्धस्य साधनं विद्यमानस्य साधनम् । न चाग्नित्वम् अस्ति । तदभावे कस्येदं ज्ञापकम्? अथवा सिद्धं साधनं सिद्धसाधनम् इत्य् अन्यो ऽर्थः । विद्यमानं साधनम् । न च धूमत्वसामान्यम् अस्ति । तच् च विद्यमानं (सुख्लल्: तत्त्व; रेअद्: तच् चाविद्यमानम्) सामान्यं कथं सामान्यं (रेअद्: सामान्ये) साधनं भवितुम् अर्हति? अथवा सिद्धसाधनं ज्ञातम् अनुमानं साधनं भवति । न च धूमत्वं ज्ञातं स्वयमसत्त्वात्, अथवा ग्रहणोपायाभावात्, तस्यानुस्यूतं रूपम् । न च तद् आत्मन्य् अनुस्यूतम् । नाप्य् एकस्यां व्यक्ताव्, अपि तु बह्वीषु व्यक्तिषु । न च बह्व्यो व्यक्तयोपलभ्यन्ते । अपि त्व् एकैव धूमव्यक्तिर् उपलभते । न चैकस्यां व्यक्ताव् अनुगतात्मतया सामान्यसंवित्तिर् अस्ति । न चाकारान्तरसामान्यम्
(पेर्हप्स्: आकारान्तरं सामान्यस्य) ।