२८ गायत्रीजपः

गायत्रीजपः

परेद्युः महानद्यां तत्सम्बन्धिनि वा जले स्नात्वा नित्यकर्मान्ते,

मिथ्याधीतप्रायश्चित्तार्थम् अष्टोत्तरसहस्रसङ्ख्यया गायत्रीमहामन्त्रजपं करिष्ये

इति सङ्कल्प्य, सन्ध्योपासन इव प्रणवादिऋष्यादिन्यासपूर्वकं प्राणायामत्रयं कृत्वा,

मिथ्याधीतप्रायश्चित्तार्थं गायत्रीमहामन्त्रजपं करिष्ये

इत्युक्त्वा (प्रातर्ध्यायामीति मन्त्रं परित्यज्य), यो देवस्सविताऽस्माकमित्यादिध्यानपर्यन्तं कृत्वा जपं कुर्यात् । जपावसाने त्रिः प्राणान् आयम्य,

उ॒त्तमे॑ शिख॑रे दे॒वी॒ भू॒म्यां प॑र्वत॒मूर्ध॑नि ।
ब्रा॒ह्मणे᳚भ्यो ह्य॑नुज्ञा॒नं॒ ग॒च्छ दे॑वि य॒थासु॑खम् ॥ [[TODO:परिष्कार्यम्??]]

इत्युद्वासयेत् ॥

होमपक्षे –

मिथ्याधीतदोषप्रायश्चित्तार्थं सावित्र्या समित्सहस्रम् आधास्यामि

इति सङ्कल्प्य, श्रोत्रियागारात् अग्निम् आहृत्य, अग्निं प्रतिष्ठाप्य, परिस्तीर्य, परिषिच्य, प्रणवव्याहृतिपूर्वया सावित्र्या आज्याभ्यक्तं समित्सहस्रम् एकैकश आधाय, परिषिच्य,

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

इति प्रणम्य, अभिवाद्य, आचम्य, इत्यग्निमुपतिष्ठेत ॥

[[257]]