२७ यजुरुपाकर्म

॥ यजुरुपाकर्म ॥

श्रावण्यां पौर्णमास्यां प्रातःकाले आचम्य, प्राणान् आयम्य, यथावत्

तैष्यां पौर्णमास्याम् अध्यायोत्सर्जनाकरणप्रायश्चित्तार्थम् अष्टोत्तरसहस्रसङ्ख्यया, ‘कामोऽकार्षीन्मन्युरकार्षीत्’ इति महामन्त्रजपं करिष्ये'

इति सङ्कल्प्य, तं मन्त्रं जपेयुः । अथ ब्रह्मचारिणः वापयेयुः ॥

अथापराह्णे, (स्नात्वा, धौतं परिधाय), माध्याह्निकं कृत्वा पवित्रपाणिः प्राङ्मुख उपविश्य प्राणान् आयम्य, यथावत् सङ्कल्पमारभ्य,

श्रावण्यां पौर्णमास्याम् अध्यायोपकर्म करिष्ये, तदङ्गं काण्डर्षितर्पणं करिष्ये, तदङ्गं यज्ञोपवीतधारणं करिष्ये, तदङ्गं स्नानं करिष्ये

इति सङ्कल्प्य, स्नात्वा यथायथं १. कटिसूत्र - २. कौपीन ३. वस्त्र ४. उपवीत ६. मौञ्जी ६. अजिनं ७. दण्डान् नवान् तत्रन्मन्त्रेण धृत्वा, (पु. २४५) पुरातनान् परित्यज्य, आचम्य, द्विराचम्य उदङ्मुखः अप्सु प्रविश्य (स्नात्वा 1) निवीतं धृत्वा, उपवीतम् अङ्गुष्ठाभ्यां परिगृह्य ऋषितीर्थेन - त्रिस्त्रिः तिलाक्षतोदकैः

१.प्रजापतिं काण्डर्षिं तर्पयामि
२. सोमं काण्डर्षिं तर्पयामि
३. अग्निं काण्डर्षिं तर्पयामि
४. विश्वान् देवान् काण्डर्षीँस्तर्पयामि
५. सांहितीर्देवता उपनिषदस्तर्पयामि
६. याज्ञिकीर्देवता उपनिषदस्तर्पयामि
७. वारुणीर्देवता उपनिषदस्तर्पयामि
८.ब्रह्माणँ स्वयम्भुवं तर्पयामि (ब्रह्मतीर्थेन)
९. सदसस्पतिं तर्पयामि (देवतीर्थेन)

इति तर्पयित्वा, आचम्य, (शुष्कवस्त्रं धृत्वा द्विराचम्य) गृहान् आगच्छेयुः ।

[[252]]

४. यज्ञोपवीतधारणमन्त्रः = यज्ञोपवीतधारणमन्त्रस्य, ब्रह्मा ऋषिः, त्रिष्टुप् छन्दः त्रयीविद्या देवता ॥ यज्ञोपवीतधारणे विनियोगः ।

यज्ञोपवीतं प॑र॒मं प॒वित्रं॑ प्र॒जाप॑ति॒र्यत्स॑ह॒जं पु॒रस्ता᳚त् ।
आ॒यु॒ष्य॑म॒ग्र्यं॑ प्रति॑मुञ्च शु॒भ्रं य॑ज्ञोपवी॒तं बल॑मस्तु॒ तेजः॑ ॥ [[TODO:परिष्कार्यम्??]]

५. मौञ्जीधारणमन्त्रः =

इ॒यं दुरु॑क्तात्परि॒बाध॑माना॒ शर्म॒ वरू॑थं पुन॒ती न॒ आगा᳚त् ।
प्रा॒णा॒पा॒नाभ्यां॒ बल॑मा॒भर॑न्ती प्रि॒या दे॒वानाँ॑ सु॒भगा॒ मेख॑ले॒यम् ॥
ऋ॒तस्य॑ गो॒प्त्री तप॑सः पर॒स्पी घ्न॒ती रख्ष॒स्सह॑माना॒ अरा॑तीः ।
सा न॑स्सम॒न्तमनु॒परी॑हि भ॒द्रया॑ भ॒र्तार॑स्ते मेखले॒ मा रि॑षाम ॥ [[TODO:परिष्कार्यम्??]]

६. कृष्णाजिनधारणमन्त्रः =

मि॒त्रस्य॒ चक्षु॒र्धरु॑णं॒ बली॑य॒स्तेजो॑ यश॒स्वि स्थवि॑रँ॒ समि॑द्धम् ।
अ॒ना॒ह॒न॒स्यं वस॑नञ्जरि॒ष्णु परी॒दं वा॒ज्यजिन॑न्दधे॒ऽहम् ॥ [[TODO:परिष्कार्यम्??]]

७. पालाशदण्डधारणमन्त्रः =

सु॒श्रव॑स्सु॒श्रव॑सं मा कुरु॒ यथा॒ त्वँ सु॒श्रव॑स्सु॒श्रवा॑ अस्ये॒वम॒हँ सु॒श्रव॑स्सु॒श्रवा॑ भूयासं॒ यथा॒ त्वँ सु॒श्रवो॑ दे॒वानां᳚ निधिगो॒पो᳚ऽस्ये॒वम॒हं ब्रा᳚ह्म॒णानां॒ ब्रह्म॑णो निधगो॒पो भू॑यासम् ॥ [[TODO:परिष्कार्यम्??]]

[[253]]

श्रोत्रियागारात् अग्निमाहृत्य, आचार्यः अग्निप्रतिष्ठादि (पु. ३१-३३)

ओम् अ॒ग्नये॒ स्वाहा᳚ । (अग्नय इदम्),
ओं सोमा॑य॒ स्वाहा᳚ । (सोमायेदम्),
ओम् अ॒ग्नये॒ स्वाहा᳚ । (अग्नय इदम्),
ओं भूर्भुव॒स्सुव॒स्स्वाहा᳚ ॥ (प्रजापतय इदं न मम) [[TODO:परिष्कार्यम्??]]

इति अग्निमुखान्तं कृत्वा, शिष्यैरन्वारब्धः,

१. प्रजापतये काण्डऋषये स्वाहा (प्रजापतये काण्डऋषय इदं न मम) ॥
२. सोमाय काण्डऋषये स्वाहा (सोमाय काण्डऋषय इदम्) ॥
३. अग्नये काण्डऋषये स्वाहा (अग्नये काण्डऋषय इदं न मम) ॥
४. विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा (विश्वेभ्यो देवेभ्यः काण्डऋषिभ्य इदं न मम) ॥
५. सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा (सांहितीभ्यो देवताभ्य उपनिषद्भ्य इदं न मम) ॥
६. याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा (याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्य इदं न मम)
७. वारुणीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा (वारुणीभ्यो देवताभ्य उपनिषद्भ्य इदं न मम)
८. ब्रह्म॑णे स्वय॒म्भुवे॒ स्वाहा᳚ (ब्रह्मणे स्वयम्भुव इदं न मम) ॥
९. सद॑स॒स्पति॒मद्भु॑तम्प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् । सनि॑म्मे॒धाम॑यासिषँ॒ स्वाहा᳚ ॥ (सदसस्पतय इदं न मम) ॥

इति हुत्वा, “इषे त्वा” इत्यादीन् चतुरोऽनुवाकानेव शिष्यान् अध्याप्य,

हरिः ओ(४)म् ॥ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑स्स्थोपा॒यव॑स्स्थ दे॒वो व॑स्सवि॒ता प्राऽर्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यध्वमघ्निया देवभा॒गमूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒ख्ष्मा मा व॑स्स्ते॒न ई॑शत॒ माऽघश ँ॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु द्ध्रु॒वा अ॒स्मिन्गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ॥ (१) [[TODO:परिष्कार्यम्??]]

[[254]]

य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्टँ॒ रख्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः॒ प्रेयम॑गाद्धि॒षणा॑ ब॒र्हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आ व॑हन्ति क॒वयः॑ पु॒रस्ता᳚द्दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्हिरा॒सदे॑ दे॒वानां᳚ परिषू॒तम॑सि व॒र्षवृ॑द्धमसि॒ देव॑बर्हि॒र्मा त्वा॒ऽन्वङ्मा ति॒र्यक्पर्व॑ ते राद्ध्यासमाच्छे॒त्ता ते॒ मा रि॑ष॒न्देव॑बर्हिश्श॒तव॑ल्शं॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यँ रु॑हेम पृथि॒व्यास्स॒म्पृचः॑ पाहि सुस॒म्भृता᳚ त्वा॒ सम्भ॑रा॒म्यदि॑त्यै॒ रास्ना॑ऽसीन्द्रा॒ण्यै स॒न्नह॑नं॒ पू॒षा ते᳚ ग्र॒न्थिङ्ग॑थ्नातु॒ स ते॒ माऽऽस्था॒दिन्द्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पते᳚र्मूर्द्ध्ना ह॑रा॒म्यु॒र्व॑न्तरि॑ख्ष॒मन्वि॑हि देव॒ङ्गमम॑सि ॥ [[TODO:परिष्कार्यम्??]] (२)

शु॒न्ध॑द्ध्व॒न्दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो घ॒र्मो॑ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒ दृँह॑स्व॒ मा ह्वा॒र्वसू॑नां प॒वित्र॑मसि श॒तधा॑रं॒ वसू॑नां प॒वित्र॑मसि स॒हस्र॑धारँ हु॒तस्स्तो॒को हु॒तो द्र॒फ्सो᳚ऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्याँ॒ सा वि॒श्वायु॒स्सा वि॒श्वव्य॑चा॒स्सा वि॒श्वक॑र्मा॒ सं पृ॑च्यद्ध्वमृतावरीरू॒र्मिणी॒र्मधु॑मत्तमा म॒न्द्रा धन॑स्य सा॒तये॒ सोमे॑न॒ त्वाऽऽत॑न॒च्मीन्द्रा॑य॒ दधि॒ विष्णो॑ ह॒व्यँ र॑ख्षस्व ॥ [[TODO:परिष्कार्यम्??]] (३)

कर्म॑णे वान्दे॒वेभ्य॑श्शकेयं॒ वेषा॑य त्वा॒ प्रत्यु॑ष्टँ॒ रख्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्व॑न्त॒न्धूर्व॒ तं यो᳚ऽस्मान्धूर्व॑ति॒ तन्धू᳚र्व॒ यं व॒यन्धूर्वा॑म॒स्त्वन्दे॒वाना॑मसि॒ सस्नि॑तमं॒ प्रप्रि॑तम॒ञ्जुष्ट॑तमं॒ वह्नि॑तमन्देव॒हूत॑म॒मह्रु॑तमसि हवि॒र्द्धान॒न्दृँह॑स्व॒ मा ह्वा᳚र्मि॒त्रस्य॑ त्वा॒ चख्षु॑षा॒ प्रेख्षे॒ मा भेर्मा सं वि॑क्था॒ मा त्वा॑ हिँसिषमु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्याम॒ग्नये॒ जुष्ट॒न्निर्व॑पाम्य॒ग्नीषोमा᳚भ्यामि॒दन्दे॒वाना॑मि॒दमु॑ नस्स॒ह स्फा॒त्यै त्वा॒ नाऽरा᳚त्यै॒ सुव॑र॒भि वि ख्ये॑षं वैश्वान॒रञ्ज्योति॒र्दृँह॑न्ता॒न्दुर्या॒ द्यावा॑पृथि॒व्योरु॒र्व॑न्तरि॑ख्ष॒मन्वि॒ह्यदि॑त्यास्त्वो॒पस्थे॑ सादया॒म्यग्ने॑ ह॒व्यँ र॑ख्षस्व ॥ (४) ॥ [[TODO:परिष्कार्यम्??]] हरिः॑ ओ(३)म् ॥

[[255]]

अनन्वारब्धः जयादिहोमं (पु. ८६-९१) स्विष्टकृदन्तं हुत्वा, प्रणीता विमोक्ष्य, ब्रह्माणं सम्पूज्य, अभ्युदयं, पुण्याहं (पु.२-६) च कुर्यात् ॥

[[256]]


  1. काण्डर्षितर्पणकाले पुनः स्वात्वा आर्द्रवस्त्र एव तत् कुर्यादिति विधिरिति वदन्ति । प्रायिकमनुष्ठानं पुनः अस्नात्वैव । ↩︎