२० आग्रयणस्थालीपाकः

॥ आग्रयणस्थालीपाकः ॥

एवं स्थालीपाकवत् शरदि आग्रयणं पर्वणि कुर्यात् ।

अत्र विशेषः - प्रातर्होमं कृत्वा- पवित्रपाणिः प्राणान् आयम्य - ‘आग्रयणस्थालीपाकेन यक्ष्ये’ इति सङ्कल्प्य - अग्नेरुपसमाधानादिमुखान्ते अवदानधर्मेणावदाय -

इ॒न्द्रा॒ग्निभ्याँ॒ स्वाहा᳚
(इन्द्रग्निभ्यामिदं न मम)

विश्वे᳚भ्यो दे॒वेभ्य॒स्स्वाहा᳚
(विश्वेभ्यो देवेभ्य इदं न मम)

द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा᳚
(द्यावापृथिवीभ्यामिदं न मम)

इति तिस्रः प्रधानाहुतीर्हुत्वा, स्विष्टकृत्प्रभृतिपरिषेचनान्तं कृत्वा, हुतशेषेण हविषा तण्डुलैर्वा मुखमापूर्य, निगीर्य, सकृदपः प्राश्य, शुद्ध्य्-अर्थं द्विराचम्य, हुतशेषेण दृढमेकं पिण्डं कृत्वा “पर॒मे॒ष्ठ्यसि॑” इति तं पिण्डमूर्ध्वे विक्षिप्य, सर्पिष्मता तेन चरुणा ब्राह्मणं भोजयेत् ॥
॥ इति स्थालीपाकः ॥

[[98]]