१९ दर्शपूर्णमासस्थालीपाकः

विधिः

॥ दर्शपूर्णमासस्थालीपाकविधिः ॥

आग्नेयस्थालीपाकादूर्ध्वे पौर्णमासीषु अमावास्यासु च उपोषिताभ्यां जायापतिभ्यां श्वोभूतायां प्रतिपदि स्थालीपाकः (आग्नेयस्थालीपाकप्रकारेण) कर्तव्यः । नात्र अन्वारम्भः, न ऋषभदानम् । तत्प्रकारः = पत्नी व्रीहीन् अवहन्यात्; न तु श्रपयेत् । वर एव चरुं श्रपयित्वा, अभिघार्य, उदगुद्वास्य, प्रतिष्ठितमभिघार्य (पत्न्या सह) पवित्रपाणिः प्राणान् आयम्य ‘….. पूर्णमास(दर्श)स्थालीपाकेन यक्ष्ये’ इति सङ्कल्प्य, अग्नेरुपसमाधानादि-मुखान्ते वामहस्तस्थायां होमद्रव्यं स्रुवेण वा प्रधानदर्व्या वा सकृदुपस्तीर्य चरुमध्यात् 1 अङ्गुष्ठ पर्वमात्रं हविः मध्यमानामिकाङ्गुष्ठैः द्विरवदाय (जमदग्नीनां त्रिरवदानम्) सकृदभिघार्य, स्विष्टकृदर्थं चरुं प्रत्यभिघार्य, दक्षिणहस्तेन आदाय ‘अ॒ग्नये॒ स्वाहा᳚’ (अग्नय इदं न मम) इति मध्येऽग्नौ जुहुयात् ।

(अपि वा दर्व्या सकृत् गृहीत्वा जुहुयात् । नात्र उपस्तरणादिधर्मः ॥) पूर्ववत् सकृदुपस्तीर्य, चरोरुत्तरार्धात् सकृदवदाय (जमदग्नीनां द्विरवदानम्) द्विरभिघार्य ‘अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚’ (अग्नये स्विष्टकृत इदं न मम) इति प्रागुदीच्यां प्रधानाहुत्यसंहितं हुत्वा, परिध्यञ्जनलेपकार्यादिप्रणीतामोक्षणान्तं कृत्वा हविश्शेषेण सर्पिष्मता ब्राह्मणं भोजयेत् ॥

[[97]]

आरम्भ-कालः

॥ दर्शपूर्णमासस्थालीपाकारम्भकालः ॥

विवाहशेषहोमयोर्मध्ये यदि पौर्णमासी स्यात्, तस्यां स्थालीपाकं कुर्यात् । दर्शश्चेत् न कुर्यात् । “पौर्णमासोपक्रमौ दर्शपूर्णमासौ” इति गौतमस्मरणात् । शेषहोमानन्तरं दर्शश्चेत् पूर्वं भाविपौर्णमासी चेत् दोषयुक्ता दर्शात्पूर्वमेव पौर्णमासस्थालीपाकं कृत्वा स्वकाले दर्शं यजेत । ‘सर्वोऽपरपक्षः पूर्णमासस्य’ इति गौतमेन कृष्णपक्षस्य पूर्णमासस्थालीपाककालत्वेन विधानात् । ततः न प्रतिपदि दर्शपूर्णमासौ सह कुर्यात् । अन्यावरुद्धे कालेऽन्यस्यानवकाशत्वात् ।

ग्रहणे, अधिमासे, पितृमासचतुष्के च प्रथमस्थालीपाकं वर्जयेत् ॥


  1. कुक्कुटाण्डप्रमाणस्तु ‘पिण्ड’ इत्यभिधीयते । अङ्गुष्ठपर्वमात्रं स्यात् ‘अवदानम्’ इति स्थितिः ॥ ↩︎