१२ पञ्चमहायज्ञक्रमः

१. श्रोत्राचमनं कृत्वा, प्राणान् आयम्य,

श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं देवयज्ञेन यक्ष्ये

इति सङ्कल्प्य, ‘भगवानेव …. देवयज्ञाख्यं कर्म …. कारयति’ इति सात्त्विकत्यागं कृत्वा, ‘विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॑मृ॒तात् स॒त्यमुपै॑मि’ इति दक्षिणकरतलेन अप आदाय वामकरतलं संमृज्य,

ओम् अदि॒तेऽनु॑मन्यस्व, ओम् अनु॑म॒तेऽनु॑मन्यस्व, ओं सर॑स्व॒तेऽनु॑मन्यस्व, ओं देव॑ सवितः॒ प्र सु॑व

इत्यग्निं परिषिच्य, अग्नौ एकां समिधं दर्भद्वयं वा आदाय उत्तरदेशस्थपश्चिमभागात् हविर्गृहीत्वा ‘ओं दे॒वेभ्यः॒ स्वाहा᳚’ इत्यग्नौ हुत्वा (देवेभ्य इदं न मम) इत्युक्त्वा एकां समिधं दर्भद्वयं वा प्रक्षिप्य,

ओम् अदि॒तेऽन्व॑मँस्थाः, ओम् अनु॑म॒तेऽन्व॑मँस्थाः, ओं सर॑स्व॒तेऽन्व॑मँस्थाः, ओं देव॑ सवितः॒ प्रासावीः

इति पुनः परिषिच्य, ‘वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मा॑नमृ॒तात् स॒त्यमुपा॑गाम्’ इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, श्रोत्राचमनं कृत्वा, सात्त्विकत्यागं कुर्यात् ॥

२. श्रोत्राचमनं कृत्वा प्राणान् आयम्य, ‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं पितृयज्ञेन यक्ष्ये’ इति सङ्कल्प्य, ‘भगवानेव… पितृयज्ञाख्यं कर्म …. कारयति’ इति सात्त्विकत्यागं कृत्वा,

विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॑मृ॒तात् स॒त्यमुपै॑मि

इति दक्षिणकरतलेन अप आदाय वामकरतलं संमृज्य, दक्षिणतः भूमिम् अद्भिः संमृज्य प्रोक्ष्य देवयज्ञशेषात् हविर्गृहीत्वा, ओं पि॒तृभ्यः॑ स्व॒धाऽस्तु॑, इति पितृतीर्थेन बलिं विधाय, (पितृभ्य इदं न मम) इत्युक्त्वा, अप्रदक्षिणं परिषिच्य,

वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मा॑नमृतात् स॒त्यमुपा॑गाम्

इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, श्रोत्राचमनं कृत्वा, सात्त्विकत्यागं कुर्यात् ॥

[[64]]

३. श्रोत्राचमनं कृत्वा प्राणान् आयम्य, ‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं भूतयज्ञेन यक्ष्ये’ इति सङ्कल्प्य ‘भगवानेव … भूतयज्ञाख्यं कर्म …. कारयति’ इति सात्त्विकत्यागं कृत्वा, “विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॑मृ॒तात् स॒त्यमुपै॑मि’’ इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, अग्रदानात् पश्चिमभागे अद्भिः संमृज्य प्रोक्ष्य देवपितृयज्ञशिष्टान्नं हविर्गृहीत्वा, ‘ओं भू॒तेभ्यो॑ ब॒लिँ ह॑रामि’ (ओं भू॒तेभ्यः॒ स्वाहा᳚) इति देवतीर्थेन भूतवलिं दत्वा (भूतेभ्य इदं न मम) इत्युक्त्वा परिषिच्य, ‘वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मा॑नमृ॒तात् स॒त्यमुपा॑गाम्’ इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, श्रोत्राचमनं कृत्वा, सात्त्विकत्यागं कुर्यात् ॥

४. श्रोत्राचमनं कृत्वा, प्राणान् आयम्य, ‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं मनुष्ययज्ञेन यक्ष्ये’ इति सङ्कल्प्य, ‘भगवानेव …. मनुष्ययज्ञाख्यं कर्म …. कारयति’ इति सात्त्विकत्यागं कृत्वा, “विद्यु॑दसि॒ विद्य॑ मे पा॒प्मान॑मृ॒तात् स॒त्यमुपै॑मि’’ इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, मध्यभागात् अग्रदानान्न द्विगुणमन्नं गृहीत्वा अग्रदान-भूतबलयोर्मध्ये “म॒नु॒ष्ये᳚भ्यो॒ हन्ता᳚” इति देवतीर्थेन भूमौ बलिं निधाय, (मनुष्येभ्य इदं न मम) इत्युक्त्वा परिषिच्य, ‘वृष्टि॑रसि॒ वृश्च॑ मे पा॒प्मा॑नमृ॒तात् स॒त्यमुपा॑गाम्’ इति दक्षिणकरतलेन अप आदाय, वामकरतलं संमृज्य, श्रोत्राचमनं कृत्वा, सात्त्विकत्यागं कुर्यात् ॥

[[65]]

ततः, ‘ओं श्रीविष्ण॑वे॒ स्वाहा᳚’, इत्यग्नौ दर्भौ प्रक्षिप्य, (श्री विष्णवे परमात्मन इदं न मम) इत्युक्त्वा उत्थाय,

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥ [[TODO:परिष्कार्यम्??]]

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

इत्युक्त्वा प्रणम्य, अभिवादयेत् ।

पितृबलिं, भूतबलिं च बहिः प्रक्षिप्य पात्रस्थमवशिष्टान्नं भोजनार्थान्नेन प्राणाहुतेः परं संयोजयेत् । अग्रदानं, मनुष्ययज्ञञ्च अतिथिभ्यो दद्यात् । आचम्य,

भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेन मया स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषः सर्वशेषी स्वशेषभूतमिदं प्रातर्वैश्वदेवाख्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारितवान् ।

इति सात्त्विकत्यागं कृत्वा,

कृतञ्च करिष्यामि भगवन्नित्येन भगवत्प्रीत्यर्थेन महाविभूतिचातुरात्म्यभगवद्वासुदेवपादारविन्दार्चनेन प्रातर्वैश्वदेवेन भगवत्कर्मणा भगवान् प्रीयतां वासुदेवः

इति प्रातर्वैश्वदेवं भगवति समर्पयेत् ॥

[[66]]