११ वैश्वदेवप्रयोगः

वैश्वदेवप्रयोगः

स्वार्थभागेन वैश्वदेवपञ्चमहायज्ञांश्च यथासूत्रं यथासम्प्रदायं कुर्यात् ॥

तत्प्रकारः - (चक्राकारव्यजनाकारोभयसाधारणम्)

पादौ प्रक्षाल्य, आचमनद्वयं कृत्वा, प्राणान् आयम्य, ‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं प्रातर्वैश्वदेवं करिष्ये’ इति सङ्कल्प्य,

कृतञ्च करिष्यामि भगवन्नित्येन भगवत्प्रीत्यर्थेन महाविभूतिचातुरात्म्यभगवद्वासुदेवपादारविन्दार्चनेन प्रातर्वैश्वदेवेन भगवत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि । भगवतो बलेन भगवतो वीर्येण भगवतस्तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि, भगवतो वासुदेवस्य ।

भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेन मया स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषः सर्वशेषी स्वशेषभूतमिदं प्रातर्वैश्वदेवाख्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारयति ।

इति सात्त्विकत्यागं कृत्वा, औपासनाग्निं पचनाग्निं वा प्रतिष्ठापयेत् । तत्प्रकारः - स्थण्डिलं कल्पयित्वा,

प्राचीः पूर्वमुदक्सँस्थं दक्षिणारम्भमालिखेत् ।
अथोदीचीः पुरःसँस्थं पश्चिमारम्भमालिखेत् ॥

[[57]]

अवाक्करोऽभ्युक्ष्य, तृणं निर्ऋत्यां निरस्य, अप उपस्पृश्य, ‘भूर्भुवस्सुवरोम्’ इति अग्निं प्रतिष्ठाप्य, उत्सृज्यतेऽवोक्षणतोयशेषं प्राक्तोयम् अन्यत् निदधाति, उदग्वा । (यथा बहिस्स्याच्च परिस्तरणाम्) परिस्तीर्य । आत्मनः पुरतो दर्भान् संस्तीर्य, तदुपरि प्रोक्षणीपात्रं निधाय, जलं पूरयेत् । भार्यादिः पाककृज्जनः वैश्वदेवार्थं स्थापितमन्नमादाय, ‘भूतम्’ इत्युक्त्वा यजमानाय दद्यात् । ‘तत्सुभूतं विराडन्नं तन्मा क्षायि’ इत्युच्चरन् यजमानो गृहीत्वा, अग्नावधिश्रित्य, वामभागे निक्षिप्य, प्रोक्ष्य, दक्षिणोत्तरतया द्वेधा विभज्य, उत्तरभागं पूर्वपश्चिमतया त्रेधा विभज्य, दक्षिणभागं पूर्वपश्चिमतया न्यूनाधिकत्वेन द्वेधा विभज्य, उत्तरभागं पूर्वपश्चिमतया त्रेधा विभज्य, दक्षिणभागं पूर्वपश्चिमतया न्यूनाधिकत्वेन द्वेधा विभज्य,

ओम् अदि॒तेऽनु॑मन्यस्व, ओम् अनु॑म॒तेऽनु॑मन्यस्व, ओं सर॑स्व॒तेऽनु॑म॒न्यस्व, ओं देव॑ सवितः॒ प्र सु॑व [[TODO:परिष्कार्यम्??]]

इत्यग्निं परिषिच्य अग्नौ एकां समिधमाधाय, दक्षिणभागे पूर्वभागात् आमलकप्रमाणमन्नं संहताङ्गुलिना करेणाऽऽदाय, हविःपात्रं वामहस्तेन स्पृशन् अङ्गुष्ठाग्रेण हविः निपीड्य,उत्तानेन पाणिना,

१. ‘ओं अ॒ग्नये॒ स्वाहा᳚’ इति हुत्वा, (अग्नय इदं न मम) इत्युक्त्वा,

२. (चक्राकारे ओं सोमा॑य॒ स्वाहा᳚ (सोमायेदं न मम) इत्यधिकम्)

३. ‘ओं विश्वे᳚भ्यो दे॒वेभ्य॒स्स्वाहा᳚’ (विश्वेभ्यो देवेभ्य इदं न मम)

४. ‘ओं ध्रु॒वाय॑ भौ॒माय॒ स्वाहा᳚’ (ध्रुवाय भौमाय इदं न मम)

[[58]]

५. ‘ओं ध्रु॒वक्षि॒त॑ये॒ स्वाहा᳚’ (ध्रुवक्षितय इदं न मम)

६. ‘ओम् अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा᳚’ इति हुत्वा, (अच्युतक्षितय इदं न मम) इत्युक्त्वा,

७. ‘ओं अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚’ इति पूर्वाहुत्यसंयुतम् अग्नौ ऐशान्यां हुत्वा, (अग्नये स्विष्टकृतये इदं न मम) इत्युक्त्वा, पुनः एकां समिधमाधाय,

ओम् अदि॒तेऽन्व॑मँस्थाः, ओम् अनु॑म॒तेऽन्व॑मँस्थाः, ओं सर॑स्व॒तेऽन्व॑मँस्थाः, ओं देव॑ सवि॒तः प्रासा॑वीः [[TODO:परिष्कार्यम्??]]

इति परिषिञ्चेत् । (एतावदुभयसाधारणम्)

व्यजनाकारे बलिहरणक्रमः

अथ व्यजनाकारे बलिहरणक्रमः

दक्षिणभागस्थान्नद्वयमेकीकृत्य, अग्नेः पश्चात् भूमिम् अद्भिः संसृज्य, व्याहृतिभिः प्रोक्ष्य, तत्र ‘ओं धर्मा॑य॒ स्वाहा᳚’ इति दत्वा, वर्मायेदं न मम इत्युक्त्वा, तदुत्तरतः, ‘ओम् अध॑र्माय॒ स्वाहा᳚’ इति दत्वा, अधर्मायेदं न मम इत्युक्त्वा, उभयमपृथक् परिषिच्य धर्मबलेः पश्चिमादारभ्य अद्भिः संमृज्य प्रोक्ष्य, ‘ओम् अ॒द्भ्यस्स्वाहा᳚’, अद्भ्य इदं न मम इत्युक्त्वा, परिषिच्य, तत्पूर्वतः अद्भिः संमृज्य प्रोक्ष्य, ‘ओम् ओ॒ष॒धि॒व॒॒न॒स्प॒ति॒भ्यः॒ स्वाहा᳚’ ओषधिवनस्पतिभ्य इदं न मम - ‘ओं र॒क्षो॒दे॒व॒जने॒भ्य॒स्स्वाहा᳚’ इति हुत्वा, रक्षोदेवजनेभ्य इदं न मम इत्युक्त्वा, उभयं परिषिच्य, अधर्मबलेरुत्तरतः पश्चिमादारभ्य तत्स्थलम् अद्भिः संमृज्य प्रोक्ष्य,

[[59]]

‘ओं गृह्या᳚भ्य॒स्स्वाहा᳚’ इति दत्वा, गृह्याभ्य इदं न मम इत्युक्त्वा ‘ओं अ॒व॒साने᳚भ्य॒स्स्वाहा᳚’ इति दत्वा, अवसानेभ्य इदं न मम इत्युक्त्वा, ‘ओम् अ॒व॒सान॑पतिभ्य॒स्स्वाहा᳚’ इति दत्वा, अवसानपतिभ्य इदं न मम इत्युक्त्वा, ‘ओं स॒र्व॒भू॒तेभ्य॒स्स्वाहा᳚’ इति दत्वा, सर्वभूतेभ्य इदं न मम इत्युक्त्वा, चतुर्णामेकं परिषेचनं कृत्वा, अधर्मबलेः पश्चिमादारभ्य अब्बलेरुत्तरतः, अद्भिः संमृज्य प्रोक्ष्य, ‘ओं कामा॑य॒ स्वाहा᳚” इति दत्वा, कामायेदं न मम इत्युक्त्वा, परिषिच्य तत्पुरतः अद्भिः संमृज्य प्रोक्ष्य, ‘ओम् अ॒न्तरि॑क्षाय॒ स्वाहा᳚” इति दत्वा, अन्तरिक्षायेदं न मम इत्युक्त्वा परिषिच्य, तत्पुरतः अद्भिः संमृज्य प्रोक्ष्य,

ओं यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नाम्नो॑ भा॒गोऽय॒न्नाम्ने॒ स्वाहा᳚ [[TODO:परिष्कार्यम्??]]

इति दत्वा, नाम्न इदं न मम इत्युक्त्वा परिषिश्चेत् ॥ द्वादशबलिभ्यो दक्षिणतः पश्चिमादारभ्य प्रागवधि दीर्ये [[??]] अद्भिः संमृज्य प्रोक्ष्य पश्चिमादारभ्य ‘ओं पृ॒थि॒व्यै स्वाहा᳚’ इति दत्वा, (पृथिव्या इदं न मम) इत्युक्त्वा, ‘ओम् अ॒न्तरि॑क्षाय॒ स्वाहा᳚’ (अन्तरिक्षायेदं न मम), ‘ओं दि॒वे स्वाहा᳚’, (दिव इदं न मम), ‘ओं सूर्या॑य॒ स्वाहा᳚’ (सूर्यायेदं न मम), ‘ओं च॒न्द्रम॑से॒ स्वाहा᳚’ (चन्द्रमस इदं न मम), ‘ओं नक्ष॑त्रेभ्य॒स्स्वाहा᳚’, नक्षत्रेभ्य इदं न मम, ‘ओम् इन्द्रा॑य॒ स्वाहा᳚”, (इन्द्रायेदं न मम), ‘ओं बृह॒स्पत॑ये॒ स्वाहा᳚’, (बृहस्पतय इदं न मम), ‘ओं प्र॒जाप॑तये॒ स्वाहा᳚’, (प्रजापतय इदं न मम), ‘ओं ब्रह्म॑णे॒ स्वाहा᳚’ ब्रह्मण इदं न मम इति दत्वा सर्वेषामेकं परिषेचनं कुर्यात् । पृथिव्यादिषु दशसु बलिषु आदितः अब्बलिपर्यन्तं चतुष्टयं, मध्ये धर्मबलिपर्यन्तं चतुष्टयं, तत्पुरतो बलिद्वयं च कुर्यात् । अयमेव व्यजनाकारः ॥

[[60]]

एतद्दक्षिणतः, प्राचीनावीती भूमिम् अद्भिः संमृज्य प्रोक्ष्य, ‘ओं स्व॒धा पि॒तृभ्य॒स्स्वाहा᳚’ इति पितृतीर्थेन बलिं दत्वा, पितृभ्य इदं न मम इत्युक्त्वा अप उपस्पृश्य, उपवीती एतदुत्तरतः भूमिम् अद्भिः संमृज्य, प्रोक्ष्य, ‘ओं नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚” इति दत्वा, रुद्राय पशुपतय इदं न मम इत्युक्त्वा, अप उपस्पृश्य, प्राचीनावीती पितृबलिम् अप्रदक्षिणं परिषिच्य, उपवीती रुद्रबलिं परिषिच्य, अवशिष्टे दक्षिणभागस्थान्ने मुष्टित्रयं पात्रान्तरे गृहीत्वा बहिर्गत्वा अद्भिः भूमिं संमृज्य प्रोक्ष्य,

ये भू॒ताः प्र॒चर॑न्ति दिवा॒ बल॑मि॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः᳚ ।
तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्टि॑पतिर्दधातु॒ स्वाहा᳚

इति दत्वा, दिवाचरेभ्यो भूतेभ्य इदं न मम इत्युक्त्वा परिषिच्य,

तत्पुरतः अद्भिः भूमिं संमृज्य प्रोक्ष्य,

ऐन्द्रावरुणवायव्यास्सौम्या याम्याश्च नैर्ऋताः ।
वायसाः प्रतिगृह्णन्तु बलिं भूमौ मयार्पितम् ॥

इति दत्वा, वायसेभ्य इदं न मम इत्युक्त्वा, परिषिच्य,

तत्पुरतः अद्भिः भूमिं संमृज्य प्रोक्ष्य,

यो श्वानौ श्यामशबलौ वैवस्वतकुलोद्भवौ ।
ताभ्यां बलिं प्रदास्यामि स्यातामेतावहिंसकौ ॥

इति दत्वा, श्वभ्यामिदं न मम इत्युक्त्वा परिषिच्य, भार्यादिना धर्मादिचतुर्विंशतिबलीन् अन्यत्र अपनाय्य अग्निसमीपमागच्छेत् ।

[[61]]

चक्राकारे बलिहरणप्रकारः

चक्राकारे बलिहरणप्रकारः

प्राणान् आयम्य, ‘बलिहरणेन यक्ष्ये’ इति सङ्कल्प्य, सात्त्विकत्यागं कृत्वा रङ्गवल्ल्या चक्रवन्मण्डलाकारां रेखां कृत्वा, तदन्तः मध्ये प्रत्यग्भागात् प्राग्भागपर्यन्तं दीर्घरेखां तयैव कृत्वा, तदुत्तरतो मण्डलरेखायां तद्दक्षिणतो मण्डलरेखायां च षट्षट्स्थानानि भावयित्वा हुतशिष्टं दक्षिणभागस्थमन्नमेकीकृत्य, ततः उत्तररेखायां पश्चिमतः स्थानद्वयमद्भिः संमृज्य, प्रोक्ष्य, ‘धर्मा॑य॒ स्वाहा᳚’ इत्येकत्र, ‘अध॑र्माय॒ स्वाहा᳚’ इति अन्यत्र च अन्नं निक्षिप्य, उभयोरेवं परिषेचनं विधाय, दक्षिणरेखायाः पश्चिमतः स्थानमेकं संमृज्य, ‘अ॒द्भ्यस्स्वाहा᳚” इति अन्नं निक्षिप्य, परिषिच्य, तदूर्ध्वे स्थलद्वयं संमृज्य,

ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स्स्वाहा᳚, र॒क्षो॒दे॒व॒ज॒नेभ्य॒स्स्वाहा᳚ [[TODO:परिष्कार्यम्??]]

इति अन्नं निधाय, उभे परिषिच्य, दक्षिणरेखायाम् अधर्मस्थानादूर्ध्वं चत्वारि स्थानानि संमृज्य

गृह्या᳚भ्यः॒ स्वाहा᳚’, अ॒व॒साने᳚भ्य॒स्स्वाहा᳚, अ॒व॒सान॑पतिभ्य॒स्स्वाहा᳚, स॒र्व॒भू॒तेभ्य॒स्स्वाहा᳚ [[TODO:परिष्कार्यम्??]]

इति अन्नं निक्षिप्य, युगपत् परिषिच्य, चक्रदक्षिणरेखोर्ध्वभागे संमृज्य, ‘कामा॑य॒ स्वाहा᳚’ इति निक्षिप्य परिषिच्य, तदूर्ध्वं संमृज्य, ‘अ॒न्तरि॑क्षाय॒ स्वाहा᳚’ इति निक्षिप्य, परिषिच्य, तदूर्ध्वं संमृज्य,

यदेज॑ति॒ जग॑ति॒ यच्च॒ चेष्ट॑ति॒ नाम्नो॑ भा॒गो यं नाम्ने॒ स्वाहा᳚, [[TODO:परिष्कार्यम्??]]

इति निक्षिप्य, परिषिच्य, चक्रमध्यरेखायां दश स्थानानि संमृज्य,

पृ॒थि॒व्यै स्वाहा᳚, अ॒न्तरि॑क्षाय स्वाहा᳚, दि॒वे स्वाहा᳚, सूर्या॑य॒ स्वाहा᳚, च॒न्द्रम॑से॒ स्वाहा᳚, नक्ष॑त्रेभ्यः॒ स्वाहा᳚, इन्द्रा॑य॒ स्वाहा᳚, बृह॒स्पत॑ये॒ स्वाहा᳚, प्र॒जाप॑तये॒ स्वाहा᳚, ब्रह्म॑णे॒ स्वाहा᳚, [[TODO:परिष्कार्यम्??]]

इति निक्षिप्य युगपत् परिषिच्य, प्राचीनावीती दक्षिणरेखामध्यपार्श्वं संमृज्य, ‘स्व॒धा पि॒तृभ्य॒स्स्वाहा᳚’ इति निक्षिप्य, उपवीती उत्तररेखामध्यपार्श्वे संमृज्य,

[[62]]

‘नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा᳚” इति निक्षिप्य, प्राचीनावीती पित्रन्नं परिषिच्य, उपवीती रुद्रान्नं परिषिच्य, अवशिष्टमन्नं दक्षिणभागस्थं बहिर्नीत्वा शुद्धं स्थलं संमृज्य, प्रोक्ष्य,

ये भू॒ताः प्र॒चर॑न्ति॒ दिवा॒ बल॑मि॒च्छन्तो॑ वि॒तु॒द॑स्य॒ प्रेष्याः᳚ ।
तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒ मयि॒ पुष्टिं॒ पुष्ट॑पतिर्दधातु॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]

इति दत्वा, (दिवाचरेभ्यो भूतेभ्य इदं न मम) इत्युक्त्वा पत्न्यादिना बलिहरणान्नं स्वयमनवेक्षमाणोऽपनाय्य अग्निसमीपमागच्छेत् । (वायसश्वानबलिद्वयं मनुष्ययज्ञानन्तरमेव कर्तव्यम् । एतत् बलिद्वयं पूर्वं केचन कुर्वन्ति । चक्राकारे न कुर्वन्ति)

अथ सर्वमुभयसाधारणम् - अग्रदानमहायज्ञादि ।

अग्रदानम्

अग्रदानम्

प्राणान् आयम्य, ‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थम् अग्रदानं करिष्ये’ इति सङ्कल्प्य, ‘भगवानेव… अग्रदानाख्यं कर्म … कारयति’ इति सात्त्विकत्यागं कृत्वा अग्नेरुत्तरतः भूमिम् अद्भिः संमृज्य प्रोक्ष्य, अन्नस्य उत्तरभागस्थपूर्वभागात् अन्नमुष्टिमादाय, “अकामोपहताय श्रोत्रियाय अग्रं ददामि" इति भूमौ निधाय, (अकामोपहताय श्रोत्रियाय इदं न मम) इत्युक्त्वा परिषिच्य सात्त्विकत्यागं कुर्यात् ॥

[[63]]