०८ विधुराग्निसन्धानक्रमः

॥ विधुराग्निसन्धानक्रमः ॥

उद्धृत्य वह्निं प्रणवेन पूर्वं निधाय ‘पृष्टो दिवि’ मन्त्रकेण ।
‘अन्वग्नि’ मन्त्रेण हरेत् पुरस्तात् ततश्चतुर्भिश्शकलैश्च होमः ॥

प्रणवेनाग्निं समं प्राणैर्हृत्वा, प्रणवेन निधाय, उपस्पृश्य, इत्युक्तः ।

पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश ।
वै॒श्वा॒न॒रस्सह॑सा पृ॒ष्टो अ॒ग्निस्स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त᳚म् ॥ (१) [[TODO:परिष्कार्यम्??]]

अन्व॒ग्निरु॒षसा॒मग्र॑मख्य॒दन्वहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीननु॒ द्यावा॑पृथि॒वी आ त॑तान ॥ (२) [[TODO:परिष्कार्यम्??]]

इति ऋग्भ्यां द्वाभ्याम् अग्निमुपसमाधाय,

प्राणान् आयम्य, ‘शकलहोमं करिष्ये’ इति सङ्कल्प्य, परिस्तीर्य, परिषिच्य, प्रधानाहुतीः ‘ओं भूर्भुवस्सुव॒स्स्वाहा᳚ ॥ (प्रजापतय इदं न मम) इति हुत्वा

(१) ओं तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो नः॑ प्रचो॒दया॒त् स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]]
(सवित्र इदं न मम)

(२) ओं ताँ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामाऽहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् ।
याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नीँ स॒हस्र॑धारां॒ पय॑सा म॒हीं गाँस्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (सवित्र इदं न मम)

[[21]]

(३) ओं विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒स्सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑पर्षि ।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना᳚म् ॥ [[TODO:परिष्कार्यम्??]]

पृ॒त॒ना॒जितँ॒ सह॑मानम॒मग्निमु॒ग्रँ हु॑वेम पर॒मात्स॒धस्था᳚त् ।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ ख्षाम॑द्दे॒वो अति॑ दुरितात्य॒ग्निस्स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (अग्नये जातवेदस इदं न मम)

(४) अ॒द्या नो॑ देव सवितः प्र॒जाव॑त्ससावी॒स्सौभ॑गम् । परा॑ दु॒ष्वप्नि॑यँ सुव ।
विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑ सु॒व । यद्भ॒द्रं तन्म॒ आसु॑व॒ स्वाहा᳚ ॥ [[TODO:परिष्कार्यम्??]] (सवित्र इदं न मम)

35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...

अना᳚ज्ञात॒य्ँयदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

38 पुरुषसम्मितो यज्ञः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

41 यत्पाकत्रा मनसा ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्न् ।
यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति ॥115॥

इति च हुत्वा), प्राणान् आयम्य, पुनः परिषिच्य, अग्न्युपस्थानं कृत्वा, आचामेत् ॥

[[22]]