०५ समिदाधानम्

॥ समिदाधानम् ॥ ब्रह्मचारिकार्यम् ।

सङ्कल्पान्तम्

पादौ प्रक्षाल्य, आचम्य, पवित्रपाणिः, प्राणान् आयम्य,

श्रीगोविन्देत्यादि …
श्रीभगवदाज्ञया… प्रातस्समिध आधास्ये (आधास्यामि)

इति सङ्कल्पादि कृत्वा,

स्थण्डिल-कल्पनम्

०१ परि त्वाऽग्ने ...{Loading}...

परि॑ त्वाऽग्ने॒ परि॑मृजा॒म्य् आयु॑षा च॒ धने॑न च ।
सु॒प्र॒जाः प्र॒जया॑ भूयासꣳ,
सु॒वीरो॑ वी॒रैस्, सु॒वर्चा॒ वर्च॑सा, सु॒पोषः॒ पोषै॑स्, सु॒गृहो॑ गृ॒हैस्, सु॒पतिः॒ पत्या॑+++(→आचार्येण)+++, सुमे॒धा मे॒धया॑, सु॒ब्रह्मा॑ +++(स)+++ब्र॑ह्मचा॒रिभिः॑ ।

इत्युच्चार्य,

स्थण्डिलं कल्पयित्वा,

प्राचीः पूर्वम् उदक् सँस्थं
दक्षिणारम्भम् आलिखेत् ।
अथोदीचीः पुरस्सँस्थं
पश्चिमारम्भम् आलिखेत् ॥

अवाक्-करो ऽभ्युक्ष्य,
तृणं नैर्ऋत्यां निरस्य,
अप उपस्पृश्य,

अग्नि-प्रतिष्ठा

“भूर्भुवस्सुवरोम्” इत्य् अग्निं प्रतिष्ठाप्य,
निधाय वह्निम्,

अवोक्षण-तोय-शेषम् उत्सृज्य,
अन्यत् तोयम् आपूर्य,

प्राक्-तोयं निदधात्य्
उदग् वा
बहिः परिस्तराणाम् ।

अग्निम् इद्ध्वा,
प्रागग्रैर् उदगग्रैश् च दर्भैः परिस्तीर्य,

[[7]]

परिषेचनम्

०१ अदितेऽनु मन्यस्व ...{Loading}...

अदि॒तेऽनु॑ मन्यस्व। +++(इति दक्षिणतः, प्राचीनम्)+++

०२ अनुमतेऽनु मन्यस्व ...{Loading}...

अनु॑म॒ते+++(=ऊनचन्द्रे पूर्णमासि)+++ ऽनु॑ मन्यस्व। +++(इति पश्चिमाद् उदीचीनम्)+++

०३ सरस्-वतेऽनु मन्यस्व ...{Loading}...

सर॑स्-वते+++(छान्दसो गुणः)+++ ऽनु॑ मन्यस्व। +++(इति उत्तरतः प्राचीनम्)+++

०४ देव सवितः ...{Loading}...

देव॑ सवितः॒ प्रसु॑व। +++(इति प्रागारम्भं प्रदक्षिणं)+++

इति परिषिच्य

आधानम्

समिधा दर्भेण वा
अग्नौ वक्ष्यमाण-मन्त्रैर् जुहुयात् -

०२ अग्नये समिधमाहार्षम् ...{Loading}...

अ॒ग्नये॑ स॒मिध॒म् आहा॑र्षं
बृह॒ते जा॒त-वे॑दसे ।
यथा॒ त्वम् अ॑ग्ने स॒मिधा॑ समि॒द्ध्यस॑,
ए॒वं माम् आयु॑षा॒ वर्च॑सा स॒न्या +++(=लाभेन)+++ मे॒धया॑ प्र॒जया॑ प॒शुभि॑र् ब्रह्मवर्च॒सेना॒न्नाद्ये॑न॒+++(=अन्नादनेन)+++
समे॑धय॒ स्वाहा॑ ।

०३ एधोऽस्येधिषीमहि स्वाहा ...{Loading}...

+++(हे समित्, अग्नेर्)+++ एधो॑+++(←इन्धी दीप्तौ)+++ ऽस्य्,
एधिषी॒महि॒ स्वाहा॑ ।

०४ समिदसि समेधिषीमहि ...{Loading}...

स॒मिद् अ॑सि,
समेधिषी॒महि॒ +++(अग्निं)+++ स्वाहा॑ ।

०५ तेजोसि तेजो ...{Loading}...

तेजो॑सि॒,
तेजो॒ मयि॑ धेहि॒ स्वाहा॑ ।+++(५)+++

०६ अपो अद्यान्वचारिषम् ...{Loading}...

अपो॑+++(=कर्म)+++ अ॒द्य +अन्व॑चारिष॒ꣳ॒
+++(श्रद्धा)+++रसे॑न॒ सम॑सृक्ष्महि+++(=संसृष्टो भवेयम्। समगन्महीति शाकले)+++ ।
पय॑स्वाꣳ+++(→हविष्मान्)+++ अग्न॒ आग॑म॒न्
तं मा॒ सꣳसृ॑ज॒ वर्च॑सा॒ स्वाहा॑ ।

०७ सम् माऽग्ने ...{Loading}...

सं मा॑ऽग्ने॒ वर्च॑सा सृज
प्र॒जया॑ च॒ धने॑न च॒ स्वाहा॑ ।

०८ विद्युन्मे अस्य ...{Loading}...

वि॒द्युन्+++(र्)+++ मे॑ अस्य दे॒वा
इन्द्रो॑ वि॒द्यात् स॒हर्षि॑भिः॒ स्वाहा॑ ।+++(५)+++

०९ अग्नये बृहते ...{Loading}...

अ॒ग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॑ ।
+++(दिविनाको नामाग्निः इति ब्राह्मणम् ।)+++

१० द्यावापृथिवीभ्यां स्वाहा ...{Loading}...

द्यावा॑पृथि॒वीभ्या॒ꣳ॒ स्वाहा॑ ।

११ एषा ते ...{Loading}...

ए॒षा ते॑ अग्ने स॒मित्,
तया॒ वर्द्ध॑स्व॒ चाप्या॑यस्व च॒,
तया॒ऽहं वर्ध॑मानो भूयासम्, आ॒प्याय॑मानश्च॒ स्वाहा॑ ।

१२ यो माऽग्ने ...{Loading}...

यो मा॑ऽग्ने भा॒गिनꣳ॑ स॒न्तम्
अथा॑भा॒गञ् चिकी॑र्षति ।
अभा॒गम् अ॑ग्ने॒ तं कु॑रु॒
माम् अ॑ग्ने भा॒गिनं॑ कुरु॒ स्वाहा॑ ।+++(५)+++

१३ समिधमाधायाग्ने सर्वव्रतो ...{Loading}...

स॒मिध॑म् आ॒धाया॑ग्ने॒
सर्व॑व्रतो भूयास॒२ꣳ॒ स्वाहा॑ ।

[[88]]

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

[[8]]

उपस्थानम्

उपस्थानम्

यत् ते अग्ने ...{Loading}...
यत्ते॑ अग्ने॒ ...{Loading}...
मूलम् (संयुक्तम्)

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यास॒य्ँयत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यास॒य्ँयत्ते॑ अग्ने॒ हर॒स्तेना॒हꣳ ह॑र॒स्वी भू॑यासम् ॥ [11]

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।

मूलम्

यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।

भट्टभास्कर-टीका

5यत्ते अग्ने इत्यादि यजुः ॥ तेजो दीप्तिः ।

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।

मूलम्

यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।

भट्टभास्कर-टीका

वर्चोन्नम् ।

विश्वास-प्रस्तुतिः

यत्ते॑ अग्ने॒ हर॒स्तेना॒हꣳ ह॑र॒स्वी भू॑यासम् ॥

मूलम्

यत्ते॑ अग्ने॒ हर॒स्तेना॒हꣳ ह॑र॒स्वी भू॑यासम् ॥

भट्टभास्कर-टीका

हरः बलम् । त्वदीयैस्तेजःप्रभृतिभिः मदीयेन यागेन वर्धभानैर्हेतुभिः अहं तेजःप्रभृतिमान् भूयासमिति ॥

इति तृतीये पञ्चमे तृतीयोनुवाकः ॥

मयि मेधाम् ...{Loading}...
मूलम् (संयुक्तम्)

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मय्य॒ग्निस्तेजो॑ दधातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयीन्द्र॑ इन्द्रि॒यन्द॑धातु॒ मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मय्य् अ॒ग्निस् तेजो॑ दधातु ।

Keith

On me wisdom, on me offspring, on me brilliance may Agni bestow;

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मय्य॒ग्निस्तेजो॑ दधातु ।

भट्टभास्कर-टीका

मेधा ग्रन्थार्थधारणसामर्थ्यम् ।
प्रजा पुत्रादिः ।

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मयीन्द्र॑ इन्द्रि॒यन् द॑धातु ।

Keith

on me wisdom, on me offspring, on me power may Indra bestow;

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयीन्द्र॑ इन्द्रि॒यन्द॑धातु ।

भट्टभास्कर-टीका

इन्द्रियं चक्षुरादिशक्तिः ।
दधातु स्थापयतु । गतमन्यत् ॥

इति तृतीये तृतीये प्रथमोनुवाकः ॥

विश्वास-प्रस्तुतिः

मयि॑ मे॒धाम् मयि॑ प्र॒जाम्,
मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

Keith

on me wisdom, on me offspring, on me blazing may Surya bestow.

मूलम्

मयि॑ मे॒धाम्मयि॑ प्र॒जाम्मयि॒ सूर्यो॒ भ्राजो॑ दधातु ॥ [2]

इति ।

प्रायश्चित्तादि

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

इत्युक्त्वा प्रणम्य, अभिवाद्य, आचामेत् ॥

[[9]]