संशासनम्
प्रणम्य, अभिवाद्य
(सू - उत्तरया संशास्ति ।)
षड्भिः कुमारं संशास्ति ।
प्रतिशासनं कुमारः “बाढं, बाढम्” इति प्रतिवदेत् ।
[[88]]
१४ ब्रह्मचार्यस्य्, अपोऽशान ...{Loading}...
ब्र॒ह्म॒चा॒र्य् अ॑सि।
(वटुः - बाढम्।)
अपो॑ऽशान +++(नानिवेदितम् अन्नम्)+++।
(वटुः - बाढम्।)
कर्म॑ कुरु।
(वटुः - बाढम्।)
मा सुषु॑प्थाः।
+++(अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति एवंविधो वा स्वापाभावः ।)+++
(वटुः - बाढम्।)
भि॒क्षा॒च॒र्य॑ञ् चर। (वटुः - बाढम्।)
आ॒चा॒र्या॒धी॒नो भ॑व ।
(वटुः - बाढम्।)
भिक्षा
अनन्तरं भिक्षा-चरणम्।
मातरम् एवाग्रे भिक्षेत ।
अत्र मातृ-वन्दने अभिवादनञ् च कुर्यात् ।
यदा कदाचित् जनकं विना,
अन्यः ब्रह्मोपदेष्टा चेत्
तस्य पत्नी, आचार्याणी,
सापि अभिवादयितुम् अर्हति ।
इदम् अभिवादनं भिक्षा-काल एवेति न,
किन्तु यदा यदा मातरम् आचार्याणीञ् च नमस्करोति
तदा तदा ऽभिवादयितुञ् चार्हति ।
इतर-स्त्रीणां प्रणमने नाभिवादनं कार्यम् ।