परिचयः
पुण्याहं द्विविधं -
शुद्धि-पुण्याहं,
कर्माङ्ग-पुण्याहम् इति ।
शुद्धि-पुण्याहे तावत्
जपादिकं कृत्वा
पुण्याह-जलेन यजमानादीन्, मण्टपादिकं, वस्तूनि च प्रोक्षेत् ।
अङ्ग-पुण्याहे तु
“ब्राह्मणान् स्वस्त्य्-ऋद्धी वाचयित्वा”
इत्य् एवोक्तत्वात्
प्रोक्षणादिकं नावश्यकम् ।
अत्र केचित् अभ्युदयानुष्ठाने यजमान-करस्य करयोर् वा मात्रं प्रोक्षणं कुर्वन्ति ।
सोऽयम् असम्बद्ध प्रलाप एव ॥+++(5)+++
विश्वास-टिप्पनी
किञ्च, बोधायनशेष-सूत्रेषु प्रोक्षणम् उक्तम् एव।
तमिऴ्
ஹிரண்யத்தை ஸமர்ப்பித்து விட்டு, ததங்கம் புண்யாஹ வாசனம் கரிஷ்யே விசேஷமாக அப்யுதய கர்மண: புண்யாஹம் அப்யுதய கர்மணே ஸ்வஸ்தி அப்யுதய கர்மண: ருத்திம்பவந்த: 35606] 3 தடவை 3606/] என்பதாகப் பிரார்த்திக்க வேண்டும். ஸ்வாமிந: மநஸ்ஸமாதீயதாம் என்பது ஆரம்பித்து ஓம் சாந்தி: சாந்தி: சாந்தி: என்பது வரை வழக்கம் போல் உண்டு. [[TODO::परिष्कार्यम्??]]
वाचनम्
तद्-अङ्गं पुण्याहवाचनं करिष्ये ॥ (पुण्याहं वाचयिष्ये)
ब्राह्मणान् स्वस्ति-+ऋद्धी वाचयित्वा
इत्य् उक्तत्वात्
अङ्ग-भूत-पुण्याहेषु
वरुणावाहन-मन्त्र-जपादिकं विना
कुम्भम् उपस्पृश्य प्रार्थयेयुः ॥
- स्वामिनः मनस् समाधीयताम्
- “समाहित मनसस्स्मः" इति प्रतिवचनं
- प्रसीदन्तु भवन्तः
- “प्रसन्नास्स्मः" इति प्रतिवचनं
- भवद्भिर् अनुज्ञातः पुण्याहं वाचयिष्ये
- (ओंवाच्यताम् इतिप्रतिवचनम्)
- (अभ्युदयकर्मणः) पुण्याहं भवन्तो ब्रुवन्तु - एवं त्रिः
- (पुण्याहमस्तु प्रतिवचनम्)
- अभ्युदय-कर्मणे स्वस्ति भवन्तो ब्रुवन्तु - त्रिः
- (कर्मणे स्वस्ति इति प्रतिवचनम्)
- अभ्युदय-कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु - त्रिः
- ऋध्यताम् इति प्रतिवचनम्
[[27]]
- ऋद्धिस् समृद्धिः पुण्याह-समृद्धिर् अस्तु।
शिवं कर्मास्तु।
प्रजापतिः प्रीयताम्।- (“प्रीयतां भगवान् प्रजापतिः” इति प्रतिवचनम्)
आशीर्वचनम्
- ओं शान्तिर् अस्तु,
- पुष्टिर् अस्तु, तुष्टिर् अस्तु,
- ऋद्धिर् अस्तु, अविघ्नम् अस्तु,
- आयुष्यम् अस्तु, आरोग्यम् अस्तु,
- धन-धान्य-समृद्धिर् अस्तु,
- गो-ब्राह्मणेभ्यः शुभं भवतु
- (बहिर् देशे) अरिष्ट-निरसनम् अस्तु,
- यत् पापं तत् प्रतिहतम् अस्तु,
- सर्व-शोभनम् अस्तु
- सर्वास् सम्पदस् सन्तु ।
- ओं शान्तिः शान्तिः शान्तिः॥