०१ जातकर्मादीनां स्व-स्व-कालेष्व् अकरण-प्रायश्चित्तम्

पाणिपादं प्रक्षाल्य, द्विराचम्य, पवित्रपाणिः ताम्बूलनारिकेलाक्षतादिमङ्गलद्रव्यं गृहीत्वा,

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

अमुक-गोत्रे अमुक-नक्षत्रे जातस्य मम कुमारस्य जातकर्मनामकरणान्नप्राशनचौलोपनयनकर्मणां स्वस्वकालेष्वकरणप्रायश्चित्तं कर्तुं योग्यतासिद्धिरस्त्विति भवन्तो महान्तोऽनुगृह्णन्तु, तथास्तु योग्यतासिद्धिरस्तु इत्यनुज्ञातः, दर्भेष्वासीनः, दर्भान् धारयमाणः, पवित्रपाणिः प्राणानायम्य, प्रारिप्सितस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थम् आदौ विष्वक्सेनाराधनं करिष्ये, ओं -

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

[[39]]

यस्य द्विरदवक्त्राद्याः पारिषद्याः परश्शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥

करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थम् आदौ विष्वक्सेनाराधनं करिष्ये इति सङ्कल्प्य, विष्वक्सेनाय नमः, ध्यायामि, आवाहयामि, आसनं समर्पयामि, पादयोः पाद्यं समर्पयामि, अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि, “आपोहिष्ठा मयोभुवः आपो जनयथा च नः” स्नापयामि, स्नानानन्तरमाचमनीयं समर्पयामि, वस्त्रं समर्पयामि, उपवीतं समर्पयामि, गन्धं समर्पयामि, पुष्पं समर्पयामि, धूपं समर्पयामि, दीपं समर्पयामि, एते गन्धाक्षतपुष्पधूपदीपोत्तरीयाभरणाद्यलङ्काराः सर्वोपचाराः । ओं भूर्भुवस्सुवरिति प्रोक्ष्य, “देवसवितः प्रसुवे”ति परिषिच्य, विष्वक्सेनाय नमः गुडोपहारं निवेदयामि, आचमनीयं समर्पयामि, ताम्बूलं समर्पयामि, सर्वोपचारान् समर्पयामि ।

श्रीगोविन्देत्यादि

अस्यां शुभतिथौ अमुक-गोत्रस्य अमुक-नक्षत्रे जातस्य मम कुमारस्य
जातकर्म-नाम-करणान्नप्राशन–चौलोपनयनकर्मणां
स्वस्वकालेष्व् अ-करण-प्रायश्-चित्तं करिष्य

इति सङ्कल्प्य

यथा-योग्यं यथा-शक्ति तत्-तत्-कालानुगुणं हिरण्यं गृहीत्वा,

Hira Nya garbha garbhastha M sampradade ...{Loading}...
हिरण्य-गर्भ--गर्भ-स्थं ...{Loading}...
विश्वास-प्रस्तुतिः

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥

मूलम्

हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥


हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥

दानम्, त्यागः

… यत्किञ्चिद्धिरण्यानि
नानागोत्रेभ्यः श्रीवैष्णवेभ्यः येभ्यस् तेभ्यः/ तुभ्यम् अहं
सम्प्रददे

(न मम॥)

इदम् अमुक-गोत्रस्य, अमुक-नक्षत्रे जातस्य, अस्य कुमारस्य,
जात-कर्म–नाम-करणान्नप्राशन-चौलोपनयनकर्मणां स्वस्वकालेष्वकरणप्रायश्चित्तार्थं प्राजापत्यकृच्छ्राणि
यत्किञ्चिद्धिरण्यानि नानागोत्रेभ्यः श्रीवैष्णवेभ्यः येभ्यस्तेभ्यः सम्प्रददे न मम, भूमौ साक्षतं हिरण्यं दत्वा ब्राह्मणेभ्यो दद्यात् ॥

[[41]]