०७, ओदन-सवः - सिंहे व्याघ्रे ...{Loading}...
सायणोक्त-विनियोगः
(SB) 1षष्ठे गोसवोऽभिहितः । सप्तम ओदनसवोऽभिधीयते । कल्पः - ‘ओदनसवेनान्नाद्यकामो रोहिण्यां यजेत । उपव्युषं श्रपयति दर्विहोमो भवत्युदित आदित्ये सिꣳहे व्याघ्र इति चतस्र आहुतीरोदनाद्धुत्वा’ इति ।
विश्वास-प्रस्तुतिः ...{Loading}...
सि॒ꣳ॒हे व्या॒घ्र उ॒त या पृदा॑कौ+++(=अजगरे)+++ ।
त्विषि॑र् अ॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒ या ।
इन्द्र॒य्ँ या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न् वर्च॑सा सव्ँ विदा॒ना ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
सि॒ꣳ॒हे व्या॒घ्र उ॒त या पृदा॑कौ ।
त्विषि॑र॒ग्नौ ब्रा᳚ह्म॒णे सूर्ये॒ या ।
इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।
सायण-टीका
तत्र प्रथमाम् ऋचम् आह -
पृदाकुः मनुष्य-निगरण-समर्थो ऽजगरः ।
सिंहादिष्व् अग्न्यादिषु च येयं त्विषिः अप्रधृष्यत्वलक्षणं तेजस्
तद्-अभिमानिनी या देवो सुभगा सौभाग्ययुक्ता सती इन्द्रं परमैश्वर्ययुक्तं पुरुषं जजान उत्पादयामास । सा देवी वर्चसा बलेन संविदाना ऐकमत्यं गता सती नोऽस्मान्प्रति आगन् आगच्छतु ॥
विश्वास-प्रस्तुतिः ...{Loading}...
या रा॑ज॒न्ये॑, दुन्दु॒भाव् आय॑तायाम् ।
अश्व॑स्य॒ क्रन्द्ये॒, पुरु॑षस्य मा॒यौ ।
इन्द्र॒य्ँ या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न् वर्च॑सा सव्ँ विदा॒ना ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
या रा॑ज॒न्ये॑ दुन्दु॒भावाय॑तायाम् ।
अश्व॑स्य॒ क्रन्द्ये॒ पुरु॑षस्य मा॒यौ ।
इन्द्र॒य्ँ या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।
सायण-टीका
2अथ द्वितीयामाह - राजन्ये क्षत्रिये आयतायां ताड्यमानायां दुन्दुभौ अश्वस्य क्रन्द्ये क्रन्दने हेषिते पुरुषस्य मायौ सिंहनादादिशब्दे । एतेषु या त्विषिर्गाम्भीर्यलक्षणा तदभिमानिनी । या देवीत्यादि पूवर्वत् ॥
- या देवो सुभगा सौभाग्ययुक्ता सती इन्द्रं परमैश्वर्ययुक्तं पुरुषं जजान उत्पादयामास । सा देवी वर्चसा वलेन संविदाना ऐकमत्यं गता सती नोऽस्मान्प्रति आगन् आगच्छतु ॥
विश्वास-प्रस्तुतिः ...{Loading}...
या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये ।
त्विषि॒र् अश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ॥16॥
इन्द्र॒य्ँ या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न् वर्च॑सा सव्ँ विदा॒ना ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
या ह॒स्तिनि॑ द्वी॒पिनि॒ या हिर॑ण्ये ।
त्विषि॒रश्वे॑षु॒ पुरु॑षेषु॒ गोषु॑ ॥16॥
इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।
सायण-टीका
3अथ तृतीयामृचमाह - नगरे जातस्तत्रैव वर्तमानो हस्ती । अरण्ये जातस्तत्रैव वर्तमानो द्वीपीत्य् अवान्तरभेदः । द्वीपी मृगान्तरं वा । हस्त्यादिष्वश्वादिषु च या त्विषिर्महार्घत्वलक्षणा तदभिमानिनी । या देवीत्यादि पूर्वत् ॥
- या देवो सुभगा सौभाग्ययुक्ता सती इन्द्रं परमैश्वर्ययुक्तं पुरुषं जजान उत्पादयामास । सा देवी वर्चसा वलेन संविदाना ऐकमत्यं गता सती नोऽस्मान्प्रति आगन् आगच्छतु ॥
विश्वास-प्रस्तुतिः ...{Loading}...
रथे॑, अ॒ख्षेषु॑, वृष॒भस्य॒ वाजे᳚ ।
वाते॑, प॒र्जन्ये॒, वरु॑णस्य॒ शुष्मे᳚ ।
इन्द्र॒य्ँ या दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न् वर्च॑सा सव्ँ विदा॒ना ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
रथे॑ अ॒ख्षेषु॑ वृष॒भस्य॒ वाजे᳚ ।
वाते॑ प॒र्जन्ये॒ वरु॑णस्य॒ शुष्मे᳚ ।
इन्द्र॒य्ँया दे॒वी सु॒भगा॑ ज॒जान॑ ।
सा न॒ आग॒न्वर्च॑सा सव्ँ विदा॒ना ।
सायण-टीका
4अथ चतुर्थीमाह - वाजो वेगः । शुष्मो बलम् । रथादिषु वातादिषु च या त्विषिः स्वस्वकार्यक्षमलक्षणा तदभिमानिनी । या देवीत्यादि पूर्ववत् ॥
- या देवो सुभगा सौभाग्ययुक्ता सती इन्द्रं परमैश्वर्ययुक्तं पुरुषं जजान उत्पादयामास । सा देवी वर्चसा वलेन संविदाना ऐकमत्यं गता सती नोऽस्मान्प्रति आगन् आगच्छतु ॥
सायणोक्त-विनियोगः
5कल्पः - ‘राडसीत्येतैः प्रतिमन्त्रं मन्थान्कल्पयन्त्याज्यमन्थं ब्राह्मणः पयोमन्थं राजन्यो दधिमन्थं वैश्य उदमन्थं शूद्रः’ इति । तान्मन्त्रानाह -
विश्वास-प्रस्तुतिः
+++(हे आज्यमन्थ!)+++ राड् अ॑सि। वि॒राड् अ॑सि ।
मूलम्
राड॑सि वि॒राड॑सि ।
सायण-टीका
हे आज्यमन्थ! त्वं राडसि राजमानोऽसि । विविधं राजत इति विराट् ।
विश्वास-प्रस्तुतिः
स॒म्राड् अ॑सि। स्व॒-राड् अ॑सि ।
मूलम्
स॒म्राड॑सि स्व॒राड॑सि ।
सायण-टीका
सम्यग्राजत इति सम्राट् । स्वातन्त्र्येण राजत इति स्वराट् ॥
सायणोक्त-विनियोगः
6कल्पः - ‘इन्द्राय त्वा तेजस्वते तेजस्वन्तं श्रीणामि’ हति ब्राह्मणः सक्तुभिराज्यं श्रीत्वा ‘तेजोऽसि’ इत्यभिमन्त्र्य ‘तत्ते प्रयच्छामि’ इति यजमानाय प्रयच्छति । ‘तेजस्वदस्तु मे मुखम्’ इति प्रतिगृह्य भक्षयति । एवमितरेषामुतोत्तरश्रयणोऽभिमन्त्रणः प्रदानो भक्षणश्च यथालिङ्गम्’ इति । तत्र श्रयणमन्त्राणां पाठस्तु -
विश्वास-प्रस्तुतिः
इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तꣵ श्रीणामि ।
मूलम्
इन्द्रा॑य त्वा॒ तेज॑स्वते॒ तेज॑स्वन्तꣵ श्रीणामि ।
सायण-टीका
हे आज्यमन्थ! त्वां तेजोयुक्तेन्द्रार्थं तेजस्वन्तं त्वां सक्तुभिस्सह श्रीणामि पचामि । आज्यस्य तेजोरूपत्वेन तेजस्त्वम् । एवं पयोमन्थादिषु योज्यम् ।
विश्वास-प्रस्तुतिः
इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तꣵ श्रीणामि ॥17॥
मूलम्
इन्द्रा॑य॒ त्वौज॑स्वत॒ ओज॑स्वन्तꣵ श्रीणामि ॥17॥
सायण-टीका
ओजसे बलहेतुवात्पयोमन्थ ओजस्वान् ।
विश्वास-प्रस्तुतिः
इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तꣵ श्रीणामि ।
मूलम्
इन्द्रा॑य त्वा॒ पय॑स्वते॒ पय॑स्वन्तꣵ श्रीणामि ।
सायण-टीका
दर्शेऽष्टौ च ‘ऐन्द्रं पयः’ इत्याम्नानादिन्द्रस्य पयस्वत्त्वम् । दधिमन्थस्य पयोविकारत्वेन पयस्वत्त्वम् ।
विश्वास-प्रस्तुतिः
इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तꣵ श्रीणामि ।
मूलम्
इन्द्रा॑य॒ त्वाऽऽयु॑ष्मत॒ आयु॑ष्मन्तꣵ श्रीणामि ।
सायण-टीका
चिरजीवित्वादिन्द्रस्यायुष्मत्त्वम् । उदमन्थस्यायुर्हेतुत्वादायुष्मत्त्वम् ॥
सायणोक्त-विनियोगः
7आज्यमन्थस्याभिमन्त्रणादींस् त्रीन् मन्त्रानाह -
विश्वास-प्रस्तुतिः
+++(आज्यमन्थ!)+++ तेजो॑ ऽसि । +++(यजमान!)+++ तत् ते॒ प्रय॑च्छामि ।
मूलम्
तेजो॑ऽसि ।
तत्ते॒ प्रय॑च्छामि ।
सायण-टीका
हे आज्यमन्थ! त्वं तेजोरूपोऽसि ।
हे यजमान! तन्मन्थद्रव्यं ते तुभ्यं प्रयच्छामि ।
विश्वास-प्रस्तुतिः ...{Loading}...
तेज॑स्वद् अस्तु मे॒ मुख᳚म् ।
तेज॑स्व॒च् छिरो॑ अस्तु मे ।
तेज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
तेज॑सा॒ सम्पि॑पृग्धि मा ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
तेज॑स्वदस्तु मे॒ मुख᳚म् ।
तेज॑स्व॒च्छिरो॑ अस्तु मे ।
तेज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
तेज॑सा॒ सम्पि॑पृग्धि मा ।
सायण-टीका
मे मम यजमानस्य मुखं तेजोयुक्तमस्तु ।
शिरोऽपि तेजस्वदस्तु ।
हे मन्थ! त्वं तेजस्वान्भूत्वा विश्वतः सर्वस्मात्प्रत्यङ् प्रत्यासन्नस्सन्मां तेजसा संपिपृग्धि संपृक्तं कुरु ॥
सायणोक्त-विनियोगः
8-9पयोमन्थस्याभिमन्त्रणादींस्त्रीन्मन्त्रानाह -
विश्वास-प्रस्तुतिः
ओजो॑ऽसि । तत्ते॒ प्रय॑च्छामि ॥18॥
मूलम्
ओजो॑ऽसि । तत्ते॒ प्रय॑च्छामि ॥18॥
सायण-टीका
ओजो बलम् । अन्यत्पूर्ववद्व्याख्येयम् ।
विश्वास-प्रस्तुतिः ...{Loading}...
ओज॑स्वद् अस्तु मे॒ मुख᳚म् ।
ओज॑स्व॒च् छिरो॑ अस्तु मे ।
ओज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
ओज॑सा॒ सम्पि॑पृग्धि मा ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
ओज॑स्वदस्तु मे॒ मुख᳚म् ।
ओज॑स्व॒च्छिरो॑ अस्तु मे ।
ओज॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
ओज॑सा॒ सम्पि॑पृग्धि मा ।
सायणोक्त-विनियोगः
दधिमन्थस्याभिमन्त्रणादींस्त्रीन्मन्त्रानाह - दधिमन्थस्य पयोविकारत्वात्पयस्त्वम् ।
विश्वास-प्रस्तुतिः
पयो॑ऽसि । तत्ते॒ प्रय॑च्छामि ।
मूलम्
पयो॑ऽसि । तत्ते॒ प्रय॑च्छामि ।
विश्वास-प्रस्तुतिः ...{Loading}...
पय॑स्वद् अस्तु मे॒ मुख᳚म् ।
पय॑स्व॒च्छिरो॑ अस्तु मे ।
पय॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
पय॑सा॒ सम्पि॑पृग्धि मा ॥19॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
पय॑स्वदस्तु मे॒ मुख᳚म् ।
पय॑स्व॒च्छिरो॑ अस्तु मे ।
पय॑स्वान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
पय॑सा॒ सम्पि॑पृग्धि मा ॥19॥
सायण-टीका
मुखस्य पयोभिजित्वात्पयस्वत्त्वम् । शिरश्शब्देन कृत्स्नो देह उपलक्ष्यते । तस्य पयोजन्यशक्तिमत्त्वात्पयस्वत्वम् । अन्यत्पूर्ववत् ॥
विश्वास-प्रस्तुतिः
आयु॑रसि । तत्ते॒ प्रय॑च्छामि ।
मूलम्
आयु॑रसि । तत्ते॒ प्रय॑च्छामि ।
विश्वास-प्रस्तुतिः ...{Loading}...
आयु॑ष्मद् अस्तु मे॒ मुखम्᳚ ।
आयु॑ष्म॒च् छिरो॑ अस्तु मे ।
आयु॑ष्मान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
आयु॑षा॒ सम्पि॑पृग्धि मा ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
आयु॑ष्मदस्तु मे॒ मुखम्᳚ ।
आयु॑ष्म॒च्छिरो॑ अस्तु मे ।
आयु॑ष्मान् वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
आयु॑षा॒ सम्पि॑पृग्धि मा ।
सायणोक्त-विनियोगः
10-11उदमन्थस्याभिमन्त्रणादींस्त्रीन्मन्त्रानाह - उदमन्थस्यायुर्हेतुत्वादायुष्ट्वम् । अन्यत्पर्वूवत् । कल्पः - ‘ओदनशेषं यजमानः प्राश्नाति, इममग्न आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते’ इति ।
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मम् अ॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ।
प्रि॒यꣳ रेतो॑ वरुण सोम राजन्न् ।
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ ।
विश्वे॑ देवा॒ जर॑-दष्टि॒र् यथा ऽस॑त् ॥20॥
सर्वाष् टीकाः ...{Loading}...
मूलम्
इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृधि ।
प्रि॒यꣳ रेतो॑ वरुण सोम राजन्न् ।
मा॒तेवा᳚स्मा अदिते॒ शर्म॑ यच्छ ।
विश्वे॑ देवा॒ जर॑दष्टि॒र्यथाऽस॑त् ॥20॥
सायण-टीका
पाठस्तु - हेऽग्ने! इमं यजमानमायुषे दीर्घायुष्ट्वाय वर्चसे बलाय च कृधि समर्थं कुरु । हे वरुण! प्रियं कृधि अभीष्टं कुरु । हे सोम राजन्! रेतः कृधि प्रजोत्पादनसामर्थ्यं कुरु । हेऽदिते! अस्मै यजमानाय मातेव शर्म यच्छ सुखं देहि । हे विश्वेदेवाः! अयं यजमानः जरदष्टिर्यथा सत् जराप्राप्तिमान्यथा भवति, तथा कुर्वन्तु चिरजीविनं कुर्वन्त्वित्यर्थः ॥
सायणोक्त-विनियोगः
12कल्पः - ‘हिरण्यं यजमानाय बध्नाति’ ‘आयुरसि विश्वायुरसि’ इत्याबध्यमानो जपति’ इति ।
विश्वास-प्रस्तुतिः
आयु॑र् असि।
वि॒श्वायु॑र् असि ।
स॒र्वायु॑र् असि॒, सर्व॒म् आयु॑र् असि ।
मूलम्
आयु॑रसि वि॒श्वायु॑रसि । स॒र्वायु॑रसि॒ सर्व॒मायु॑रसि ।
सायण-टीका
पाठस्तु - हे हिरण्य! त्वमायुर्हेतुरमि ।
न केवलं ममैवायुर्हेतुः किंतु विश्वेषां मनुष्याणां सर्वेषां देवानां चायुर्हेतुरसि । तस्मात्त्वमेव सर्वायुरसि ॥
सायणोक्त-विनियोगः
13कल्पः - ‘तैरेनं संसृष्टैरभिषिञ्चति यतो वातो मनोजवाः’ इति । तैः अपां ग्रहैः ।
विश्वास-प्रस्तुतिः ...{Loading}...
यतो॒ वातो॒ मनो॑जवाः ।
यतः॒ ख्षर॑न्ति॒ सिन्ध॑वः ।
तासा᳚न् त्वा॒ सर्वा॑साꣳ रु॒चा ।
अ॒भिषि॑ञ्चामि॒ वर्च॑सा ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
यतो॒ वातो॒ मनो॑जवाः ।
यतः॒ ख्षर॑न्ति॒ सिन्ध॑वः ।
तासा᳚न्त्वा॒ सर्वा॑साꣳ रु॒चा ।
अ॒भिषि॑ञ्चामि॒ वर्च॑सा ।
सायण-टीका
पाठस्तु - यतो यस्या रुचो दीप्तेर्वेगवान्वातः प्रवर्तते । पुनरपि यतः सिन्धवो नद्यो मनोजवा मनोवेगयुक्ताः सत्यः क्षरन्ति प्रवहन्ति । तासां सर्वासामपां संबन्धिन्या रुचा त्वां यजमानं वर्चसा बलनिमित्तमभिषिञ्चामि ॥
विश्वास-प्रस्तुतिः ...{Loading}...
स॒मु॒द्र इ॑वासि ग॒ह्मना᳚ ।
सोम॑ इवा॒स्य् अदा᳚भ्यः ।
अ॒ग्निर् इ॑व वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ॥21॥+++(5)+++
सर्वाष् टीकाः ...{Loading}...
मूलम्
स॒मु॒द्र इ॑वासि ग॒ह्मना᳚ ।
सोम॑ इवा॒स्यदा᳚भ्यः ।
अ॒ग्निरि॑व वि॒श्वत॑ᳶ प्र॒त्यङ्ङ् ।
सूर्य॑ इव॒ ज्योति॑षा वि॒भूः ॥21॥
सायण-टीका
14कल्पः - ‘समुद्र इवासि गह्मनेत्येनमभिमन्त्र्य’ इति । पाठस्तु - हे यजमान! त्वं गह्मना गाम्भीर्येण समुद्र इवासि समुद्रसमोऽसि । सोमवददाभ्यः केनाप्यधृष्योऽसि । अग्निरिव विश्वतः सर्वस्मात् प्रत्यङ् प्रत्यासन्नः असि । अग्निर्ह्युदरमध्यवर्तित्वात्प्रत्यासन्नः । सूर्य इव ज्योतिषा व्याप्तोऽसि ॥
मूलम् संयुक्तम्
अ॒पाय्ँ यो द्रव॑णे॒ रसः॑ ।तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि ।
अ॒पाय्ँय ऊ॒र्मौ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ ।ओज॑से वी॒र्या॑य गृह्णामि ।
अ॒पाय्ँ यो म॑ध्य॒तो रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि ।
अ॒पाय्ँ यो य॒ज्ञियो॒ रसः॑ । तम॒हम॒स्मा आ॑मुष्याय॒णाय॑ । आयु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥22॥
सायणोक्त-विनियोगः
13कल्पः - “अपां ग्रहान्गृह्णन्ति ये मन्थान्कल्पयन्ति ‘अपां यो द्रवणे रसः’ इत्येतैः प्रतिमन्त्रम्” इति । तानेतांश्चतुरो मन्त्रानाह -
विश्वास-प्रस्तुतिः
अ॒पाय्ँ यो द्रव॑णे॒ रसः॑ ।
तम् अ॒हम् अ॒स्मा आ॑मुष्याय॒णाय॒ +++(→पुत्राय)+++
तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि ।
मूलम्
अ॒पाय्ँ यो द्रव॑णे॒ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॒ तेज॑से ब्रह्मवर्च॒साय॑ गृह्णामि ।
सायण-टीका
अपां संबन्धिनि द्रवणे द्रवीभावे यो रसः सारः
तं रसम् अहम् आमुष्यायणाय अमुष्य देवदत्तस्य पुत्रायास्मै यज्ञदत्ताख्याय यजमानाय
तेजोब्रह्मवर्चसयोः सिद्ध्यर्थं गृह्णामि । एवमुत्तरे त्रयो मन्त्रा व्याख्येयाः ।
विश्वास-प्रस्तुतिः
अ॒पाय्ँ य ऊ॒र्मौ रसः॑ ।
तम् अ॒हम् अ॒स्मा आ॑मुष्याय॒णाय॒
ओज॑से वी॒र्या॑य गृह्णामि ।
मूलम्
अ॒पाय्ँय ऊ॒र्मौ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॒ ओज॑से वी॒र्या॑य गृह्णामि ।
विश्वास-प्रस्तुतिः
अ॒पाय्ँ यो म॑ध्य॒तो रसः॑ ।
तम् अ॒हम् अ॒स्मा आ॑मुष्याय॒णाय॒
पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि ।
मूलम्
अ॒पाय्ँ यो म॑ध्य॒तो रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाय॒ पुष्ट्यै᳚ प्र॒जन॑नाय गृह्णामि ।
विश्वास-प्रस्तुतिः
अ॒पाय्ँ यो य॒ज्ञियो॒ रसः॑ ।
तम् अ॒हम् अ॒स्मा आ॑मुष्याय॒णाय॒
+आ॒यु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥22॥
मूलम्
अ॒पाय्ँ यो य॒ज्ञियो॒ रसः॑ ।
तम॒हम॒स्मा आ॑मुष्याय॒णाया॒यु॑षे दीर्घायु॒त्वाय॑ गृह्णामि ॥22॥
सायणोक्त-विनियोगः
अत्र विनियोगसंग्रहः-
स्यादोदनसवे होमः सिंहे मन्त्रचतुष्टयात् ॥
राट्चतुर्भिश्चतुर्मन्थान्कल्पयेद्ब्राह्मणादयः ॥ १ ॥
आज्यं क्षीरं दधि जलं द्रव्याण्येषां क्रमादिह ॥
श्रीणन्ति सक्तुभिर्मन्थानिन्द्रायेति चतुष्टयान् ॥ २ ॥
तेजोऽसीत्याज्यमन्थस्य मन्त्रणं तत्त इत्यतः ॥
तं मन्थं स्वामिने दद्यात्तेजस्वद्भक्षयेदतः ॥ ३ ॥
क्षीरादिमन्थेऽप्योजोऽसीत्यादिमन्त्रास्तथैव हि ॥
खादन्तं मन्त्रयेच्चेममायुस्तु स्वामिनो जपः ॥ ४ ॥
यतोऽभिषिच्याभिषिक्तं समुद्रो मन्त्रयेत हि ॥
अपामित्यभिषेकाय गृह्णन्ति हि नलग्रहान् ॥
अनुवाके सप्तमेऽस्मिन्मन्त्रा द्वात्रिंशदीरिताः ॥ ५ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके सप्तमप्रपाठके सप्तमोऽनुवाकः ॥