०२ प्रत्याहाराह्निकम्

।। अथ द्वितीयं प्रत्याहाराह्निकम् ।।

शिवसूत्रम्।

विवृतोपदेशप्रतिज्ञानिरूपणम्

अइउण्॥

-0-1-087- (1-1-1) अकारस्य विवृतोपदेश आकारग्रहणार्थः - अकारस्य विवृतोपदेशः कर्तव्यः। किं प्रयोजनम्? आकारग्रहणार्थः। अकारः सवर्णग्रहणेनाकारमपि यथा गृह्णीयात्। किं च कारणं न गृह्णीयात्? विवारभेदात्। किमुच्यते- विवारभेदादिति, न पुनः कालभेदादपि। यथैव ह्ययं विवारभिन्नः, एवं कालभिन्नोऽपि? सत्यमेव तत्। वक्ष्यति- तुल्यास्यप्रयत्नं सवर्णम् इत्यत्रास्यग्रहणस्य प्रयोजनम्- आस्ये येषां तुल्यो देशः प्रयत्नश्च ते सवर्णसञ्ञ्ज्ञा भवन्तीति। बाह्यश्च पुनरास्यात्कालः। तेन स्यादेव कालभिन्नस्य ग्रहणम्, न पुनर्विवारभिन्नस्य। किं पुनरिदं विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायते, आहोस्वित्संवृतस्योपदिश्यमानस्य विवृतोपदेशश्चोद्यते? विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायते।

कथं ज्ञायते? यदयम्- अ अ इत्यकारस्य विवृतस्य संवृतताप्रत्यापत्तिं शास्ति। नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्? अतिखट्वः, अतिमाल इत्यत्रान्तर्यतो विवृतस्य विवृतः प्राप्नोति, संवृतः स्यादित्येवमर्था प्रत्यापत्तिः। नैतदस्ति। नैव लोके न च वेदेऽकारो विवृतोस्ति। कस्तर्हि? संवृतः, योस्ति स भविष्यति। तदेतत्प्रत्यापत्तिवचनं ज्ञापकमेव भविष्यति विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायते इति। कः पुनरत्र विशेषः- विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायेत, संवृतस्योपदिश्यमानस्य वा विवृतोपदेशश्चोद्येतेति? न खलु कश्चिद्विशेषः। आहोपुरुषिकामात्रं तु। भवानाह- संवृतस्योपदिश्यमानस्य विवृतोपदेशश्चोद्यत इति। वयं तु ब्रूमो- विवृतस्योपदिश्यमानस्य प्रयोजनमन्वाख्यायत इति। -0-1-089- (1-1-2) तस्य विवृतोपदेशादन्यत्रापि विवृतोपदेशः सवर्णग्रहणार्थः - तस्यैतस्याक्षरसमाम्नायिकस्य विवृतोपदेशादन्यत्रापि विवृतोपदेशः कर्तव्यः। क्वाऽन्यत्र? धातुप्रातिपदिकप्रत्ययनिपातस्थस्य। किं प्रयोजनम्? सवर्णग्रहणार्थः। आक्षरसमाम्नायिकेनाऽस्य ग्रहणं यथा स्यात्। किं च कारणं न स्यात्? विवारभेदादेव। आचार्यप्रवृत्तिर्ज्ञापयति- भवत्याक्षरसमाम्नायिकेन धात्वादिस्थस्य ग्रहणमिति। यदयम्- अकः सवर्णे दीर्घः इति प्रत्याहारेऽको ग्रहणं करोति। कथं कृत्वा ज्ञापकम्? न हि द्वयोराक्षरसमाम्नायिकयोर्युगपत्समवस्थानमस्ति। नैतदस्ति ज्ञापकम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्? यस्याक्षरसमाम्नायिकेन ग्रहणमस्ति, तदर्थमेतत्स्यात्- खट्वाढकम्, मालाढकमिति। सति प्रयोजने न ज्ञापकं भवति। तस्माद्विवृतोपदेशः कर्तव्यः। क एष यत्नश्चोद्यते विवृतोपदेशो नाम। विवृतो वोपदिश्येत संवृतो वा। को न्वत्र विशेषः? स एष सर्व एवमर्थो यत्नः क्रियते। यान्येतानि प्रातिपदिकान्यग्रहणानि तेषामेतेनाभ्युपायेनोपदेशश्चोद्यते, तद् गुरु भवति। तस्माद् वक्तव्यं धात्वादिस्थश्च विवृतः इति। -0-1-090- (1-1-3) दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थः - दीर्घप्लुतवचने च संवृतनिवृत्त्यर्थो विवृतोपदेशः कर्तव्यः। दीर्घप्लुतौ संवृतौ मा भूतामिति। वृक्षाभ्याम्, देवदत्ता3 इति। नैव लोके न च वेदे दीर्घप्लुतौ संवृतौ स्तः। कौ तर्हि? विवृतौ। यौ स्तस्तौ भविष्यतः। स्थानी प्रकल्पयेदेतावनुस्वारो यथा यणम्। संवृतः स्थानी संवृतौ दीर्घप्लुतौ प्रकल्पयेत्। अनुस्वारो यथा यणम्। तद्यथा- सँय्यन्ता, सँव्वत्सरः, यँल्लोकम्, तँल्लोकम् इति। अनुस्वारः स्थानी यणमनुनासिकं प्रकल्पयति। विषम उपन्यासः। युक्तं यत्सतस्तत्र प्रक्लृप्तिर्भवति। सन्ति हि यणः सानुनासिका निरनुनासिकाश्च। दीर्घप्लुतौ पुनर्नैव लोके नैव च वेदे संवृतौ स्तः। कौ तर्हि? विवृतौ, यौ स्तस्तौ भविष्यतः। एवमपि कुत एतत्- तुल्यस्थानौ प्रयत्नभिन्नौ भविष्यतः, न पुनस्तुल्यप्रत्यत्नौ स्थानभिन्नौ स्याताम्, इर्कार ऊकारो वेति? वक्ष्यति- स्थानेन्तरतमः इत्यत्र स्थाने इत्यनुवर्तमाने पुनः स्थानेग्रहणस्य प्रयोजनम् यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयो भवति इति।

वर्णसमाम्नाये जातिपक्षाधिकरणम्

(1-2-1) तत्रानुवृत्तिनिर्देशे सवर्णाग्रहणमनण्त्वात् - तत्रानुवृत्तिनिर्देशे सवर्णानां ग्रहणं न प्राप्नोति अस्य च्वौ, यस्येति च। किं कारणम्? अनण्त्वात्। न ह्येतेऽणः, येऽनुवृत्तौ। के तर्हि? येऽक्षरसमाम्नाये उपदिश्यन्ते। (1-2-2) एकत्वादकारस्य सिद्धम् - एकोऽयमकारो यश्चाक्षरसमाम्नाये, यश्चानुवृत्तौ, यश्च धात्वादिस्थः। (1-2-3) अनुबन्धसङ्करस्तु - अनुबन्धसङ्करस्तु प्राप्नोति। कर्मण्यण् आतोऽनुपसर्गे कः, इति केऽपि णित्कृतं प्राप्नोति। -0-1-092- (1-2-4) एकाजनेकाज्ग्रहणेषु चानुपपत्तिः - एकाजनेकाज्ग्रहणेषु चानुपपत्तिर्भवति। तत्र को दोषः? किरिणा गिरिणेत्येकाज्लक्षणमन्तोदात्तत्वं प्राप्नोति। इह च घटेन तरति घटिक इति द्व्यज्लक्षणष्ठन् न प्राप्नोति। (1-2-5) द्रव्यवच्चोपचाराः - द्रव्यवच्चोपचाराः प्राप्नुवन्ति। तद्यथा- द्रव्येषु नैकेन घटेनानेको युगपत्कार्यं करोति। एवमिममकारं नानेको युगपदुच्चारयेत्। (1-2-6) विषयेण तु नानालिङ्गकरणात्सिद्धम् - यदयं विषये नानालिङ्गमकारं करोति- कर्मण्यण्, आतोनुपसर्गे कः, इति। तेन ज्ञायते नानुबन्धसङ्करोऽस्तीति। यदि हि स्यान्नानालिङ्गकरणमनर्थकं स्यात्। एकमेवायं सर्वगुणमुच्चारयेत्। नैतदस्ति ज्ञापकम्। इत्सञ्ञ्ज्ञाप्रक्लृप्त्यर्थमेतत्स्यात्। न ह्यमनुबन्धैः शल्यकवच्छक्य उपचेतुम्। इत्सञ्ञ्ज्ञायां हि दोषः स्यात्। आयम्य हि द्वयोरित्सञ्ञ्ज्ञा स्यात्। कयोः? आद्यन्तयोः। एवं तर्हि- विषयेण तु पुनर्लिङ्गकरणात्सिद्धम् ।। यदयं विषये विषये पुनर्लिङ्गमकारं करोति- प्राग्दीव्यतोऽण्, शिवादिभ्योऽण् इति। तेन ज्ञायते नानुबन्धसङ्करोऽस्तीति। यदि हि स्यात्पुनर्लिङ्गकरणमनर्थकं स्यात्। अथ वा पुनरस्तु- विषयेण तु नानालिङ्गकरणात्सिद्धम् इत्येव ।। ननु चोक्तम्- इत्सञ्ञ्ज्ञाप्रक्लृप्त्यर्थमेतत्स्यादिति। नैष दोषः, लोकत एतत्सिद्धम्। तद्यथा- लोके कश्चिदेवं देवदत्तमाह- इह मुण्डो भव, इह जटिलो भव, इह शिखी भवेति। यल्लिङ्गो यत्रोच्यते तल्लिङ्गस्तत्रोपतिष्ठते। एवमयमकारो यल्लिङ्गो यत्रोच्यते तल्लिङ्गस्तत्रोपस्थास्यते। यदप्युच्यते- एकाजनेकाज्ग्रहणेषु चानुपपत्तिः इति। -0-1-094- (1-2-7) एकाजनेकाज्ग्रहणेषु चावृत्तिसङ्ख्यानात् - एकाजनेकाज्ग्रहणेषु चावृत्तेः सङ्ख्यानादनेकाच्त्वं भविष्यति। तद्यथा- सप्तदश सामिधेन्यो भवन्ति इति त्रिः प्रथमामन्वाह त्रिरुत्तमाम् इत्यावृत्तितः सप्तदशत्वं भवति। एवमिहाप्यावृत्तितोऽनेकाच्त्वं भविष्यति। भवेदावृत्तितः कार्यं परिहृतम्। इह तु खलु किरिणा गिरिणेत्येकाज्लक्षणमन्तोदात्तत्वं प्राप्नोत्येव। एतदपि सिद्धम्। कथम्? लोकतः। तद्यथा- ऋषिसहस्रमेकां कपिलामेकैकशः सहस्रकृत्वो दत्त्वा तया सर्वे ते सहस्रदक्षिणाः सम्पन्नाः। एवमिहाप्यनेकाच्त्वं भविष्यति। यदप्युच्यते द्रव्यवच्चोपचाराः प्राप्नुवन्तीति। भवेद् यदसम्भवि कार्यं तन्नानेको युगपत्कुर्यात्। यत्तु खलु सम्भवि कार्यमनेकोऽपि तद्युगपत्करोति। तद्यथा- घटस्य दर्शनं स्पर्शनं वा। सम्भवि चेदं कार्यमकारस्योच्चारणं नाम, अनेकोऽपि तद् युगपत्करिष्यति। -0-1-095- (1-2-8) आन्यभाव्यं तु कालशब्दव्यवायात् - आन्यभाव्यं त्वकारस्य। कुतः? कालशब्दव्यवायात्। कालव्यवायाच्छब्दव्यवायाच्च। कालव्यवायाद्- दण्ड अग्रम्। शब्दव्यवायात्- दण्डः। न चैकस्यात्मनो व्यवायेन भवितव्यम्। भवति चेद्भवत्यान्यभाव्यमकारस्य। -0-1-096- (1-2-9) युगपच्च देशपृथक्त्वदर्शनात् - युगपच्च देशपृथक्त्वदर्शनान्मन्यामहे- आन्यभाव्यमकारस्येति। यदयं युगपद् देशपृथक्त्वेषूपलभ्यते- अश्वः, अर्कः, अर्थ इति। न ह्येको देवदत्तो युगपत्स्रुग्घ्ने च भवति मथुरायां च। यदि पुनरिमे वर्णाः- (1-2-10) शकुनिवत्स्युः - तद्यथा- शकुनय आशुगामित्वात्पुरस्तादुत्पतिताः पश्चाद् दृश्यन्ते। एवमयमकारो द इत्यत्र दृष्टो दण्ड इत्यत्र दृश्यते। नैवं शक्यम्। अनित्यत्वमेवं स्यात्। नित्याश्च शब्दाः। नित्येषु च शब्देषु कूटस्थैरविचालिभिर्वर्णैर्भवितव्यमनपायोपजनविकारिभिः। यदि चायं द इत्यत्र दृष्टो ण्ड इत्यत्र दृश्येत, नायं कूटस्थः स्यात्। यदि पुनरिमे वर्णाः- (1-2-11) आदित्यवत्स्युः - तद्यथा- एक आदित्योऽनेकाधिकरणस्थो युगपद्देशपृथक्त्त्वेषूपलभ्यते। विषम उपन्यासः। नैको द्रष्टा आदित्यमनेकाधिकरणस्थं युगपद् देशपृथक्त्वेषूपलभते। अकारं पुनरुपलभते। अकारमपि नोपलभते। किं कारणम्? श्रोत्रोपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेणाभिज्वलित आकाशदेशः शब्दः। एकं च पुनराकाशम्। आकाशदेशा अपि बहवः। यावता बहवः, तस्मादान्यभाव्यमकारस्य। (1-2-12) आकृतिग्रहणात्सिद्धम् - अवर्णाकृतिरुपदिष्टा सर्वमवर्णकुलं ग्रहीष्यति, तथेवर्णाकृतिः, तथोवर्णाकृतिः। (1-2-13) तद्वच्च तपरकरणम् - एवं च कृत्वा तपराः क्रियन्ते- आकृतिग्रहणेनातिप्रसक्तमिति। ननु च सवर्णग्रहणेनातिप्रसक्तमिति कृत्वा तपराः क्रियेरन्। प्रत्याख्यायते तत्- सवर्णेऽण्ग्रहणमपरिभाष्यमाकृतिग्रहणादनन्यत्वाच्च इति। -0-1-100- (1-2-14) हल्ग्रहणेषु च - किम्? आकृतिग्रहणात्सिद्धम् इत्येव। झलो झलि, अवात्ताम्, अवात्तम्, अवात्त। यत्रैतन्नास्ति- अण् सवर्णान्गृह्णाति- इति। (1-2-15) रूपसामान्याद्वा - रूपसामान्याद्वा सिद्धमेतत्। तद्यथा- तानेव शाटकानाच्छादयामः, ये मथुरायाम्, तानेव शालीन्भुञ्ञ्ज्महे, ये मगधेषु, तदेवेदं भवतः कार्षापणं यन्मथुरायां गृहीतम्, अन्यस्मिंश्चान्यस्मिन् रूपसामान्यात् तदेवेदम् इति भवति। एवमिहापि रूपसामान्यात्सिद्धम् ।।

लृकारोपदेशप्रयोजननिरूपणम् ।।

ऋलृक् ।। 2 ।। अथ लृकारोपदेशः किमर्थः? किं विशेषेण लृकारोपदेशश्चोद्यते, न पुनरन्येषामपि वर्णानामुपदेशश्चोद्यते, यदि किञ्ञ्चिदन्येषामपि वर्णानामुपदेशे प्रयोजनमस्ति, लृकारोपदेशस्यापि तद्भवितुमर्हति। को वा विशेषः? अयमस्ति विशेषः। अस्य हि लृकारस्याल्पीयांश्चैव प्रयोगविषयः। यश्चापि प्रयोगविषयः सोऽपि क्लृपिस्थस्यैव। कृपेश्च लत्वमसिद्धम्। तस्यासिद्धत्वादृकारस्यैवाच्कार्याणि भविष्यन्ति। नार्थ लृकारोपदेशेन। अत उत्तरं पठति- -0-1-101- (2-1-1) लृकारोपदेशो यदृच्छाशक्तिजानुकरणप्लुत्याद्यर्थः - लृकारोपदेशः क्रियते यदृच्छाशब्दार्थोऽशक्तिजानुकरणार्थः प्लुत्याद्यर्थश्च। यदृच्छाशब्दार्थस्तावत्- यदृच्छया कश्चित् लृतको नाम। तस्मिन्नच्कार्याणि यथा स्युः- दध्य्लृतकाय देहि, मध्व्लृतकाय देहि उदङ्ङ्लृतकोऽगमत्, प्रत्यङ्ङ्लृतकोऽगमत्। चतुष्टयी शब्दानां प्रवृत्तिः- जातिशब्दा गुणशब्दाः क्रियाशब्दा यदृच्छाशब्दाश्चतुर्थाः। अशक्तिजानुकरणार्थः- अशक्त्या कयाचिद् ब्राह्मण्या ऋतक इति प्रयोक्तव्ये लृतक इति प्रयुक्तम्। तस्यानुकरणं ब्राह्मण्य्लृतक इत्याह कुमार्य्लृतक इत्याह इति। प्लुत्याद्यर्थश्च (लृकारोपदेशः कर्तव्यः) ।। के पुनः प्लुत्यादयः। प्लुतिद्विर्वचनस्वरिताः। क्लृ3प्तशिख। क्लृप्प्तः। प्रक्लृप्तः। प्लुत्यादिषु कार्येषु कृपेर्लत्वं सिद्धम्। तस्य सिद्धत्वादच्कार्याणि न सिध्यन्ति। तस्माद् लृकारोपदेशः क्रियते। नैतानि सन्ति प्रयोजनानि। -0-1-102- (2-1-2) न्याय्यभावात्कल्पनं सञ्ञ्ज्ञादिषु - न्याय्यस्य ऋतकशब्दस्य भावात्कल्पनं सञ्ञ्ज्ञादिषु साधु मन्यन्ते- ऋतक एवासौ न लृतक इति। अपर आह- न्याय्य ऋतकशब्दः शास्त्रान्वितोऽस्ति, स कल्पयितव्यः साधुः सञ्ञ्ज्ञादिषु- ऋतक एवासौ, न लृतक इति। अयं तर्हि यदृच्छाशब्दोऽपरिहार्यः- लृफिडः लृफिड्डः चेति। एषोऽपि ऋफिड ऋफिड्डश्च। कथम्? अर्तिप्रवृत्तिश्चैव हि लोके लक्ष्यते, फिडफिड्डावौणादिकौ प्रत्ययौ। त्रयी च शब्दानां प्रवृत्तिः- जातिशब्दा गुणशब्दा क्रियाशब्दा इति। न सन्ति यदृच्छाशब्दाः। अन्यथा कृत्वा प्रयोजनमुक्तम्, अन्यथा कृत्वा परिहारः। सन्ति यदृच्छाशब्दा इति कृत्वा प्रयोजनमुक्तम्, न सन्तीति परिहारः। समाने चार्थे शास्त्रान्वितोऽशास्त्रान्वितस्य निवर्तको भवति। तद्यथा- देवदत्तशब्दो देवदिण्णशब्दं निवर्तयति, न गाव्यादीन्। नैष दोषः। पक्षान्तरैरपि परिहारा भवन्ति। -0-1-106- (2-1-3) अनुकरणं शिष्टाशिष्टाप्रतिषिद्धेषु यथा लौकिकवैदिकेषु - अनुकरणं हि शिष्टस्य वा साधु भवति, अशिष्टाप्रतिषिद्धस्य वा, नैव तद्दोषाय भवति, नाभ्युदयाय। यथा लौकिकवैदिकेषु। यथा लौकिकेषु वैदिकेषु च कृतान्तेषु। लोके तावत्- य एवमसौ ददाति, य एवमसौ यजते, य एवमसावधीत इति। तस्यानुकुर्वन् दद्याच्च यजेत चाधीयीत च। सोऽप्यभ्युदयेन युज्यते। वेदेऽपि- य एवं विश्वसृजः सत्राण्यध्यासते इति, तेषामनुकुर्वंस्तद्वत्सत्राण्यध्यासीत। सोऽप्यभ्युदयेन युज्यते। अशिष्टाप्रतिषिद्धं यथा- य एवमसौ हिक्कति, य एवमसौ हसति, य एवमसौ कण्डूयतीति। तस्यानुकुर्वन् हिक्केच्च हसेच्च कण्डूयेच्च, नैव च तद्दोषाय स्यान्नाभ्युदयाय। यस्तु खल्वेवमसौ ब्राह्मणं हन्ति, एवमसौ सुरां पिबतीति तस्यानुकुर्वन्ब्राह्मणं हन्यात्सुरां वा पिबेत्सोऽपि मन्ये पतितः स्यात्। विषम उपन्यासः। यश्चैवं हन्ति, यश्चानुहन्ति, उभौ तौ हतः। यश्चापि पिबति, यश्चानुपिबति, उभौ तौ पिबतः। यस्तु खल्वेवमसौ ब्राह्मणं हन्ति, एवमसौ सुरां वा पिबतीति तस्यानुकुर्वन् स्नातानुलिप्तो माल्यगुणकण्ठः कदलीस्तम्भं छिन्द्यात्पयो वा पिबेत्, न स मन्ये पतितः स्यात्। एवमिहापि य एवमसावपशब्दं प्रयुङ्क्ते इति तस्यानुकुर्वन्नपशब्दं प्रयुञ्ञ्जीत, सोप्यपशब्दभाक् स्यात्। अयं त्वन्योऽपशब्दपदार्थकः शब्दो, यदर्थ उपदेशः कर्तव्यः। न चापशब्दार्थकः शब्दोऽपशब्दो भवति। अवश्यं चैतदेवं विज्ञेयम्। यो हि मन्यतेऽपशब्दपदार्थकः शब्दोऽपशब्दो भवतीति, अपशब्द इत्येव तस्याऽपशब्दः स्यात्। न चैषोऽपशब्दः। अयं खल्वपि भूयोऽनुकरणशब्दोऽपरिहार्यः, यदर्थ उपदेशः कर्तव्यः। साध्व्लृकारमधीते, मध्व्लृकारमधीत इति। क्वस्थस्य पुनरेतदनुकरणम्? क्लृपिस्थस्य। यदि क्लृपिस्थस्य, क्लृपेश्च लत्वमसिद्धम्, तस्यासिद्धत्वाद्दकार एवाच्कार्याणि भविष्यन्ति। भवेत्तदर्थेन नार्थः स्यात्। अयं त्वन्यः क्लृपिस्थपदार्थकः शब्दः, यदर्थ उपदेशः कर्तव्यः। न कर्तव्यः। इदमवश्यं कर्तव्यम्- प्रकतिवदनुकरणं भवति इति। किं प्रयोजनम्? द्विः पचन्त्वित्याह तिङ्ङतिङ इति निघातो यथा स्यात्। अग्नी इत्याह इर्दूदेद्द्विवचनं प्रगृह्यम् इति प्रगृह्यसञ्ञ्ज्ञा यथा स्यात्। यदि प्रकृतिवदनुकरणं भवतीत्युच्यते, अपशब्द एवासौ भवति- कुमार्य्लृतक इत्याह, ब्राह्मण्य्लृतक इत्याह। अपशब्दो ह्यस्य प्रकृतिः। न चापशब्दः प्रकृतिः। न ह्यपशब्दा उपदिश्यन्ते। न चानुपदिष्टा प्रकृतिरस्ति। -0-1-109- (2-1-4) एकदेशविकृतस्यानन्यत्वात् प्लुत्यादयः - एकदेशविकृतमनन्यवद्भवति इति प्लुत्यादयोऽपि भविष्यन्ति। यदि एकदेशविकृतमनन्यवद्भवति इत्युच्येत, राज्ञः क च, राजकीयम् अल्लोपोऽनः इति लोपः प्राप्नोति। एकदेशविकृतमनन्यवत् षष्ठीनिर्दिष्टस्य। यदि- षष्ठीनिर्दिष्टस्येत्युच्यते, क्लृप्तशिख इति प्लुतो न प्राप्नोति। न ह्यत्र ऋकारः षष्ठीनिर्दिष्टः। कस्तर्हि? रेफः। ऋकारोऽप्यत्र षष्ठीनिर्दिष्टः। कथम्? अविभक्तिको निर्देशः- कृप उः रः लः कृपो रो लः इति। अथ वा पुनरस्तु अविशेषेण। ननु चोक्तं राज्ञः क च राजकीयम् अल्लोपोऽनः इति प्राप्नोति इति। नैष दोषः। वक्ष्यत्येतत्- श्वादीनां सम्प्रसारणे नकारान्तग्रहणमनकारान्तप्रतिषधार्थम् इति। तत्प्रकृतमुत्तरत्रानुवर्तिष्यते- अल्लोपोऽनः, नकारान्तस्येति। इह तर्हि क्लृ3प्तशिख अनृत इति प्रतिषेधः प्राप्नोति। (2-1-5) रवत्प्रतिषेधाच्च - रवत्प्रतिषेधाच्चैतत्सिध्यति। गुरोररवतः इति वक्ष्यामि। यदि अरवतः इत्युच्यते, होतृअऋकारः होतृ3कारः अत्र न प्राप्नोति। गुरोररवतो ह्रस्वस्य इति वक्ष्यामि। स एष सूत्रभेदेन लृकारोपदेशः प्लुत्याद्यर्थः सन्प्रत्याख्यायते, सैषा महतो वंशस्तम्बाल्लट्वाऽनुकृष्यते ।।

सन्ध्यक्षरेष्व् अतपर-पाठ-निर्णयः

(3-0) एओङ् ।। 3 ।। ऐऔच् ।। 4 ।। इदं विचार्यते- इमानि सन्ध्यक्षराणि तपराणि वोपदिश्येरन् एत् ओत्ङ् ऐत् औत् च् इति, अतपराणि वा यथान्यासम् इति। कश्चात्र विशेषः? (3-1-1) सन्ध्यक्षरेषु तपरोपदेशश्चेत्तपरोच्चारणम् - सन्ध्यक्षरेषु तपरोपदेशश्चेत्तपरोच्चारणं कर्तव्यम्। -0-1-111- (3-1-2) प्लुत्यादिष्वज्विधिः - प्लुत्यादिष्वजाश्रयो विधिर्न सिध्यति। गो3त्रात नौ3त्रात इत्यत्र अनचि च इत्यच उत्तरस्य यरो द्वे भवत इति द्विर्वचनं न प्राप्नोति। इह च प्रत्यङ्ङै3तिकायन, उदङ्ङौ3 पगव इति अचि इति ङमुडागमो न प्राप्नोति। (3-1-3) प्लुतसञ्ञ्ज्ञा च - प्लुतसञ्ञ्ज्ञा च न सिध्यति। ऐ3तिकायन, औ3पगव ऊकालोज्झ्रस्वदीर्घप्लुतः इति प्लुतसञ्ञ्ज्ञा न प्राप्नोति। सन्तु तर्ह्यतपराणि। -0-1-112- (3-1-4) अतपर एच इग्घ्रस्वादेशे - यद्यतपराणि एच इग्घ्रस्वादेशे इति वक्तव्यम्। किं प्रयोजनम्? एचो(ङो) ह्रस्वादेशशासनेष्वर्ध एकारोऽर्ध ओकारो वा मा भूदिति। ननु च यस्यापि तपराणि तेनाप्येतद्वक्तव्यम्। इमावैचौ समाहारवर्णौ- मात्राऽवर्णस्य, मात्रेवर्णोवर्णयोस्तयोर्ह्रस्वादेशशासनेषु कदाचिदवर्णः स्यात्, कदाचिद् इवर्णोवर्णौ; मा कदाचिदवर्णो भूदिति। प्रत्याख्यायत एतत्- ऐचोश्चोत्तरभूयस्त्वात् इति। यदि प्रत्याख्यानपक्षः, इदमपि प्रत्याख्यायते- सिद्धमेङः सस्थानत्वाद् इति। ननु चैङः सस्थानतरावर्ध एकारोऽर्ध ओकारः। न तौ स्तः। यदि हि तौ स्यातां तावेवायमुपदिशेत्। ननु च भोश्छन्दोगानां सात्यमुग्रिराणायनीया अर्धमेकारमर्धमोकारं चाधीयते- सुजाते एश्वसूनृते, अध्वर्यो ओद्रिभिः सुतम्, शुक्रं ते एन्यद्, यजतं ते एन्यद्- इति। पारिषदकृतिरेषा तत्र भवताम्। नैव हि लोके नान्यस्मिन्वेदेऽर्ध एकारोऽर्ध ओकारो वाऽस्ति। -0-1-113- (3-1-5) एकादशे दीर्घग्रहणम् - एकादशे दीर्घग्रहणं कर्तव्यम्- आद्गुणो दीर्घः, वृद्धिरेचि दीर्घः इति। किं प्रयोजनम्? आन्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा मा भूवन्निति। खट्वा इन्द्रः खट्वेन्द्रः, खट्वा उदकम् खट्वोदकम्, खट्वा इर्षा खट्वेषा, खट्वा ऊढा खट्वोढा, खट्वा एलका खट्वैलका, खट्वा ओदनः खट्वौदनः, खट्वा ऐतिकायनः खट्वैतिकायनः, खट्वा औपगवः खट्वौपगव इति। तत्तर्हि दीर्घग्रहणं कर्तव्यम्। न कर्तव्यम्। उपरिष्टाद् योगविभागः करिष्यते- अकः सवर्णे एको भवति। ततो दीर्घः। दीर्घश्च स भवति। यः स एकः पूर्वपरयोः इत्येवं निर्दिष्ट इति। इहापि तर्हि प्राप्नोति- पशुम्, विद्धम्, पचन्तीति। नैष दोषः। इह तावत्पशुमिति अम्येकः इतीयता सिद्धम्। सोऽयमेवं सिद्धे सति यत्पूर्वग्रहणं करोति तस्यैतत्प्रयोजनं यथाजातीयकः पूर्वस्तथाजातीयक उभयोर्यथा स्यादिति। विद्धमिति। पूर्व इत्येवानुवर्तते। अथ वाऽऽचार्यप्रवृत्तिर्ज्ञापयति- नानेन सम्प्रसारणस्य दीर्घो भवतीति। यदयं हल उत्तरस्य सम्प्रसारणस्य दीर्घत्वं शास्ति। पचन्तीति। अतो गुणे परः इतीयता सिद्धम्। सोऽयमेवं सिद्धे सति यद्रूपग्रहणं करोति, तस्यैतत्प्रयोजनम्- यथाजातीयकं परस्य रूपं तथाजातीयकमुभयोर्यथा स्यादिति। इह तर्हि खर्ट्वश्यो मार्लश्य इति दीर्घवचनादकारो न, अनान्तर्यादेकारौकारौ न। तत्र को दोषः? विगृहीतस्य श्रवणं प्रसज्यते। न ब्रूमो यत्र क्रियमाणे दोषस्तत्र कर्तव्यमिति। किं तर्हि? यत्र क्रियमाणे न दोषस्तत्र कर्तव्यमिति। क्व च क्रियमाणे न दोषः? सञ्ञ्ज्ञाविधौ। वृद्धिरादैच् दीर्घः, अदेङ्गुणो दीर्घ इति। तत्तर्हि दीर्घग्रहणं कर्तव्यम्। न कर्तव्यम्। कस्मादेवान्तर्यतस्त्रिमात्रचतुर्मात्राणां स्थानिनां त्रिमात्रचतुर्मात्रा आदेशा न भवन्ति? तपरे गुणवृद्धी। ननु च तः परो यस्मात्सोऽयं तपरः। नेत्याह, तादपि परस्तपरः। यदि तादपि परस्तपरः ऋदोरप् इतीहैव स्यात्- यवः स्तवः, लवः पव इत्यत्र न स्यात्। नैष तकारः। कस्तर्हि? दकारः। किं दकारे प्रयोजनम्? अथ किं तकारे। यद्यसन्देहार्थस्तकारः, दकारोऽपि। अथ मुखसुखार्थस्तकारः, दकारोऽपीति। -0-1-116- (3-2) अथ वर्णैकदेशग्रहणाग्रहणनिर्णयः - इदं विचार्यते- य एते वर्णेषु वर्णैकदेशा वर्णान्तरसमानाकृतय एतेषामवयवग्रहणेन ग्रहणं स्याद्वा न वेति। कुतः पुनरियं विचारणा? इह हि समुदाया अप्युपदिश्यन्ते, अवयवा अपि। अभ्यन्तरश्च समुदायेऽवयवः, तद्यथा वृक्षः प्रचलन्सहावयवैः प्रचलति। तत्र समुदायस्थस्यावयवस्यावयवग्रहणेन ग्रहणं स्याद्वा न वेति विचारणा। कश्चात्र विशेषः। (3-2-1) वर्णैकदेशा वर्णग्रहणेन चेत्सन्ध्यक्षरे समानाक्षरविधिप्रतिषेधः - वर्णैकदेशा वर्णग्रहणेन चेत्सन्ध्यक्षरे समानाक्षराश्रयो विधिः प्राप्नोति, स प्रतिषेध्यः। अग्ने इन्द्र, वायो उदकम्, अकः सवर्णे दीर्घः इति दीर्घत्वं प्राप्नोति। -0-1-117- (3-2-2) दीर्घे ह्रस्वविधिप्रतिषेधः - दीर्घे ह्रस्वाश्रयो विधिः प्राप्नोति, स प्रतिषेध्यः। आलूय, प्रलूय ह्रस्वस्य पिति कृति तुग् इति तुक् प्राप्नोति। नैष दोषः, आचार्यप्रवृत्तिर्ज्ञापयति न दीर्घे ह्रस्वाश्रयो विधिर्भवति इति। यदयं दीर्घाच्छे तुकं शास्ति। नैतदस्ति ज्ञापकम्, अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्? पदान्ताद्वा इति विभाषां वक्ष्यामीति। यत्तर्हि योगविभागं करोति। इतरथा हि दीर्घात्पदान्ताद्वा इत्येव ब्रूयात्। इह तर्हि- खट्वाभिः, मालाभिः अतो भिस ऐस् इत्यैस्भावः प्राप्नाति। तपरकरणसार्मथ्यान्न भविष्यति। इह तर्हि याता वाता अतो लोप आर्धधातुके इत्यकारलोपः प्राप्नोति। ननु चात्रापि तपरकरणसार्मथ्यादेव न भविष्यति। अस्ति ह्यन्यत्तपरकरणे प्रयोजनम्। किम्? सर्वस्य लोपो मा भूदिति। अथ क्रियमाणेऽपि तपरे परस्य लोपे कृते पूर्वस्य कस्मान्न भवति? परलोपस्य स्थानिवद्भावादसिद्धत्वाच्च। एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति नाकारस्थस्याऽकारस्य लोपो भवति इति। यदयम् आतोऽनुपसर्गे कः इति ककारमनुबन्धं करोति। कथं कृत्वा ज्ञापकम्? कित्करणे एतत्प्रयोजनम्- कितीत्याकारलोपो यथा स्यादिति। यद्याकारस्थस्याऽकारस्य लोपः स्यात्, कित्करणमनर्थकं स्यात्। परस्याकारस्य लोपे कृते द्वयोरकारयोः पररूपे हि सिद्धं रूपं स्याद् गोदः कम्बलद इति। पश्यति त्वाचार्यो- नाकारस्थस्याऽकारस्य लोपः स्यादिति, अतः ककारमनुबन्धं करोति। नैतदस्ति ज्ञापकम्। उत्तरार्थमेतत्स्यात्- तुन्दशोकयोः परिमृजापनुदोः इति। यत्तर्हि गापोष्टक् इत्यनन्यार्थं ककारमनुबन्धं करोति। (3-2-3) एकवर्णवच्च। एकवर्णवच्च दीर्घो भवतीति वक्तव्यम्। किं प्रयोजनम्? वाचा तरतीति द्व्यज्लक्षणष्ठन्मा भूदिति। इह च वाचो निमित्तम्, तस्य निमित्तं संयोगोत्पातौ इत्यनुवर्तमाने गोद्व्यचः इति द्व्यज्लक्षणो यन्मा भूदिति। अत्रापि गोनौग्रहणं ज्ञापकम्- दीर्घाद् द्व्यज्लक्षणो विधिर्न भवति इति। अयं तु सर्वेषामेव परिहारः- (3-2-4) नाऽव्यपवृक्तस्यावयवे तद्विधिर्यथा द्रव्येषु - नाऽव्यपवृक्तस्याऽवयवाश्रयो विधिर्भवति यथा द्रव्येषु। तद्यथा- द्रव्येषु सप्तदश सामिधेन्यो भवन्ति इति न सप्तदशारत्निमात्रं काष्ठमग्नावभ्याधीयते। विषम उपन्यासः। प्रत्यृचं चैवं हि तत्कर्म चोद्यते। असम्भवश्चाग्नौ वेद्यां च। यथा तर्हि सप्तदश प्रादेशमात्रीराश्वत्थीः समिधोऽभ्यादधीत इति न सप्तदशप्रादेशमात्रं काष्ठमग्नावभ्याधीयते। अत्रापि प्रतिप्रणवं चैतत्कर्म चोद्यते। तुल्यश्चासम्भवोऽग्नौ वेद्यां च। यथा तर्हि तैलं न विक्रेतव्यम्, मांसं न विक्रेतव्यम् इति व्यपवृक्तं च न विक्रीयते, अव्यपवृक्तं- गावः सर्षपाश्च विक्रीयन्ते। तथा लोमनखं स्पृष्ट्वा शौचं कर्तव्यम् इति व्यपवृक्तं स्पृष्ट्वा नियोगतः कर्तव्यम्, अव्यपवृक्ते कामचारः। यत्र तर्हि व्यपवर्गोऽस्ति। क्व च व्यपवर्गोऽस्ति? सन्ध्यक्षरेषु। (3-2-5) सन्ध्यक्षरेषु विवृतत्वात् - यदत्राऽवर्णं विवृततरं तदन्यस्मादवर्णाद्। ये अपीवर्णोवर्णे, विवृततरे ते अन्याभ्यामिवर्णोवर्णाभ्याम्। अथ वा पुनर्न गृह्यन्ते। -0-1-120- (3-2-6) अग्रहणं चेन्नुडि्वधिलादेशविनामेषु ऋकारग्रहणम् - अग्रहणं चेन्नुडि्वधिलादेशविनामेषु ऋकारग्रहणं कर्तव्यम्। तस्मान्नुड् द्विहलः ऋकारे चेति वक्तव्यम्। इहापि यथा स्यात्- आनृधतुः, आनृधुरिति। यस्य पुनर्गह्यन्ते द्विहलः इत्येव तस्य सिद्धम्। यस्यापि न गृह्यन्ते, तस्याप्येष न दोषः। द्विहल्ग्रहणं न करिष्यते। तस्मान्नुड् भवतीत्येव। यदि न क्रियते आटतुः, आटुरित्यत्रापि प्राप्नोति। अश्नोतिग्रहणं नियमार्थं भविष्यति, अश्नोतेरेवाऽवर्णोपधस्य, नान्यस्याऽवर्णोपधस्येति। (नुड्विधिः)। लादेशे च ऋकारग्रहणं कर्तव्यम्। कृपो रो लः ऋकारस्य चेति वक्तव्यम्। इहापि यथा स्यात्- क्लृप्तः क्लृप्तवानिति। यस्य पुनर्गृह्यन्ते र इत्येव तस्य सिद्धम्। यस्यापि न गृह्यन्ते तस्याप्येष न दोषः। ऋकारोप्यत्र निर्दिश्यते। कथम्? अविभक्तिको निर्देशः- कृप, उः, रः, लः - कृपो रो लः इति। अथ वा उभयतः स्फोटमात्रं निर्दिश्यते रश्रुतेर्लश्रुतिर्भवतीति। (लादेशः) विनामे ऋकारग्रहणं कर्तव्यम्। रषाभ्यां नो णः समानपदे ऋकाराच्चेति वक्तव्यम्। इहापि यथा स्यात्- मातॄणां पितॄणामिति। यस्य पुनर्गृह्यन्ते रषाभ्यामित्येव तस्य सिद्धम्। न सिध्यति। यत्तद्रेफात्परं भक्तेस्तेन व्यवहितत्वान्न प्राप्नोति। मा भूदेवम्। अड्व्यवाये इत्येव सिद्धम्। न सिध्यति। वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते, ये व्यपवृक्ता अपि वर्णा भवन्ति। यच्चापि रेफात्परं भक्तेः, न तत्क्वचिदपि व्यपवृक्तं दृश्यते। एवं तर्हि योगविभागः करिष्यते, रषाभ्यां नो णः समानपदे, ततः व्यवाये। व्यवाये च रषाभ्यां नो णो भवतीति। ततः अट्कुफ्वाङ्नुम्भिः इति। इदमिदानीं किमर्थम्? नियमार्थम्। एतैरेवाक्षरसमाम्नायिकैर्व्यवाये, नान्यैः, इति। यस्यापि न गृह्यन्ते तस्याप्येष न दोषः। आचार्यप्रवृत्तिर्ज्ञापयति- भवति ऋकारान्नो णत्वमिति, यदयं क्षुभ्नादिषु नृनमनशब्दं पठति। नैतदस्ति ज्ञापकम्। वृद्ध्यर्थमेतत्स्यात्- नार्नमनिः। यत्तर्हि तृप्नोतिशब्दं पठति। यच्चापि नृनमनशब्दं पठति। ननु चोक्तं वृद्ध्यर्थमेतत्स्यात्। बहिरङ्गा वृद्धिरन्तरङ्गं णत्वम्। असिद्धं बहिरङ्गमन्तरङ्गे। अथ वा उपरिष्टाद्योगविभागः करिष्यते- ऋतः नो णो भवति। ततः छन्दस्यवग्रहात् ऋत इत्येव। (3-2-7) प्लुतावैच इदुतौ - एतच्च वक्तव्यम्। यस्य पुनर्गृह्यन्ते गुरोष्टेरित्येव प्लुत्या तस्य सिद्धम्। यस्यापि न गृह्यन्ते तस्याप्येष न दोषः। क्रियत एतन्न्यास एव। -0-1-122- (3-2-8) तुल्यरूपे संयोगे द्विव्यञ्ञ्जनविधिः - तुल्यरूपे संयोगे द्विव्यञ्ञ्जनाश्रयो विधर्न सिध्यति कु2क्कुटः, पि3प्पली, पि3त्तमिति। यस्य पुनर्गृह्यन्ते तस्य द्वौ ककारौ, द्वौ पकारौ, द्वो तकारौ। यस्यापि न गृह्यन्ते तस्यापि द्वौ ककारौ, द्वौ पकारौ, द्वौ तकारौ। कथम्? मात्राकालोऽत्र गम्यते। न च मात्रिकं व्यञ्ञ्जनमस्ति। अनुपदिष्टं सत्कथं शक्यं विज्ञातुम्। असच्च कथं शक्यं प्रतिपत्तुम्। यद्यपि तावदत्रैतच्छक्यते वक्तुं यत्रैतन्नास्ति- अण् सवर्णान्गृह्णाति इति। इह तु कथम्- सय्यन्ता, सवँ्वत्सरः, यलँ्लोकम्, तलँ्लोकम् इति। यत्रैतदस्त्यण् सवर्णान् गृह्णातीति? अत्रापि मात्राकालो गृह्यते। न च मात्रिकं व्यञ्ञ्जनमस्ति। अनुपदिष्टं सत्कथं विज्ञातुम्। असच्च कथं शक्यं प्रतिपत्तुम्।

हकारस्य द्विरुपदेशाधिकरणम्

-0-1-123- (5-0) हयवरट् ।। 5 ।। (5-1) अथ हकारस्य द्विरुपदेशाधिकरणम् ।। सर्वे वर्णाः सकृदुपदिष्टाः, अयं हकारो द्विरूपदिश्यते- पूर्वश्चैव परश्च। यदि पुनः पूर्वं एवोपदिश्येत, पर एव वा। कश्चात्र विशेषः? (5-1-1) हकारस्य परोपदेशेऽड्ग्रहणेषु हग्रहणम् - हकारस्य परोपदेशेऽड्ग्रहणेषु हग्रहणं कर्तव्यम् आतोऽटि नित्यम्, शश्छोटि, दीर्घादटि समानपादे हकारे चेति वक्तव्यम्। इहापि यथा स्यात्- महाँ हि सः। (5-1-2) उत्वे च - उत्वे च हकारग्रहणं कर्तव्यम्। अतो रोरप्लुतादप्लुते हशि च हकारे चेति वक्तव्यम्। इहापि यथा स्यात्- पुरुषो हसति ब्राह्मणो हसतीति। अस्तु तर्हि पूर्वोपदेशः। -0-1-124- (5-1-3) पूर्वोपदेशे कित्त्वक्सेडि्वधयो झल्ग्रहणानि च - यदि पूर्वोपदेशः कित्त्वं विधेयम्- स्निहित्वा, स्नेहित्वा, सिस्निहिषति, सिस्नेहिषति रलो व्युपधाद्धलादेः इति कित्त्वं न प्राप्नोति। क्सविधिः- क्सश्च विधेयः- अधुक्षत्, अलिक्षत् शल इगुपधादनिटः क्सः इति क्सो न प्राप्नोति। इडि्वधिः- इट् च विधेयः- रुदिहि , स्वपिहि वलादिलक्षण इण्न प्राप्नोति। झल्ग्रहणानि च। किम्? अहकाराणि स्युः। तत्र को दोषः? झलो झलि इतीह न स्यात्- अदाग्धाम् ,अदाग्धम्। तस्मात्पूर्वश्चैवोपदेष्टव्यः परश्च। यदि च किञ्ञ्चिदन्यत्राप्युपदेशे प्रयोजनमस्ति तत्राप्युपदेशः कर्तव्यः। (5-2) ।। अथ रेफोपदेशस्थानाधिकरणम् ।। इदं विचार्यते- अयं रेफो यकारवकाराभ्यां पूर्व एवोपदिश्येत हरयवट् इति, पर एव वा यथान्यासम् इति। कश्चात्र विशेषः? -0-1-125- (5-2-1) रेफस्य परोपदेशेऽनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः - रेफस्य परोपदेशेऽनुनासिकद्विर्वचनपरसवर्णानां प्रतिषेधो वक्तव्यः। अनुनासिकस्य- स्वर्नयति, प्रातर्नयति यरोऽनुनासिकेऽनुनासिको वा (814145) इत्यनुनासिकः प्राप्नोति। द्विर्वचनस्य- मद्रह्रदः, भद्रह्रदः यरः (814146) इति द्विर्वचनं प्राप्नोति। परसवर्णस्य- कुण्डं रथेन, वनं रथेन अनुस्वारस्य ययि (814158) इति परसवर्णः प्राप्नोति। अस्तु तर्हि पूर्वोपदेशः। (5-2-2) पूर्वोपदेशे कित्त्वप्रतिषेधो व्यलोपवचनं च - यदि पूर्वोपदेशः कित्त्वं प्रतिषेध्यम्। देवित्वा दिदेविषति रलो व्युपधाद् इति कित्त्वं प्राप्नोति। नैष दोषः। नैवं विज्ञायते रलः व्युपधादिति। किं तर्हि? रलः अव् व्युपधाद् इति। किमिदम् अव् व्युपधाद् इति? अवकारान्ताद् व्युपधाद् अव्व्युपधादिति। व्यलोपवचनं च- व्योश्च लोपो वक्तव्यः। गौधेरः, पचेरन्, यजेरन्, जीवे रदानुः- जीरदानुः। वलीति लोपो न प्राप्नोति। नैष दोषः। रेफोऽप्यत्र निर्दिश्यते लोपो व्योर्वलि इति, रेफे च वलि चेति। अथ वा पुनरस्तु परोपदेशः। ननु चोक्तं रेफस्य परोपदेशेऽनुनासिकद्विर्वचनसवर्णप्रतिषेधः इति। अनुनासिकपरसवर्णयोस्तावत्प्रतिषेधो न वक्तव्यः, रेफोष्मणां सवर्णा न सन्ति। द्विर्वचनेऽपि। नेमौ रहौ कार्यिणौ द्विर्वचनस्य। किं तर्हि? निमित्तमिमौ रहौ द्विर्वचनस्य। तद्यथा- ब्राह्मणा भोज्यन्तां माठरकौण्डिन्यौ परिवेविषाताम् इति। नेदानीं तौ भुञ्ञ्जाते।

अयोगवाहोपदेशाधिकरणम्

इदं विचार्यते- इमेऽयोगवाहा न क्वचिदुपदिश्यन्ते श्रूयन्ते च। तेषां कार्यार्थमुपदेशः कर्तव्यः। के पुनरयोगवाहाः? विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारनासिक्ययमाः। कथं पुनरयोगवाहाः? यदयुक्ता वहन्ति अनुपदिष्टाश्च श्रूयन्ते। क्व पुनरेषामुपदेशः कर्तव्यः? -0-1-128- (5-3-1) अयोगवाहानामट्सु णत्वम् - अयोगवाहानामट्सूपदेशः कर्तव्यः। किं प्रयोजनम्? णत्वम् उरःकेण, उर केण, उरःपेण, उर पेण। अड्व्यवाय इति णत्वं सिद्धं भवति। (5-3-2) शर्षु जश्भावषत्वे - शर्षूपदेशः कर्तव्यः। किं प्रयोजनम्? जश्भावषत्वे। अयमुब्जिरुपध्मानीयोपधः पठ्यते। तत्र जश्त्वे कृते उब्जिता, उब्जितुमित्येतद्रूपं यथा स्यात्। यद्युब्जिरुपध्मानीयोपधः पठ्यते, उब्जिजिषतीत्युपध्मानीयादेरेव द्विर्वचनं प्राप्नोति। दकारोपधे पुनर् न न्द्राः संयोगादयः इति प्रतिषेधः सिद्धो भवति। यदि दकारोपधः पठ्यते, का रूपसिद्धिः- उब्जिता उब्जितुमिति? असिद्धे भ उद्जेः। इदमस्ति- स्तोः श्चुना श्चुः इति, ततो वक्ष्यामि भ उद्जेः, उद्जेः श्चुना सन्निपाते भो भवतीति। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। निपतनादेव सिद्धम्। किं निपातनम्? भुजन्युब्जौ पाण्युपतापयोः इति। इहापि तर्हि प्राप्नोति- अभ्युद्गः, समुद्गः इति। अकुत्वविषये तन्निपातनम्। अथ वा नैतदुब्जे रूपम्, गमेरेतद् द्व्युपसर्गाड्डो विधीयते। अभ्युद्गतोऽभ्युद्गः, समुद्गतः ,समुद्ग इति। षत्वं च प्रयोजनम्। सर्पिःषु धनुःषु। र्शव्यवाये इति षत्वं सिद्धं भवतीति। नुम्विसर्जनीयर्शव्यवायेऽपि इति विसर्जनीयग्रहणं न कर्तव्यं भवति। नुमश्चापि तर्हि ग्रहणं शक्यमकर्तुम्। कथं सर्पींषि धनूंषि? अनुस्वारे कृते र्शव्यवाये इत्येव सिद्धम्। अवश्यं नुमो ग्रहणं कर्तव्यम्। अनुस्वारविशेषणं नुङ्ग्रहणम्। नुमो योऽनुस्वारस्तत्र यथा स्यात्, इह मा भूत्- पुंस्विति। अथ वाऽविशेषेणोपदेशः कर्तव्यः। किं प्रयोजनम्? -0-1-130- (5-3-3) अविशेषेण संयोगोपधासञ्ञ्ज्ञाऽलोन्त्यद्विर्वचनस्थानिवद्भावप्रतिषेधाः ।। अविशेषेण संयोगसञ्ञ्ज्ञा प्रयोजनम्, उ3ब्जकः, हलोऽनन्तराः संयोगः इति संयोगसञ्ञ्ज्ञा, संयोगे गुर्विति गुरुसञ्ञ्ज्ञा गुरोः इति प्लुतो भवति। उपधासञ्ञ्ज्ञा च प्रयोजनम्- दुष्कृतम्, निष्कृतम्, दुष्पीतम्, निष्पीतम्, इदुदुपधस्य चाप्रत्ययस्य इति षत्वं सिद्धं भवति। नैतदस्ति प्रयोजनम्। न इदुदुपधग्रहणेन विसर्जनीयो विशेष्यते। किं तर्हि? सकारो विशेष्यते- इदुदुपधस्य सकारस्य यो विसर्जनीय इति। अथ वोपधाग्रहणं न करिष्यते, इदुद्भ्यां तु परं विसर्जनीयं विशेषयिष्यामः- इदुद्भ्यामुत्तरस्य विसर्जनीयस्येति। अलोऽन्त्यविधिश्च प्रयोजनम्- वृक्षस्तरति, प्लक्षस्तरति। अलोन्त्यस्य विधयो भवन्तीत्यलोऽन्त्यस्य सत्वं सिद्धं भवति। एतदपि नास्ति प्रयोजनम्। निर्दिश्यमानस्यादेशा भवन्ति इति विसर्जनीयस्यैव भविष्यति। द्विर्वचनं च प्रयोजनम्- उर कः। उर पः। अनचि च अच उत्तरस्य यरो द्वे भवत इति द्विर्वचनं सिद्धं भवति। स्थानिवद्भावप्रतिषेधश्च प्रयोजनम्- यथेह भवति उरःकेण, उरःपेणेति अड्व्यवायः इति णत्वम्; एवमिहापि स्थानिवद्भावात् प्राप्नोति- व्यूढोरस्केन ,महोरस्केनेति। तत्र अनल्विधौ इति प्रतिषेधः सिद्धो भवति। (5-4) ।। अथ वर्णार्थवत्ताधिकरणम् ।। किं पुनरिमे वर्णा अर्थवन्तः, आहोस्विदनर्थकाः? -0-1-131- (5-4-1) अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात् ।। अर्थवन्तो वर्णाः। कुतः? धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनात्। धातव एकवर्णा अर्थवन्तो दृश्यन्ते एति, अध्येति, अधीते इति। प्रातिपदिकान्येकवर्णान्यर्थवन्ति- आभ्याम्, एभिः, एषु। प्रत्यया एकवर्णा अर्थवन्तः- औपगवः, कापटवः। निपाता एकवर्णा अर्थवन्तः- अ अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, अ अपक्राम। धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनान्मन्यामहे- अर्थवन्तो वर्णाः इति। (5-4-2) वर्णव्यत्यये चार्थान्तरगमनात् - वर्णव्यत्यये चार्थान्तरगमनान्मन्यामहेऽर्थवन्तो वर्णा इति। कूपः सूपो यूप इति। कूप इति सककारेण कश्चिदर्थो गम्यते। सूप इति ककारापाये सकारोपजने चार्थान्तरं गम्यते। यूप इति ककारसकारापाये यकारोपजने चार्थान्तरं गम्यते। तेन मन्यामहे- यः कूपे कूपार्थः स ककारस्य, यः सूपे सूपार्थः स सकारस्य, यो यूपे यूपार्थः स यकारस्येति। -0-1-132- (5-4-3) वर्णानुपलब्धौ चानर्थगतेः - वर्णानुपलब्धौ चानर्थगतेर्मन्यामहेऽर्थवन्तो वर्णा इति। वृक्ष ऋक्षः, काण्डीर आण्डीरः। वृक्ष इति सवकारेण कश्चिदर्थो गम्यते, ऋक्ष इति वकारापाये सोऽर्थो न गम्यते। काण्डीर इति सककारेण कश्चिदर्थो गम्यते, आण्डीर इति ककारापाये सोऽर्थो न गम्यते। किं तर्ह्युच्यते- अनर्थगतेः इति। न साधीयो ह्यत्रार्थस्य गतिर्भवति। एवं तर्हीदं पठितव्यं स्यात्- वर्णानुपलब्धौ चातदर्थगतेः इति। किमिदमतदर्थगतेरिति? तस्यार्थस्तदर्थः, तदर्थस्य गतिस्तदर्थगतिः, न तदर्थगतिरतदर्थगतिरतदर्थगतेरिति। अथ वा सोऽर्थस्तदर्थस्तदर्थस्य गतिस्तदर्थगतिः न तदर्थगतिरतदर्थगतिरतदर्थगतेरिति। स तर्हि तथा निर्देशः कर्तव्यः। न कर्तव्यः। उत्तरपदलोपोऽत्र द्रष्यव्यः। तद्यथा- उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः, खरमुखः। एवमतदर्थगतेरनर्थगतेरिति। -0-1-133- (5-4-4) सङ्घातार्थवत्त्वाच्च - सङ्घातार्थवत्त्वाच्च मन्यामहे अर्थवन्तो वर्णा इति। येषां सङ्घाता अर्थवन्तः, अवयवा अपि तेषामर्थवन्तः। (येषां पुनरवयवा अनर्थकाः समुदाया अपि तेषामनर्थकाः) तद्यथा- एकश्चक्षुष्मान् दर्शने समर्थः तत्समुदायः शतमपि समर्थम्। एकश्च तिलस्तैलदाने समर्थः तत्समुदायः खार्यपि तैलदाने समर्था। येषां पुनरवयवा अनर्थकाः समुदाया अपि तेषामनर्थकाः। तद्यथा- एकोन्धो दर्शनेऽसमर्थस्तत्समुदायः शतमप्यसमर्थम्। एका च सिकता तैलदानेऽसमर्था तत्समुदायश्च खारीशतमप्यसमर्थम्। यदि तर्हीमे वर्णा अर्थवन्तः, अर्थवत्कृतानि प्राप्नुवन्ति। कानि? अर्थवत्प्रातिपदकम् इति प्रातिपदिकसञ्ञ्ज्ञा, प्रातिपदिकादिति स्वाद्युत्पत्तिः, सुबन्तं पदम् इति पदसञ्ञ्ज्ञा तत्र को दोषः। पदस्य इति नलोपादीनि प्राप्नुवन्ति- धनं वनमिति। (5-4-5) सङ्घातस्यैकार्थ्यात्सुबभावो वर्णात् - सङ्घातस्यैकत्वमर्थः। तेन वर्णात्सुबुत्पत्तिर्न भविष्यति। -0-1-134- (5-4-6) अनर्थकास्तु प्रतिवर्णमर्थानुपलब्धेः - अनर्थकास्तु वर्णाः। कुतः? प्रतिवर्णमर्थानुपलब्धेः। नहि प्रतिवर्णमर्था उपलभ्यन्ते। किमिदं प्रतिवर्णमिति? वर्णं वर्णं प्रति प्रतिवर्णम्। (5-4-7) वर्णव्यत्ययापायोपजनविकारेष्वर्थदर्शनात् - वर्णव्यत्ययापायोपजनविकारेष्वर्थदर्शनान्मन्यामहे- अनर्थका वर्णा इति। वर्णव्यत्यये- कृतेस्तर्कः, कसेः सिकताः, हिंसेः सिंहः। वर्णव्यत्ययो नार्थव्यत्ययः। अपायो लोपः- हतः, घन्ति, घ्नन्तु, अघ्नन्। वर्णापायो नार्थापायः। उपजन आगमः- लविता लवितुम्। वर्णोपजनो नार्थोपजनः। विकार आदेशः- घातयति, घातकः। वर्णविकारो नार्थविकारः। यथैव वर्णव्यत्ययापायोपजनविकारा भवन्ति, तद्वदर्थव्यत्ययापायोपजनविकारैर्भवितव्यम्। न चेह तद्वत्। अतो मन्यामहे- अनर्थका वर्णा इति। उभयमिदं वर्णेषूक्तम्- अर्थवन्तोऽनर्थका इति च। किमत्र न्याय्यम्? उभयमित्याह। कुतः? स्वभावतः। तद्यथा- समानमीहमानानां चाधीयानानां च केचिदर्थैर्युज्यन्ते, अपरे न। न चेदानीं कश्चिदर्थवानिति कृत्वा सर्वैरर्थवदि्भः शक्यं भवितुम्, कश्चिद्वाऽनर्थक इति कृत्वा सर्वैरनर्थकैः। तत्र किमस्माभिः शक्यं कर्तुम्- यद्धातुप्रातिपदिकप्रत्ययनिपाता एकवर्णा अर्थवन्तोऽतोऽन्येऽनर्थका इति। स्वाभाविकमेतत्। कथं य एष भवता वर्णानामर्थवत्तायां हेतुरुपदिष्टः- अर्थवन्तो वर्णा धातुप्रातिपदिकप्रत्ययनिपातानामेकवर्णानामर्थदर्शनाद्व्यत्यये चार्थान्तरगमनाद्वर्णानुपलब्धौ चानर्थगतेः सङ्घातार्थवत्त्वाच्चेति। सङ्घातान्तराण्येवैतान्येवञ्ञ्जातीयकान्यर्थान्तरेषु वर्तन्ते कूपः सूपो यूप इति। यदि हि वर्णव्यत्ययकृतमर्थान्तरगमनं स्यात्, भूयिष्ठः कूपार्थः सूपे स्यात्, सूपार्थश्च कूपे, कूपार्थश्च यूपे, यूपार्थश्च कूपे, सूपार्थश्च यूपे, यूपार्थश्च सूपे। यतस्तु खलु किञ्ञ्चित्सूपस्य वा यूपे, यूपस्य वा कूपे, कूपस्य वा यूपे, सूपस्य वा कूपे, कूपस्य वा सूपे, यूपस्य वा सूपे। अतो मन्यामहे- सङ्घातान्तराण्येतान्येवञ्ञ्जातीयान्यर्थान्तरेषु वर्तन्ते इति। इदं खल्वपि- भवता वर्णानामर्थवत्तां ब्रुवता साधीयोऽनर्थकत्वं द्योतितम्। यो हि मन्यते- यः कूपे कूपार्थः स ककारस्य, यः सूपे सूपार्थः स सकारस्य, यो यूपे यूपार्थः स यकारस्येति। ऊपशब्दस्त्वस्यानर्थकः स्यात्। तत्रेदमपरिहृतम्- सङ्घातार्थवत्त्वाच्च इति। एतस्यापि प्रातिपदिकसञ्ञ्ज्ञायां परिहारं वक्ष्यति। -0-1-135- (5-5) ।। अथ प्रत्याहारेष्वित्सञ्ञ्ज्ञकग्रहणाभावाधिकरणम् ।। अःथ्द्य;उण्, ऋलृक्, एओङ्, ऐऔच्। -0-1-136- (5-5-1) प्रत्याहारेऽनुबन्धानां कथमज्ग्रहणेषु न - य एतेऽक्षु प्रत्याहारार्था अनुबन्धाः क्रियन्ते, एतेषामज्ग्रहणेन ग्रहणं कस्मान्न भवति? किं च स्यात्? दधि णकारीयति, मधु णकारीयति, इको यणचि इति यणादेशः प्रसज्येत। (5-5-2) आचारात् - किमिदमाचारादिति? आचार्याणामुपचारात्। नैतेष्वाचार्या अच्कार्याणि कृतवन्तः। (5-5-3) अप्रधानत्वात् - अप्रधानत्वाच्च। न खल्वेतेषामक्षु प्राधान्येनोपदेशः क्रियते। क्व तर्हि? हल्षु। कुत एतत्? एषा ह्याचार्यस्य शैली लक्ष्यते- यत्तुल्यजातीयांस्तुल्यजातीयेषूपदिशति- अचोऽक्षु हलो हल्षु। -0-1-137- (5-5-4) लोपश्च बलवत्तरः - लोपः खल्वपि तावद्भवति। (5-5-5) ऊकालोऽजिति वा योगस्तत्कालानां यथा भवेत्। अचां ग्रहणमच्कार्यं तेनैषां न भविष्यति - अथ वा योगविभागः करिष्यते- ऊकालोऽच् उ ऊ उ3 इत्येवं कालोऽज्भवति। ततो ह्रस्वदीर्घप्लुतः ह्रस्वदीर्घप्लुतसञ्ञ्ज्ञश्च भवति ऊकालोऽच्। एवमपि कुक्कुट इत्यत्रापि प्राप्नोति। तस्मात्पूर्वोक्त एव परिहारः। एष एवार्थः। अपर आह- -0-1-138- (5-5-6) ह्रस्वादीनां वचनात् प्राग्यावत्तावदेव योगोऽस्तु। अच्कार्याणि यथा स्युस्तत्कालेष्वक्षु कार्याणि - (5-6) ।। अणुदित्सूत्रेऽण्पदप्रयोजनाधिकरणम् ।। अथ किमर्थमन्तःस्थानामण्सूपदेशः क्रियते? इह सयँ्यँ्यन्ता सवँ्वँ्वत्सरः, यलँ्लँ्लोकम्, तलँ्लँ्लोकमिति परसवर्णस्यासिद्धत्वादनुस्वारस्यैव द्विर्वचनम्। तत्र परस्य परसवर्णे कृते तस्य यय्ग्रहणेन ग्रहणात् पूर्वस्यापि परसवर्णो यथा स्यात्। नैतदस्ति प्रयोजनम्। वक्ष्यत्येतत्- द्विर्वचने परसवर्णत्वं सिद्धं वक्तव्यम् इति। यावता सिद्धत्वमुच्यते परसवर्ण एव तावद्भवति। परसवर्णे तर्हि कृते तस्य यर्ग्रहणेन ग्रहणाद् द्विर्वचनं यथा स्यात्। मा भूद् द्विर्वचनम्। ननु च भेदो भवति- सति द्विर्वचने त्रियकारकम्, असति द्विर्वचने द्वियकारकम्। नास्ति भेदः। सत्यपि द्विर्वचने द्वियकारकमेव। कथम्? हलो यमां यमि लोपः इत्येवमेकस्य लोपेन भवितव्यम्। एवमपि भेदः। सति द्विर्वचने कदाचिद् द्वियकारकम्, कदाचित् त्रियकारकम्। असति त्रियकारकमेव। स एष कथं भेदो न स्यात्? यदि नित्यो लोपः स्यात्। विभाषा च स लोपः। यथाऽभेदस्तथास्तु। -0-1-140 (5-6-1) अनुवर्तते विभाषा, शरोऽचि यद्वारयत्ययं द्वित्वम् - यदयं शरोऽचि इति द्विर्वचनप्रतिषेधं शास्ति, तज्ज्ञापयत्याचार्योऽनुवर्तते विभाषेति। कथं कृत्वा ज्ञापकम्? -0-1-141- (5-6-2) नित्ये हि तस्य लोपे प्रतिषेधार्थो न कश्चित्स्यात् - यदि नित्यो लोपः स्यात्, प्रतिषेधवचनमनर्थकं स्यात्। अस्त्वत्र द्विर्वचनम्, झरो झरि सवर्णे इति लोपो भविष्यति। पश्यति त्वाचार्यः- विभाषा सलोप इति ततो द्विर्वचनप्रतिषेधं शास्ति। नैतदस्ति ज्ञापकम्। नित्येऽपि तस्य लोपे स प्रतिषेधोऽवश्यं वक्तव्यः। यदेतत् अचो रहाभ्याम् इति द्विर्वचनं लोपापवादः स विज्ञायते। कथम्? यर इत्युच्यते। एतावन्तश्च यरः। यदुत झरो वा यमो वा। यदि चात्र लोपः स्याद् द्विर्वचनमनर्थकं स्यात्। किन्तर्हि तयोर्योगयोरुदाहरणम्? यदकृते द्विर्वचने त्रिव्यञ्ञ्जनः संयोगः- प्रत्तम्, अवत्तम्, आदित्यः। इहेदानीं कर्त्ता हर्त्तेति द्विर्वचनसार्मथ्याल्लोपो न भवति। एवमिहापि लोपो न स्यात् कर्षति वर्षति थ्द्य;ति। तस्मान्नित्येऽपि लोपेऽवश्यं स प्रतिषेधो वक्तव्यः। तदेतदन्यन्तं सन्दिग्धं वर्तते आचार्याणां विभाषाऽनुवर्तते न वेति।

व्याख्यानत इति परिभाषाधिकरणम् ।।

(6-0) ।। लण् ।। अयं णकारो द्विरनुबध्यते पूर्वश्चैव परश्च। तत्राण्ग्रहणेष्विण्ग्रहणेषु च सन्देहो भवति पूर्वेण वा स्युः परेण वेति। कतमस्मिंस्तावदण्ग्रहणे सन्देहः? ढ्रलोपे पूर्वस्य दीर्घोऽणः इति। (6-1-1) असन्दिग्धम् - असन्दिग्धं पूर्वेण न परेण। कुत एतत्? -0-1-144- (6-1-2) पराभावात् - नहि ढ्रलोपे परेऽणः सन्ति। ननु चायमस्ति- आतृढ, आवृढ इति। एवं तर्हि सार्मथ्यात्पूर्वेण, न परेण। यदि हि परेण स्यादण्ग्रहणमनर्थकं स्यात्। ढ्रलोपे पूर्वस्य दीर्घोऽचः इत्येव ब्रूयात्। अथ वैतदपि न ब्रूयाद्, अचो ह्येतद्भवति- ह्रस्वो दीर्घः प्लुत इति। अस्मिंस्तर्ह्यण्ग्रहणे सन्देहः- केऽणः इति। असन्दिग्धं पूर्वेण, न परेण। कुत एतत्? पराभावात्। नहि के परेऽणः सन्ति। ननु चायमस्ति- गोका नौकेति। एवं तर्हि सार्मथ्यात्पूर्वेण, न परेण। यदि हि परेण स्यादण् ग्रहणमनर्थकं स्यात्। केऽचः इत्येव ब्रूयात्। अथ वैतदपि न ब्रूयात्, अचो ह्येतद्भवति- ह्रस्वो दीर्घः प्लुत इति। अस्मिंस्तर्ह्यण्ग्रहणे सन्देहः- अणोऽप्रगृह्यस्यानुनासिकः इति। असन्दिग्धं पूर्वेण, न परेण। कुत एतत्? पराभावात्। नहि पदान्ताः परेऽणः सन्ति। ननु चायमस्ति- कर्तृ हर्तृ इति। एवं तर्हि सार्मथ्यात्पूर्वेण, न परेण। यदि हि परेण स्याद् अण्ग्रहणमनर्थकं स्यात्। अचोऽप्रगृह्यस्यानुनासिकः इत्येव ब्रूयात्। अथ वैतदपि न ब्रूयात्, अच एव हि प्रगृह्या भवन्ति। अस्मिंस्तर्ह्यण्ग्रहणे सन्देहः- उरण् रपरः। असन्दिग्धं पूर्वेण, न परेण। कुत एतत्? पराभावात्। न ह्युः स्थाने परेऽणः सन्ति। ननु चायमस्ति कर्त्रर्थं हर्त्रर्थमिति। किं च स्याद्यद्यत्र रपरत्वं स्यात्? द्वयो रेफयोः श्रवणं प्रसज्यत। हलो यमां यमि लोपः इत्येवमेकस्यात्र लोपो भविष्यतीति। विभाषा स लोपः, विभाषा श्रवणं प्रसज्येत। अयं तर्हि नित्यो लोपः रो रि इति। पदान्तस्येत्येवं सः। न शक्यः स पदान्तस्येत्येवं विज्ञातुम्। इह हि लोपो न स्यात्- जर्गृधेर्लङ् अजर्घाः, पास्पर्द्धेः अपास्पाः इति। इह तर्हि मातॄणां पितॄणामिति रपरत्वं प्रसज्यते। आचार्यप्रवृत्तिर्ज्ञापयति नात्र रपरत्वं भवतीति। यदयम् ऋत इद्धातोः इति धातुग्रहणं करोति। कथं कृत्वा ज्ञापकम्? धातुग्रहणस्यैतत्प्रयोजनम्- इह मा भूत् मातॄणां पितॄणामिति। यदि चात्र रपरत्वं स्याद्धातुग्रहणमनर्थकं स्यात्। रपरत्वे कृतेऽनन्त्यत्वादित्वं न भविष्यति। पश्यति त्वाचार्यो- नात्र रपरत्वं भवतीति, ततो धातुग्रहणं करोति। इहापि तर्हि न प्राप्नोति चिकीर्षति, जिहीर्षतीति। मा भूदेवम्। उपधायाश्च इत्येवं भविष्यति। इहापि तर्हि प्राप्नोति मातॄणां पितॄणामिति। तस्मात्तत्र धातुग्रहणं कर्तव्यम्। एवं तर्हि सार्मथ्यात्पूर्वेण, न परेण। यदि परेण स्यादण्ग्रहणमनर्थकं स्यात्, उरज्रपर इत्येव ब्रूयात्। अस्मिंस्तर्ह्यण्ग्रहणे सन्देहः- अणुदित्सवर्णस्य चाप्रत्ययः इति। असन्दिग्धं परेण, न पूर्वेण। कुत एतत्? -0-1-999- (6-1-3) सवर्णेऽण् तु परं ह्युर्ऋत् - यदयम् उर्ऋत् इत्यृकारे तपरकरणं करोति। तज्ज्ञापयत्याचार्यः परेण, न पूर्वेणेति। इण्ग्रहणेषु तर्हि सन्देहः। असन्दिग्धं परेण, न पूर्वेण। कुत एतत्? (6-1-4) य्वोरन्यत्र परेणेण् स्यात् - यत्रेच्छति पूर्वेण, संमृद्य ग्रहणं तत्र करोति- य्वोरिति। तच्च गुरु भवति। कथं कृत्वा ज्ञापकम्? तत्र विभक्तिनिर्देशे संमृद्य ग्रहणे चार्द्धचतस्रो मात्राः। प्रत्याहारग्रहणे पुनस्तिस्रो मात्राः। सोऽयमेवं लघीयसा न्यासेन सिद्धे सति यद् गरीयांसं यत्नमारभते तज्ज्ञापयत्याचार्यः परेण, न पूर्वेणेति। किं पुनर्वर्णोत्सत्ताविवायं णकारो द्विरनुबध्यते? (6-1-5) व्याख्यानाच्च द्विरुक्तितः। एतज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा- व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् इति। अणुदित्सवर्णस्य इत्येतत्परिहाय पूर्वेणाण्ग्रहणम्, परेणेण्ग्रहणम् इति व्याख्यास्यामः। -0-1-146- (7-0) ञ्ञमङणनम् ।। 7 ।। झभञ्ञ् ।। 8 ।। किमर्थमिमौ मुखनासिकावचनावुभावनुबध्येते, न ञ्ञकार एवानुबध्येत? कथं यानि मकारेण ग्रहणानि? सन्तु ञ्ञकारेण। कथं- हलो यमां यमि लोपः इति। अस्तु ञ्ञकारेण। हलो यञ्ञां यञ्ञि लोपः इति। नैवं शक्यम्। झकारभकारपरयोरपि झकारभकारयोर्लोपः प्रसज्येत। न झकारभकारौ झकारभकारयोः स्तः। कथं- पुमः खय्यम्परे इति। एतदप्यस्तु ञ्ञकारेण पुमः खय्यञ्ञ्परे इति। नैवं शक्यम्। झकारभकारपरेऽपि हि खयि रुः प्रसज्येत। न झकारभकारपरः खयस्ति। कथं- ङमो ह्रस्वादचि ङमुण्नित्यम् इति? एतदप्यस्तु ञ्ञकारेण ङञ्ञो ह्रस्वादचि ङञ्ञुण्नित्यम् इति। नैवं शक्यम्। झकारभकारयोरपि हि पदान्तयोर्झकारभकारावागमौ स्याताम्। न झकारभकारौ पदान्तौ स्तः। एवमपि पञ्ञ्चागमास्त्रय आगमिनो वैषम्यात्सङ्ख्यातानुदेशो न प्राप्नोति। सन्तु तावद्येषामागमानामागमिनः सन्ति। झकारभकारौ पदान्तौ न स्त इति कृत्वाऽऽगमावपि न भविष्यतः।

अक्षरशब्दनिर्वचनम्

अथ किमिदमक्षरमिति।
(7-1-1) अक्षरं न क्षरं विद्यात् - न क्षीयते न क्षरतीति वाऽक्षरम्। -0-1-147- (7-1-2) अश्नोतेर्वा सरोऽक्षरम् -
अश्नोतेर्वा पुनर् अयमौणादिकः सरन्-प्रत्ययः। अश्नुते इत्यक्षरम्।

(7-1-3) वर्णं वाहुः पूर्वसूत्रे -
अथ वा पूर्वसूत्रे वर्णस्याक्षरम् इति सञ्ज्ञा क्रियते।

अक्षर-समाम्नायोपदेश-प्रयोजनम्

(7-2-1) किमर्थमुपदिश्यते - अथ किमर्थमुपदेशः क्रियते।

(7-2-2) वर्णज्ञानं वाग्-विषयो यत्र च ब्रह्म वर्तते।
तद्-अर्थम् इष्ट-बुद्ध्य्-अर्थं लघ्वर्थं चोपदिश्यते - सोऽयम् अक्षर-समाम्नायो वाक्य-समाम्नायः पुष्पितः फलितश् चन्द्र-तारक-वत् प्रति-मण्डितो वेदितव्यो ब्रह्म-राशिः। सर्व-वेद-पुण्य-फलावाप्तिश् चास्य ज्ञाने भवति। मातापितरौ चास्य स्वर्गे लोके महीयेते ।।+++(5)+++