१२ वर्णोपदेशः

अथ किमर्थो वर्णानामुपदेशः?

शास्त्रप्रवृत्त्यै

“वृत्तिसमवायार्थ उपदेशः” ॥ वृत्तिसमवायार्थो वर्णानाम् उपदेशः कर्तव्यः।
किमिदं वृत्तिसमवायार्थ इति? वृत्तये समवायः - वृत्तिसमवायः । वृत्त्यर्थो वा समवायः - वृत्तिसमवायः। वृत्तिप्रयोजनो वा समवायः - वृत्तिसमवायः॥
का पुनर् वृत्तिः? +++(व्याकरण)+++शास्त्र-प्रवृत्तिः ॥
अथ कः समवायः? वर्णानाम् आनुपूर्व्येण संनिवेशः॥
अथ क उपदेशः? उच्चारणम् ॥ कुत एतत् ? दिशिर् उच्चारण-क्रियः । उच्चार्य हि वर्णान् आह - उपदिष्टा इमे वर्णा इति ॥

अनुबन्धेभ्यः

“अनुबन्धकरणार्थश् च” ॥ +++(अइउण् इत्यत्र णकारकरणम् इव)+++ अनुबन्धकरणार्थश् च वर्णानाम् उपदेशः कर्तव्यः । अनुबन्धान् आसङ्क्ष्यामीति । न ह्य् अनुपदिश्य वर्णान् अनुबन्धाः शक्या आसङ्क्तुम् ॥

स एष वर्णानाम् उपदेशो वृत्तिसमवायार्थश् चानुबन्ध-करणार्थश् च । वृत्ति-समवायश् चानुबन्धकरणं च प्रत्याहारार्थम् । प्रत्याहारो वृत्त्यर्थः॥

इष्टोपदेशार्थः

इष्टबुद्ध्यर्थश् च वर्णानाम् उपदेशः। ‘इष्टान् वर्णान् भोत्स्यामहे’ इति । न ह्य् अनुपदिश्य वर्णान् इष्टा वर्णाः शक्या विज्ञातुम् ॥

पूर्णता

“इष्टबुद्ध्यर्थश्चेति चेद् उदात्तानुदात्तस्वरितानुनासिक-दीर्घप्लुतानाम् अप्य् उपदेशः” ॥
इष्टबुद्ध्यर्थश् चेति चेद् उदात्तानुदात्तस्वरितानुनासिकदीर्घप्लुतानाम् अप्युपदेशः कर्तव्यः । एवंगुणा अपि हि वर्णा इष्यन्ते ॥
“आकृत्युपदेशात् सिद्धम् ॥” आकृत्युपदेशात् सिद्धम् एतत् । अवर्णाकृतिर् उपदिष्टा सर्वम् अवर्णकुलं ग्रहीष्यति । तथेवर्णाकृतिः। तथोवर्णाकृतिः॥

अनिष्टप्रतिषेधः

“आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनां प्रतिषेधः”॥
आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनां प्रतिषेधो वक्तव्यः॥ के पुनः संवृतादयः ? संवृतः, कलः+++(=स्थानान्तरनिष्पन्नः)+++, ध्मातः, एणीकृतः+++(=किमयमोकारोऽथौकार इति यत्र संदेहः)+++, अम्बूकृतः+++(=यो व्यक्तोऽप्यन्तर्मुखमिव श्रूयते)+++, अर्धकः+++(=ह्रस्वीकृतः)+++, ग्रस्तः, निरस्तः+++(=निष्ठुरः)+++, प्रगीतः, उपगीतः+++(=समीपवर्णान्तरगीत्यानुरक्तः )+++, क्ष्विण्णः+++(=कम्पमान इव)+++, रोमशः+++(=महशब्धवान्)+++ - इति ॥ अपर आह - ‘ग्रस्तं निरस्तम् अवलम्बितं+++(=वर्णान्तरसंभिन्नम्)+++ निहतम्+++(=रूक्षम्)+++, अम्बूकृतं ध्मातम् अथो विकम्पितम्। संदष्टम्+++(=वर्धितम्)+++ एणीकृतम् अर्धकं, द्रुतं विकीर्णम्+++(=एकोऽप्यनेकनिर्भासि)+++ एताः स्वरदोषभावनाः ॥’ इति । अतोऽन्ये व्यञ्जनदोषाः॥

नैष दोषः। गर्गादिबिदादिपाठात् संवृतादीनां निवृत्तिर् भविष्यति॥ +++(यद्यपि प्रत्ययविध्यर्थो गर्गादीनां पाठः)+++ अस्त्य् अन्यत् गर्गादि-बिदादि-पाठे प्रयोजनम् ॥ किम् ? +++(पदगत-वर्ण)+++समुदायानां साधुत्वं यथा स्याद् +++(न पुनर् एकदेशस्य)+++ इति ॥

प्रत्येकोपदेशे प्रत्यवायः

एवं तर्ह्य् अष्टादशधा भिन्नां निवृत्त-कलादिकाम् अवर्णस्य प्रत्यापत्तिं वक्ष्यामि ॥ सा तर्हि वक्तव्या ॥
“लिङ्गार्था तु प्रत्यापत्तिः”॥ लिङ्गार्था सा तर्हि भवति ॥ तत् तर्हि वक्तव्यम् ॥
यद्य् अप्य् एतद् उच्यते, अथवैतर्हि अनेकम् अनुबन्धशतं नोच्चार्यम्, इत् संज्ञा च न वक्तव्या, +++(हल् अन्त्यम् इति)+++ लोपश् च न वक्तव्यः । यद् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यते ॥
+++(शास्त्रं)+++ सिद्ध्यत्य् एवम् । अपाणिनीयं तु भवति ॥

गर्गादिबिदादिपाठात् समाधानम्

यथान्यासमेवास्तु ॥ ननु चोक्तम् - आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनां प्रतिषेधः इति ॥
परिहृतमेतत् -गर्गादिबिदादिपाठात् संवृतादीनां निवृत्तिर् भविष्यति॥ +++(यद्यपि प्रत्ययविध्यर्थो गर्गादीनां पाठः)+++ अस्त्य् अन्यत् गर्गादि-बिदादि-पाठे प्रयोजनम् ॥ किम् ? +++(पदगत-वर्ण)+++समुदायानां साधुत्वं यथा स्याद् +++(न पुनर् एकदेशस्य)+++ इति ॥

एवं तर्ह्य् उभयम् अनेन क्रियते - पाठश् चैव विशेष्यते, कलादयश् च निवर्त्यन्ते ॥ कथं पुनर् एकेन यत्नेनोभयं लभ्यम् ? लभ्यम् इत्याह । द्विगता अपि हेतवो भवन्ति । तद् यथा - +++(तर्पणेन)+++ आम्राश्च सिक्ताः पितरश् च प्रीणिता इति ।+++(5)+++ तथा वाक्यान्य् अपि द्विष्ठानि भवन्ति +++(श्लेषालङ्कारयुक्ताः)+++ - श्वेतो+++(=श्वा+इतः इत्यपि)+++ धावति, अलम्बुसानां+++(=देशविशेषाणां ‌/ बुसानाम्=पलालानां [वर्णप्राप्तौ] समर्थानाम्‌)+++ +++(समीपे)+++ यातेति ॥

श्रवणाभावात् समाधानम्

अथवा - इदं तावद् अयं प्रष्टव्यः - क्वेमे संवृतादयः श्रूयेरन्न् इति?
आगमेषु । आगमाः शुद्धाः पठ्यन्ते ॥
विकारेषु+++(=आदेशेषु)+++ तर्हि । विकाराः शुद्धाः पठ्यन्ते ॥
प्रत्ययेषु तर्हि । प्रत्ययाः शुद्धाः पठ्यन्ते ॥
धातुषु तर्हि । धातवोऽपि शुद्धाः पठ्यन्ते ॥
प्रातिपदिकेषु तर्हि। प्रातिपदिकान्य् अपि शुद्धानि पठ्यन्ते ॥
यानि तर्ह्य् अग्रहणानि प्रातिपदिकानि । एतेषाम् अपि स्वरवर्णानुपूर्वीज्ञानार्थ उपदेशः कर्तव्यः । शशः षष इति मा भूत् । पलाशः पलाष इति मा भूत् । मञ्चको मञ्जक इति मा भूत् ॥+++(5)+++
‘आगमाश्च विकाराश्च, प्रत्ययाः सह धातुभिः। उच्चार्यन्ते ततस् तेषु, नेमे प्राप्ताः कलादयः ॥ १॥

इति श्रीमद्-भगवत्-पतञ्जलि-विरचिते व्याकरण-महाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे प्रथमम् आह्निकम् ॥