०४ जातिव्यक्तिनिर्णयः

किं पुनर् आकृतिः+++(→जातिः)+++ पदार्थः, आहोस्विद् द्रव्यम्? उभयमित्याह ॥
कथं ज्ञायते? उभयथा ह्य् आचार्येण सूत्राणि पठितानि । आकृतिं पदार्थं मत्वा - ‘जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्’ इत्युच्यते । द्रव्यं पदार्थं मत्वा - ‘सरूपाणाम्’ - इत्येकशेष आरभ्यते ॥