०२ शब्दशास्त्रप्रयोजनम्

कानि पुन: शब्दानुशासनस्य प्रयोजनानि?
रक्षोहागमलघ्वसंदेहाः प्रयोजनम् ॥

  • रक्षार्थं वेदानाम् अध्येयं व्याकरणम् । लोपागम-वर्णविकार-ज्ञो हि सम्यग् वेदान् परिपालयिष्यतीति ॥ +++(अधुना तु लिखितपाठ-ध्वनिसञ्चिकाद्य्-अवलम्बनेन साध्यते बहुभी रक्षा।)+++
  • आगमः खल्व् अपि । ‘ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयः’ इति ॥ प्रधानं च षट्स्व् अङ्गेषु व्याकरणम् ।+++(5)+++ प्रधाने कृतो यत्नः फलवान्भवति ॥
  • लघ्वर्थं चाध्येयं व्याकरणम् । ‘ब्राह्मणेनावश्यं शब्दा ज्ञेयाः’ इति, न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या विज्ञातुम् ॥ +++(जङ्गम-यन्त्र-सुलभकोशैर् लघुतरमार्गेण शब्दा ज्ञेयास् स्युः। अपवादभूयिष्ठं हि शास्त्रम् - साधारणनाम् परिगणितानां नियमानां ज्ञानेनालं स्यात्।)+++
  • असन्देहार्थं चाध्येयं व्याकरणम् । याज्ञिकाः पठन्ति –‘स्थूलपृषतीम् आग्निवारुणीम् अनड्वाहीम् आलभेत’ इति । तस्यां सन्देहः - स्थूला चासौ पृषती च, स्थूलानि वा पृषन्ति यस्याः सा - स्थूलपृषतीति । तां नावैयाकरणः स्वरतो ऽध्यवस्यति । यदि पूर्वपदप्रकृति-स्वरत्वं ततो बहुव्रीहिः, अथ अन्तोदात्तत्वं ततस्तत्पुरुष इति ॥ +++(अत्रापि यन्त्रस्थकोशादिकम् उपकुर्यात्।)+++

+++(एतदेवानुवदति पूर्वाचार्योदाहरणेन।)+++ इमानि च भूयः शब्दानुशासनप्रयोजनानि - तेऽसुराः । दुष्टः शब्दः । यदधीतम् । यस्तु प्रयुङ्क्ते । अविद्वांसः । विभक्तिं कुर्वन्ति । यो वा इमाम् । चत्वारि । उत त्वः । सक्तुमिव । सारस्वतीम् । दशम्यां पुत्रस्य । सुदेवो असि वरुण - इति ॥ +++(आङ्ग्लानुवादो ऽत्र ।)+++

  • तेऽसुराः - ‘तेऽसुरा हेऽलयो हेऽलय इति कुर्वन्तः पराबभूवुः । तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै, म्लेच्छो ह वा एष यद् अपशब्दः’ ॥+++(5)+++ म्लेच्छा मा भूमेत्य् अध्येयं व्याकरणम् । (तेऽसुराः॥)
  • दुष्टः शब्दः- ‘दुष्टः शब्दः स्वरतो वर्णतो वा, मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्वज्रो यजमानं हिनस्ति, यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥’ इति ॥ दुष्टाञ् छब्दान् मा प्रयुक्ष्महीत्य् अध्येयं व्याकरणम् ॥ (दुष्टः शब्दः॥)
  • यदधीतम् – ‘यद् अधीतम् अविज्ञातं, निगदेनैव शब्द्यते । अनग्नाव् इव शुष्कैधो न तज् ज्वलति कर्हिचित् ॥’ तस्माद् अनर्थकं माधिगीष्महीत्यध्येयं व्याकरणम् ॥ (यदधीतम् ॥)
  • यस्तु प्रयुङ्क्ते- ‘यस् तु प्रयुङ्क्ते कुशलो, विशेषे शब्दान् यथावद् व्यवहार-काले। सोऽनन्तमाप्नोति, जयं परत्र वाग्योगवित् दुष्यति चापशब्दैः ॥’ कः? वाग्योगविद् एव ॥ कुत एतत् ? यो हि शब्दान् जानाति, अपशब्दान् अप्यसौ जानाति । +++(अत्रापि यन्त्रस्थकोशादिकम् उपकुर्यात्।)+++
    • आक्षेपः - यथैव हि शब्द-ज्ञाने धर्मः, एवम् अपशब्द-ज्ञाने ऽप्यधर्मः। अथवा भूयान् अधर्मः प्राप्नोति । भूयांसो ऽपशब्दाः, अल्पीयांसः शब्दा इति । एकैकस्य शब्दस्य बहवोऽपभ्रंशाः । तद्यथा -गौर् इत्यस्य गावी गोणी गोता गोपोतलिकेत्य्-एवमादयो ऽपभ्रंशाः। अथ यो ऽवाग्योगवित्, अज्ञानं तस्य शरणम् ॥
      • समाधानम् - विषम उपन्यासः। नात्यन्तायाज्ञानं शरणं भवितुम् अर्हति । यो ह्य् अजानन् वै ब्राह्मणं हन्यात् सुरां वा पिबेत् सोऽपि मन्ये पतितः स्यात् ॥
    • आक्षेपः - एवं तर्हि— सोऽनन्तम् आप्नोति जयं परत्र। वाग्योगवित्, दुष्यति चापशब्दैः॥ कः? अवाग्योगविदेव। अथ यो वाग्योगवित्, विज्ञानं तस्य शरणम् ॥ क्व पुनर् इदं पठितम्? भ्राजा नाम श्लोकाः ॥
      • समाधानम् - किंच भोः श्लोका अपि प्रमाणम् ? किं चातः? यदि प्रमाणम् , अयम् अपि प्रमाणं भवितुम् अर्हति – ‘यद् उदुम्बरवर्णानां, घटीनां मण्डलं महत् ॥ पीतं न गमयेत् सर्गं, किं तत् क्रतुगतं नयेत् ॥’ इति॥+++(5)+++ प्रमत्तगीत एष तत्रभवतः । यस्त्व् अप्रमत्त-गीतस् तत् प्रमाणम् ॥+++(5)+++ यस्तु प्रयुङ्क्ते ॥
  • अविद्वांसः - ‘अविद्वांसः प्रत्यभिवादे, नाम्नो ये न +++(अभिवादकनाम्नष् टेः)+++ प्लुतिं विदुः। कामं तेषु तु विप्रोष्य+++(=प्रवासादेत्य)+++, स्त्रीष्व् इवा"ऽयम् अहं" वदेत् +++(न तु ‘अभिवादये देवदत्तोऽहम्’ इति)+++ ॥’ स्त्रीवन् मा भूमेत्य् अध्येयं व्याकरणम् ॥ (अविद्वांसः॥)
  • विभक्तिं कुर्वन्ति - याज्ञिकाः पठन्ति- ‘+++(अग्निहोत्रे कुक्षिपीडादाव् अग्निदैवतेष्टिमन्त्राः)+++ प्रयाजाः सविभक्तिकाः कार्याः’ इति । न चान्तरेण व्याकरणं प्रयाजाः सविभक्तिकाः शक्याः कर्तुम् ॥ (विभक्तिं कुर्वन्ति ॥)
  • यो वा इमाम् - ‘यो वा इमां पदशः स्वरशोऽक्षरशो वाचं विदधाति स आर्त्विजीनो भवति’ । आर्त्विजीनाः स्यामेत्यध्येयं व्याकरणम् ॥ (यो वा इमाम् ॥)
  • चत्वारि - ‘चत्वारि शृङ्गा, त्रयो अस्य पादा, द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति, महो देवो मर्त्याँ आविवेश ॥’ इति । चत्वारि शृङ्गाणि - पदजातानि - नामाख्यातोपसर्गनिपाताश्च ॥ त्रयो अस्य पादाः - त्रयः कालाः = भूत-भविष्यद्-वर्तमानाः ॥ द्वे शीर्षे - द्वौ शब्दात्मानौ - नित्यः कार्यश्च ॥ सप्तहस्तासो अस्य - सप्त विभक्तयः। त्रिधा बद्धः - त्रिषु स्थानेषु बद्धः - उरसि कण्ठे शिरसीति ॥ वृषभो वर्षणात् ॥ रोरवीति - शब्दं करोति ॥ कुत एतत् ? रौतिः शब्दकर्मा॥ महोदेवो मर्त्यां आविवेशेति । महान् देवः - शब्दः, मर्त्याः - मरणधर्माणो मनुष्याः, तानाविवेश । महता देवेन नः साम्यं यथा स्याद् इत्यध्येयं व्याकरणम् ॥+++(5)+++
    • अपर आह - ‘चत्वारि वाक्परिमिता पदानि, तानि विदुर् ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति, तुरीयं वाचो मनुष्या वदन्ति ॥’ ‘चत्वारि वाक्परिमिता पदानि’ चत्वारि पदजातानि - नामाख्यातोपसर्गनिपाताश्च ॥ ‘तानि विदुर् ब्राह्मणा ये मनीषिणः।’ मनस ईषिणः - मनीषिणः +++(व्याकरणबलेन)+++॥ ‘गुहा त्रीणि निहिता नेङ्गयन्ति’ गुहायां त्रीणि +++(परापश्यन्तीमध्यमा)+++ निहितानि नेङ्गयन्ति +++(अविद्वांसः)+++ - न चेष्टन्ते, न निमिषन्तीत्यर्थः ॥ ‘तुरीयं +++(वैखरीम्)+++ वाचो मनुष्या वदन्ति ॥’ तुरीयं वा एतद् वाचो यन् मनुष्येषु वर्तते । चतुर्थमित्य् अर्थः ॥ (चत्वारि ॥)
  • उतत्वः - ‘उत त्वः पश्यन् न ददर्श वाचम्, उत त्वः शृण्वन् न शृणोत्य् एनाम् । उतो त्व् अस्मै तन्वं विसस्रे, जायेव पत्य उशती सुवासाः॥’+++(5)+++ अपि खल्व् एकः पश्यन् न पश्यति, अपि खल्वेकः शृण्वन् न शृणोत्य् एनामिति - अविद्वांसम् आहार्धम् ॥ उतो त्वस्मै तन्वं विसस्रे - तनुं विवृणुते । जायेव पत्य उशती सुवासाः । तद् यथा - जायेव पत्ये कामयमाना सुवासाः स्वम् आत्मानं विवृणुते, एवं वाक् वाग्विदे स्वात्मानं विवृणुते ॥ वाङ् नो विवृणुयाद् आत्मानम् इत्यध्येयं व्याकरणम् ॥ (उत त्वः ॥)
  • सक्तुमिव - ‘सक्तुम् इव तितउना पुनन्तो, यत्र धीरा मनसा वाचम् अक्रत । अत्रा सखायः सख्यानि जानते, भद्रैषां लक्ष्मीर् निहिताऽधिवाचि ॥’ सक्तुः - सचतेर् दुर्धावो+++(=दुःशोध्यो)+++ भवति, कसतेर् वा विपरीताद् विकसितो भवति । तितउ - परिपवनं भवति, ततवद् वा, तुन्न+++(=कर्तन)+++वद् वा । धीराः - ध्यानवन्तः, मनसा - प्रज्ञानेन, वाचम् अक्रत - अकृषत । ‘अत्रा सखायः सख्यानि जानते’ अत्र सखायः सन्तः सख्यानि जानते - +++(वाग्गम्यैर् वस्तुभिः)+++ सायुज्यानि जानते । क्व? य एष दुर्गो मार्गः, एकगम्यो वाग्-विषयः॥ के पुनस्ते? वैयाकरणाः॥ कुत एतत्? ‘भद्रैषां लक्ष्मीर् निहिता ऽधिवाचि।’ एषां वाचि भद्रा लक्ष्मीर् निहिता भवति । लक्ष्मीर् लक्षणाद् भासनात् परिवृढा भवति ॥ (सक्तुमिव ॥)
  • सारस्वतीम् – याज्ञिकाः पठन्ति - ‘आहिताग्निर् अपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीम् इष्टिं निर्वपेत्’ इति ॥+++(5)+++ प्रायश्चित्तीया मा भूमेत्य् अध्येयं व्याकरणम् ॥ (सारस्वतीम् ॥)
  • दशम्यां पुत्रस्य - याज्ञिकाः पठन्ति - ‘दशम्युत्तरकालं पुत्रस्य जातस्य नाम विदध्यात् घोषवद् आद्यन्तरन्तस्थम् अवृद्धं त्रिपुरुषानूकम् अनरि+++(जन)+++प्रतिष्ठितम् । तद्धि प्रतिष्ठिततमं भवति । द्व्यक्षरं चतुरक्षरं वा नाम कृतं कुर्यान् न तद्धितम्’ इति ॥ न चान्तरेण व्याकरणं कृतस् तद्धिता वा शक्या विज्ञातुम् ॥ \r\nदशम्यां पुत्रस्य ॥
  • सुदेवो असि वरुण – ‘सुदेवो असि वरुण, यस्य ते सप्त सिन्धवः । अनु क्षरन्ति काकुदं, सूर्म्यं सुषिरामिव ॥’ ‘सुदेवो असि वरुण’ - सत्यदेवोऽसि, ‘यस्य ते सप्त सिन्धवः ।’ - सप्त विभक्तयः, ‘अनुक्षरन्ति काकुदम्’ काकुदं=तालु । काकुः =जिह्वा, साऽस्मिन्न् उद्यत इति - काकुदम् । ‘सूर्म्यं सुषिराम् इव ।’ तद् यथा - शोभनाम् ऊर्मिं+++(=अयःप्रतिमां)+++ सुषिराम्+++(=सुच्छिद्रां)+++ अग्निर् अन्तः प्रविश्य दहति, एवं ते सप्त सिन्धवः - सप्त विभक्तयस् ताल्व् अनुक्षरन्ति । तेनासि सत्यदेवः ॥ सत्यदेवाः स्यामेत्य् अध्येयं व्याकरणम् ॥ (सुदेवो असि ॥)

प्रयोजनवचनं कुतः?

किं पुनर् इदं व्याकरणम् एवाधिजिगांसमानेभ्यः प्रयोजनम् अन्वाख्यायते, न पुनर् अन्यद् अपि किं चित् +++(शास्त्रान्तरसम्बन्धे)+++ - ‘ॐ’ इत्युक्त्वा वृत्तान्तशः ‘शम्’ इत्येवमादीन् +++(वेद)+++शब्दान् पठन्ति ?

पुराकल्प एतद् आसीत् - संस्कारोत्तर-कालं ब्राह्मणा व्याकरणं स्माधीयते, तेभ्यस् तत् तत् स्थान-करण-नादानुप्रदानज्ञेभ्यो वैदिकाः शब्दा उपदिश्यन्ते । अद्यत्वे न तथा । वेदम् अधीत्य त्वरिता वक्तारो भवन्ति । ‘वेदान् नो वैदिकाः शब्दाः सिद्धाः, लोकाच्च लौकिकाः, ‘अनर्थकं व्याकरणम्’ इति । तेभ्य एवं विप्रतिपन्न-बुद्धिभ्यो ऽध्येतृभ्य आचार्य इदं शास्त्रम् अन्वाचष्टे - इमानि प्रयोजनान्य् अध्येयं व्याकरणम् - इति ॥

उक्तः शब्दः । स्वरूपमप्युक्तम् । प्रयोजनान्यप्युक्तानि ॥

विश्वास-टिप्पनी

यन्त्रसुलभकोशादिभिर् झटिति लक्ष्यावलोकने सरले सति, लक्षणस्य प्रामुख्यं ह्रसितम् अधुना। तथाप्य् अपवादभूयिष्ठताम् अपहाय विपुलव्याप्तीनि लक्षणानि ज्ञेयानि नैपुण्यार्थम्। अपवादकलनार्थं सन्तु नाम कोशाः सन्धानयन्त्राणि च।