०१ शब्दस्वरूपनिर्णयः

अथ शब्दानुशासनम् ।
अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते। शब्दानुशासनं नाम शास्त्रम् अधिकृतं वेदितव्यम् ॥

केषां शब्दानाम्? लौकिकानां वैदिकानां च।
तत्र लौकिकास् तावत् – गौः- अश्वः- पुरुषः- हस्ती- शकुनिः- मृगः- ब्राह्मण इति ॥
वैदिकाः खल्वपि - शन्नो देवीरभिष्टये (अ.सं.1,1,1), इषे त्वोर्जे त्वा (तै.सं.1,1,1,1), अग्निमीळे पुरोहितम् (ऋ.सं.1,1,1), अग्न आयाहि वीतये (सा. सं. 1,1,1) इति ॥

अथ गौरित्यत्र कः शब्दः?
किं यत् तत् सास्ना-लाङ्गूल-ककुद-खुर-विषाण्यर्थरूपं, स शब्दः ? नेत्याह। द्रव्यं नाम तत् ॥
यत् तर्हि तद् इङ्गितं चेष्टितं निमिषितमिति, स शब्दः? नेत्याह। क्रिया नाम सा ॥
यत् तर्हि तच् छुक्लो नीलः कपिलः कपोत इति, स शब्दः? नेत्याह। गुणो नाम सः ॥
यत् तर्हि तद् भिन्नेष्व् अभिन्नं छिन्नेष्व् अच्छिन्नं सामान्यभूतं स शब्दः ? नेत्याह। आकृतिर्नाम सा ॥
कस्तर्हि शब्दः? येनोच्चारितेन सास्ना-लाङ्गूल-ककुद-खुर-विषाणिनां सम्प्रत्ययो भवति, स शब्दः ॥+++(5)+++

अथवा प्रतीत-पदार्थको लोके ध्वनिः शब्द इत्युच्यते। तद् यथा- शब्दं कुरु, मा शब्दं कार्षीः, शब्दकार्ययं माणवकः, इति ध्वनिं कुर्वन्न् एवम् उच्यते। तस्माद् ध्वनिः शब्दः ॥