०१ ०१ रामसुग्रीवयोः मैत्री

१. स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।
२. रामः सौमित्रिसहितो विललापाकुलेन्द्रियः ॥
३. स कामवशमापन्नः सौमित्रिमिदमब्रवीत् ।
४. भरतस्य च दुःखेन वैदेह्या हरणेन च ।
५. शोकार्तस्यापि मे पम्पा शोभते चित्रकानना ॥
६. व्यवकीर्णा बहुविधैः पुष्पैः शीतोदकैः शिवा ॥
७. सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः ।
८. गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः ॥
९. पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् ।
१०. सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव ॥
११. स एव सुखसंस्पर्शो वाति चन्दनशीतलः ।
१२. गन्धमभ्यवहन् पुण्यं श्रमापनयनोऽनिलः ॥
१३. पुष्पसन्छन्नशिखराः मारुतोत्क्षेपचञ्चलाः ।
१४. अमी मधुकरोत्तम्साः प्रगीता इव पादपाः ॥
१५. अयं वसन्तः सौमित्रे नानाविहगनादितः ।
१६. सीतया विप्रहीणस्य शोकसन्दीपनो मम ॥
१७. एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे ।
१८. प्रणदन् मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥
१९. श्रुत्वैतस्य पुरा शब्दमाश्रमस्था ममप्रिया ।
२०. मामाहूय प्रमुदिता परमं प्रत्यनन्दत ॥
२१. दात्यूहरतिविक्रन्दैः पुम्स्कोकिलरुतैरपि ।
२२. स्वनन्ति पादपाश्चेमे ममानङ्गप्रदीपकाः ॥
२३. अशोकस्तबकाङ्गारः षट्पदस्वननिस्वनः ।
२४. मां हि पल्लवताम्रार्चिः वसन्ताग्निः प्रधक्ष्यति ॥
२५. न हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् ।
२६. अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् ॥
२७. अपश्यतस्तां वनितां पश्यतो रुचिरद्रुमान् ।
२८. ममायमात्मप्रभवो भूयस्त्वमुपयास्यति ॥
२९. पश्य लक्ष्मण नृत्यन्तं मयूरमुपनृत्यति ।
३०. शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु ॥
३१. मयूरस्य वने नूनं रक्षसा न हृता प्रिया ।
३२. तस्मान्नृत्यति रम्येषु वनेषु सह कान्तया ॥
३३. वसन्तो यदि तत्रापि यत्र मे वसति प्रिया ।
३४. नूनं परवशा सीता सापि शोचत्यहं यथा ॥
३५. नूनं न तु वसन्तस्तं देशं स्पृशति यत्र सा ।
३६. कथं ह्यसितपद्माक्षी वर्तयेत् सा मया विना ॥
३७. अथवा वर्तते तत्र वसन्तो यत्र मे प्रिया ।
३८. श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया ।
३९. नूनं वसन्तमासाद्य परित्यक्षति जीवितम् ॥
४०. एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः ।
४१. तां विचिन्तयतः कान्तां पावकप्रतिमो मम ॥
४२. विक्षिप्तां पवनेनैतामसौ तिलकमञ्जरीम् ।
४३. षट्पदः सहसाभ्यैति मदोद्धूतामिव प्रियाम् ॥
४४. कामिनामयमत्यन्तमशोकः शोकवर्धनः ।
४५. स्तबकैः पवनोत्क्षिप्तैः तर्जयन्निव मां स्थितः ॥
४६. एषा प्रसन्नसलिला पद्मनीलोत्पलायुता ।
४७. जले तरुणसूर्याभैः षट्पदाहतकेसरैः ।
४८. पङ्कजैः शोभते पम्पा समन्तादभिसंवृता ॥
४९. पद्मपत्रविशालाक्षीं सततं प्रियपङ्कजाम् ।
५०. अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ॥
५१. अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् ।
५२. स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ॥
५३. शक्यो धारयितुं कामो भवेदभ्यागतो मया ।
५४. यदि भूयो वसन्तो मां न हन्यात् पुष्पितद्रुमः ॥
५५. यानि स्म रमणीयानि तया सह भवन्ति मे ।
५६. तान्येवारमणीयानि जायन्ते मे तया विना ॥
५७. पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते ।
५८. सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥
५९. पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः ।
६०. निःश्वास इव सीतायाः वाति वायुर्मनोहरः ॥
६१. वातविक्षिप्तविटपान् यथासन्नान् द्रुमानिमान् ।
६२. लता समनुवर्तन्ते मत्ता इव वरस्त्रियः ॥
६३. इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि ।
६४. रागरक्तो मधुकरः कुसुमेष्ववलीयते ॥
६५. निलीय पुनरुत्पत्य सहसान्यत्र गच्छति ।
६६. मधुलुब्धो मधुकरः पम्पातीरद्रुमेष्वसौ ॥
६७. हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसम्भवम् ।
६८. पुष्पमासे हि तरवः सङ्घर्षादिव पुष्पिताः ॥
६९. यदि दृश्येत सा साध्वी यदि चेह वसेमहि ।
७०. स्पृहयेऽहं न शक्राय नायोध्यायै रघूत्तम ॥
७१. श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया ।
७२. कथं धारयति प्राणान् विवशा जनकात्मजा ॥
७३. किं नु वक्ष्यामि धर्मज्ञं राजानं सत्यवादिनम् ।
७४. जनकं पृष्टसीतं तं कुशलं जनसंसदि ॥
७५. किं नु वक्ष्याम्ययोध्यायां कौसल्यां हि नृपात्मज ।
७६. क्व सा स्नुषेति पृच्छन्तीं कथं चापि मनस्विनीम् ॥
७७. गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम् ।
७८. न ह्यहं जीवितुं शक्तः तामृते जनकात्मजाम् ॥
७९. इति रामं महात्मानं विलपन्तमनाथवत् ।
८०. उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ॥
८१. संस्तम्भ राम भद्रं ते मा शुचः पुरुषोत्तम ।
८२. नेदृशानां मतिः मन्दा भवत्यकलुषितात्मनाम् ॥
८३. स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने ।
८४. अतिस्नेहपरिष्वङ्गात् वर्तिरार्द्रापि दह्यते ॥
८५. यदि याति दितेर्गर्भं रावणो सह सीतया ।
८६. तत्राप्येनं हनिष्यामि न चेत् दास्यति मैथिलीम् ॥
८७. स्वास्थ्यं धैर्यं भजस्वार्य त्यज्यतां कृपणा मतिः ।
८८. उत्साहो बलवान् आर्य नास्त्युत्साहात् परं बलम् ॥
८९. उत्साहमात्रमाश्रित्य प्रतिलप्स्याम जानकीम् ॥
९०. एवं सम्बोधितस्तेन शोकोपहतचेतनः ।
९१. त्यज्य शोकं च मोहं च रामो धैर्यमुपागमत् ॥
९२. तं मत्तमातङ्गविलासगामी
९३. गच्छन्तमव्यग्रमना महात्मा ।
९४. स लक्ष्मणो राघवमिष्टचेष्टो
९५. ररक्ष धर्मेण बलेन चैव ॥
९६. तौ ऋष्यमूकस्य समीपचारी
९७. चरन् ददर्शाद्भुतदर्शनीयौ ।
९८. शाखामृगाणामधिपस्तरस्वी
९९. वितत्रसे नैव चिचेष्ट किञ्चित् ॥
१००. तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ ।
१०१. वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत् ॥
१०२. ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः ।
१०३. शशम्स परमोद्विग्नः पश्यन्तौ रामलक्ष्मणौ ॥
१०४. एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम् ।
१०५. छद्मना चीरवसनौ प्रचरन्तौ इहागतौ ॥
१०६. ततः सुग्रीवसचिवाः दृष्ट्वा परमधन्विनौ ।
१०७. जग्मुः गिरितटादस्मात् अन्यच्छिखरमुत्तमम् ॥
१०८. ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम् ।
१०९. हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे ॥
११०. ततस्तं भयसंविग्नं वालिकिल्बिषशङ्कितम् ।
१११. उवाच हनुमान् वाक्यं (सुग्रीवसचिवस्तदा) ॥
११२. सम्भ्रमस्त्यज्यतामेष सर्वैर्वालिकृते महान् ।
११३. मलयोऽयं गिरिवरो भयं नेहास्ति वालिनः ॥
११४. यस्मादुद्विग्नचेतास्त्वं विद्रुतो हरिपुङ्गव ।
११५. तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम् ॥
११६. अहो शाखामृगत्वं ते व्यक्तमेव प्लवङ्गम ।
११७. लघुचित्ततयात्मानं न स्थापयसि यो मतौ ॥
११८. बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर ॥
११९. सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः ।
१२०. ततः शुभतरं वाक्यं हनूमन्तमुवाच ह ॥
१२१. दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ ।
१२२. कस्य न स्यात् भयं दृष्ट्वा ह्येतौ सुरसुतोपमौ ॥
१२३. वालिप्रणिहितौ एतौ शङ्केऽहं पुरुषोत्तमौ ।
१२४. राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः ॥
१२५. तौ त्वया प्राकृतेनेव गत्वा ज्ञेयौ प्लवङ्गम ।
१२६. इङ्गितानां प्रकारैश्च रूपव्याभाषणेन च ॥
१२७. लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि ।
१२८. विश्वासयन् प्रशम्साभिः इङ्गितैश्च पुनः पुनः ॥
१२९. ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुङ्गव ।
१३०. प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ ॥
१३१. शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवङ्गम ।
१३२. व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः ॥
१३३. इत्येवं कपिराजेन सन्दिष्टो मारुतात्मजः ।
१३४. चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ ॥
१३५. पर्वतात् ऋष्यमूकात्तु पुप्लुवे यत्र राघवौ ।
१३६. भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥
१३७. विनीतवदुपागम्य राघवौ प्रणिपत्य च ।
१३८. आबभाषे च तौ वीरौ यथावत् प्रशशम्स च ॥
१३९. राजर्षिदेवप्रतिमौ तापसौ शम्सितव्रतौ ।
१४०. देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥
१४१. धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ।
१४२. पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ ॥
१४३. सिंहस्कन्धौ महोत्साहौ मानुषौ देवरूपिणौ ।
१४४. उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम् ।
१४५. ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम् ॥
१४६. सुग्रीवो नाम धर्मात्मा कश्चित् वानरपुङ्गवः ।
१४७. वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः ॥
१४८. प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना ।
१४९. राज्ञा वानरमुख्यानां हनुमान् नाम वानरः ॥
१५०. युवाभ्यां स हि धर्मात्मा सुग्रीवः सख्यमिच्छति ।
१५१. तस्य मां सचिवं वित्तं वानरं पवनात्मजम् ।
१५२. भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकारणात् ॥
१५३. एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् ।
१५४. प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम् ॥
१५५. सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः ।
१५६. तमेव काङ्क्षमाणस्य ममान्तिकमिहागतः ॥
१५७. तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् ।
१५८. वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिन्दम ॥
१५९. नानृक्वेदविनीतस्य नायजुर्वेदधारिणः ।
१६०. न सामवेदविदुषः शक्यमेवं विभाषितुम् ॥
१६१. नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम् ।
१६२. बहुव्याहरतानेन न किञ्चिदपशब्दितम् ॥
१६३. अविस्तरमसन्दिग्धमविलम्बितमव्यथम् ।
१६४. उरःस्थं कण्ठगं वाक्यं वर्तते मध्यमस्वरम् ॥
१६५. संस्कारक्रमसंपन्नामद्रुतामविलम्बिताम् ।
१६६. उच्चारयति कल्याणीं वाचं हृदयहारिणीम् ॥
१६७. अनया चित्रया वाचा त्रिस्थानव्यञ्जनस्थया ।
१६८. कस्य नाराध्यते चित्तमुद्यतासेररेरपि ॥
१६९. एवं विधो यस्य दूतो न भवेत् पार्थिवस्य तु ।
१७०. सिद्ध्यन्ति हि कथं तस्य कार्याणां गतयोऽनघ ॥
१७१. एवमुक्तस्तु सौमित्रिः सुग्रीवसचिवं कपिम् ।
१७२. अभ्यभाषत वाक्यज्ञो वाक्यज्ञं पवनात्मजम् ॥
१७३. विदिता नौ गुणा विद्वन् सुग्रीवस्य महात्मनः ।
१७४. तमेव चावां मार्गावः सुग्रीवं प्लवगेश्वरम् ॥
१७५. यथा ब्रवीषि हनुमन् सुग्रीववचनादिह ।
१७६. तत् तथा हि करिष्यावो वचनात् तव सत्तम ॥
१७७. ततः परमसन्तुष्टो हनूमान् प्लवगोत्तमः ।
१७८. प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥
१७९. किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम् ।
१८०. आगतः सानुजो दुर्गं नानाव्यालमृगायुतम् ॥
१८१. तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।
१८२. आचचक्षे महात्मानं रामं दशरथात्मजम् ॥
१८३. राज्याद् भ्रष्टो मया वस्तुं वने सार्धमिहागतः ।
१८४. भार्यया च महातेजाः सीतयानुगतो वशी ।
१८५. दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥
१८६. अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ।
१८७. कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥
१८८. ऐश्वर्येण विहीनस्य वनवासे रतस्य च ।
१८९. रक्षसापहृता भार्या रहिते कामरूपिणा ।
१९०. तच्च न ज्ञायते रक्षः पत्नी येनास्य वा हृता ॥
१९१. दनुर्नाम दितेः पुत्रः शापात् राक्षसतां गतः ।
१९२. आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः ॥
१९३. एतत्ते सर्वमाख्यातं यातातथ्येन पृच्छतः ।
१९४. अहं चैव च रामश्च सुग्रीवं शरणं गतौ ॥
१९५. सर्वलोकस्य धर्मात्मा शरण्यः शरणं पुरा ।
१९६. गुरुर्मे राघवः सोऽयं सुग्रीवं शरणं गतः ॥
१९७. यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।
१९८. स रामो वानरेन्द्रस्य प्रसादमभिकाङ्क्षते ॥
१९९. एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम् ।
२००. हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥
२०१. ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः ।
२०२. द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः ॥
२०३. करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ।
२०४. सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे ॥
२०५. इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा ।
२०६. बभाषे साधु गच्छामः सुग्रीवमिति राघवम् ॥
२०७. एवं ब्रुवन्तं धर्मात्मा हनूमन्तं स लक्ष्मणः ।
२०८. प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥
२०९. कपिः कथयते हृष्टो यथायं मारुतात्मजः ।
२१०. कृत्यवान् सोऽपि संप्राप्तः कृतकृत्योऽसि राघव ॥
२११. प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ।
२१२. नानृतं वक्ष्यते वीरो हनूमान् मारुतात्मजः ॥
२१३. ततः स तु महाप्राज्ञो हनूमान् मारुतात्मजः ।
२१४. जगामादाय तौ वीरौ हरिराजाय राघवौ ॥
२१५. ऋष्यमूकात् तु हनुमान् गत्वा तं मलयं गिरिम् ।
२१६. आचचक्षे तदा वीरौ कपिराजाय राघवौ ॥
२१७. इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः ।
२१८. लक्ष्मणेन सह भ्रात्रा संप्राप्तो दृढविक्रमः ॥
२१९. धर्मे निगदितश्चैव पितुर्निर्देशकारकः ।
२२०. स्त्रीहेतोः (सत्यवाक्योऽयम्) रामोऽरण्यं समागतः ॥
२२१. तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः ।
२२२. रावणेन हृता भार्या स त्वां शरणमागतः ॥
२२३. भवता सत्यकामौ तौ भ्रातरौ रामलक्ष्मणौ ।
२२४. प्रगृह्य चार्चनीयौ तौ पूजनीयतमौ उभौ ॥
२२५. श्रुत्वा हनुमतो वाक्यं सुग्रीवो वानराधिपः ।
२२६. दर्शनीयतमो भूत्वा प्रीत्योवाच च राघवम् ॥
२२७. आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः ।
२२८. रोचते यदि मे सख्यं बाहुरेष प्रसारितः ।
२२९. गृह्यतां पाणिना पाणिः मर्यादा बध्यतां ध्रुवा ॥
२३०. एतत्तु वचनं श्रुत्वा (रामो सुग्रीवभाषितं) ।
२३१. संप्रहृष्टमना हस्तं पीडयामास पाणिना ॥
२३२. ततो हनूमान् सन्त्यज्य भिक्षुरूपमरिन्दमः ।
२३३. काष्ठयोः स्वेन रूपेण जनयामास पावकम् ॥
२३४. ततोऽग्निं दीप्यमानौ तौ चक्रतुश्च प्रदक्षिणम् ।
२३५. सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ ॥
२३६. ततः सुप्रीतमनसौ तौ उभौ हरिराघवौ ।
२३७. अन्योन्यमभिवीक्षन्तौ न तृप्तिमभिजग्मतुः ॥
२३८. ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा ।
२३९. प्रत्युवाच तदा रामं हर्षव्याकुललोचनः ॥
२४०. त्वं वयस्योऽसि हृद्यो मे ह्येकं दुःखं सुखं च नौ ।
२४१. अहं विनिकृतो राम चरामीह भयार्दितः ॥
२४२. हृतभार्यो वने त्रस्तो दुर्गमेतदुपाश्रितः ।
२४३. वालिना निकृतो भ्रात्रा कृतवैरश्च राघव ॥
२४४. वालिनो मे महाभाग भयं मे न भवेद्यथा ।
२४५. कर्तुमर्हसि काकुत्स्थ भयार्तस्याभयं कुरु ॥
२४६. प्रत्यभाषत काकुत्स्थः सुग्रीवं प्रहसन्निव ।
२४७. उपकारफलं मित्रं विदितं नो महाकपे ॥
२४८. तमद्य वालिनं पश्य तीक्ष्णैराशीविषोपमैः ।
२४९. शरैर्विनिहतं भूमौ प्रकीर्णमिव पर्वतम् ॥
२५०. सीताकपीन्द्रक्षणदाचराणाम्
२५१. राजीवहेमज्वलनोपमानि ।
२५२. सुग्रीवरामप्रणयप्रसङ्गे
२५३. वामानि नेत्राणि समं स्फुरन्ति ॥
२५४. स तु तद्वचनं श्रुत्वा राघवस्यात्मनो हितम् ।
२५५. सुग्रीवः परमप्रीतः सुमहद् वाक्यमब्रवीत् ॥
२५६. भार्यावियोगजं दुःखं न चिरात् त्वं विमोक्ष्यसे ।
२५७. रसातले वा वर्तन्तीं वर्तन्तीं वा नभःस्थले ।
२५८. अहमानीय दास्यामि तव भार्यामरिन्दम ॥
२५९. अनुमानात् तु जानामि मैथिली सा न संशयः ।
२६०. ह्रियमाणा मया दृष्टा रक्षसा रौद्रकर्मणा ।
२६१. क्रोशन्ती रामरामेति लक्ष्मणेति च विस्वरम् ।
२६२. स्फुरन्ती रावणस्यांके पन्नगेन्द्रवधूर्यथा ॥
२६३. आत्मना पञ्चमं मां हि दृष्ट्वा शैलतले स्थितम् ।
२६४. उत्तरीयं तया त्यक्तं शुभान्याभरणानि च ॥
२६५. तान्यस्माभिर्गृहीतानि निहितानि च राघव ।
२६६. आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि ॥
२६७. तमब्रवीत् ततो रामः सुग्रीवं प्रियवादिनम् ।
२६८. आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे ॥
२६९. एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम् ।
२७०. प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया ॥
२७१. उत्तरीयं गृहीत्वा तु स तान्याभरणानि च ।
२७२. इदं पश्येति रामाय दर्शयामास वानरः ॥
२७३. ततो गृहीत्वा वासस्तु शुभान्याभरणानि च ।
२७४. अभवत् बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः ॥
२७५. सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः ।
२७६. हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत् क्षितौ ॥
२७७. हृदि कृत्वा स बहुशः तमलङ्कारमुत्तमम् ।
२७८. निशश्वास भृशं सर्पो बिलस्थ इव रोषितः ॥
२७९. अविच्छिनाश्रुवेगस्तु सौमित्रिं प्रेक्ष्य पार्श्वतः ।
२८०. परिदेवयितुं दीनं रामः समुपचक्रमे ॥
२८१. पश्य लक्ष्मण वैदेह्या सन्त्यक्तं ह्रियमाणया ।
२८२. उत्सृष्टं भूषणमिदं तथा रूपं हि दृश्यते ॥
२८३. एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् ।
२८४. नाहं जानामि केयूरे नाहं जानामि कुण्डले ।
२८५. नूपुरे त्वभिजानामि नित्यं पादाभिवन्दनात् ॥
२८६. ततस्तु राघवो वाक्यं सुग्रीवमिदमब्रवीत् ।
२८७. ब्रूहि सुग्रीव तं देशं ह्रियन्ती लक्षिता त्वया ।
२८८. रक्षसा रौद्ररूपेण मम प्राणप्रिया हृता ॥
२८९. मम दयिततमा हृता वनात्
२९०. रजनिचरेण विमथ्य येन सा ।
२९१. कथय मम रिपुं तमद्य वै
२९२. प्लवगपते यमसन्निधिं नयामि ॥
२९३. एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः ।
२९४. अब्रवीत् प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः ॥
२९५. करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम् ।
२९६. रावणं सगणं हत्वा परितोष्यात्मपौरुषम् ।
२९७. तथास्मि कर्ता न चिरात् यथा प्रीतो भविष्यसि ॥
२९८. अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर ।
२९९. त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम् ॥
३००. ममापि व्यसनं प्राप्तं भार्याविरहजं महत् ।
३०१. नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन् ॥
३०२. महात्मा च विनीतश्च किं पुनर्धृतिमान् महान् ।
३०३. व्यसने वार्थकृच्छ्रे वा भये वा जीवितान्तगे ।
३०४. विमृशन्श्च स्वयं बुद्ध्या धृतिमान् नावसीदति ॥
३०५. बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते ।
३०६. स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले ॥
३०७. एषोऽञ्जलिर्मया बद्धः प्रणयात् त्वां प्रसादये ।
३०८. पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि ॥
३०९. हितं वयस्यभावेन ब्रूमि नोपदिशामि ते ।
३१०. वयस्यतां पूजयन् मे न त्वं शोचितुमर्हसि ॥
३११. मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः ।
३१२. मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत् ॥
३१३. प्रकृतिस्थस्तु काकुत्स्थः सुग्रीववचनात् प्रभुः ।
३१४. संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत् ॥
३१५. अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया ।
३१६. कर्तव्यं यद् वयस्येन स्निग्धेन च हितेन च ॥
३१७. एष च प्रकृतिस्थोऽहमनुनीतस्त्वया सखे ।
३१८. दुर्लभो हीदृशो बन्धुः अस्मिन् काले विशेषतः ॥
३१९. किन्तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे ।
३२०. राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः ॥
३२१. मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम् ।
३२२. वर्षास्विव च सुक्षेत्रे सर्वं संपद्यते तव ॥
३२३. अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन ।
३२४. एतत्ते प्रतिजानामि सत्येनैव शपाम्यहम् ॥
३२५. महानुभावस्य वचो निशम्य
३२६. हरिर्नृपाणामधिपस्य तस्य ।
३२७. कृतं स मेने हरिवीरमुख्यह्
३२८. तदा स्वकार्यं हृदयेन विद्वान् ॥
३२९. परितुष्टस्तु सुग्रीवस्तेन वाक्येन हर्षितः ।
३३०. लक्ष्मणस्याग्रजं शूरमिदं वचनमब्रवीत् ॥
३३१. शक्यं खलु भवेद् राम सहायेन त्वयानघ ।
३३२. सुरराज्यमपि प्राप्तुं स्वराज्यं किमुत प्रभो ॥
३३३. सोऽहं सभाज्यं बन्धूनां सुहृदां चैव राघव ।
३३४. यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम् ॥
३३५. अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ।
३३६. न तु वक्तुं समर्थोऽहं स्वयमात्मगतान् गुणान् ॥
३३७. रजतं वा सुवर्णं वा शुभान्याभरणानि च ।
३३८. अविभक्तानि साधूनामवगच्छन्ति साधवः ॥
३३९. आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।
३४०. निर्दोषश्च सदोषश्च वयस्यः परमा गतिः ॥
३४१. धनत्यागः सुखत्यागो देशत्यागोऽपि वानघ ।
३४२. वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥
३४३. एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः ।
३४४. प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव ॥
३४५. उपकारफलं मित्रं अपकारोऽरिलक्षणम् ।
३४६. अद्यैव तं वधिष्यामि तव भार्यापहारिणम् ॥
३४७. राघवस्य वचो श्रुत्वा सुग्रीवो वाहिनीपतिः ।
३४८. प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥
३४९. राम शोकाभिभूतोऽहं शोकार्तानां भवान् गतिः ।
३५०. वयस्य इति कृत्वा हि त्वय्यहं परिदेवये ॥
३५१. दुःखमन्तर्गतं तन्मे मनो हरति नित्यशः ।
३५२. एतावदुक्त्वा वचनं बाष्पदूषितलोचनः ।
३५३. बाष्पदूषितया वाचा नोच्चैः शक्नोति भाषितुम् ॥
३५४. बाष्पवेगं तु सहसा नदीवेगमिवागतम् ।
३५५. धारयामास धैर्येण सुग्रीवो रामसन्निधौ ॥
३५६. स निगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे ।
३५७. विनिःश्वस्य च तेजस्वी राघवं पुनरूचिवान् ॥
३५८. पुराहं वालिना राम राज्यात् स्वात् अवरोपितः ।
३५९. परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसः ॥
३६०. सुहृदश्च मदीया ये संयता बन्धनेषु ते ।
३६१. बहुशः तत्प्रयुक्ताश्च वानरा निहता मया ॥
३६२. शङ्कया त्वेतयाहं च दृष्ट्वा त्वामपि राघव ।
३६३. नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ॥
३६४. केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे ।
३६५. अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्रगतोऽपि सन् ॥
३६६. एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः ।
३६७. सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ॥
३६८. श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् ।
३६९. किं निमित्तमभूत् वैरं श्रोतुमिच्छामि तत्त्वतः ॥
३७०. सुखं हि कारणं श्रुत्वा वैरस्य तव वानर ।
३७१. आनन्तर्यं विधास्यामि संप्रधार्य बलाबलम् ॥
३७२. ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे ।
३७३. वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे ॥