११ ११ रामपादुकापट्टाभिषेकः

१. वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च ।
२. अभिचक्राम तं देशं रामदर्शनतर्षितः ॥
३. राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।
४. ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥
५. पितुरिङ्गुदिपिण्याकं न्यस्तं रामेण वीक्ष्य सा ।
६. उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥
७. राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ।
८. चतुरन्तां महीं भुङ्क्त्वा महेन्द्रसदृशो विभुः ।
९. कथमिङ्गुदिपिण्याकं स भुङ्‍क्ते वसुधाधिपः ॥
१०. अतो दुःखतरं लोके न किञ्चित् प्रतिभाति मे ।
११. यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥
१२. एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।
१३. ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥
१४. सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः ।
१५. आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥
१६. तासां रामः समुत्थाय जग्राह चरणान् शुभान् ।
१७. ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः ।
१८. प्रममार्जू रजः पृष्ठाद् रामस्यायतलोचनाः ॥
१९. सौमित्रिरपि ताः सर्वाः मातॄः सम्प्रेक्ष्य दुःखितः ।
२०. अभ्यवादयतासक्तं शनैः रामादनन्तरम् ॥
२१. सीतापि चरणांस्तासामुपसङ्गृह्य दुःखिता ।
२२. श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥
२३. तां परिष्वज्य दुःखार्ता माता दुहितरं यथा ।
२४. वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥
२५. विदेहराजस्य सुता स्नुषा दशरथस्य च ।
२६. रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥
२७. पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।
२८. काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥
२९. मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम् ।
३०. भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥
३१. ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः ।
३२. पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥
३३. स राघवः सत्यधृतिश्च लक्ष्मणो
३४. महानुभावो भरतश्च धार्मिकः ।
३५. वृताः सुहृद्भिश्च विरेजुरध्वरे
३६. यथा सदस्यैः सहितास्त्रयोऽग्नयः ॥
३७. तं तु रामः समाज्ञाय भ्रातरं गुरुवत्सलम् ।
३८. लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ॥
३९. किं निमित्तमिदं देशं कृष्णाजिनजटाधरः ।
४०. हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ॥
४१. इत्युक्तः कैकयीपुत्रः काकुत्स्थेन महात्मना ।
४२. प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत् ॥
४३. एभिश्च सचिवैः सार्धं शिरसा याचितो मया ।
४४. भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि ॥
४५. इमाः प्रकृतयः सर्वा विधवा मातरश्च याः ।
४६. त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि ॥
४७. अभिषिञ्चस्व चाद्यैव राज्येन मघवानिव ।
४८. भवत्वविधवा भूमिः समग्रा पतिना त्वया ।
४९. शशिना विमलेनेव शारदी रजनी यथा ॥
५०. तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् ।
५१. पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ॥
५२. एवमुक्त्वा महाबाहुः सबाष्पः कैकयीसुतः ।
५३. रामस्य शिरसा पादौ जग्राह विधिवत् पुनः ॥
५४. तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः ।
५५. भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत् ॥
५६. कुलीनः सत्वसम्पन्नस्तेजस्वी चरितव्रतः ।
५७. राज्यहेतोः कथं पापमाचरेत् त्वद्विधो जनः ॥
५८. कामकारो महाप्राज्ञ गुरूणां सर्वदानघ ।
५९. उपपन्नेषु दारेषु पुत्रेषु च विधीयते ॥
६०. वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् ।
६१. राज्ये वापि महाराजो मां वासयितुमीश्वरः ॥
६२. यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् ।
६३. तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ॥
६४. एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव ।
६५. मातापितृभ्यामुक्तोऽहं कथमन्यत् समाचरे ॥
६६. स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव ।
६७. पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ॥
६८. चतुर्दशसमाः सौम्य दण्डकारण्यमाश्रितः ।
६९. उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ॥
७०. ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः ।
७१. शोचतामेव रजनी दुःखेन व्यत्यवर्तत ॥
७२. रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्‍वृताः ।
७३. मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥
७४. तूष्णीं ते समुपासीना न कश्चित् किञ्चिदब्रवीत् ।
७५. भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥
७६. सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।
७७. तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥
७८. गतिं खर इवाश्वस्य तार्क्षस्येव पतत्रिणः ।
७९. अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥
८०. सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।
८१. राम तेन तु दुर्जीवं यः परानुपजीवति ॥
८२. श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः ।
८३. प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥
८४. तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः ।
८५. भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥
८६. तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।
८७. रामः कृतात्मा भरतं समाश्वासयदात्मवान् ॥
८८. नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः ।
८९. इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥
९०. सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
९१. संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥
९२. यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति ।
९३. तथा सीदन्ति नरा जरामृत्युवशं गताः ॥
९४. अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।
९५. आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥
९६. नन्दत्युदित आदित्ये नन्दन्त्यस्तमितेऽहनि ।
९७. आत्मनो नावबुद्ध्यन्ते मनुष्या जीवितक्षयम् ॥
९८. यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
९९. समेत्य च व्यपेयातां कालमासाद्य कञ्चन ।
१००. एवं भार्याश्च पुत्राश्च ज्ञातयश्च धनानि च ।
१०१. समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥
१०२. इष्ट्वा बहुविधैर्यज्ञैः भोगांश्चावाप्य पुष्कलान् ।
१०३. उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥
१०४. स न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥
१०५. स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।
१०६. दैवीं ऋद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥
१०७. तं तु नैवं विधः कश्चित् प्राज्ञः शोचितुमर्हति ॥
१०८. स स्वस्थो भव मा शोचीर्यात्वा चावस तां पुरीम् ।
१०९. तथा पित्रा नियुक्तोऽसि वशिना वदतां वर ॥
११०. यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा ।
१११. तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम् ॥
११२. न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।
११३. तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥
११४. एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।
११५. उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥
११६. को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।
११७. न त्वां प्रव्यथयेद् दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥
११८. अमरोपमसत्त्वस्त्वं महात्मा सत्यसङ्गरः ।
११९. सर्वज्ञः सर्वदर्शी च बुद्धिमान्श्चासि राघव ॥
१२०. न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।
१२१. अविषह्यतमं दुःखमासादयितुमर्हति ॥
१२२. प्रोषिते मयि यत् पापं मात्रा यत्कारणात् कृतम् ।
१२३. क्षुद्रया तदनिष्टं मे प्रसीदतु भवान् मम ॥
१२४. धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम् ।
१२५. हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥
१२६. अन्तकाले हि भूतानि मुह्यन्तीति पुरा श्रुतिः ।
१२७. राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥
१२८. साध्वर्थमभिसन्धाय क्रोधान्मोहाच्च साहसात् ।
१२९. तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥
१३०. कैकेयीं मां च तातं च सुहृदो बान्धवान्श्च नः ।
१३१. पौरजानपदान् सर्वान्स्त्रातु सर्वमिदं भवान् ॥
१३२. क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम् ।
१३३. ईदृशं व्याहृतं कर्म न भवान् कर्तुमर्हति ॥
१३४. एष हि प्रथमो धर्मः क्षत्रियस्याभिषेचनम् ।
१३५. येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥
१३६. अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।
१३७. धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥
१३८. श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् ।
१३९. स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥
१४०. इहैव त्वाभिषिञ्चन्तु सर्वाः प्रकृतयः सह ।
१४१. ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥
१४२. शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि ।
१४३. बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥
१४४. अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः ।
१४५. गमिष्यति गमिष्यामि भवता सार्धमप्यहम् ॥
१४६. तथा हि रामो भरतेन ताम्यता
१४७. प्रसाद्यमानः शिरसा महीपतिः ।
१४८. न चैव चक्रे गमनाय सत्ववान्
१४९. मतिं पितुस्तद्वचने व्यवस्थितः ॥
१५०. तदद्भुतं स्थैर्यमवेक्ष्य राघवे
१५१. समं जनो हर्षमवाप दुःखितः ।
१५२. न यात्ययोध्यामिति दुःखितोऽभवत्
१५३. स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥
१५४. पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः ।
१५५. प्रत्युवाच ततः श्रीमान् ज्ञातिमध्येऽभिसत्कृतः ॥
१५६. पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् ।
१५७. मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥
१५८. दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव ।
१५९. सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥
१६०. ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी ।
१६१. अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥
१६२. तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।
१६३. तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥
१६४. तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ ।
१६५. चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥
१६६. सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः ।
१६७. सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥
१६८. भवानपि तथेत्येव पितरं सत्यवादिनम् ।
१६९. कर्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥
१७०. ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।
१७१. पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥
१७२. अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।
१७३. शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः ॥
१७४. प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।
१७५. आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥
१७६. आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः ।
१७७. उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥
१७८. साधु राघव माभूत् ते बुद्धिरेवं निरर्थिका ।
१७९. प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥
१८०. कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् ।
१८१. यदेको जायते जन्तुरेक एव विनश्यति ॥
१८२. न ते कश्चिद्दशरथस्त्वं च तस्य न कश्चन ।
१८३. गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै ॥
१८४. दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः ।
१८५. यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥
१८६. स नास्ति परमित्येव कुरु बुद्धिं महामते ।
१८७. प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥
१८८. पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।
१८९. आस्थातुं कापथं दुःखं विषमं बहुकण्टकम् ।
१९०. राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥
१९१. जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः ।
१९२. उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥
१९३. भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।
१९४. अकार्य्यं कार्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥
१९५. यद्‍वृत्ताः सन्ति राजानः तद्‍वृत्ताः सन्ति हि प्रजाः ।
१९६. सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ॥
१९७. तस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥
१९८. दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।
१९९. वेदाः सत्यप्रतिष्ठानाः तस्मात् सत्यपरो भवेत् ॥
२००. सोऽहं पितुर्नियोगं तु किमर्थं नानुपालये ।
२०१. सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥
२०२. नैव लोभान्न मोहाद् वा न ह्यज्ञानात् तमोऽन्वितः ।
२०३. सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥
२०४. कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।
२०५. भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥
२०६. स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।
२०७. प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥
२०८. वनवासं वसन्नेवं शुचिर्नियतभोजनः ।
२०९. मूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवान्श्च तर्पयन् ।
२१०. सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये ॥
२११. निन्दाम्यहं कर्म पितुः कृतं तद्-
२१२. यस्त्वामगृह्णाद् विषमस्थबुद्धिम् ।
२१३. बुद्ध्यानयैवं विधया चरन्तम्
२१४. सुनास्तिकं धर्मपथादपेतम् ॥
२१५. धर्मे रताः सत्पुरुषैः समेताः
२१६. तेजस्विनो दानगुणप्रधानाः ।
२१७. अहिंसका वीतमलाश्च लोके
२१८. भवन्ति पूज्या मुनयः प्रधानाः ॥
२१९. इति ब्रुवन्तं वचनं सरोषम्
२२०. रामं महात्मानमदीनसत्त्वम् ।
२२१. उवाच तथ्यं पुनरास्तिकञ्च
२२२. सत्यं वचः सानुनयं च विप्रः ॥
२२३. न नास्तिकानां वचनं ब्रवीम्यहम्
२२४. न चास्तिकोऽहं न च नास्ति किञ्चन ।
२२५. निवर्तनार्थं तव राम कारणात्
२२६. प्रसादनार्थं तु मयैतदीरितम् ॥
२२७. क्रुद्धमाज्ञाय रामं तं वसिष्ठः प्रत्युवाच ह ।
२२८. जाबालिरपि जानीते लोकस्यास्य गतागतिम् ॥
२२९. निवर्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् ॥
२३०. इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः ।
२३१. पूर्वजे नावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते ॥
२३२. पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः ।
२३३. आचार्यश्चैव काकुत्स्थ पिता माता च राघव ॥
२३४. सोऽहं ते पितुराचार्यस्तव चैव परन्तप ।
२३५. मम त्वं वचनं कुर्वन् नातिवर्तेः सतां गतिम् ॥
२३६. इमा हि ते परिषदः श्रेणयश्च द्विजास्तथा ।
२३७. एषु तात चरन् धर्मं नातिवर्तेः सतां गतिम् ॥
२३८. वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम् ।
२३९. अस्यास्तु वचनं कुर्वन् नातिवर्तेः सतां गतिम् ॥
२४०. भरतस्य वचः कुर्वन् याचमानस्य राघव ।
२४१. आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम ॥
२४२. एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् ।
२४३. प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥
२४४. यन्मातापितरौ वृत्तं तनये कुरुतः सदा ।
२४५. न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥
२४६. यथाशक्तिप्रदानेन स्नापनोच्छादनेन च ।
२४७. नित्यं च प्रियवादेन तथा संवर्धनेन च ॥
२४८. स हि राजा जनयिता पिता दशरथो मम ।
२४९. आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥
२५०. एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् ।
२५१. उवाच परमोदारः सूतं परमदुर्मनाः ॥
२५२. इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।
२५३. आर्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥
२५४. स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः ।
२५५. कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥
२५६. तमुवाच महातेजा रामो राजर्षिसत्तमः ।
२५७. किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥
२५८. उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।
२५९. पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव ॥
२६०. आसीनस्त्वेव भरतः पौरजानपदं जनम् ।
२६१. उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ॥
२६२. ते तमूचुर्महात्मानं पौरजानपदा जनाः ।
२६३. काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ॥
२६४. एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति ।
२६५. अत एव न शक्ताः स्मो व्यावर्तयितुमञ्जसा ॥
२६६. तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।
२६७. एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ।
२६८. उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥
२६९. अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।
२७०. शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥
२७१. यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः ।
२७२. अहमेव निवत्स्यामि चतुर्दश समा वने ॥
२७३. धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः ।
२७४. उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥
२७५. विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।
२७६. न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥
२७७. अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः ।
२७८. भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥
२७९. स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया ।
२८०. कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥
२८१. राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।
२८२. कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥
२८३. रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।
२८४. पौरजानपदान्श्चापि रक्तान् रञ्जयितुं तथा ॥
२८५. ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः ।
२८६. त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः ॥
२८७. इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।
२८८. शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥
२८९. इत्युक्त्वा न्यपतद्भ्रातुः पादयोः भरतस्तदा ।
२९०. भृशं सम्प्रार्थयामास राममेव प्रियंवदः ॥
२९१. तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।
२९२. श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥
२९३. आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या ।
२९४. भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥
२९५. अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः ।
२९६. सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥
२९७. लक्ष्मीश्चन्द्राद्व्यपेयाद्वा हिमवान् वा हिमं त्यजेत् ।
२९८. अतीयाद् सागरो वेलां न प्रतिज्ञामहं पितुः ॥
२९९. एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् ।
३००. तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥
३०१. अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।
३०२. एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥
३०३. सोऽधिरुह्य नरव्याघ्रः पादुके चावरुह्य च ।
३०४. प्रायच्छत् सुमहातेजा भरताय महात्मने ॥
३०५. स पादुके संप्रणम्य रामं वचनमब्रवीत् ।
३०६. चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ।
३०७. फलमूलाशनो वीर भवेयं रघुनन्दन ।
३०८. तवागमनमाकाङ्क्षन् वसन् वै नगराद् बहिः ॥
३०९. तव पादुकयोर्न्यस्तराज्यतन्त्रः परन्तप ।
३१०. चतुर्दशे हि सम्पूर्णे वर्षेऽहनि रघूत्तम ।
३११. न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥
३१२. तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।
३१३. शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥
३१४. मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।
३१५. मया च सीतया चैव शप्तोऽसि रघुसत्तम ॥
३१६. अथानुपूर्व्यात् प्रतिनन्द्य तं जनम्
३१७. गुरून्श्च मन्त्रिप्रकृतीस्तथानुजौ ।
३१८. व्यसर्जयद् राघववंशवर्धनः
३१९. स्थिरः स्वधर्मे हिमवानिवाचलः ॥
३२०. ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।
३२१. आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥
३२२. यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः ।
३२३. पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥
३२४. स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः ।
३२५. अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ।
३२६. अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहङ्गमाम् ।
३२७. लीनमीनझषग्राहां कृशां गिरिनदीमिव ।
३२८. सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।
३२९. प्रशान्तमारुतोद्‍घातां जलोर्मिमिव निस्वनाम् ।
३३०. गोष्ठमध्ये स्थितामार्तामचरन्तीं तृणं नवम् ।
३३१. गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ।
३३२. पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।
३३३. द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ।
३३४. सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।
३३५. प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ।
३३६. पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।
३३७. सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥
३३८. भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः ।
३३९. वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥
३४०. सह नूनं मम भ्रात्रा पुरस्यास्य द्युतिर्गता ।
३४१. न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥
३४२. कदा नु खलु मे भ्राता महोत्सव इवागतः ।
३४३. जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥
३४४. तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ।
३४५. सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥
३४६. एवं बहुविधं जल्पन् विवेश वसतिं पितुः ।
३४७. तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥
३४८. ततो निक्षिप्य मातॄः स अयोध्यायां दृढव्रतः ।
३४९. भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥
३५०. नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः ।
३५१. तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना ॥
३५२. रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥
३५३. एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
३५४. अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥
३५५. सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ।
३५६. वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥
३५७. नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।
३५८. आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् ॥
३५९. मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।
३६०. प्रहृष्टवदनः सर्वाः मातॄः समभिवाद्य सः ।
३६१. नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥
३६२. रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः ।
३६३. भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ।
३६४. पादुकेत्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा ॥
३६५. तदधीनस्तदा राज्यं कारयामास सर्वदा ॥
३६६. तदा हि यत्कार्यमुपैति किञ्चि-
३६७. दुपायनं चोपहृतं महार्हम् ॥
३६८. स पादुकाभ्यां प्रथमं निवेद्य
३६९. चकार पश्चाद् भरतो यथावत् ॥
३७०. प्रतिप्रयाते भरते वसन् रामस्तपोवने ।
३७१. न तत्रारोचयद् वासं कारणैर्बहुभिस्तदा ॥
३७२. इह मे भरतो दृष्टो मातरश्च सनागराः ।
३७३. सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥
३७४. स्कन्धावारनिवेशेन तेन तस्य महात्मनः ।
३७५. हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् ॥
३७६. तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः ।
३७७. प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥
३७८. सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः ।
३७९. तं चापि भगवानत्रिः पुत्रवद् प्रत्यपद्यत ॥
३८०. स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।
३८१. सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥
३८२. अनसूयां महाभागां पत्नीमामन्त्र्य सत्कृताम् ।
३८३. रामाय चाचचक्षे तां तापसीं ब्रह्मचारिणीम् ॥
३८४. दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।
३८५. यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ॥
३८६. देवकार्यनिमित्तं च यया सन्त्वरमाणया ।
३८७. दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ ॥
३८८. तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम् ।
३८९. अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।
३९०. अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥
३९१. एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ।
३९२. सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥
३९३. राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।
३९४. श्रेयोऽर्थमात्मनः शीघ्रं अभिगच्छ तपस्विनीम् ॥
३९५. शिथिलां वलितां वृद्धां जरापाण्डरमूर्धजाम् ।
३९६. सततं वेपमानाङ्गीं प्रवाते कदली यथा ।
३९७. तां तु सीता महाभागामनसूयां पतिव्रताम् ।
३९८. अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥
३९९. अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।
४००. बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥
४०१. ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।
४०२. सान्त्वयन्त्यब्रवीद् हृष्टा दिष्ट्या धर्ममवेक्षसे ॥
४०३. त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।
४०४. अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥
४०५. नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ।
४०६. यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥
४०७. सा त्वेवमुक्ता वैदेही त्वनसूयानसूयया ।
४०८. प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥
४०९. नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे ।
४१०. विदितं तु ममाप्येतद् यथा नार्याः पतिर्गुरुः ॥
४११. यद्यप्येष भवेद् भर्ता ममार्ये वृत्तवर्जितः ।
४१२. अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥
४१३. किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः ।
४१४. स्थिरानुरागो धर्मात्मा मातृवत् पितृवत् प्रियः ॥
४१५. आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।
४१६. समाहितं मे श्वश्र्वा च हृदये तद्‍धृतं महत् ॥
४१७. पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।
४१८. अनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम् ॥
४१९. नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।
४२०. पतिशुश्रूषणान्नार्याः तपो नान्यद् विधीयते ॥
४२१. ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।
४२२. शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥
४२३. नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।
४२४. तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥
४२५. उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।
४२६. प्रीता चास्म्युचितं किन्ते करवाणि ब्रवीहि मे ॥
४२७. तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया ।
४२८. कृतमित्यब्रवीत् सीता तपोबलसमन्विताम् ॥
४२९. सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् ।
४३०. सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥
४३१. इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।
४३२. अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥
४३३. सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।
४३४. मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥
४३५. तथा सीतामुपासीनामनसूया दृढव्रता ।
४३६. वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥
४३७. स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।
४३८. राघवेणेति मे सीते कथा श्रुतिमुपागता ॥
४३९. तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
४४०. यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥
४४१. एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।
४४२. श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥
४४३. अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
४४४. पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥
४४५. यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया ।
४४६. रमेऽहं कथया ते तु दृढं मधुरभाषिणि ॥
४४७. रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ।
४४८. दिवसं प्रतिकीर्णानामाहारार्थं पतत्रिणाम् ।
४४९. सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ॥
४५०. एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः ।
४५१. सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥
४५२. ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।
४५३. कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ॥
४५४. सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।
४५५. ज्योत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितेऽम्बरे ॥
४५६. गम्यतामनुजानामि रामस्यानुचरी भव ।
४५७. अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।
४५८. प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥
४५९. सा तथा समलङ्कृत्य सीता सुरसुतोपमा ।
४६०. प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥
४६१. तथा तु भूषितां सीतां ददर्श वदतां वरः ।
४६२. राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥
४६३. ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः ।
४६४. अर्चितः तापसैः सिद्धैरुवास रघुनन्दनः ॥
४६५. तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।
४६६. आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥
४६७. तावूचुस्ते वनचरास्तापसा धर्मचारिणः ।
४६८. एष पन्था महर्षीणां फलान्याहरतां वने ।
४६९. अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥
४७०. इतीव तैः प्राञ्जलिभिस्तपस्विभिः
४७१. द्विजैः कृतः स्वस्त्ययनः परन्तपः ।
४७२. वनं स भार्यः प्रविवेश राघवः
४७३. सलक्ष्मणः सूर्यमिवाभ्रमण्डलम् ॥

॥ अयोध्याकाण्डं समाप्तम्॥