०६५ वाल्मीकि-दर्शनम्

[पञ्चषष्टितमः सर्गः]

भागसूचना
  1. महर्षि वाल्मीकिका शत्रुघ्नको सुदासपुत्र कल्माषपादकी कथा सुनाना
विश्वास-प्रस्तुतिः

प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।
एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ १ ॥

मूलम्

प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि ।
एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ॥ १ ॥

अनुवाद (हिन्दी)

अपनी सेनाको आगे भेजकर अयोध्यामें एक माह रहनेके पश्चात् शत्रुघ्न अकेले ही वहाँसे मधुवनके मार्गपर प्रस्थित हुए । वे बड़ी तेजीके साथ आगे बढ़ने लगे ॥ १ ॥

विश्वास-प्रस्तुतिः

द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।
वाल्मीकेराश्रमं पुण्यमगच्छद् वासमुत्तमम् ॥ २ ॥

मूलम्

द्विरात्रमन्तरे शूर उष्य राघवनन्दनः ।
वाल्मीकेराश्रमं पुण्यमगच्छद् वासमुत्तमम् ॥ २ ॥

अनुवाद (हिन्दी)

रघुकुलको आनन्दित करनेवाले शूरवीर शत्रुघ्न रास्तेमें दो रात बिताकर तीसरे दिन महर्षि वाल्मीकिके पवित्र आश्रमपर जा पहुँचे । वह सबसे उत्तम वासस्थान था ॥ २ ॥

विश्वास-प्रस्तुतिः

सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ३ ॥

मूलम्

सोऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् ।
कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ॥ ३ ॥

अनुवाद (हिन्दी)

वहाँ उन्होंने हाथ जोड़ मुनिश्रेष्ठ महात्मा वाल्मीकिको प्रणाम करके यह बात कही— ॥ ३ ॥

विश्वास-प्रस्तुतिः

भगवन् वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ ४ ॥

मूलम्

भगवन् वस्तुमिच्छामि गुरोः कृत्यादिहागतः ।
श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ॥ ४ ॥

अनुवाद (हिन्दी)

‘भगवन्! मैं अपने बड़े भाई श्रीरघुनाथजीके कार्यसे इधर आया हूँ । आज रातको यहाँ ठहरना चाहता हूँ और कल सबेरे वरुणदेवद्वारा पालित पश्चिम दिशाको चला जाऊँगा’ ॥ ४ ॥

विश्वास-प्रस्तुतिः

शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ५ ॥

मूलम्

शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः ।
प्रत्युवाच महात्मानं स्वागतं ते महायशः ॥ ५ ॥

अनुवाद (हिन्दी)

शत्रुघ्नकी यह बात सुनकर मुनिवर वाल्मीकिने उन महात्माको हँसते हुए उत्तर दिया—‘महायशस्वी वीर! तुम्हारा स्वागत है ॥ ५ ॥

विश्वास-प्रस्तुतिः

स्वमाश्रममिदं सौम्य राघवाणां कुलस्य वै ।
आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ६ ॥

मूलम्

स्वमाश्रममिदं सौम्य राघवाणां कुलस्य वै ।
आसनं पाद्यमर्घ्यं च निर्विशङ्कः प्रतीच्छ मे ॥ ६ ॥

अनुवाद (हिन्दी)

‘सौम्य! यह आश्रम रघुवंशियोंके लिये अपना ही घर है । तुम निःशङ्क होकर मेरी ओरसे आसन, पाद्य और अर्घ्य स्वीकार करो’ ॥ ६ ॥

विश्वास-प्रस्तुतिः

प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।
भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७ ॥

मूलम्

प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् ।
भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ॥ ७ ॥

अनुवाद (हिन्दी)

तब वह सत्कार ग्रहण करके शत्रुघ्नने फल-मूलका भोजन किया । इससे उन्हें बड़ी तृप्ति हुई ॥ ७ ॥

विश्वास-प्रस्तुतिः

स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।
पूर्वा यज्ञविभूतीयं कस्याश्रमसमीपतः ॥ ८ ॥

मूलम्

स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह ।
पूर्वा यज्ञविभूतीयं कस्याश्रमसमीपतः ॥ ८ ॥

अनुवाद (हिन्दी)

फल-मूल खाकर वे महर्षिसे बोले—‘मुने! इस आश्रमके निकट जो यह प्राचीनकालका यज्ञ-वैभव (यूप आदि उपकरण) दिखायी देता है, किसका है—किस यजमान नरेशने यहाँ यज्ञ किया था?’ ॥ ८ ॥

विश्वास-प्रस्तुतिः

तत् तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ९ ॥

मूलम्

तत् तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् ।
शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ॥ ९ ॥

अनुवाद (हिन्दी)

उनका यह प्रश्न सुनकर वाल्मीकिजीने कहा—‘शत्रुघ्न! पूर्वकालमें जिस यजमान नरेशका यह यज्ञमण्डप रहा है, उसे बताता हूँ, सुनो ॥ ९ ॥

विश्वास-प्रस्तुतिः

युष्माकं पूर्वको राजा सुदासस्तस्य भूपतेः ।
पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ १० ॥

मूलम्

युष्माकं पूर्वको राजा सुदासस्तस्य भूपतेः ।
पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ॥ १० ॥

अनुवाद (हिन्दी)

‘तुम्हारे पूर्वज राजा सुदास इस भूमण्डलके स्वामी हो गये हैं । उन भूपालके वीरसह (मित्रसह) नामक एक पुत्र हुआ, जो बड़ा पराक्रमी और अत्यन्त धर्मात्मा था ॥ १० ॥

विश्वास-प्रस्तुतिः

स बाल एव सौदासो मृगयामुपचक्रमे ।
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ११ ॥

मूलम्

स बाल एव सौदासो मृगयामुपचक्रमे ।
चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ॥ ११ ॥

अनुवाद (हिन्दी)

‘सुदासका वह शूरवीर पुत्र बाल्यावस्थामें ही एक दिन शिकार खेलनेके लिये वनमें गया । वहाँ उसने दो राक्षस देखे, जो सब ओर बारंबार विचर रहे थे ॥ ११ ॥

विश्वास-प्रस्तुतिः

शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः ।
भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ १२ ॥

मूलम्

शार्दूलरूपिणौ घोरौ मृगान् बहुसहस्रशः ।
भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ॥ १२ ॥

अनुवाद (हिन्दी)

‘वे दोनों घोर राक्षस बाघका रूप धारण करके कई हजार मृगोंको मारकर खा गये । फिर भी संतुष्ट नहीं हुए । उनके पेट नहीं भरे ॥ १२ ॥

विश्वास-प्रस्तुतिः

स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।
क्रोधेन महताविष्टो जघानैकं महेषुणा ॥ १३ ॥

मूलम्

स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् ।
क्रोधेन महताविष्टो जघानैकं महेषुणा ॥ १३ ॥

अनुवाद (हिन्दी)

‘सौदासने उन दोनों राक्षसोंको देखा । साथ ही उनके द्वारा मृगशून्य किये गये उस वनकी अवस्थापर दृष्टिपात किया । इससे वे महान् क्रोधसे भर गये और उनमेंसे एकको विशाल बाणसे मार डाला ॥ १३ ॥

विश्वास-प्रस्तुतिः

विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।
विज्वरो विगतामर्षो हतं रक्षो ह्युदैक्षत ॥ १४ ॥

मूलम्

विनिपात्य तमेकं तु सौदासः पुरुषर्षभः ।
विज्वरो विगतामर्षो हतं रक्षो ह्युदैक्षत ॥ १४ ॥

अनुवाद (हिन्दी)

‘एकको धराशायी करके वे पुरुषप्रवर सौदास निश्चिन्त हो गये । उनका अमर्ष जाता रहा और वे उस मरे हुए राक्षसको देखने लगे ॥ १४ ॥

विश्वास-प्रस्तुतिः

निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।
सन्तापमकरोद् घोरं सौदासं चेदमब्रवीत् ॥ १५ ॥

मूलम्

निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः ।
सन्तापमकरोद् घोरं सौदासं चेदमब्रवीत् ॥ १५ ॥

अनुवाद (हिन्दी)

‘उस राक्षसके मरे हुए साथीको जब सौदास देख रहे थे, उस समय उनकी ओर दृष्टिपात करके उस दूसरे राक्षसने मन-ही-मन घोर संताप किया और सौदाससे इस प्रकार कहा— ॥ १५ ॥

विश्वास-प्रस्तुतिः

यस्मादनपराधं तं सहायं मम जघ्निवान् ।
तस्मात् तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ १६ ॥

मूलम्

यस्मादनपराधं तं सहायं मम जघ्निवान् ।
तस्मात् तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ॥ १६ ॥

अनुवाद (हिन्दी)

‘‘महापापी नरेश! तूने मेरे निरपराध साथीको मार डाला है, इसलिये मैं तुझसे भी इसका बदला लूँगा’ ॥ १६ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा तु तद् रक्षस्तत्रैवान्तरधीयत ।
कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥

मूलम्

एवमुक्त्वा तु तद् रक्षस्तत्रैवान्तरधीयत ।
कालपर्याययोगेन राजा मित्रसहोऽभवत् ॥ १७ ॥

अनुवाद (हिन्दी)

‘ऐसा कहकर वह राक्षस वहीं अन्तर्धान हो गया और दीर्घकालके पश्चात् सुदासकुमार मित्रसह अयोध्याके राजा हो गये ॥ १७ ॥

विश्वास-प्रस्तुतिः

राजापि यजते यज्ञमस्याश्रमसमीपतः ।
अश्वमेधं महायज्ञं तं वसिष्ठोऽप्यपालयत् ॥ १८ ॥

मूलम्

राजापि यजते यज्ञमस्याश्रमसमीपतः ।
अश्वमेधं महायज्ञं तं वसिष्ठोऽप्यपालयत् ॥ १८ ॥

अनुवाद (हिन्दी)

‘उन्हीं राजा मित्रसहने इस आश्रमके समीप अश्वमेध नामक महायज्ञका अनुष्ठान किया । महर्षि वसिष्ठ अपने तपोबलसे उस यज्ञकी रक्षा करते थे ॥ १८ ॥

विश्वास-प्रस्तुतिः

तत्र यज्ञो महानासीद् बहुवर्षगणायुतः ।
समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ १९ ॥

मूलम्

तत्र यज्ञो महानासीद् बहुवर्षगणायुतः ।
समृद्धः परया लक्ष्म्या देवयज्ञसमोऽभवत् ॥ १९ ॥

अनुवाद (हिन्दी)

‘उनका वह महान् यज्ञ बहुत वर्षोंतक यहाँ चलता रहा । वह भारी धन-सम्पत्तिसे सम्पन्न यज्ञ देवताओंके यज्ञकी समानता करता था ॥ १९ ॥

विश्वास-प्रस्तुतिः

अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।
वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ २० ॥

मूलम्

अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् ।
वसिष्ठरूपी राजानमिति होवाच राक्षसः ॥ २० ॥

अनुवाद (हिन्दी)

‘उस यज्ञकी समाप्ति होनेपर पहलेके वैरका स्मरण करनेवाला वह राक्षस वसिष्ठजीका रूप धारण करके राजाके पास आया और इस प्रकार बोला— ॥ २० ॥

विश्वास-प्रस्तुतिः

अद्य यज्ञावसानान्ते सामिषं भोजनं मम ।
दीयतामतिशीघ्रं वै नात्र कार्या विचारणा ॥ २१ ॥

मूलम्

अद्य यज्ञावसानान्ते सामिषं भोजनं मम ।
दीयतामतिशीघ्रं वै नात्र कार्या विचारणा ॥ २१ ॥

अनुवाद (हिन्दी)

‘‘राजन्! आज यज्ञकी समाप्तिका दिन है, अतः आज मुझे तुम शीघ्र ही मांसयुक्त भोजन दो । इस विषयमें कोई अन्यथा विचार नहीं करना चाहिये’ ॥ २१ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।
सूदान् संस्कारकुशलानुवाच पृथिवीपतिः ॥ २२ ॥

मूलम्

तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा ।
सूदान् संस्कारकुशलानुवाच पृथिवीपतिः ॥ २२ ॥

अनुवाद (हिन्दी)

‘ब्राह्मणरूपधारी राक्षसकी कही हुई बात सुनकर राजाने रसोई बनानेमें कुशल रसोइयोंसे कहा— ॥ २२ ॥

विश्वास-प्रस्तुतिः

हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।
तथा कुरुत शीघ्रं वै परितुष्येद् यथा गुरुः ॥ २३ ॥

मूलम्

हविष्यं सामिषं स्वादु यथा भवति भोजनम् ।
तथा कुरुत शीघ्रं वै परितुष्येद् यथा गुरुः ॥ २३ ॥

अनुवाद (हिन्दी)

‘‘तुमलोग आज शीघ्र ही मांसयुक्त हविष्य तैयार करो और उसे ऐसा बनाओ, जिससे स्वादिष्ट भोजन हो सके तथा मेरे गुरुदेव उससे संतुष्ट हो सकें’ ॥ २३ ॥

विश्वास-प्रस्तुतिः

शासनात् पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः ।
तच्च रक्षः पुनस्तत्र सूदवेषमथाकरोत् ॥ २४ ॥

मूलम्

शासनात् पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः ।
तच्च रक्षः पुनस्तत्र सूदवेषमथाकरोत् ॥ २४ ॥

अनुवाद (हिन्दी)

‘महाराजकी इस आज्ञाको सुनते ही रसोइयेके मनमें बड़ी घबराहट पैदा हो गयी (वह सोचने लगा, आज गुरुजी अभक्ष्य-भक्षणमें कैसे प्रवृत्त होंगे) । यह देख फिर उस राक्षसने ही रसोइयेका वेष बना लिया ॥ २४ ॥

विश्वास-प्रस्तुतिः

स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।
इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ २५ ॥

मूलम्

स मानुषमथो मांसं पार्थिवाय न्यवेदयत् ।
इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ॥ २५ ॥

अनुवाद (हिन्दी)

‘उसने मनुष्यका मांस लाकर राजाको दे दिया और कहा—‘यह मांसयुक्त अन्न एवं हविष्य लाया हूँ । यह बड़ा ही स्वादिष्ट है’ ॥ २५ ॥

विश्वास-प्रस्तुतिः

स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।
मदयन्त्या नरश्रेष्ठ सामिषं रक्षसा हृतम् ॥ २६ ॥

मूलम्

स भोजनं वसिष्ठाय पत्न्या सार्धमुपाहरत् ।
मदयन्त्या नरश्रेष्ठ सामिषं रक्षसा हृतम् ॥ २६ ॥

अनुवाद (हिन्दी)

‘नरश्रेष्ठ! अपनी पत्नी रानी मदयन्तीके साथ राजा मित्रसहने राक्षसके लाये हुए उस मांसयुक्त भोजनको वसिष्ठजीके सामने रखा ॥ २६ ॥

विश्वास-प्रस्तुतिः

ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।
क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे ॥ २७ ॥

मूलम्

ज्ञात्वा तदामिषं विप्रो मानुषं भाजनं गतम् ।
क्रोधेन महताविष्टो व्याहर्तुमुपचक्रमे ॥ २७ ॥

अनुवाद (हिन्दी)

‘थालीमें मानव-मांस परोसा गया है, यह जानकर ब्रह्मर्षि वसिष्ठ महान् क्रोधसे भर गये और इस प्रकार बोले— ॥ २७ ॥

विश्वास-प्रस्तुतिः

यस्मात् त्वं भोजनं राजन् ममैतद् दातुमिच्छसि ।
तस्माद् भोजनमेतत् ते भविष्यति न संशयः ॥ २८ ॥

मूलम्

यस्मात् त्वं भोजनं राजन् ममैतद् दातुमिच्छसि ।
तस्माद् भोजनमेतत् ते भविष्यति न संशयः ॥ २८ ॥

अनुवाद (हिन्दी)

‘‘राजन्! तुम मुझे ऐसा भोजन देना चाहते हो, इसलिये यही तुम्हारा भोजन होगा; इसमें संशय नहीं है (अर्थात् तुम मनुष्यभक्षी राक्षस हो जाओगे)’ ॥ २८ ॥

विश्वास-प्रस्तुतिः

ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।
वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ॥ २९ ॥

मूलम्

ततः क्रुद्धस्तु सौदासस्तोयं जग्राह पाणिना ।
वसिष्ठं शप्तुमारेभे भार्या चैनमवारयत् ॥ २९ ॥

अनुवाद (हिन्दी)

‘यह सुनकर सौदासने भी कुपित हो हाथमें जल ले लिया और वसिष्ठ मुनिको शाप देना आरम्भ किया । तबतक उनकी पत्नीने उन्हें रोक दिया ॥ २९ ॥

विश्वास-प्रस्तुतिः

राजन् प्रभुर्यतोऽस्माकं वसिष्ठो भगवानृषिः ।
प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ३० ॥

मूलम्

राजन् प्रभुर्यतोऽस्माकं वसिष्ठो भगवानृषिः ।
प्रतिशप्तुं न शक्तस्त्वं देवतुल्यं पुरोधसम् ॥ ३० ॥

अनुवाद (हिन्दी)

‘वे बोलीं—‘राजन्! भगवान् वसिष्ठ मुनि हम सबके स्वामी हैं; अतः आप अपने देवतुल्य पुरोहितको बदलेमें शाप नहीं दे सकते’ ॥ ३० ॥

विश्वास-प्रस्तुतिः

ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।
व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ॥ ३१ ॥

मूलम्

ततः क्रोधमयं तोयं तेजोबलसमन्वितम् ।
व्यसर्जयत धर्मात्मा ततः पादौ सिषेच च ॥ ३१ ॥

अनुवाद (हिन्दी)

‘तब धर्मात्मा राजाने तेज और बलसे सम्पन्न उस क्रोधमय जलको नीचे डाल दिया । उससे अपने दोनों पैरोंको ही सींच लिया ॥ ३१ ॥

विश्वास-प्रस्तुतिः

तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।
तदाप्रभृति राजासौ सौदासः सुमहायशाः ॥ ३२ ॥
कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।

मूलम्

तेनास्य राज्ञस्तौ पादौ तदा कल्माषतां गतौ ।
तदाप्रभृति राजासौ सौदासः सुमहायशाः ॥ ३२ ॥
कल्माषपादः संवृत्तः ख्यातश्चैव तथा नृपः ।

अनुवाद (हिन्दी)

ऐसा करनेसे राजाके दोनों पैर तत्काल चितकबरे हो गये । तभीसे महायशस्वी राजा सौदास कल्माषपाद (चितकबरे पैरवाले) हो गये और उसी नामसे उनकी ख्याति हुई ॥ ३२ १/२ ॥

विश्वास-प्रस्तुतिः

स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।
पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ३३ ॥

मूलम्

स राजा सह पत्न्या वै प्रणिपत्य मुहुर्मुहुः ।
पुनर्वसिष्ठं प्रोवाच यदुक्तं ब्रह्मरूपिणा ॥ ३३ ॥

अनुवाद (हिन्दी)

‘तदनन्तर पत्नीसहित राजाने बारंबार प्रणाम करके फिर वसिष्ठसे कहा—‘ब्रह्मर्षे! आपहीका रूप धारण करके किसीने मुझे ऐसा भोजन देनेके लिये प्रेरित किया था’ ॥ ३३ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ ३४ ॥

मूलम्

तच्छ्रुत्वा पार्थिवेन्द्रस्य रक्षसा विकृतं च तत् ।
पुनः प्रोवाच राजानं वसिष्ठः पुरुषर्षभम् ॥ ३४ ॥

अनुवाद (हिन्दी)

‘राजाधिराज मित्रसहकी वह बात सुनकर और उसे राक्षसकी करतूत जानकर वसिष्ठने पुनः उस नरश्रेष्ठ नरेशसे कहा— ॥ ३४ ॥

विश्वास-प्रस्तुतिः

मया रोषपरीतेन यदिदं व्याहृतं वचः ।
नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ३५ ॥

मूलम्

मया रोषपरीतेन यदिदं व्याहृतं वचः ।
नैतच्छक्यं वृथा कर्तुं प्रदास्यामि च ते वरम् ॥ ३५ ॥

अनुवाद (हिन्दी)

‘‘राजन्! मैंने रोषसे भरकर जो बात कह दी है, इसे व्यर्थ नहीं किया जा सकता; परंतु इससे छूटनेके लिये मैं तुम्हें एक वर दूँगा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कालो द्वादशवर्षाणि शापस्यान्तो भविष्यति ।
मत् प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि ॥ ३६ ॥

मूलम्

कालो द्वादशवर्षाणि शापस्यान्तो भविष्यति ।
मत् प्रसादाच्च राजेन्द्र अतीतं न स्मरिष्यसि ॥ ३६ ॥

अनुवाद (हिन्दी)

‘‘राजेन्द्र! वह वर इस प्रकार है—यह शाप बारह वर्षोंतक रहेगा । उसके बाद इसका अन्त हो जायगा । मेरी कृपासे तुम्हें बीती हुई बातका स्मरण नहीं रहेगा’ ॥

विश्वास-प्रस्तुतिः

एवं स राजा तं शापमुपभुज्यारिसूदनः ।
प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ३७ ॥

मूलम्

एवं स राजा तं शापमुपभुज्यारिसूदनः ।
प्रतिलेभे पुना राज्यं प्रजाश्चैवान्वपालयत् ॥ ३७ ॥

अनुवाद (हिन्दी)

‘इस प्रकार उस शत्रुसूदन राजाने बारह वर्षोंतक उस शापको भोगकर पुनः अपना राज्य पाया और प्रजाजनोंका निरन्तर पालन किया ॥ ३७ ॥

विश्वास-प्रस्तुतिः

तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।
आश्रमस्य समीपेऽस्य यन्मां पृच्छसि राघव ॥ ३८ ॥

मूलम्

तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम् ।
आश्रमस्य समीपेऽस्य यन्मां पृच्छसि राघव ॥ ३८ ॥

अनुवाद (हिन्दी)

‘रघुनन्दन! उन्हीं राजा कल्माषपादके यज्ञका यह सुन्दर स्थान मेरे इस आश्रमके समीप दिखायी देता है, जिसके विषयमें तुम पूछ रहे थे’ ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।
विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ३९ ॥

मूलम्

तस्य तां पार्थिवेन्द्रस्य कथां श्रुत्वा सुदारुणाम् ।
विवेश पर्णशालायां महर्षिमभिवाद्य च ॥ ३९ ॥

अनुवाद (हिन्दी)

महाराज मित्रसहकी उस अत्यन्त दारुण कथाको सुनकर शत्रुघ्नने महर्षिको प्रणाम करके पर्णशालामें प्रवेश किया ॥ ३९ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५ ॥
इस प्रकार श्रीवाल्मीकनिर्मित आर्षरामायण आदिकाव्यके उत्तरकाण्डमें पैंसठवाँ सर्ग पूरा हुआ ॥ ६५ ॥