११३ हनुमता सीतायाः रामविजयवार्ताकथनम्

वाचनम्
भागसूचना
  1. हनुमान् जी का सीताजीसे बातचीत करके लौटना और उनका संदेश श्रीरामको सुनाना
विश्वास-प्रस्तुतिः

इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः ।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ १ ॥

मूलम्

इति प्रतिसमादिष्टो हनूमान् मारुतात्मजः ।
प्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ १ ॥

अनुवाद (हिन्दी)

भगवान् श्रीरामका यह आदेश पाकर पवनपुत्र हनुमान् जी ने निशाचरोंसे सम्मानित होते हुए लङ्कापुरीमें प्रवेश किया ॥ १ ॥

विश्वास-प्रस्तुतिः

प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम् ।
ततस्तेनाभ्यनुज्ञातो हनूमान् वृक्षवाटिकाम् ॥ २ ॥

मूलम्

प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम् ।
ततस्तेनाभ्यनुज्ञातो हनूमान् वृक्षवाटिकाम् ॥ २ ॥

अनुवाद (हिन्दी)

पुरीमें प्रवेश करके उन्होंने विभीषणसे आज्ञा माँगी । उनकी आज्ञा मिल जानेपर हनुमान् जी अशोकवाटिकामें गये ॥ २ ॥

विश्वास-प्रस्तुतिः

सम्प्रविश्य यथान्यायं सीताया विदितो हरिः ।
ददर्श मृजया हीनां सातङ्कां रोहिणीमिव ॥ ३ ॥

मूलम्

सम्प्रविश्य यथान्यायं सीताया विदितो हरिः ।
ददर्श मृजया हीनां सातङ्कां रोहिणीमिव ॥ ३ ॥

अनुवाद (हिन्दी)

अशोकवाटिकामें प्रवेश करके न्यायानुसार उन्होंने सीताजीको अपने आगमनकी सूचना दी । तत्पश्चात् निकट जाकर उनका दर्शन किया । वे स्नान आदिसे हीन होनेके कारण कुछ मलिन दिखायी देती थीं और सशङ्क हुई रोहिणीके समान जान पड़ती थीं ॥ ३ ॥

विश्वास-प्रस्तुतिः

वृक्षमूले निरानन्दां राक्षसीभिः परीवृताम् ।
निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ॥ ४ ॥

मूलम्

वृक्षमूले निरानन्दां राक्षसीभिः परीवृताम् ।
निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ॥ ४ ॥

अनुवाद (हिन्दी)

सीताजी आनन्दशून्य हो वृक्षके नीचे राक्षसियोंसे घिरी बैठी थीं । हनुमान् जी ने शान्त और विनीतभावसे सामने जाकर उन्हें प्रणाम किया । प्रणाम करके वे चुपचाप खड़े हो गये ॥ ४ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तमागतं देवी हनूमन्तं महाबलम् ।
तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत् तदा ॥ ५ ॥

मूलम्

दृष्ट्वा तमागतं देवी हनूमन्तं महाबलम् ।
तूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत् तदा ॥ ५ ॥

अनुवाद (हिन्दी)

महाबली हनुमान् को आया देख देवी सीता उन्हें पहचानकर मन-ही-मन प्रसन्न हुईं; किंतु कुछ बोल न सकीं । चुपचाप बैठी रहीं ॥ ५ ॥

विश्वास-प्रस्तुतिः

सौम्यं तस्या मुखं दृष्ट्वा हनूमान् प्लवगोत्तमः ।
रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥ ६ ॥

मूलम्

सौम्यं तस्या मुखं दृष्ट्वा हनूमान् प्लवगोत्तमः ।
रामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥ ६ ॥

अनुवाद (हिन्दी)

सीताके मुखपर सौम्यभाव लक्षित हो रहा था । उसे देखकर कपिश्रेष्ठ हनुमान् ने श्रीरामचन्द्रजीकी कही हुई सब बातोंको उनसे कहना आरम्भ किया— ॥ ६ ॥

विश्वास-प्रस्तुतिः

वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः ।
कुशलं चाह सिद्धार्थो हतशत्रुरमित्रजित् ॥ ७ ॥

मूलम्

वैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः ।
कुशलं चाह सिद्धार्थो हतशत्रुरमित्रजित् ॥ ७ ॥

अनुवाद (हिन्दी)

‘विदेहनन्दिनि! श्रीरामचन्द्रजी लक्ष्मण और सुग्रीवके साथ सकुशल हैं । अपने शत्रुका वध करके सफलमनोरथ हुए उन शत्रुविजयी श्रीरामने आपकी कुशल पूछी है ॥

विश्वास-प्रस्तुतिः

विभीषणसहायेन रामेण हरिभिः सह ।
निहतो रावणो देवि लक्ष्मणेन च वीर्यवान् ॥ ८ ॥

मूलम्

विभीषणसहायेन रामेण हरिभिः सह ।
निहतो रावणो देवि लक्ष्मणेन च वीर्यवान् ॥ ८ ॥

अनुवाद (हिन्दी)

‘देवि! विभीषणकी सहायता पाकर वानरों और लक्ष्मणसहित श्रीरामने बल-विक्रमसम्पन्न रावणको युद्धमें मार डाला है ॥ ८ ॥

विश्वास-प्रस्तुतिः

प्रियमाख्यामि ते देवि भूयश्च त्वां सभाजये ।
तव प्रभावाद् धर्मज्ञे महान् रामेण संयुगे ॥ ९ ॥
लब्धोऽयं विजयः सीते स्वस्था भव गतज्वरा ।
रावणश्च हतः शत्रुर्लङ्का चैव वशीकृता ॥ १० ॥

मूलम्

प्रियमाख्यामि ते देवि भूयश्च त्वां सभाजये ।
तव प्रभावाद् धर्मज्ञे महान् रामेण संयुगे ॥ ९ ॥
लब्धोऽयं विजयः सीते स्वस्था भव गतज्वरा ।
रावणश्च हतः शत्रुर्लङ्का चैव वशीकृता ॥ १० ॥

अनुवाद (हिन्दी)

‘धर्मको जाननेवाली देवि सीते! मैं आपको यह प्रिय संवाद सुनाता हूँ और अधिक-से-अधिक प्रसन्न देखना चाहता हूँ । आपके पातिव्रत्य-धर्मके प्रभावसे ही युद्धमें श्रीरामने यह महान् विजय प्राप्त की है । अब आप चिन्ता छोड़कर स्वस्थ हो जायँ । हमलोगोंका शत्रु रावण मारा गया और लङ्का भगवान् श्रीरामके अधीन हो गयी ॥

विश्वास-प्रस्तुतिः

मया ह्यलब्धनिद्रेण धृतेन तव निर्जये ।
प्रतिज्ञैषा विनिस्तीर्णा बद्‍ध्वा सेतुं महोदधौ ॥ ११ ॥

मूलम्

मया ह्यलब्धनिद्रेण धृतेन तव निर्जये ।
प्रतिज्ञैषा विनिस्तीर्णा बद्‍ध्वा सेतुं महोदधौ ॥ ११ ॥

अनुवाद (हिन्दी)

‘श्रीरामने आपको यह संदेश दिया है—‘देवि! मैंने तुम्हारे उद्धारके लिये जो प्रतिज्ञा की थी, उसके लिये निद्रा त्यागकर अथक प्रयत्न किया और समुद्रमें पुल बाँधकर रावणवधके द्वारा उस प्रतिज्ञाको पूर्ण किया ॥ ११ ॥

विश्वास-प्रस्तुतिः

सम्भ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये ।
विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥ १२ ॥
तदाश्वसिहि विस्रब्धं स्वगृहे परिवर्तसे ।
अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥ १३ ॥

मूलम्

सम्भ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये ।
विभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥ १२ ॥
तदाश्वसिहि विस्रब्धं स्वगृहे परिवर्तसे ।
अयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥ १३ ॥

अनुवाद (हिन्दी)

‘अब तुम अपनेको रावणके घरमें वर्तमान समझकर भयभीत न होना; क्योंकि लङ्काका सारा ऐश्वर्य विभीषणके अधीन कर दिया गया है । अब तुम अपने ही घरमें हो । ऐसा जानकर निश्चिन्त होकर धैर्य धारण करो । देवि! ये विभीषण भी हर्षसे भरकर आपके दर्शनके लिये उत्कण्ठित हो अभी यहाँ आ रहे हैं’ ॥ १२-१३ ॥

विश्वास-प्रस्तुतिः

एवमुक्ता तु सा देवी सीता शशिनिभानना ।
प्रहर्षेणावरुद्धा सा व्याहर्तुं न शशाक ह ॥ १४ ॥

मूलम्

एवमुक्ता तु सा देवी सीता शशिनिभानना ।
प्रहर्षेणावरुद्धा सा व्याहर्तुं न शशाक ह ॥ १४ ॥

अनुवाद (हिन्दी)

हनुमान् जी के इस प्रकार कहनेपर चन्द्रमुखी सीतादेवीको बड़ा हर्ष हुआ । हर्षसे उनका गला भर आया और वे कुछ बोल न सकीं ॥ १४ ॥

विश्वास-प्रस्तुतिः

ततोऽब्रवीद्धरिवरः सीतामप्रतिजल्पतीम् ।
किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे ॥ १५ ॥

मूलम्

ततोऽब्रवीद्धरिवरः सीतामप्रतिजल्पतीम् ।
किं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे ॥ १५ ॥

अनुवाद (हिन्दी)

सीताजीको मौन देख कपिवर हनुमान् जी बोले—‘देवि! आप क्या सोच रही हैं? मुझसे बोलती क्यों नहीं’ ॥

विश्वास-प्रस्तुतिः

एवमुक्ता हनुमता सीता धर्मपथे स्थिता ।
अब्रवीत् परमप्रीता बाष्पगद‍्गदया गिरा ॥ १६ ॥

मूलम्

एवमुक्ता हनुमता सीता धर्मपथे स्थिता ।
अब्रवीत् परमप्रीता बाष्पगद‍्गदया गिरा ॥ १६ ॥

अनुवाद (हिन्दी)

हनुमान् जी के इस प्रकार पूछनेपर धर्मपरायणा सीतादेवी अत्यन्त प्रसन्न हो आनन्दके आँसू बहाती हुई गद‍्गदवाणीमें बोलीं— ॥ १६ ॥

विश्वास-प्रस्तुतिः

प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् ।
प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् ॥ १७ ॥

मूलम्

प्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् ।
प्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् ॥ १७ ॥

अनुवाद (हिन्दी)

‘अपने स्वामीकी विजयसे सम्बन्ध रखनेवाला यह प्रिय संवाद सुनकर मैं आनन्दविभोर हो गयी थी; इसलिये कुछ देरतक मेरे मुँहसे बात नहीं निकल सकी है ॥ १७ ॥

विश्वास-प्रस्तुतिः

नहि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम ।
आख्यानकस्य भवतो दातुं प्रत्यभिनन्दनम् ॥ १८ ॥

मूलम्

नहि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम ।
आख्यानकस्य भवतो दातुं प्रत्यभिनन्दनम् ॥ १८ ॥

अनुवाद (हिन्दी)

‘वानर वीर! ऐसा प्रिय समाचार सुनानेके कारण मैं तुम्हें कुछ पुरस्कार देना चाहती हूँ; किंतु बहुत सोचनेपर भी मुझे इसके योग्य कोई वस्तु दिखायी नहीं देती ॥ १८ ॥

विश्वास-प्रस्तुतिः

न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर ।
सदृशं यत्प्रियाख्याने तव दत्त्वा भवेत् सुखम् ॥ १९ ॥

मूलम्

न हि पश्यामि तत् सौम्य पृथिव्यामपि वानर ।
सदृशं यत्प्रियाख्याने तव दत्त्वा भवेत् सुखम् ॥ १९ ॥

अनुवाद (हिन्दी)

‘सौम्य वानर वीर! इस भूमण्डलमें मैं कोई ऐसी वस्तु नहीं देखती, जो इस प्रिय संवादके अनुरूप हो और जिसे तुम्हें देकर मैं संतुष्ट हो सकूँ ॥ १९ ॥

विश्वास-प्रस्तुतिः

हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।
राज्यं वा त्रिषु लोकेषु एतन्नार्हति भाषितम् ॥ २० ॥

मूलम्

हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च ।
राज्यं वा त्रिषु लोकेषु एतन्नार्हति भाषितम् ॥ २० ॥

अनुवाद (हिन्दी)

‘सोना, चाँदी, नाना प्रकारके रत्न अथवा तीनों लोकोंका राज्य भी इस प्रिय समाचारकी बराबरी नहीं कर सकता’ ॥ २० ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ।
प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥ २१ ॥

मूलम्

एवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः ।
प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥ २१ ॥

अनुवाद (हिन्दी)

विदेहनन्दिनीके ऐसा कहनेपर वानरवीर हनुमान् जी को बड़ा हर्ष हुआ । वे सीताजीके सामने हाथ जोड़कर खड़े हो गये और इस प्रकार बोले— ॥ २१ ॥

विश्वास-प्रस्तुतिः

भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ।
स्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिन्दिते ॥ २२ ॥

मूलम्

भर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि ।
स्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिन्दिते ॥ २२ ॥

अनुवाद (हिन्दी)

‘पतिकी विजय चाहनेवाली और पतिके ही प्रिय एवं हितमें सदा संलग्न रहनेवाली सती-साध्वी देवि! आपके ही मुँहसे ऐसा स्नेहपूर्ण वचन निकल सकता है (आपके इस वचनसे मैं सब कुछ पा गया) ॥ २२ ॥

विश्वास-प्रस्तुतिः

तवैतद् वचनं सौम्ये सारवत् स्निग्धमेव च ।
रत्नौघाद् विविधाच्चापि देवराज्याद् विशिष्यते ॥ २३ ॥

मूलम्

तवैतद् वचनं सौम्ये सारवत् स्निग्धमेव च ।
रत्नौघाद् विविधाच्चापि देवराज्याद् विशिष्यते ॥ २३ ॥

अनुवाद (हिन्दी)

‘सौम्ये! आपका यह वचन सारगर्भित और स्नेहयुक्त है, अतः भाँति-भाँतिकी रत्नराशि और देवताओंके राज्यसे भी बढ़कर है ॥ २३ ॥

विश्वास-प्रस्तुतिः

अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।
हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ॥ २४ ॥

मूलम्

अर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः ।
हतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ॥ २४ ॥

अनुवाद (हिन्दी)

‘मैं जब यह देखता हूँ कि श्रीरामचन्द्रजी अपने शत्रुका वध करके विजयी हो गये और स्वयं सकुशल हैं, तब मैं यह अनुभव करता हूँ कि मेरे सारे प्रयोजन सिद्ध हो गये—देवताओंके राज्य आदि सभी उत्कृष्ट गुणोंसे युक्त पदार्थ मुझे मिल गये’ ॥ २४ ॥

विश्वास-प्रस्तुतिः

तस्य तद् वचनं श्रुत्वा मैथिली जनकात्मजा ।
ततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥ २५ ॥

मूलम्

तस्य तद् वचनं श्रुत्वा मैथिली जनकात्मजा ।
ततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥ २५ ॥

अनुवाद (हिन्दी)

उनकी बात सुनकर मिथिलेशकुमारी जानकीने उन पवनकुमारसे यह परम सुन्दर वचन कहा— ॥ २५ ॥

विश्वास-प्रस्तुतिः

अतिलक्षणसम्पन्नं माधुर्यगुणभूषणम् ।
बुद्‍ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥ २६ ॥

मूलम्

अतिलक्षणसम्पन्नं माधुर्यगुणभूषणम् ।
बुद्‍ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥ २६ ॥

अनुवाद (हिन्दी)

‘वीरवर! तुम्हारी वाणी उत्तम लक्षणोंसे सम्पन्न, माधुर्य गुणसे भूषित तथा बुद्धिके आठ* अङ्गों (गुणों)-से अलंकृत है । ऐसी वाणी केवल तुम्हीं बोल सकते हो ॥

पादटिप्पनी
  • शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।
    ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥
    सुननेकी इच्छा, सुनना, ग्रहण करना, स्मरण रखना, ऊहा (तर्क-वितर्क), अपोह (सिद्धान्तका निश्चय), अर्थका ज्ञान होना तथा तत्त्वको समझना—ये आठ बुद्धिके गुण हैं ।
विश्वास-प्रस्तुतिः

श्लाघनीयोऽनिलस्य त्वं सुतः परमधार्मिकः ।
बलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ॥ २७ ॥
तेजः क्षमा धृतिः स्थैर्यं विनीतत्वं न संशयः ।
एते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥ २८ ॥

‘तुम वायुदेवताके प्रशंसनीय पुत्र तथा परम धर्मात्मा हो । शारीरिक बल, शूरता, शास्त्रज्ञान, मानसिक बल, पराक्रम, उत्तम दक्षता, तेज, क्षमा, धैर्य, स्थिरता, विनय तथा अन्य बहुत-से सुन्दर गुण केवल तुम्हींमें एक साथ विद्यमान हैं, इसमें संशय नहीं है’ ॥ २७-२८ ॥

विश्वास-प्रस्तुतिः

अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् ।
प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥ २९ ॥

मूलम्

अथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् ।
प्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥ २९ ॥

अनुवाद (हिन्दी)

तदनन्तर सीताके सामने बिना किसी घबराहटके हाथ जोड़कर विनीतभावसे खड़े हुए हनुमान् जी पुनः हर्षपूर्वक उनसे बोले— ॥ २९ ॥

विश्वास-प्रस्तुतिः

इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।
हन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा ॥ ३० ॥

मूलम्

इमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे ।
हन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा ॥ ३० ॥

अनुवाद (हिन्दी)

‘देवि! यदि आपकी आज्ञा हो तो मैं इन समस्त राक्षसियोंको, जो पहले आपको बहुत डराती-धमकाती रही हैं, मार डालना चाहता हूँ ॥ ३० ॥

विश्वास-प्रस्तुतिः

क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ।
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ॥ ३१ ॥
इह श्रुता मया देवि राक्षस्यो विकृताननाः ।
असकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया ॥ ३२ ॥

मूलम्

क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ।
घोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ॥ ३१ ॥
इह श्रुता मया देवि राक्षस्यो विकृताननाः ।
असकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया ॥ ३२ ॥

अनुवाद (हिन्दी)

‘आप-जैसी पतिव्रता देवी अशोकवाटिकामें बैठकर क्लेश भोग रही थीं और ये भयंकर रूप एवं आचारसे युक्त अत्यन्त क्रूर दृष्टिवाली विकरालमुखी क्रूर राक्षसियाँ आपको बारम्बार कठोर वचनोंद्वारा डाँटती-फटकारती रहती थीं । रावणकी आज्ञासे ये जैसी-जैसी बातें आपको सुनाती थीं, उन सबको मैंने यहाँ रहकर सुना है ॥

विश्वास-प्रस्तुतिः

विकृता विकृताकाराः क्रूराः क्रूरकचेक्षणाः ।
इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥ ३३ ॥

मूलम्

विकृता विकृताकाराः क्रूराः क्रूरकचेक्षणाः ।
इच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥ ३३ ॥

अनुवाद (हिन्दी)

‘ये सब-की-सब विकराल, विकट आकारवाली, क्रूर और अत्यन्त दारुण हैं । इनके नेत्रों और केशोंसे भी क्रूरता टपकती है । मैं तरह-तरहके आघातोंद्वारा इन सबका वध कर डालना चाहता हूँ ॥ ३३ ॥

विश्वास-प्रस्तुतिः

राक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे ।
मुष्टिभिः पार्ष्णिघातैश्च विशालैश्चैव बाहुभिः ॥ ३४ ॥
जङ्घाजानुप्रहारैश्च दन्तानां चैव पीडनैः ।
कर्तनैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥ ३५ ॥
निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ।
एवं प्रहारैर्बहुभिः सम्प्रहार्य यशस्विनि ॥ ३६ ॥
घातये तीव्ररूपाभिर्याभिस्त्वं तर्जिता पुरा ।

‘मेरी इच्छा है कि मुक्कों, लातों, विशाल भुजाओं—थप्पड़ों, पिण्डलियों और घुटनोंकी मारसे इन्हें घायल करके इनके दाँत तोड़ दूँ, इनकी नाक और कान काट लूँ तथा इनके सिरके बाल नोचूँ । यशस्विनि! इस तरह बहुत-से प्रहारोंद्वारा इन सबको पीटकर क्रूरतापूर्ण बातें करनेवाली इन अप्रियकारिणी राक्षसियोंको पटक-पटककर मार डालूँ । जिन-जिन भयानक रूपवाली राक्षसियोंने पहले आपको डाँट बतायी है, उन सबको मैं अभी मौतके घाट उतार दूँगा । इसके लिये आप मुझे केवल वर (आज्ञा) दे दें’ ॥ ३४—३६ १/२ ॥

विश्वास-प्रस्तुतिः

इत्युक्ता सा हनुमता कृपणा दीनवत्सला ॥ ३७ ॥
हनूमन्तमुवाचेदं चिन्तयित्वा विमृश्य च ।

मूलम्

इत्युक्ता सा हनुमता कृपणा दीनवत्सला ॥ ३७ ॥
हनूमन्तमुवाचेदं चिन्तयित्वा विमृश्य च ।

अनुवाद (हिन्दी)

हनुमान् जी के ऐसा कहनेपर करुणामय स्वभाववाली दीनवत्सला सीताने मन-ही-मन बहुत कुछ सोच-विचार करके उनसे इस प्रकार कहा— ॥ ३७ १/२ ॥

विश्वास-प्रस्तुतिः

राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया ॥ ३८ ॥
विधेयानां च दासीनां कः कुप्येद् वानरोत्तम ।
भाग्यवैषम्यदोषेण पुरस्ताद्दुष्कृतेन च ॥ ३९ ॥
मयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ।
मैवं वद महाबाहो दैवी ह्येषा परा गतिः ॥ ४० ॥

‘कपिश्रेष्ठ! ये बेचारी राजाके आश्रयमें रहनेके कारण पराधीन थीं । दूसरोंकी आज्ञासे ही सब कुछ करती थीं, अतः स्वामीकी आज्ञाका पालन करनेवाली इन दासियोंपर कौन क्रोध करेगा? मेरा भाग्य ही अच्छा नहीं था तथा मेरे पूर्वजन्मके दुष्कर्म अपना फल देने लगे थे, इसीसे मुझे यह सब कष्ट प्राप्त हुआ है; क्योंकि सभी प्राणी अपने किये हुए शुभाशुभ कर्मोंका ही फल भोगते हैं, अतः महाबाहो! तुम इन्हें मारनेकी बात न कहो । मेरे लिये दैवका ही ऐसा विधान था ॥ ३८—४० ॥

विश्वास-प्रस्तुतिः

प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् ।
दासीनां रावणस्याहं मर्षयामीह दुर्बला ॥ ४१ ॥

मूलम्

प्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् ।
दासीनां रावणस्याहं मर्षयामीह दुर्बला ॥ ४१ ॥

अनुवाद (हिन्दी)

‘मुझे अपने पूर्वकर्मजनित दशाके योगसे यह सारा दुःख निश्चितरूपसे भोगना ही था; इसलिये रावणकी दासियोंका यदि कुछ अपराध हो भी तो उसे मैं क्षमा करती हूँ; क्योंकि इनके प्रति दयाके उद्रेकसे मैं दुर्बल हो रही हूँ ॥ ४१ ॥

विश्वास-प्रस्तुतिः

आज्ञप्ता राक्षसेनेह राक्षस्यस्तर्जयन्ति माम् ।
हते तस्मिन् न कुर्वन्ति तर्जनं मारुतात्मज ॥ ४२ ॥

मूलम्

आज्ञप्ता राक्षसेनेह राक्षस्यस्तर्जयन्ति माम् ।
हते तस्मिन् न कुर्वन्ति तर्जनं मारुतात्मज ॥ ४२ ॥

अनुवाद (हिन्दी)

‘पवनकुमार! उस राक्षसकी आज्ञासे ही ये मुझे धमकाया करती थीं । जबसे वह मारा गया है, तबसे ये बेचारी मुझे कुछ नहीं कहती हैं । इन्होंने डराना-धमकाना छोड़ दिया है ॥ ४२ ॥

विश्वास-प्रस्तुतिः

अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः ।
ऋक्षेण गीतः श्लोकोऽस्ति तं निबोध प्लवङ्गम ॥ ४३ ॥

मूलम्

अयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः ।
ऋक्षेण गीतः श्लोकोऽस्ति तं निबोध प्लवङ्गम ॥ ४३ ॥

अनुवाद (हिन्दी)

‘वानरवीर! इस विषयमें एक पुराना धर्मसम्मत श्लोक है, जिसे किसी व्याघ्रके निकट एक रीछने कहा था* । वह श्लोक मैं बता रही हूँ’ सुनो ॥ ४३ ॥

पादटिप्पनी
  • पहलेकी बात है—एक बाघने किसी व्याधका पीछा किया । व्याध भागकर एक वृक्षपर चढ़ गया । उस वृक्षपर पहलेसे ही कोई रीछ बैठा हुआ था । बाघ वृक्षकी जड़के पास पहुँचकर पेड़पर बैठे हुए रीछसे बोला—‘हम और तुम दोनों ही वनके जीव हैं । यह व्याध हम दोनोंका ही शत्रु है; अतः तुम इसे वृक्षसे नीचे गिरा दो ।’ रीछने उत्तर दिया—‘यह व्याध मेरे निवासस्थानपर आकर एक प्रकारसे मेरी शरण ले चुका है, इसलिये मैं इसे नीचे नहीं गिराऊँगा । यदि गिरा दूँ तो धर्मकी हानि होगी ।’ ऐसा कहकर रीछ सो गया । तब बाघने व्याधसे कहा—‘देखो, इस सोये हुए रीछको नीचे गिरा दो । मैं तुम्हारी रक्षा करूँगा ।’ उसके ऐसा कहनेपर व्याधने उस रीछको धक्का दे दिया; परंतु रीछ अभ्यासवश दूसरी डाल पकड़कर गिरनेसे बच गया । तब बाघने रीछसे कहा—‘यह व्याध तुमको गिराना चाहता था; अतः अपराधी है । इसलिये अब इसको नीचे ढकेल दो ।’ बाघके इस प्रकार बारम्बार उकसानेपर भी रीछने उस व्याधको नहीं गिराया और ‘न परः पापमादत्ते’ इस श्लोकका गान करके उसे मुँहतोड़ उत्तर दे दिया । यह प्राचीन कथा है । (रामायणभूषण-टीकासे)
विश्वास-प्रस्तुतिः

न परः पापमादत्ते परेषां पापकर्मणाम् ।
समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ ४४ ॥

मूलम्

न परः पापमादत्ते परेषां पापकर्मणाम् ।
समयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ ४४ ॥

अनुवाद (हिन्दी)

‘श्रेष्ठ पुरुष दूसरेकी बुराई करनेवाले पापियोंके पापकर्मको नहीं अपनाते हैं—बदलेमें उनके साथ स्वयं भी पापपूर्ण बर्ताव नहीं करना चाहते हैं, अतः अपनी प्रतिज्ञा एवं सदाचारकी रक्षा ही करनी चाहिये; क्योंकि साधुपुरुष अपने उत्तम चरित्रसे ही विभूषित होते हैं । सदाचार ही उनका आभूषण है’ ॥ ४४ ॥

विश्वास-प्रस्तुतिः

पापानां वा शुभानां वा वधार्हाणामथापि वा ।
कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥ ४५ ॥

मूलम्

पापानां वा शुभानां वा वधार्हाणामथापि वा ।
कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥ ४५ ॥

अनुवाद (हिन्दी)

‘श्रेष्ठ पुरुषको चाहिये कि कोई पापी हों या पुण्यात्मा अथवा वे वधके योग्य अपराध करनेवाले ही क्यों न हों, उन सबपर दया करें; क्योंकि ऐसा कोई भी प्राणी नहीं है, जिससे कभी अपराध होता ही न हो ॥ ४५ ॥

विश्वास-प्रस्तुतिः

लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम् ।
कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ ४६ ॥

मूलम्

लोकहिंसाविहाराणां क्रूराणां पापकर्मणाम् ।
कुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ ४६ ॥

अनुवाद (हिन्दी)

‘जो लोगोंकी हिंसामें ही रमते और सदा पापका ही आचरण करते हैं, उन क्रूर स्वभाववाले पापियोंका भी कभी अमङ्गल नहीं करना चाहिये’ ॥ ४६ ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः ।
प्रत्युवाच ततः सीतां रामपत्नीमनिन्दिताम् ॥ ४७ ॥

मूलम्

एवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः ।
प्रत्युवाच ततः सीतां रामपत्नीमनिन्दिताम् ॥ ४७ ॥

अनुवाद (हिन्दी)

सीताजीके ऐसा कहनेपर बातचीत करनेमें कुशल हनुमान् जी ने उन सती-साध्वी श्रीरामपत्नीको इस प्रकार उत्तर दिया— ॥ ४७ ॥

विश्वास-प्रस्तुतिः

युक्ता रामस्य भवती धर्मपत्नी गुणान्विता ।
प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः ॥ ४८ ॥

मूलम्

युक्ता रामस्य भवती धर्मपत्नी गुणान्विता ।
प्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः ॥ ४८ ॥

अनुवाद (हिन्दी)

‘देवि! आप श्रीरामकी धर्मपत्नी हैं; अतः आपका ऐसे सद‍्गुणोंसे सम्पन्न होना उचित ही है । अब आप अपनी ओरसे मुझे कोई संदेश दें । मैं श्रीरघुनाथजीके पास जाऊँगा’ ॥ ४८ ॥

विश्वास-प्रस्तुतिः

एवमुक्ता हनुमता वैदेही जनकात्मजा ।
साब्रवीद् द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम् ॥ ४९ ॥

मूलम्

एवमुक्ता हनुमता वैदेही जनकात्मजा ।
साब्रवीद् द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम् ॥ ४९ ॥

अनुवाद (हिन्दी)

हनुमान् जी के ऐसा कहनेपर विदेहनन्दिनी जनकराजकिशोरी बोलीं—‘मैं अपने भक्तवत्सल स्वामीका दर्शन करना चाहती हूँ’ ॥ ४९ ॥

विश्वास-प्रस्तुतिः

तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः ।
हर्षयन् मैथिलीं वाक्यमुवाचेदं महामतिः ॥ ५० ॥

मूलम्

तस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः ।
हर्षयन् मैथिलीं वाक्यमुवाचेदं महामतिः ॥ ५० ॥

अनुवाद (हिन्दी)

सीताजीकी यह बात सुनकर परम बुद्धिमान् पवनकुमार हनुमान् जी उन मिथिलेशकुमारीका हर्ष बढ़ाते हुए इस प्रकार बोले— ॥ ५० ॥

विश्वास-प्रस्तुतिः

पूर्णचन्द्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम् ।
स्थितमित्रं हतामित्रं शचीवेन्द्रं सुरेश्वरम् ॥ ५१ ॥

मूलम्

पूर्णचन्द्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम् ।
स्थितमित्रं हतामित्रं शचीवेन्द्रं सुरेश्वरम् ॥ ५१ ॥

अनुवाद (हिन्दी)

‘देवि! जैसे शची देवराज इन्द्रका दर्शन करती हैं, उसी प्रकार आप पूर्णचन्द्रमाके समान मनोहर मुखवाले उन श्रीराम और लक्ष्मणको आज देखेंगी, जिनके मित्र विद्यमान हैं और शत्रु मारे जा चुके हैं’ ॥ ५१ ॥

विश्वास-प्रस्तुतिः

तामेवमुक्त्वा भ्राजन्तीं सीतां साक्षादिव श्रियम् ।
आजगाम महातेजा हनूमान् यत्र राघवः ॥ ५२ ॥

मूलम्

तामेवमुक्त्वा भ्राजन्तीं सीतां साक्षादिव श्रियम् ।
आजगाम महातेजा हनूमान् यत्र राघवः ॥ ५२ ॥

अनुवाद (हिन्दी)

साक्षात् लक्ष्मीकी भाँति सुशोभित होनेवाली सीतादेवीसे ऐसा कहकर महातेजस्वी हनुमान् जी उस स्थानपर लौट आये, जहाँ श्रीरघुनाथजी विराजमान थे ॥ ५२ ॥

विश्वास-प्रस्तुतिः

सपदि हरिवरस्ततो हनूमान्
प्रतिवचनं जनकेश्वरात्मजायाः ।
कथितमकथयद् यथाक्रमेण
त्रिदशवरप्रतिमाय राघवाय ॥ ५३ ॥

मूलम्

सपदि हरिवरस्ततो हनूमान्
प्रतिवचनं जनकेश्वरात्मजायाः ।
कथितमकथयद् यथाक्रमेण
त्रिदशवरप्रतिमाय राघवाय ॥ ५३ ॥

अनुवाद (हिन्दी)

वहाँसे लौटते ही कपिवर हनुमान् जी ने देवराज इन्द्रके तुल्य तेजस्वी श्रीरघुनाथजीसे जनकराजकिशोरी सीताजीका दिया हुआ उत्तर क्रमशः कह सुनाया ॥ ५३ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोदशाधिकशततमः सर्गः ॥ ११३ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके युद्धकाण्डमें एक सौ तेरहवाँ सर्ग पूरा हुआ ॥ ११३ ॥