१०० रावणस्य युद्धपलायनम्

वाचनम्
भागसूचना
  1. राम और रावणका युद्ध, रावणकी शक्तिसे लक्ष्मणका मूर्च्छित होना तथा रावणका युद्धसे भागना
विश्वास-प्रस्तुतिः

तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः ।
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ १ ॥
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।
उत्स्रष्टुं रावणो भीमं राघवाय प्रचक्रमे ॥ २ ॥

मूलम्

तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः ।
क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ १ ॥
मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः ।
उत्स्रष्टुं रावणो भीमं राघवाय प्रचक्रमे ॥ २ ॥

अनुवाद (हिन्दी)

अपने उस अस्त्रके नष्ट हो जानेपर महातेजस्वी राक्षसराज रावणने दूना क्रोध प्रकट किया । उसने क्रोधवश श्रीरामके ऊपर एक दूसरे भयंकर अस्त्रको छोड़नेका आयोजन किया, जिसे मयासुरने बनाया था ॥ १-२ ॥

विश्वास-प्रस्तुतिः

ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।
कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः ॥ ३ ॥
मुद‍्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ।
निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ ४ ॥

मूलम्

ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च ।
कार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः ॥ ३ ॥
मुद‍्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा ।
निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ ४ ॥

अनुवाद (हिन्दी)

उस समय रावणके धनुषसे वज्रके समान दृढ़ और दमकते हुए शूल, गदा, मूसल, मुद‍्गर, कूटपाश तथा चमचमाती अशनि आदि भाँति-भाँतिके तीखे अस्त्र छूटने लगे, मानो प्रलयकालमें वायुके विविध रूप प्रकट हो रहे हों ॥ ३-४ ॥

विश्वास-प्रस्तुतिः

तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।
जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥ ५ ॥

मूलम्

तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः ।
जघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥ ५ ॥

अनुवाद (हिन्दी)

तब उत्तम अस्त्रके ज्ञाताओंमें श्रेष्ठ महातेजस्वी श्रीमान् रघुनाथजीने गान्धर्व नामक श्रेष्ठ अस्त्रके द्वारा रावणके उस अस्त्रको शान्त कर दिया ॥ ५ ॥

विश्वास-प्रस्तुतिः

तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना ।
रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् ॥ ६ ॥

मूलम्

तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना ।
रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् ॥ ६ ॥

अनुवाद (हिन्दी)

महात्मा रघुनाथजीके द्वारा उस अस्त्रके प्रतिहत हो जानेपर रावणके नेत्र क्रोधसे लाल हो गये और उसने सूर्यास्त्रका प्रयोग किया ॥ ६ ॥

विश्वास-प्रस्तुतिः

ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।
कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः ॥ ७ ॥

मूलम्

ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च ।
कार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः ॥ ७ ॥

अनुवाद (हिन्दी)

फिर तो भयानक वेगशाली बुद्धिमान् राक्षस दशग्रीवके धनुषसे बड़े-बड़े तेजस्वी चक्र प्रकट होने लगे ॥ ७ ॥

विश्वास-प्रस्तुतिः

तैरासीद् गगनं दीप्तं सम्पतद्भिः समन्ततः ।
पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ ८ ॥

मूलम्

तैरासीद् गगनं दीप्तं सम्पतद्भिः समन्ततः ।
पतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ ८ ॥

अनुवाद (हिन्दी)

चन्द्रमा और सूर्य आदि ग्रहोंके समान आकारवाले वे दीप्तिमान् अस्त्र-शस्त्र सब ओर प्रकट होते और गिरते थे । उनसे आकाशमें प्रकाश छा गया और सम्पूर्ण दिशाएँ उद्भासित हो उठीं ॥ ८ ॥

विश्वास-प्रस्तुतिः

तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः ।
आयुधानि च चित्राणि रावणस्य चमूमुखे ॥ ९ ॥

मूलम्

तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः ।
आयुधानि च चित्राणि रावणस्य चमूमुखे ॥ ९ ॥

अनुवाद (हिन्दी)

परंतु श्रीरामचन्द्रजीने अपने बाणसमूहोंद्वारा सेनाके मुहानेपर रावणके उन चक्रों और विचित्र आयुधोंके टुकड़े-टुकड़े कर डाले ॥ ९ ॥

विश्वास-प्रस्तुतिः

तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।
विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ १० ॥

मूलम्

तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः ।
विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ १० ॥

अनुवाद (हिन्दी)

उस अस्त्रको नष्ट हुआ देख राक्षसराज रावणने दस बाणोंद्वारा श्रीरामके सारे मर्मस्थानोंमें गहरी चोट पहुँचायी ॥ १० ॥

विश्वास-प्रस्तुतिः

स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः ।
रावणेन महातेजा न प्राकम्पत राघवः ॥ ११ ॥

मूलम्

स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः ।
रावणेन महातेजा न प्राकम्पत राघवः ॥ ११ ॥

अनुवाद (हिन्दी)

रावणके विशाल धनुषसे छूटे हुए उन दस बाणोंसे घायल होनेपर भी महातेजस्वी श्रीरघुनाथजी विचलित नहीं हुए ॥ ११ ॥

विश्वास-प्रस्तुतिः

ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः ।
राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ॥ १२ ॥

मूलम्

ततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः ।
राघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ॥ १२ ॥

अनुवाद (हिन्दी)

तत्पश्चात् समरविजयी श्रीरघुवीरने अत्यन्त कुपित हो बहुत-से बाण मारकर रावणके सारे अङ्गोंमें घाव कर दिया ॥ १२ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।
लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ॥ १३ ॥

मूलम्

एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली ।
लक्ष्मणः सायकान् सप्त जग्राह परवीरहा ॥ १३ ॥

अनुवाद (हिन्दी)

इसी बीचमें शत्रुवीरोंका संहार करनेवाले महाबली रामानुज लक्ष्मणने कुपित हो सात सायक हाथमें लिये ॥

विश्वास-प्रस्तुतिः

तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ १४ ॥

मूलम्

तैः सायकैर्महावेगै रावणस्य महाद्युतिः ।
ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ १४ ॥

अनुवाद (हिन्दी)

उन महान् वेगशाली सायकोंद्वारा उन महातेजस्वी सुमित्राकुमारने रावणकी ध्वजाके, जिसमें मनुष्यकी खोपड़ीका चिह्न था, कई टुकड़े कर डाले ॥ १४ ॥

विश्वास-प्रस्तुतिः

सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।
जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ॥ १५ ॥

मूलम्

सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् ।
जहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ॥ १५ ॥

अनुवाद (हिन्दी)

इसके बाद महाबली श्रीमान् लक्ष्मणने एक बाणसे उस राक्षसके सारथिका जगमगाते हुए कुण्डलोंसे मण्डित मस्तक भी काट लिया ॥ १५ ॥

विश्वास-प्रस्तुतिः

तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैस्तदा ॥ १६ ॥

मूलम्

तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् ।
लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैस्तदा ॥ १६ ॥

अनुवाद (हिन्दी)

इतना ही नहीं, लक्ष्मणने पाँच पैने बाण मारकर उस राक्षसराजके हाथीकी सूँड़के समान मोटे धनुषको भी काट डाला ॥ १६ ॥

विश्वास-प्रस्तुतिः

नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् ।
जघानाप्लुत्य गदया रावणस्य विभीषणः ॥ १७ ॥

मूलम्

नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् ।
जघानाप्लुत्य गदया रावणस्य विभीषणः ॥ १७ ॥

अनुवाद (हिन्दी)

तदनन्तर विभीषणने उछलकर अपनी गदासे रावणके नील मेघके समान कान्तिवाले सुन्दर पर्वताकार घोड़ोंको भी मार गिराया ॥ १७ ॥

विश्वास-प्रस्तुतिः

हताश्वात् तु तदा वेगादवप्लुत्य महारथात् ।
कोपमाहारयत् तीव्रं भ्रातरं प्रति रावणः ॥ १८ ॥

मूलम्

हताश्वात् तु तदा वेगादवप्लुत्य महारथात् ।
कोपमाहारयत् तीव्रं भ्रातरं प्रति रावणः ॥ १८ ॥

अनुवाद (हिन्दी)

घोड़ोंके मारे जानेपर रावण अपने विशाल रथसे वेगपूर्वक कूद पड़ा और अपने भाईपर उसे बड़ा क्रोध आया ॥

विश्वास-प्रस्तुतिः

ततः शक्तिं महाशक्तिः प्रदीप्तामशनीमिव ।
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ १९ ॥

मूलम्

ततः शक्तिं महाशक्तिः प्रदीप्तामशनीमिव ।
विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ १९ ॥

अनुवाद (हिन्दी)

तब उस महान् शक्तिशाली प्रतापी राक्षसराजने विभीषणको मारनेके लिये एक वज्रके समान प्रज्वलित शक्ति चलायी ॥ १९ ॥

विश्वास-प्रस्तुतिः

अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ।
अथोदतिष्ठत् सन्नादो वानराणां महारणे ॥ २० ॥

मूलम्

अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः ।
अथोदतिष्ठत् सन्नादो वानराणां महारणे ॥ २० ॥

अनुवाद (हिन्दी)

वह शक्ति अभी विभीषणतक पहुँचने भी नहीं पायी थी कि लक्ष्मणने तीन बाण मारकर उसे बीचमें ही काट दिया । यह देख उस महासमरमें वानरोंका महान् हर्षनाद गूँज उठा ॥ २० ॥

विश्वास-प्रस्तुतिः

सम्पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी ।
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ २१ ॥

मूलम्

सम्पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी ।
सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ २१ ॥

अनुवाद (हिन्दी)

सोनेकी मालासे अलंकृत वह शक्ति तीन भागोंमें विभक्त होकर पृथ्वीपर गिर पड़ी, मानो आकाशसे चिनगारियोंसहित बड़ी भारी उल्का टूटकर गिरी हो ॥

विश्वास-प्रस्तुतिः

ततः सम्भाविततरां कालेनापि दुरासदाम् ।
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥ २२ ॥

मूलम्

ततः सम्भाविततरां कालेनापि दुरासदाम् ।
जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥ २२ ॥

अनुवाद (हिन्दी)

तदनन्तर रावणने विभीषणको मारनेके लिये एक ऐसी विशाल शक्ति हाथमें ली, जो अपनी अमोघताके लिये विशेष विख्यात थी । काल भी उसके वेगको नहीं सह सकता था । वह शक्ति अपने तेजसे उद्दीप्त हो रही थी ॥

विश्वास-प्रस्तुतिः

सा वेगिता बलवता रावणेन दुरात्मना ।
जज्वाल सुमहातेजा दीप्ताशनिसमप्रभा ॥ २३ ॥

मूलम्

सा वेगिता बलवता रावणेन दुरात्मना ।
जज्वाल सुमहातेजा दीप्ताशनिसमप्रभा ॥ २३ ॥

अनुवाद (हिन्दी)

दुरात्मा बलवान् रावणके द्वारा हाथमें ली हुई वह वेगशालिनी, महातेजस्विनी और वज्रके समान दीप्तिमती शक्ति अपने दिव्य तेजसे प्रज्वलित हो उठी ॥ २३ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ।
प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ २४ ॥

मूलम्

एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् ।
प्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ २४ ॥

अनुवाद (हिन्दी)

इसी बीचमें विभीषणको प्राण-संशयकी अवस्थामें पड़ा देख वीर लक्ष्मणने तुरंत उनकी रक्षा की । उन्हें पीछे करके वे स्वयं शक्तिके सामने खड़े हो गये ॥ २४ ॥

विश्वास-प्रस्तुतिः

तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।
रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥ २५ ॥

मूलम्

तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः ।
रावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥ २५ ॥

अनुवाद (हिन्दी)

विभीषणको बचानेके लिये वीर लक्ष्मण अपने धनुषको खींचकर हाथमें शक्ति लिये खड़े हुए रावणपर बाणोंकी वर्षा करने लगे ॥ २५ ॥

विश्वास-प्रस्तुतिः

कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।
न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥ २६ ॥

मूलम्

कीर्यमाणः शरौघेण विसृष्टेन महात्मना ।
न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥ २६ ॥

अनुवाद (हिन्दी)

महात्मा लक्ष्मणके छोड़े हुए बाण-समूहोंका निशाना बनकर रावण अपने भाईको मारनेके पराक्रमसे विमुख हो गया । अब उसके मनमें प्रहार करनेकी इच्छा नहीं रह गयी ॥

विश्वास-प्रस्तुतिः

मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।
लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ २७ ॥

मूलम्

मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः ।
लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ २७ ॥

अनुवाद (हिन्दी)

लक्ष्मणने मेरे भाईको बचा लिया, यह देख रावण उनकी ओर मुँह करके खड़ा हो गया और इस प्रकार बोला— ॥ २७ ॥

विश्वास-प्रस्तुतिः

मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः ।
विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ २८ ॥

मूलम्

मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः ।
विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ २८ ॥

अनुवाद (हिन्दी)

‘अपने बलपर घमंड रखनेवाले लक्ष्मण! तुमने ऐसा प्रयास करके विभीषणको बचा लिया है, इसलिये अब उस राक्षसको छोड़कर मैं तुम्हारे ऊपर ही इस शक्तिका प्रहार करता हूँ ॥ २८ ॥

विश्वास-प्रस्तुतिः

एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।
मद‍्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ २९ ॥

मूलम्

एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा ।
मद‍्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ २९ ॥

अनुवाद (हिन्दी)

‘यह शक्ति स्वभावसे ही शत्रुओंके खूनसे नहानेवाली है, यह मेरे हाथसे छूटते ही तुम्हारे हृदयको विदीर्ण करके प्राणोंको अपने साथ ले जायगी’ ॥ २९ ॥

विश्वास-प्रस्तुतिः

इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।
मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ ३० ॥
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।
रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ ३१ ॥

मूलम्

इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् ।
मयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ ३० ॥
लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा ।
रावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ ३१ ॥

अनुवाद (हिन्दी)

ऐसा कहकर अत्यन्त कुपित हुए रावणने मयासुरकी मायासे निर्मित, आठ घण्टोंसे विभूषित तथा महाभयंकर शब्द करनेवाली, उस अमोघ एवं शत्रुघातिनी शक्तिको, जो अपने तेजसे प्रज्वलित हो रही थी, लक्ष्मणको लक्ष्य करके चला दिया और बड़े जोरसे गर्जना की ॥

विश्वास-प्रस्तुतिः

सा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना ।
शक्तिरभ्यपतद् वेगाल्लक्ष्मणं रणमूर्धनि ॥ ३२ ॥

मूलम्

सा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना ।
शक्तिरभ्यपतद् वेगाल्लक्ष्मणं रणमूर्धनि ॥ ३२ ॥

अनुवाद (हिन्दी)

वज्र और अशनिके समान गड़गड़ाहट पैदा करनेवाली वह शक्ति युद्धके मुहानेपर भयानक वेगसे चलायी गयी और लक्ष्मणको वेगपूर्वक लगी ॥ ३२ ॥

विश्वास-प्रस्तुतिः

तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।
स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ ३३ ॥

मूलम्

तामनुव्याहरच्छक्तिमापतन्तीं स राघवः ।
स्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ ३३ ॥

अनुवाद (हिन्दी)

लक्ष्मणकी ओर आती हुई उस शक्तिको लक्ष्य करके भगवान् श्रीरामने कहा—‘लक्ष्मणका कल्याण हो, तेरा प्राणनाशविषयक उद्योग नष्ट हो; अतएव तू व्यर्थ हो जा’ ॥

विश्वास-प्रस्तुतिः

रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा ।
मुक्ताऽऽशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा ॥ ३४ ॥

मूलम्

रावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा ।
मुक्ताऽऽशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा ॥ ३४ ॥

अनुवाद (हिन्दी)

वह शक्ति विषधर सर्पके समान भयंकर थी । रणभूमिमें कुपित हुए रावणने जब उसे छोड़ा, तब वह तुरंत ही निर्भय वीर लक्ष्मणकी छातीमें डूब गयी ॥ ३४ ॥

विश्वास-प्रस्तुतिः

न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि ।
जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ ३५ ॥
ततो रावणवेगेन सुदूरमवगाढया ।
शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः ॥ ३६ ॥

मूलम्

न्यपतत् सा महावेगा लक्ष्मणस्य महोरसि ।
जिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ ३५ ॥
ततो रावणवेगेन सुदूरमवगाढया ।
शक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः ॥ ३६ ॥

अनुवाद (हिन्दी)

नागराज वासुकिकी जिह्वाके समान देदीप्यमान वह महातेजस्विनी और महावेगवती शक्ति जब लक्ष्मणके विशाल वक्षःस्थलपर गिरी, तब रावणके वेगसे बहुत गहराईतक धँस गयी । उस शक्तिसे हृदय विदीर्ण हो जानेके कारण लक्ष्मण पृथ्वीपर गिर पड़े ॥ ३५-३६ ॥

विश्वास-प्रस्तुतिः

तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।
भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ ३७ ॥

मूलम्

तदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः ।
भ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ ३७ ॥

अनुवाद (हिन्दी)

महातेजस्वी रघुनाथजी पास ही खड़े थे । वे लक्ष्मणको इस अवस्थामें देखकर भ्रातृस्नेहके कारण मन-ही-मन विषादमें डूब गये ॥ ३७ ॥

विश्वास-प्रस्तुतिः

स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः ।
बभूव संरब्धतरो युगान्त इव पावकः ॥ ३८ ॥

मूलम्

स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः ।
बभूव संरब्धतरो युगान्त इव पावकः ॥ ३८ ॥

अनुवाद (हिन्दी)

वे दो घड़ीतक चिन्तामें डूबे रहे । फिर नेत्रोंमें आँसू भरकर प्रलयकालमें प्रज्वलित हुई अग्निके समान अत्यन्त रोषसे उद्दीप्त हो उठे ॥ ३८ ॥

विश्वास-प्रस्तुतिः

न विषादस्य कालोऽयमिति सञ्चिन्त्य राघवः ।
चक्रे सुतुमलं युद्धं रावणस्य वधे धृतः ।
सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च ॥ ३९ ॥

मूलम्

न विषादस्य कालोऽयमिति सञ्चिन्त्य राघवः ।
चक्रे सुतुमलं युद्धं रावणस्य वधे धृतः ।
सर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च ॥ ३९ ॥

अनुवाद (हिन्दी)

‘यह विषादका समय नहीं है’ ऐसा सोचकर श्रीरघुनाथजी रावणके वधका निश्चय करके महान् प्रयत्नके द्वारा सारी शक्ति लगाकर और लक्ष्मणकी ओर देखकर अत्यन्त भयंकर युद्ध करने लगे ॥ ३९ ॥

विश्वास-प्रस्तुतिः

स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।
लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ ४० ॥

मूलम्

स ददर्श ततो रामः शक्त्या भिन्नं महाहवे ।
लक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ ४० ॥

अनुवाद (हिन्दी)

तत्पश्चात् श्रीरामने उस महासमरमें शक्तिसे विदीर्ण हुए लक्ष्मणकी ओर देखा । वे खूनसे लथपथ होकर पड़े थे और सर्पयुक्त पर्वतके समान जान पड़ते थे ॥ ४० ॥

विश्वास-प्रस्तुतिः

तामपि प्रहितां शक्तिं रावणेन बलीयसा ।
यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ॥ ४१ ॥

मूलम्

तामपि प्रहितां शक्तिं रावणेन बलीयसा ।
यत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ॥ ४१ ॥

अनुवाद (हिन्दी)

अत्यन्त बलवान् रावणकी चलायी हुई उस शक्तिको लक्ष्मणकी छातीसे निकालनेके लिये बहुत प्रयत्न करनेपर भी वे श्रेष्ठ वानरगण सफल न हो सके ॥ ४१ ॥

विश्वास-प्रस्तुतिः

अर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसाम् ।
सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम् ॥ ४२ ॥

मूलम्

अर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसाम् ।
सौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम् ॥ ४२ ॥

अनुवाद (हिन्दी)

क्योंकि वे वानर भी राक्षसशिरोमणि रावणके बाण-समूहोंसे बहुत पीड़ित थे । वह शक्ति सुमित्राकुमारके शरीरको विदीर्ण करके धरतीतक पहुँच गयी थी ॥ ४२ ॥

विश्वास-प्रस्तुतिः

तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।
बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ॥ ४३ ॥

मूलम्

तां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् ।
बभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ॥ ४३ ॥

अनुवाद (हिन्दी)

तब महाबली रघुनाथजीने उस भयंकर शक्तिको अपने दोनों हाथोंसे पकड़कर लक्ष्मणके शरीरसे निकाला और समराङ्गणमें कुपित हो उसे तोड़ डाला ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ ४४ ॥

मूलम्

तस्य निष्कर्षतः शक्तिं रावणेन बलीयसा ।
शराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ ४४ ॥

अनुवाद (हिन्दी)

श्रीरामचन्द्रजी जब लक्ष्मणके शरीरसे शक्ति निकाल रहे थे, उस समय महाबली रावण उनके सम्पूर्ण अङ्गोंपर मर्मभेदी बाणोंकी वर्षा करता रहा ॥ ४४ ॥

विश्वास-प्रस्तुतिः

अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम् ।
अब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम् ॥ ४५ ॥

मूलम्

अचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम् ।
अब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम् ॥ ४५ ॥

अनुवाद (हिन्दी)

परंतु उन बाणोंकी परवा न करके लक्ष्मणको हृदयसे लगाकर भगवान् श्रीराम हनुमान् और महाकपि सुग्रीवसे बोले— ॥ ४५ ॥

विश्वास-प्रस्तुतिः

लक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः ।
पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः ॥ ४६ ॥

मूलम्

लक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः ।
पराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः ॥ ४६ ॥

अनुवाद (हिन्दी)

‘कपिवरो! तुमलोग लक्ष्मणको इसी तरह सब ओरसे घेरकर खड़े रहो । अब मेरे लिये उस पराक्रमका अवसर आया है, जो मुझे चिरकालसे अभीष्ट था ॥ ४६ ॥

विश्वास-प्रस्तुतिः

पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः ।
काङ्क्षितं चातकस्येव घर्मान्ते मेघदर्शनम् ॥ ४७ ॥

मूलम्

पापात्मायं दशग्रीवो वध्यतां पापनिश्चयः ।
काङ्क्षितं चातकस्येव घर्मान्ते मेघदर्शनम् ॥ ४७ ॥

अनुवाद (हिन्दी)

‘इस पापात्मा एवं पापपूर्ण विचार रखनेवाले दशमुख रावणको अब मार डाला जाय, यही उचित है । जैसे पपीहेको ग्रीष्म-ऋतुके अन्तमें मेघके दर्शनकी इच्छा रहती है, उसी प्रकार मैं भी इसका वध करनेके लिये चिरकालसे इसे देखना चाहता हूँ ॥ ४७ ॥

विश्वास-प्रस्तुतिः

अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः ।
अरावणमरामं वा जगद् द्रक्ष्यथ वानराः ॥ ४८ ॥

मूलम्

अस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः ।
अरावणमरामं वा जगद् द्रक्ष्यथ वानराः ॥ ४८ ॥

अनुवाद (हिन्दी)

‘वानरो! मैं इस मुहूर्तमें तुम्हारे सामने यह सच्ची प्रतिज्ञा करके कहता हूँ कि कुछ ही देरमें यह संसार रावणसे रहित दिखायी देगा या रामसे ॥ ४८ ॥

विश्वास-प्रस्तुतिः

राज्यनाशं वने वासं दण्डके परिधावनम् ।
वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम् ॥ ४९ ॥
प्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः ।
अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ॥ ५० ॥

मूलम्

राज्यनाशं वने वासं दण्डके परिधावनम् ।
वैदेह्याश्च परामर्शो रक्षोभिश्च समागमम् ॥ ४९ ॥
प्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः ।
अद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ॥ ५० ॥

अनुवाद (हिन्दी)

‘मेरे राज्यका नाश, वनका निवास, दण्डकारण्यकी दौड़-धूप, विदेहकुमारी सीताका राक्षसद्वारा अपहरण तथा राक्षसोंके साथ संग्राम—इन सबके कारण मुझे महाघोर दुःख सहना पड़ा है और नरकके समान कष्ट उठाना पड़ा है; किंतु रणभूमिमें रावणका वध करके आज मैं सारे दुःखोंसे छुटकारा पा जाऊँगा ॥ ४९-५० ॥

विश्वास-प्रस्तुतिः

यदर्थं वानरं सैन्यं समानीतमिदं मया ।
सुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ।
यदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ॥ ५१ ॥
सोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ।
चक्षुर्विषयमागत्य नायं जीवितुमर्हति ॥ ५२ ॥

‘जिसके लिये मैं वानरोंकी यह विशाल सेना साथ लाया हूँ, जिसके कारण मैंने युद्धमें वालीका वध करके सुग्रीवको राज्यपर बिठाया है तथा जिसके उद्देश्यसे समुद्रपर पुल बाँधा और उसे पार किया, वह पापी रावण आज युद्धमें मेरी आँखोंके सामने उपस्थित है । मेरे दृष्टिपथमें आकर अब यह जीवित रहने योग्य नहीं है ॥ ५१-५२ ॥

विश्वास-प्रस्तुतिः

दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ।
यथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजङ्गमः ॥ ५३ ॥

मूलम्

दृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ।
यथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजङ्गमः ॥ ५३ ॥

अनुवाद (हिन्दी)

‘दृष्टिमात्रसे संहारकारी विषका प्रसार करनेवाले सर्पकी आँखोंके सामने आकर जैसे कोई मनुष्य जीवित नहीं बच सकता अथवा जैसे विनतानन्दन गरुड़की दृष्टिमें पड़कर कोई महान् सर्प जीवित नहीं बच सकता, उसी प्रकार आज रावण मेरे सामने आकर जीवित या सकुशल नहीं लौट सकता ॥ ५३ ॥

विश्वास-प्रस्तुतिः

सुखं पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः ।
आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ ५४ ॥

मूलम्

सुखं पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः ।
आसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ ५४ ॥

अनुवाद (हिन्दी)

‘दुर्धर्ष वानरशिरोमणियो! अब तुमलोग पर्वतके शिखरोंपर बैठकर मेरे और रावणके इस युद्धको सुखपूर्वक देखो ॥ ५४ ॥

विश्वास-प्रस्तुतिः

अद्य पश्यन्तु रामस्य रामत्वं मम संयुगे ।
त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ ५५ ॥

मूलम्

अद्य पश्यन्तु रामस्य रामत्वं मम संयुगे ।
त्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ ५५ ॥

अनुवाद (हिन्दी)

‘आज संग्राममें देवता, गन्धर्व, सिद्ध, ऋषि और चारणोंसहित तीनों लोकोंके प्राणी रामका रामत्व देखें ॥

विश्वास-प्रस्तुतिः

अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।
सदेवाः कथयिष्यन्ति यावद् भूमिर्धरिष्यति ।
समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥ ५६ ॥

मूलम्

अद्य कर्म करिष्यामि यल्लोकाः सचराचराः ।
सदेवाः कथयिष्यन्ति यावद् भूमिर्धरिष्यति ।
समागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥ ५६ ॥

अनुवाद (हिन्दी)

‘आज मैं वह पराक्रम प्रकट करूँगा, जिसकी जबतक यह पृथ्वी कायम रहेगी, तबतक चराचर जगत् के जीव और देवता भी सदा लोकमें एकत्र होकर चर्चा करेंगे और जिस प्रकार युद्ध हुआ है, उसे एक-दूसरेसे कहेंगे’ ॥ ५६ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।
आजघान रणे रामो दशग्रीवं समाहितः ॥ ५७ ॥

मूलम्

एवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः ।
आजघान रणे रामो दशग्रीवं समाहितः ॥ ५७ ॥

अनुवाद (हिन्दी)

ऐसा कहकर भगवान् श्रीराम सावधान हो अपने सुवर्णभूषित तीखे बाणोंसे रणभूमिमें दशानन रावणको घायल करने लगे ॥ ५७ ॥

विश्वास-प्रस्तुतिः

तथा प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।
अभ्यवर्षत् तदा रामं धाराभिरिव तोयदः ॥ ५८ ॥

मूलम्

तथा प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः ।
अभ्यवर्षत् तदा रामं धाराभिरिव तोयदः ॥ ५८ ॥

अनुवाद (हिन्दी)

इसी प्रकार जैसे मेघ जलकी धारा गिराता है, उसी तरह रावण भी श्रीरामपर चमकीले नाराचों और मूसलोंकी वर्षा करने लगा ॥ ५८ ॥

विश्वास-प्रस्तुतिः

रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।
वराणां च शराणां च बभूव तुमुलः स्वनः ॥ ५९ ॥

मूलम्

रामरावणमुक्तानामन्योन्यमभिनिघ्नताम् ।
वराणां च शराणां च बभूव तुमुलः स्वनः ॥ ५९ ॥

अनुवाद (हिन्दी)

एक-दूसरेपर चोट करते हुए राम और रावणके छोड़े हुए श्रेष्ठ बाणोंके परस्पर टकरानेसे बड़ा भयंकर शब्द प्रकट होता था ॥ ५९ ॥

विश्वास-प्रस्तुतिः

विच्छिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।
अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ६० ॥

मूलम्

विच्छिन्नाश्च विकीर्णाश्च रामरावणयोः शराः ।
अन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ६० ॥

अनुवाद (हिन्दी)

श्रीराम और रावणके बाण परस्पर छिन्न-भिन्न होकर आकाशसे पृथ्वीपर गिर पड़ते थे । उस समय उनके अग्रभाग बड़े उद्दीप्त दिखायी देते थे ॥ ६० ॥

विश्वास-प्रस्तुतिः

तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ।
त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ॥ ६१ ॥

मूलम्

तयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् ।
त्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ॥ ६१ ॥

अनुवाद (हिन्दी)

राम और रावणके धनुषकी प्रत्यञ्चासे प्रकट हुई महान् टंकारध्वनि समस्त प्राणियोंके मनमें त्रास उत्पन्न कर देती थी और बड़ी अद्भुत प्रतीत होती थी ॥ ६१ ॥

विश्वास-प्रस्तुतिः

स कीर्यमाणः शरजालवृष्टिभि-
र्महात्मना दीप्तधनुष्मतार्दितः ।
भयात् प्रदुद्राव समेत्य रावणो
यथानिलेनाभिहतो बलाहकः ॥ ६२ ॥

मूलम्

स कीर्यमाणः शरजालवृष्टिभि-
र्महात्मना दीप्तधनुष्मतार्दितः ।
भयात् प्रदुद्राव समेत्य रावणो
यथानिलेनाभिहतो बलाहकः ॥ ६२ ॥

अनुवाद (हिन्दी)

जैसे वायुके थपेड़े खाकर मेघ छिन्न-भिन्न हो जाता है, उसी प्रकार दीप्तिमान् धनुष धारण करनेवाले महात्मा श्रीरामके बाण-समूहोंकी वर्षासे आहत एवं पीड़ित हुआ रावण भयके मारे वहाँसे भाग गया ॥ ६२ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः ॥ १०० ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके युद्धकाण्डमें सौवाँ सर्ग पूरा हुआ ॥ १०० ॥