०५५ विश्वामित्रास्त्रमोक्षणम्

वाचनम्
भागसूचना
  1. अपने सौ पुत्रों और सारी सेनाके नष्ट हो जानेपर विश्वामित्रका तपस्या करके महादेवजीसे दिव्यास्त्र पाना तथा उनका वसिष्ठके आश्रमपर प्रयोग करना एवं वसिष्ठजीका ब्रह्मदण्ड लेकर उनके सामने खड़ा होना
विश्वास-प्रस्तुतिः

ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।
वसिष्ठश्चोदयामास कामधुक् सृज योगतः ॥ १ ॥

मूलम्

ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान् ।
वसिष्ठश्चोदयामास कामधुक् सृज योगतः ॥ १ ॥

अनुवाद (हिन्दी)

‘विश्वामित्रके अस्त्रोंसे घायल होकर उन्हें व्याकुल हुआ देख वसिष्ठजीने फिर आज्ञा दी—‘कामधेनो! अब योगबलसे दूसरे सैनिकोंकी सृष्टि करो’ ॥ १ ॥

विश्वास-प्रस्तुतिः

तस्या हुङ्कारतो जाताः काम्बोजा रविसन्निभाः ।
ऊधसश्चाथ सम्भूता बर्बराः शस्त्रपाणयः ॥ २ ॥

मूलम्

तस्या हुङ्कारतो जाताः काम्बोजा रविसन्निभाः ।
ऊधसश्चाथ सम्भूता बर्बराः शस्त्रपाणयः ॥ २ ॥

अनुवाद (हिन्दी)

‘तब उस गौने फिर हुंकार किया । उसके हुंकारसे सूर्यके समान तेजस्वी काम्बोज उत्पन्न हुए । थनसे शस्त्रधारी बर्बर प्रकट हुए ॥ २ ॥

विश्वास-प्रस्तुतिः

योनिदेशाच्च यवनाः शकृद्देशाच्छकाः स्मृताः ।
रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः ॥ ३ ॥

मूलम्

योनिदेशाच्च यवनाः शकृद्देशाच्छकाः स्मृताः ।
रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः ॥ ३ ॥

अनुवाद (हिन्दी)

‘योनिदेशसे यवन और शकृद्देश (गोबरके स्थान) से शक उत्पन्न हुए । रोमकूपोंसे म्लेच्छ, हारीत और किरात प्रकट हुए ॥ ३ ॥

विश्वास-प्रस्तुतिः

तैस्तन्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् ।
सपदातिगजं साश्वं सरथं रघुनन्दन ॥ ४ ॥

मूलम्

तैस्तन्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात् ।
सपदातिगजं साश्वं सरथं रघुनन्दन ॥ ४ ॥

अनुवाद (हिन्दी)

‘रघुनन्दन! उन सब वीरोंने पैदल, हाथी, घोड़े और रथसहित विश्वामित्रकी सारी सेनाका तत्काल संहार कर डाला ॥ ४ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना ।
विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥ ५ ॥
अभ्यधावत् सुसङ्क्रुद्धं वसिष्ठं जपतां वरम् ।
हुङ्कारेणैव तान् सर्वान् निर्ददाह महानृषिः ॥ ६ ॥

‘महात्मा वसिष्ठद्वारा अपनी सेनाका संहार हुआ देख विश्वामित्रके सौ पुत्र अत्यन्त क्रोधमें भर गये और नाना प्रकारके अस्त्र-शस्त्र लेकर जप करनेवालोंमें श्रेष्ठ वसिष्ठमुनिपर टूट पड़े । तब उन महर्षिने हुंकारमात्रसे उन सबको जलाकर भस्म कर डाला ॥ ५-६ ॥

विश्वास-प्रस्तुतिः

ते साश्वरथपादाता वसिष्ठेन महात्मना ।
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तथा ॥ ७ ॥

मूलम्

ते साश्वरथपादाता वसिष्ठेन महात्मना ।
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तथा ॥ ७ ॥

अनुवाद (हिन्दी)

‘महात्मा वसिष्ठद्वारा विश्वामित्रके वे सभी पुत्र दो ही घड़ीमें घोड़े, रथ और पैदल सैनिकोंसहित जलाकर भस्म कर डाले गये ॥ ७ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा विनाशितान् सर्वान् बलं च सुमहायशाः ।
सव्रीडं चिन्तयाविष्टो विश्वामित्रोऽभवत् तदा ॥ ८ ॥

मूलम्

दृष्ट्वा विनाशितान् सर्वान् बलं च सुमहायशाः ।
सव्रीडं चिन्तयाविष्टो विश्वामित्रोऽभवत् तदा ॥ ८ ॥

अनुवाद (हिन्दी)

‘अपने समस्त पुत्रों तथा सारी सेनाका विनाश हुआ देख महायशस्वी विश्वामित्र लज्जित हो बड़ी चिन्तामें पड़ गये ॥ ८ ॥

विश्वास-प्रस्तुतिः

समुद्र इव निर्वेगो भग्नद्रंष्ट्र इवोरगः ।
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ९ ॥

मूलम्

समुद्र इव निर्वेगो भग्नद्रंष्ट्र इवोरगः ।
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ ९ ॥

अनुवाद (हिन्दी)

‘समुद्रके समान उनका सारा वेग शान्त हो गया । जिसके दाँत तोड़ लिये गये हों उस सर्पके समान तथा राहुग्रस्त सूर्यकी भाँति वे तत्काल ही निस्तेज हो गये ॥

विश्वास-प्रस्तुतिः

हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।
हतसर्वबलोत्साहो निर्वेदं समपद्यत ॥ १० ॥

मूलम्

हतपुत्रबलो दीनो लूनपक्ष इव द्विजः ।
हतसर्वबलोत्साहो निर्वेदं समपद्यत ॥ १० ॥

अनुवाद (हिन्दी)

‘पुत्र और सेना दोनोंके मारे जानेसे वे पंख कटे हुए पक्षीके समान दीन हो गये । उनका सारा बल और उत्साह नष्ट हो गया । वे मन-ही-मन बहुत खिन्न हो उठे ॥ १० ॥

विश्वास-प्रस्तुतिः

स पुत्रमेकं राज्याय पालयेति नियुज्य च ।
पृथिवीं क्षत्रधर्मेण वनमेवाभ्यपद्यत ॥ ११ ॥

मूलम्

स पुत्रमेकं राज्याय पालयेति नियुज्य च ।
पृथिवीं क्षत्रधर्मेण वनमेवाभ्यपद्यत ॥ ११ ॥

अनुवाद (हिन्दी)

‘उनके एक ही पुत्र बचा था, उसको उन्होंने राजाके पदपर अभिषिक्त करके राज्यकी रक्षाके लिये नियुक्त कर दिया और क्षत्रिय-धर्मके अनुसार पृथ्वीके पालनकी आज्ञा देकर वे वनमें चले गये ॥ ११ ॥

विश्वास-प्रस्तुतिः

स गत्वा हिमवत्पार्श्वे किन्नरोरगसेवितम् ।
महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ १२ ॥

मूलम्

स गत्वा हिमवत्पार्श्वे किन्नरोरगसेवितम् ।
महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ १२ ॥

अनुवाद (हिन्दी)

‘हिमालयके पार्श्वभागमें, जो किन्नरों और नागोंसे सेवित प्रदेश है, वहाँ जाकर महादेवजीकी प्रसन्नताके लिये महान् तपस्याका आश्रय ले वे तपमें ही संलग्न हो गये ॥ १२ ॥

विश्वास-प्रस्तुतिः

केनचित् त्वथ कालेन देवेशो वृषभध्वजः ।
दर्शयामास वरदो विश्वामित्रं महामुनिम् ॥ १३ ॥

मूलम्

केनचित् त्वथ कालेन देवेशो वृषभध्वजः ।
दर्शयामास वरदो विश्वामित्रं महामुनिम् ॥ १३ ॥

अनुवाद (हिन्दी)

‘कुछ कालके पश्चात् वरदायक देवेश्वर भगवान् वृषभध्वज (शिव) ने महामुनि विश्वामित्रको दर्शन दिया और कहा— ॥ १३ ॥

विश्वास-प्रस्तुतिः

किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् ।
वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम् ॥ १४ ॥

मूलम्

किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम् ।
वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम् ॥ १४ ॥

अनुवाद (हिन्दी)

‘‘राजन्! किसलिये तप करते हो? बताओ क्या कहना चाहते हो? मैं तुम्हें वर देनेके लिये आया हूँ । तुम्हें जो वर पाना अभीष्ट हो, उसे कहो’ ॥ १४ ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।
प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम् ॥ १५ ॥

मूलम्

एवमुक्तस्तु देवेन विश्वामित्रो महातपाः ।
प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम् ॥ १५ ॥

अनुवाद (हिन्दी)

‘महादेवजीके ऐसा कहनेपर महातपस्वी विश्वामित्रने उन्हें प्रणाम करके इस प्रकार कहा— ॥ १५ ॥

विश्वास-प्रस्तुतिः

यदि तुष्टो महादेव धनुर्वेदो ममानघ ।
साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ १६ ॥

मूलम्

यदि तुष्टो महादेव धनुर्वेदो ममानघ ।
साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम् ॥ १६ ॥

अनुवाद (हिन्दी)

‘‘निष्पाप महादेव! यदि आप संतुष्ट हों तो अंग, उपांग, उपनिषद् और रहस्योंसहित धनुर्वेद मुझे प्रदान कीजिये ॥

विश्वास-प्रस्तुतिः

यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।
गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ ॥ १७ ॥
तव प्रसादाद् भवतु देवदेव ममेप्सितम् ।

मूलम्

यानि देवेषु चास्त्राणि दानवेषु महर्षिषु ।
गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ ॥ १७ ॥
तव प्रसादाद् भवतु देवदेव ममेप्सितम् ।

अनुवाद (हिन्दी)

‘‘अनघ! देवताओं, दानवों, महर्षियों, गन्धर्वों, यक्षों तथा राक्षसोंके पास जो-जो अस्त्र हों, वे सब आपकी कृपासे मेरे हृदयमें स्फुरित हो जायँ । देवदेव! यही मेरा मनोरथ है, जो मुझे प्राप्त होना चाहिये’ ॥ १७ १/२ ॥

विश्वास-प्रस्तुतिः

एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ १८ ॥
प्राप्य चास्त्राणि देवेशाद् विश्वामित्रो महाबलः ।
दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा ॥ १९ ॥

मूलम्

एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ १८ ॥
प्राप्य चास्त्राणि देवेशाद् विश्वामित्रो महाबलः ।
दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा ॥ १९ ॥

अनुवाद (हिन्दी)

‘तब ‘एवमस्तु’ कहकर देवेश्वर भगवान् शङ्कर वहाँसे चले गये । देवेश्वर महादेवसे वे अस्त्र पाकर महाबली विश्वामित्रको बड़ा घमंड हो गया । वे अभिमानमें भर गये ॥ १८-१९ ॥

विश्वास-प्रस्तुतिः

विवर्धमानो वीर्येण समुद्र इव पर्वणि ।
हतं मेने तदा राम वसिष्ठमृषिसत्तमम् ॥ २० ॥

मूलम्

विवर्धमानो वीर्येण समुद्र इव पर्वणि ।
हतं मेने तदा राम वसिष्ठमृषिसत्तमम् ॥ २० ॥

अनुवाद (हिन्दी)

‘जैसे पूर्णिमाको समुद्र बढ़ने लगता है, उसी प्रकार वे पराक्रमद्वारा अपनेको बहुत बढ़ा-चढ़ा मानने लगे । श्रीराम! उन्होंने मुनिश्रेष्ठ वसिष्ठको उस समय मरा हुआ ही समझा ॥ २० ॥

विश्वास-प्रस्तुतिः

ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः ।
यैस्तत् तपोवनं नाम निर्दग्धं चास्त्रतेजसा ॥ २१ ॥

मूलम्

ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः ।
यैस्तत् तपोवनं नाम निर्दग्धं चास्त्रतेजसा ॥ २१ ॥

अनुवाद (हिन्दी)

फिर तो वे पृथ्वीपति विश्वामित्र वसिष्ठके आश्रमपर जाकर भाँति-भाँतिके अस्त्रोंका प्रयोग करने लगे । जिनके तेजसे वह सारा तपोवन दग्ध होने लगा ॥ २१ ॥

विश्वास-प्रस्तुतिः

उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः ।
दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ २२ ॥

मूलम्

उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः ।
दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ २२ ॥

अनुवाद (हिन्दी)

‘बुद्धिमान् विश्वामित्रके उस बढ़ते हुए अस्त्र-तेजको देखकर वहाँ रहनेवाले सैकड़ों मुनि भयभीत हो सम्पूर्ण दिशाओंमें भाग चले ॥ २२ ॥

विश्वास-प्रस्तुतिः

वसिष्ठस्य च ये शिष्या ये च वै मृगपक्षिणः ।
विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः ॥ २३ ॥

मूलम्

वसिष्ठस्य च ये शिष्या ये च वै मृगपक्षिणः ।
विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः ॥ २३ ॥

अनुवाद (हिन्दी)

‘वसिष्ठजीके जो शिष्य थे, जो वहाँके पशु और पक्षी थे, वे सहस्रों प्राणी भयभीत हो नाना दिशाओंकी ओर भाग गये ॥ २३ ॥

विश्वास-प्रस्तुतिः

वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः ।
मुहूर्तमिव निःशब्दमासीदीरिणसन्निभम् ॥ २४ ॥

मूलम्

वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः ।
मुहूर्तमिव निःशब्दमासीदीरिणसन्निभम् ॥ २४ ॥

अनुवाद (हिन्दी)

‘महात्मा वसिष्ठका वह आश्रम सूना हो गया । दो ही घड़ीमें ऊसर भूमिके समान उस स्थानपर सन्नाटा छा गया ॥ २४ ॥

विश्वास-प्रस्तुतिः

वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः ।
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ २५ ॥

मूलम्

वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः ।
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ २५ ॥

अनुवाद (हिन्दी)

‘वसिष्ठजी बार-बार कहने लगे—‘डरो मत, मैं अभी इस गाधिपुत्रको नष्ट किये देता हूँ । ठीक उसी तरह, जैसे सूर्य कुहासेको मिटा देता है’ ॥ २५ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६ ॥

मूलम्

एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः ।
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ २६ ॥

अनुवाद (हिन्दी)

‘जपनेवालोंमें श्रेष्ठ महातेजस्वी वसिष्ठ ऐसा कहकर उस समय विश्वामित्रजीसे रोषपूर्वक बोले—

विश्वास-प्रस्तुतिः

आश्रमं चिरसंवृद्धं यद् विनाशितवानसि ।
दुराचारो हि यन्मूढस्तस्मात् त्वं न भविष्यसि ॥ २७ ॥

मूलम्

आश्रमं चिरसंवृद्धं यद् विनाशितवानसि ।
दुराचारो हि यन्मूढस्तस्मात् त्वं न भविष्यसि ॥ २७ ॥

अनुवाद (हिन्दी)

‘‘अरे! तूने चिरकालसे पाले-पोसे तथा हरे-भरे किये हुए इस आश्रमको नष्ट कर दिया—उजाड़ डाला, इसलिये तू दुराचारी और विवेकशून्य है और इस पापके कारण तू कुशलसे नहीं रह सकता’ ॥ २७ ॥

विश्वास-प्रस्तुतिः

इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः ।
विधूम इव कालाग्निर्यमदण्डमिवापरम् ॥ २८ ॥

मूलम्

इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः ।
विधूम इव कालाग्निर्यमदण्डमिवापरम् ॥ २८ ॥

अनुवाद (हिन्दी)

‘ऐसा कहकर वे अत्यन्त क्रुद्ध हो धूमरहित कालाग्निके समान उद्दीप्त हो उठे और दूसरे यमदण्डके समान भयंकर डंडा हाथमें उठाकर तुरंत उनका सामना करनेके लिये तैयार हो गये’ ॥ २८ ॥

समाप्तिः

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥
इस प्रकार श्रीवाल्मीकिनिर्मित आर्षरामायण आदिकाव्यके बालकाण्डमें पचपनवाँ सर्ग पूरा हुआ ॥ ५५ ॥