०४४ भ्रातृ-प्राप्तिः

विसृज्य तु सुहृद्वर्गं बुद्ध्या निश्चित्य राघवः।
समीपे द्वाःस्थमासीनमिदं वचनमब्रवीत् ॥ 7.44.1 ॥
शीघ्रमानय सौमित्रिं लक्ष्मणं शुभलक्षणम्।
भरतं च महाभागं शत्रुघ्नमपराजितम् ॥ 7.44.2 ॥
रामस्य वचनं श्रुत्वा द्वाःस्थो मूर्ध्नि कृताञ्जलिः।
लक्ष्मणस्य गृहं गत्वा प्रविवेशानिवारितः ॥ 7.44.3 ॥
उवाच सुमहात्मानं वर्धयित्वा कृताञ्जलिः।
द्रष्टुमिच्छति राजा त्वां गम्यतां तत्र मा चिरम् ॥ 7.44.4 ॥
बाढमित्येव सौमित्रिः श्रुत्वा राघवशासनम्।
प्राद्रवद्रथमारुह्य राघवस्य निवेशनम् ॥ 7.44.5 ॥
प्रयान्तं लक्ष्मणं दृष्ट्वा द्वाःस्थो भरतमन्तिकात्।
उवाच भरतं तत्र वर्धयित्वा कृताञ्जलिः ॥ 7.44.6 ॥
विनयावनतो भूत्वा राजा त्वां द्रष्टुमिच्छति।
भरतस्तु वचःश्रुत्वा द्वाःस्थाद्रामसमीरितम् ॥ 7.44.7 ॥
उत्पपातासनात्तूर्णं पद्भ्यामेव ययौ बली।
दृष्ट्वा प्रयान्तं भरतं त्वरमाणः कृताञ्जलिः ॥ 7.44.8 ॥
शत्रुघ्नभवनं गत्वा ततो वाक्यमुवाच ह।
एह्यागच्छ रघुश्रेष्ठ राजा त्वां द्रष्टुमिच्छति ॥ 7.44.9 ॥
गतो हि लक्ष्मणः पूर्वं भरतश्च महायशाः।
श्रुत्वा तु वचनं तस्य शत्रुघ्नः परमासनात् ॥ 7.44.10 ॥
द्वाःस्थस्त्वागम्य रामाय सर्वानेव कृताञ्जलिः।
निवेदयामास तदा भ्रातॄन्स्वान्समुपस्थितान् ॥ 7.44.11 ॥
कुमारानागताञ्छ्रुत्वा चिन्ताव्याकुलितेन्द्रियः।
अवाङ्मुखो दीनमना द्वाःस्थं वचनमब्रवीत् ॥ 7.44.12 ॥
प्रवेशय कुमारांस्त्वं मत्समीपं त्वरान्वितः।
एतेषु जीवितं मह्यमेते प्राणाः प्रिया मम ॥ 7.44.13 ॥
आज्ञप्तास्तु नरेन्द्रेण कुमाराः शक्रतेजसः।
प्रह्वाः प्राञ्जलयो भूत्वा विविशुस्ते समाहिताः ॥ 7.44.14 ॥
ते तु दृष्ट्वा मुखं तस्य सग्रहं शशिनं यथा।
सन्ध्यागतमिवादित्यं प्रभया परिवर्जितम् ॥ 7.44.15 ॥
बाष्पपूर्णे च नयने दृष्ट्वा रामस्य धीमतः।
हतशोभं यथा पद्मं मुखं वीक्ष्य च तस्य ते ॥ 7.44.16 ॥
ततोऽभिवाद्य त्वरिताः पादौ रामस्य मूर्धभिः।
तस्थुः समाहिताः सर्वे रामस्त्वश्रूण्यवर्तयत् ॥ 7.44.17 ॥
तान्परिष्वज्य बाहुभ्यामुत्थाप्य च महाबलः।
आसनेष्वासतेत्युक्त्वा ततो वाक्यं जगाद ह ॥ 7.44.18 ॥
भवन्तो मम सर्वस्वं भवन्तो जीवितं मम।
भवद्भिश्च कृतं राज्यं पालयामि नरेश्वराः ॥ 7.44.19 ॥
भवन्तः कृतशास्त्रार्था बुद्ध्या च परिनिष्ठिताः।
सम्भूय च मदर्थोऽयमन्वेष्टव्यो नरेश्वराः ॥ 7.44.20 ॥
तथा वदति काकुत्स्थे अवधानपरायणाः।
उद्विग्नमनसः सर्वे किं नु राजाभिधास्यति ॥ 7.44.21 ॥