०१० हनुमता रावणान्तःपुरप्रवेशः

तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्।
अवेक्षमाणो हनुमान् ददर्श शयनासनम् ॥ 5.10.1 ॥
दान्तकाञ्चनचित्राङ्गैर्वैडूर्यैश्च वरासनैः।
महार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ 5.10.2 ॥
तस्य चैकतमे देशे सोऽग्र्यमालाविभूषितम्।
ददर्श पाण्डुरच्छत्रं ताराधिपतिसन्निभम् ॥ 5.10.3 ॥
जातरूपूपपरिक्षिप्तं चित्रभानुसमप्रभम्।
अशोकमालाविततं ददर्श परमासनम् ॥ 5.10.4 ॥
वालव्यजनहस्ताभिर्वीज्यमानं समन्ततः।
गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम् ॥ 5.10.5 ॥
परमास्तरणास्तीर्णमाविकाजिनसंवृतम्।
दामभिर्वरमाल्यानां समन्तादुपशोभितम् ॥ 5.10.6 ॥
तस्मिन् जीमूतसङ्काशं प्रदीप्तोत्तमकुण्डलम्।
लोहिताक्षं महाबाहुं महारजतवाससम् ॥ 5.10.7 ॥
लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना।
सन्ध्यारक्तमिवाकाशे तोयदं सतडिद्गणम् ॥ 5.10.8 ॥
वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्।
सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥ 5.10.9 ॥
प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्।
पीत्वाप्युपरतं चापि ददर्श स महाकपिः ॥ 5.10.10 ॥
भास्वरे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ 5.10.11 ॥
निःश्वसन्तं यथा नागं रावणं वानरर्षभः।
आसाद्य परमोद्विग्नः सोऽपासर्पत् सुभीतवत् ॥ 5.10.12 ॥
अथारोहणमासाद्य वेदिकान्तरमाश्रितः।
सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः ॥ 5.10.13 ॥
शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम्।
गन्धहस्तिनि संविष्टे यथा प्रस्रवणं महत् ॥ 5.10.14 ॥
काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः।
विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ ॥ 5.10.15 ॥
ऐरावतविषाणाग्रैरापीडनकृतव्रणौ।
वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षतौ ॥ 5.10.16 ॥
पीनौ समसुजातांसौ सङ्गतौ बलसंयुतौ।
सुलक्षणनखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ ॥ 5.10.17 ॥
संहतौ परिघाकारौ वृत्तौ करिकरोपमौ।
विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ ॥ 5.10.18 ॥
शशक्षतजकल्पेन सुशीतेन सुगन्धिना।
चन्दनेन पारार्घ्येन स्वनुलिप्तौ स्वलङ्कृतौ ॥ 5.10.19 ॥
उत्तमस्त्री विमृदितौ गन्धोत्तमनिषेवितौ।
यक्षपन्नगगन्धर्वदेवदानवराविणौ ॥ 5.10.20 ॥
ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ।
मन्दरस्यान्तरे सुप्तौ महाही रूषिताविव ॥ 5.10.21 ॥
ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः।
शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः ॥ 5.10.22 ॥
चूतपुन्नागसुरभिर्वकुलोत्तमसंयुतः।
मृष्टान्नरससंयुक्तः पानगन्धपुरस्सरः ॥ 5.10.23 ॥
तस्य राक्षससिंहस्य निश्चक्राम महामुखात्।
शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम् ॥ 5.10.24 ॥
मुक्तामणिविचित्रेण काञ्चनेन विराजितम्।
मकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम् ॥ 5.10.25 ॥
रक्तचन्दनदिग्धेन तथा हारेण शोभिना।
पीनायतविशालेन वक्षसाऽभिविराजितम् ॥ 5.10.26 ॥
पाण्डरेणापविद्धेन क्षौम्मेण क्षतजेक्षणम्।
महार्हेण सुसंवीतं पातेनोत्तमवाससा ॥ 5.10.27 ॥
माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत्।
गाङ्गे महति तोयान्ते प्रसुप्तमिव कुञ्जरम् ॥ 5.10.28 ॥
चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानचतुर्दिशम्।
प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव ॥ 5.10.29 ॥
पादमूलगताश्चापि ददर्श सुमहात्मनः।
पत्नीः स प्रियभारयस्य तस्य रक्षःपतेर्गृहे ॥ 5.10.30 ॥
शशिप्रकाशवदनाश्चारुकुण्डलभूषिताः।
अम्लानमाल्याभरणा ददर्श हरियूथपः ॥ 5.10.31 ॥
नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः।
वराभरणधारिण्यो निषण्णा ददृशे हरिः ॥ 5.10.32 ॥
वज्रवैडूर्यगर्भाणि श्रावणान्तेषु योषिताम्।
ददर्श तापनीयानि कुण्डलान्यङ्गदानि च ॥ 5.10.33 ॥
तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः।
विरराज विमानं तन्नभस्तारागणैरिव ॥ 5.10.34 ॥
मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः।
तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः ॥ 5.10.35 ॥
अङ्गहारैस्तथैवान्या कोमलैर्नृत्तशालिनी।
विन्यस्तशुभसर्वाङ्गी प्रसुप्ता वरवर्णिनी ॥ 5.10.36 ॥
काचिद्वीणां परिष्वज्य प्रसुप्ता सम्प्रकाशते।
महानदीप्रकीर्णेव नलिनी पोतमाश्रिता ॥ 5.10.37 ॥
अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा।
प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला ॥ 5.10.38 ॥
पटहं चारु सर्वाङ्गी पीड्य शेते शुभस्तनी।
चिरस्य रमणं लब्ध्वा परिष्वज्येन भामिनी ॥ 5.10.39 ॥
काचिद्वंशं परिष्वज्य सुप्ता कमललोचना।
रहः प्रियतमं गृह्य सकामेव च कामिनी ॥ 5.10.40 ॥
विपञ्चीं परिगृह्यान्या नियता नृत्तशालिनी।
निद्रावशमनुप्राप्ता सहकान्तेव भामिनी ॥ 5.10.41 ॥
अन्या कनकसङ्काशैर्मृदुपीनैर्मनोरमैः।
मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना ॥ 5.10.42 ॥
भुजपार्श्वान्तरस्थेन कक्षगेन कृशोदरी।
पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा ॥ 5.10.43 ॥
डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा।
प्रसुप्ता तरुणं वत्समुपगुह्येव भामिनी ॥ 5.10.44 ॥
काचिदाडम्बरं नारी भुजसंयोगपीडितम्।
कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता ॥ 5.10.45 ॥
कलशीमपविध्यान्या प्रसुप्ता भाति भामिनी।
वसन्ते पुष्पशबला मानेव परिमार्जिता ॥ 5.10.46 ॥
पाणिभ्यां च कुचौ काचित् सुवर्णकलशोपमौ।
उपगुह्याबला सुप्ता निद्राबलपराजिता ॥ 5.10.47 ॥
अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना।
अन्यामालिङ्ग्य सुश्रोणीं प्रसुप्ता मदविह्वला ॥ 5.10.48 ॥
आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः।
निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव ॥ 5.10.49 ॥
तासामेकान्तविन्यस्ते शयानां शयने शुभे।
ददर्श रूपसम्पन्नामपरां स कपिः स्त्रियम् ॥ 5.10.50 ॥
मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्।
विभूषयन्तीमिव तत् स्वश्रिया भवनोत्तमम् ॥ 5.10.51 ॥
गौरीं कनकवर्णाङ्गीमिष्टामन्तः पुरेश्वरीम्।
कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ 5.10.52 ॥
स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः।
तर्कयामास सीतेति रूपयौवनसम्पदा ॥ 5.10.53 ॥
हर्षेण महता युक्तो ननन्द हरियूथपः ॥ 5.10.54 ॥
आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम।
स्तम्भानरोहन्निपपात भूमौ निदर्शयन् स्वां प्रकृतिं कपीनाम् ॥ 5.10.55 ॥