०६१ सम्पातिना स्वकथानिरूपणम्

ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम् ।

आचचक्षे मुनेः सर्वं सूर्यानुगमनं तदा ॥ ४।६१।१ ॥

भगवन् व्रणयुक्तत्वाल्लज्जया व्यकुलोन्द्रियः ।

परिश्रान्तो न शक्नोमि वचनं प्रतिभाषितुम् ॥ ४।६१।२ ॥

ततस्तदित्यादि ॥ ४।६१।१,२ ॥

अहं चैव जटायुश्च सङ्घर्षाद्दर्पमोहितौ ।

आकाशं पतितौ वीरौ जिज्ञासन्तौ पराक्रमम् ॥ ४।६१।३ ॥

कैलासशिखरे बध्वा मुनीनामग्रतः पणम् ।

रविः स्यादनुयातव्यो यावदस्तं महागिरिम् ॥ ४।६१।४ ॥

अथावां युगपत्प्राप्तावपश्याव महीतले ।

रथचक्रप्रमाणानि नगराणि पृथक् पृथक् ॥ ४।६१।५ ॥

क्कचिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुवः ।

गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः ॥ ४।६१।६ ॥

तूर्णमुत्पत्य चाकाशमादित्यपथमाश्रितौ ।

आवामालोकयावस्तद्वनं शाद्वलसन्निभम् ॥ ४।६१।७ ॥

उपलैरिव सञ्छन्ना दृश्यते भूः शिलोञ्चयैः ।

आपगाभिश्च संवीता सूत्रैरिव वसुन्धरा ॥ ४।६१।८ ॥

हिमवांश्चैव विन्ध्याश्च मेरुश्च सुमहान्नगः ।

भूतले सम्प्रकाशन्ते नागा इव जलाशये ॥ ४।६१।९ ॥

अहमिति । पतितौ प्राप्तौ ॥ ४।६१।३९ ॥

तीव्रः स्वेदश्च खेदश्च भयं चासीत्तदा ऽ ऽवयोः ।

समाविशति मोहश्च तमो मूर्च्छा च दारुणा ॥ ४।६१।१० ॥

तीव्र इति । मोहः चित्तविभ्रमः । मूर्च्छा इन्द्रियैः सह मनस उपप्लवः । तमः अज्ञानम् ॥ ४।६१।१० ॥

न दिग्विज्ञायते याम्या नाग्नेयी न च वारुणी ।

युगान्ते नियतो लोको हतो दग्ध इवाग्निना ॥ ४।६१।११ ॥

नेति । याम्येत्यादिकं दिगन्तराणामुपलक्षणम् । नियतो लोकः नियतसन्निवेशो लोकः । युगान्ते अग्निना दग्धो हत इव, अदृश्यतेति शेषः ॥ ४।६१।११ ॥

मनश्च मे हतं भूयः सन्निवर्त्य तु संश्रयम् ।

यत्नेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि ।

यत्नेन महता भूयो रविः समवलोकितः ॥ ४।६१।१२ ॥

तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ ॥ ४।६१।१३ ॥

मनश्चेत्यादि । संश्रयम् आश्रयभूतं चक्षुरिन्द्रियं सन्निवर्त्य स्वेन विप्रयुज्य भूयो भृशं हतं मे मनः महता यत्नेन अस्मिन् चक्षुषि पुनः सन्धाय यत्नेन भूयो रविः समवलोकित इति सम्बन्धः “हतं भूयः सन्निवर्त्य तु संश्रयम् । यत्नेन महता ह्यस्मिन् पुनः सन्धाय चक्षुषि ॥ यत्नेन महता भूयो रविः समवलोकितः” इति पाठः ॥ ४।६१।१२,१३ ॥

जटायुर्मामनापृच्छ्य निपपात महीं ततः ।

तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम् ॥ ४।६१।१४ ॥

जटायुरिति । निपपात महीम्, महीं प्रति निपपातेत्यर्थः । पतन्तं दृष्ट्वा अहमाकाशात् पूर्वाधिष्ठिताकाशप्रदेशात् आत्मानं तूर्णं मुक्तवान्, जटायुषो रक्षणार्थं तदुपरि सत्वरमागच्छमित्यर्थः ॥ ४।६१।१४ ॥

पक्षाभ्यां च मया गुप्तो जटायुर्न प्रदह्यते ।

प्रमादात्तत्र निर्दग्धः पतन् वायुपथादहम् ॥ ४।६१।१५ ॥

आशङ्के तं निपतितं जनस्थाने जटायुषम् ।

अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः ॥ ४।६१।१६ ॥

राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च ।

सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद्गिरेः ॥ ४।६१।१७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकषष्टितमः सर्गः ॥ ६१ ॥

पक्षाभ्यामिति । प्रमादात् सूर्यो धक्ष्यतीति बुद्ध्यवधानाभावात् ॥ ४।६१।१५१७ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥