०२१ हनुमता तारासान्त्वनम्

ततो निपतितां तारां च्युतां तारामिवाम्बरात् ।

शनैराश्वासयामास हनुमान् हरियूथपः ॥ ४।२१।१ ॥

अथ हनुमत्समाश्वासनमेकविंशे तत इत्यादि । तारां तारकाम् ॥ ४।२१।१ ॥

गुणदेषकृतं जन्तुः स्वकर्मफलहेतुकम् ।

अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम् ॥ ४।२१।२ ॥

गुणोति । जन्तुः गुणदोषकृतं ज्ञानाज्ञानाभ्यां कृतं स्वकर्मफलं स्वकर्मवासना हेतुर्यस्य तत्तथोक्तम् । यत् कर्मास्ति तत्तस्य शुभाशुभं फलभूतं सुखदुःखं प्रेत्य लोकान्तरं प्राप्य अव्यग्रः एकाग्रः सन् अवाप्नोति । अत्र कृतं शुभाशुभरूपं कर्म लोकान्तरे फलदानाय सहैव गच्छतीत्यर्थः । सुग्रीवेणायं मारित इति न मन्तव्यम्, किन्तु स्वकर्मणैव हतः । निमित्तमात्रं सुग्रीव इति भावः ॥ ४।२१।२ ॥

शोच्या शोचसि कं शोच्यं दीनं दीना ऽनुकम्पसे ।

कस्य को वा ऽनुशोच्यो ऽस्ति देहे ऽस्मिन् बुद्बुदोपमे ॥ ४।२१।३ ॥

नायं शोचनीयः स्वकर्मानुरूपेण गतत्वात् । किन्तु स्वात्मैव शोच्यः केन कर्मणा कं लोकं गमिष्यामीति तद्दर्शयति शोच्येति । स्वयं शोच्या त्वं कं प्रति शोचसि । स्वयं दीना कं दीनम् अनुकम्पसे दयसे । ब्रुद्बुदोपमे जलबुद्बुदवदस्थिरे देहे निमित्तसप्तमी । कस्य को वा ऽनुशोच्यो ऽस्ति, सर्वेषामप्यस्थिरत्वाविशेषात् । स्वयं स्थिर एव ह्यस्थिरं शोचेदिति भावः ॥ ४।२१।३ ॥

अङ्गदस्तु कुमारो ऽयं द्रष्टव्यो जीवपुत्रया ।

आयत्यां च विधेयानि समर्थान्यस्य चिन्तय ॥ ४।२१।४ ॥

अङ्गदस्त्विति । द्रष्टव्यः परिपालनीयः । आयत्याम् उत्तरकाले । समर्थानि हितानि ॥ ४।२१।४ ॥

जानास्यनियतामेवं भूतानामागतिं गतिम् ।

तस्माच्छुभं हि कर्तव्यं पण्डिते नैहलौकिकम् ॥ ४।२१।५ ॥

जानासीति । अनियतामागतिं गतिम्, अस्थिरतामिति यावत् । शुभम् और्ध्वदैहिकम् । ऐहलौकिकं रोदनादिकम् ॥ ४।२१।५ ॥

यस्मिन् हरिसहस्राणि प्रयुतान्यर्बुदानि च ।

वर्तयन्ति कृतांशानि सो ऽयं दिष्टान्तमागतः ॥ ४।२१।६ ॥

यस्मिन्निति । यस्मिन् विषये हरीत्यविभक्तिकनिर्देशः । हरीणामित्यर्थः । कृतांशानि कृतविभागानि । सन्ति वर्तयन्ति, जीवनं कुर्वन्ति सो ऽयं दिष्टान्तं दिष्टस्य देवकल्पितकालस्य अन्तं समाप्तिम् । “कालो दिष्टो ऽप्यनेहापि” इत्यमरः । बहून् स्वजनान् जीवयित्वा गतः स्वसुकृत फलं प्राप्तुं गतः । अतः स न शोच्य इति भावः ॥ ४।२१।६ ॥

यदयं न्यायदृष्टार्थः सामदानक्षमापरः ।

गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि ॥ ४।२१।७ ॥

यदिति । न्यायदृष्टार्थः शास्त्रदृष्टतत्त्वार्थः । साम दुःखितानां स्वजनानां सान्त्वनम् । दानम् अभीष्टार्थदानम् । क्षमा तत्कृतापराधसहनम् । एतासु परः सक्तः अयं धर्मजितां स्वाधीनधर्माधर्मकाणां भूमिं लोकम् । यत् यस्मात् गतः । तस्मान्नैनं शोचितुमर्हसि ॥ ४।२१।७ ॥

सर्वे हि हरिशार्दूलाः पुत्रश्चायं तवाङ्गदः ।

इदं हर्यृक्षराज्यं च त्वत्सनाथमनिन्दिते ॥ ४।२१।८ ॥

सर्व इति । हरीणाम् ऋक्षाणां च राज्यं त्वत्सनाथं त्वया सनाथम् ॥ ४।२१।८ ॥

ताविमौ शोकसन्तापौ शनैः प्रेरय भामिनि ।

त्वाय परिगृहीतो ऽयमङ्गदः शास्तु मेदिनीम् ॥ ४।२१।९ ॥

ताविमाविति । ताविमौ शोकसन्तापौ शोकतत्कृततापौ शनैः क्रमेण प्रेरयृ निवर्तय । भर्तृमरणशोकस्य सद्यो दुस्त्यजत्वादिति भावः ॥ ४।२१।९ ॥

सन्ततिश्च यथा दृष्टा कृत्यं यच्चापि साम्प्रतम् ।

राज्ञस्तत्क्रियतां तावदेष कालस्य निश्चयः ॥ ४।२१।१० ॥

सन्ततिश्चेति । सन्ततिश्च यथा दृष्टा यत्प्रोजनकः सन्तानो लब्धः साम्प्रतम् इदीनीं यच्च कृत्यं कर्तुं योग्यं तत्सर्वं राज्ञः क्रियताम् । एष निश्चयो ऽस्य कालस्य योग्य इति शेषः । न तु शोक इति भावः । पुत्रोत्पादनफलमौर्ध्वदैहिकं क्रियातमित्यर्थः ॥ ४।२१।१० ॥

संस्कार्यो हरिराजश्च अङ्गदश्चाभिषिच्यताम् ।

सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि ॥ ४।२१।११ ॥

सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता ।

अब्रवीदुत्तरं तारा हनुमन्तमवस्थितम् ॥ ४।२१।१२ ॥

उक्तमर्थं वाचा दर्शयति संस्कार्य इति । शान्तिं दुःखशमम् ॥ ४।२१।११,१२ ॥

अङ्गदप्रतिरूपाणां पुत्राणामेकतः शतम् ।

हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम् ॥ ४।२१।१३ ॥

अङ्गदेति । अङ्गदप्रतिरूपाणाम् अङ्गदतुल्यानां पुत्राणां सत्पुत्राणां शतम् एकतः एकत्र एकतुलायामस्तु । हतस्याप्यस्य गात्रसंश्लेषणं गाढालिङ्गनम् एकतो ऽस्तु । तोयर्मध्ये भर्तृसंश्लेषणमेव वरमित्यर्थः ॥ ४।२१।१३ ॥

न चाहं हरिराजस्य प्रभावाम्यङ्गदस्य वा ।

पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः ॥ ४।२१।१४ ॥

संस्कार्य इत्यस्योत्तरमाह न चेति । हरिराजस्य न प्रभवामि तस्य संस्कारकरणे न समर्था ऽस्मि । अङ्गदस्य वा न प्रभवामि तस्य राज्याभिषेककरणे न प्रभवामीत्यर्थः ॥ ४।२१।१४ ॥

न ह्येषा बुद्धिरास्थेया हनुमन्नङ्गदं प्रति ।

पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम ॥ ४।२१।१५ ॥

न हीति । नास्थेया नादर्तव्या, न कर्तव्येत्यर्थः । पिता पितृव्या ॥ ४।२१।१५ ॥

न हि मम हरिराजसंश्रयात् क्षमतरमस्ति परत्र चेह वा ।

अभिमुखहतवीरसेवितं शयनमिदं मम सेवितुं क्षमम् ॥ ४।२१।१६ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकविंशः सर्गः ॥ २१ ॥

नहीति । परत्र परलोके इह अस्मिन् लोके शत्र्वभिमुखतया हतः अभिमुखहतः स चासौवीरश्च तेन सेवितम् ॥ ४।२१।१६ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मुक्ताहाराख्याने किष्किन्धाकाण्डव्याख्याने सर्गः ॥ २१ ॥