०६४ दशरथमृतिः

वधमप्रतिरूपं तु महर्षेस्तस्य राघवः ।

विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत् ॥ २।६४।१ ॥

वधमिति । विलपन्नेव मध्ये स्वपुत्रं विलपन्नेव ॥ २।६४।१ ॥

तदज्ञानान्महत्पापं कृत्वाहं सङ्कुलेन्द्रियः ।

एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् ॥ २।६४।२ ॥

तदिति । सङ्कुलेन्द्रियः व्याकुलेन्द्रियः । सुकृतं सुष्ठु कृतम्, मुनिकुमारवचनमिति शेषः । इत्यचिन्तयमित्युपस्कार्यम् । यद्वा अस्य वधज्ञापनाज्ञापनयोः किं शुभोदर्कं भवेदित्यचिन्तयमित्यर्थः ॥ २।६४।२ ॥

ततस्तं घटमादाय पूर्णं परमवारिणा ।

आश्रमं तमहं प्राप्य यथाख्यातपथं गतः ॥ २।६४।३ ॥

तत इति । ततः मुनिकुमारोक्तज्ञापनमेव श्रेयस्करमिति निश्चयानन्तरम् । यथाख्यातपथं प्राप्य आश्रमं गत इति सम्बन्धः ॥ २।६४।३ ॥

तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ ।

अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ॥ २।६४।४ ॥

तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ ।

तामाशां मत्कृते हीनावुदासीनावनाथवत् ॥ २।६४।५ ॥

तत्रेत्यादि । परितो नयति संचारयतीति परिणायकः । तद्रहितौ तन्निमित्ताभिः पुत्रविषयाभिः कथाभिः उपलक्षितौ । अपरिक्रमौ पङ्गुभूतौ । मत्कृते मन्निमित्तं तामाशां हीनौ जलानयनाशारहितौ पुत्रविषयाशारहितौ वा । उदासीनौ प्रयत्नशून्यौ । तस्य पितरावपश्यमिति सम्बन्धः ॥ २।६४।४५ ॥

शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः ।

तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः ॥ २।६४।६ ॥

शोकोपहतचित्त इति । पुत्रवधेन पूर्वमेव शोकोपहतचित्तः भूयः शोकं गतः तद्दर्शनादतिशयितशोकं गतः ॥ २।६४।६ ॥

पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत ।

किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥ २।६४।७ ॥

पदशब्दमिति । पदशब्दं चरणविन्यासजशब्दम् । चिरायसि विलम्बसे “तत्करोति” इति णिच् ॥ २।६४।७ ॥

यन्निमित्तमिदं तात सलिले क्रीडितं त्वया ।

उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥ २।६४।८ ॥

यन्निमित्तं किं निमित्तमित्यर्थः । यद्वा यन्निमित्तं त्वया सलिले क्रीडितम् इदं ब्रूहीति शेषः । यन्न दत्तमिति पाठे–इदानीं पानीयं न दत्तमिति यत् तस्मात्त्वया सलिले क्रीडितमित्यन्वयः । उत्कण्ठिता शोकस्मरणवत्यभूत् ॥ २।६४।८ ॥

यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया ।

न तन्मनसि कर्तव्यं त्वया तात तपस्विना ॥ २।६४।९ ॥

व्यलीकम् अप्रियम् । अलीकमिति पाठे–अलीकमपराधः ऽअलीकमपराधःऽ इति हलायुधः ॥ २।६४।९ ॥

त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् ।

समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे ॥ २।६४।१० ॥

त्वमिति । नः अस्मान् इति मुनिर्वाक्यमभाषतेत्यन्वयः ॥ २।६४।१० ॥

मुनिमव्यक्तया वाचा तमहं सज्जमानया ।

हीनव्यञ्जनया प्रेक्ष्य भीतोभीत इवाब्रवम् ॥ २।६४।११ ॥

मुनिमिति । सज्जमानया स्खलन्त्या । हीनव्यञ्जनया अस्पष्टाक्षरया । “व्यञ्जनं श्मश्रुनिष्ठानचिह्नेष्ववयवे ऽक्षरे” इति वैजयन्ती । अव्यक्तया वाचा अब्रवमिति सम्बन्धः । भीतोपि सन् भीतः भीतोभीतः, अत्यन्तभीत इत्यर्थः (पाठभेदः । भीतो ऽपि सन्नभीत इवाब्रवम् ।) इवशब्दो वाक्यालङ्कारे ॥ २।६४।११ ॥

मनसः कर्मचेष्टाभिरभिसंस्तभ्य वाग्बलम् ।

आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ २।६४।१२ ॥

उक्तमेव विशदं दर्शयति–मनस इति । मनसः कर्म ऊहापोहात्मकम् । चेष्टाः इन्द्रियनियमनरूपव्यापाराः ताभिर्वाग्बलम् अभिसंस्तभ्य स्खलितां वाचं बलाद्दृढीकृत्येत्यर्थः । तस्मै भयमाचचक्ष इति सम्बन्धः । यद्वा वाग्बलमभिसंस्तभ्य लज्जाभीतिप्रभृतिभिः मन्दवचनोभूत्वेत्यर्थः । आचचक्षे इति लिडुत्तमपुरुषैकवचनम् ॥ २।६४।१२ ॥

क्षत्ित्रयो ऽहं दशरथो नाहं पुत्त्रो महात्मनः ।

सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ॥ २।६४।१३ ॥

क्षत्ित्रय इति । महात्मनः, तवेति शेषः सज्जनावमतं सज्जनावमतिविषयभूतम्, सत्पुरुषगर्हितमित्यर्थः ॥ २।६४।१३ ॥

भगवंश्चापहस्तो ऽहं सरयूतीरमागतः ।

जिघांसुः श्वापदं कञ्चिन्निपाने चागतं गजम् ॥ २।६४।१४ ॥

भगवन्निति । निपाने जलावतारे । आगतं गजं श्वापदं हिंस्रशार्दूलादिकं च जिघांसुः चापहस्तो ऽहं सरयूतीरमागतः ॥ २।६४।१४ ॥

तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः ।

द्विपो ऽयमिति मत्वा ऽयं बाणेनाभिहतो मया ॥ २।६४।१५ ॥

गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि ।

विनिर्भिन्नं गतप्राणं शयानं भुवि तापसम् ॥ २।६४।१६ ॥

भगवन् शब्दमालक्ष्य मया गजजिघांसुना ।

विसृष्टो ऽम्भसि नाराचस्ततस्ते निहतः सुतः ॥ २।६४।१७ ॥

ततस्तस्यैव वचनादुपेत्य परितप्यतः ।

स मया सहसा बाण उद्धृतो मर्मतस्तदा ॥ २।६४।१८ ॥

तत्रेति । पूर्यतः पूर्यमाणस्य । अयं शब्दहेतुः पदार्थः द्विप इति मत्वा अयं तव सुतः मया अभिहतः ॥ २।६४।१५१८ ॥

स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः ।

भवन्तौ पितरौ शोचन्नन्धाविति विलप्य च ॥ २।६४।१९ ॥

स इति । उद्धृतेन बाणेन हेतुना अन्धौ पितरौ मातापितराविति भवन्तावेव शोचन् विलप्य च स्वर्गमास्थितः ॥ २।६४।१९ ॥

अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया ।

शेषमेवङ्गते यत्स्यात्तत्प्रसीदतु मे मुनिः ॥ २।६४।२० ॥

अज्ञानादिति । एवंगते एवंप्राप्ते सति । यच्छेषं कर्तव्यं स्यात् शापानुग्रहादिकं तत्प्रति मे मयि प्रसीदतु, शापोवा ऽनुग्रहो वा यः कर्तव्यस्तं करोत्वित्यर्थः ॥ २।६४।२० ॥

स तच्छ्रुत्वा वचः क्रूरं मयोक्तमघशंसिना ।

नाशकत्तीव्रमायासमकर्तुं भगवानृषिः ॥ २।६४।२१ ॥

स बाष्पपूर्ण वदनो निश्वसन् शोककर्शितः ।

मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ २।६४।२२ ॥

स इति । अघशंसिना दुःखशंसिना । आयासं व्यसनम् अकर्तुं नाशकत्, कृतवानेवेत्यर्थः ॥ २।६४।२१२२ ॥

यद्येतदशुभं कर्म न त्वं मे कथयेः स्वयम् ।

फलेन्मूर्द्धा स्म ते राजन् सद्यः शतसहस्रधा ॥ २।६४।२३ ॥

यदीति । स्मेति वाक्यालङ्कारे । फलेत् विशीर्येत् । “ञिफलाविशरणे” इति धातुः । मच्छापेनेति शेषः ॥ २।६४।२३ ॥

क्षत्ित्रयेण वधो राजन् वानप्रस्थे विशेषतः ।

ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम् ॥ २।६४।२४ ॥

क्षत्ित्रयेण पालकेन वानप्रस्थे अज्ञानतः कृतो वधः वज्रिणमिन्द्रमपि स्थानात् च्यावयेत् । ज्ञानपूर्वं कृतः ज्ञानकृतस्तु विशेषतश्च्यावयेत् । अविलम्बो विशेषः ॥ २।६४।२४ ॥

सप्तधा तु फलेन्मूर्द्धा मुनौ तपसि तिष्ठति ।

ज्ञानाद्विसृजतः शस्त्रं तादृशे ब्रह्मवादिनि ॥ २।६४।२५ ॥

सप्तधेत्युपलक्षणं बहुधेत्यर्थः । ब्रह्मवादिनि परमात्मज्ञे । ब्रह्मचारिणीति पाठे–चरतेर्गत्यर्थत्वात् “सर्वे गत्यर्था ज्ञानार्थाः” इति न्यायेन ब्रह्म तत्त्वं चरितुं ज्ञातुं शीलमस्यास्तीति ब्रह्मचारी तस्मिन् । “ज्ञाने तत्त्वे तपोध्यात्मवेदेषु ब्रह्म चोच्यते” इति निघण्टुः ॥ २।६४।२५ ॥

अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि ।

अपि ह्यद्य कुलं न स्यादिक्ष्वाकूणां कुतो भवान् ॥ २।६४।२६ ॥

यस्मात् कारणात् इदं दुष्कृतमज्ञानात्कृतं तेन त्वं जीवसि अपि च अद्य ज्ञानपूर्वकत्वे वधस्य राघवाणां कुलं न स्यात् भवान् कुतः स्यात् जीवेत्, इति मामुवाचेत्यन्वयः ॥ २।६४।२६ ॥

नय नौ नृपतं देशमिति मां चाभ्यभाषत ।

अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ २।६४।२७ ॥

रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम् ।

शयानं भुवि निस्संज्ञं धर्मराजवशङ्गतम् ॥ २।६४।२८ ॥

नयेत्यादिश्लोकद्वयमेकं वाक्यम् । धर्मराजवशं गतं पुत्रं द्रष्टुमिच्छावः अतः नौ तं देशं नयेति मामभ्यभाषतेति सम्बन्धः ॥ २।६४।२७२८ ॥

अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ ।

अस्पर्शयमहं पुत्रं तु मुनिं सह भार्यया ॥ २।६४।२९ ॥

तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ ।

निपेततुः शरीरे ऽस्य पिता चास्येदमब्रवीत् ॥ २।६४।३० ॥

नाभिवादयसे मा ऽद्य न च मामभिभाषसे ।

किं नु शेषे च भूमौ त्वं वत्स किं कुपितो ह्यसि ॥ २।६४।३१ ॥

अथेति । अहं तौ नीत्वा अहं तमस्पर्शयमिति सम्बन्धेनाहंशब्दद्वयावैयर्थ्यम् ॥ २।६४।२९३१ ॥

न त्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक ।

किन्नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥ २।६४।३२ ॥

न त्विति । अहं ते प्रियः न तु चेत् मातरं पश्येत्यन्वयः ॥ २।६४।३२ ॥

कस्य वा ऽपररात्रे ऽहं श्रोष्यामि हृदयङ्गमम् ।

अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः ॥ २।६४।३३ ॥

कस्येति । हृदयङ्गमं मनोहरस्वरम् अधीयानस्य पठतः । अन्यद्वा इतिहासपुराणादिकं वा ॥ २।६४।३३ ॥

को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः ।

श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् ॥ २।६४।३४ ॥

क इति । सन्ध्यामुपास्य नमस्कारपूर्वकं तान्त्रिकं सन्ध्यावन्दनं कृत्वेत्यर्थः । हुतहुताशनः कृतहोमः । ननु वैश्यात् शूद्रायां जातो हि करणः तस्य कथं होमाधिकार इति ? मैवम्– “नमस्कारेण मन्त्रेण पञ्चयज्ञान् समापयेत्” इति चतुर्थवर्णस्यापि पञ्चमहायज्ञाधिकारः स्मर्यते ततोप्यधिकस्य करणस्य स्वोचितमन्त्रैर्होमाधिकारस्य कैमुत्यन्यायसिद्धत्वात् । श्लाघयिष्यति उपचरिष्यतीत्यर्थः ॥ २।६४।३४ ॥

कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम् ।

भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् ॥ २।६४।३५ ॥

इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् ।

कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥ २।६४।३६ ॥

कन्दमूलफलमिति । कन्दं जलोद्भवानां पद्मादीनाम्, मूलं स्थलोद्भवानाम् । अकर्मण्यं कर्मानुष्ठानाक्षमम् । अप्रग्रहं नीवारादिसङ्ग्रहरहितम् । अनायकम् अनाथं रक्षकरहितं यष्टिं गृहीत्वा मार्गदर्शकरहितमिति वार्थः ॥ २।६४।३५३६ ॥

तिष्ठ मां मागमः पुत्र यमस्य सदनं प्रति ।

श्वो मया सह गन्तासि जनन्या च समेधितः ॥ २।६४।३७ ॥

उभावपि च शोकार्तावनाथौ कृपणो वने ।

क्षिप्रमेव गमिष्यावस्त्वया ऽहीनौ यमक्षयम् ॥ २।६४।३८ ॥

तिष्ठेति । तिष्ठमां मां प्रति तिष्ठ । मागमः मा गच्छ । समेधितः सहित इत्यर्थः ॥ २।६४।३७३८ ॥

ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् ।

क्षमतां धर्मराजो मे बिभृयात्पितरावयम् ॥ २।६४।३९ ॥

दातुमर्हति धर्मात्मा लोकपालो महायशाः ।

ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम् ॥ २।६४।४० ॥

तत इति । वैवस्वतं यमम्, धर्मराजः क्षमतां मत्पुत्रस्य स्वपरिसरागमनविलम्बं सहताम् । मे मत्सम्बन्धी अयं पुत्रं पितरौ बिभृयादिति भारतीं प्रवक्ष्यामीति सम्बन्धः ॥ २।६४।३९४० ॥

अपापो ऽसि यदा पुत्र निहतः पापकर्मणा ।

तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥ २।६४।४१ ॥

यान्ति शूरा गतिं यां च सङ्ग्रामेष्वनिवर्तिनः ।

हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज ॥ २।६४।४२ ॥

यां गतिं सगरः शैब्यो दिलीपो जनमेजयः ।

नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक ॥ २।६४।४३ ॥

राज्ञा स्वहस्तकृतं हननं पूर्वकृतस्य पापस्य प्रायश्चित्तत्वेन प्राप्तमिति मत्वा वदति–अपाप इति । पापकर्मणा राज्ञा यदा निहतः तदैवापापोसि, तेन अपापत्वेन हेतुना । सत्येन मम सत्येन शस्त्रयोधिनां ये लोका स्तान् आशु गच्छेति योजना । नन्वस्य तपस्विनो ब्रह्मलोकप्राप्तिरेव वक्तव्या शस्त्रहननमात्रेण शस्त्रयोधिना लोकं प्राप्यत्वेन वदति, एतत्कथमुपपद्यते ? उच्यते– “द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ । परिव्राड् योगयुक्तश्च रणे चाभिमुखो हतः ॥ " इति शस्त्रयोधिनामुत्कृष्टलोकप्राप्तिश्रवणान्न दोषः ॥ २।६४।४१४३ ॥

या गतिः सर्वसाधूनां स्वाध्यायात्तपसा च या ।

या भूमिदस्याहिताग्नेरेकपत्नीव्रतस्य च ॥ २।६४।४४ ॥

या गतिरिति । एकपत्नीव्रतस्येति इदं च व्रतमनुकूलायां पुत्रिण्यां पत्न्यां बोध्यम् ॥ २।६४।४४ ॥

गोसहस्रप्रदातृ़णां या या गुरुभृतामपि ।

देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ॥ २।६४।४५ ॥

गोसहस्रप्रदातृ़णामिति । या येति एकस्य यच्छब्दस्य पूर्वेणान्वयः । गुरुभृतां गुरुशुश्रूषाकारिणां देहन्यासकृतां महाप्रस्थानादिनेति शेषः । यद्वा परलोकप्राप्तिसङ्कल्पपूर्वकं गङ्गायमुनासङ्गमादौ जले ऽग्नौ वा तनुं त्यजतामित्यर्थः ॥ २।६४।४५ ॥

न हि त्वस्मिन् कुले जातो गच्छत्यकुशलां गतिम् ।

स तु यास्यति येन त्वं निहतो मम बान्धवः ॥ २।६४।४६ ॥

नेति । अस्मिन्कुले तपोनिष्ठानामस्माकं कुले जातः । अकुशलाम् अशुभां गतिं न गच्छेत् अपितु मम बान्धवः पुत्रः त्वं येन निहतः स एवाकुशलां गतिं यास्यति ॥ २।६४।४६ ॥

एवं स कृपणं तत्र पर्यदेवयतासकृत् ।

ततो ऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया ॥ २।६४।४७ ॥

एवमिति । उदकं संस्कारपूर्वोदकक्रियाः ॥ २।६४।४७ ॥

स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः ।

स्वर्गमध्यारुहत् क्षिप्रं शक्रेण सह धर्मवित् ॥ २।६४।४८ ॥

स त्विति । शक्रेण सह स्वर्गमध्यारुहदित्यनेन मुनिपुत्रं स्वर्गं नेतुं शक्रः समागत इति गम्यते ॥ २।६४।४८ ॥

आबभाषे च तौ वृद्धौ सह शक्रेण तापसः ।

आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् ॥ २।६४।४९ ॥

सङ्ग्रहेणोक्तं स्वर्गारोहणं विवृणोति–आबभाष इति । तापसः शक्रेण सह तौ वृद्धौ आबभाषे । आभाषणेपि वृद्धयोरश्रवणात् पुनराहेत्याह आश्वास्य चेति ॥ २।६४।४९ ॥

स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् ।

भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः ॥ २।६४।५० ॥

स्थानमिति । मूलं समीपम् । “आद्ये शिफायां नक्षत्रे मूलं कुञ्जसमीपयोः” इति निघण्टुः ॥ २।६४।५० ॥

एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता ।

आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः ॥ २।६४।५१ ॥

स कृत्वा तूदकं तूर्णं तापसः सह भार्यया ।

मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ २।६४।५२ ॥

एवमिति । वपुष्मता प्रशस्ताकारेण । प्रशंसायां मतुप् ॥ २।६४।५१५२ ॥

अद्यैव जहि मां राजन् मरणे नास्ति मे व्यथा ।

यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् ॥ २।६४।५३ ॥

अद्येति । जहि प्राणान् मोचय । “हन्तेर्जः” इति जादेशः । कथं मारणं दुःखाकरत्वादित्यत्राह–मरणे नास्ति मे व्यथेति । व्यथाभावहेतुमाह यदिति । अतोपि किं व्यथा ऽस्तीति भावः ॥ २।६४।५३ ॥

त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः ।

तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ॥ २।६४।५४ ॥

त्वेयेति । अभिशप्स्यामि नतु भस्मीकरोमीति भावः । सुदुःखमतिदारुणमिति क्रियाविशेषणम् ॥ २।६४।५४ ॥

पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् ।

एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि ॥ २।६४।५५ ॥

पुत्रव्यसनजमिति । यद्यस्मात्कारणात् मम एतन्मरणपर्यवसायिपुत्रव्यसनजं दुःखम्, अभूदिति शेषः । एवं पुत्रशोकेन कालं करिष्यसि, मृत्युं प्राप्स्यसीत्यर्थः । “कालो मृत्यौ च समये” इति वैजयन्ती ॥ २।६४।५५ ॥

अज्ञानात्तु हतो यस्मात् क्षत्ित्रयेण त्वया मुनिः ।

तस्मात्त्वां नाविशत्याशु ब्रह्महत्या नराधिप ॥ २।६४।५६ ॥

अज्ञानादिति । ब्रह्महत्या बहुपातकमित्यर्थः । अन्यथा वैश्यात् शूद्रायां जातस्य करणाख्य सङ्करजातित्वेन ब्रह्महत्याप्रसक्त्यभावात् ॥ २।६४।५६ ॥

त्वामप्ये तादृशो भावः क्षिप्रमेव गमिष्यति ।

जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥ २।६४।५७ ॥

त्वामिति । एतादृशः पुत्रशोकरूपः । भावः स्वभावः । दातारमिव दक्षिणा यथा विप्राय दक्षिणा दत्ता दातारं स्वसदृशफलं प्रापयति तथेत्यर्थः । पुत्रशोकातिशयेन इह जन्मन्येव फलमनुभविष्यसीति धिया क्षिप्रमित्युक्तवान् । दक्षिणाशब्देन दक्षिणाहेतुकं सुकृतं लक्ष्यते ॥ २।६४।५७ ॥

एवं शापं मयि न्यस्य विलप्य करुणं बहु ।

चितामारोप्य देहं तन्मिथुनं स्वर्गमभ्ययात् ॥ २।६४।५८ ॥

एवमिति । देहमित्येकवचनेन चितारोहणकाले देहयोर्गाढबद्धत्वं लक्ष्यते ॥ २।६४।५८ ॥

तदेतच्चिन्तयानेन स्मृतं पापं मया स्वयम् ।

तदा बाल्यात् कृतं देवि शब्दवेध्यनुकर्षिणा ॥ २।६४।५९ ॥

तदिति । शब्दवेध्यनुकर्षिणा शब्दवेधिनं बाणं प्रयुञ्जानेन । यद्वा शब्दवेधिनं बाणं मुक्त्वा

पुनस्तच्छरीरप्रोतशल्यमनुकृष्टवतेत्यर्थः । चिन्तयानेन मरणपर्यवसायी पुत्रशोकः प्राप्तः अस्य किं निदानमिति चिन्तयानेन । एतत् पापं स्मृतं मुनिकुमारवधरूपं पापं स्मृतिविषयमभूदित्यर्थः ॥ २।६४।५९ ॥

तस्यायं कर्मणो देवि विपाकः समुपस्थितः ।

अपथ्यैः सह सम्भुक्तो व्याधिमन्नरसो यथा ॥ २।६४।६० ॥

तस्येति । अपथ्यैः व्याधिविवर्धकैः व्यञ्जनैः सह सम्भुक्तः अन्नरसः व्याधिमुल्बणयन्निति शेषः । समुपस्थितो भवति बाधकत्वेन प्राप्तो भवति । अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथेति च पाठः ॥ २।६४।६० ॥

तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः ।

यदहं पुत्रशोकेन सन्त्यक्ष्याम्यद्य जीवितम् ॥ २।६४।६१ ॥

तस्मादिति । उदारस्य शापप्रदातुः । उदारत्वोक्तिरपुत्रस्य पुत्रसम्पादनपरत्वात् । यद्वा उदारस्य महतः “उदारो दातृमहतोः” इत्यमरः । वचो मामागतं शापरूपवचनार्थो मां प्राप्त इत्यर्थः ॥ २।६४।६१ ॥

चक्षुर्भ्यां त्वां न पश्यामि कौसल्ये साधु मा स्पृश ।

इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिपः ॥ २।६४।६२ ॥

चक्षुर्भ्यामिति । मा माम् ॥ २।६४।६२ ॥

एतन्मे सदृशं देवि यन्मया राघवे कृतम् ।

सदृशं तत्तु तस्यैव यदनेन कृतं मयि ॥ २।६४।६३ ॥

इत्युक्त्वा स रुदंस्त्रस्तो भार्यामाह च भूमिप इत्यर्द्धानन्तरम् एतन्मे सदृशं देवि यन्मया राघवे कृतम् । सदृशं तत्तु तस्यैव यदनेन कृतं मयि । इति क्रमः ॥ २।६४।६३ ॥

दुर्वृत्तमपि कः पुत्रं त्यजेद्भुवि विचक्षणः ।

कश्च प्रव्राज्यमानो वा नासूयेत्पितरं सुतः ॥ २।६४।६४ ॥

एतदर्थद्वयं क्रमेणोपपादयति–दुर्वृत्तमित्यर्धद्वयेन ॥ २।६४।६४ ॥

यदि मां संस्पृशेद्रामः सकृदद्य लभेत वा ।

यमक्षयमनुप्राप्ता द्रक्ष्यन्ति नहि मानवाः ॥ २।६४।६५ ॥

चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते ।

दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् ॥ २।६४।६६ ॥

अतस्तु किं दुःखतरं यदहं जीवितक्षये ।

नहि पश्यामि धर्मज्ञं रामं सत्यपराक्रमम् ॥ २।६४।६७ ॥

यदीति । रामः सकृदप्यद्य मां संस्पृशेत् लभेत वा चक्षुर्विषयतां प्राप्नुयाद्वा तदा जीवेयमिति गम्यमानत्वात्तदनुक्तिः । किमर्थमेवमर्थनं करोषीत्यत्राह–यमेति । यमक्षयं यमगृहमनुप्राप्ताः मानवाः बान्धवान्न द्रक्ष्यन्ति हीत्यर्थः । तस्माज्जीवनकाल एव दर्शनमपेक्ष्यत इति भावः ॥ २।६४।६५६७ ॥

तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः ।

उच्छोषयति मे प्राणान् वारिस्तोकमिवातपः ॥ २।६४।६८ ॥

तस्येति । अप्रतिकर्मणः प्रतिक्रियारहितस्य । स्तोकम् अल्पम् । “स्तोकाल्पक्षुल्लकाः” इत्यमरः ॥ २।६४।६८ ॥

न ते मनुष्यादेवास्ते ये चारुशुभकुण्डलम् ।

मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ॥ २।६४।६९ ॥

पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् ।

धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् ॥ २।६४।७० ॥

सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च ।

सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ॥ २।६४।७१ ॥

नेति । मनुष्याः जरायुक्ताः न भवन्ति किन्तु देवाः नित्ययौवनाः “अहं पुनर्देवकुमाररूपमलंकृतं तं सुतमाव्रजन्तम् । नन्दामि पश्यन्नपि दर्शनेन भवामि दृष्ट्वा च पुनर्युवेव ॥ " इति हि पूर्वमुक्तवान्। चारुशुभकुण्डलं तन्मुखसंयोगात् कुण्डलमतीवशोभां प्राप्तमित्युच्यते ॥ २।६४।६९७१ ॥

निवृत्तवनवासं तमयोध्यां पुनरागतम् ।

द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा ॥ २।६४।७२ ॥

निवृत्तवनवासमिति । मार्गगतं शुक्रं यथा मौढ्यं विहाय स्वस्थानगतं शुक्रमिव ॥ २।६४।७२ ॥

कौसल्ये चित्तमोहेन हृदयं सीदतीव मे ।

वेदये न च संयुक्तान् शब्दस्पर्शरसानहम् ॥ २।६४।७३ ॥

कौसल्य इति । चित्तमोहेन चित्तस्य मोहो दुःखातिशय प्राप्ता मूर्च्छा, तयेत्यर्थः । “मूर्छा तु कश्मलं मोहः” इत्यमरः । हृदयं मनसोधिष्ठानम् । सीदतीव विशीर्यतीव । संयुक्तान् इन्द्रियसंयुक्तान् । न वेदये न जाने ॥ २।६४।७३ ॥

चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे ।

क्षीणस्नेहस्य दीपस्य संसक्ता रश्मयो यथा ॥ २।६४।७४ ॥

अयमात्मभवः शोको मामनाथमचेतनम् ।

संसादयति वेगेन यथा कूलं नदीरयः ॥ २।६४।७५ ॥

हृदयविशरणेन शब्दाद्यज्ञाने हेतुमाह–चित्तनाशादिति । संसक्ताः दीपाविनाभूताः यथा स्नेहनाशकृतदीपनाशाद्रश्मिनाशः । एवं शरीरशैथिल्यकृतचित्तनाशादिन्द्रियनाश इति सूचितम् ॥ २।६४।७४७५ ॥

हा राघव महाबाहो हा ममायासनाशन ।

हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥ २।६४।७६ ॥

हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि ।

हा नृशंसे ममामित्रे कैकेयि कुलपांसनि ॥ २।६४।७७ ॥

इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ ।

राजा दशरथः शोचञ्जीवितान्मुपागमत् ॥ २।६४।७८ ॥

यदा तु दीनं कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः ।

गते ऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः ॥ २।६४।७९ ॥

हेति । आयासनाशन दुःखनाशन ॥ २।६४।७६७९ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुःषष्टितमः सर्गः ॥ ६४ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुःषष्टितमः सर्गः ॥ ६४ ॥