०५१ विश्वामित्र-वंश-वर्णनम्

(विश्वामित्रवृन्तातः)

तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।

हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥ १।५१।१ ॥

गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।

रामसन्दर्शनादेव परं विस्मयमागतः ॥ १।५१।२ ॥

अथाचार्यवैभवस्य ज्ञेयत्वाभिप्रायेण विश्वामित्रचरित्रं प्रस्तौति तस्य तद्वचनमित्यादिभिः पञ्चदशभिः सर्गैः । तस्येत्यादिद्वौ । हृष्टरोमा सञ्जातरोमाञ्चः । विस्मयमागतः, अहो महिमा रामस्य यन्मे माता कृतार्थीकृतेति विस्मयं प्राप्तो ऽभूदित्यर्थः ॥ १।५१।१,२ ॥

स तौ निषण्णौ सम्प्रेक्ष्य सुखासीनौ नृपात्मजौ ।

शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥ १।५१।३ ॥

स इति । निषण्णावित्यस्य विवरणं सुखासीनाविति ॥ १।५१।३ ॥

अपि ते मुनिशार्दूल मम माता यशस्विनी ।

दर्शिता राजपुत्राय तपोदीर्घमुपागता ॥ १।५१।४ ॥

स्वमातरि रामकृतानुग्रहस्य श्रुतस्य विस्मयावहतया पुनः पृच्छति–अपीत्यादि । अपिः प्रश्ने । ते त्वया । दीर्घं तप उपागता पूर्वोक्तभस्मशायित्वादिलक्षणं तपः प्राप्ता । अनेन पाषाणीभूयस्थितेति पक्षो न वाल्मीकेः ॥ १।५१।४ ॥

अपि रामे महातेजा मम माता यशस्विनी ।

वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम् ॥ १।५१।५ ॥

अपीति । रामे रामविषये । वन्यैः कन्दमूलफलादिभिः । अनेन पूर्वमपि वन्यैरेतस्य जीवनमिति गम्यते । सर्वदेहिनां पूजार्ह इत्यनेन परत्वं व्यञ्जितम् ॥ १।५१।५ ॥

अपि रामाय कथितं यथावृत्तं पुरातनम् ।

मम मातुर्महातेजो दैवेन दुरनुष्ठितम् ॥ १।५१।६ ॥

अपीति । हे महातेजः विश्वामित्र मम मातुर्विषये दैवेन इन्द्रेण विधिना वा । दुरनुष्ठितं दुरनुष्ठानरूपम् । पुरातनं वृत्तं चरितम् । यथा यथावत् । कथितं चापि कथितं किम् ॥ १।५१।६ ॥

अपि कौशिक भद्रं ते गुरुणा मम सङ्गता ।

माता मम मुनिश्रेष्ठ रामसन्दर्शनादितः ॥ १।५१।७ ॥

अपीति । गुरुणा पित्रा । इतः अस्मादुपस्थिताद्रामसन्दर्शनात् । यद्वा रामसन्दर्शनादितः रामसन्दर्शनादिना । तृतीयार्थे तसिः । पूजा अपिशब्दार्थः ॥ १।५१।७ ॥

अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।

इहागतो महातेजाः पूजां प्राप्तो महात्मनः ॥ १।५१।८ ॥

अपीति । इह अस्मदाश्रमे । आगतः महातेजा गुरुः । महात्मनः रामात् पूजां अहल्यालाभरूपाम् ।

अपिप्राप्तः ॥ १।५१।८ ॥

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज ।

इहागतेन रामेण प्रयतेनाभिवादितः ॥ १।५१।९ ॥

अपीति । शान्तेन कोपरहितेन मनसोपलक्षितो गुरुः । इह अस्मदाश्रमे । आगतेन प्रयतेन मनःसक्तिरूपयत्नवता । रामेण अभिवादितः किम् ॥ १।५१।९ ॥

तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।

प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १।५१।१० ॥

तच्छ्रुत्वेति ॥ १।५१।१० ॥

नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया ।

सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ॥ १।५१।११ ॥

नेति । नातिक्रान्तं मया समयातिक्रमो न कृतः । समये यत्कर्तव्यं तत्कृतम् । तदेवाह सङ्गतेति । नातिक्रान्तमित्यस्य विवरणं यत्कर्तव्यमिति । तस्य विवरणं सङ्गतेति । भार्गवेण जमदग्निना । रेणुका परशुराममातेवेति भावः ॥ १।५१।११ ॥

तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः ।

शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १।५१।१२ ॥

तदिति ॥ १।५१।१२ ॥

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।

विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥ १।५१।१३ ॥

स्वागतमिति । दिष्ट्या दैवयोगेन ॥ १।५१।१३ ॥

अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः ।

विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ॥ १।५१।१४ ॥

विश्वामित्रं स्तौति–अचिन्त्येत्यादि । तपसा ब्रह्मर्षिः तपसा प्राप्तब्रह्मर्षिभावः । परमां गतिं तव परमहितप्रदम् । वेत्सीत्यत्र काकुरनुसन्धेया ॥ १।५१।१४ ॥

नास्ति धन्यतरो राम त्वत्तो ऽन्यो भुवि कश्चन ।

गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥ १।५१।१५ ॥

एतदेवाह–नास्तीति । धन्यत्वे हेतुः गोप्तेति । येन कुशिकपुत्रेण ॥ १।५१।१५ ॥

श्रूयतामभिधास्यामि कौशिकस्य महात्मनः ।

यथा बलं यथा वृत्तं तन्मे निगदतः शृणु ॥ १।५१।१६ ॥

श्रूयतामिति । बलं तपोबलम् । यथा यादृश्ाम्, वृत्तं चरित्रं च । यथा यादृशं तथा तत्सर्वं मे मत्तः

शृणु ॥ १।५१।१६ ॥

राजाभूदेष धर्मात्मा दीर्घकालमरिन्दमः ।

धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ १।५१।१७ ॥

राजेति ॥ १।५१।१७ ॥

प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः ।

कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥ १।५१।१८ ॥

कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः ।

गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥ १।५१।१९ ॥

विश्वामित्रो महातेजाः पालयामास मेदिनीम् ।

बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥ १।५१।२० ॥

कस्य राज्ञः पुत्र इत्यत्राह–प्रजापतीत्यादिश्लोकत्रयम् । पालयामासेत्यस्य विवरणं बह्विति ॥ १।५१।१८२० ॥

कदाचित्तु महातेजा योजयित्वा वरूथिनीम् ।

अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥ १।५१।२१ ॥

नगराणि च राष्ट्राणि सरितश्च तथा गिरीन् ।

आश्रमान् क्रमशो राम विचरन्नाजगाम ह ॥ १।५१।२२ ॥

वसिष्ठस्याश्रमपदं नानावृक्षसुमाकुलम् ।

नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ १।५१।२३ ॥

देवदानवगन्धर्वैः किन्नरैरुपशोभितम् ।

प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ॥ १।५१।२४ ॥

ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम् ।

तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥ १।५१।२५ ॥

अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ।

फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः ॥ १।५१।२६ ॥

ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ।

अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् ॥ १।५१।२७ ॥

वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ।

ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः ॥ १।५१।२८ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥

कदाचिदित्याद्यष्टौ श्लोकाः । वरूथिनीं चतुरङ्गबलम् । योजयित्वा उपस्थाप्य । प्रशान्तत्वविशेषणाय पुनर्हरिणोपादानम् । अब्भक्षैः अम्मात्रभक्षैः । दान्तैर्नियतमनस्कैः । वालखिल्याः ब्रह्मणो वालजा ऋषयः । वैखानसास्तन्नखजाः, “ये नखास्ते वैखानसाः ये वालास्ते वालखिल्याः” इति श्रुतेः । वसिष्ठाश्रमवैभववर्णनम् एवम्भूतेनापि सम्मानितो विश्वामित्र इति तस्य वैभवकथनार्थम् ॥ १।५१।२१२८ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने एकपञ्चाशः सर्गः ॥ ५१ ॥