०१३ यज्ञशाला-प्रवेशः

पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरो ऽभवत् ।

प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥ १।१३।१ ॥

एवं प्रथमवसन्ते चैत्रपौर्णमास्यां साङ्ग्रहणेष्टिं विधायद्वितीये ऽह्नि ब्रह्मौदनमेध्याश्वबन्धनस्नापनप्रोक्षणविमोचनादिकम् “चत्वार ऋत्विजः समुक्षन्ति” इत्युक्तरीत्या कृत्वा “सावित्रमष्टाकपालं प्रातर्निर्वपति” इत्युक्तरीत्या प्रतिदिनं सावित्रादिषु कर्मस्वनुष्ठीयमानेषु संवत्सरे पूर्णे देवयजनं प्रति प्रस्थानं दर्शयति त्रयोदशे पुनः प्राप्त इत्यादि । पुनर्वसन्ते द्वितीयवसन्ते प्राप्ते संवत्सरः पूर्णो ऽभवत्, अमावास्या प्राप्तेत्यर्थः । तत्र भाविन्यां पौर्णमास्यां प्रसवार्थं हयमेधेन यष्टुं हयमेधाख्यं यज्ञं कर्तुम् गतः, देवयजनमितिशेषः । प्रथमसंवत्सरान्तिमामावास्यायां उखासम्भरणत्रैधातवीयदीक्षणीयादिकं दवेयजन एव हि कर्त्तव्यम् । तथोक्तं भास्करैः “संवत्सरस्यास्य तु या ऽन्तिमामावास्या विधेयामिह दीक्षणीयाम् । त्रैधातवीयां प्रवदन्ति सप्त दिनानि दीक्षाहुतयस्तथाष्टौ ॥ " इति ॥ १।१३।१ ॥

अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च ।

अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ।

यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुङ्गव ॥ १।१३।२ ॥

एवमेतत्सर्गप्रतिपाद्यं देवयजनगमनं सङ्ग्रहेणोक्त्वा पुनस्तद्विस्तरेण वक्तुमुपक्रमते सर्गशेषेण । तत्र ब्रह्मौदनमारभ्य यावदश्वमेधसमाप्ति यजमानस्य स्वातन्त्र्यप्रतिषेधेन स्वयं यज्ञोपकरणसम्पादनाद्ययोगादध्वर्युणैव तस्य सर्वस्य कर्तव्यत्वादध्वर्युत्वेन वृतं वसिष्ठं प्रति प्रार्थयते अभिवाद्येत्यादिना । तदुक्तं भट्टभास्करैः “रशनाञ्जनतः पश्चादध्वर्युः परिवीयते । राज्याय स च राजा स्याद्यावत् सन्तिष्ठते क्रतुः ॥ " इति येयं “द्वादशारत्नी रशना भवति मौञ्जी भवति” इत्यश्वबन्धनरज्जुर्विहिता, तस्याः “यदाज्यमुच्छिष्यते तस्मिन् रशनान्युनत्ति” इति यद्ब्रह्मौदनशिष्टाज्येनाभ्यञ्जनं विहितं ततः पश्चादित्यर्थः। अर्द्धत्रयमेकान्वयम्। वसिष्ठं अभिवाद्य च न्यायतः शास्त्रतः, प्रतिपूज्य च। प्रश्रितं विनययुक्तं वाक्यमब्रवीत्। कथम् ? प्रसवार्थं पुत्रार्थम्। आरब्धो मे यज्ञः यथोक्तं शास्त्रोक्तमनतिक्रम्य क्रियताम् ॥ १।१३।२ ॥

यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम् ॥ १।१३।३ ॥

यथेति । यज्ञाङ्गेषु द्रव्यदेवताकर्मादिरूपेषु यथा विघ्नो न क्रियते, राक्षसैरिति शेषः । तथा क्रियतामित्यर्थः ॥ १।१३।३ ॥

भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् ।

वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥ १।१३।४ ॥

भवानिति । भवान् मह्यं स्निग्धः अविच्छिन्नस्नेहः सुहृत्, परमः वामदेवादिभ्य उत्कृष्टः, महान् वस्तुतो निरुपमः, गुरुः अतः उद्यतः उपक्रान्तः यज्ञस्य भारो भवतैव वोढव्यः चकारेणार्त्विज्यं च कर्तव्यमित्युच्यते ॥ १।१३।४ ॥

तथेति च स राजानमब्रवीद्द्विजसत्तमः ।

करिष्ये सर्वमेवैतद्भवता यत्समर्थितम् ॥ १।१३।५ ॥

तथेति । समर्थितं सम्यक् प्रार्थितम् ॥ १।१३।५ ॥

ततो ऽब्रवीद्द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान् ।

स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥ १।१३।६ ॥

तत इति सार्द्धश्लोकत्रयमेकान्वयम् । यज्ञकर्मसु यज्ञप्रयोगेषु । स्थापत्ये तद्द्रव्यानयनस्वाम्ये । निष्ठितान् पूर्वं राज्ञा नियुक्तान् ॥ १।१३।६ ॥

कर्मान्तिकान् शिल्पकरान् वर्द्धकीन् खनकानपि ।

गणकान् शिल्पिनश्चैव तथैव नटनर्तकान् ।

तथा शुचीन् शास्त्रविदः पुरुषान् सुबहुश्रुतान् ॥ १।१३।७ ॥

कर्मान्तिकानिति । कर्मणामन्तः समाप्तिः स एषामस्तीति कर्मान्तिकाः । “अत इनिठनौ” इति ठन् । भृतकानित्यर्थः । शिल्पकरान् इष्टकादिनिर्मातृ़न् । वर्द्धकीन् तक्ष्णः । स्रुक्स्रुवचमसग्रहयूपादिनिर्मातृ़न् । खनकान् वापीकूपादिकृतः, गणकान् लेखकान्, शिल्पिनः चित्रादिकरान्, नटाः रसाभिनयकृतः, नर्तकाः भावाभिनयकृतः, शास्त्रविदः प्रयोगशास्त्रविदः ॥ १।१३।७ ॥

यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ।

इष्टका बहुसाहस्रीः शीघ्रमानीयतामिति ॥ १।१३।८ ॥

अथाज्ञापनप्रकारमाह अष्टभिः यज्ञकर्मेत्यादि । ऋत्विजः प्रत्याह यज्ञकर्मेति । समीहन्तां व्याप्रियन्ताम् । शिल्पकरान् प्रत्याह इष्टकेति । जात्येकवचनम् । इत्यब्रवीदिति पूर्वेणान्वयः ॥ १।१३।८ ॥

औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः ।

ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः ॥ १।१३।९ ॥

औपकार्या इति, सप्तश्लोक एकान्वयः । औपकार्या राजसदनानि । “स्वार्थे ष्यङ्” “राजसदनमुपकार्योपकारिका” इत्यमरः । बहुगुणान्तिताः औन्नत्यविशालत्वादिबहुगुणान्विताः ब्राह्मणावसथा इति आर्षो लिङ्गव्यत्ययः ॥ १।१३।९ ॥

भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ।

तथा पौरजनस्यापि कर्त्तव्या बहुविस्तराः ॥ १।१३।१० ॥

कठिनफलादि भक्ष्यम् । सुनिष्ठिताः वातवर्षादिभिरप्रकम्प्याः ॥ १।१३।१० ॥

आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः ।

तथा जानपदस्यापि जनस्य बहु शोभनम् ॥ १।१३।११ ॥

सर्वकामैः स्रक्चन्दनादिभिः उपस्थिताः संयुक्ताः बहु अधिकं विधिवत् यथा विधि सत्कृत्य गन्धादिभिरभ्यर्च्य ॥ १।१३।११ ॥

दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलता ।

सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥ १।१३।१२ ॥

लीलया अनादरेणेत्यर्थः । यथा पूजां प्राप्नुवन्ति तथा कर्तव्यमित्यर्थः ॥ १।१३।१२ ॥

न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि ।

यज्ञकर्मणि ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥ १।१३।१३ ॥

कामक्रोधवशात् स्नेहद्वेष वशात् । अपिशब्देन लीला समुच्चीयते ॥ १।१३।१३ ॥

तेषामपि विशेषेण पूजा कार्या यथाक्रमम् ।

ते च स्युः सम्भृताः सर्वे वसुभिर्भोजनेन च ॥ १।१३।१४ ॥

विशेषेण अत्यादरेणेत्यर्थः । यथाक्रमं यथावृद्धम् । ते चेत्यत्र चशब्दो भिन्नक्रमः । ते भोजनेन वसुभिः धनैश्च सम्भृतास्तृप्ताश्च स्युः ॥ १।१३।१४ ॥

यथा सर्वं सुविहितं न किञ्चित् परिहीयते ।

तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा ॥ १।१३।१५ ॥

सर्वमपि यथा सुविहितं सुष्ठु अनुष्ठितं स्यात् किञ्चिदपि न परिहीयते न त्यक्ष्यते प्रीतिस्निग्धेन स्नेहार्द्रेण ॥ १।१३।१५ ॥

ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् ।

यथोक्तं तत्सुविहितं न किञ्चित् परिहीयते ॥ १।१३।१६ ॥

यथोक्तं तत्करिष्यामो न किञ्चित् परिहीयते ।

ततः सुमन्त्रमानीय वसिष्ठो वाक्यमब्रवीत् ॥ १।१३।१७ ॥

यथोक्तप्रवृत्तिं दर्शयति तत इति । तत् पूर्वोक्तकार्यजातम् । एवमुपकरणनिष्पत्त्यनन्तरं राजाह्वानमाज्ञापयति तत इत्यादिना ॥ १।१३।१६,१७ ॥

निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः ॥ १।१३।१८ ॥

निमन्त्रयस्व आह्वय ॥ १।१३।१८ ॥

ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्चैव सहस्रशः ।

समानयस्व सत्कृत्य सर्वदेशेषु मानवान् ॥ १।१३।१९ ॥

ब्राह्मणानिति । सर्वदेशेषु स्थितानिति शेषः ॥ १।१३।१९ ॥

मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम् ।

निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम् ॥ १।१३।२० ॥

तमानय महाभागं स्वयमेव सुसत्कृतम् ।

पूर्वसम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥ १।१३।२१ ॥

मिथिलेति श्लोकद्वयमेकं वाक्यम् । तं प्रसिद्धं स्वयमेव, न तु दूतमुखेन । पूर्वसम्बन्धिनं चिरन्तनसुहृदं ततः पूर्वोक्तेभ्यो नृपतिभ्यः ॥ १।१३।२०,२१ ॥

तथा काशीपतिं स्निग्धं सततं प्रियवादिनम् ।

वयस्यं राजसिंहस्य स्वयमेवानयस्व ह ॥ १।१३।२२ ॥

तथेति । स्वयमेव गमने हेतवो विशेषणानि ॥ १।१३।२२ ॥

तथा केकयराजानं वृद्धं परमधार्मिकम् ।

श्वशुरं राजसिंहस्य सपुत्रं त्वमिहानय ॥ १।१३।२३ ॥

तथेति । केकयराजानमिति समासान्तविधेरनित्यत्वाट्टजभावः ॥ १।१३।२३ ॥

अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम् ।

वयस्यं राजसिंहस्य समानय यशस्विनम् ॥ १।१३।२४ ॥

अङ्गेति । समानय, त्वमेवेति शेषः ॥ १।१३।२४ ॥

प्राचीनान् सिन्धुसौवीरान् सौराष्ट्रेयांश्च पार्थिवान् ।

दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह ॥ १।१३।२५ ॥

प्राचीनानिति । प्राचीनान् प्राग्देशवर्तिनः । सिन्धुदेशे सौवीरदेशे च भवाः सिन्धुसौवीराः । सौराष्ट्रेयान् सुराष्ट्रदेशभवान् । दाक्षिणात्यान् दक्षिणदेशभवान् । आनयस्व, दूतमुखेनेति शेषः ॥ १।१३।२५ ॥

सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ।

तानानय यथाक्षिप्रं सानुगान् सह बान्धवान् ॥ १।१३।२६ ॥

सन्तीति । यथाक्षिप्रं शैघ्र्यमनतिक्रम्य ॥ १।१३।२६ ॥

वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा ।

व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान् ॥ १।१३।२७ ॥

वसिष्ठेति । शुभान् अन्तरङ्गान् ॥ १।१३।२७ ॥

स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात् ।

सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः ॥ १।१३।२८ ॥

स्वयमिति । महीक्षितः वसिष्ठेन विशिष्योक्तान् ॥ १।१३।२८ ॥

ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते ।

सर्वं निवेदयन्तिस्म यज्ञे यदुपकल्पितम् ।

ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् पुनरब्रवीत् ॥ १।१३।२९ ॥

ते चेति । उपलक्षणमेतत् । शिल्पकरादीनां यज्ञे यज्ञनिमित्तं यदुपकल्पितं निर्मितं तत्सर्वं निवेदयन्ति स्म । अवश्यं शिक्षणीयांशं पुनः शिक्षयति ततः प्रीत इति । अर्धमेकान्वयम् ॥ १।१३।२९ ॥

अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ।

अवज्ञया कृतं हन्याद्दातारं नात्र संशयः ॥ १।१३।३० ॥

अवज्ञयेति । लीलया विनोदेन ॥ १।१३।३० ॥

ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ।

बहूनि रत्नान्यादाय राज्ञो दशरथस्य हि ॥ १।१३।३१ ॥

तत इति । ततः दशरथनिर्गमनानन्तरम् रत्नानि श्रेष्ठवस्तूनि मणिमुक्ताप्रवालवस्त्राभरणचन्दनादीनि ॥ १।१३।३१ ॥

ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ।

उपयाता नरव्याघ्र राजानस्तव शासनात् ॥ १।१३।३२ ॥

तत इति । स्पष्टम् ॥ १।१३।३२ ॥

मया च सत्कृताः सर्वे यथार्हं राजसत्तमाः ।

यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः ॥ १।१३।३३ ॥

मयेति । यज्ञमर्हति इति यज्ञियम् । “यज्ञर्त्विग्भ्यां घखञौ” इति घः । यज्ञाय यत्सम्पाद्यं तत्सर्वं सम्पादितमित्यर्थः ॥ १।१३।३३ ॥

निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ।

सर्वकामैरुपहृतै रुपेतं वै समन्ततः ॥ १।१३।३४ ॥

निर्यात्विति । अन्तिकात्समीपे । “दूरान्तिकार्थेभ्यो द्वितीया च” इति चकारेण पञ्चमी । समीपे उपहृतैः सर्वकामैः सर्वोपकरणैः उपेतम् ॥ १।१३।३४ ॥

द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥ १।१३।३५ ॥

द्रष्टुमित्यर्धमेकान्वयम् । मनसेवेति क्षिप्रसिद्धत्वे दृष्टान्तः ॥ १।१३।३५ ॥

तथा वसिष्ठवचनादृश्यशृङ्गस्य चोभयोः ।

शुभे दिवसनक्षत्रे निर्यातो जगतीपतिः ॥ १।१३।३६ ॥

तथेति । वसिष्ठेत्यविभक्तिको निर्देशः । वसिष्ठस्य ऋश्यशृङ्गस्य चोभयोरित्यर्थः । ऋश्यशृङ्गस्य ब्रह्मत्वेन वृतत्वात् तद्वचनमप्यपेक्षितम् । शुभे दिवसे सोमसौम्यवारादौ, शुभे नक्षत्रे रोहिण्यादौ, निर्यातः, गृहात् यज्ञशालां प्रति इत्यर्थसिद्धम् । अत्राहुः “शङ्खदुन्दुभिमृदङ्गवादनैर्मङ्गलैः पटहकाहलादिभिः । स्वस्तिवादमुखरैर्मखक्षितिं ब्राह्मणैश्च सह सम्प्रपद्यते ॥ " इति ॥ १।१३।३६ ॥

ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः ।

ऋश्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ।

यज्ञवाटगताः सर्वे यथाशास्त्रं यथाविधि ॥ १।१३।३७ ॥

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥ १३ ॥

तत इति सार्द्धश्लोकः । आरभन्निति छान्दसः । यज्ञवाटगताः सर्वे यजमानर्त्विगादयः, यथाविधि यथाक्रमं यथाशास्त्रं सर्वे यज्ञकर्मारभन् स्वस्वकर्मारभन्तेत्यर्थः ॥ १।१३।३७ ॥

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्ख्याने त्रयोदशः सर्गः ॥ १३ ॥