०२९ सीतया शुभशकुनानुभवः

निमित्ताकारं दर्शयितुमाह तथेति । तथा तेन प्रकारेण गतां शाखां प्राप्तां व्यथिताम् अत एव व्यतीतहर्षां निवृत्तानन्दाम् अत एव परिदीनमानसाम् अनिन्दितां शुभां तां सीतां शुभानि निमित्तानि श्रिया जुष्टं नरमुपसेविन इव भेजिरे सिषेविरे ॥ ५।२९।१ ॥

तस्या इति । अरालया कुटिलया पक्षमराज्या पक्ष्मणः पङ्क्त्या वृतं युक्तं कृष्णविशालशुक्लं कृष्णत्वादिविशिष्टं तत्र कृष्णत्वं कनीनिकावच्छेदेन शुक्लत्वं तु सर्वदेशावच्छेदेन बोध्यम् । शुभं शुभलक्षणविशिष्टम् अभिताम्रं रक्तप्रान्तदेशं तस्याः वाममेकं नयनं मीनाहतं मत्स्यैः चालितं पद्ममिव प्रास्पन्दत ॥ ५।२९।२ ॥

भुज इति । चार्वञ्चितवृत्तपीनः चारुत्वादिविशिष्टः परार्ध्ययोः अत्युत्तमयोः कालागरुचन्दनयोः अर्हः योग्यः अनुत्तमेन अतिश्रेष्ठेन प्रियेण चिरं बहुकालम् अध्युषितः संस्पृष्टः वामो भुजः आशु समवेपत प्रास्फुरत ॥ ५।२९।३ ॥

गजेन्द्रेति । गजेन्द्रहस्तप्रतिमः शुण्डादण्डसदृशः अत एव पीनः सुजातः अतिसुन्दरः संहतयोः द्वयोः तयोरूर्वोर्मध्ये वाम इति शेषः, प्रस्पन्दमानः अस्याः सीतायाः ऊरुः पुरस्तात्स्थितं रामम् आचचक्षे ॥ ५।२९।४ ॥

शुभमिति । अमलाक्ष्याः निर्मलनेत्रायाः शिखराग्रवत् दाडिमबीजाग्रभागवत् दन्ता यस्याः चारु गात्रं यस्यास्तस्याः स्थितायाः सीतायाः शुभं मङ्गलप्रदं हेमसमानवर्णम् ईषत् किंचित् रजसा ध्वस्तमिव वासो वस्त्रं शुभं शुभसूचकं यथा भवति तथा किंचित् परिसंस्रत पर्यसंस्रत् ॥ ५।२९।५ ॥

एतैरिति । प्राक् मिथिलास्थितिसमये ऽपि साधुसिद्धैः सम्यगनुभूतैः

एतैरुक्तैरपरैश्च निमित्तैः संचोदिता त्वत्कार्यमिद्धिर्जातेति बोधिता सुभ्रूः सीता वातातपक्लान्तमत एव प्रनष्टं वर्षेण चोदितं बीजमिव प्रतिसंजहर्ष ॥ ५।२९।६ ॥

तस्या इति । बिम्बफलोपमौ औष्ठौ यस्मिन् शोभने अक्षिणी भ्रुवौ च यस्मिन् केशानामन्तः अलको यस्मिन् अरालानि वक्राणि पक्ष्माणि यस्मिन् सिताः स्वच्छाः शुक्लदंष्ट्रा यस्मिंत्तत् तस्या वक्रं राहोर्मुखात् प्रमुक्तः चन्द्र इव बभासे ॥ ५।२९।७ ॥

सेति । वीतो व्यतीतः शोको यस्याः व्यपनीता गता तन्द्रा यस्याः शान्तो ज्वरो मनस्तापो यस्याः हर्षेण विबुद्धं प्रकाशितं सत्त्वं चित्तं यस्याः सा आर्या सीता शुक्ले सितपक्षे शीतांशुना चन्द्रेण रात्रिरिव वदनेनाशोभत ॥ ५।२९।८ ॥

इति श्रीमद्वाल्मीकीयरामायणव्याख्याने रामायणशिरोमणौ सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥ ५।२९ ॥